भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

[शीर्षक/Header] खं. ६ अ. ६ | पान १


॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत त्वया महाप्राज्ञ कथितं परमाद्भुतम् । लंबोदरस्य माहात्म्यं तेनाऽहं तृप्तिमागतः ॥१॥ अहो गणेशमाहात्म्यं सर्वसंतोषकारकम् । श्रवणेनैव साक्षात्तु ब्रह्मसायुज्यदायकम् ॥२॥ अधुना वद माहात्म्यं विकटस्य विशेषवित् । सर्वसिद्धिप्रदं पूर्णं सूत योगामृतं परम् ॥३॥ अन्यन् मुद्गलविप्रेण दक्षाय कथितं पुरा । पृष्टं दक्षेण किं तात वद तन्मे प्रविस्तरात् ॥४॥ तव संगेन संतुष्टा वयं सर्वे विशेषतः । भवामः कृतकृत्याश्च कथाश्रवणमात्रतः ॥५॥ सूत उवाच । सम्यक् पृष्टं त्वया विप्र भार्गवाणां शिरोमणे । सारग्राही न संदेहः शौनक त्वं विशेषतः ॥६॥ भवतां प्रीतकामार्थं वदिष्यामि विशेषतः । चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् ॥७॥ न गणेशात् परं किंचिद् विद्यते वेदवादतः । अल्पपुण्य- युतानां तु न प्रीतिस्तत्र वर्धते ॥८॥ पुरा पृष्टो महायोगी योगं दक्षेण वीप्सता । तदेवाऽहं वदिष्यामि शृणुत ब्राह्मणाः परम् ॥९॥ दक्ष उवाच । धन्यं मे जन्मकर्मादि येन ते दर्शनं प्रभो । प्राप्तं पुण्यवशेनैव परं मुद्गलयोगदम् ॥१०॥ अधुना वद माहात्म्यं विकटस्य विचक्षण । श्रुत्वा लंबोदरस्यैव तृष्णा मे वर्धते मुने ॥११॥ कीदृशोऽयं गणाध्यक्षः कीदृशं ब्रह्म तस्य वै । केन योगेन लभ्यश्च कति तस्यावताराकाः ॥१२॥ किं विहारः किमर्थं स भूमौ देवः समागतः । कान् दैत्यान् हतवान् विप्र कथं देवैश्च संस्तुतः ॥१३॥ इत्यादि विविधं तस्य चेष्टितं वद मानद । भवादृशा महाभागाः परोपकृतिकारकाः ॥१४॥ संसाराब्धौ निमग्नानां नौकारूपा मता बुधैः । भवन्तो नात्र संदेहस्तारयस्वाधुना च माम् ॥१५॥ सूत उवाच । दक्षस्य विनयेनैवं भावेन तोषसंयुतः । मुद्गलस्तमथोवाच परं तच्छृणु सौख्यदम् ॥१६॥ मुद्गल उवाच । धन्योऽसि दक्ष येन त्वं गणनाथकथां मुहुः । प्रश्नेन भक्तिसंयुक्तो वर्धयसि सुसारवित् ॥१७॥ साक्षाद्ब्रह्मसुतस्तत्र चित्रं किं भवति त्वयि । भावेन ते प्रसन्नोऽहं वदिष्यामि हितावहम् ॥१८॥ विकटस्य च माहात्म्यं ब्रह्मभूतकरं परम् । सर्वसिद्धिप्रदं तुभ्यं कथयामि समासतः ॥१९॥ अत्रेतिहासं मुख्यं वै विधे शृणु पुरा भवम् । कथयामि विचित्रं ते विकटाख्यानसंयुक्तम् ॥२०॥ आदिमाया महाशक्तिः शक्तिलोके निरामये । संस्थिता सेव्यमाना सा देवीभिः सेश्वरात्मभिः ॥२१॥ एकदा पूजने सक्तां नियमस्थां विशेषतः । गणेशानस्य तां दृष्ट्वा पप्रच्छुः शक्तयः पराः ॥२२॥ महाकाली प्रजानाथ महालक्ष्मीस्तथैव च । महासरस्वती देव्योऽन्याश्च नानाविधा मताः ॥२३॥ महाकालीमहालक्ष्मीमहासरस्वतय ऊचुः । त्वं साक्षात् सर्वरूपाऽसि जगद्ब्रह्मप्रकाशिनी । त्वदीयध्यानयोगेन ब्रह्मभूता भवंति च ॥२४॥ धर्मार्थकाममोक्षाणां दात्री त्वं कथिता बुधैः । वेदेषु सर्वशक्तीनां मूलभूता त्वमंजसा ॥२५॥

खं. ६ अ. १ पान २

ब्रह्मविष्णुशिवाद्याश्च त्वदनुष्ठानतः सति । ईश्वराः सर्वकार्येषु समर्थाः प्रबभूविरे ॥२६॥ कर्मणां फलदात्री त्वं तपसां ज्ञान- धारिणाम् । त्वत्तः परतरं नास्ति वेदशास्त्रप्रमाणतः ॥२७॥ त्वं नित्यं नियमे संस्था गणेशं मूर्तिगं परम् । ध्यानयुक्ता पूजयसि तं ध्यायसि किमर्थतः ॥२८॥ सदा नामावलिं तस्य वदसि जगदंबिके । अमार्थं सर्वजंतूनां गुह्यगोपनकारणात् ॥२९॥ सर्व- सत्ताधरी देवी त्वमेवात्र न संशयः । अस्मान् मोहयुतान् शक्ते किमर्थं कुरुषे वद ॥३०॥ लज्जां त्यक्त्वा त्वदीयाश्चाधुना पृच्छामहे वयम् । नित्यं दृष्ट्वा प्रसक्षुब्धा भवामः परमाद्भुते ॥३१॥ दास्यस्त्वदीयपादस्य नान्यत्त्वत्तः परं कदा । वेदमार्गेण सर्वेशि जानीमो वद सांप्रतम् ॥३२॥ मुद्गल उवाच । तिसृभिः शक्तिमुख्याभिः पृष्टा सा शक्तिरुत्तमा । स्नेहेन ता जगादाथ रहस्यं शृणु मुख्यकम् ॥३३॥ आदिशक्तिरुवाच । शृणुध्वं शक्तयः सर्वा रहस्यं मे हृदि स्थितम् । सर्वसिद्धिप्रदं पूर्णं त्रययाद्याः परमाद्भुतम् ॥३४॥ यथावदथ कल्याण्यस्तथाऽहं सर्वगा यतः । गणेशस्यांशरूपत्वादङ्गभावसमाश्रिता ॥३५॥ पुरा वयं समुत्पन्ना- श्चत्वारो देवमुख्यकाः । शंभुर्विष्णुरविर्देवो गणेशानादहं किल ॥३६॥ नामरूपात्मकं सर्वं मत्तो ब्रह्म भवात्मकम् । तत्राऽहं ब्रह्मभूतत्वात् संस्थिता नात्र संशयः ॥३७॥ नामरूपात्मकस्यापि नाशोत्पत्ती प्रकीर्तिते । तत्र स्थितमतो ब्रह्माऽसत्त्वानंदमयं मतम् ॥३८॥ उत्पत्तिनाशभूतेषु तदाधारं सदात्मकम् । सूर्यस्तदेव देव्यस्तु ब्रह्म सत्यात्मकं परम् ॥३९॥ असत्सन्मयरूपश्च विष्णुः साम्ये व्यवस्थितः । नेतिरूपः शिवस्तत्र चतुर्थः कथ्यते परः ॥४०॥ चतुर्णां चैव संयोगे स्वानंदः पंचमः स्मृतः । स्वसंवेद्येन योगेन लभ्यते योगसेवया ॥४१॥ अयोगः पंचभिर्हीनो व्यतिरेकप्रभावतः । संयोगाऽयोगयोर्योगे गाणेशो योग उच्यते ॥४२॥ पंचधा चित्तवृत्तीनां चालकस्तेन कथ्यते । चिंतामणिः सदा देव्यः पश्यध्वं योगमार्गतः ॥४३॥ मायारूपा स्वयं सिद्धिर्भ्रांतिदा विविधा सदा । भ्रांतिधारकरूपा सा बुद्धिः शास्त्रेषु कथ्यते ॥४४॥ तयोः स्वामी गणेशानः स्वानंदनगरे स्थितः । योगशांतिमयः साक्षाल्लक्षलाभपिता हृदि ॥४५॥ संयोगश्च गकाराख्यो ह्ययोगश्च णकारकः । तयोः स्वामी गणाधीशो वयं तस्य कलात्मिकाः ॥४६॥ अतस्तं भक्तिसंयुक्ता भजाम्यत्र न संशयः । न मोहार्थं महादेव्यो गुह्यं गोपयितुं च न ॥४७॥ एतत् सर्वं समाख्यातं मदीयनियमात्मकम् । चित्ते चिंतामणिं देव्यो ध्यायामि भक्तिसंयुता ॥४८॥ काममोहितचित्तानां न प्रत्यक्षो गजाननः । भवते भावहीनानां भजतामपि सर्वदा ॥४९॥ अज्ञानावरणैर्युक्ता मां वदंति परात्पराम् । गणास्तस्य वयं सर्वे शंभुविष्णुमुखाः किल ॥५०॥ गजो निर्गुणरूपाख्यस्तदेवाननमुच्यते । कंठाधः सगुणं

खं. ६ अ. २ पान ३ ब्रह्म तयोर्योगे स देहभृत् ॥५१॥ इत्युक्त्वा विररामाथ शक्तिः स्वानंदवासिनी । असत्पात्री प्रजानाथ विस्मितास्ता बभूविरे ॥५२॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते शक्तिध्यानवर्णनं नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः॥ मुद्गल उवाच। महाकालीमुखा देव्यः श्रुत्वा योगं पुरातनम् । विस्मितास्ताः पुनः सर्वा वच ऊचुः प्रहर्षिताः ॥१॥ शक्तय ऊचुः। महामाये त्वया प्रोक्तं सर्वसंशयनाशनम् । श्रुत्वा वयं गणेशस्य योगं ज्ञानयुताः कृताः ॥२॥ काममोहितचित्तानां न प्रत्यक्षो भवेत् कदा । गणेशानस्त्वया प्रोक्तो जन्मकोटिशतैरपि ॥३॥ गणेशप्राप्तिहीना ये जंतवश्चेश्वरास्तथा। जन्म तेषां विशेषेण निष्फलं संमतं बुधैः ॥४॥ अहो ज्ञानयुतं देहं प्राप्य सर्वार्थदायकम् । सर्वदं गणनांथं ये न भजंतेऽतिगूढकाः ॥५॥ रासभादिसमा देवि ज्ञातव्या ज्ञानवर्जिताः । कामयुक्तस्वभावेन त्यजंति गणनायकम् ॥६॥ कामस्य चरितं शक्ते वद विस्तरतः परम् । कामनाशकरं चापि येन ढुंढिः प्रलभ्यते ॥७॥ त्वमस्माकं परा काष्ठा गुरुरूपेण संस्थिता। देहि विघ्नेश्वरं मातर्भजिष्यामोऽखिलाः प्रभुम् ॥८॥ आदिशक्तिरुवाच। गणनाथावतारस्य तस्योपासनमात्रतः। विकटस्य स्वयं कामः खलो नश्यति तत्क्षणात् ॥९॥ अत्र वोऽहं पुरा जातमितिहासं वदामि हि । येन कामव्यथाहीना भविष्यंति जनाः सदा ॥१०॥ कैलासे गिरिवर्ये तु शंकरः स्वेच्छयैकदा । पार्वतीमोहनार्थाय भीमरूपधरोऽभवत् ॥११॥ अदृष्ट्वा शंकरं साऽपि शोकयुक्ता बभूव ह । एतस्मिन्नंतरे तत्रेंद्रस्तं द्रष्टुं समाययौ ॥१२॥ मघवोऽग्रस्वरूपास्यं दृष्ट्वा कैलासनायकम्। राक्षसं तं विदित्वा स क्रोधयुक्तो बभूव ह ॥१३॥ वज्रं तत्याज तं हंतुं महेंद्रः सहसा परम् । शिवदेहं समासाद्य निष्फलं तद्वभूव ह ॥१४॥ ततः क्रोधसमायुक्तः शंकरोऽग्निं समासृजत् । तृतीयं नेत्रमुद्घाट्य दग्धुं देवपतिं स्वयम् ॥१५॥ सहसाऽग्निं स दृष्ट्वा तु तं सस्मार बृहस्पतिम् । स ज्ञात्वा तत्क्षणं गत्वा प्रणनाम महेश्वरम् ॥१६॥ प्रसाद्य गिरिजानाथमिंद्रं भयसमाकुलम् । अग्निना त्यक्तमानम्यं तत्पादस्थं चकार ह ॥१७॥ इंद्रस्तं

विविधैः स्तोत्रैः प्रभुं स्तुत्वा क्षमापयत् । अज्ञानजं महेशानोऽपराधं तस्य चाक्षमत् ॥१८॥ ततः शिवं समागत्याग्निस्तदंश- समुद्भवः । प्रणम्य प्रत्युवाचेदं किं करोमि महेश्वर ॥१९॥ त्वदाज्ञया महादेव त्यक्त्वा देवपतिं खलम् । समागतं महेशान कार्यमाज्ञापयोत्तमम् ॥२०॥ निःसृतोऽहं त्वदंशाद्वै न भविष्यामि निष्फलः । सर्वं ब्रह्मांडमथ वा ग्रसिष्यामि त्वदाज्ञया ॥२१॥ अग्नेस्तद्वचनं श्रुत्वा शंकरस्तमुवाच ह । पतस्व त्वं समुद्रे वै मत्पुत्रो राक्षसाकृतिः ॥२२॥ सर्वैरवध्यभावेन भविष्यसि महाबलः । त्रैलोक्याधिपतिर्भूत्वा धर्मलोपं करिष्यसि ॥२३॥ वृंदा धर्मध्वजस्यैव पत्नी तव भविष्यति । पुत्री सती गणेशेन शप्ता चापत्यदर्शनात् ॥२४॥ तां पातिव्रत्यहीनां वै करिष्यति जनार्दनः । तदा मच्चक्रपातेन मरिष्यसि न संशयः ॥२५॥ ततो मद्देहगो भूत्वा मद्रूपस्त्वं भविष्यसि । राक्षसाकृतिरूपाद्वै जातस्तस्मात्तथा भव ॥२६॥ एवमुक्त्वा महादेवस्तं प्रचिक्षेप शक्तयः । जलधौ तत्र घोषश्च बभूव भयदायकः ॥२७॥ ततस्तत्र समुद्भूतो बालकस्तेजसा युतः । तद्बीजाद्ब्रह्मणाऽऽगत्य कृतो नाम्ना जलंधरः ॥२८॥ तस्य मौंज्यादिकं कर्म चकार जलधिः स्वयम् । कालनेम्यादयो दैत्या बभूवुस्तस्य पार्श्वगाः ॥२९॥ शिवस्य वरदानेन जिग्ये ब्रह्मांडमंडलम् । जलंधरस्ततो देवा वनवासं प्रचक्रिरे ॥३०॥ वने तपःस्थितां वृंदां दानवोऽपि ददर्श सः । उपयेमे कदा तां च गांधर्वेणैव शक्तयः ॥३१॥ तया रेमे सदा दैत्यो मोहितो मायया भृशम् । न बुबोध गतं कालं साऽपि तद्गतमानसा ॥३२॥ ततः कर्मविहीनं तु चकार स धरातलम् । उपोषणेन संयुक्ता देवादयो बभूविरे ॥३३॥ कदाचिन्नारदस्तत्र जगामासुरनायकम् । तेन संपूजितो योगी तं जगाद जलंधरम् ॥३४॥ नारद उवाच । धन्योऽसि जलधेः पुत्र सर्वरत्नविलासकृत् । तथापि शृणु दैत्येश स्त्रीरत्नं नास्ति ते गृहे ॥३५॥ पार्वत्या न समं कुत्र वर्तते सा विशेषतः । रत्नभूता न संदेहः शंकरेणानुभाविता ॥३६॥ एवमुक्त्वा महायोगी नारदोऽन्तर्दधे स्वयम् । सोऽपि श्रुत्वा विशेषेण कामबाणार्दितोऽभवत् ॥३७॥ दूतः संप्रेषितस्तेन शंकरं स समागतः । जगाद तं निशुंभश्च महादेवं महाखलः ॥३८॥ निशुंभ उवाच । शिवस्त्वं नग्नताचैश्च चिह्नैर्युक्तो न ते प्रभो । पार्वती रत्नभूता सा योग्या भवति सर्वदा ॥३९॥ ब्रह्मांडाधिपतिः साक्षात् सर्वश्रिया युतोऽधुना । जलंधरश्च तस्मै त्वं देहि शैलसुतां प्रभो ॥४०॥ प्रतापवान् क्रोधसमायुक्तो नो चेत् जलंधरः । हत्वा त्वां तां बलात् सोऽपि ग्रहीष्यति न संशयः ॥४१॥ वचस्तस्य समाकर्ण्य क्रोधयुक्तः सदाशिवः । शूलं धृत्वा निशुंभं तं हंतुं देवः प्रचक्रमे ॥४२॥ ततो भयसमायुक्तो माययाऽसुरनायकः । पपालाऽऽगत्य वृत्तांतं

खं. ६ अ. २ पान ५ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ कथयामास संसदि ॥४३॥ निशुंभभाषितं श्रुत्वा ततः क्रोधसमायुतः । जलंधरो ययौ तेन युद्धार्थं सैन्यसंयुतः ॥४४॥ तमागतं समालोक्य महादेवः प्रतापवान् । विष्णुमुख्यैः स युद्धाय ययौ दैत्याधिपेन च ॥४५॥ देवानां दानवानां च युद्धं परमदारुणम् । अभूद्वर्णयितुं देव्यः शक्यते न कदाचन ॥४६॥ वर्षमात्रं महाघोरं ततो दैत्यो महेश्वरम् । मायया मोह्य संगृह्य तं चिक्षेप गुहांतरे ॥४७॥ कालनेमिमुखांस्तत्रास्थाप्य संग्राममंडले । जगाम पार्वतीं दैत्यो मायया शंकराकृतिः ॥४८॥ तमागतं समालोक्य ज्ञानदृष्ट्या महासती । बुबोध विह्वलांगं चांतर्धानमकरोत् स्वयम् ॥४९॥ सा सस्मार महाविष्णुं गत्वा हिमगिरिं तदा । समागतं विलोक्यैव वृत्तांतं सर्वमब्रवीत् ॥५०॥ श्रुत्वा तां सांत्वयामास केशवः परवीरहा । जलंधरस्वरूपेण वृंदां मोहयितुं ययौ ॥५१॥ जलंधराकृतिस्थं तं दृष्ट्वा विष्णुं बुबोध सा । शशाप त्वं महाविष्णो भव शैलाकृतेर्धरः ॥५२॥ ततोऽतिभयसंयुक्तो विष्णुः शापसमन्वितः । सिद्धक्षेत्रे समागम्य पूजयामास विघ्नपम् ॥५३॥ गुहायां शंकरश्चैव सावधानो बभूव ह । ध्यानेनैव महोग्रेण तोषयामास विघ्नपम् ॥५४॥ वरदानप्रसिद्ध्यर्थमाययौ तं गणेश्वरः । तं दृष्ट्वा शंकरश्चादौ प्रणतो भक्तिसंयुतः ॥५५॥ तुष्टाव विविधैः स्तोत्रैर्गणेशं सर्वसिद्धिदम् । कथयामास वृत्तांतं प्रणम्य करसंपुटैः ॥५६॥ ततः स्वहस्तगं ढुंढिर्ददौ तस्मै महात्मने । चक्रं सुदर्शनं नाम्ना तं जगाद सदाशिवम् ॥५७॥ मां स्मृत्वा युद्धकाले तं चक्रेण जहि दानवम् । रक्ष सर्वान् महादेव विजयी प्रभविष्यसि ॥५८॥ एवमुक्त्वा गणेशानोऽंतर्दधे शंकरस्ततः । चक्रं गृह्य गुहायाः स निर्जगाम बहिः स्वयम् ॥५९॥ दंडकारण्यदेशे तु विष्णुर्विघ्नेश्वरं गतः । तस्मै प्रत्यक्ष- भावेन वरं ददौ गणेश्वरः ॥६०॥ श्रीगणेश उवाच । मा चिंतां कुरु विष्णो त्वं मामस्मृत्वा गतः पुरा । तेन शापयुतो जातोऽधुना शरणमागतः ॥६१॥ अत्रैव तपसा तेऽहं वरदश्च पुराऽभवम् । तेन ते वै सहाम्यद्यापराधं माधवाधुना ॥६२॥ कलया त्वं शिलासंस्थो भविष्यसि न संशयः । पूर्णरूपेण देवेशः स्वस्याकृतिधरो भव ॥६३॥ नरास्त्वां पूजयिष्यंति शिलारूपधरं प्रभुम् । तत्र देवस्वरूपेण तिष्ठस्यत्र न संशयः ॥६४॥ पुनर्मां हृदि संध्याय जलंधरस्वरूपधृक् । वृंदां गच्छ महाविष्णो सा तेऽधीना भविष्यति ॥६५॥ एवमुक्त्वा गणेशानोऽंतर्दधे भक्तवत्सलः । विष्णुर्जलंधरो भूत्वा ययौ वृंदां तु शक्तयः ॥६६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते शिवविष्णोर्वरप्रदानं नाम द्वितीयोऽध्यायः ॥ ❧★☙

पान ६

॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । जलंधरस्वरूपेण आगतं तं जनार्दनम् । नानावीरसमायुक्तं तादृशैः सेवकैर्वृतम् ॥१॥ नागरा मानयामासुरन्ये सर्वे सुहृज्जनाः । जित्वा महेश्वरं देवं तं समागतमब्रुवन् ॥२॥ ततो गणेशमायाभिर्मोहिता तं समीपगा । वृंदा हर्षसमायुक्ता पुपूज परमेश्वरम् ॥३॥ मोहितः केशवो देव्यस्तां दृष्ट्वा गुणसंयुताम् । रूपेणाप्रतिमां पूर्णयौवनेन विराजिताम् ॥४॥ एकांते स तया सार्धं रेमे नारायणः स्वयम् । साऽपि स्नेहसमायुक्ता रेमे तेन सुविह्वला ॥५॥ अधुना शंकरस्यैव वृत्तांतं कथयाम्यहम् । शृणुध्वं शक्तयः सर्वा गणेशमायया युतम् ॥६॥ शंकरः क्रोधसंयुक्तो युयुधे तेन वैरिणा । चक्रेण छेदयामास दैत्यानां बलमुत्कटम् ॥७॥ जलंधरः स्वयं तेन युयुधे मायया युतः । राक्षस्या देवता दैत्या युयुधुश्च परस्परम् ॥८॥ वृंदया सह विष्णुश्च रेमे तत्र मुदा युतः । जलंधरः स चक्रेण तस्मिन् काले हतोऽभवत् ॥९॥ ततस्ते देवविप्रेंद्रास्तुष्टुवुः शंकरं परम् । तैः सार्धमगमत् सोऽपि कैलासं पर्वतेश्वरम् ॥१०॥ ततश्च धर्मसंयुक्ता बभूवु- र्मानवा ध्रुवम् । विश्वमानंदसंयुक्तं बभूव स्वस्वकर्मतः ॥११॥ नित्यं विष्णुस्तया सार्धं क्रीडायुक्तो बभूव ह । समागतास्तत्र दैत्याः शशंसुश्चेष्टितं महत् ॥१२॥ प्रतापवान् शंकरेण हतो दैत्यो जलंधरः । तच्छ्रुत्वा विस्मिताः सर्वे कोऽयं क्रीडति वृंदया ॥१३॥ ततोऽंतर्धाय चात्मानं स्वयं विष्णुः समास्थितः । वृंदा देहं समाज्वाल्य ययौ स्वर्गमनुत्तमम् ॥१४॥ तां दृष्ट्वा मोहसंयुक्तो विष्णुस्तत्र रुरोद ह । स्मृत्वा वृंदाचरित्राणि मोहितो मायया भृशम् ॥१५॥ वृंदाचितां समाश्रित्य विललाप जनार्दनः । दैत्याः पातालगाः सर्वे बभूवुर्भयसंयुताः ॥१६॥ देवैः संबोधितो विष्णुर्मुनिभिर्न बुबोध सः । रुरोद काम- बाणार्तस्तां स्मृत्वा दारुणं महत् ॥१७॥ ततस्तस्य महाविष्णोः कामबाणार्दितस्य च । वीर्यं पपात भूपृष्ठेऽमोघं तेजोयुतं बभौ ॥१८॥ तस्माच्च पुरुषो जज्ञे कामरूपातिगो बभौ । विचचार महीपृष्ठे विष्णुस्तत्र समास्थितः ॥१९॥ ततो देवैश्च सा वृंदा प्रार्थिता मुनिभिर्भृशम् । विष्णोः पत्नी भवाशु त्वं तपसाऽऽराधितस्य ते ॥२०॥ सा तथेति समुच्चार्य वृक्षरूपा बभूव ह । विष्णुः शिलास्वरूपेणोपयेमे तां शुभावहाम् ॥२१॥ कार्तिके शुक्लपक्षे च द्वादश्यां सा जनार्दनम् । उपयेमे महादेव्यस्तेन संहर्षितोऽभवत् ॥२२॥ तां गृह्य केशवो देवो विकुंठमगमत् स्वयम् । सर्वे हर्षसमायुक्ता बभूवुरमरादयः ॥२३॥ एवं कामः समुत्पन्नो महातेजोयुतः स्वयम् । बभ्राम वनसंस्थः स तत्र शुक्रः समाययौ ॥२४॥ शिवपंचाक्षरं मंत्रं ददौ तस्मै महात्मने । स गत्वा तं प्रणम्यैव वनं तपश्चचार ह ॥२५॥ तपसोग्रेण शंभुं स तोषयामास नित्यदा । निराहारेण नित्यं जजाप

यहाँ पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:

खं. ६ अ. ३ पान ७ तं मंत्रमुत्तमम् ॥२६॥ एवं तस्योग्रतपसा विश्रांताः सुरमानुषाः । दिव्यवर्षसहस्रेण स्थातुं शक्ता न तेऽभवन् ॥२७॥ ततो देवैर्महेशानः प्रार्थितस्तं ययौ मुदा । बोधयामाय दैत्येशं वरं ब्रूहि समब्रवीत् ॥२८॥ ततः स शंकरं दृष्ट्वा प्रणनाम कृतांजलिः । समुत्थाय पुपूजाऽसौ तुष्टुवे भक्तिसंयुक्तः ॥२९॥ यजुर्वेदभवेनैव रौद्रस्तोत्रेण शंकरम् । कामासुरः प्रसन्नात्मा तोषयामास भावतः ॥३०॥ संतुष्टं शंकरं दृष्ट्वा तं जगाद महासुरः । हर्षेणोत्फुल्लनेत्रः स वरदं भक्तवत्सलम् ॥३१॥ कामासुर उवाच । यदि प्रसन्नभावेन वरदोऽसि महेश्वर । तव भक्तिं च मे देहि राज्यं ब्रह्मांडकस्य वै ॥३२॥ उत्पत्तिस्थिति- संहारयुतास्तेभ्यो भयं न मे । संभवेत्तादृशं नाथ कुरुष्व बलसंयुक्तम् ॥३३॥ उत्पत्तिस्थितिसंहारकारका ये महेश्वराः । तेभ्यो मे मरणं नैव भवेद्देव तथा कुरु ॥३४॥ आरोग्यादिसमायुक्तं संग्रामे जयशालिनम् । कुरु मां देवदेवेश सर्वातिगं प्रभावतः ॥३५॥ यद्यदिच्छामि तत्तन् मे सफलं त्वदनुग्रहात् । सर्वकालेषु भवतु नमस्ते परमेश्वर ॥३६॥ शक्तिरुवाच । कामासुरस्य वाक्यं वै श्रुत्वा विस्मितमानसः । शंकरस्तमथोवाच तपसा बद्धभावतः ॥३७॥ शिव उवाच । दुर्लभं यत्त्वया काम प्रार्थितं देवदुःखदम् । दास्यामि तपसा तुष्टो महोग्रेणासुरोत्तम ॥३८॥ त्वया ये ये वराः सर्वे प्रार्थितास्ते महासुर । सफलाः संतु मद्वाक्यात्त्वं श्रेष्ठश्च भविष्यसि ॥३९॥ एवमुक्त्वा महादैत्यमंतर्धानमथाऽकरोत् । शिवः सोऽपि महादेव्यो- ऽभवत्तत्रैव संस्थितः ॥४०॥ हर्षेण महता युक्तो जगाम शरणं स्वयम् । शुक्रं सर्वविचारज्ञं स्वगुरुं प्रणनाम ह ॥४१॥ कथयामास वृत्तांतं सोऽपि संहर्षितोऽभवत् । श्रुत्वा योगींद्रमुख्यश्च दैत्याचार्यो महायशाः ॥४२॥ महिषासुरपुत्रीं स उपयेमे वरोद्धतः । तृष्णां रूपयुतां पूर्णगुणयुक्तां च तादृशीम् ॥४३॥ ततो दैत्यगणान् सर्वान् समागतान् दिगंततः । दैत्येशांस्तान् पुरस्कृत्य शुक्रस्तं ह्यभ्यषेचयत् ॥४४॥ वेदमंत्रैर्महाभागो ब्राह्मणैर्विधिसंयुतः । कामासुरोऽभवद्राजश्रिया हृष्टो विलासवान् ॥४५॥ पंच तस्य प्रधानानि बभूवुश्च महौजसः । रावणः शंबरश्चैव महिषो बलिदुर्मदौ ॥४६॥ नगरं निर्ममे भूमौ सर्वशोभासमन्वितम् । रतिदं नाम तस्यापि चकारोशनसेरितः ॥४७॥ तत्र जग्मुश्च वासार्थं दैत्यदानवराक्षसाः । चातुर्वर्ण्यसमायुक्तं शुशुभे शोभया परम् ॥४८॥ ॥ ओमिति मदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते कामासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥

खं ६ अ. ४ पान ८ ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच । कदाचिद् दैत्यराजेंद्रो बलिमुख्यान् समागतान् । जगाद हर्षसंयुक्तः कामासुरः प्रतापवान् ॥१॥ कामासुर उवाच । बले रावणमुख्याश्च वचनं मे हितावहम् । शृणुध्वं नीतितत्त्वज्ञा यदि हृद्यं भवेत् परम् ॥२॥ ब्रह्मांडं हि प्रजेष्यामि वरदर्पेण निश्चितम् । भवद्भिः संयुतोऽहं वै तथा शुक्रेण रक्षितः ॥३॥ वरदानस्य माहात्म्यं वृथा भवति चान्यथा । न वयं जयसंहीना भविष्यामः कदाचन ॥४॥ कामासुरस्य तद्वाक्यं श्रुत्वा दैत्येंद्रसत्तमाः । हर्षयुक्ता पुनस्तं त ऊचुः प्रांजलयः परम् ॥५॥ दैत्येशा ऊचुः । सम्यगुक्तं महाभाग वयं सर्वे त्वदात्मकाः । प्रजेष्यामो महेशेंद्रान् प्रतापेन प्रभो च ते ॥६॥ न ते पराक्रमस्यैव तुलां ब्रह्मांडमंडले । लभते कोऽपि दैत्येंद्रस्तत्र शुक्रः सहायकृत् ॥७॥ ततः सर्वे समागम्य शुक्रं नीतिविशारदम् । प्रणम्याऽऽपूज्य तेनैव युताः सर्वेऽपि निर्ययुः ॥८॥ अपारसेनया युक्तश्चतुरंगसुशो- भया । शुशुभे कामसंज्ञोऽसौ तारायुक्तो यथा विधुः ॥९॥ नानावाहनगा वीराः शस्त्रहस्ता द्रुमैर्युताः । पर्वतानां धराः केचिन्निर्ययू रणदुर्मदाः ॥१०॥ यथा पाथोनिधिश्चैव सर्वत्र जलरूपधृक् । तथा सैन्यं धरायां संख्यातिगं दृश्यते हि तत् ॥११॥ बलिरावणमुख्या वै यत्र तिष्ठंति शक्तयः । नृपालैः किंतु सेनाभिर्युद्धं कर्तुं क्षमं भवेत् ॥१२॥ राजानः शरणं केचिद्य- युस्तं च मृताः परे । केचित् त्यक्त्वा वनं राज्यं ययुर्भयसमन्विताः ॥१३॥ एवं भूमंडलं जित्वा सप्तद्वीपसमन्वितम् । दैत्येशा हर्षसंयुक्ता बभूवुश्च जयान्विताः ॥१४॥ ततः पातालमाविश्य शेषं नागसमन्वितम् । वशं कृत्वा ययुस्तेऽपि स्वर्गं देव- गणैर्युतम् ॥१५॥ समागतं महादैत्यैर्युतं कामासुरं खलम् । ज्ञात्वा देवगणाः सर्वे भयभीता बभूविरे ॥१६॥ विचार्य गुरुणा सार्धं शंकरं ते ययुस्ततः । त्यक्त्वा राज्यं भयोद्विग्ना ब्रह्मविष्णुमुखाः सुराः ॥१७॥ ततो दैत्येंद्रमुख्याश्च शून्यां दृष्ट्वाऽमरावतीम् । प्रवेशं चक्रिरे सर्वे कामासुरपुरोगमाः ॥१८॥ इंद्रासने समासीनो दैत्यपैः संवृतो बभौ । कामासुरस्ततो दैत्यान् स्थापयामास सन्निधौ ॥१९॥ ततस्तैः संयुतः सोऽपि प्रजापतिपदं ययौ । तत्रैव तादृशं दृष्ट्वा ब्रह्मासन- गतोऽभवत् ॥२०॥ बुभुजेऽसौ कियत्कालं भोगान्नानाविधान् खलैः । विकुंठमगमत् सोऽपि दैत्यपैः सुसमावृतः ॥२१॥ तत्र शून्यं प्रदृष्ट्यैव हर्षयुक्तो बभूव ह । कामासुरः स्वयं रेमे नानादैत्येंद्रमुख्यकैः ॥२२॥ ततो दैत्यगणान् सोऽपि जगाद हर्षसंयुतः । मोहेन मोहितोऽत्यंतं गर्वयुक्तो वचः परम् ॥२३॥ कामासुर उवाच । किं मया न जितं दैत्यास्तद्वदेत जयाम्‍यहम् । विष्णुमुख्याश्च देवेंद्र्रा दुद्रुवुः क्लीबभावतः ॥२४॥ न कोऽपि रणभूमौ वै संग्रामाय समागतः । देवेंद्र्रा युद्धहीनास्तु भवामो

खं. ६ अ. ४ | पान ९

जयशालिनः ॥२५॥ ततस्तं शंबरो दैत्यः प्राह वैरसमन्वितः । प्रेरितो दैत्यवर्यैश्चासुराणां हितकारकः ॥२६॥ शंबरासुर उवाच । शंभुं जय महाराज देवमुख्यैश्च संवृतम् । तदा ब्रह्मांडकस्यैव राजा त्वं तु भविष्यसि ॥२७॥ न त्वां वरप्रदो देवः शिवः शृणु वचो हितम् । स्वधर्मसंयुक्तं राजन् सर्वेभ्यः सुखदायकम् ॥२८॥ कर्मणां फलदातृत्वं देवानां कर्म निर्मितम् । स्वधर्मस्थं विजानीहि नोचेन्नाशयंति देवताः ॥२९॥ प्रवर्तत इदं कर्माधारं सर्वं तदाज्ञया । कर्मणा त्वं समर्थश्च जातोऽस्यत्र न संशयः ॥३०॥ वयं तु तपसा हीनास्तेन राजंस्त्वदाश्रिताः । भवामस्तमथो शंभुं जय त्वं दैत्यपैर्वृतः ॥३१॥ देवनाथः स्वयं शंभुस्तस्माद्देवान् प्रगृह्य सः । शत्रुघ्नः पश्य दैत्येंद्र संस्थितः प्रबभूव ह ॥३२॥ सुराश्चासुरकाः प्रोक्ताः पश्य वेदेषु मानद । शिवो देवमयः प्रोक्तः कथं दैत्यहितो भवेत् ॥३३॥ कामासुरः शंबरस्य वचः श्रुत्वा प्रतापवान् । मोहयुक्तः स्वभावेन तथ्यं मेने तु शक्तयः ॥३४॥ दैत्यपैः संवृतः सद्यः सन्नद्धैः शंकरं ययौ । तमागतं समाज्ञाय शिवश्चिंतातुरोऽभवत् ॥३५॥ देवैः सह विचार्यैवं दृष्ट्वा दारुणरूपकम् । कामासुरं पपालाऽसौ त्यक्त्वा कैलासमात्मनः ॥३६॥ अरण्ये देवसंयुक्तो यत्र तत्र गुहासु सः । भयभीतः स्वभावेन वासं चक्रे सदाशिवः ॥३७॥ ततः कामासुरो दुष्टो दृष्ट्वा शून्यं पुरं महत् । शैवं हर्षसमायुक्तो दैत्यपैः प्रविवेश ह ॥३८॥ कैलासशिखरारूढः कामासुरः प्रतापवान् । भोगान् कल्पितसंभूतान् बुभुजे चासुरैः सह ॥३९॥ एवं ब्रह्मांडमुग्रः स स्वयं जित्वा ननंद ह । कृतकृत्यमिवात्मानं मेने दैत्येंद्रनायकः ॥४०॥ ततो बहौ गते काले पुत्रं शोषणसंज्ञितम् । ज्येष्ठं कैलासनाथं वै चकार भयवर्जितः ॥४१॥ दुष्पूरं स चकारैव विकुंठाधिपतिं खलम् । कनिष्ठं स्वसुतं कामासुरो दुष्टश्च शक्तयः ॥४२॥ बलिं सौरस्य लोकस्य नाथं चक्रे महासुरः । रावणं शक्तिलोकस्य तथा बलसमन्वितम् ॥४३॥ शंबरं ब्रह्मलोकस्याधिपं दुष्टं चकार ह । इंद्रलोकस्य नाथं तु महिषं रणदुर्मदम् ॥४४॥ दुर्मदं यमपुर्यां स स्थापयामास निर्भयः । एवं नानाऽसुरांश्चक्रे स्थापितान् भुवनेषु च ॥४५॥ स्वयं सर्वसमायुक्त आययौ भूमिमंडलम् । स्वपुरे राज्यमुग्रं स चकार जगतो बलात् ॥४६॥ स्त्रीमद्यमांसकाद्यैश्च संसक्तः सन्महाबलः । भोगांस्त्रिलोकगांस्तत्र बुभुजे स्वसुहृज्जनैः ॥४७॥ न बुबोध गतं कालं यथा कालेन वंचितः । आत्मानममृताकारं मेने स्वमदसंयुतः ॥४८॥ एवं कामासुरो दुष्टः शक्तयः स चकार ह । चराचरमयं सर्वं स्वाधीनं बलगर्वितः ॥४९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते कामासुरविजयवर्णनं नाम चतुर्थोऽध्यायः ॥

यहाँ प्रस्तुत पृष्ठ का संपूर्ण पाठ पंक्ति-दर-पंक्ति दिया गया है:

खं. ६ अ. ५ | पान १० ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ ॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । अहो कामासुरस्यैवं प्रभावः परमाद्भुतः । शस्त्रहीनेन माये वै जितं सर्वं चराचरम् ॥१॥ एतादृशो महादैत्यो न श्रुतस्ते मुखांबुजात् । अधुना तस्य नाशं तु वद देवि सुदुर्गमम् ॥२॥ आदिशक्तिरुवाच । कालिमुख्याः शृणुध्वं च शक्तयो मे वचो हितम् । यथा तं गणनाधः स जिग्ये सर्वैः सुदुर्जयम् ॥३॥ एकदा स्वसभासंस्थं कामासुरं महानृपम् । जगुर्दैत्याधिपाः सर्वे कृतांजलय आदरात् ॥४॥ दैत्येशा ऊचुः । महाराज महाराज कृतकृत्योऽसि निश्चितम् । तथापि शृणु वाक्यं नः सर्वेषां ते हितावहम् ॥५॥ चराचरं तु दैत्येशा जित्वा राज्यं प्रचक्रिरे । कालेन निहताः सर्वे देवैश्छद्मप्रदर्शिभिः ॥६॥ अतस्त्वमपि राजेंद्र शत्रुभावसमाश्रितान् । देवान् शंभुमुखान् सर्वान् मारयस्व प्रयत्नतः ॥७॥ अमरा वेदवादेषु कथिता देवपा गणाः । शस्त्रादिभिश्च ते सर्वे न मरिष्यंति कर्हिचित् ॥८॥ अतः शृणु महादैत्य विचारं शत्रुनाशकम् । कर्महीनप्रभावेण मरिष्यंत्यमराः किल ॥९॥ कर्मांना देवताः सर्वा नष्टेऽन्ने नाशमाप्नुयुः । पुरा प्रोक्तं तु वेदेषु तादृशं कुरु मानद ॥१०॥ तेनैवामररूपाश्च वयं निहतकंटकाः । भवामो नात्र संदेहस्त्वत्प्रसादेन नित्यदा ॥११॥ तेषां तद्वचनं श्रुत्वा कामासुरश्च हर्षितः । साधु साधु भवद्भिः संकथितं तानुवाच ह ॥१२॥ अधुना दैत्यपैः सर्वैः कर्तव्यं कर्मखंडनम् । महाबलाश्च गच्छध्वं भूमिं सर्वां मदाज्ञया ॥१३॥ तथेति तं प्रणम्यादौ हर्षाद्दानवमुख्यकैः । पृथिव्यां तैः कृतं कर्मखंडनं मदसंयुतैः ॥१४॥ ब्राह्मणादींश्च संताड्य वर्णाश्रमविवर्जितान् । चक्रुस्ते पापकर्मणो दानवा दुर्जयाः खलाः ॥१५॥ कामस्य प्रतिमा दुष्टैः कृतास्तैः स्थापितास्ततः । देशे देशे पुरे ग्रामे जनैः पूज्या इमा मताः ॥१६॥ ततो हाहारवं सर्वे वर्णाश्रमयुता जनाः । स्नानादि नैव चक्रुस्ते दैत्यसंत्रासतापिताः ॥१७॥ न स्वाहा न स्वधा कुत्र न वषट्कार एव च । वर्णाश्रमविहीनाश्चातिष्ठंस्ते ब्राह्मणादयः ॥१८॥ केचिन् मुनिगणा देव्यो महोग्रं वनमाश्रिताः । स्वधर्मनिरतास्तत्रावसंस्ते विगतज्वराः ॥१९॥ ततोऽभवन् महादेवा उपोषणपरायणाः । शोकसंविग्नचित्तास्ते मिलिता भयविह्वलाः ॥२०॥ कामासुरस्य नाशार्थं विचारं चक्रुरंजसा । न किंचित् प्रापुरभवन्नतिदुःखयुतास्ततः ॥२१॥ तत्राऽऽजगाम योगींद्रो मुद्गलः परमार्थवित् । तं दृष्ट्वा देवदेवास्ते हर्षिता अभवन् बुधम् ॥२२॥ उत्थाय तं प्रणेमुस्ते शंभुविष्णुमुखाः सुराः । भृग्वादयश्च योगींद्राः पूजयामासुरादरात् ॥२३॥ आसने सुखमासीनं कृत्वा करपुटान् मुनिम् । शिवश्चिंतातुरोऽत्यंतं पप्रच्छ विनया- न्वितः ॥२४॥ श्रीशिव उवाच । धन्या वयं महायोगिन् दर्शनेन च ते प्रभो । गाणपत्यस्य पूज्यस्य सर्वेषां पावनात्मनः ॥२५॥ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖

खं. ६ अ. ५ पान ११ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ अस्माकमादिकाले तु गुरुर्भृशुंडिकः परः । तेन संबोधिता विप्र वयं ज्ञानयुता मुदा ॥२६॥ गुरुस्तस्य मुनींद्रस्य सर्वसिद्धि- प्रदायकः । गाणपत्याग्रणीः साक्षात् समस्तेन न वर्तते ॥२७॥ शिष्यशिष्यान् महाभाग तारयस्वाधुना प्रभो । नोचेदन्न- विहीनान्नो मृतान् पश्यसि देवपान् ॥२८॥ कामासुरेण दुष्टेन स्थानभ्रष्टाः कृता वयम् । अधुना कर्मनाशाद्वै हीना अन्नेन वै कृताः ॥२९॥ उत्पत्तिस्थितिसंहारकर्तृभ्यो मरणं मुने । उत्पत्तिस्थितिसंहारयुक्तेभ्यस्तस्य नो भवेत् ॥३०॥ अतो योगींद्रमुख्य त्वं वदोपायं महागुरो । कामासुरस्य नाशार्थं करिष्यामो जवान्विताः ॥३१॥ चराचरस्य रक्षार्थं कुरु कार्यमनुत्तमम् । दुष्टं संहर योगींद्र मार्गदर्शनभावतः ॥३२॥ यथा ज्ञानोपदेशेनाज्ञाननाशं करोषि तु । तथा हिंसा न ते स्वामिन् भविष्यति कदाचन ॥३३॥ इति तस्य वचः श्रुत्वा मुद्गलः शंकरस्य तु । दयया गणनाथं स स्मरन् जगाद तं वचः ॥३४॥ मुद्गल उवाच । शृणु शंभो जगन्नाथ विष्णो देवादयो वचः । कथयामि हितार्थाय कामासुरविनाशनम् ॥३५॥ साक्षादीश्वररूपस्त्वं गणेशांशः सदाशिव । तवाग्रे किमहं ब्रूयां विद्यानाथस्य मानद ॥३६॥ तव दर्शनमात्रेण कृतकृत्या भवंति वै । नरा ईश न संदेहस्तं किं ब्रूमि भयापहम् ॥३७॥ तथापि कथयिष्यामि त्वदाज्ञापालनार्थतः । गणेशं सर्वभावेन भजध्वं सर्वदेवताः ॥३८॥ स्वानंदस्थस्त्रिभिर्भावैर्हीनो देवो न संशयः । स तं क्षणार्धमात्रेण हनिष्यति महासुरम् ॥३९॥ पूर्वस्मिन् यत्र वै शंभो सिद्धिः प्राप्ता त्वया तथा । देवैः सर्वैश्च विप्रैश्चाधुना तत्र गतिं कुरु ॥४०॥ भूस्वानंदे महाभाग आराधय गजाननम् । मयूरेशं विधानेन सर्वसिद्धिप्रदायकम् ॥४१॥ एकाक्षरेण मंत्रेण चरध्वं तप उत्तमम् । स्वल्पकालेन विघ्नेशः प्रसन्नो भविता स्वयम् ॥४२॥ एवमुक्त्वा महायोगी मुद्गलस्तान् प्रणम्य तु । जगाम स्वेच्छया योगाद्गणेशभजने रतः ॥४३॥ ततो देवाश्च विप्रास्ते हर्षयुक्ता बभूविरे । मयूरेशं समाजग्मुर्दंडकारण्यगं परम् ॥४४॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते मुद्गलदेवसमागमो नाम पंचमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । मयूरनामकं क्षेत्रं भूस्वानंदमयं कथम् । बभूव तत् समाचक्ष्व परं कौतूहलं त्विदम् ॥१॥ पुरा कथं शिवाद्यैश्च सिद्धिः प्राप्ता जगन्मयि । वद तत्र कथं तेषां भृशुंडी चाऽभवद् गुरुः ॥२॥ कीदृशं क्षेत्रमुख्यं तु केन तत्र गजाननः । स्थापितः पूर्वकाले वै के के सिद्धिमवाप्नुयुः ॥३॥ वद शक्ते मयूरस्य माहात्म्यं सर्वसिद्धिदम् । क्षेत्रस्य खल्पकालेन लभते खेप्सितं नरः ॥४॥ मुद्गल उवाच । एवं पृष्टा महामाया शक्तिभिश्च प्रजापते । भक्तियुक्ताभिरत्यंत- मादरात्ता उवाच सा ॥५॥ तत्तेऽहं शृणु वक्ष्यामि सर्वसिद्धिप्रदायकम् । श्रवणेन न संदेहो ब्रह्मभूतपदप्रदम् ॥६॥ आदिशक्तिरुवाच । अत्राहं कथयिष्यामीतिहासं परमाद्भुतम् । भृशुंडिनः शिवादीनां संवादात्मकमूत्तमम् ॥७॥ कदाचित् प्रलये वृत्ते नष्टे स्थावरजंगमे । ब्रह्मविष्णुशिवाद्याश्च लयं ययुः स्वभावतः ॥८॥ ततोऽतिलयवेगेन पंचभूतानि शक्तयः । लयं प्राप्तानि सर्वत्र शून्यरूपं बभूव ह ॥९॥ ततो जागृन्मयं ब्रह्म स्थूलभूतं लयं गतम् । तथा सूक्ष्मं महादेव्यः स्वामं प्रलयवेगतः ॥१०॥ समभावमयं ब्रह्म सौषुप्तं तल्लयं गतम् । ततः प्रकृतिरूपा सा पुरुषे तन्मयी ह्यभूत् ॥११॥ पुरुषो ब्रह्मणि स्वात्मैकभावं संस्थितोऽभवत् । ब्रह्म ब्रह्मणि संस्थं वै बभूव स्वात्मगं परम् ॥१२॥ एवं महालये प्राप्ते क्षेत्रं स्वानंदवाचकम् । खसंवेद्यस्वरूपेण स्थितं ब्रह्मपदप्रदम् ॥१३॥ तदा विघ्नेश्वरः साक्षाद् योगनिद्रापरायणः । क्षेत्रे मयूरे सुष्वाप तदाकारधरः प्रभुः ॥१४॥ ततो बहौ गते काले निद्राहीनो बभूव ह । निःश्वासतोऽभवन्नस्य सोंकारा निगमाः पुरा ॥१५॥ तैः स्तुतो बोधितश्चैव ससर्ज सकलं पुनः । प्रकृतिं पुरुषार्थं च नानातत्त्वस्वरूपकम् ॥१६॥ तत्त्वैस्त्रिगुणं सृष्टं स्थूलसूक्ष्मसमात्मकम् । त्रिविधं तु विराड्रूपं नानाभेदप्रसूतकम् ॥१७॥ तत्तद्विविधरूपं च नानाभिन्नं बभूव ह । चराचरात्मकं ब्रह्म पंचभूतमयं बभौ ॥१८॥ भिन्नानि पंचभूतानि त्र्यवस्थासंयुतानि तु । बभूवुरादिकालेऽहं तेषां सृष्टिं वदामि वः ॥१९॥ नाभेः समुद्भवस्तस्य ब्रह्मा लोकपितामहः । मुखाद्विष्णुः स्वयं पाता गणेशस्य चतुर्भुजः ॥२०॥ नेत्राच्छिवः समुत्पन्नो वामांगात्तस्य चाऽभवम् । अहं भानुर्दक्षिणांगात् पंच देवाः पुरातनाः ॥२१॥ अज्ञानेन समायुक्ता न विदुः स्वपरं तदा । देवा ज्ञानप्रसिद्धयर्थं तपश्चेरूर्महा- द्भुतम् ॥२२॥ दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः । हृदिस्थं दर्शयामास बीजमेकाक्षरं स्वकम् ॥२३॥ मंत्रं प्राप्य महेशाना जेपुर्विग्नेशमाभजन् । गते वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः ॥२४॥ आदौ शंकरहृद्देशे दर्शयामास रूपकम् । नरनागमयं पूर्णं चतुर्भुजादिचिह्नितम् ॥२५॥ तं दृष्ट्वा विस्मितः सोऽपि चित्ते विचारमाकरोत् । नरकुंजररूपोऽयं चित्ते मे कः प्रतिष्ठिति ॥२६॥

यावत्तं प्रष्टुमारेभे तावदंतर्हितं वपुः । ततः सोऽपि गणेशस्य पुनर्ध्यानयुतोऽभवत् ॥२७॥ न ददर्श महद्रूपं सर्वमंगल- मंगलम् । ततो विह्वलचित्तोऽसौ जगाम विष्णुसंनिधौ ॥२८॥ तदा सोऽपि विसृज्यैव ध्यानं समुत्थितोऽभवत् । शिवस्तस्मै खवृत्तांतं कथयामास हृद्गतम् ॥२९॥ शिवाय स जगादैवं स्वध्यानस्थं जनार्दनः । एवं क्रमेण पंचैते देवेशा मिलिता जगुः ॥३०॥ परस्परं विचार्यैते ध्यानं विस्मितमानसाः । ऊचुः कोऽयं नरश्चैवाभवत् ध्याने समागतः ॥३१॥ ततस्ते तुष्टुवुर्देवं यस्मै कस्मै नमो नमः । सर्वेषां मूलरूपाय प्रसीद करुणानिधे ॥३२॥ तत आकाशजां वाणीं शुश्रुवुस्ते महौजसः । ब्रह्मविष्णुमहेशानशक्तिसूर्याः सुखप्रदाम् ॥३३॥ आकाशवागुवाच । गणेशोऽहं महादेवाश्चित्तवृत्तिप्रचालकः । यस्य तप्तं तपो घोरं स एवाऽहं न संशयः ॥३४॥ प्रसन्नेन मयाऽऽदौवस्तपसा हृदि दर्शितम् । बीजमेकाक्षरं मे वै सिद्धा यूयं जपात्ततः ॥३५॥ साक्षान्म दर्शने देवा नाधिकारोस्ति निश्चितम् । योगहीनप्रभावत्वात्ततश्चांतर्हितोऽभवम् ॥३६॥ भृशुंडिनं महाभक्तं पृच्छध्वं सर्वमंजसा । गत्वा नत्वा स वै साक्षात् ज्ञानदाता भविष्यति ॥३७॥ तत् ज्ञात्वा देवदेवा मां भविष्यथ समर्थकाः । संद्रष्टुं नात्र संदेहस्ततः सिद्धिमवाप्स्यथ ॥३८॥ एवमुक्त्वा गणेशानः खस्थः सोऽन्तर्हितोऽभवत् । शिवादयः प्रणम्यैव युयुस्तं मुनिपुंगवम् ॥३९॥ अमलाश्रमसंस्थं तं ददृशुर्विष्णुमुख्यकाः । भृशुंडिनं प्रणम्यैते संस्थिता हर्षसंयुताः ॥४०॥ ऊचुः प्रांजलयः सर्वे तं मुनिं शुंडयायुतम् । एकमेव स्थितं पूर्णयोगानंदमयं परम् ॥४१॥ देवेशा ऊचुः । धन्यं जन्म तपो विद्या ज्ञानं ते पाददर्शनात् । धन्योऽपि योगिनां मध्य आदिमध्यांतवर्जितः ॥४२॥ सोऽपि तान् पूजयामास ज्ञात्वा देवतमान् मुनिः । कृत्वाऽऽतिथ्यं जगादैवं भृशुंडी परमार्थवित् ॥४३॥ भृशुंड्युवाच । जगतां मूलरूपाश्च भवंतो जगदीश्वराः । समागता मदीये मे आश्रमे भाग्यगौरवात् ॥४४॥ किमर्थमागता देवाः कार्यं ब्रूत करोम्यहम् । आदिमध्यांतभावज्ञा विश्वपालाः परेश्वराः ॥४५॥ शक्तय ऊचुः । महालये भृशुंडी च कथं लयविवर्जितः । वद शक्ते मुने- स्तस्य चरितं परमाद्भुतम् ॥४६॥ मुद्गल उवाच । महालक्ष्मीमुखीनां तु देवीनां प्रश्नमुत्तमम् । श्रुत्वा ता जगदंबा सा कथयामास हर्षिता ॥४७॥ पुरा भृशुंडिचरितं मया रम्यं प्रकाशितम् । श्रुत्वा संशयहीनास्तां पप्रच्छुर्बिनयान्विताः ॥४८॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते भृशुंडिपंचदेवसमागमो नाम षष्ठोऽध्यायः ॥

पान १४


॥ श्रीगणेशाय नमः ॥ शक्तय ऊचुः । अहो शक्ते महाचित्रं चरित्रं मुख्यकं श्रुतम् । भृशुंडिनश्च संतुष्टा वयं जाता न संशयः ॥१॥ अधुना मुनिदेवानां संवादं वद सौख्यदम् । यत्र विघ्नेश्वरस्यैव ज्ञानं संगीयतेऽमलम् ॥२॥ आदिशक्तिरुवाच । शृणुध्वं शक्तयः सर्वाः पुरावृत्तं कथानकम् । सर्वपापहरं पुण्यं सर्वसिद्धिप्रदायकम् ॥३॥ भृशुंडिवचनं श्रुत्वा हर्षिताः शंकरादयः । ऊचुस्तं प्रणिपत्यैव वृत्तांतं पूर्वसंभवम् ॥४॥ शिवादय ऊचुः । कोऽसौ गणेश्वरः स्वामिन् नरकुंजरवेषभृत् । तस्य ज्ञानं वदस्व त्वं कथं चित्तप्रचालकः ॥५॥ भृशुंड्युवाच । संयोगवाचकः प्रोक्तो गकारश्च णकारकः । अयोगात्मकसंज्ञो वै तयोः स्वामी गणेश्वरः ॥६॥ अविनाशिपदं वेदे प्रोक्तं तद्धजवाचकम् । मस्तकं तस्य देवेशा ज्ञातव्यं मायया कृतम् ॥७॥ नाशवद्विश्वमेतद्वै तदेव देहरूपगम् । कंठाधो नात्र संदेहस्तयोर्योगे गजाननः ॥८॥ चतुःपदार्थरूपाश्च भुजास्तस्य महात्मनः । चतुर्भुजस्तेन साक्षाद्गणेशः परिकीर्तितः ॥९॥ जीवात्मपरमात्मानौ पादौ तस्य महात्मनः । द्विपदो गणराजोऽतः कथ्यते वेदवादतः ॥१०॥ तस्योदरात् समुत्पन्नं जगद्ब्रह्म महेश्वराः । तेन लंबोदरः साक्षात् कथितोऽसौ गणेश्वरः ॥११॥ भ्रांतिदा गणराजस्य मायासिद्धिः प्रकीर्तिता । वामांगाद्भिन्नरूपा सा बभूवे योगरूपिणी ॥१२॥ पंचचित्तमयी साक्षाद्बुद्धिर्भ्रांति- धरा परा । दक्षिणांगाद्गणेशस्य निःसृता ज्ञानरूपिणी ॥१३॥ तयोः स्वामी गणेशानो योगशांतिमयः स्वयम् । भक्त- वत्सलभावेन देहधारी बभूव ह ॥१४॥ स एव ज्ञानगो देवा भवतां कार्यसिद्धये । बभूव तं भजध्वं तु तेन सर्वं शुभं भवेत् ॥१५॥ श्रुतवैवं विस्मिता भूत्वा देवेशास्तं प्रणम्य तु । ऊचुर्विस्मितचित्तास्ते गुरुं भृशुंडिनं वचः ॥१६॥ ब्रह्मादय ऊचुः । त्वं साक्षाद्गणराजो वै शुंडादंडविराजितः । अस्माकं गुरुरायश्च बोधदातनमोऽस्तु ते ॥१७॥ त्वदीयवचनेनैव गणेशार्थ- विचक्षणाः । जाता वयं महायोगिंस्तद्भक्ताः सार्थकाः प्रभो ॥१८॥ अधुना वद माहात्म्यं भजनस्य विशेषतः । तत्र स्थानं च मंत्रादिविधियुक्तं महामुने ॥१९॥ भृशुंड्युवाच । समाधिना भवंतोऽपि गताः पुरा महेश्वराः । भेदाभेदादिहीने तु ब्रह्मणि तन्मयत्वतः ॥२०॥ अधुना दंडकारण्ये तादृशं क्षेत्रमुत्तमम् । स्वानंदारुख्यं च तत्रैव तपध्वं गणपे रताः ॥२१॥ मूर्तिं कृत्वा गणेशस्य दृष्टां स्वहृदि तादृशीम् । पूजयध्वं विधानेन ततः सिद्धिमवाप्स्यथ ॥२२॥ एवमुक्त्वा महायोगी भृशुंडी विरराम ह । गणेशभक्तराजेंद्रो देवेशास्तं जगुः पुनः ॥२३॥ शिवादया ऊचुः । कुत्र क्षेत्रं स्थितं विप्र प्रलये समुपस्थिते । कीदृशं तस्य माहात्म्यं वद योगींद्रसत्तम ॥२४॥ तत्र मूर्तिः पुरा केन स्थापिता गणपस्य च । किमर्थं भूमिसंस्थोऽयं गणेशः


खं. ६ अ. ७ पान १५


संबभूव ह ॥२५॥ तत्र सिद्धिं समाजग्मुः सेव्य विघ्नेश्वरं नराः । माहात्म्यं तत् समाचक्ष्व सर्वज्ञोऽसि महामुने ॥२६॥ गणनाथेन साक्षात्त्वं दर्शितो गुरुरादरात् । वयं शिष्यास्त्वदीयाश्च शाधि सर्वान् हिताय नः ॥२७॥ तेषां वचनमाकर्ण्य भृशुंडी पुनरब्रवीत् । गाणपत्यविचारज्ञः सर्वशास्त्रार्थतत्त्ववित् ॥२८॥ भृशुंड्युवाच । क्षेत्रं गणेश्वरस्यैव त्रिविधं परिकी- र्तितम् । तेषां भेदं प्रवक्ष्यामि शृणुध्वं त्वेकचेतसः ॥२९॥ स्वर्गे शंभुगृहे चैव पाताले शेषमंदिरे । पृथिव्यां तु मयूरेशे क्षेत्रं विघ्नपतेः स्मृतम् ॥३०॥ तत्र कर्मप्रसिद्ध्यर्थं भूमिगं शाश्वतं सदा । वक्ष्यामि तस्य माहात्म्यं ब्रह्माकारस्य देवपाः ॥३१॥ प्रकृतिः सर्वरूपा तु पुरुषश्चात्मसंज्ञकः । तयोः संयोगभावे तु स्वानंदः परिकथ्यते ॥३२॥ स्वसंवेद्येन योगेन लभ्यते मानवैः परम् । तदेव गणराजस्य क्षेत्रं जानीत भूमिगम् ॥३३॥ तत्रैव संस्थितः साक्षाद्गणेशो योगवाचकः । तेन संरचितं स्वस्य मायया ब्रह्मदायकम् ॥३४॥ तस्य रूपं कथयितुं निजानंदं न शक्यते । सर्वक्षेत्रसमायोगो ज्ञातव्यं क्षेत्रमुत्त- मम् ॥३५॥ ततः स्वस्येच्छया देवा गणेशेन स्वमायया । सृष्टं चतुर्विधं तस्मात् क्षेत्रात् खेलनभावतः ॥३६॥ पश्चिमांगा- दसद्रूपं ब्रह्म शक्तिमयं परम् । निःसृतं तत् द्विधा जातं स्वभावेन महेश्वराः ॥३७॥ रतिर्भोगमयी प्रोक्ता कामः सर्वप्रमोहकः । भोक्ता तयोः समायोगे द्वारं तच्च प्रकीर्तितम् ॥३८॥ हृदि सर्वजनानां या रतिरुत्पद्यते परा । तया मोहितचित्तास्ते भ्रमंति विषये रताः ॥३९॥ तत्र चालकरूपेण संस्थितः पुरुषो महान् । कामस्तेन जनाः सर्वे नाना कार्ये परायणाः ॥४०॥ भोगो यस्य तथा भोक्ता मोहहीनौ यदा हृदि । तदा शाक्तं लभेत् सोऽपि ब्रह्मासद्वाचकं परम् ॥४१॥ तेन द्वारेण विघ्नेशं साधयित्वा च योगिनः । गच्छंति तेन देवेंद्र द्वारं शास्त्रे प्रकथ्यते ॥४२॥ उत्तरांगाद्गणेशस्य समुद्भूतं स्वभा- वतः । ब्रह्म सौरं सदा सत्यवाचकं देवसत्तमाः ॥४३॥ तदेव द्विविधं जातं कर्म ज्ञानप्रभेदतः । इच्छया गणराजस्य तच्छृणुध्वं विधानतः ॥४४॥ कर्माधारं जगत् सर्वं कर्म सृष्टं प्रवर्तते । अंते कर्मगतं भावि शास्त्रेषु तन्मयत्वतः ॥४५॥ आधारात्मकभावेन संस्थिता धरणी परा । कर्मरूपा महामाया संज्ञा सूर्यस्य भामिनी ॥४६॥ वराहो ज्ञानरूपश्च सदा निःसंगभावतः । कर्मजानिषु तिष्ठेत्तु स एव रविवाचकः ॥४७॥ कर्मयोगयुताः केचित् केचित् ज्ञानपरायणाः । भ्रमंति द्विविधे भावे यंत्रिता मोहसंयुताः ॥४८॥ कर्ममोहं परित्यज्य ज्ञानमोहं तथा जनः । तयोर्योगेऽमृतं ब्रह्म प्राप्नु- यात् रविवाचकम् ॥४९॥ अथवा सौरमार्गेण लभ्यते भक्तमुख्यकैः । तदेव द्वाररूपं वै वदंति गणपस्य च ॥५०॥ तेन द्वारेण

योगींद्रा गच्छंति गणनायकम् । बुधैस्तद् द्वारमाख्यातमुत्तरांगं विशेषतः ॥५१॥ ततो गणेश्वरस्यैव पूर्वांगान्निःसृतं परम् । ब्रह्मानंदमयं पूर्णं समभागप्रकाशकम् ॥५२॥ सत्यासत्यात्मके देवाः समरूपेण संस्थितम् । वैष्णवं सर्वमान्यं तु तदेव द्विविधं बभौ ॥५३॥ लक्ष्मीः शोभात्मिका प्रोक्ता यशोरूपा विशेषतः । द्विविधं शोभया युक्तं कृतं तया विशे- षतः ॥५४॥ लक्ष्म्या न समता कुत्र दृश्यते देवसत्तमाः । शोभा सा परमा माया मोहदा कथ्यते बुधैः ॥५५॥ यत्र लक्ष्मीश्च तत्रैव यशः सर्वं प्रतिष्ठितम् । भुक्तिमुक्तिमयी साक्षाल्लक्ष्मीः सर्वत्र पठ्यते ॥५६॥ तस्याश्चालकरूपश्च विष्णुः साम्ये व्यवस्थितः । आनंदभुक् विशेषेण द्वंद्वमायाधरो बभौ ॥५७॥ तयोर्योगे समाकारं ब्रह्म वेदेषु पठ्यते । आनंद- वाचकं विप्रैर्वैष्णवैः प्राप्यते परम् ॥५८॥ गणेशप्राप्तये देवा द्वारमानंदधारकम् । तच्च क्षेत्रस्य पूर्वांगं गाणेशस्य प्रकथ्यते ॥५९॥ ततो दक्षिणभागाद्वै ब्रह्माव्यक्तमयं परम् । निःसृतं नेति कर्तृत्वात् त्रयाणां नेतिरूपकम् ॥६०॥ तदेव शांकरं ब्रह्म सहजं सर्वसंमतम् । मायया तत् द्विधा भूतं नरनारीस्वभावतः ॥६१॥ स्वेच्छारूपा महामाया पार्वती कथिता बुधैः । इच्छया त्रिविधं स्वस्याः सृजते सा न संशयः ॥६२॥ तत्र मोहविहीनश्च शंकरः कथ्यते परः । स्वाधीनः शैवभक्तेभ्य- श्रुत्यर्थं ब्रह्म उच्यते ॥६३॥ तयोर्योगे महेशाना ब्रह्माव्यक्तं प्रकीर्तितम् । द्वारं दक्षिणगं तेन लभ्यते गणनायकः ॥६४॥ चतुर्णां चैव संयोगे स्वानंदः परिकीर्तितः । स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥६५॥ तदेव गणराजस्य क्षेत्रं स्वानंदवाचकम् । चतुर्द्वारयुतं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥६६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते स्वानंदक्षेत्रस्वरूपवर्णनं नाम सप्तमोऽध्यायः ॥

❧ ❖ ☙

॥ श्रीगणेशाय नमः ॥ भृशुंड्युवाच । चतुर्द्वारमयं क्षेत्रं कथितं देवनायकाः । अधुना द्वारविस्तारं कथयामि समासतः ॥१॥ पूर्वद्वारे स्थितौ देवौ लक्ष्मीनारायणावुभौ । ताभ्यां तु विविधं सृष्टं स्वस्वस्थानार्थमादरात् ॥२॥ ब्रह्मांडॆ वैष्णवान्येव क्षेत्राणि विविधानि च । तानि तेन प्रसृष्टानि गणेशकृपया पुरा ॥३॥ लक्ष्म्या तद्वत् प्रसृष्टानि क्षेत्राणि विविधानि तु । लक्ष्मीवास- कराण्येव प्रोक्तानि शास्त्रसंमतम् ॥४॥ दक्षिणद्वारगौ शक्तिशिवौ देवौ तथाऽमराः । गणेशकृपया युक्तौ परौ क्षेत्राणि चक्रतुः

खं. ६ अ. ८ पान १७ ॥५॥ क्षेत्राणि यानि ब्रह्मांडे स्वयं शैवानि शंकरः । ससृजे च ततः शक्तिः शाक्तानि विविधानि वै ॥६॥ रतिकामौ ससृजतुः पश्चिमद्वारसंस्थितौ । प्रभावाद्दिघ्नराजस्य क्षेत्राणि किल मायया ॥७॥ क्षेत्राणि मातृकाणां च रत्या सृष्टानि यत्नतः । दिक्पालक्षेत्ररूपाणि सृष्टानि मदनेन तु ॥८॥ उत्तरद्वारसंस्थौ तौ महीवाराहकौ परौ । स्वक्षेत्राणि ससृजतुः परौ गणपमायया ॥९॥ संज्ञाक्षेत्राणि यावंति भूम्यां सृष्टानि तानि तु । सौराण्येवं वराहेण सृष्टानि विविधानि तु ॥१०॥ परिवारयुता देवाः परं तेपुस्तपो महत् । क्षेत्रज्ञाः क्षेत्रसंयुक्ताः गणेशस्य महात्मनः ॥११॥ नानामंत्रजपेनैव ध्यात्वा देवं गजाननम् । तोषयामासुरत्यंतभक्त्या नित्यं विशेषतः ॥१२॥ उपोषणयुतानि क्षेत्राणि ता देवतास्तथा । पूजयामासुरव्यग्राः क्षेत्रस्थं गणनायकम् ॥१३॥ एवं वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः । आययौ तान् वरान् दातुं स क्षेत्रान् देवमुख्यकान् ॥१४॥ तं दृष्ट्वा सहसोत्थाय प्रणेमुस्ते गजाननम् । पुपूजुस्तुष्टुवुः सर्वे भक्तिनम्रात्मकंधराः ॥१५॥ सक्षेत्रा देवा ऊचुः । ब्रह्मणे विघ्नराजाय स्वानंदस्थाय ते नमः । आदिमध्यांतहीनायादिमध्यांतस्वरूपिणे ॥१६॥ गणेशाय नमस्तुभ्यं भुक्तिमुक्ति- प्रदायिने । नानाखेलकरायैव ज्येष्ठराजाय ते नमः ॥१७॥ सृष्टिकर्त्रे च संहर्त्रे पात्रे मोहप्रचारिणे । गुणेशाय गुणानां तु चालकाय नमो नमः ॥१८॥ परेशाय परेशेभ्यो मोहदाय गजानन । सर्वयोगमयायैव योगेशाय नमो नमः ॥१९॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय च । सिद्धिबुद्धिप्रदात्रे ते नमश्चितामणे नमः ॥२०॥ पूर्वांगे विष्णुरूपाय दक्षिणांगे शिवात्मने । पश्चिमांगे च मायायै रवये उत्तरांगके ॥२१॥ चतुर्विधं गणेशान सृष्ट्वा खेलसि नित्यदा । नानाविधं तथा त्वां तु कश्च स्तोतुं क्षमो भवेत् ॥२२॥ वयं धन्या वयं धन्या दृष्टवंतो गजाननम् । ब्रह्मणस्पतिनामानं ब्रह्मणां चालकं परम् ॥२३॥ यं स्तोतुं न समर्थाश्च वेदाः सांगा गजानन । किं प्रस्तुमश्च देवेश अतस्त्वां प्रणमामहे ॥२४॥ एवं स्तुत्वा गणेशानं देवाः क्षेत्रसमन्विताः । प्रणेमुस्तं प्रहर्षेण भक्तिभावसमन्विताः ॥२५॥ ततस्तान् प्रत्युवाचेदं वचनं गणनायकः । भक्तान् भक्तिप्रियः साक्षात्तपसा तोषितः परः ॥२६॥ श्रीगणेश उवाच । वरं ब्रूत महाभागाः सक्षेत्रा देवमुख्यकाः । दास्यामि तपसा तुष्टो भक्त्या स्तोत्रेण चेप्सितम् ॥२७॥ स्तोत्रं भवत्कृतं चैव यः पठिष्यति मामकम् । स मत्प्रियो भवेद्देवाः शृणुयाच्छ्रावयेत्तथा ॥२८॥ भुक्तिमुक्तिप्रदं चैव धनधान्यविवर्धनम् । पुत्रपौत्रप्रदं पूर्णं भविष्यति सुसिद्धिदम् ॥२९॥ मम सन्निधिगो भूत्वा पठति स्तोत्रमुत्तमम् । सर्वक्षेत्रभवं पुण्यं लभते नात्र संशयः ॥३०॥ गणेशवचनं श्रुत्वा देवा

[Header] खं. ६ अ. ८ | पान १८


हर्षसमन्विताः । तं ते प्रणम्य सक्षेत्रा जगुर्भक्तिसमन्विताः ॥३१॥ सक्षेत्रा देवा ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा ते पादपद्मे नो भक्तिरस्तु च नित्यदा ॥३२॥ किमर्थं तु वयं सर्वे सृष्टा वद गजानन । कार्यं ब्रूहि करिष्यामस्त्वदाज्ञा- वशभावतः ॥३३॥ स्वानंदे वासकार्यार्थं देहि स्थानं महोदर । तत्र त्वां पूजयिष्यामो नित्यं भक्तिसमन्विताः ॥३४॥ स्वस्वज्ञानयुतान्नाथ कुरु सर्वान् महामते । त्वदीया वशगाः सर्वे ज्ञानयुक्ता भजामहे ॥३५॥ भृशुंडयुवाच । तेषां वचनमाकर्ण्य गणेशः करुणानिधिः । जगाद तान् महाभागान् भक्तियुक्तान् महेश्वरान् ॥३६॥ श्रीगणेश उवाच । धर्मार्थकाममोक्षान् वै ददतु क्षेत्रकाणि मे । वरदानात् समर्थानि स्वस्वकार्येषु सेविनाम् ॥३७॥ धर्मदान्यर्थदान्येव कानिचित् सेविनां तथा । कामदानि भवंत्येव मोक्षदानि विभागशः ॥३८॥ कानिचिन् मरणे सद्यस्तत्रैव फलदानि तु । कानिचित् क्रमयोगेन मुख्यक्षेत्रप्रदानि तु ॥३९॥ तथा देवाश्च तत्रस्थाः पूजनेन फलप्रदाः । दर्शनेन भवंत्येवं स्वस्वक्षेत्रप्रियात्मकाः ॥४०॥ नामानि गणनाथश्च चकार विविधानि सः । काशीप्रयागकाद्यानि वक्तुं नैव प्रशक्यते ॥४१॥ पुनः स तानुवाचाऽसौ गणेशः करुणानिधिः । क्षेत्राणि स्वकलांशेन स्थातव्यं स्वस्थलेषु वै ॥४२॥ पूर्णांशेन मदीयेऽत्र क्षेत्रे स्वानंदरूपिणि । वासं कृत्वा सदा मां तु भजिष्यथ निरंतरम् ॥४३॥ स्वक्षेत्रस्थास्तथा देवाः कलांशेन भवेत वै । क्षेत्रेऽत्र पूर्णभावेन मां भजेताथ मानदाः ॥४४॥ स्वस्वकार्येषु दक्षा वै भविष्यथ न संशयः । मद्भक्तिभावसंयुक्ताः सक्षेत्रा गर्वहीनकाः ॥४५॥ सर्वक्षेत्राणि ये भूम्यां करिष्यंति विधानतः । देवान् यथाविधि प्राज्ञा पूजयिष्यंति मानवाः ॥४६॥ तेन संस्कारयोगेन मत्क्षेत्रे वासमाश्रिताः । ब्रह्मभूता भविष्यंति मत्क्षेत्रे मरणे सति ॥४७॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो ब्रह्मनायकः । क्षेत्राणि हर्षयुक्तानि संस्थि- तान्येव तत्र तु ॥४८॥ पूजयित्वा गणेशानं स्वस्वस्थानकमाययुः । सक्षेत्रा देवताः सर्वा ज्ञानयुक्ता बभूविरे ॥४९॥ यथा गजाननः प्राह तथा सर्वे महेश्वराः । कृत्वा पुनर्गणेशानं समाजग्मुः प्रहर्षिताः ॥५०॥ तत्र ते संस्थिता देवाः सक्षेत्रा ह्रस्वरूपकाः । स्वानंदक्षेत्रके सर्वेऽभजन्नित्यं तमादरात् ॥५१॥ एतत् क्षेत्रामराणां वै चेष्टितं यः शृणोति वा । पठेद्वा तस्य विघ्नेशः क्षेत्रवासं तु दास्यति ॥५२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खंडे विकटचरिते नानाक्षेत्रदेवोत्पत्तिवर्णनं नामाष्टमोऽध्यायः ॥

खं. ६ अ. ९ पान १९ ॥ श्रीगणेशाय नमः ॥ देवा ऊचुः । द्वारेषु देवपाः संति द्वारधारकभावतः । तेषां पूजनमार्गं तु वद विघ्नेश्वरस्य च ॥१॥ भृशुंड्युवाच । क्षेत्रमध्ये गणेशानस्तिष्ठति सर्वदायकः। शुंडादंडमुखः श्रीमांश्चतुर्बाहुधरः प्रभुः ॥२॥ पृथूदरो विशालाक्षस्त्रिनेत्रः स्वस्तिकासनः। पाशांकुशधरः सोऽपि दंताभयविराजितः ॥३॥ नाभिशेषो विचित्रैश्च भूषणैर्वस्त्रकादिभिः । नागयज्ञो- पवीती तु शूर्पकर्णो विराजति ॥४॥ तस्य वामांगभागे च सिद्धिः सर्वप्रदाऽमराः । द्विभुजा संस्थिता माया चामरव्यजना- न्विता ॥५॥ दक्षिणांगे तथा बुद्धिर्द्विहस्ता ज्ञानरूपिणी । सुगंधवस्तुलेपार्थं संस्थिता सेवनोत्सुका ॥६॥ संमुखे मूषकस्तस्य मयूरश्च विराजति । प्रमोदाऽऽमोदकाद्याश्च गणाः पृष्ठे स्थितास्तथा ॥७॥ वैदिकेन च मार्गेण नमोऽन्तेन प्रपूजयेत् । पौराणिकेन देवेशा गणेशं सर्वसिद्धिदम् ॥८॥ ततः पूर्वदिशायां स गत्वा द्वारसमाश्रितम् । पूजयेद्गणनाथं तं सशक्तिकपरिवारकम् ॥९॥ द्विभुजं गणनाथं तु वामभागे जगन्मयीम् । मांजारीं द्विभुजां तस्य पूजयेद्भक्तिसंयुक्तः ॥१०॥ तत्र ध्यानं समाख्यामि गजवक्त्रं गजाननम् । एकहस्ते धृताऽम्भोजं द्वितीयाऽऽलिंगितप्रियम् ॥११॥ कपोलौ मदसंस्रावयुक्तौ अमरसंयुतौ । सदानंदमयं देवाश्चिंतयेद्गणनायकम् ॥१२॥ द्विभुजां शक्तिमुख्यां वै दक्षिणाऽऽलिंगितप्रियाम् । वामहस्तेन पद्मं सा बिभ्रतीं चिंतयेद् हृदि ॥१३॥ भक्ताभीष्टप्रदां पूर्णां सदानंदसमन्विताम् । मायां संसारदुःखानां नाशिनीं भक्तिकारिणीम् ॥१४॥ देवेशा ऊचुः । मांजारिका त्वया प्रोक्ता माया गणपतेः प्रिया । तस्याः स्वरूपगं ज्ञानं वद नो गुरुसत्तम ॥१५॥ भृशुंड्युवाच । जारः सर्वत्र शब्दश्च व्यभिचार्यर्थवाचकः । सर्वेषु जारभावेषु मता नानार्थकारिणी ॥१६॥ तेषु पुरुषरूपेण स्थित आत्मा सदैककः । तस्य जारादिकं नास्ति भ्रांतिभावात्मकं कदा ॥१७॥ तथापि देहसंस्थश्च माययात्मा प्रमोहितः । द्वंद्वभावेषु देवेंद्रास्तदाकारो बभूव ह ॥१८॥ आत्मनो जारभावं तु दर्शयंती निरंतरम् । मोहयित्वा क्रीडति तेन स्वयं शक्तिरुत्तमा ॥१९॥ मांजारी सा समाख्याता मां प्रति जारदर्शिनी । गणपः क्रीडति द्वंद्वविहारस्थः सदा तया ॥२०॥ तयोः पुत्रौ मानसिकौ लक्ष्मीनारायणौ मतौ । समीपे संस्थितौ तत्र द्वारे धर्मप्रदायकौ ॥२१॥ तेषां पूजनकं कार्यं यथाविधि सुरेश्वराः । तेन धर्मस्य भवति संप्राप्तिस्तस्य शाश्वती ॥२२॥ विधिं तत्र प्रवक्ष्यामि यात्रायाः सर्वदायकम् । देवेशास्तादृशं कार्यं तेन सिद्धिमवाप्स्यथ ॥२३॥ मासे भाद्रपदे चैव शुक्लपक्षे विशेषतः । प्रतिपद्दिनमारभ्य द्वारयात्रा प्रकीर्तिता ॥२४॥ प्रातः स्नात्वा महानद्यां गणेशं प्रतिपूजयेत् । ततः स्नानं नरः कृत्वा द्वारदेवीं समर्चयेत् ॥२५॥ पुनः स्नानं ततः कृत्वा

******************************************************************** पान २० गणेशं पूजयेत् स्वयम् । उपोषणयुतश्चैव सदा तिष्ठेत् स देवपाः ॥२६॥ नियमस्थः स्वभावेन गणेशस्मरणादिकम् । कुर्यात्तद्वत् द्वितीयायां दक्षिणद्वारमर्चयेत् ॥२७॥ तत्र द्वारे गणेशानो द्विभुजः परिकीर्तितः । माया च द्विभुजा प्रोक्ता पूर्ववत् ध्यान- गावुभौ ॥२८॥ विरजा नाम विख्याता शक्तिस्तत्र महेश्वराः । तस्य ज्ञानकरं चैवार्थं वदामि सुखप्रदम् ॥२९॥ त्रिविधं तु रजोरूपं मलिनं सर्वगं बभौ । तत्र मोहविहीनं यद्विरजं ब्रह्म कथ्यते ॥३०॥ गणेशसंयुता देवी तन्मयी विरजा परा । तयोर्मानसिकौ पुत्रौ पार्वतीशंकरौ मतौ ॥३१॥ तेषां पूजा प्रकर्तव्या नरेण सर्वभावतः । तया सर्वार्थसंसिद्धिर्लभ्यते नात्र संशयः ॥३२॥ तृतीयायां ततो वै स पश्चिमद्वारदेवताम् । पूजयेद्विधिसंयुक्त उपोषणपरायणः ॥३३॥ देवीगणेश्वरौ तत्र पूर्वं ध्यानात्मकौ स्थितौ । आश्रया नाम शक्तिः सा सर्वाश्रयधरा बभौ ॥३४॥ तयोर्मानसिकौ पुत्रौ रतिकामौ प्रकीर्तितौ । तेषां पूजां प्रकुर्यात् स तेन कामान् लभेन्नरः ॥३५॥ ततश्चतुर्थिकायां स गच्छेदूत्तरगां पराम् । द्वारशक्तिं महादेवा भक्ति- मुक्तिसमन्विताम् ॥३६॥ देव्या गणेश्वरस्यात्र ध्यानं पूर्ववदुच्यते । तयोर्मानसिकौ पुत्रौ महीवराहकौ मतौ ॥३७॥ तेषां पूजा प्रकर्तव्या पूर्ववन्नियमेन च । तया मुक्तिमवाप्नोति यात्रामात्रेण मानवः ॥३८॥ चतुर्थ्यां गणनाथं स पूजये- द्विविसंयुक्तः । मध्याह्नसमये देवा उपोषणपरायणाः ॥३९॥ रात्रौ जागरणं कुर्यात् पंचम्यां पारणं चरेत् । द्विजैः सह नरः साक्षाच्चतुर्विधफलं लभेत् ॥४०॥ एवं माघे शुक्लपक्षे द्वारयात्रां समाचरेत् । ज्येष्ठे मासि तथा देवा वार्षिकं त्रिविधं स्मृतम् ॥४१॥ अथवा प्रतिमासेषु शुक्लपक्षे समाचरेत् । द्वारयात्रामथो नित्यं नरः सर्वार्थसिद्धिभाक् ॥४२॥ अथवा गणराजस्य यात्रार्थं यः समागतः । तस्मिन् काले चरेद्यात्रां द्वारभूतां महेश्वराः ॥४३॥ न तत्र नियमः प्रोक्तो मासपक्षतिथिष्वपि । चतुर्भिर्दिवसैर्जंतुः कुर्याद्यात्रां विधानतः ॥४४॥ अन्यच्च संप्रवक्ष्यामि द्वारयात्रामयं विधिम् । देहसामर्थ्ययुक्तानां चतुर्विध- फलप्रदम् ॥४५॥ शुक्ला चतुर्थिका प्रोक्ता तस्यां द्वारमयीं चरेत् । यात्रां चतुर्विधां प्रोक्तामेकवासरमध्यतः ॥४६॥ सूर्योदयात् समारभ्य पूजां स्वल्पां समाचरेत् । यावन्नास्तगतो भानुस्तावन्मध्ये समापयेत् ॥४७॥ किंचिद्दिवसशेषे स गणनाथस्य पूजनम् । विधियुक्तं नरो भक्त्या कुर्यात्तस्मिन् दिने स्वयम् ॥४८॥ अथवा स्वेच्छया कोऽपि यात्रार्थं तु समागतः । तत्रैक- दिवसे यात्रां प्रकुर्याच्छक्तिभावतः ॥४९॥ वृद्धानां रोगयुक्तानां नियमो नैव विद्यते । बालानां स्वेच्छया तत्र यात्रा प्रोक्ता मनीषिभिः ॥५०॥ अथवा ब्राह्मणेनैव नरो यात्रां समाचरेत् । द्वाररूपां स्वयं तत्र वाहनस्थो गतिं चरेत् ॥५१॥