भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १७३ पुरुषे कर्त्तृत्वाभिमानस्तस्मिन्नचेतनेऽपि चेतनाभिमानः । तत्रैव कर्मवा- सना । पुरुषस्तु सर्वथा पुष्करपलाशवन्निर्लेपः । आलोचनं व्यापार इन्द्रि- याणां, विकल्पस्तु मनसः, अभिमानोऽहङ्कारस्य, कृत्यध्यवसायो बुद्धेः । सा हि बुद्धिरंशत्रयवती । पुरुषोपरागो, विषयोपरागो, व्यापारावेश श्चेत्यंशाः । भवति हि मयेदं कर्त्तव्यमिति । तत्र मयेति चेतनोपरागो दर्प- णस्येव मुखोपरागो भेदाग्रहाद्वात्त्विकः । इदमिति विषयोपराग बोधनी । तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्त्तृत्वे च तथा कर्तेव भवत्युदासीनः ( सां० का० २० ) इति । लिङ्गं = बुद्धिः । प्रकृत्यनुमापकत्वात्, धर्माधर्मयोरप्यन्तःकरणमेवाश्रय इत्याह-तत्रैव- इति । यदि धर्मादयो बुद्धेर्गुणाः कीदृशस्तर्ह्यात्मेत्याह-पुरुषस्तु-इति । सर्वथा-इति । अनु- भवतद्वासनातत्फलैः कर्मतद्वासनातत्फलैश्चेत्यर्थः । बुद्धितत्त्वस्यासाधारणं व्यापारं दर्शयिष्यन् सर्वेषां तावत् कारणानां यथास्वमसाधारणान् व्यापारान्राह-आलोचनम्-इति । संमुग्धवस्तु- मात्रदर्शनमालोचनं, तच्च चक्षुरादीनामिदमिति बाह्यप्रावण्यात्मकः परिणतिभेदः यत् नैयायिकै- र्निर्विकल्पकमित्युच्यते । विकल्पस्तु संमुग्धदृष्टस्य विशेषणविशेष्यभावेन विवेचनं तन्मनसो व्या- पारः । अभिमानः अहं जानाम्यहं करोमीत्यादिरूपः, सोऽहङ्कारस्य । कृत्यध्यवसायः स बुद्धे- रिति । नन्वीदृशः कृत्यध्यवसायः कृतिसमवायं विषयसम्बन्धं चैतन्यं वापक्षते, स कथमेनवं- विधाया बुद्धेर्धर्मो भवेदित्यत आह-सा हि-इति । तानेवांशान् विभजते-पुरुषोपरागः- इति । कथमेतत्त्रयं बुद्धेर्धर्म इत्याशङ्क्य संमुग्धमुदाहरणं दर्शयति-भवति हि-इति । भवतु, कथं तावता अंशत्रयसिद्धिरित्यत्र निष्कृष्यांशान् दर्शयति-तत्र-इति । दर्पणमुखयोरिव बुद्धि- चेतनयोर्भेदाग्रहादेकत्वाभिमानः पुरुषोपराग इति । इदमा प्रतिनिर्दिष्टस्य विषयस्य यद्ग्राहिकैव बुद्धिराभाति स चेतनोपराग इत्यर्थः । तेन मयेत्यभिमानः कथं बुद्धेर्धर्मः स्यादिति शङ्का निरस्ता भवति । चेतनोपरागश्चेतनसम्बन्धः, स च परिणामविशेषः, तत् कथं चेतनोऽपरिणामी बुद्ध्या सम्बन्त्स्यत इत्यत्रोक्तं-दर्पणस्य-इति । कथं दूरस्थेन विषयेण बुद्धिरुपज्यत इत्यत्रोक्तम्- प्रकाशः । एवे । बुद्धिपुरुषयोर्भेदाग्रहाच्चैतन्यकृत्यभिमानौ । यथा भवतां गौरोऽहं सुखीत्यर्थः । कर्मवासना = कर्मजनितमपूर्वम् । ननु पुरुषधर्म एव किन्नापूर्वमित्यत आह । पुरुषस्त्विति । सर्वथेति । ना- पूर्वतत्फलाभ्यां लिप्यते कौटस्थ्यादिश्रुतेरित्यर्थः। इन्द्रियादीनां मिथो भेदकमसाधारणं व्यापारमाह। आलोचनमिति । निर्विकल्पकमित्यर्थः । ननु बुद्धेः कृत्यध्यवसायो न व्यापारः, कृतिविषयस्य घटादेर्जडायां बुद्धौ प्रतिभासासम्भवात् । न च कर्तव्येन घटादिना सम्बन्धान्तरमस्ति । न चासम्बन्धे, करोमीत्याद्यव्यवसायोऽतिप्रसङ्गादित्यत आह । सा हीति । चेतनोपरागवशेन जडाया अपि बुद्धेरिन्द्रियप्रणालिकया परिणतिभेद एव ज्ञानरूपः कर्तव्येन घटादिना सम्बन्ध इत्य- र्थः । पुरुषेति । बुद्धिचेतनयोर्भेदाग्रहादेकत्वाभिमानः पुरुषोपरागः । नीलेन्द्रियसन्निकर्षान्नी- लाकारज्ञानरूपपरिणतिभेदोत्पादः पारमार्थिको विषयो रागस्ताभ्यां कर्तव्यविषयस्य प्रति- भासात्तज्जन्यः करामीत्यध्यवसायो व्यापारावेश इत्यर्थः । दर्पणस्येवेति । दर्प प्राय बुद्ध्याः । तस्मिन्नचेतने=बुद्धितत्त्वे ।

१७४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१४ कारिकावतरणिकायां इन्द्रियप्रणालिकया परिणतिभेदो दर्पणस्येव निःश्वासाभिहतस्य मलिनिमा पारमार्थिकः। एतदुभयायत्तो व्यापारावेशोऽपि। तत्रैवंरूपव्यापारलक्षणाया बुद्धेर्विषयोपरागलक्षणं ज्ञानम् । तेन सह यः पुरुषोपरागस्यातात्त्विकस्य सम्बन्धो दर्पणेप्रतिबिम्बितस्य मुखस्येव मलिनिमा, सोपलब्धिरिति। तदेव- मष्टावपि धर्मादयो भावा बुद्धेरेव, तत्सामानाधिकरण्येनाध्यवसीयमानत्वात्। न च बुद्धिरेव स्वभावतश्चेतनेति युक्तं, परिणामित्वात्। पुरुषस्य तु कूटस्थनि- त्यत्वादिति। तदेतदपि प्रागेव निरस्तम्। तथापि— कर्तृधर्मा नियन्तारश्चेतिता च स एव नः॥ अन्यथाऽनपवर्गः स्यादसंसारोऽथवा ध्रुवः ॥ १४ ॥ बोधनी। इन्द्रियप्रणालिकया-इति। सोऽपि किं स्वभावतश्चेतन इत्यत्राह-पुरुषस्य-इति। यद्वा, चेतनसामानाधिकरण्येनाध्यवसीयमानत्वादिच्छादयः पुरुषधर्माः सन्तु, कृतं बुद्धयेत्याह-पुरु- षस्य-इति। इच्छादिरूपेणात्मनः परिणामे कौटस्थ्यं हीयेत, ततश्च परिणामिनो घटादिवदचैत- न्यप्रसक्तिरिति भावः। तदेवं सांख्यमतमुपन्यस्यैतेनैतन्निरस्तमिति पूर्वोक्तं स्मारयति-तदेतत्- इति। भोक्तृधर्म एव भोगनियामको नान्यधर्म इति प्रागुक्तत्वान्निरस्तमिति। यथा निरस्तं तथाह- तथा हि-इति। कर्तृधर्माधर्मादयो भोगस्य नियामका इति तावदविवादं, चेतनश्च कत्र्तैव नः प्रामाणिकानां कृतिचैतन्ययोः सामानाधिकरण्यात्। अन्यथाऽकत्र्तैव चेतनोऽचेतनैव बुद्धिः कत्र्त्री, तद्धर्मा एव भोगन्नियच्छन्तीति मते बुद्धिर्नित्याऽनित्या वा स्यात् पूर्वत्र पुंसो नाप- प्रकाशः। बुद्धितो ज्ञानोपलब्ध्योर्भेदमाह। तत्रैवंमिति। विषयोपरागो=विषयेन्द्रियसम्बन्धो बुद्धेर्विषयाकार- परिणतिभेदोऽयं घट-इत्यादिः। तेनेति। तेन ज्ञानेन चेतनोऽहमिदं जानामीत्येवमाकारो बुद्धा- वारोपितस्य चैतन्यस्य यः सम्बन्धोऽतात्त्विकः सोऽयमुपलब्धिरित्यर्थः। एवं व्यवस्थिते सिद्ध- मर्थमाह। तदेवमिति। ज्ञानवत् सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा अपि बुद्धेरेवेत्यर्थः। संस्कारस्य सांख्यैरनभ्युपगमाज्ज्ञानस्यैव स्मृतिहेतोरनभिव्यक्ततयाऽनुवृत्तेरिति स नोक्तः। तत्सामानाधि- करण्येनेति। कृतिसामानाधिकरण्येनेत्यर्थः। यद्यप्यदृष्टस्यायोग्यतया तत्सामानाधिकरण्यं न प्रत्यक्षं, तथापि धार्मिकोऽहमित्यनुव्यवसायादुपनीतस्य प्रत्यक्षत्वमिति भावः। परिणामि- त्वादिति। अनित्यधर्माश्रयत्वादित्यर्थः। कर्तृधर्मा इति। यत्र कृतिस्तददृष्टस्य तत्रैव भोगजनकत्वमित्यत्राविवादे कृत्याश्रय एव चेतनः, तद्भिन्ने तत्र मानाभावादित्यर्थः। अन्यथेति। बुद्धेर्नित्यत्वे मोक्षाभावः। आत्मनो प्रकाशिका। वाचकत्वानुपपत्तेः। ननु पुरुषस्य कूटस्थत्वे सुखादयः कुत्रेत्यादिशङ्कानिरासाय मूलं तदेवमि- ति। अतस्तदनुरूपमेव व्याचष्टे। ज्ञानवत् सुखेति। अनभिव्यक्त्येति। सूक्ष्मरूपतयेत्यर्थः। अनित्यधर्माश्रयत्वादिति। बुद्धेश्चैतन्ये परम्परया तत्परिणामस्य घटादेरपि चैतन्यप्रसङ्ग तत्रैवंरूपव्यापारेति। करोमीत्यध्यवसायः कृत्याध्यवसायः व्यापारावेशः स एव लक्षणं भेदको यस्याः, इदं तस्याः परिचयमात्रम्। तदेवम्। एवम् ज्ञानवत् अष्टावपि ज्ञानेन सार्धमित्यर्थः। नः=अस्माकम्मतम्। अन्यथा कर्तुरचेतनत्वे।

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८५ कृतिसामानाधिकरण्यव्यवस्थितास्तावद्धर्मादयो नियामका इति व्यवस्थितम्। चेतनोऽपि कत्तैर्व कृतिचैतन्ययोः सामानाधिकरण्येनानुभवात् । न चायं भ्रमो, बा- धकाभावात् । परिणामित्वाद् घटादिवदिति बाधकमिति चेत् । न । कर्तृत्वेऽपि समानत्वात् । तथा च कृतिपि भाविकी महतो न स्यात् । दृष्टत्वादयमदोष इति चेत् , तुल्यम् । अचेतनावार्थत्वं बाधकं, कार्यकारणयोस्तादात्म्यादिति चेद्, न । असिद्धेः । न हि कर्तुः कार्यत्वे प्रमाणमस्ति । प्रत्युत “वीतरागजन्मादर्शनात्” बोधनी । वर्गः स्याद् बुद्धिलक्षणोपाधेरनुच्छेदात् , उत्तरत्र तु नानुत्पन्नस्यानित्यत्वमित्यनुत्पत्तिदशायां बुद्धितद्धर्माभावान्संसारप्रागभाव एव पुंसः । ततश्च कदाचिद्भोगः कदाचिन्मुक्तिरिति भोगनियमो नोपपद्येत । पूर्वं पुरुषान्तरापेक्षया भोगनियमानुपपत्तिरुक्ता, इदानीं त्वेकस्यैव कालापेक्षया, तत्रो- भयोरपि भोगनियमानुपपत्तिविशेषात्निरस्तमित्युक्तम् । अत्रापि नित्यविभूनामात्मनां सर्वबुद्धि- प्राप्यविशेषेण बुद्धिनियमाभावाद् तदायत्तभोगनियमानुपपत्तिरुक्तसुलभेति भावः । कृतिसामा- नाधिकरण्यव्यवस्थिता इति । कर्तृधर्मा इत्यर्थः । इदं त्वस्माभिरुच्यत इत्याह-चेतनोऽपि- इति । चैतन्यमपि कर्तुरेवेत्यर्थः । नन्वयमनुभवो भेदाग्रहा्निमित्तो भ्रम इत्युक्तं, तत्राह-न चायम्-इति । नन्वस्ति बाधकं परिणामित्वं कर्तुः परिणामित्वादित्याह-न-इति । ततः किमित्यत आह-तथा च-इति । प्रयत्नोऽपि बुद्धेः स्वाभाविकोन स्यादित्यर्थः । शङ्कते-दृष्ट- त्वात्-इति । बुद्धेः कृतिसमवायस्य मानसप्रत्यक्षसिद्धत्वात् न परिणामित्वानुमानं कर्तृत्वं बाधत इति । तर्हि कृतिचैतन्ययोः सामानाधिकरण्यस्यापि दृष्टत्वात्कर्तुश्चैतन्याऩुमानमपि बाधि- तविषयमित्याह-तुल्यम्-इति । बाधकान्तरमाशङ्कते-अचेतना-इति । अचेतनाया हि प्रकृतेः कार्या बुद्धिः, साऽचेतना स्यात् , चेतनभावे वा प्रकृतेरपि चैतन्यप्रसङ्ग इति भावः । न-इति । कर्तुः कार्यत्वमेवास्माकमसिद्धं, दूरत एवाचेतनकार्यत्वमिति । न परं कार्यत्वे प्रमाणा- भावः किं च कार्यत्व एव प्रमाणमस्तीत्याह-प्रत्युत-इति । जायमानाः प्राणिनः तावत्स्तन्यादिषु रागवन्तो दृश्यन्ते, रागश्च सुखसाधनानुमानात् , तदनुमानं च तज्जातीयलिङ्गपरामर्शात् , स प्रकाशः। बुद्ध्युपधानस्यैव संसारत्वात् । अनित्यत्वे च तदुत्पत्तेः पूर्वं प्रकृतेः साधारण्यान्नियामकाभावेन संसाराभाव इत्यर्थः । ननु कर्तुर्बुद्धितत्त्वस्य धर्मा नियन्तार इति सांख्याभिमतमेव इत्यत आह । चेतनोऽपीति । चेतनोऽहं करोमीत्युभवादित्यर्थः । कर्तृत्वेऽपीति । बुद्धि कर्त्र्याश्रयः परि- णामित्वाद् घटादिवदित्यपि स्यादित्यर्थः । भाविकी = स्वाभाविकी । यदि ज्ञानाश्रयस्य कृत्याश्रयत्वेनानुभवात् तद्वाधानुमानं, तदा चेतनोऽहङ्करोमीत्यनुभवाद् बाधस्तुल्य इति शङ्कोत्तराभ्यामाह । दृष्टत्वादिति । अचेतनायाः प्रकृतेः कार्यं बुद्धितत्त्वं, कार्यकारणयोश्च तादा- त्म्यमिति चैतन्ये तस्य बाधकमित्याह । अचेतनेति । प्रत्युतेति । जातमात्रस्य स्तन्यपाने प्रवृ- प्रकाशिका । इतिचात्र विपक्षबाधकमिति भावः। तदुत्पत्तेः पूर्वमिति । नियामकधर्मादेस्तदभावेऽभावादित्यर्थः। समानत्वात्=परिणामित्वाद् घटादिवत् इत्यस्य समानत्वात् । तव चैतन्याभावः, मम कृत्याभावः, साधनीयः, ताभ्यां हेतुदृष्टान्तोभयाभ्यामिति भावः । भाविकी=स्वाभाविकी । महतः=बुद्धेः । न स्यादिति । ज्ञानिनः कृत्याश्रयत्वस्येति शेषः । अनुमानस्य बाधितत्वादिति भावः । तुल्यम्=ज्ञानिनः कृत्याश्रयत्वस्येव कृत्याश्रयस्य चैतन्याश्रयत्वस्यापि दर्शनं तुल्यमित्यर्थः ।

(न्या० ३अ० १आ० २५सू०) इति न्यायादनादितैव सिद्धयति । यद् यच्च कार्ये रूपं- दृश्यते तस्य तस्य कारणात्मकत्वे रागादयोऽपि प्रकृतौ स्वीकर्तव्याः स्युः, तथा च सैव बुद्धिर्न प्रकृतिः, भावाष्टकसम्पन्नत्वात् । स्थूलतामपहाय सूक्ष्ममया ते तत्र स- न्तीति चेत्, चैतन्यमपि तथा भविष्यति । तथाप्यसिद्धो हेतुः, तथा सति घटादी- नामपि चैतन्यप्रसङ्गस्तादात्म्यादिति चेद् ? रागादिमत्त्वप्रसङ्गोऽपि दुर्वारः । सौ क्ष्म्यं च समानमिति । तस्माद्, यज्जातीयात् कारणाद् यज्जातीयं कार्यं दृश्यते, तथाभूतात् तथाभूतमात्रमनुमातव्यं, न तु यावद्धर्मकं कारणं तावद्धर्मकं कार्यं व्य-

बोधनी । चं जायमानस्यास्मिन् जन्मनि न सम्भवतीति तदर्थं भावान्तरमाश्रेयम् । एवं पूर्वेष्वपि भावे- ष्वित्यनादित्वमेव कर्तुः सिध्यति । तदाह सूत्रकारो 'वीतरागजन्मादर्शनात्' (न्या० सू० ३.१.२५) इति । अस्त्वचेतनकार्यत्वं बुद्धेः, तथापि तस्याश्चैतन्यं, तच्चैतन्ये कारणचैतन्यं च न प्रसज्यत इत्यनिष्टप्रसङ्गमुखेन दर्शयति-यद्यत्-इति । यदि यावद्धर्मकं कारणं तावद्धर्मकं कार्यमिति स्यात्तर्हि बुद्धेश्चैतन्यवद्रागादयोऽपि न स्युः, भावे वा प्रकृतावपि स्युः ; तत्र कार- णात्मकत्वमिति कारणधर्मत्वं विवक्षितमिति सन्तु रागादयः प्रकृतावित्यत आह-तथा च- इति । एवकारो भिन्नक्रमः । सा प्रकृतिर्बुद्धिरेव स्यात्, न तु प्रकृतिः । भावाष्टकसम्पन्नत्वं हि बुद्धिलक्षणमिति । स्थूलरूपताम्-इति । प्रतीयमानभावाष्टकसंपत्तिर्बुद्धेर्लक्षणम् । प्रकृतौ तु रागादयः सूक्ष्मरूपाः, ततो नोक्तदोष इति । तर्हि रागादिवच्चैतन्यमपि प्रकृतौ सूक्ष्मरूपमभ्यु- पगभ्यतामित्याह-चैतन्यमपि-इति । ततः किमित्यत आह-तथापि-इति । एवमप्यचेतन- कार्यत्वादिति हेतुविशेषणासिद्धः, सूक्ष्मचैतन्ययोगिप्रकृतिकार्यत्वादिति । ननु प्रकृतेश्चैतन्याभ्यु- पगमे तत्कार्याणां घटादीनामपि तथात्वप्रसङ्गः कार्यकारणयोस्तादात्म्यात् तथा चाचेतनकार्यत्वं सिद्धमित्याह-तथा सति-इति । तर्हि प्रकृतौ रागाद्यङ्गीकारे घटादीनामपि तथात्वप्रसङ्ग इत्याह-रागादिमत्त्व-इति । घटादिष्वपि रागादयः सन्त्येव, सूक्ष्मत्वान्नोपलभ्यन्त इत्य- नाह-सौक्ष्म्यं च-इति । तर्हि चैतन्यमपि घटादिषु सदैव सूक्ष्मत्वान्नोपलभ्यत इति वक्तुं शक्यत इति । यद्वा, प्रकृतौ रागादेः सूक्ष्मत्वान्न घटादौ तत्प्रसङ्ग इत्याशङ्क्य तत्र सूक्ष्मचैतन्या- भ्युपगमेऽपि न घटादौ चैतन्यप्रसङ्ग इत्याह-सौक्ष्म्यम्-इति । यत एवं प्रसङ्गः तस्मात् कार्यकारणयोरेवं व्यवस्था न स्वेनेवमित्याह-तस्मात्-इति । व्यभिचारात् कारणेष्वसतामेव धर्माणां कार्येषु दर्शनात् सतामेव चादर्शनादिति । प्रकृतमनुसरामः, किमनेन कार्यकारणयोः

प्रकाशः । त्ती रागजनकैष्टसाधनताज्ञानाधीनेति तदनुमानार्थं जन्मान्तरानुभूतव्याप्तिस्मरणमावश्यकमेवं तत्पू- र्वजन्मनीत्यनादितेत्यर्थः । यद्यदिति । यथा प्रकृतौ रागाद्यभावेऽपि तत्कार्यबुद्धौ रागादिस्तथा प्रकृतेरचैतन्येऽपि सा चेतना स्यादित्यर्थः । तथाचेति । प्रकृतौ रागादिस्वीकारे तल्लिङ्गबुद्धितरत्व एव मानाभावाद् इत्यर्थः । तथेति । प्रकृतावपि सूक्ष्मं चैतन्यमित्यर्थः । असिद्ध इति । अचे- तनकार्यत्वादित्यत्र विशेषणासिद्धेरित्यर्थः । तथा सतीति । बुद्धेश्चैतन्ये तज्जन्यघटादेरपि तत् स्यादित्यर्थः । रागादीति । घटादे रागादिमद्बुद्धिजन्यत्वादित्यर्थः । सौक्ष्म्यं चेति । घटादौ रागादेरिव चैतन्यस्यापि सूक्ष्मत्वा दित्यर्थः । कारणात्मकत्वम् । धर्मधर्मिणोस्तादात्म्यात् ।

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १७७ भिचारादिति किमनेनाप्रस्तुतेन ? । यदि च बुद्धिर्नित्या, अनिर्मोक्षप्रसङ्गः, पुंसः सर्वदा सोपाधित्वे स्वरूपेणानवस्थानात् । अथ विलीयते, ततो नानादेर्विंलय इत्यादिमत्त्वे तदनुत्पत्तिदशायां को नियन्ता ? प्रकृतेः साधारण्यात् तथा चासं- सारः । पूर्वपूर्वबुद्धिवासनानुवृत्तेः साधारण्यादप्यसाधारणीति चेत् । बुद्धि- निवृत्तावपि तद्धर्मवासनाऽनुवृत्तिरित्यदर्शनम् । सौक्ष्म्यान्न दोष इति चेत् । मुक्तावपि पुनः प्रवृत्तिप्रसङ्गः । निरधिकारात्त्वान्नैवमिति चेत् । तर्हि साधिकारा प्रसुप्तस्वभावा बुद्धिरेव प्रकृतिरस्तु, कृतमन्तरा प्रकृत्यहङ्कारमनःशब्दानामर्था- बोधनी । साधर्म्यवैधर्म्यनिरूपणेनेत्याह-किमनेन-इति । तदेवं कृतिचैतन्ययोः सामानाधिकरण्यस्याबा- धितत्वाच्चेति

१७८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१४ कारिकान्याख्यायां] न्तरकल्पनां ? । सैव हि तत्तद्व्यवहारगोचरा तेन तेन शब्देन व्यपदिश्यते शा- रीरवायुवदित्यागमोऽपि सङ्गच्छते इत्यतोऽपि हेतुरसिद्धः । अधिकारनिवृत्त्या बुद्धेरप्रवृत्तिरपवर्गः, वासनायोगश्चाधिकारः, ततः संसारः । धर्मधर्मिणोरत्यन्त- भेदे च कौटस्थ्यविरोधः । भेदश्च विरुद्धधर्माध्यासलक्षणो घटपटादिवत् प्रत्यक्ष- बोधनी । तत्राह—सैव हि—इति । यथैकस्यैव शरीरान्तर्वर्त्तिनो वायोरूर्ध्वाधोगमनादिविशेषणात् प्राणापानादिन्यपदेशः, तथैकस्या एव बुद्धेस्तत्तद्व्यापारभेदात् प्रकृत्यादिव्यपदेश इत्यागमोऽपि संगंस्यत इति । अस्तु तर्हि बुद्धेरेव प्रकृत्यादिभावस्ततः किमित्यत आह—अतोऽपि—इति । बुद्धेरेव प्रकृतित्वोपपादनादप्यचेतनकार्यत्वादिति हेतुरसिद्धस्तस्याः कार्यत्वाभावादिति । बुद्धेरेव संसारापवर्गावेवमेव चेत्याह—अधिकार—इति । कोऽयमधिकार इत्यत्रोक्तं वासनायोगः- इति । सा वासना च कर्मजन्यो धर्माधर्माविति । यदि बुद्धेरेव संसारापवर्गौ सैव पुरुषः स्यात्, तस्य च कूटस्थनित्यस्य कथं ज्ञानादिविकारः, विकारे वा कथं कूटस्थत्वमित्याशङ्कयाह- धर्मधर्मिणोरिति। यद्वा, कत्र्तैव चेतन इत्युक्तं, तत्र चेतनस्य विकारत्वेन कूटस्थनित्यताविरोध इत्या- शङ्कयाह—धर्मधर्मिणोः-इति । न हि भिन्नस्य धर्मस्योत्पादविनाशाभ्यां धर्मिणः कूटस्थत्वं विरुध्यत इति । भेद एव कुंत इत्यत आह—भेदश्च- इति । अहं जानामि ज्ञास्याम्यज्ञासिषमित्यती- तानागतवर्त्तमानज्ञानानुगतः पुरुषोऽहमास्पदमनुभूयत इति प्रत्यक्षमेव भेदे प्रमाणमिति । तथापि धर्मधर्मिणोगौरोऽयं शुक्लोऽयमिति सामानाधिकरण्यप्रतीतिदर्शनात्तथास्याह्यत्यन्तभिन्नयोर्घटपट- योरदर्शनादभेदोऽप्यस्त्वित्याशङ्क्य सामानाधिकरण्यं यथासंभवं विकल्प्य सर्वथैतद् भेदस्यैव सा- प्रकाशः । मयति । सैव हीति । तत्तद्व्यापारयोगादादिकारणत्वाभिमानकारणत्वादियोगात्तेन तेन प्रकृत्या- दिशब्देन बुद्धिरेकौवोच्यत इत्यर्थः । शारीरेति । यथैक एव शारीरो वायुरूर्ध्वाऽधोगत्यादियो गात् प्राणापानसमानादिशब्दवाच्य इत्यर्थः । अतोऽपीति । पूर्वं नित्यत्वेनाचेतनकार्यत्वमसिद्ध- मुक्तम् । अधुना तु बुद्धिरेव प्रकृतिपदवाच्येति प्रकृतिकार्यत्वं बुद्धेरसिद्धमित्यभिप्रायेणोच्यत इत्यर्थः । एवं सत्येकस्य क्रमेण संसारापवर्गौ सांख्यमतेन समञ्जयति । अधिकारेति । वासना= धर्माधर्मौ । ननु बुद्धेश्चैतन्ये चेतनकौटस्थ्यश्रुतिविरोध इत्यत आह । धर्मेति । कौटस्थ्यं हि नित्यत्वम् , । तच्च धर्मस्योत्पादविनाशेऽपि न धर्मिणस्तदित्यविरुद्धम् । अभेदे हि धर्मधर्मिणो- स्तद्विरोधः स च नास्त्येवेत्यर्थः । कथं नास्तीत्यत आह । भेदश्चेति । अहं जानाम्यहमज्ञा सिषमहं ज्ञास्यामीत्यनुभवाज्ज्ञानातीतत्वादिय्रहेऽपि अहमास्पदस्यावाधितप्रत्यक्षेण स्थैर्यानुभवा प्रकाशिका। कृतं प्रकृत्येति । प्रकृत्यादिशब्दानामर्थान्तरकल्पनयेत्यर्थः । पूर्वं नित्यत्वेनेति । यद्यप्यव्यवहितपूर्वं विशेषणासिद्धिरुक्ता तथापि ' न हि कर्तुः कार्यत्वं' इत्यादिना प्रथमतः एव मूलेऽसिद्धिरुक्तेति । अभिप्रायेणेति । यद्यपि नीलः पट इतिवत् ज्ञानमहमिति सामानाधि- करण्यधीरसिद्धैवेति कथं ज्ञानतद्धर्मिणोर्भेदसिद्धिः । तथापि सामानाधिकरण्यप्रतीत्या नीलप- मकरन्दः । पूर्वं नित्यत्वेनेति । यद्यप्यचेतनकार्यत्वादित्यत्र विशेषाणासिद्धिरिति व्याख्यानात् कार्य- त्वासिद्धिर्नोक्ता, तथाप्यसिद्धिरित्यादिमूलेन कार्यत्वासिद्धेरप्युक्तत्वात्तदभिप्रायेणेदं मन्तव्यम् । मागमोऽपीति । प्रकृत्यहङ्कारमनःप्रभृतिप्रतिपादकागमोऽपीत्यर्थः ।

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १७६ सिद्धः । न च सामानाधिकरण्यादभेदोऽपि, तद्धि समानशब्दवाच्यत्वम् , एक- ज्ञानगोचरत्वम् , एकाधिकरणत्वम्, आधाराधेयभावः, विशेष्यत्वं, सम्बन्धमात्रं वा, भेद एव भेदेऽपि चोपपद्यमानं नाभेदं स्पृशतीति । तस्मात् सर्वमवदातम् ॥१४॥ बोधनी । धकमित्याह-न च-इति । अनेकापेक्षया हि किञ्चिदेकं साधारणं भवति, न त्वेकस्यैकम् । सुश- ममन्यत् । न चातिप्रसङ्गः, कार्यकारणाभिधेयाभिधायकविषयविषयिभाववत् स्वभावत एव सामा- नाधिकरणनियमोपपत्तेरिति भावः । तस्मादात्मनो ज्ञानाद्यनित्यधर्मकत्वे दोषकणोऽपि नास्तीत्यु- पसंहति-तस्मात्सर्वमवदातम्-इति ॥ १४ ॥ प्रकाशः । दित्यर्थः । ननु धर्मधर्मिणोरत्यन्तभेदोऽसिद्धः । नीलः पट इति सामानाधिकरण्यबुद्धिरितिभिन्नाभि- न्नाभ्यां व्यावर्तमाना धर्मधर्मिणोर्भेदाभेदौ साधयति । अन्योन्याभावत्वमव्याप्यवृत्तिवृत्ति सदा- तनाभावमात्रवृत्तिधर्मत्वात् अत्यन्ताभावत्ववदित्यनुमानमप्यत्रेत्यत आह। न चेति । आद्यं द्वयं सामानाधिकरण्यं भेदेऽपि, अन्त्यत्रयं भेद एव, सम्बन्धमात्रमपि यथैककारणत्वादि तदा भेदेऽ- पि, नोचेद्शेद एव उपपद्यत इति नामेदस्ततः सिद्ध्यतीत्यर्थः । अथ नीलपटयोरभेदबुद्धिरेव सा- मानाधिकरण्यधीस्तदाऽसिद्धिः । नीलः पट इति प्रतीत्या तयोः सम्बन्धस्यैव विषयीकरणात् । अन्यथा नीलिमा पट इत्यपि बुद्ध्यापत्तिः । शब्दप्रयोगस्यापि मतुब्लोपादभेदोपचाराद्वापपत्तेः । वस्तुतो विरुद्धयोरेकत्र भावाभावाववच्छेदभेदेनैव प्रतीयेते । न चात्र सोऽस्ति । अनुमानमप्यनु- कूलतर्काभावेन व्याघातरूपप्रतिकूलतर्केण च प्रतिहतमिति संक्षेपः ॥ १४ ॥ प्रकाशिका । टयोरभेदसिद्धौ तद्दृष्टान्तेन धर्म्मधर्मिभावादेव प्रकृतेऽभेदः साध्य इत्याशयवानाशङ्कते । ननु धर्म्मधर्मिणोरिति । अन्योन्याभावत्वमिति । यद्यपि संयोगवदन्योन्याभावोव्याप्य- वृत्तितामादायार्थान्तरत्वम् । तथापि व्याप्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकस्वसमानाधिकरणा- त्यन्ताभावप्रतियोगिवृत्तित्वमव्याप्यवृत्तित्वं प्रकृते विवक्षितमिति नोक्तदोषः । संयोगात्यन्ताभावे च व्याप्यवृत्त्येव संयोगत्वं प्रतियोगितावच्छेदकमिति न दृष्टान्तासिद्धिः । सदातन्येति । सदात- नाभाववृत्त्यभावविभाजकधर्म्मत्वादित्यर्थः । तेन यथाश्रुते घटात्यन्ताभावत्वे व्यभिचारः, मात्रपदं च व्यर्थं प्रमेयत्वादपि साध्यसत्त्वात् मात्रपदस्य कात्स्न्र्यार्थकत्वे स्वरूपासिद्धिर्दृष्टा- न्तसिद्धी इति दूषणस्यानवकाशः । सदातन्येत्यादिविशेषणं च संयोगप्रागभावध्वंसयोर्व्यावृत्ति- श्वपक्षे, अन्यथाह्वदेयमेव । अभावपदं चाकाशादौ व्यभिचारवारणाय मुख्याभावपरं स पुनश्च- तुर्द्धेति शास्त्रेणाभावविभागान्न स्वरूपासिद्धिरिति स्मर्त्तव्यम् । आद्यं त्रयमिति । अधिकरणे- क्यस्यापि भेदाभेदसाधारणत्वादिति भावः । अन्त्यं त्रयमिति । सम्बन्धत्वमात्रपक्षेऽपि कार्य- कारणभावादिकमर्थमादाय भेदद्वयस्यैव प्राप्तेरिति भावः । कचित् पाठः आद्यं द्वयमिति । तत्रैकाधिकरणत्वं समानाधिकरणत्वं साम्यं च तदधिकरणत्वासामान्यधर्म्मघटितमिति भेदनीय- तमिति भावः । एवं च अन्त्यत्वेन तृतीयचतुर्थपञ्चमरूपं विवक्षितम् । षष्ठं तु स्वयमेव विकल्प्य दूषयिष्यतीति ध्येयम् । मतुब्लोपादिति । लुप्तस्मृतो मतुवेवार्थप्रत्ययको नीलपदे वा नील- सम्बन्धिाने लक्षणेत्यर्थः ॥ १४ ॥ मकरन्दः । सदात्तनाभावमात्रवृत्तिधर्मत्वादिति । ननु घटात्यन्ताभावत्वादौ व्यभिचारः, मात्रपदञ्च व्यर्थम् प्रमेयत्वादपि साध्यसत्त्वात् । न च मात्रपदं न व्यवच्छेदार्थकं, किन्तु यावदर्थकम् ।

१८० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१५ कारिकावतरणिकाया स्यादेतत् । नित्यविभुभोक्तृसद्भावे सर्वमेतदेवं स्यात्, स एव कुतः, भूता- नामेव चेतनत्वात् । कायाकारपरिणतानि भूतानि तथा, अन्वयव्यतिरेकाभ्यां तथोपलब्धेः, कर्मज्ञानवासने तु सर्वत्र प्रतिभूतनियते अनुवर्त्तिष्येते, यतो भोग- प्रतिसन्धाननियम इति चेत् । उच्यते— नान्यदृष्टं स्मरत्यन्यो नैकं भूतमपक्रमात् । बोधनी। एवं सांख्यं निरस्यापूर्वस्यात्मधर्मत्वे साधिते पुनरपि चार्वाकः प्रत्यवतिष्ठते—स्या- देतत्—इति । यदि भोक्ता नित्यो विभुश्च स्यात् ततस्तस्य सर्वदेहप्राप्त्यविशेषाद् भूतगतैरतिश- यैर्न भोगनियमः स्यादित्यात्मसमवायोऽपूर्वस्य स्यात्, तादृशस्तु भोक्ता कुतः प्रमाणात् सिध्येत् । न कुतश्चिदित्यर्थः । ननु ज्ञानसमवायिकारणत्वेनानुमास्यत इत्यत्राह—भूतानामिति । भूताना- मेव चेतनत्वे घटादेरपि तत्त्वप्रसङ्गमाशङ्क्य विशिनष्टि—कायाकार—इति । तानि भूतानि तथा चेतनानीत्यर्थः । भूतत्वाविशेषे कुतोऽयं विवेक इत्यत्राह—अन्वय—इति । यथा सुराकारपरिणता- नामेव भूतानां मदशक्तिर्नान्येषां तथैतदपि । तदुक्तं सूत्रकारेण "मदशक्तिवद् विज्ञानम्" इति । यदि शरीरादिव्यतिरिक्तः चेतनो न स्यात् तर्हि किमाश्रयावदृष्टसंस्कारौ भोगं प्रतिसंधानं च निय- च्छतस्तत्राह—कर्म—इति । स्मृतिहेतुः संस्कारो ज्ञानवासना, सा तावदनुभवसामानाधिकरण्यात् तदाधारेषु वर्त्तन्त इति । कर्मजनितौ धर्माधर्मौ कर्मवासना, सा तावन्नास्त्येव । यद्यपि स्यात् तथापि भूतानामेव कर्तृत्वान्तेष्वेव नियंता वास्येत—इत्युच्यत इति । अन्येरनुभूतं नान्यः स्मरतीति तावदविवादम् । अनेनात्मनः शरीरादिव्यतिरेके प्रमाणम- भिसंधत्ते, स्मृतिः पूर्वापरप्रत्ययाभ्यां सहैककर्तृका, ताभ्यां सहैककर्तृत्वेन प्रतिसंधीयमानत्वात्, न यदेवं, न तदेवं यथा देवदत्तस्य स्मृतिर्यज्ञदत्तस्य पूर्वापरप्रत्ययाभ्यां न प्रतिसंधीयते न तथा- चेयं तस्मान्न तथेति । ततः किमित्यत आह—नैकम्—इति । न तावच्छरीरावयविसमवेतं चैतन्यं, तस्यावस्थाभेदेष्वन्यत्वात् तत्र पूर्वानुभूतस्योत्तरावस्थायामस्मरणप्रसङ्गः । तर्हि करचरणाद्य- न्यतमावयवसमवेतं भविष्यतीति । अत्राप्येतदेवावतिष्ठते नैकभवयवभूतं चैतन्यं तस्यावयवस्य कदाचिद्विच्छेदात् । तत्र च तदनुभूतस्यावयवान्तरेणास्मरणप्रसङ्गः । यद्वा, आद्यपादेनावयवि- चैतन्यस्य निरासः, द्वितीयेनावयवचैतन्यस्येति । ननु पूर्वावयवविगता वासनोत्तरस्मिन्नवय- प्रकाशः । स्यादेतदिति । भूतचैतन्येऽपि प्रकृतसिद्धौ नित्यविभुभोक्तृनिरासपरेयं शङ्केति । अथैवं घटादिरपि चेतनः स्यादित्यत आह । कायेति । अन्वयेति । अन्वयव्यतिरेकाभ्यां शरीरस्य ज्ञानहेतुत्वे सिद्धे समवायिकारणमपि तदेव कल्प्यते । तदन्यस्मिन् मानाभावाद्, गौरोऽहं जाना- मीत्यनुभवाच्चेति भावः । ननु शरीरस्याऽनुभवितृत्वे कर्तृत्वे च तन्नाशादन्यस्य भोक्तृत्वे प्रतिसंधातृत्वे चातिप्रसङ्ग इत्यत आह । कर्मज्ञानेति । कर्मज्ञानाभ्यां जनिते वासने अदृष्टसं- स्कारौ। यत इति । यत्कायसन्ताने कर्म, तत्कायसन्ताने भोगो, यत्कायसन्तानेऽनुभवस्तत्का- यसन्ताने स्मृतिरित्यर्थः । नान्यदृष्टमिति । एवं बालशरीरेणाऽनुभूतस्य युवशरीरेण स्मरणं स्यात्, तयो- र्भेदात् । अन्यानुभूतस्यान्येन स्मरणेऽतिप्रसङ्गात् । न च बाल्ययौवनयोरेकं भूतं शरीरम् । अपक्रमात् = विनश्वरस्वभावत्वात् । न चान्यवासनाऽन्यत्र संक्रामति, अतिप्रसङ्गादित्यर्थः । प्रकाशिका । प्रकृतसिद्धाविति । कालान्तरफलानुकूलादृष्टस्यैव प्रकृतत्वादिति भावः ।

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १६१ वासनासंक्रमो नास्ति न च गत्यन्तरं स्थिरे ॥१५॥ न हि भूतानां समुदायपर्यवसितं चैतन्यम् । प्रतिदिनं तस्यान्यत्वे पूर्वपूर्व- दिवसानुभूतस्यास्मरणप्रसङ्गात् । नापि प्रत्येकपर्यवसितं, करचरणाद्यवयवापाये तदनुभूतस्य स्मरणाद्योगात् । नापि मृगमदवासनेव वस्त्रादिषु संसर्गादन्यवा- सनाऽन्यत्र संक्रामति । मात्रानुभूतस्य गर्भस्थेन भ्रूणेन स्मरणप्रसङ्गात् । न चोपा- दानोपादेयभावनियमो गतिः । स्थिरपक्षे परमाणूनां तदभावात् । खण्डावयविनं बोधनी । यिनि संक्रामति विच्छिन्नाद्यवगता च तिष्ठत्स्ववयवेष्विति । अत्राह—वासनासंक्रमः— इति । 'सर्गादेव वासनायाः संक्रमणे संक्रान्तमातृवासनेन गर्भस्थेन मात्रानुभूतस्य स्मरणप्रसङ्गः । नन्पूपादानोपादेयभावस्तु नियामिका गतिर्भविष्यति । न अवयवी नाम किञ्चिदस्ति, किन्तु प्रति- क्षणभङ्गुराः परमाणव एव तत्त्वम् । तेन पूर्वैः परमाणुभिरुत्तरेषामुपादीयमानत्वमस्ति । मातृभ्रू- णयोस्तु तदभावान्नातिप्रसङ्ग इत्याह—न च—इति । न च स्थिरपक्षे परमाणूनां नित्यत्वेनोपादेय- भावोऽस्तीत्याद्यपादस्य निगदव्याख्यातत्वाद् द्वितीयं व्याचष्टे—न हि—इति । द्वितीयव्या- ख्याने स्वाथस्यैव विवरणं द्वितीयमेवार्थान्तरेण व्याचष्टे—नापि इति । द्वितीयव्याख्याने तु द्वितीयमिदानीं व्याचष्टे—नापि—इति । तृतीयं व्याचष्टे—नापि मृगमद—इति । तुरीयं व्याच- ष्टे—न च—इति । मा भूत्परमाणूनामुपादानोपादेयभावः, अवयवावयविनोस्तु भविष्यतीत्याश- ङ्कयाह—खण्डावयविनम्—इति । न ह्यनुभवितारो विच्छिन्ना अवयवाः खण्डावयविनमार- प्रकाशः । नन्वृपादानवासनाया उपादेये संक्रमः स्यादित्यत आह । न चेति । स्थिरे=स्थिरपक्षे, परमाणू- नामनुपादेयत्वाद् विच्छिन्नकरादीनां खण्डावयविनं प्रत्यनुपादानत्वादित्यर्थः । प्रतिदिनमिति । आहारपरिणतिविशेषस्य तद्धेतोरन्यान्यत्वादित्यर्थः । ननु करे मे सुखं, पादे मे दुःखमित्यनुभावादसुभवव्यधिकरणस्य सुखादेरनभ्युपगमात् कराद्येवानुभवितृ स्यादि- त्यत आह । नापीति । कराद्यपाये तदनुभूतस्मरणापातादित्यर्थः । मात्रेति । मातृगर्भस्थयो- र्मिथः संसर्गादित्यर्थः । ननु उपादानं यदनुभवितृ तद्वासना तदुपादेये संक्रामतीति करादिवा- सना तदपगमे तदुपादेये संक्रामति, न च मातृभ्रूणयोस्तथात्वमित्यत आह— न चेति । खण्डेति । अवस्थितावयवसंयोगेभ्य एव खण्डावयव्युत्पादादित्यर्थः । न च परमाणूनामेव चैतन्यं, तद्गुणानामतीन्द्रियत्वेन ज्ञानादेरप्यतीन्द्रियत्वापत्तेः । शरीरात्वयादेश्च प्रकाशिका । स्थिरपक्षे इति । क्षणिकतपक्षे पूर्वपरमाणुपुञ्जात्तदुत्तरपरमाणुपुञ्जोत्पत्तिरिति भवत्तूपादेये उपादानवासनासंक्रमः, स्थिरपक्षे तदभावान्न स्यादित्यर्थः । विच्छिन्नेति । तथा च तत्कराव- च्छेदेनानुभूतं तदपगमे नानुभूयेतेति भावः । तद्गुणानामिति । इदमापातः, वस्तुतः मकरन्दः । अत एव नोक्तव्यभिचारोऽपीति वाच्यम् । स्वरूपदृष्टान्तासिद्धेधोरापत्तेः । अन्योन्याभावस्यात्यन्ता- भावेऽत्यन्ताभावस्यान्योन्याभावेऽवृत्तेः । सदातनत्यपि व्यर्थम् । स्वरूपयोरप्रप्रागभावध्वंसयो- रप्यव्याप्यवृत्तित्वेन प्रागभावप्रध्वंसयोरपि साध्यसत्त्वादिति चेन्मैवम् । सदातानाभाववृत्त्यभाव- विभाजकोपाधिरवादिति विवक्षितत्वात् । न चैवमपि दृष्टान्तासिद्धिः, चतुर्द्धा अभावविभागस्य, स पुनश्चतुर्दैत्यनेन करणात् । संयोगप्रागभावादेर्व्याप्यवृत्तित्वाभ्युपगमेन सदातनपदं, तदनभ्युपगमे त्वनादेयमेवेति तत्त्वम् ॥ १४ ॥ स्थिरपक्ष इति । क्षणिकतापक्षे बाल्ययुवशरीयोर: परमाणुपुलारमकतयोपादानोपादेयभावे तद्वासनासंक्रमः स्यात् । स्थिरपक्षे तदभावान्न स्यादित्यर्थः । विच्छिन्नेति । तथा च तद्वास

१८२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकावतरणिकायां प्रति च विच्छिन्नानामनुपादानत्वात् । पूर्वसिद्धस्य चावयविनो विनाशात् ॥ १५॥ अस्तु तर्हि क्षणभङ्गः । न चातिशयोऽप्यतिरिच्यते बोधनी । भन्ते तस्य तिष्ठद्भिरेवारम्भादिति । अखण्डं तु पूर्वावयविनं प्रति विच्छिन्ना एवोपादानभूता इत्यत्राह-- पूर्वसिद्धस्य-इति । किमनेन, स हि तदारब्धः पूर्वावयवीति । तद्विच्छेदे विनष्ट एव क इदानीं प्रतिसन्दध्यात् । अत्र पूर्वशरीरस्याप्युत्तरं प्रत्यनुपादानत्वादित्यपि द्रष्टव्यम् ॥१५॥ अत्र चार्वाक एव बौद्धमतावलम्बनेन प्रत्यवतिष्ठते-अस्तु तर्हि-इति । यदि स्थिरपक्षे गतिर्नास्ति तर्हि क्षणभङ्गमङ्गीकुर्म इति । ननु क्षणभङ्गवादे बीजादीनामङ्कुरादिकार्यानुगुणः कश्चि- दतिशयः क्षितिसलिलादिभिराधीयत इति वक्तव्यम् , अन्यथा कुसूलस्थैरपि बीजैरङ्कुरारम्भप्र- सङ्गात् । स चातिशयो बीजव्यतिरिक्तश्चेत् तस्यैवान्वयव्यतिरेकाभ्यां कारणत्वप्रसङ्गः, अव्यतिरेके तु बीजमात्रमेवेति कुसूलस्थानामप्यङ्कुरारम्भप्रसङ्ग इत्यत आह-न च-इति । सत्यमस्त्यति- शयः, स च भावान्न व्यतिरिच्यते, समर्थस्वभावं भावान्तरमेव क्षित्यादिर्जनयत इत्यर्थः । अथवा प्रतिक्षणभङ्गे भेद उपलभ्येत, तदनुपलम्भान्नास्ति भङ्ग इत्यत्राह--न च-इति । अतिशयो वैलक्षण्यं भेद इति यावत् , व्यतिरेको नास्तित्वं, न च भेदो नास्तीत्यर्थः । यद्वा, करणाकरणवि- रुद्धधर्मसंसर्गाद्धि पूर्वोत्तरयोः क्षणयोर्भेदोऽङ्गीकारः, तस्य सहकारिलाभालाभाभ्यामेकैकस्यैवोपपत्तेर्न भेदः सिध्यतीत्यत्राह--न च-इति । सहकारिजन्यातिशयस्य भावाद्यतिरेके तस्यैव कारण- प्रकाश । कारणत्वमात्रं सिद्ध्यति, न समवायिकारणत्वम् । तदेवं विपक्षबाधकाच्छरीरं न चेतनम् भूत- त्वाद् । घटवदित्यर्थः ॥ १५ ॥ अस्त्विति । तत्र पूर्वोत्तरशरीरयोरुपादानोपादेयभावाद् वासनासंक्रमात् प्रतिसन्धाननि- र्यम उपपद्यत इति भावः । क्षणिकत्वे विप्रतिपत्तिः । सत् स्वोत्पत्त्यव्यवहितोत्तरकालवृत्ति 'सप्रति- योगि न वा ? । तत्र स्थैर्ये प्रसङ्गविपर्ययाभ्यामर्थक्रियाव्यापकक्रमयौगपद्याभावात्तदभावेऽर्थक्रि- याकारित्वरूपसत्त्वानुपपत्तौ, यत् सत् तत् क्षणिकं यथा घटः संश्च विवादास्पदीभूतः शब्दादिरिति पराभिप्रेतं मानम् । ननु क्षणभङ्गे पूर्वक्षणिकभावादग्रिमो भावः सातिशयो जायते, यतः कार्यो- त्पादः, सहकारिसहितस्यैव तद्धेतुत्वे क्षणभङ्गानुषपत्तेः। तथा च सातिशयव्यक्त्युत्पादो गृह्येत, न चैवमिति न तत्सिद्धिरित्यत आह । न चेति । अतिरिच्यते=विविच्य न गृह्यते । असमर्थ- प्रकाशिका । परमाणूनां चैतन्य एकत्र शरीरे चैतन्यबहुत्व एकाभिप्रायनियमेन प्रवृत्तिनिवृत्ती न स्यातामिति दूषणं द्रष्टव्यम् ॥ १५ ॥ सदिति । न चान्त्यशब्दस्य क्षणिकत्वे तत्रैवांशतः सिद्धसाधनम् , अक्षणिकत्वे च विधिकोटेरुप्रसिद्धिरिति वाच्यम् । पक्षतावच्छेदकैक्ये अंशतः सिद्धसाधनस्यादोषत्वात् , तद् भिन्नस्यैव वा पक्षत्वात् । यदि चान्त्यशब्दोऽपि द्विक्षणभावस्थायाी पक्षस्तदायं घट एतदुत्पत्त्यव- हितोत्तरवर्त्तिध्वंसप्रतियोगी न वेति विशिष्यैव विप्रतिपत्तिः, अतस्तत्कालध्वस्तपदार्थ एव विधि- कोटिप्रसिद्धिरिति ध्येयम् । निषेधकोटिप्रसिद्धिरत्तु मन्मते नित्ये तन्मते अलीके यदि सामान्य- विमतिपत्तिः विशेषविप्रतिपत्तौ तु सुलभैवोभयमते । प्रसङ्गविपर्ययाभ्यामिति । सामर्थ्यस्य क्षेत्रपतिते नैयायिकाङ्गीकृतत्वादसामर्थ्यसाधकाभ्यां ताभ्यामित्यर्थः, अत एव प्रसङ्गाभ्यां विप- र्ययाभ्यामित्यपव्याख्यानम् । अर्थक्रियेति । व्यापकत्वं च क्रमयौमपद्ययोरन्यतरत्वावच्छिन्न- मकरन्दः । नासंक्रमाभावात्तदनुभूतं खण्डशरीरेण न स्मर्येतेत्यर्थः॥१५॥ सदिति । न चान्त्यशब्दांशे सिद्धसा- धनमन्यथा साध्याप्रसिद्धेरिति वाच्यम् । सत्त्वावच्छेदेन साध्यसिद्धेरुद्देश्यत्वात् । अर्थक्रियाव्याप- ' अतिरिच्यते = विविच्य निश्चीयते ।

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८३ किन्तु सादृश्यतिरस्कृतत्वाद् द्रागेव न विकल्प्यते, कार्यदर्शनादध्यवसीयते ऽन्- त्यातिशयवत् । तथा च भूतान्येव तथा तथोत्पद्यन्ते, यथा यथा प्रतिसन्धान- नियमाद्योऽप्युपपद्यन्ते । क्षणिकत्वसिद्ध्यावेवमेतत्, तदेव त्वन्यत्र विस्तरेण प्रतिषिद्धम् । अपि च— न वैजात्यं विना तत् स्यान्न तस्मिन्नलुमा भवेत् । बोधनी । त्वप्रसङ्गात् न व्यतिरिच्यत इति वक्तव्यम्, तदा च सहकारिसमवधानाद्भावान्तरमेव जायत इति स्यादित्यन क्षणभङ्गसिद्धिरिति । एवं तर्हि पूर्वबीजवैलक्षण्येनोत्तरं बीजमनुभूयेतेत्यत आह- किन्त्विति । भिन्नो भावः सादृश्यतिरस्कृतभेदत्वादापातः तथा न विकल्प्यते न निश्चीयते वर्तमानक्षणावगाहिना तु निर्विकल्पकेनानुभूयत एवेत्यर्थः । पश्चाद्वा निश्चयः कुतस्त्य इत्यत्राह- कार्यदर्शनात्-इति । कुसूलस्थाद्विलक्षणभावानुत्पादे तद्वदेवानारम्भप्रसङ्गात् क्षित्यादिभिरङ्- कुरसमर्थं भावान्तरं जायत इति निश्चिनुमः । अन्त्यातिशयवत्-इति । यथा स्थिरवादि- नोऽपि जनकावस्थायाामजनकावस्थातोऽतिशय कार्यदर्शनावसीयते । यद्वा अन्त्योऽतिशयः सामग्री, सा यथा कार्यैकसमधिगम्या तथातिशयोऽपीति । यद्वा, अन्त्यातिशयो घटादेरन्यो विजातीयः कपालादिसंतानः, स यथा प्रत्यक्षेणावसीयते तथा प्रतिक्षणभङ्गोऽपि विलक्षणकार्यदर्श- नान्निन्नीयत इति । अस्तु क्षणभङ्गः, प्रकृते किमायात मित्यत्राह—तथा च-इति । भूतानामुपादा- नोपादेयभावनियमेन प्रतिसंधानभोगनियमोपपत्तिरिति । सिद्धान्त्याह क्षणिकत्व इति । अन्यत्र- इति । अन्यत्र=आत्मतत्त्वविवेके । न तावता श्रोतॄणां सन्तोष इत्यत्रापि किञ्चिदाह-अपि-इति । यद्यङ्कुरानारम्भकाद् बीजात्तदारम्भकस्य वैजात्यं कुर्वद्रूपं नाङ्गीक्रियेत तर्हि क्षणिकत्वं न सिद्ध्येत् । एकजातीयत्वे हि तयोः सहकारिलाभालाभाभ्यामेवारम्भाणारम्भनियमो वक्तव्यः, तस्य चैकस्यामेव व्यक्तौ सुवचत्वान्न क्षणिकत्वसिद्धिरिति भावः । अस्तु तर्हि वैजात्यमित्यत्राह—न तस्मिन्-इति । तस्मिन्नप्रामाणिक एव वैजात्येऽङ्गीक्रियमाणे कारणवत् कार्येऽपि वैजात्यसंभाव- प्रकाशः। स्वभावादित्यर्थः । किं त्विति । सादृश्यवशात् तथाभूतोऽपि न तथात्वेनापाततो निश्चीयत इत्यर्थः । तत् किमनिश्चय एव, नेत्याह । कार्येति । स्थैर्ये सहकार्यपेक्षणानुपपत्तेः पूर्वापरकालयोः कार्यदर्शनादर्शनाभ्यामतिशयोऽवसीयत इत्यर्थः । अन्त्यातिशयः=सामग्री । सामग्रीवत् कार्यैकसमधिगम्यत्वान्नानुपलम्भमात्रेण निराक्रियत इति भावः। प्रकृतेन सङ्गमयति । तथा चेति । न वैजात्यमिति । असमर्थव्यावृत्तकुर्वद्रूपत्वं विना, न तत्=क्षणिकत्वम् । अन्यथा सम- प्रकाशिका। स्येति ध्येयम् । यतिरिच्यत इति मूलस्य विविच्य न गृह्यत इति व्याख्या विवेकावधिमाह । असमर्थेति । एवं च विविच्य न गृह्यत इत्यत्र न चेत्यस्य सम्बन्धे विविच्य गृह्यते एवे- त्यर्थपर्यवसाने पूर्वोक्तापादने इष्टापत्तिरिति भावः । आपातत इति । निश्चायकाभावादिति भावः । सादृश्यस्या निश्चयहेतोरग्रेऽपि सत्त्वात् कथं निश्चय इत्याशयेनाह । तत्किमिति । मकरन्दः । केति । यद्यपि क्रमयौगपद्ययोः प्रत्येकं मिलिततया वा नार्थक्रियाव्यापकत्वं, तथापि तदन्यतर- त्वेन व्यापकत्वम् । अर्थक्रियाकारिणि क्रमकारित्वयुगपत्कारित्वान्यतरनियमादिति बोध्यम् । अति- रिच्यत इत्यस्यैव विविच्य न गृह्यत इत्यर्थः । तत्र, न चेति सम्बन्धे विविच्य गृह्यत एवातिशय इत्यर्थपर्यवसाने सातिशयव्यक्त्युत्पादौ गृह्येतेत्यत्रेष्टापत्तिरिति भावः । आपातत इति । निश्चायका- भावादिति भावः । सादृश्यस्याग्रेऽपि सत्त्वान्निश्चायकाभावस्तुल्य इत्याशयेनाह । तत्किमिति ।

१८४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना ॥१६॥ न हि करणाकरणयोस्तज्जातीयस्य सतः सहकारिलाभालाभौ तन्त्रमित्य- भ्युपगमे क्षणिकत्वसिद्धिः। तथैकव्यक्तावप्यविरोधात्, तद्वा तादृग्वेति न क- श्चिद्विशेष इति न्यायात्। ततस्तावनादृत्य वैजात्यमप्रामाणिकमेवाभ्युपेयम्। एवञ्च कारणवत् कार्येऽपि किञ्चिद् वैजात्यं स्याद् यस्य कारणापेक्षा, न तु बोधनी। नया कार्यादिलिङ्गकमनुमानमेवोच्छिद्येत। नन्वनुमानोच्छेदोऽस्माकं चार्वाकाणामिष्ट एवेत्यत आह-विना तेन-इति । न ह्यनुमानेन विना क्षणिकत्वसिद्धिः प्रमाणान्तराभावात्। नन्वस्ति प्रत्यक्षमित्यत्राह-नाध्यक्षम्-इति । कुत इत्यत्राह-निश्चयं विना-इति । निश्चयो विकल्प- स्तेन विना न निर्विकल्पमात्रं क्वचिदपि प्रमाणं, निश्चयश्चात्र नास्तीति । व्याचष्टे-न हि-इति । तन्त्रं = प्रधानम् प्रयोजकमिति यावत् । कथं न सिद्धिर्यावता साजात्येऽपि करणाकरणलक्षणविरुद्धधर्मसंसर्गाद् व्यक्तिभेदः सिध्यतीत्यत्राह-तथा-इति । एकजातीयवदेकस्यामपि व्यक्तौ सहकारिवशेन करणाकरणयोरविरोधादिति । तद्वा इति । तत् = पूर्वकालवर्तिबीजं, तादृक् = तज्जातीयव्यक्त्यन्तरम् , यथा तज्जातीयस्यैव सतः करणाकरणे तथैकस्या एव व्यक्तीर्भविष्यत इत्यर्थः । उपसंहरति-ततः इति । तौ = प्रामाणिकौ सहकारिलाभालाभौ, अप्रामाणिकमिति वक्ष्यमाणोपयोगितयोक्तम् , अभ्युपग- न्तव्यं क्षणिकत्वसिद्धय इति शेषः । अस्तु वैजात्यमिष्टमेव हि नस्तदित्यत्र न तस्मिन्ननुमा भवेदित्येतदुपपादयितुमुपक्रमते - एवम्-इति । यदि कारणेऽनुपलभ्यमानस्यैव वैजात्यस्य प्रकाशः। र्थस्यैव सतः कार्यजननाजननयोः सहकारिसाहित्याभावाभ्यामेवोपपत्तेः। तस्मिन्=वैजात्ये व सति क्वाप्यनुमितिर्न स्यात्, उपस्थितं कारणगतरूपं परित्यज्यानुपलभ्यमानरूपान्तरेण कारणत्वे कार्येऽ- प्युपस्थितरूपमपहायानुपलभ्यमानरूपान्तरेण कार्यत्वशङ्कया कार्यकारणभावाग्रहात्। तेन चानु- मानेन विना न तत्सिद्धिः, क्षणिकत्वसिद्धिरित्यर्थः । न च प्रत्यक्षादेव क्षणिकत्वसिद्धिरित्याह । नाध्यक्षमिति । अध्यक्षं = निर्विकल्पकम् । निश्चयः = सविकल्पकम् । क्षणिकत्वनिश्चयाभावान्न तदुन्नेयं क्षणिकत्वनिर्विकल्पकमित्यर्थः । तज्जातीस्येति । पूर्वविशिष्टतज्जातीयस्यैवेत्यर्थः । तथैकेति । यैव पूर्वव्यक्तिः सहकारिवैधुर्यात् कार्यं मा कार्षीत् सैव तत्प्राप्तौ करोतीत्यत्र विरो- धाभावादित्यर्थः । ननु दृष्टसज्जातीयाऽपि व्यक्तिस्तदन्यैवेत्यत आह । तद्वेति । तत् = यदेव पूर्वकालवृत्ति तदेवोत्तरकालवृत्ति । तादृग्वैजात्यशून्यमन्यदित्यर्थः । ननु दृष्टजातीयस्य कारणं विना करणाकरणयोः = कार्यजनकत्वाजनकत्वप्रयुक्ततयाऽभ्युपगतयोः कार्योत्पादनानुत्पादनयोः । तज्जातीयस्य = बीजत्वेन जनककुर्वद्रूपजातीयस्य, अनेन स्वरूपजनकत्वं प्रदर्शितम् । अर्थ- क्रियाकारिणः अर्थक्रियाकारितास्वरूपयोग्यतात्मिका कुसूलस्थस्य कुर्वद्रूपस्य चाविशिष्टैव तथापि न काचित् क्षतिः, स्वरूपयोग्यत्वेऽपि कार्यप्रसङ्गस्य सहकारिविरहादुपपत्तेरित्याशयः। क्षणि- कत्वसिद्धिरिति । कुसूलावस्थितिमन्त्याङ्कुरावयवहितपूर्वपर्यन्तमेकबीजव्यक्त्यभ्युपगमे कार्य- प्रसङ्गविपर्ययौ स्यातामिति क्षणिकत्वं सिध्यति ती चेत् सहकारिलाभालाभाभ्यामुपपन्नौ कुतः क्षणि- कत्वमित्याशयः । तथेति । यथैकजातीयस्य स्वरूपयोग्यत्वेऽपि कार्यजननाजननयोर्विरोधः सह- कारिलाभालाभाभ्याम् तथेत्यर्थः । एकव्यक्तौ = कुसूलस्थाभिन्नायामपि कुर्वद्रूपव्यक्तौ । अविरो- धात् = कार्योत्पादकत्वानुत्पादकत्वयोरविरोधात् । कश्चिद्विशेष इति । भेदेऽप्येकजातीयत्वापगमे

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८५ दृष्टजातीयस्येतिशङ्कया न तदुत्पत्तिसिद्धिः । दृष्टजातीयमाकस्मिकं स्यादिति चेन्न । तत्राऽपि किञ्चिदन्यदेव प्रयोजकं भविष्यतीत्यविरोधात् । न कार्यस्य विशेषस्तत्प्रयुक्ततयोपलभ्यते, नापि कार्यसामान्यस्यान्यत् प्रयोजकं दृश्यत इति चेत् । तत् किं कारणस्य विशेषः स्वगतस्तत्प्रयोजकतयोपलब्धः ? कारणसा- बोधनी । कार्यप्रयोजकत्वेनाभ्युपगमः, तर्हि तद्देव कार्येऽप्यनुपलभ्यमान एव कश्चिज्जातिभेदः स्यात् यस्य वह्न्यादिकारणापेक्षा, न तु दृष्टधूमादिजातीयस्य वह्न्याद्यपेक्षेति शङ्कावकाशात् न प्रतिबन्धनिवन्धनं तदुत्पत्तिः सिध्यति, तत्=कार्यलिङ्गकानुमानेनेति भावः । दृष्ट-इति । यदि धूमाद्यवान्तरजातिभेदे वह्न्यादेरुपयोगः, तर्हि दृश्यमानं धूमादिजातीयमहेतुकं स्यात्, ततः कार्येऽवान्तरजातिशङ्कानवकाशेति । न इति । वह्नयादेर्धमावान्तरजातिभेदोपयोगेऽपि न धूमा- दिजातीयस्याकस्मिकत्वविरोधः, तत्रापि वह्न्यादेरन्यदेव किञ्चिदनुपलभ्यमानं प्रयोजकं भविष्य- तीत्यप्रामाणिकमेवाभ्युपगच्छतः किं नाम दुर्लभमिति भावः । न कार्यस्य विशेषः- इति । धू- मादिगतविशेषो न वह्न्यादिप्रयुक्ततयोपलभ्यते, नापि कार्यमात्रस्य धूमादिजातीयस्यान्यत् प्रयोजकं दृश्यते, तेनानुपलभ्यमानयोः प्रयोज्यप्रयोजकत्वकल्पनमेव विरोध इति । तत्किम्-इति । वह्न्यादिकारणगतो विशेषो धूमादिसामान्यप्रयोजको नोपलभ्यते । वह्नयादिविशेषस्य धूमादिप्र- योजकत्वे वह्न्यादिसामान्यस्यान्यत्प्रयोजनं वक्तव्यमर्थक्रियाविरहिणः सत्त्वानुपपत्तेः । तच्च नोपलभ्यते, तेन समानस्तादृशो विरोध इत्यनुपलभ्यमानोऽपि कारणगतो विशेषः शङ्किष्यते प्रकाशः । भवत आकस्मिकत्वं स्यात् । तथा च कादाचित्कत्वव्याघात इत्यत आह । दृष्टेति । कारणं विना कार्यस्योक्तदोषो, न तु दृष्टजातीयं विनेति तत्र कारणान्तरं स्यादित्याह । तत्रापीति । न कार्यस्येति । कारणविशेषप्रयोज्यं कार्यस्य वैजात्यं, दृष्टजातीयस्य च प्रयोजकान्तरं योग्यानुपलब्धिबाधितमित्यर्थः । तत्किमिति । कुर्वद्रूपत्वमपि न कार्यं प्रति कारणतावच्छेदकं दृष्टम् , न चोपस्थितकारणतावच्छेदकरूपस्य प्रयोज्यान्तरमिति तदपि तथेत्यर्थः । न चेष्टा- पत्तिः । तेन रूपेणार्थक्रियारहितत्वात् त्वन्मते प्रामाणिकत्वं न स्यादित्यर्थः । अथ निश्चयेन प्रकाशिका । तदपि तथेति ! कुर्वद्रूपत्वमपि योग्यानुपलब्धिबाधितमित्यर्थः । ननु यदि बीजत्वावच्छिन्नस्य न प्रयोज्यान्तरं दृश्यते तदा मास्तु, अस्माकमिष्टमेव तदित्याशङ्कयाह । न चेष्टापत्तिरिति । कश्चितु अस्तु बीजत्वमेवाङ्कुरप्रयोजकमित्याशङ्कायां न चेष्टापत्तिरिति पक्तिक्का तथा सति तेन रूपेण कुर्वत्त्वेन प्रामाणिकत्वं न स्यादित्युत्तरप्रतीकार्थ इत्याह । विरोधोऽसामानाधिकरण्यम् । न च जातिसङ्कर- मकरन्दः । तदपि तथेति । कुर्वद्रूपत्वमपि योग्यानुपलब्धिबाधितमित्यर्थः । न चेष्टापत्तिरिति । उपस्थितबीजत्वाद्येवाङ्कुरादिप्रयोजकमस्त्वित्यर्थः । तेनेति । बीजत्वादिनेत्यर्थः । तथा च ताह- प्रवृत्त्योपयिकस्वरूपयोग्यात्मकाकारणतायां कार्यप्रसङ्गवारणे यथा • न विशेषस्तथाऽभेदेऽपि न विशेष इत्यर्थः । न तदुत्पत्तिसिद्धिरिति । कारणत्वेन निर्णीतदृष्टजातीयकार्योत्पत्तिनिर्णय इत्यर्थः । तथा च धूमसामान्यलिङ्गेन वह्नयनुमितेरपलापः । विशेषस्त्वनिर्णीत एवेति, न लिङ्गताव- च्छेदकत्वयोग्य इति भावः । तत्प्रयुक्ततयेति । दृष्टजातीयकार्यप्रयोजकतया गृहीतस्य कल्पित- वैजात्यवतः सकारणस्य प्रयुक्ततयेत्यर्थः । अन्यदिति । कल्पितविशेषवतः कारणादन्यदित्यर्थः । २४ न्या० कु०

१९६ व्याख्यात्रयोपेतप्रकाशबोधनीयुतन्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां मानस्य वान्यत् प्रयोज्यान्तरं दृश्यते ? यतो विवक्षितसिद्धिः स्यात् । शङ्का तू- भयत्रापि सुलभेति । कार्यजन्म-जन्माभ्यामुन्नीयत इति चेत् । न । सहकारिला- भालाभाभ्यामेवोपपत्तेः । उन्नीयतां वा, कार्येषु शङ्किष्यते, निषेधकाभावात् । न हि धूमस्य विशेषं दहनप्रयोज्यं प्रतिषेद्धुं स्वभावानुपलब्धिः प्रभवति, कार्यै- कनिश्चयस्य तदनुपलब्धेरेवानिश्चयोपपत्तेः । कार्यस्य चातीन्द्रियस्यापि सम्भवात् । अत एवानुपलब्ध्यन्तरमपि निरवकाशमिति । बोधनी । निषेधकाभावादित्याशङ्क्य सा तर्हि कार्यगतविशेषे सुलभेत्याह— शङ्का तु-इति । यद्वा, कार्य- गतविशेषे शङ्कामात्रमेव न तु निश्चयोऽनुपलम्भादित्याशङ्क्य कारणगतेऽपि शङ्कामात्रमेवेत्याह- शङ्का तु-इति । कार्य- इति । ननु मा भूत्कारणगतो विशेषः प्रत्यक्षः, तथापि न तत्र शङ्का- मात्रं, किं तर्हि कुसूलस्थत्वालस्थयोः कार्यारम्भाणारम्भाभ्यामनुमीयतेऽस्ति वैजात्यमिति । न-इति । कार्यजन्माजन्मनोरन्यथासिद्धत्वान्न ताभ्यां वैजात्यं सिद्ध्यतीत्यभ्युपेत्याह—उन्नीय- ताम्-इति । निश्चीयतां कारणगतो विशेषः, कार्यगतविशेषस्तु निश्चयाभावेऽपि शङ्क्योत्पद्यते, साधकवत् बाधकस्याप्यभावाद् । अनुपलब्धस्यैव कारणगतस्य कल्पनादर्शनाच्च शङ्कोत्पपत्तेः शङ्कामात्रेणापि प्रतिबन्धमूलं तदुत्पत्तिर्न सिध्यतीति भावः । कार्यगतविशेषं स्वरूपानुपलब्धिरेव निषेत्स्यतीत्यत आह—न हि इति । किमिति न प्रभवति तत्राह—कार्य-इति । शङ्क्यमानस्य कार्यगतविशेषस्यातीन्द्रियत्वेन कार्यलिङ्गेन निश्चेतव्यत्वात् कार्यानुपलब्ध्यैवानिश्चयोपपत्ते- रिति । अस्तु तर्हि कार्यानुपलब्ध्या तत्प्रतिषेधोऽत आह—कार्यस्य इति । कार्यगतविशेषव- तत्कार्यमपि किञ्चिदतीन्द्रियमस्तीति संभावनायां कार्यानुपलब्धिः, तं प्रतिषेधति—अत इति । अत एव, यत एव स्वभावानुपलब्धिर्न प्रभवति अत एवेत्यर्थः । सन्ति हि षोडशानुपलब्धयः— स्वभावानुपलब्धिः स्वभावविरुद्धकार्यानुपलब्धिः स्वभावविरुद्धव्याप्तोपलब्धिरिति चतस्रः, कार्या- नुपलब्धितद्विरुद्धकार्यविरुद्धव्याप्तोपलब्धयश्चेति चतस्रः, तथा व्यापकनुपलब्धिस्तद्विरुद्धविरुद्ध- प्रकाशः । नोच्यते, अपि तु शङ्क्यते तत्राह । शङ्का त्विति । ननु न कारणवैजात्यं शङ्क्यते, येन तत्कार्येऽपि वैजात्यशङ्का स्यात् । किं त्वनुमानसिद्धम् । तथा हि यदि यः प्रागजनकः स एवोत्तरकालमनुवर्तते तदा कथं ततः कार्यजन्म । जनकस्य वा तत्पूर्वं सत्त्वे कथं पूर्वमजनन- मिति कार्यजननाजननाभ्यां पूर्वोत्तरयोर्वैजात्यमनुमीयत इति शङ्कते । कार्येति । जननाजन- नयोरन्यथाऽप्युपपत्तेर्नोपलभ्यमानवैजात्यानुमानमिति परिहरति । सहकारीति । निषेध- केति । साधकस्येव बाधकस्याप्यभावादित्यर्थः । नन्वनुपलब्धिरेव बाधिकेत्याह । न हीति । स्वभावानुपलब्धिः = योग्यानुपलब्धिः । वैजात्यस्यायोग्यत्वादित्यर्थः । कार्यैकेति । सतोऽपि वैजात्यस्य व्यञ्जकतत्कार्यानुपलब्धौ वाऽनुपलब्ध्युपपत्तेः । कार्यानुपलब्ध्या हि कारणं न निश्चीयते, न तु तदभावो निश्चीयते व्यभिचारादिति भावः । ननु धूमकार्यदर्शनेऽपि न धूम- वैजात्यं दृश्यत इत्यत आह । कार्यस्य चेति । धूमकार्यमैन्द्रियकमेवेत्यत्र नियामकाभावादती- न्द्रियमपि तदस्तीति तत्प्रयोजकधर्मवैजात्यशङ्का स्यादित्यर्थः । अत एवेति । व्यापकानुपल- ब्धिरपि न तन्निषेधिकेत्यर्थः । उक्तशङ्कया तदुत्तरस्याप्यनिश्चयेन व्यापकत्वानिश्चयादिति भावः । मकरन्दः दोषापत्तौ तवापसिद्धान्त इति भावः । यद्वा कुर्वद्रूपत्वेनेत्यर्थः । तथा चानेन रूपेणार्थक्रियार- हितत्वमभ्युपगमात् तव कुर्वद्रूपत्वं प्रामाणिकं न स्यादिति भावः । ननु शालिश्चकुर्वद्रूपपरयो-

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८७ एवं, विधिरूपयोर्व्यावृत्तिरूपयोर्वा जात्योर्विरोधे सति न समावेशः, समा- विष्टयोश्च परापरभावनियमः, ऽन्यूनानतिरिक्तवृत्तिजातिद्वयकल्पनायां प्रमाणा- बोधनी । कार्यविरुद्धव्याप्तोपलब्धयश्चेति चतस्रः । तत्र चानुपलब्धिकार्यप्रतिषेधसामर्थ्यादुपलब्धीनामप्य- नुपलब्धिव्यवहारः । सर्वासामसां न कार्यगतातीन्द्रियविशेषनिषेधे सामर्थ्यम् । अतीन्द्रियेण सह विरोधित्वकार्यकारणत्वव्याप्यव्यापकत्वानामाशक्यनिश्चयत्वादित्यर्थः । एवं वैजात्याङ्गीकारे कार्य- लिङ्गकमनुमानं न सिध्यतीत्युक्तम् । इदानीमनुपलब्धिलिङ्गकं स्वभावहेतुकं च यथा न सिध्यति तथा दर्शयितुं भूमिकामारचयन् वैजात्याभ्युपगमे बाधकान्तरमाह—एवम्-इति । यथातथा वा भवतु जातिस्वरूपं, सर्वथा तु तस्य कुर्वत्त्वजातिभेदस्य बीजत्वेन सहैकस्यां व्यक्तौ न समावेशः संभवति । कुर्वत्त्वाकुर्वत्त्व- योर्विरोधाद् यदि समावेशः स्यात्ततस्तस्य शालित्वं प्रति परत्वं वा स्याद् वृक्षत्ववत्, अपरत्वं वा स्याच्छिंशपात्ववदिति । न चोभयमपि संभवति, परत्वे शालिजातीयं सर्वमपि कार्यं कुर्यात्, अपरत्वे स्वशालिजातीयमङ्कुरं न कुर्यादिति भावः । अत्र परापरभूतयोर्जात्योरसमावेश एव साध्यः, समाविष्टयोस्तु परापरभावः प्रसङ्गादुक्त इति । उत्तरस्मिन्साध्ये हेतुमाह-अन्यून- इति । अनुवृत्ताकारावभासिनी हि प्रतीतिर्जातिसद्भावे प्रमाणम् । तस्याश्चैकयैव जात्योपपत्तौ न तावत्स्वेव पिण्डेषु जात्यन्तरे प्रमाणमस्तीति । व्यावृत्तिरूपयोरपि जात्योः समावेशे परापरभाव प्रकाशः । वैजात्ये जातिसङ्करं बाधकान्तरमाह— एवमिति । विधिरूपयोरिति स्वमते, व्यावृत्तिरूपयोरिति परमते । विरोधः=परस्पराभा- वसद्वृत्तित्वम् । कुर्वद्रूपत्वस्य शालित्वव्याप्यत्वे यवबीजे तदभावः । व्यापकत्वे कुशूलस्थशालौ तदभावः स्यादिति परस्परव्यभिचारे तयोरेकत्र समावेशो न स्यादित्यर्थः । अन्यूनेति । पर्याय- प्रकाशिका । स्थले तच्छङ्कितमत आह । विरोधः परस्परति । कुर्वद्रूपत्वस्येति । अङ्कुरकुर्वद्रूपत्वस्येत्यर्थः। एकत्र समावेश इति । क्षेत्रपतितशालिबीज इत्यर्थः । ननु समाविष्टयोः परापरभावनियम इति मूलमयुक्तं घटत्वकलशत्वयोर्व्यभिचारात् परापरभावस्य न्यूनाधिकवृत्तित्वरूपत्वादित्या- शङ्कायां मानाभावेन तादृशजात्यभावप्रतिपादकं मूलमन्यूनेत्यादितत्र बाधकमपि हेतुत्वेन समुच्चि मकरन्दः । विरोध एव नास्ति, सामानाधिकरण्यादित्यत आह । विरोध इति । पर्यायेति । सर्वत्र प्रवृत्ति- निमित्तभेदसम्भवेनैकप्रवृत्तिनिमित्तकत्वाभावादिति भावः । अनुगतबुद्धिवलात्तेषु नियामकं सिद्धय- ल्लाघवादेकमेव सिध्यतीति नान्यूननातिरिक्तव्यक्तिकजातिद्वयस्वीकार इत्यपि द्रष्टव्यम् । विरोध इति । यद्यप्यत्र विरोधो न सामानाधिकरण्याभावो, नापि परस्परात्यन्ताभाववद्वृत्ति- त्वं, तयोर्व्याप्यव्यापकभावाभ्युपगमात् । तथाप्यन्यूननातिरिक्तव्यक्तिकव्यतिरिक्तत्वाभाव एव स जात्योरिति । अनुगतप्रत्ययानु रोधेनाखण्डतया कल्पितयोरित्यर्थः । तेन तेषां जातिपरि- भाषाऽभावेऽपि न क्षतिः । उपाधिश्च नाखण्डोऽनुगतः सप्तपदार्थवादिनामपि हीष्ट, इत्याशयः । विरोधे=परस्परपरिहारेण वृत्तौ सत्याम् ।

१८८ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां भावात् । व्यावत्र्त्यभेदाभावेन विरोधानवकाशे भेदानुपपत्तेः । बोधनी । एवेत्याह—व्यावर्त्त्य-इति । अपोह्यभेदेनापोहानां विरोधस्ततश्च तेषां भेद इत्यपोहवादः । तन्न शब्दोच्छेदप्रसङ्गाद् बाधकाच्चेति भावः । प्रमाणाभावमेवाह । व्यावत्र्त्येति । यथा प्रकाशः । वृक्षत्वशिंशपात्वयोर्व्यावर्त्त्यभेदाद्विरोधः, एकस्य ह्यवृक्षमात्रं व्यावर्त्त्यम्, अन्यस्य वृक्षविशेषोऽ- पि पनसादिः । न तथा बुद्धित्वज्ञानत्वयोर्व्यावर्त्त्यभेद इत्यर्थः । ननु समाविष्टयोर्जात्योर्न परापरभावनियमः । घटत्वसुवर्णत्वयोर्व्यभिचारात् । न चोपष्ट- म्भकपार्थिवभागवृत्त्येव घटत्वं, न सुवर्णवृत्तीति वाच्यम् । एवमपि काष्ठपाषाणघटादावप्रतीका- रात् । नाऽपि मार्द्द एव घटे घटत्वम् , अन्यत्र तु तथाविधसंस्थानवत्त्वगुणयोगाद् गौणो घट- व्यवहारः । मुख्यत्वस्य विनियन्तुमशक्यत्वात् । अथ संस्थानवृत्त्येव घटत्वं, न द्रव्यवृत्तीति न तयोः समावेशः, संस्थानं हि अवयववृत्तिः संयोग एव । युक्तं चैतत् । कथमन्यथा तस्मिन्नेव सुवर्णे तत्संस्थानसत्त्वासत्त्वाभ्यां घटतदभावव्यवहार इति । तन्न । तत्राप्यन्यतरकर्मजत्त्वादिना सङ्करप्रसङ्गात् । गुणगतजातौ न साङ्कर्य्यदोष इति मतन्निर्बीजमेव । अत्राहुः । सुवर्णत्वादिव्याप्यं नानैव घटत्वम् । न चैवं सुवर्णादिघटेष्वनुगतव्यवहारो न स्याद् , घटत्वस्य प्रत्येकविश्रान्तत्वेन व्यक्तिस्थानीयत्वादिति वाच्यम् । भिन्नजातीयघटेषु तादृ- शसंस्थानवत्त्वेनोपाधिना तथा व्यवहारात् । तर्हि संस्थानवृत्त्येवान्यतरकर्मजत्वादिव्याप्यं नानैव प्रकाशिका । नोति । पर्यायेति । व्यावर्त्त्यभेदाद्दु विरोध इति । व्यापकजातिसंगृहीतस्य कस्यचित् प्रतिक्षेप एव व्याप्यजात्या तयोर्विरोध इति ध्येयम् । मुख्यत्वस्येति । मार्द्दघटमध्यस्थिते सौ- वर्णघटमानयेति व्यवहारवत् सौवर्णघटमध्यस्थिते मार्द्दं घटमानयेति विशेषादिति भावः । तत्रा- प्यन्यतरेति । संयोगकर्मजन्यतावच्छेदकजात्या सङ्कर इति भावः । गवाश्वाकारकरभितरतद्वस्तू- पलम्भापत्तिर्जातिसङ्करे बाधिका न च रूपरसयोः साकारत्वं अवयवसंस्थानस्याकारत्वा- दित्याशयेन गुणगतजातौ न साङ्कर्य्यदोष इति प्रवादस्तं निषेधति । इति मतं निर्बीजमे- वेति । रूपरसात्मकवस्तुपलम्भापत्तेर्गुणगतजातावपि बाधकत्वादिति भावः । तादृशसंस्था- नवत्त्वेनेति । संस्थानञ्च घटसमानाधिकरणमेकजातीयमेव, अन्यतरकर्मजत्वादिकन्तु तद्- व्याप्यं नाना । तत्रानुगतव्यवहारस्यान्यतरकर्मजत्वादिन। संभवात् । न च संस्थानवृत्त्येकजातौ मानाभावः घटोऽयं घटोऽयमिति नानाजातीयघटीयपरम्परासम्बन्धेनानुगतव्यवहारोपपादक- त्वात् । न च तथा सति द्रव्यवृत्तिनानाजातेः सुवर्णत्वादिव्याप्यायाः स्वीकारे किं प्रमाणमिति वाच्यम् । महाशीलो घट इति प्रयोगस्य साक्षात्सम्बन्धधर्मेणोपपत्तौ परम्परासम्बन्धनिमित्तक- त्वाकल्पनात् । अत एव च घटपदस्य नानार्थत्वमप्यनन्यगतिकत्वात् । अन्यथाक्षादिपदेऽप्यन्या न्यत्वं निमित्तमादायैकार्थत्वं किं न कल्प्यते तादृशी न प्रतीतिरिति तु प्रकृतेऽपि तुल्यम् । तर्हीति । यद्यपि संस्थानवृत्त्येकैव जातिरित्युक्तम् । तथापि जातित्रयस्वीकारेऽपि सुवर्णत्वादि- मकरन्दः । इह विवक्षित इति बोध्यम् । न चोपष्टम्भकेति । समाविष्टत्वमेव नानयोरिति भावः । ननु संस्थानवृत्तित्वेऽपि कथं न द्रव्यवृत्तित्वमत आह । संस्थानं हीति । संस्थानवृत्तित्वे युक्तिमाह । युक्तञ्चैतदिति । गुणगतजाताविति । तद्दोपताप्रयोजकस्य बीजस्य तुल्यत्वादिति भावः । तादृशेति । यद्यप्यवयवसंयोगात्मकसंस्थानं नावयवनि, तथापि परम्परासम्बन्धेन तद्वत्त्वं बोध्यम् । अत एव तदेकार्यसमवायिद्रव्यत्वं तत्त्वमिति वक्ष्यतीति भावः । एवञ्च घटपदप्रवृ-

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८६ परस्परपरिहारवत्योश्च समावेशे गोत्वाश्वत्वयोरपि तथाभावप्रसङ्गात् । बोधनी । तावत्स्वेव पिण्डेषु अपोहद्वयानाधारेषु सत्सु कुतोऽपोहभेदः कुतस्तरां तन्निबन्धनो विरोधः कुतस्तमां वापोहभेद इति । पूर्वसाध्यसिद्ध्यर्थमनिष्टप्रसङ्गमाह—परस्पर-इति । तथा भावः=समावेशस्तस्माद्भिन्नायोरपरापरभूतयोः परस्पराभावाविनाभाविनोरेकत्र न समावेशः, प्रकाशः । घटत्वमस्तु, तन्नानात्वस्यावश्यकल्प्यत्वात्, एतावता संस्थानविशेषान्वयव्यतिरेकानुविधानमपि घटव्यवहारस्य सङ्गच्छत इति चेत् । न । महान् नीलो घटश्चलतीति परिमाणरूपविशेषकर्म- सामानाधिकरण्यप्रतीतेः । न च संस्थाने गुणे तत्सम्भवः । यद्वा, संस्थानविशेषैकार्थसमवायिद्रव्य- त्वमुपाधिर्घटत्वम् । ननु क्वचिदसमाशदर्शनादस्त्वनयोर्विरोध इत्याह । परस्परेति । विरोधे क्वचित्समावेशो प्रकाशिका । व्याप्यनानाजातिस्वीकारापेक्षया लाघवमेवेति तथैवाशङ्कितम् । घटत्वमस्त्विति । साक्षात्स- म्बन्धेनैव घट इति प्रतीतौ प्रकारोऽस्त्वित्यर्थः । महान्नील इति । तथा च महत्त्वादिसामाना- धिकरण्यप्रतीत्यनुरोधेन द्रव्यवृत्त्येव घटत्वं नाना च, यदि च मार्त्तंसौवर्णघटसाधारणी प्रतीतिः, तदा संस्थानवृत्त्येकजात्येति प्रथमपक्षाशयः, लाघवादुपाधेरेकस्यैव प्रवृत्तितिमित्तत्वं प्रतीतिप्रकारत्व- ञ्चेत्याशयेन द्वितीयकल्पमाह । यद्वेति । अत्रापि दण्डादिजन्यतावच्छेदकत्वेन सिद्धानां जाती- नां नापलापः, विजातीयसंस्थानस्यानुगमकत्वं प्रतीतौ प्रयोगे चेति परं भेदः । तत्रापि कपाल- रूपादावतिप्रसक्तिरिति द्रव्यपदं तत्संस्थानोपरमानन्तरमुत्पन्ने तत्रैव द्रव्यान्तरेऽतिव्याप्तिवार- णाय स्वसमानकालीनत्वं संस्थाने विशेषणं प्रवेशनीयमिति दिक् । नवीनास्तु मार्त्त एव घटे घट- त्वमन्यत्र तादृक्संस्थानवत्त्वेन गौणः प्रयोग इति न जातिसङ्करनानार्थतादिः । न च विनिगमका भावः । घटमानयेति निरुपपदघटपदप्रयोगान्मार्त्तस्यैव प्रतीतेः । अत एव पिष्टकमय्यो गाव इत्यत्र लक्षणेति चिन्तामणिकृतः । न च प्रतीतिः सौवर्णादिसाधारणी कथमनुगतेति वाच्यम् । पिष्टकगवादावपि तुल्यत्वात् । यदि च साधारणी प्रतीतिरसिद्धैव सिद्धौ वा तत्तुल्यसंस्थानवत्त्वेनो- पाधिनेति तदा प्रकृतेऽपि तुल्यं सौवर्णघटत्वान्वसत्त्वे मार्त्तं घटमानयेति विशेषणोपादानं लाक्षणिकोयधशङ्कानिराशाय । पिष्टकादिगवादिसत्त्वे तद्व्यावर्त्तकविशेषणोपादानवत् । विनिगमकं च भूयः प्रयोगः पूर्वनिरुक्तं चेति वदन्ति । अस्त्वनयोर्विरोध इति । मकरन्दः । त्तिनिमित्तमपि स एवोपाधिरन्यथा नानार्थतापत्तेरिति ध्येयम् । नन्वेवं घटत्वस्य जातित्व एव मानाभावः, कुतो नानात्वम् । अनुगतमत्यादिना हि तत् सिद्ध्यति, तद्विषयश्चोपाधिरेवेति कथं तत्सिद्धिः । न चैवं तारत्वादिकमपि नानाजातिर्न स्यादिति वाच्यम् । उत्कर्षादेर्जातित्वनियमे जातिसङ्करादनन्यगत्या नानात्वाभ्युपगमात् । तत्रानुगतोपाधेरपि तज्जातिघटितत्वाञ्चेत्यनुश- यात्तथैव सिद्धान्तमाह । यद्वेति । संस्थानविशेषवत्त्वं नावयविनीति तदेकार्थसमवायित्व- समावेशे इति । नन्वस्तु पृथिवीत्वघटत्वादिकमिव शालित्वयवत्वादिव्याप्यं नानैव विजातीयाङ्कुरकुर्वद्रूपत्वं तत्र नोक्तदोषः परस्परपरिहारवत्त्वाभावात् । न चाङ्कुरकुर्वद्रूपत्वमेकं प्रामाणिकमङ्कुरसामान्यार्थं बीजसामान्ये प्रवृत्त्यदर्शनेन तत्र सामान्याभावादिति चेन्न । शालीनां वैजात्यस्य प्रत्यक्षसिद्धतया शाल्यङ्कुरार्थे शालिषु प्रवृत्तिदर्शनात् शाल्यङ्कुरकुर्वद्रूपत्वस्य शालित्वै- जात्येन साङ्कर्यदोषान् । न च शालिवैजात्यव्याप्यं नानैव विजातीयशाल्यङ्कुरकुर्वद्रूपत्वमङ्कुरवै-

१६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां सामग्रीविरोधान्नैवमिति चेत् , कुत एतत् ? परस्परपरिहारेण बोधनी । समावेशे वा जगति विरोधोच्छेद एव स्यादिति भावः । शङ्कते—सामग्री इति । न हि गोत्वा- श्वत्वयोरसमावेशे परस्परपरिहारवत्त्वं प्रयोजकं किन्तु तदभिव्यञ्जकव्यक्त्युत्पादकसामग्रीविरोधः, तस्माद्विरुद्धयोः समावेशे नातिप्रसङ्ग इति भावः । गूढाभिसन्धिः सिद्धान्ती पृच्छति—कुत एतत् इति । गवाश्वयोर्विरुद्धसामग्रीकत्वं कुतः प्रमाणादवगम्यत इति । इतर आह—परस्पर-इति । प्रकाशः । न स्यादन्यथाऽतिप्रसङ्ग इत्यर्थः । सामग्रीति । गोत्वाश्वत्वव्यञ्जकव्यक्तिसामग्र्योर्विरोधात- योरसमावेश इत्यर्थः । कुत इति । एतद्=विरोधस्वरूपम् । सामग्र्योरेव विरोधः कुतो मानात् सिद्ध इत्यर्थः । परस्तत्र मानमाह । परस्परेति । अतीन्द्रियसामग्र्योरन्योन्यं सहानवस्थान- प्रकाशिका । शालित्वकुर्वद्रूपतयोरित्यर्थः । जिज्ञासाङ्गतिम्पाकरोति । विरोधस्वरूपमिति । मकरन्दः । मुक्तम् । कपालरूपादावतिप्रसङ्गवारणाय द्रव्यत्वम् । ननु संस्थानविशेषस्यानुगतत्वात् कथं तद्घटितोपाध्यनुगमः ? । तद्विशेषत्वं हि घटावयवसंयोगत्वं वा, कपालद्वयसंयोगत्वं वा अन्यद्वा ? नाद्यः । घटत्वस्याननुगमात् । उक्तोपाधिनेव तदनुगमेऽन्योन्याश्रयात् । नापि द्वितीयः । घट- त्ववत् कपालत्वस्याप्यभावात् । तत्र तत्राप्येवमनुगमकोपाधिगवेषणे घटत्वधीस्तावद्विषयशत- भारमन्थरा स्यात् । नान्त्यः । तदनिरुक्तेः । न च जातिविशेष एव तथेति वाच्यम् । अन्य- तरकर्मजत्त्वादिना सङ्करप्रसङ्गात् । एवञ्चाथकल्पेऽपि तादृक्संस्थानवत्त्वेन कथमनुगम इति । न चैकव्यक्तिसंस्थानसदृशसंस्थानवत्त्वेनानुगम इति वाच्यम् । कस्य चित् का चिद्व्यक्तिर्बुद्धिवि- षयः, कस्य चित् का चिदिति सकलानुगतबुद्धिविषयानुगतोपाध्यभावात् । अत एवाथकल्पे एक- जातीयघटसंस्थानसदृशसंस्थानवत्त्वेनानुगम इत्यपास्तम् । अत्राहुः । आद्यकल्प एव साधुः । अनन्यगत्या घटपदस्य नानार्थत्वम् , अक्षादिपदवत् । उक्तोपाधेरनुगतत्वेऽपि तत्प्रकारकप्रतीतेः शाब्द्याः सन्दिग्धत्वेन नानार्थत्वस्यैवोचितत्वात् । अन्यथा तावदन्यतमत्वस्यानुगतोपाधिसत्त्वेऽ- क्षादिपदेऽपि तथात्वं न स्यात् । मार्त्तसौवर्णादिसाधारणी यद्यनुगतधीरस्ति, तदा तद्वेव तत्पदवा- च्यतयाऽस्तु । तद्धटजातीयसदृशसंस्थानवत्त्वेनैव वा तस्यानेकस्यानुगतत्वसम्भवात् , विनि- गमकाभावात् , तत्प्रकारकप्रतीत्यभावाच्च तन्न तत्प्रवृत्तिनिमित्तमिति नानार्थत्वमिति । केचित्तु मार्त्त एव घटे घटत्वमन्यत्र तथाविधसंस्थानगुणयोगाद् गौणस्तद्व्यवहारः । मुख्यत्वे विनिगमक- स्तु निष्पाधिप्रयोग एव, घटमानयेत्युक्ते मार्त्तव्यवहारात् , सुवर्णादिपदसमभिव्याहारात् सौव- र्णादिव्यवहारः । अन्यथा प्रयोगस्य शक्याशक्यसाधारणत्वेन मुख्यत्वनिर्णयः क्वापि न स्यात् । अत एव सौवर्णादिगवादौ गोपदमुख्यम् । तदुक्तं, विष्टकमय्यो गाव इत्यत्र गवाकृतिग्रह- शाक्तौ लक्षणेति । ननु शाब्दो व्यवहारो यथातथाऽस्तु । सौवर्णादिसाधारणी प्रत्यक्षाऽनुगतधीः कथमिति चेन्न । सौवर्णादिगवादावपि तुल्यत्वात् । यदि च तत्र तत्साधारणी गवाकारानुगत- मतिरसिद्धा, सिद्धौ वा तत्तुल्यसंस्थानवत्त्वोपाधिविषया, तदा प्रकृतेऽपि तुल्यम् । अन्यथा घटं दद्यादित्यत्र वेदे सौवर्णामार्त्तादिविषयतयाऽनध्यवसायः स्यात् । सौवर्णादिसत्त्वे मार्त्तं घटमानयेति तद्व्यावर्त्तकविशेषणोपादानं लाक्षणिकान्वयबोधशङ्कानिराशाय । सौवर्णादिगवादिसत्त्वे गवि तद्व्या- वर्त्तकविशेषणोपादानवदिति वदन्ति । जिज्ञासाङ्गतिम्पाकरोति, विरोधस्वरूपमिति । जात्यं फलवैजात्यानुमेयं प्रत्यक्षञ्चेति वाच्यम् । शालिजाजादिकार्यवैजात्यस्य प्रामाणिकतया तत्कु-

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १६१ सर्वदा व्यवस्थितरिति चेद् , नेदमप्यध्यक्षम् । एकदेशसमावेशेन तु सामग्रीस- मावेशोऽप्युन्नीयते । यावत्तत्कार्ययोः परस्परपरिहृतस्वभावत्वादिति चेत् । तर्हि कम्पशिशपयोः बोधनी । सामग्र्योः परस्परपरिहारस्थितेर्विरोधोऽवगम्यत इति । नेदम्-इति । सामग्र्योः परस्प- रपरिहारेणावस्थानम् । इदं न प्रत्यक्षं सामग्र्योर्नित्यं कार्यकल्पत्वादिति, प्रत्युत सामग्रीसमावेश एवानुमातुं शक्यत इत्याह । एकदेश-इति । त्वन्मते गोत्वाश्वत्वयोरेकस्यां व्यक्तौ समावेशात् सामग्र्योरपि समावेशसंभवोऽनुमीयेत यावद् बाधकदर्शनं तावदिति । यद्वा, विरुद्धयोरसमावेशः सामग्रीविरोधादिति वदता विरुद्धयोरेकदेशसमावेशाङ्गीकाराद् विरुद्धयोरपि सामग्र्योः समावेशसंभवोऽनुमीयत इत्यर्थः । शङ्कते-तत्कार्ययोः-इति । न वयं कार्ययोः परस्परपरिहारेण स्थितेः सामग्र्योः परस्परपरिहारस्थितिं कल्पयामः, येन कार्ययोः समावेशसं- भवात् सामग्रीसमागमोऽपि कल्प्येत, किन्तु सामग्रीद्वयकार्ययोर्गवाश्वयोः परस्परपरिहृतस्वभा- वत्वादितरेतराभावत्वादिति यावत्, अस्ति ह्येकदेशसमाविष्टयोरपि परस्परपरिहृतस्वभावत्वमिति भावः । गूढामिसन्धिमुद्घाटयन्नाह-तर्हि=इति । यदीतरेतराभाववत्त्वेन गवाश्वयोः सामग्रीवि- रोधादसद्भावेश इति कल्प्यते तर्हि कम्पशिशपयोरप्यसमावेशः स्यात् । कम्पशब्दश्चात्र कम्प- रूपार्थक्रियाकारिणं शिशपावान्तरजातिविशेषमाह, तेनायमर्थः कारणवैजात्यमभ्युपगच्छता ह्यक- प्रकाशः । नियमो नासर्वज्ञाध्यक्षगम्य इत्याह । नेदमिति । प्रत्युत सामग्र्येकदेशकालदिगादिरूपसमावेशेन यदेव गोरश्वस्य च कारणं दृष्टं, तस्यैव पशुजनकत्वमिति स्वरूपेण गवाश्वसामग्र्योरप्येककार्य- जनकत्वरूपः समावेश एव कल्प्यत इत्याह । एकदेशेति । कार्ययोरिति । कार्ययोर्विरोधा- तत्सामग्र्योर्विरोधः कल्प्यत इत्यर्थः । कम्पेति । सौगतैः कर्म्मण आश्रयभिन्नस्यास्वीकारात् कम्पत्वशिशपात्वजात्योर्न समावेशः स्यात् । चलपिप्पले निश्चलशिशपायाञ्च परस्परपरिहारेण प्रकाशिका । गरश्वस्यो च कारणमिति । एवञ्च कालादिदृष्टान्तेन गोकारणत्वेन हेतुना गवासाधारणकारणस्याप श्वजनकत्वमनुमेयमिति भावः । पशुजनकत्वम् = गोरूपपशुजनकत्वमित्यर्थः । यद्वा पशुजनकत्वम् = पशुजातीयजनकत्वम् । तथा चैकजातीयकार्यजनकत्वेनैककार्यजनकत्वमपि कल्प्यमिति भावः । मकरन्दः । प्रत्युतेति । उभयसामग्र्येकदेशासाधारणकारणकालदिगादेः समावेशेन परस्परसाहित्येनैक कार्यजनकत्वेन दृष्टान्तेन तदुभयासाधारणकारणयोरप्येकपशुजनकत्वं स्यात् । तथा च तदुभयसा- मग्र्या अप्युक्तः समावेशः स्यात् । सामग्र्याः साधारणसाधारणकारणत्मकत्वादित्यर्थः । यद्वा, पशुजनकत्वं पशुजातीयजनकत्वम् । तथा च यथा एकजातीयजनकत्वं तथैककार्यजनक- त्वमपि स्यादित्यर्थः । गोत्वाश्वत्वयोरिति । एवमुपाधिसान्कर्यमपि न दोषः स्यात् । परस्प- रात्यन्ताभावसमानाधिकरणोपाध्योः समावेशे विरुद्धोपाध्योरपि सङ्करशङ्कयाऽन्यतरेणाऽन्यतरा- भावानुमानं न स्यादिति तुल्यत्वादिति प्रत्यक्षप्रकाशे विपश्चितमनुसन्धेयम् ॥ १६ ॥ र्वद्रूपत्वस्य शालिवैजात्येन साङ्कर्यस्य दुर्वारत्वादिति भावः । सर्वदेति । सामग्रीति शेषः । नेदमप्यध्यक्षमिति । व्यवहितदेशकालादेरप्रत्यक्षत्वेनोक्तनियमस्याग्राह्यत्वादित्यर्थः । ए- कदेशसमावेशेनेति । सामग्र्येकदेशकालादृष्टेश्वरादिसमावेशेनेत्यर्थः । तथा चाश्वज- निका सामग्री गोजनिका अश्वकारणत्वात् कालादृष्टादिवदित्यनुमानात् समावेशसिद्धिः स्यादिति भावः । कार्ययोः = गवाश्वाद्योः । परस्परेति । गोः स्वभाव एवायं यदश्वत्वपरित्यागेनैव

१६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां परस्परपरिहारवत्योर्न समावेशः स्यात् । दृश्यते तावदिदमिति चेत् । गोत्वाश्वत्व- योरपि न दृश्यते इति का प्रत्याशा ? तथा च गतमनुपलब्धिलिङ्गेनाऽपि । क्वचिदपि बोधनी । म्पकारिणः शिंशपात्वात् कम्पकारिणो वैजात्यमभ्युपगन्तव्यम् , ततश्च कम्पजनकजनकयोः शिंशपातदवान्तरविशेषयोरसमावेशप्रसङ्गः । तयोरपि परस्पराभावत्वादिति । यद्वा, कार्ययोः परस्परपरिहारेण स्थितेः सामग्रीविरोध इति तत्कार्ययोरित्यनेनाशङ्कय यदि क्वचित्परस्परपरिहार- दर्शनेन सामग्रीविरोधमुच्चीय कार्ययोः सर्वदा सर्वत्रासमावेशः कल्प्येत तर्हि कम्पशिंशपयोः कदा- चिदसमावेशदर्शनात् सर्वदा सर्वत्रासमावेशप्रसङ्ग इति परिहारमाह-तर्हि-इति । दृश्यत इति । परस्परपरिहारेऽपि कम्पशिंशपयोः समावेशो दृश्यते न तु गोत्वाश्वत्वयोरिति नाप्रसङ्गाति- प्रसङ्गाविति । गोत्वाश्वत्वयोरिति । परस्परपरिहारवतोरपि क्वचित्समावेशदर्शनादत्रापि तत्सं- भावना दुष्परिहरेति । एवं तावज्जनकजनकयोः समावेशाङ्गीकारे सर्वत्र गवाश्वादिविरुद्धसमा- वेशसंभावना निष्प्रत्यूहं प्रवर्तेत इति स्थितम् । एवं भूमिकामारचय्य तत्र विवक्षितमनुमाना- भावं निवेशयति-तथा च-इति । कार्यलिङ्गवदनुपलब्धिलिङ्गेनापि गतमिति । तथा चेति परामृष्टं हेतुं स्पष्टयति-क्वचिदपि-इति । एषा हि बौद्धपरिभाषा अनुपलब्धिरसद्व्यवहारयो- ग्यत्वं प्रतिबन्धबलेनानुमापयति । प्रतिबन्धश्चानुपलब्धेः सद्ब्यवहारविरोधात्सिद्ध्यति यथाह न गोत्वमस्ति अश्वत्वादिति गोत्वविरुद्धाश्वत्वोपलब्धिरूपा गोत्वानुपलब्धिर्गोत्वाभावं गमयतीति । तत्र यदि विरुद्धयोरपि समावेशः स्यात् तदानुपलब्धेरपि सद्ब्यवहारयोग्यत्वसमावेशसंभवेना- सद्ब्यवहारयोग्यतया प्रतिबन्धासिद्धेर्गतमनुपलब्धिलिङ्गकमिति । अत एव स्वभावहेतुरपि निरस्त' प्रकाशः । स्थितेरितिमर्थः । दर्शनादर्शनकृत एव समावेशासमावेश इत्याह । दृश्यत इति । यथा तयोर- न्योन्यपरीहारस्थितयोरपि क्वचित्समावेशस्तथा तादृशयोर्गोत्वाश्वत्वयोरपि समावेशः स्यादित्या- शङ्क्येतेत्याह । गोत्वेति । गोत्वाश्वतवयोः समावेशे दूषणमाह । तथा चेति । गोत्वाश्व- त्वयोः समावेशेन विरोधासिद्धौ गोत्वस्याश्वत्वविरुद्धस्योपलब्ध्याऽश्वत्वाभावानुमानं न स्यात् । तथा च कार्यलिङ्गकमनुमानं गतमिति प्रागुक्तं, सम्प्रत्यनेनापि गतमित्यर्थः । क्वचिदपीति । अन्यत्र समावेशसंशयादिति भावः । एवं च वृक्षं विना शिंशपाऽनुपलब्धिरूपविपक्षबाधकनिश्चयं शिंशपाया वृक्षस्वभावत्वमपि न निश्चीयेत । शिंशपात्वमपि वृक्षत्वं व्यभिचरेदिति शङ्कायाः स- जायते । अश्वस्याप्ययं स्वभावो यद्गोत्वपरिहारेणैव जायत इति स्वभावादेव यावत्कार्ययोर्धर्मपरि- हारनियम इति कुतो धर्मयोः समावेशसम्भव इति भावः । परिहारवत्योरिति । परिहारः परस्परधर्मयोः कम्पत्वशिंशपात्वयोर्बोध्यः । समावेशः स्यादिति । न च तयोरसमावेशः कम्प त्वस्य क्रियाधर्मत्वादिष्ट इति वाच्यम् । गुणक्रियाद्रव्याणां भेदस्य तैरनभ्युपगमेन कम्पात्मकशिं- शपालक्षणक्षणिकव्यक्तौ समावेशस्य सम्भवादिष्टापत्तेरयोगात् । कम्पत्वशिंशपात्वयोः समावेशदर्शनात् परस्परपरिहारो न स्वभावः कम्पशिंशपयोः किं तु सामग्रीसमावेशासमावेशनिबन्धनः । गवाश्वयोस्तु स्वभाव एव समावेशदर्शनात् स्वभावत्यागो न कस्यापीष्ट इति शङ्कते । दृश्यत इति । मनुपलब्धिलिङ्गेनापीति । अनुपलब्धिलिङ्गज्ञापकं यन्न तथा चानुपलब्धिमूलकेनेत्यर्थः । गोत्वेनाश्वत्वाभावानुमाने विरोधग्रहो मूलम् तत्रापि गोत्ववत्यश्वत्वानुपलब्धिर्मूलमिति भावः ।