भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

द्वितीयस्तबके ] शब्दा‌नित्यत्वोपपादनम् । २६३ ष्वपि ग्रहणप्रसङ्गः । अयोग्यत्वे घटादिष्वपि तदनुपलम्भापत्तिरिति दुरुत्तरं व्यसनम् । तस्माद् व्यक्तिग्रहणयोग्यताऽन्तर्गतैव जातिग्रहणयोग्यतेति तदनुपलम्भे जातेरनुप- लम्भ एव । तथा च न तारत्वादीनामारोपसम्भव इति स्वाभाविकत्वस्थितौ विरुद्धध- बोधनी । उपसंहरति-तस्मात् इति । यस्माद्व्यक्तिग्रहे सत्येव जातिग्रहणमिति । ततः किमित्यत्राह- तथा च इति। ध्वनिधर्मत्वे तीव्रत्वादीनामग्रहणप्रसङ्गात् न तद्धर्माणामेव तेषां शब्द आरोप इति संभवतीति । किं ततोऽपीत्यत्राह-इति इति । ततश्च तीव्रत्वादेः स्वाभाविकत्वसिद्धौ प्रकाशः । त्वेनाज्ञानात् । न । परमाणुघटितेनेन्द्रियसन्निकर्षेण पार्थिवान्तरे चागृह्यमाणे सत्तादिर्गृह्येतेत्य- र्थात् । न च योग्यव्यक्तिवृत्तित्सन्निकर्षेण तद्ग्रहः, जातेर्योग्यव्यक्तिघटितसन्निकर्षेण ग्रहे योग्य- व्यक्तिभानस्यावश्यकत्वात् । तथा चेति । न च स्मर्यमाणतारत्वाद्यारोपः । प्रथमतस्तारत्वाद्यग्रहा- पाताद् बाधकाभावाच्च । अत एव यथा लोहितः स्फटिक इत्यत्र जपात्वेनाप्रतीतस्यापि लौहित्ये- नैव प्रतीयमानस्य जपापुष्पस्य लौहित्यमारोप्यते, तथा ध्वनित्वेनाप्रतीतावपि तारत्वेनैव ध्वनीनां स्फुरणं स्यादिति निरस्तम् । गकारगतत्वे बाधकाभावात् । ननु तारत्वादयो न गकारादिजातयः । गत्वादिना सङ्करप्रसङ्गात् । न च नानैव तारत्वम् । ताराकारानुगतप्रतीत्यभावापत्तेः । न च गतारत्वाद्येव जातिः । तारत्वस्य निश्चयेऽपि गत्वे संशयात् । तारत्वमन्दत्वे च न जाती । सप्रतियोगिकत्वात् । नाऽपि तयोर्विरोधः, य एव गकारस्तार आसीत् स एवेदानीं मन्द इति कालभेदेन वक्तृभेदेन च तयोरेकत्र प्रतीतेः । तारान्मन्दोऽन्य इत्यपि धीरस्तीति चेन्न । अभेदेन धर्मिणि भासमाने विशिष्टभेदबुद्धेर्धर्मभेदविषयत्वात् । पाकरक्ते घटे, रक्तोऽयं न श्याम इति धीवत् । न च तारमन्दककारयोरभिभाव्याभिभावकभावात् तयोर्भेदः । तद्व्यञ्जकवायोरेव तथात्वेन मन्दस्याग्रहणादिति बाधकादेव स्मर्यमाणारोपः स्यात् । अस्तु वा गृह्यमाणारोपः । श्रोत्रेणैव तद्ग्रहात् । चक्षुरादिना यन्न न वायुधर्मग्रहस्तत्रायोग्यत्वमुपाधिः । अन्यथा श्रोत्रेण स्वगुणो न गृह्येत, इन्द्रियस्य स्वगुणाहकत्वात् । सन्तु वा तारमन्दरूपा भिन्ना एव गकाराः । तत्प्रत्यभिज्ञाने बाधकाभावात् । प्रकाशिका । राभावादिति भावः । पार्थिवान्तरसन्निकर्षकाले इष्टापत्तिमपि कुर्यादिति शङ्कानिराकरणार्थमाह । पार्थिवान्तरे चागृह्यमाण इति । प्रथमत इति । धर्मिधीजन्यस्मृतेरेव स्मर्यमाणाऽऽरोप- हेतुत्वमित्यभिप्रायेणेदम् । एतन्नियममभ्युपगमे स्वाह । बाधकेति । केचित्तु इह जन्मनि प्रथमं तारशब्दश्रवणे आरोपासम्भव इत्याशयार्थः, जन्मान्तरसंस्कारोद्बोधमाशङ्क्य बाधकाभावादिति फॅक्केति व्याचक्षते । ध्वनिगततारत्वादिद्वैजात्याभ्युपगमपक्षे बाधवारणायाह- गकारादीति । ताराकारानुगतप्रतीत्यभावमभ्युपेत्याह न च गतारत्वादीति । तारत्व- स्येति । तारत्वस्य गत्वव्याप्यत्वाद् व्याप्यनिश्चये च व्यापकसंशयाभावादित्यर्थः । व्याप्य- त्वानिश्चयात, संशय इत्यरुचेराह-तारत्वमन्दत्वे चेति । चकारोऽत्र भिन्नक्रमः, तेन सप्रति- योगिकत्वादेत्वर्थः । न च जातित्वाभावेऽपि विरोधः तयोः स्यादित्यत आह-नापीति । मकरन्दः । गुणाहकत्वादर्थान्तरानवकाशे विशेषपदन्तर्भावो व्यर्थः, तथापि ताद्रूप्यसिद्ध्यर्थं चक्षुरादिसा- धारणार्थं वा तदित्याहुः । प्रथमत इति । यथा प्रथमं चाकचिक्यविशिष्टव्यक्तिमात्रं न तु विशिष्टधीः धर्मिज्ञानस्यारोपेहेतुत्वात्, तथाऽत्रापि स्यादिति भावः । वायुगतजातित्वाभ्युपगमपक्षे बाधवारणायाह गकारादीति । तारत्वमन्दत्वे चेति । चकारो भिन्नक्रमः, तथा च सप्रतियो-

२६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यान] र्माध्यासेन भेदस्य पारमार्थिकत्वात् प्रत्यभिज्ञानमप्रमाणमिति न तेन बाधः ॥ बोधनी । तीव्रमन्दयोर्गकारयोर्भेदस्य वास्तवत्वेन शब्दप्रत्यभिज्ञानस्याप्रमाणत्वान्न तेनानित्यत्वानुमान- बाध इति । प्रकाशः । उच्यते । शुकशारिकामनुष्यप्रभवेषु स्त्रीपुंसतद्विशेषप्रभवेषु चेक्षुक्षीरादिमाधुर्यवत् स्फुटतरं वैजात्यमनुभूयते । न चेदभौपाधिकम् । तत्त्वं हि आनुभविकम्, औपपत्तिकं वा ? । नाद्यः । इन्द्रियासन्निकर्षेण स्त्रीपुंसतद्विशेषाननुभवेऽपि शब्दभेदप्रत्ययात् । यतः स्त्रीपुंसप्रभवत्वमनुमीयते । अन्यथाऽन्योन्याश्रयात् । स्त्रीप्रभवत्वे ज्ञाते भेदधीस्ततश्च तदनुमानात् । नान्त्यः । उपाधेरन्वयव्य- तिरेकानुविधानाभावात् । न च व्यञ्जकवायुवैजात्यं गकारगतत्वेन भासते, वायोश्च ज्ञानं तेनैव रूपेणेति वाच्यम् । गकारगतत्वे बाधकाभावात् । न चाभेदप्रत्यभिज्ञानं बाधकम् । य एव शुक- शब्दः स एव स्त्रीशब्द इत्यननुभवात् ? तथात्वे वा भेदज्ञानाभावेन वक्तृविशेषाननुमानापत्तेः । अस्ति च कोऽपि गकारस्य विशेषो यतो दिग्विशेषप्रभवत्वमनुमीयते । अव्यपदेश्यत्वेऽप्यानुभवि- कत्वात् । तस्माद् गकारादौ भेदे भासमानेऽनुगतबुद्धेर्गत्वादिकजातिः । तारत्वमपि गत्वादिव्याप्यं भिन्नम् । अनुगतव्यवहारश्च सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकरूपानुगतादुपाधेः । तद्- ज्ञाने च तद्व्यवहारसिद्धेः । परैरपि शुकादिगकारादिव्यञ्जकवायूनां वैजात्यं वाच्यम् । तत्र यदि शुकवर्णाभिव्यञ्जकवायुत्वं गकारव्यञ्जकवायुत्वव्याप्यं, तदा शुकगकारव्यञ्जकवायौ न स्यात् । अथ व्यापकं, तदा सर्व एव गकारव्यञ्जकवायवः शुकवर्णाभिव्यञ्जकवायवः स्युरिति वायुवृत्ति- त्वेऽपि वैजात्यन्नानैव । तथापि यावद्वक्तृमेदं नित्या एव वर्णाः सन्तु, तत्प्रत्यभिज्ञाने बाधकाभावाद् । मैवम् । अस्ति हि स एवायं गकार इति प्रत्यभिज्ञानम्, अस्ति च तन्नोत्पादविनाशधीः । न चानयोरन्योन्यं विहायाऽन्यद् बाधकमस्ति । न चानयोरेकं भ्रमः । एकानन्तरं विशेषदर्शनेन अपरोत्पत्यभावा- पत्तेः । अतस्तयोरुभयं विषयभेदो वाच्यः । एकविषयत्वे विरोधेनैकोत्तरपरानुत्पादापत्तेः । एवञ्च भेदे भासमाने प्रत्यभिज्ञानस्य तज्जातीयत्वं विषयः । न चैवं तज्जातीयोऽयमिति तदाकारापत्तिः । तज्जातीयत्वविषयाया अपि बुद्धेः सोऽयमित्याकारदर्शनात् । यथा तानेव शालीनपुभुञ्जते, तानेव तित्तिरीनिति । यत्र च प्रथमं न भेदधीस्तत्र प्रत्यभिज्ञानं व्यक्त्यभेदविषयम् । तस्माद् यत्र भेदधी- स्तदितरबाधकावाध्या तत्र प्रत्यभिज्ञानमेव, न भवति, भवद्वा तज्जातीयत्वमालम्बते इत्यस्म- त्पितृचरणाः ।- प्रकाशिका । आनुभविकमिति । क्वचिदुपाधित्वमनुभवसाक्षिकं यथा कुङ्कुमारुणा तरुणीत्यत्र कुङ्कुमशब्दस्य क्वचि- दौपपत्तिकं तदन्वयव्यतिरेकानुविधानकल्पनीयम् यथा रक्तः स्फटिक इत्यत्रेत्यर्थः । स्त्रीपुंसेति । स्त्रीपुंसप्रभवेषु हि तावेवोपाधी वाच्यौ तौ च तदा नानुभूयेते इति दूरे तयोरुपाधित्वानुभव इत्य- र्थः । अस्ति चेति । न च देशविशेषवक्तृविशेषप्रयोज्यजात्योरेकत्वं नानात्वे विगमकाभावः, मकरन्दः । गिकत्वाचेत्यर्थः । आनुभविकमिति । यत्रोपाध्याश्रयसम्बन्धातथाधीस्तत्रोपाधेरानुभविकत्वं, यत्र टिप्पणी । तारत्वमपि गत्वादिव्याप्यं भिन्नमिति । परमतारेषु गकारेषु एकं तारत्वम् परगमन्दे त्वेकं भन्दत्वम् परे च तारत्वमन्दत्वे समानाधिकरणे एवेति न साङ्कर्यम् । समानाधिकरणे एव च तारत्वन्दत्वे उत्कर्षापकर्षत्वात्तदवधिनिरूपिते तत्तदवधिनिरूपितत्वविशिष्टत्वेन प्रतिनियताधि- करणवृत्तित्ताऽभ्युपेयते तथा चायमस्मात्तारो गकारोऽयमास्मान्मन्दो गकार इति प्रतीतिर्गकारमेदं

द्वितीयस्तबके ] शब्दानित्यत्वोपपादनम् । २६५ नापि सत्प्रतिपक्षत्वम् । मिथो विरुद्धयोर्वास्तवतुल्यबलत्वाभावात् । एकस्यान्य- तमाङ्गवैकल्यचिन्तायामस्य वैकल्ये तस्यैवोद्भाव्यत्वात्, अवैकल्ये त्वदीयेनैव विक- लेन भवितव्यमिति हीनस्य न सत्प्रतिपक्षत्वम् । तथापि नित्यः शब्दोऽद्रव्यद्रव्यत्वादित्यत्रापि साधनदशायां किञ्चिद्वाच्यमिति चेदसिद्धिः । द्रव्यं शब्दः साक्षात्सम्बन्धेन गृह्यमाणत्वाद् घटवदिति सिद्ध्यतीति चेन्न । एतस्याप्यसिद्धेः । न हि श्रोत्रगुणत्वे, द्रव्यत्वे वाऽसिद्धे साक्षात्सम्बन्धे बोधनी । न च केनापि प्रमाणेन सत्प्रतिपक्षत्वं संभवतीत्याह-नापि इति । न तावत्तुल्यबलेन, परस्पर- विरुद्धयोः सिद्धवस्तुविषययोः प्रमाणयोर्वास्तवतुल्यबलत्वाभावाद् वस्तुनो द्वैरूप्यप्रसङ्गात्, अतोऽन्य- तरस्य वैकल्ये तदेव दूषणं वाच्यम् उपजीव्यत्वादस्यवैकल्ये तदा त्वदीयनित्यत्वानुमानं विकलं स्या- दिति न तस्य प्रतिपक्षत्वमिति । मा भूद्वस्तुतः समाधिकहीनबलवतः सत्प्रतिपक्षत्वं, तथाप्याभिमानिकं तुल्यबलत्वेनानेन सत्प्रतिपक्षत्वोद्भावने सति किञ्चिद् दूषणं तर्कस्य वक्तव्यमित्याह-तथापि इति । यद्वा, प्रतिपक्षत्वासम्भवेऽपि स्वपक्षसाधनाय प्रयुक्तेऽस्मिन्नित्यत्वानुमाने किमपि दूषणं वक्तव्यमित्याह- तथापि इति । उत्तरमाह-असिद्धिरिति । शब्दस्य द्रव्यत्वमसिद्धमिति । द्रव्यत्वसिद्धावनुमान- माह-द्रव्यम् इति । गुणादिभिरनैकान्तिकता मा भूदित्युक्तं-साक्षात् इति । परिहरति-न इति । प्रकाशः । सत्प्रतिपक्षस्त्वद्य वस्तुतस्तुल्यबलेन, तत्तया प्रतिसंहितेन वा ? । नाद्य इत्याह । मिथ इति । तथात्वे वा वस्तुनो विरुद्धद्वैरूप्यापत्तेरिति भावः । अङ्गं=पक्षसत्त्वादि । अस्य=शब्दानित्यत्वसा- धनस्य । द्वितीयं शङ्कते । तथापीति । न केवलं प्रतिपक्षतादशायां, साधनदशायामपीत्यपेरर्थः । न द्रव्यं समवायिकारणं यस्य तदद्रव्यम् , अद्रव्यत्वादित्युच्यमाने प्रागभावेन व्यभिचारः स्यादिति द्रव्यं विशेषणम् । असिद्धिरिति । विशेषणविशेष्ययोरित्यर्थः । असिद्धस्य न सत्प्रतिपक्षत्वसा- धनत्व इति भावः । विशेष्यसिद्धौ मानमाह-द्रव्यमिति । संयोगसमवायान्यतरत्वं सम्बन्धे साक्षा- त्त्वम् । यद्यपि भट्टानां श्रोत्रेण शब्दस्याजः संयोगोऽन्येषां समवाय इति साक्षात् सम्बन्धेन गृह्यमाणत्वं न कस्याप्यसिद्धं, तथापि शब्दस्य गुणत्वाऽनभ्युपगमे तत् प्रत्येतुमशक्यमि- प्रकाशिका । एकस्या एव जातेरुभयप्रयोज्यत्वाङ्गीकारात्, तद्देशीयतत्तत्पुरुषीयशब्दस्यैतद्देशीयैतत्पुरुषीयाच्च वैजा- त्यात् । अनुगतमतिश्च देशभेदपुरुषभेदरूपोपाधिभेदाद्- विरोधमाशङ्क्य व्याचष्टे । न द्रव्यमिति । यद्यपि समवायिकारणशून्यद्रव्यत्वादिति हेतुरेवं पर्यवसितः, तत्र च समवायिपदव्यर्थता, तथाप्यखण्डा- भावेन वैयर्थ्यमित्यभिप्रायेणान्व्यर्थता । विशेषणविशेष्ययोरिति । न चैवमग्रे द्रव्यत्वमात्रसाधना- दुद्धारे न्यूनता, द्रव्यत्वे सिद्धे अकारणत्त्वस्याप्यापत्तेपादित्याशयात् । तथापीति । यद्यपि द्रव्य- श्रोत्रगुणान्यतरत्वनिश्चयेऽपि साक्षादित्यादिहेतुनिश्चयः, 'तथापि वांधकादेव द्रव्यत्वानिश्चय इत्यत्र मकरन्दः । च तदाश्रयानुविधानमात्रं न सम्बन्धस्तत्रोपपत्तिकत्वमिति भेदः । यद्वा, कुङ्कुमेणारुणा न तु स्वभा- वत इति कुङ्कुमस्योपाधित्वमनुभूयमानं, कृपाणे तु तथात्वमन्वयव्यतिरेकगम्यं, न तु तद्वत् कृपाण- दीर्घ मुखमिति प्रत्ययभेदः । अपरं शब्दप्रकाशे द्रष्टव्यम् । विरोधमाशङ्क्य व्याचष्टे-न द्रव्यमिति । यद्यप्येवं समवायिकारणशून्यद्रव्यत्वादिति फलिते हेतौ समवायिपदमधिकं, तथाप्यखण्डाभावे वैयर्थ्यं नेति ध्येयम् । तथापीति । यद्यपि गुणत्वानभ्युपगमेऽपि द्रव्यगुणान्यतरत्वनिश्चयदशायां टिप्पणी । विना नोपपद्यते एकावधिनिरूपितत्वविशिष्टतारत्वमन्दत्वयोरेकत्रासत्त्वादिति भावः । ३४ न्या० कु०

२६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां शब्दस्य प्रमाणमस्ति । परिशेषोऽस्ति । तथा हि । सदाद्यभेदेन सामान्यादित्रय- व्यावृत्तौ, मूर्त्तद्रव्यसमवायनिषेधेन कर्मत्वनिषेधाद् द्रव्यगुणत्वपरिशेषे संयोगस- मवाययोरन्यतरः संबन्ध इति चेन्न । बाधकबलेन परिशेषे द्रव्यत्वस्यापि निषेधा- लिङ्गग्राहकप्रमाणबाधापत्तेः । बाधके सत्यपि वा द्रव्यत्वाप्रतिषेधे, कर्मत्वादीनाम- प्यप्रतिषेधप्रसक्तौ परिशेषासिद्धेः, तस्मादेकदेशपरिशेषो न प्रमाणं, सन्देहसङ्कोच- मात्रहेतुत्वात् । अथ द्रव्यत्वे किं बाधकम् ? उच्यते, शब्दो न द्रव्यं, बहिरिन्द्रिय- बोधनी । साक्षात्संबन्धो नाम संयोगः समवायो वा तदन्यतरसिद्धेर्द्रव्यत्वगुणत्वयोरन्यतरसिद्ध्यधीनत्वान्न ततः प्राक् साक्षात्सम्बन्धः सिध्यतीति परिशेषानुमानेन तत्सिद्धिमाह-परिशेषः इति । 'सद- नित्यं द्रव्यवत्कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः' इति ( वै० सू० १. १. ८.)। सत्तादिमत्त्वेन सामान्यविशेषसमवायेभ्यो व्यावृत्तस्य मूर्त्तद्रव्यसमवायेन कर्मणोऽपि व्यावृत्तौ द्रव्यत्वगुणत्वयोरन्यतरपरिशेषे साक्षात्संबन्धसिद्धिरिति । तर्हि कर्मत्वादिवद् द्रव्यत्वेऽपि बाधकसद्भावेन गुणत्वस्यैव परिशेषात् साक्षात्संबन्धग्राहिणा परिशेषानुमानेनैव द्रव्यत्वानुमानस्य बाधप्रसङ्ग इत्याह-न इति । अन्यथा द्रव्यत्वगुणत्वयोरपि परिशेषो न स्यादित्याह-बाधकः इति । न चायं परिशेषः प्रमाणं पदार्थषट्कविषयस्य संदेहस्य द्रव्यगुणविषयत्वे संकोचमात्रहेतुत्वे- न संशयादनिस्तारादित्युपसंहरन्नाह-तस्मात् इति । अथेति । येन ततोऽपि परिशेषलिङ्गग्राहकप्र- माणबाधः स्यादिति । तदाह-उच्यते इति । द्रव्यत्वासिद्धौ न चासिद्धविशेषेणाद्रव्यद्रव्यत्वादित्यनेन प्रकाशः । द्युपजीव्यविरोध इत्याशयंवानाह-न हीति । सदादीति । सत्तावत्त्वाजातिमत्त्वादिनेत्यर्थः । इतरनिषेधकवद् द्रव्यत्वेऽपि निषेधक सत्त्वात्तन्निषेधे गुणत्वसिद्धौ द्रव्यत्वसाधकं बाधितमि- त्याह-बाधकेति । परिशेषसिद्धिमभ्युपेत्याह-तस्मादिति । द्रव्यादिकोटिसंशयप्रवृत्तेरेक- देशे कर्मादिकोटौ संशयोच्छेदेऽपि द्रव्यगुणकोटिमादाय संशयस्य तादवस्थ्याद् द्रव्यत्वे बाधिते क तत्साधनत्वमित्यर्थः । बहिरिन्द्रियेति । चक्षुरग्राह्यबहिरिन्द्रियग्राह्यजातिमत्त्वा- प्रकाशिका । तात्पर्य्यम् । बाधकञ्च मूल एवोक्तमिति । न चानेनैव तस्यापि सत्प्रतिपक्षित्वत्वात् कथं तेनास्य बाध इति वाच्यम् । एवमपि द्रव्यत्वासिद्धौ समीहितसिद्धेः, वस्तुतः संयोगसमवायान्तरगर्भहेतौ व्यर्थवि- शेषणता प्रत्येकगर्भहेतौ च स्वरूपासिद्धिदृष्टान्तासिद्धी इति हीनस्य तस्याद्रव्यत्वसाध्यकेन बाध एवेति । उपजीव्येति । हेतुसिद्ध्यर्थं गुणत्वसिद्धेरुपजीव्यत्वादिति भावः। ननु बहिरिन्द्रियव्यवस्था- हेतुत्वं यद्येकमात्रबहिरिन्द्रियग्राह्यत्वं तदा प्रभादौ व्यभिचारि, अन्त्ये शब्दे भागासिद्धमुच्चेतयतो व्याचष्टे चक्षुरग्राह्येति । इदञ्च जातिविशेषणं प्रभादौ व्यभिचारवारणाय, आत्मनि व्यभिचार इति मकरन्दः । तत् प्रत्येतुं शक्यमेव, तथापीयं शङ्का मूल एवानुपदं निरस्येति भावः । वस्तुतो बाधादेव न द्रव्यत्व सिद्धिः, बाधकञ्च मूल एवोक्तमिति प्रघट्टकतात्पर्य्यम् । न चानेनैव तस्यापि सत्प्रतिपक्षित्वत्वात् कथं तेनास्य बाध इति इति वाच्यम् , संयोगसमवायान्तरसम्बन्धेन गृह्यमाणत्वादित्यत्र, समवाय- गर्भत्वेन व्यर्थविशेषणतया व्याप्यत्वासिद्धत्वेन, अन्यथा स्वरूपासिद्धत्वेन, वक्ष्यमाणेन चोपाधि- नाऽस्य हीनबलत्वात् । उपजीव्येति । हेतुसिद्ध्यर्थं गुणत्वसिद्धेरुपजीव्यत्वात्द्विरोध इत्यर्थः । ननु बहिरिन्द्रियव्यवस्थापकत्वं, तत्तद्बहिरिन्द्रियमात्रग्राह्यत्वं, तथा च प्रभादौ व्यभिचारः, अतो- न्द्रियशब्दांशे चाश्रयासिद्धिरित्यत आह चक्षुरग्राह्येति । एतच्च प्रभादावेव व्यभिचारवारणाय जातिविशेषणम् । आत्मनि तद्वार णाय बहिरिन्द्रियेति । उक्तभागासिद्धिनिरासाय जातिगर्भत्वम् टिप्पणी । चक्षुरग्राह्यबहिरिन्द्रियग्राह्येति । तत्तद्वहिरिन्द्रियमात्रग्राह्यत्वस्य बहिरिन्द्रियव्यवस्थाहेतुत्व-

द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २६७ व्यवस्थाहेतुत्वात्, रूपादिवदिति परिशेषाद् गुणत्वेन समवायिसिद्धौ, लिङ्गग्राह- कमप्रमाणबाधितत्वाद् नाव्यवहितसंबन्धग्राह्यत्वेन द्रव्यत्वसिद्धिः । न चासिद्धेन सत्प्र- तिपक्षत्वम् । असिद्धस्य हीनबलत्वात् । ननु शब्दस्तावच्छ्रोत्रगुणो नैवेति त्वयैव साधितं प्रबन्धेन । न च श्रोत्रगुणः, तेन गृह्यमाणत्वात् , यद् येनेन्द्रियेण गृह्यते नासौ तस्य गुणः, यथा गृह्यमाणो गन्धादिः। श्रोत्रं वा न स्वगुणग्राहकम्, इन्द्रियत्वाद् घ्राणवदिति न गुणत्वसिद्धि- रिति चेत् । ततः किम् ? । न चैतदपि । घ्राणादिसमवेतगन्धाद्यग्रहे स्वगुणत्वस्या- बोधनी । सत्प्रतिपक्षम नित्यत्वानुमानस्येत्याह-न चासिद्धेनेति । यद्वा, नास्मत्प्रतिपक्षस्य स्वरूपसिद्धिरिति । ननु श्रोत्रव्यतिरिक्तानां पृथिव्यादीनां गुणः शब्दो नेति भवद्भिरव परिशेषानुमानेन साधितम् । वयं तु श्रोत्रगुणो नेति अनुमानद्वयेन साधयामः । ततश्च गुणत्वस्यैवासिद्धौ द्रव्यत्वमेव परिशिष्यत इति । केचित्तु शब्दः श्रोत्रगुणो नेति पठन्ति । तत्रायमर्थः । महता प्रबन्धेन शब्दस्य श्रोत्रग्राह्यत्वं प्रतिपादयता त्वयैव श्रोत्रगुणो नेति साधितं भवति कथमेतेनैतत्प्रतिपादितं भवेदित्यत्रोक्तं-न श्रोत्र- गुणः इति । न हि श्रोत्रग्राह्यः शब्दः तद्गुणो भवतीति । मा भूद् गुणत्वसिद्धिर्द्रव्यत्वं तु कुतस्त्य- मित्यह-ततः किम् इति । यद्वा, अनुग्राहक तर्काभावेऽनुमानमात्रान किञ्चित्सिध्यतीति सोपा- धित्वादप्रयोजकत्वं चानुमानद्वयमित्याह-न चैतदपि इति । स्वगुणत्वस्यैव ग्रहणप्रयोजकत्वेऽ- प्रकाशः । द्रसादिवदित्यर्थः । अथ परिशेषो नोपजीव्यस्तत्राह-न चेति । अनेन द्रव्यत्वसाधनस्य प्रति- रुद्धत्वादद्रव्यद्रव्यत्वासिद्धौ न तेनाऽनित्यत्वसाधने सत्प्रतिपक्षत्वमित्यर्थः । ननु गुणत्वेऽपि बाधकाद् न तत्सिद्धिरततो न शब्दादिलिङ्गग्राहुकमानबाध इत्याह — नन्विति । गुणत्वासिद्धावपि द्रव्यत्वासिद्धौ न साक्षात्सम्बन्धेन गृह्यमाणत्वे प्रमाणमुक्तं स्यादित्याह-तत इति । ननु गुणत्वे निषिद्धे परिशेषाद् द्रव्यत्वं सेत्स्यतीत्यत आह--न चेति । प्रथमानुमाने श्रोत्रयोग्यगुणत्वव्याप्यजातिशून्यत्वमुपाधिरन्त्यानुमाने त्वयोग्यगुणत्वमुपा- प्रकाशिका । र्बहिदिति । उक्तभागासिद्धि निरासाय जातिगर्भता । धर्ममात्रगर्भतायां गन्धादिकमादाय द्रव्ये व्यभि- चार इति जातित्वपर्यन्तानुधावनम् । एवं च सति यथाश्रुतमूलदृष्टान्तासङ्गतिरत आह-रसा- दिवदिति । मूलस्याप्येतद्गुणसं विज्ञानबहुव्रीहिणैवै तात्पर्यमिति भावः । प्रतिरुद्धत्वात् । बाधितत्वादित्यर्थः । प्रथमानुमान इति । श्रोत्रगुणत्वाभावसाधक इत्यर्थः । रूपाद्यौ साध्याव्या- प्तकत्वनिरासाय श्रोत्रयोग्येति । सत्तामादाय स एव दोष इति गुणत्वव्याप्येति । ककार- भिन्नगुणत्वमादाय स एव दोष इति जातीति । । न च पक्षेतरत्वमुपाधिरिति वाच्यम् । ध्वनयो वायवीया एवेति मते ध्वनौ सिद्धसाधनभयेन वर्णमात्रस्यैव पक्षत्वमिति पक्षभिन्नध्वनिव्यावर्त्त- कत्वाद् । केचित्तु बाधोन्नीत्ततया न पक्षेतरत्वे दोषः, बाधकश्च परिशेष एवेत्याहुः । अयोग्यगुण- वत्त्वमिति । योग्यगुणाभाववत्त्वमित्यर्थः । आत्मनि परमाणौ च यथाश्रुतसाध्याव्यापकत्वादाइ मकरन्दः । जातित्वपर्यन्तञ्च गन्धादिकमादाय द्रव्ये व्यभिचारवारणार्थम् । एवं सति मूलदृष्टान्तस्य साधनवै- कल्यादाह रसादिवदिति । प्रतिरुद्धत्वादिति । बाधितत्वादित्यर्थः । श्रोत्रयोग्येति । एतच्च रूपाद्यौ साध्याव्याप्तिवारणार्थम् । सत्तामादाय दोषतादवस्थ्यादाइ गुणत्वव्याप्येति । गुणान्या- न्यत्वमादाय दोषतादवस्थ्यादाइ जातीति । टिप्पणी । रूपत्वे प्रभायां व्यभिचारोऽतीन्द्रियशब्दे भागासिद्धिश्च स्यादत आह-चक्षुर्ग्राह्येति ।

२६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां


ऽप्रयोजकत्वात्। अयोग्यत्वं हि तत्रोपाधिः। अन्यथा, सुखादिनात्मगुणः, तेन गृह्य- माणत्वाद् रूपांदिवत्। न वा तेन गृह्यते, तत्समवेतत्वाददृष्टवत्। आत्मा वा न तद्ग्राहकः, तदाश्रयत्वाद्, गन्धाद्याश्रयघटादिवदित्याद्यपि शङ्केत। तस्मात् स्वगुणोः परगुणो वाऽयोग्यो न गृह्यते, गृह्यते तु योग्यो योग्येन, तत् किमत्राऽनुपपन्नम्। अवश्यञ्च श्रोत्रेण विशेषगुणग्राहिणा भवितव्यम्। इन्द्रियत्वात्। अन्यथा तन्निर्माण- वैयर्थ्यात् तदन्यस्येन्द्रियान्तरेणैव ग्रहणात्। न च द्रव्यविशेषग्रहणे तदुपयोगः। विशेषणयोग्यतामाश्रित्यैवेन्द्रियस्य द्रव्यग्राहकत्वात्, न द्रव्यस्वरूपयोग्यतामात्रेण। अन्यथा चान्द्रमसं तेजः स्वरूपेण योग्यमिति तदप्युपलभ्येत। आत्मा वा मनोग्राह्य इति सुषुप्त्यवस्थायामप्युपलभ्येत। अनुद्भूतरूपेऽपि वा चक्षुः प्रवर्त्तेत, तस्माद् गुणयोग्यतामेव पुरस्कृत्येन्द्रियाणि द्रव्यमुपाददते, नातोऽन्यथेति स्थितिः। अत एव नाकाशादयश्चाक्षुषाः। अस्तु तर्हि शब्दो नित्यः, नित्याकाशैकगुणत्वात्, तद्गतपरममहत्परिमाणव-


: बोधनी। निष्टमाह-अन्यथा इति। उपसंहरति-तस्मात् इति। इन्द्रियत्वहेतोरप्रयोजकत्वायोक्तं-योग्येन इति। एवं शब्दस्य गुणत्वे बाधकमाशङ्क्य निरस्तम्। साधकमाह-अवश्यं च इति। तदर्थस्य श्रोत्रविषयस्य शब्दस्येति। ननु द्रव्यविशेषस्यैव सतः शब्दस्य ग्रहणार्थं श्रोत्रनिर्माणमस्तु इन्द्रि- यान्तराणां तत्रासामर्थ्यादित्यत्राह-न च इति। इन्द्रियं द्रव्यगतविशेषगुणग्रहणयोग्यतां सहकारि- त्वेनाश्रित्यैव द्रव्यं गृह्णाति नान्यथेति। द्रव्यस्य स्वरूपयोग्यतामात्रेणेन्द्रियग्राह्यत्वेऽनिष्टमाह- अन्यथा इति। उपसंहरति-तस्मात् इति। अत एव इति। यत एव विशेषगुणग्रहणपुरस्कारे- णैवेन्द्रियाहत्वं द्रव्याणामिति शब्दस्य श्रोत्रगुणत्वेनैवाद्रव्यद्रव्यत्वमसिद्धं तर्हीदमेव प्रतिसाधनमस्त्विति


प्रकाशः। धिरित्यप्रयोजकत्वमुभयत्रेत्यर्थः। अत एवाप्रयोजकान्तरतुल्यत्वमाह--अन्यथेति। साक्षात्संब- न्धेन गृह्यमाणत्वादित्यत्र बाह्येन्द्रियत्वावच्छिन्नसाध्यव्यापकं सांशयवकत्वमुपाधिः। ननु बहिरि- न्द्रियव्यवस्थापकत्वमप्यप्रयोजकमित्याशङ्क्य तत्र विपक्षबाधकमाह--अवश्यञ्चेति। अत्रापि विपक्षबाधकमाह अन्यथेति। ननु स्वरूपयोग्यतैव द्रव्यप्रत्यक्षत्वे तन्त्रम्, अत एव विशेषगुण- शून्यानां कालादीनां न प्रत्यक्षत्वमित्यत आह तस्मादिति। न च नाद एव तस्य विशेषगुणः स्यात्। ध्वन्यात्मकस्य नादस्याग्रहेऽपि वर्णसाक्षात्कारात्। नाऽपि तारत्वादिकं तेषामुक्तर्पोदि- रूपतया जातित्वात्। अत एव तस्य जातिरूपत्वेऽप्यवधिनिरूप्यत्वमिति भावः। अत एवेति। तद्विशेषगुणस्य चक्षुरग्राह्यत्वादित्यर्थः। आकाशैकेति। अनेकगुणेन संयोगादिना व्यभिचारवारणार्थमेकग्रहणम्। अत्र यद्यपि आकाशैकगुणत्वमाकाशामात्रवृत्तिगुणत्वं, तत्र गुणत्वं व्यर्थम्। तथापि ध्वंसानवच्छिन्नसत्तायोगित्वं


प्रकाशिका। बाह्येन्द्रियेति। कालादीनामिति। कालः षडिन्द्रियवेद्य इति मतेनेदम्, तुल्यन्यायतया दिशोऽपि प्रत्यक्षत्वं शब्दस्य प्रत्यक्षत्वं तैरुपेतमेवेति बहुवचनोपपत्तिः। अत एवेति। उत्कर्षवत्त्वादेवेत्यर्थः।


मकरन्दः। अत एवेति। उत्कर्षरूपत्वादेवेत्यर्थः। एतदपि मतान्तरेणेति ध्येयम्। तन्मते सत्ताजातेर्वि-


टिप्पणी। तथापि ध्वंसानवच्छिन्नसत्तायोगित्वं साध्यमिति। ध्वंसाप्रतियोगित्वे सति प्रागभावा-

द्वितीयस्तंबके ] शब्दांनित्यत्वोपपादनम् । २६९ दिति प्रत्यनुमानमिति चेन्न । अकार्यत्वस्योपाधेर्विद्यमानत्वात् । अन्यथा, आत्मवि- शेषगुणाः नित्याः, तदेकगुणत्वात्, तद्गतपरममहत्त्ववदित्यपि स्यात् । अस्य प्रत्यक्ष- बाधितत्वादहेतुत्वमिति चेन्न । निरुपाधेर्बाधानवकाशात् । स्वभावप्रतिबद्धस्य च तत्परित्यागे स्वभावपरित्यागप्रसङ्गात् । तस्माद् बाधेन वोपाधिरुन्नीयते, अन्यथा वेति न कश्चिद्विशेषः । एतेन श्रावणत्वाच्छुब्दत्ववदित्यपि परास्तम् । अत्रापि तस्यैवोपाधित्वात् । अ- न्यथा गन्धरूपरसस्पर्शा अपि नित्याः प्रसज्येरन् । घ्राणाद्येकैकेन्द्रियग्राह्यत्वाद् गन्धत्वादिवदित्यपि प्रयोगसौकर्यात् । बोधनी । प्राभाकराः प्रत्यवतिष्ठन्ते-तर्हि इति । न इति । अत्राकार्यत्वौपाधिकत्वात्तदेकगुणत्वमप्रयोजकम् इति तस्यैव प्रयोजकत्वेऽनिष्टमाह-अन्यथा इति । अत्र ह्यकार्यत्वस्योपाधित्वं स्वयाप्यङ्गीकार्यमिति भावः । नन्वात्मगुणानां नित्यत्वानुमानस्य तदनित्यत्वग्राहिमानसप्रत्यक्षबाधादप्रामाण्यं, न त्व- कार्यत्वोपाधिकत्वादित्याह-अस्य इति । न इति । यद्ययं निरुपाधिस्तदा बाध एव न स्यादिति । कुत इत्यत आह-स्वभाव. इति । यदि हि केनचित्स्वभावस्तं प्रतिवद्धस्तस्यैव नित्यत्वप्रयोजक त्वेऽनिष्टमाह-अन्यथा इति । तदेवमनित्यत्वानुमानस्य बाधः सत्प्रतिपक्षत्वं च निराकृतं, विरो- प्रकाशः । साध्यम् । तत्र विशेषपदार्थेऽनैकान्तिकंवारणार्थं गुणग्रहणमित्याहुः । अकार्यत्वस्येति । पूर्वसाध- न्व्यतिरेकोऽपि साध्यप्रयोजकतया यथोपाधिस्तथोक्तमधस्तात् । अपि चोपाधेर्नित्यदोषत्वात् साध- नपूर्वापर्यस्य चानियतत्वाद्यदा तदेव साधनं स्थापनायां प्रयुज्यते तदा सोपाधिः, यदा तु दूषणतया तदेवोच्यते तद। पूर्वसाधनव्यतिरेकादकार्यत्वमनुपाधिरिति तदेव नित्यत्वेन व्याप्तमन्याप्रवृत्तेति महद्वैशसमिति भावः । उपाधेः साध्यव्यापकताग्राहकं तर्कमाह अन्यथेति । निरुपाधेरिति । बाधे हि पक्षाभिंमते व्यभिचारस्तत्र चावश्यमुपाधिरित्यर्थः । एतच्च जलह्रदो वह्निमान् धूमव- त्त्वादित्यादावपक्षवृत्तिति साधने नास्तीति पक्षधर्मे तत्र बोद्धव्यम् । अन्यथा वेति । बाधमनुप- जीव्येत्यर्थः । श्रावणत्वादिति । गुणवृत्तित्वात्यनभ्युपगन्तृमते शब्दत्वं श्रोत्रग्राह्यत्वम् । तन्न न श्रावणत्वं- मिति कालस्य षडिन्द्रियवेद्यत्वात् स एव दृष्टान्त इति भावः । तस्यैवेति । अकार्यत्वस्यैवे- त्यर्थः । शब्दो नित्यः पृथिवीतरनित्यभूतविशेषगुणत्वाद्, अपाकजनित्यभूतैकसमवेतत्वात्, जल- प्रकाशिका । इदमपि तारत्वस्य स्वरूपेण सावधित्वे सत्ताजातेर्विशेषपदार्थस्य च तैरनङ्गीकारादरुचिमा- विष्करोति । आहुरीति । एवञ्चाकाशमात्रवृत्तित्वमाकाशेतरानुत्तित्वमेवाभिमत मित्यवृत्तौ समवायेऽनित्ये च तन्मते व्यभिचार इति गुणपदं मूले परिभावनीयम् । केचित्तु गुणपदम्- प्रधानार्थकमित्याकाशमात्रपरतन्त्रत्वादिति मूलार्थ इत्याहुः । अपाकजेति । न च परमाणु- कर्मणि व्यभिचारः, अत्रापि विशेषगुणत्वादित्यस्यैकसमवेतत्वादिति प्रतीकार्थत्वात् विशेषपदं च मकरन्दः । शेषपदार्थस्य चानभ्युपगमादस्वरसमाविष्करोति इत्याहुरिति । आकाशमात्रवृत्तित्वस्य तदित- राष्ट्रतित्वे तात्पर्यम् । एवञ्च तन्मते समवाये व्यभिचारवारणाय गुणपदमित्यन्ये । गुणपदमप्रधा- नार्थकं, तथा चाकाशैकपरतन्त्रत्वादित्येव विवक्षितमित्यप्याहुः । हेत्वन्तरव्याख्यानं शब्दप्रकाशे

२५० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्याया विरोधव्यभिचारावसम्भावितावेवाऽत्रेत्यसिद्धिरवशिष्यते । साऽपि नास्ति । तथा हि । शब्दस्तावत् पूर्वोक्तन्यायेन स्वाभाविकतीव्रमन्दतरतमादिभावेन प्रकर्ष- निकर्षवानुपलभ्यते । इयंञ्च प्रकर्षनिकर्षवत्ता कारणभेदानुविधायिनी सर्वत्रोपलब्धा । अकारणाका हि नित्याः प्रकर्षवन्त एव भवन्ति, यथाऽऽकाशादयः । निकृष्टा एव वा, यथा परमाण्वादयः । न तु किञ्चिदतिशयानाः कुतश्चिदपकृष्यन्ते । तदियं नित्येभ्यो व्यावर्त्तमाना कारणवत्सु च भवन्ती जायमानतामादायैव विश्राम्यतीति प्रतिबन्धसिद्धौ प्रयुज्यते, 'शब्दो जायते, प्रकर्षनिकर्षाभ्यामुपेतत्वान्माधुर्यादिवत् । अन्यथा, नियामकमन्तरेण भवन्ती नित्येष्वपि सा स्यात्, नियमहेतोरभावात् । शब्दादन्यत्रेयं गतिरिति चेन्न । साध्यधर्मिणं विहायेति प्रत्यवस्थानस्य सर्वानुमान- सुलभत्वात् । न चेद् व्यञ्जकतारतम्याद्व्यञ्जनीयतारतम्यम्, अस्वाभाविकत्वप्रस- ङ्गात् । व्यवस्थितञ्च स्वाभाविकत्वम् । न च व्यञ्जकोत्पादकाभ्यामन्यस्यानुविधा- नमस्ति । न च स्वाभाविकत्वौपाधिकत्वाभ्यामन्यः प्रकारः सम्भवति । बोधनी । धव्यभिचारौ त्वसंभावितावेव सपक्षवृत्तित्वसद्भावादिपच्चे वृत्त्यभावाच्चेत्याह-विरोध इति । तस्माद- न्यतरासिद्धिरैव संभाव्यतया विशिष्ठा, सापि निराक्रियत इत्याह-अत्रेति इति । हेतुसिद्धावनुमानं विपक्षस्तस्य प्रतिबन्धसिद्धिं तावदाह-शब्दस्तावत् इति । पूर्वोक्तन्यायेन इति । तीव्रत्वादीना- मन्यधर्मत्वेनानुपलम्भः शब्दगतत्वेनोपलम्भः शब्दधर्मत्वेनैवोपलम्भो बाधकाभाव इत्यादिर्यः पूर्वमुक्तस्तेनेति । ततः किमित्यत्राह-इयं च इति । सर्वत्र माधुर्यादौ कारणप्रकर्षनिकर्षानुविधायि- नी दृष्टेत्यन्वयं दर्शयित्वा व्यतिरेकमपि दर्शयति-अकारणका हि इति । ततोऽपि किमित्यत्राह- तदियम् इति । तस्मादियं प्रकर्षनिकर्षवत्तेति । तत्रानुमानं तदनुग्राहकं च दर्शयति-शब्दो जायते इति । नियामकं कारणप्रकर्षनिकर्षरूपमन्तरेण शब्दे भवन्ती प्रकर्षनिकर्षवत्ता गगनादि- ष्वपि भवेत्, शब्द एव नाकाशादिष्वस्तीति नियमहेत्वभावादिति । ननु शब्दव्यतिरि- क्तस्य प्रकर्षनिकर्षवत्वं जायमानतया व्याप्तं तद्दर्शनान्न तु प्रकर्षनिकर्षवत्तामात्रमित्याह- शब्दात् इति । न इति । बाधकाभावेऽपि व्याप्तिसङ्कोचे सर्वानुमानोच्छेदः स्यादिति । ननु व्यञ्ज- कानां ध्वनीनां प्रकर्षनिकर्षाभ्यां व्यञ्जनीयस्य शब्दस्य तद्वत्ताभिमानः, ततश्चासिद्धो हेतुरित्याश- ङ्क्याह-न च इति । प्रसज्यतां कामं, तदेव नः समीहितम् । अत्राह-व्यवस्थितश्च इति । ध्वनिधर्माणामारोपस्यासंभवादिति । ननु मा भूद् व्यञ्जकोपाधित्वं तारतारतरत्वादिरस्त्यथापि कथं कारणप्रकर्षाद्यनुविधानं कथं वा स्वाभाविकत्वं सिध्यतीत्यत्राह-न च इति । औपाधिकत्वनिषेधेन परिशेषात् सिध्यति गत्यन्तराभावादिति । प्रकाशः । परमाणुरूपवत् । अव्यासज्यवृत्तित्वे सत्यनात्मविभुगुणत्वाद्, विशेषगुणान्तरासमानाधिकरणैक- वृत्तिगुणत्वात्, कालपरिमाणवदित्यत्राप्यकार्यत्वमुपाधिरिति भावः । पूर्वोक्तेति । उपाधेरनुपल- म्भेन तद्गततया चोपलम्भेन चेत्यर्थः । प्रकर्षनिकर्षाभ्यामिति । ननूत्कर्षापकर्षयोर्जात्योर्जा- प्रकाशिका । परमाणुनिष्ठदैशिकपरत्वादौ व्यभिचारवारणाय । अव्यासज्येति । न च गुणपदमधिकं समवाय कालादिवृत्तौ तन्मते व्यभिचारवारकत्वात् तस्यापि व्यासज्यसमवेतत्वाभावात् । विशेषगुणेति । टिप्पणी । प्रतियोगित्वापेक्षया लघुत्वादिदमेव साध्यमुचितं तत्र व्यभिचारवारणं सम्भवति प्रयोजनमित्याशयः। विशेषगुणान्तरासमानाधिकरणेति । शब्दान्यविशेषगुणसमानाधिकरणेत्यर्थः । तेन वायुस्पर्शे

द्वितीयस्तबके ] शब्दोनित्यत्वोपपादनम् । २७१ स्यादेतत् । तथाप्युत्पत्तेर्नित्यत्वेन को विरोधो येन प्रतिबन्धसिद्धिः स्यात् ? । असिद्धे च तस्मिन्, भवतां व्यापकत्वासिद्धोऽस्माकमप्रयोजकः । सौगतानां सन्दिग्धविपक्षवृत्तित्तयमुपक्रान्तो हेतुरिति चेन्न । इदं ह्युत्पत्तिमत्त्वं विनाशकारण- .बोधनी । तदेवमनित्यत्वानुमास्य स्वरूपासिद्धिर्निराकृता, संप्रति व्याप्यत्वासिद्धिं निराकर्तुमाशङ्कते- तथापीति । भवतां नैयायिकानाम्, अस्माकं मीमांसकानामिति । न इति । उत्पत्तिमत्त्वं हि विनाशकारणसंविधानेन व्याप्तं, तत इदं तत्सन्निधिविरुद्धेभ्यो नित्येभ्यः स्वव्यापकस्य विनाशका- रणसंनिधानस्य निवृत्या निवर्त्तमानमनित्य एवावतिष्ठत इति व्यापकनुपलब्धिर्विपक्षे बाधकमिति। ननु स्यादेवं यद्युत्पत्तिमत्त्वस्य विनाशकारणसंविधानेन व्याप्तिः स्यात्, सैव कुतो विपक्षे बाधका- प्रकाशः । तिसङ्करापत्त्या रसत्वशब्दत्वव्याप्यजात्योर्भिन्नत्वेन रसशब्दसाधारण्यं साधनावच्छिन्नसाध्यव्याप- कस्य मूर्त्तगुणत्वस्य स्पर्शवत्समवेतत्वस्य चोपाधित्वञ्च । मैवम् । उत्कर्षापकर्षशब्दप्रवृत्तिनिमित्त- जातिमत्त्वादिति विवक्षितत्वात् । रसत्वादिव्याप्यजातिभेदेऽपि तादृशशब्दप्रवृत्तिनिमित्तत्वस्य साधारण्यात्, सर्वत्र वर्णात्मकशब्दपक्षीकरणे चानित्यध्वनिषु व्योमगुणेषूपाधीनां साध्याव्यापक- त्वात् पक्षमात्रव्यावर्त्तकविशेषणवत्त्वेन पक्षेतरत्वतुल्यत्वाच्चेति भावः । विपक्षबाधकाभावेनोत्पत्ति- म्त्त्वमप्रयोजकमित्याह-तथापीति । उत्पत्तिमदपि किञ्चिन्नित्यं स्यादित्यर्थः । प्रकाशिका । शब्दभिन्नविशेषगुणसमानाधिकरणत्वादित्यर्थः, तेन न स्वरूपासिद्धिर्नवा पवनस्पर्शे व्यभिचारः । सुखादौ यथाश्रुतसाध्याव्यापकत्वादह । साधनेति । यद्यपि सुखादावप्युत्कर्षापकर्षौ स्त इति विवक्षितोऽप्युपाधिः साध्याव्यापक एव । न च सजातीयसाक्षात्कारप्रतिबन्धकत्त्वादिना तन्निर्व- चनादसङ्गतिः, अज्ञातेषु सुखादिषु मानाभावेन तादृशोत्कर्षादेस्तेष्वभावादिति वाच्यम् । तथासति तस्य रसशब्दसाधारण्येन शब्दपर्य्यन्तानुधावनस्य हेतावसङ्गतेः । अन्यतरगर्भतयैव स्वस्थतायामुभ- योपादानासङ्गतेश्च । तथापि साधनपदेनात्र पक्षधर्म एवोक्तः, स च सजातीयेत्याद्युक्तरूपो बहिरि- न्द्रियव्यवस्थाहेतुस्वरूपो वा । उत्कर्षापकर्षेति । उत्कृष्टपकृष्टेत्यर्थः । पक्षे साध्याव्यापकत्वमनुद्- भाव्यमेवेत्यत आह-सर्वत्रेति । उपाधीनामिति । यद्यपि पूर्वपक्षे द्वयोरेवाशङ्कितत्वाद् बहुवचन- मयुक्तम् तथापि रूपवत्समवेतत्वादीनामपि तत्र तात्पर्ष्यविषयत्वात्तदुपपत्तिः । पक्षमात्रेति । यद्य- प्यात्मादेः सुखादेश्च व्यावर्तनान्न पक्षमात्रव्यावर्त्तकत्वमत एव च न पक्षेतरतुल्यत्वं तथापि साध्य- व्यापकताग्राहकमानाभावेन पक्षेतरतुल्यत्वं बहिरिन्द्रियव्यवस्थाहेतुत्वरूपावच्छेदकाश्रयमध्ये च पक्ष- मकरन्दः । द्रष्टव्यम् । सुखादौ साध्याव्याप्तेराह साधनावच्छिन्नेति । ननु सुखादावुत्कर्षापकर्षसम्भवा- त्तद्दोषस्तदवस्थ्यम् । न च सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकत्त्वादिना तन्निर्व्वचनं, तादृशो- त्कर्षादेः सुखादावसम्भवेऽविदिते तत्र मानाभावादिति वाच्यम् । तस्य रसचरमशब्दसाधारण्ये- उत्कर्षापकर्षशब्देत्यादिविवक्षाविरोधात् । तथा सत्युत्कर्षापकर्षयोरन्यतरगर्भत्वेनैव सामञ्जस्ये व्यर्थविशेषणत्वापत्तेश्च । न च हेतुद्वये तात्पर्ष्यम् , मूलविरोधादिति चेत् , न साधनपदेन पक्षध- र्म्मस्य विवक्षितत्वात् । स च बहिरिन्द्रियव्यवस्थाहेतुत्वादिः । उत्कर्षापकर्षेति । उत्कृष्टाप- कृष्टेत्यर्थः । पक्षे साध्याव्यापकत्वमनुद्भाव्यमित्यत आह सर्वत्रेति । यद्यपि द्वयोरेवोक्तत्वाद्- पाधीनामित्ययुक्तं, तथाप्यन्यस्यापि तत्समनियतस्य तात्पर्ष्यविषयत्वात्तदभिप्रायेण तथोक्तम् । पक्षमात्रेति । ननु सुखादेरपि व्यावर्तनान्न पक्षमात्रव्यावर्त्तकत्वम् , न च साधनवत्पक्ष टिप्पणी । न व्यभिचारः । उत्कर्षापकर्षशब्देति । उत्कृष्टापकृष्टेति विवक्षितम् ।

२७२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां सन्निधिविरुद्धेभ्यो नित्येभ्यः स्वव्यापकनिवृत्तौ निवर्त्तमानं, विनाशकसन्निधिमति विनाशिनि विश्राम्यतीति । विनाशकारणसन्निधानेनावश्यं जायमानस्य भवितव्य- मिति कुतो निर्णीतमिति चेन्न । तत्सन्निधानं हि न तावदाकाशादेरिव, स्वभाववि- रोधात् । उत्पत्तिविनाशयोः संसर्गदर्शनात् । अविरुद्धयोरसन्निधिस्तु देशविप्रकर्षाद् हिमवद्विन्ध्ययोरिव स्यात् । देशयोरपि विप्रकर्षो विरोधाद्वा हेत्वभावाद्वा ? पूर्वोक्ता- देव न प्रथमः । द्वितीयस्तु पटकुङ्कुमयोरिव स्यात् । यदि हि कुङ्कुमसमागमादर्वागेव प्रध्वंसक संसर्गादर्वागेव पटो विनश्येत् । यथा हि विनाशकारणं विना न विनाशः, तथा यदि कुङ्कुमसमागमं विना न विनाशः पटस्येति स्यात् कस्तयोः संसर्गं वार- येत् । तस्मादविरुद्धयोरसंसर्गः कालविप्रकर्षनियमेन व्याप्तः, स चातो निवर्त्तमानः स्वव्याप्यमुपादाय निवर्त्तत इति प्रतिबन्धसिद्धिः । बोधनी । त्सिद्ध्यतीत्याह-विनाशकारणसंनिधानेन इति । विनाशकारणसन्निधानं ह्युत्पत्तिमतो न ताव- द्भावाभावयोरिव स्वभावविरोधाद्भवति घटादिषु तयोः संसर्गदर्शनादित्याह-तद्संनिधानम् इति । तर्ह्यविरुद्धयोरेव हिमवद्विन्ध्ययोरिवासंसर्गोऽस्त्वित्यत्राह-अविरुद्धयोः इति । अस्तु तर्हि देशविप्रकर्षादेवेत्यत्राह-देशयोरपि इति । सोऽपि देशयोः स्वभावविरोधात् संसर्गहेत्वभावाद्वा भवतीति तंतः किमित्यत आह-पूर्वोक्तात् इति । यदि हि तयोः स्वभावविरोधः स्यात् तत- स्तदाश्रययोरुत्पत्तिविनाशयोरपि संसर्गो न स्याद्, दृश्यते चासावित्युक्तमेवेति । द्वितीयस्तु इति । विनाशकारणजायमानत्वयोर्हेत्वभावादसंसर्गस्तु यथा पटकुङ्कुमयोरविरुद्धदेशस्वभावतया क्वचित्संसृष्टयोरपि संसर्गहेत्वभावात् क्वचिदसंसर्गः तथा कदाचित्स्यादिति । कथं च तथा स्यादि- त्याह-यदि हि इति । यथा हि कुङ्कुमसंसर्गात्प्रागेव क्वचित्पटविनाशाद्धेत्वभावेन तयोरसंसर्गः, तथा यदि विनाशकारणसमागमात् प्रागेव जायमानस्य विनाशः कदाचित्स्यात् तदा जायमानवि- नाशकारणयोरसंसर्गः स्यात्, न त्वेतत्संभवतीति । यदि वा यथा विनाशकारणसमागमे सत्येव विनाशः पटस्य नासतीति दृश्यते, तथा यदि कुङ्कुम समागमे विनाशो नासतीति स्यात् तदा पट- कुङ्कुमयोरपि संसर्गोऽवश्यंभावो भवेत्, न त्वेतदस्तीत्याशयावानाह-यथा इति । यत एवं देशवि- प्रकर्षो नास्ति तस्मादविरुद्धस्वभावयोरसंसर्गः कालविप्रकर्षगेत्यवशिष्यते, स च कालविप्रकर्ष अत उत्पत्तिमद्विनाशकारणाभ्यां व्यावर्तमानः स्वव्याप्यं तयोरसंसर्गमप्युपादायैव निवर्त्तत इति उत्पत्तिमत्त्वस्य विनाशकारणसंसर्गेण सिद्धः प्रतिबन्धः इत्याह-तस्मात् इति । प्रकाशः । स्वव्यापकेति । उत्पत्तिमत्त्वव्यापकं विनाशकारणं, तस्य निवृत्तावित्यर्थः । पूर्वोक्तादे- वेति । उत्पत्तिविनाशयोः संसर्गदर्शनादेवेत्यर्थः । द्वितीयस्त्विति । पटकुङ्कुमयोः संसर्गस्ता- वदविरुद्धोऽपि कस्यचित्पटस्यान्तरा ध्वंसान्न भवति । तद् यदि विनाशकसंसर्गं विनैव नाशः स्यात्तदा नाशकासन्निधिः स्यात्, न त्वेवमित्यर्थः । तस्मादिति । यद्यपि अत्रापि व्याप्तावप्र- योजकत्वशङ्का तदवस्थैव, तथापि भावानां नाशं प्रति स्वरूपयोग्यत्वमुत्पत्तिमत्त्वेनैवावच्छिद्यत इति न शङ्केति भावः । स चेति । स कालविप्रकर्षस्तदा स्याद्यदि नाशकसम्वन्धनमनपेक्ष्यैव कार्यस्य प्रकाशिका । मात्रव्यापकत्वमिति द्रष्टव्यम् । उत्पत्तिमत्त्वेति । भावत्वसमानाधिकरणोत्पत्तिमत्त्वव्यापकमित्यर्थः। मकरन्दः । मात्रमेव व्यावर्तयतीति तथोक्तमिति वाच्यम् । यथाश्रुतस्य तत्रापि सत्त्वादिति चिन्त्यम् । उत्पत्तिमत्त्वेति । भावत्वसमानाधिकरणोत्पत्तिमत्त्वव्यापकमित्यर्थः । अप्रयोजकत्व- शङ्केत्युपलक्षणं, ध्वंसे व्यभिचारश्चेत्यपि बोध्यम् । अत एवाह भावानामिति ।

द्वितीयस्तबके ] शब्दानित्यत्वोपपादनम् । २७३ स्यादेतत् । यद्येवमस्थिरः शब्दः कथमर्थेन सङ्गतिरस्योपलभ्यते इति चेत् । यथैवार्थस्यास्थिरस्य तेन । बोधनी । शब्दानित्यत्ववादी प्रकारान्तरेण प्रत्यवतिष्ठते-स्यादेतत्-इति । प्रत्युच्चारणं भिन्नानां शब्दा- नामानानन्त्यव्यभिचाराभ्यां दुर्ग्रहः संबन्ध इति । यथा-इति । यथा ह्यस्थिरस्यैवार्थस्य शब्देन संबन्धग्रहणं तथा शब्दस्याप्यस्थिरस्यार्थेनेति । येन हेतुनाऽस्थिरस्य व्यक्तिरूपस्यार्थस्य संगतिर्दु- र्ग्रहेति तेनैवास्माकं जातिरेव पदार्थ इति सिद्धान्त इत्याह-तेन-इति । यदि जातिरेव पदार्थः प्रकाशः । नाशः स्यात् , न चैवमित्यर्थः । एवं, शब्दोऽनित्यः, व्यापकप्रत्यक्षविशेषगुणत्वात्, सुखवत् । बहिरिन्द्रियव्यवस्थाहेतुगुणत्वाद् , भूतप्रत्यक्षविशेषगुणत्वाद्, इन्द्रियविशेषगुणत्वाद् , अस्म- दादिप्रत्यक्षविशेषगुणत्वाद् , गन्धवदित्याद्यूहनीयम् । हेत्वाभासानां निरासादिति । ननु वर्णानित्यत्वे गृहीतसङ्गतिकपदनाशे कालान्तरे पदादगृहीतसङ्गतिकादर्थप्रतीतिर्न स्यादि- त्यर्थप्रतीत्यन्यथानुपपत्त्या शब्दनित्यत्वं स्यादित्याह-- यद्येवमिति । तथा सति गृहीतसङ्गतिघटनाशे तदन्यघटव्यक्तेः पदात् प्रतीतिर्न स्यात् । अथानित्येऽपि घटादावेकधर्मोपग्रहेण शक्तिग्रहस्तर्ह्यनित्ये पदेऽपि स तथैवास्त्वित्याह यथैवेति । तेन = शब्देनेत्यर्थः । ननु यद्यपि आनयादिव्यवहाराद् , व्यक्तावेव शक्तिरुचिता, तथाप्यानन्त्यव्यभिचाराभ्यां शक्तिग्रहस्तत्र न सम्भवति । सर्वव्यक्तेः शक्यत्वे, गां दयादित्यादौ सर्वोपादानासामर्थ्यादननुष्ठा- नापत्तिरेकशक्यत्वेऽनध्यवसायः । नापि गोत्वेनोपलक्षिता व्यक्तिः शक्येति न शक्यानन्त्यव्यभि- चारौ । रूपान्तरेण ज्ञातस्यैवान्येन रूपेण लक्ष्यत्वात् , काकेन गृहविशेषस्येव । न च व्यक्तीनां- प्रकाशिका । व्यापकेति । आशुविनाशित्वमत्र साध्यमिति घटादिरूपे व्यभिचारवारणाय व्यापकेति विशेषणम्। ईश्वरज्ञानादौ व्यभिचार इति प्रत्यक्षेति । आत्मैकत्वे व्यभिचार इति विशे- षेति । बहिरिति । बहिरिन्द्रियान्तराग्राह्यवहिरिन्द्रियग्राह्यगुणत्वादित्यर्थः । प्रथमबहिःपदम प्रसिद्धिवारणाय । द्वितीयबहिःपदमात्मैकत्वे व्यभिचारवारणाय । गुणपदं रूपत्वे व्यभिचारवारणाय, जातिभिन्नार्थकं तेन समवाये व्यभिचारवारणाय ग्राह्यान्तम् । भूतेति । आत्मैकत्वे व्यभि- चार इति भूतेति । जलपरमाणुरूपे व्यभिचार इति प्रत्यक्षेति । द्रव्यत्वे व्यभिचार इति गुणेति । ईश्वरज्ञाने व्यभिचार इतीन्द्रियेति। श्रोत्रैकत्वे व्यभिचार इति विशेषेति। अस्मदादीति। योगिप्रत्यक्षे परमाणुगुणे व्यभिचार इति प्रथमविषणं तस्य लौकिकेत्यर्थः । गन्धवदिति । मकरन्दः । व्यापकेति । आशुविनाशित्वं यदि साध्यं तदाऽयं हेतुर्बोध्यः। एवञ्च घटरूपादौ व्यभिचारवा- रणाय व्यापकेति । ईश्वरज्ञानादौ व्यभिचारादाह प्रत्यक्षेति । आत्मैकत्वस्य प्रत्यक्षत्वे तत्र व्यभिचारादाह विशेषेति । हेत्वन्तरं शब्दप्रकाशे व्याख्यातम् । टिप्पणी । एवं शब्दोऽनित्यो व्यापकप्रत्यक्षविशेषगुणत्वादिति आशुविनाशित्वं यदि साध्यं तदा घटरूपादौ व्यभिचारवारणाय व्यापकेति देयं नान्यथा, आत्मैकत्वस्य प्रत्यक्षत्वे प्रत्यक्षघटितहेतौ तत्र व्यभिचारवारणाय सर्वत्र विशेषपदसार्थक्यं द्रष्टव्यम् । भूतप्रत्यक्षविशेषगुणत्वादिति । आत्मैकत्वे व्यभिचारवारणाय भूतेति । अस्मदादिप्रत्यक्षविशेषेति । अत्र सामान्यतोऽनित्यत्वं साध्यमतो न घटरूपे व्यभिचारः । ३५ न्या० कु०

२९४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्या-

  • जातिरेव पदार्थो, न व्यक्तिरिति चेन्न । शब्दात्तदलाभप्रसङ्गात् । आक्षे- पत इति चेत् , 'कः खल्वयमाक्षेपो नाम ? [न] तावदनुमानम् । अनन्ता- भिः सह सङ्गतिवदविनाभावस्यापि ग्रहीतुमशक्यत्वात् । शक्यत्वे वा, बोधनी । तर्हि शब्दाद् व्यक्तिप्रतीतिर्न स्यादित्याह-न इति । ननु शब्दप्रतिपन्नाया जातेराक्षेपाद् व्यक्ति- र्लप्स्यत इत्याह-आक्षेपतः इति । कः खलु-इति । न कश्चिदिति भावः । अत एवाह-न तावत् प्रकाशः । ज्ञाति विना रूपान्तरमस्ति । गोत्वविशिष्टे कार्योन्वयेन गोत्वस्य विशेषणत्वाच्च । न च व्यक्तिः- शक्या गोत्वमवच्छेदकं कारणत्वे दण्डत्ववत् । गोपदाद् गोत्वविशिष्टबुद्धेरनुत्पादापत्तेः । अत एव न जातिविशिष्टे शक्तिः । विशेष्यभेदाद्विशिष्टानन्त्यात् । तस्माज्जातिरेव पदानां शक्या, न व्यक्तिरिति नोक्तदोष इत्यभिप्रेत्याह । जातिरेवेति । तर्हि जातिशक्तात् पदाद् व्यक्त्युपस्थितिर्न स्यादित्याह । शब्दादिति । न पदात् तदुपस्थितिः, किन्तुत्वाक्षेपत इत्याह । आक्षेपत इति । ननु जातिव्यक्त्योरेकवित्तिवेद्यत्वान्नाक्षेपः । समानानां भावः सामान्यं, समानां व्यक्तिं विना न भासते इति चेन्न । स्वरूपेणैव जातेः शक्यत्वात् । सामान्यत्वंन्तु तद्धर्मो, न तु तत्स्वरूपम् । प्रत्यक्षादौ न जातिज्ञानस्य व्यक्तिविषयतानियमो व्यक्तिभानसामग्रीसमाजाधीनः । गोत्वं गवावि- षयकज्ञानविषयो जातित्वाद गोभिन्नभावत्वाद्वेति जातिमात्रधीसिद्धेश्च । अथ यत्परतन्त्रं तत्तेनैक- वित्तिवेद्यं, यथाऽर्थपरतन्त्रज्ञानमर्थेन, जातिश्च व्यक्तिपरतन्त्रेति व्यक्तौ भासमानायामेव भासते इति चेन्न । परतन्त्रत्वं हि न परसमवेतत्वं, शब्दादिना व्यभिचारात् । नापि तन्निरूपणाधीननिरूपण- त्वम् । असिद्धेः । नापि परस्मिन् भासमान एव भासमानत्वम् । साध्याविशेषात् । तस्माद्गोत्वं व्यक्त्याश्रितं जातित्वादित्यनुमानाद् गोत्वाश्रयव्यक्तिज्ञानमिति भावः । व्याप्तिरपि शक्तिरिव व्यक्ती- नामांनन्त्यान्न ग्राह्या इत्याह अनन्ताभिरिति । अथैकरूपावच्छेदेन व्याप्तिग्रहस्तदा शक्तिग्रहो- ऽपि तथैवास्त्वित्याह । शक्यत्वे वेति । गोत्वस्य व्यक्त्याश्रितत्वव्याप्तेः पक्षधर्मताबलाद् गोव्य- प्रकाशिका । तत्तत्साधनाधिकरणे गन्धस्तत्तत्साधने दृष्टान्तः । गोत्वमिति । न च नित्यत्वसामान्यलक्षणा- जन्यज्ञानमादायार्थान्तरमिति वाच्यम् । सामान्यप्रत्यासत्तौ बाधकावतारकाल एतदनुमानात् , तया च वाधेनोक्तार्थान्तरानवकाशात् । केचित्तु केवलजातिज्ञानसिद्धयर्थमेवायं प्रयोग इत्युक्तक्र- मेणापि तत्सिद्धौ समीहितसिद्धिरिति नार्थान्तरं दोष इत्याहुः । जातित्वादिति । धर्म्मत्वादित्यु- च्यमाने गवि व्यभिचार इति जातित्वादित्युक्तम्' तदर्थश्च सामान्यलक्षणामभ्युपगमे नित्यत्वमात्रम् अन्यथा वैयर्थ्यात् । न च तथा सति गवान्योन्याभावे व्यभिचारः । उक्तक्रमेण तत्रापि साध्यसत्त्वात्। गोभिन्नेति । गवि व्यभिचार इति गोभिन्नेति । सामान्यलक्षणानभ्युपगमपक्षे गवान्योन्याभावे व्यभिचार इति भावपदम् । तस्मादिति । यद्यप्यत्र जातित्वं व्यक्तिसमवेतत्वघटितमिति साध्या- मकरन्दः । गोत्वमिति । न च नित्यत्वादिसामान्यप्रत्यासत्या तादृशप्रतीतिसम्भवात्तमादायार्थान्तरं एकवित्तिवेद्यत्वनियमनिषेधार्थं सामान्यत एव तादृशधीसिद्धेरुद्देश्यत्वात् । अत एव वक्ष्यति, जातिमात्रधीसिद्धेश्चेति । नन्वेवं जातिपदार्थविवेचने नित्यत्वादित्येव हेतुरस्तु, न चैवं गवां- न्योन्याभावादौ व्यभिचारः, नित्यत्वप्रकारकोक्तप्रतीतिमादाय तत्रापि साध्यसत्त्वात् , गोघटितो- पाधेश्चानित्यगोघटितत्वेना नित्यत्वादित्यस्वरसादाह गोभिन्नेति । एतच्च गवि व्यभिचारवार- णाय । गोघटितोपाधौ व्यभिचारवारणाय भावपदमखण्डपरम् । न त्वभावे व्यभिचारवारणाय तत् ,, उक्तरीत्या तत्र साध्यसत्त्वात् । अन्यथा गोसादृश्यादौ व्यभिचारतादवस्थ्यापत्तेरिति । अस्तु वा इतरनिरूपणाधीननिरूपणपरं भावपदम् । तस्मादिति । अत्र जातिपदार्थविवेचने व्यर्थविशेषणत्वं

यहाँ प्रस्तुत पृष्ठ का सम्पूर्ण देवनागरी पाठ पंक्तिशः (line by line) दिया जा रहा है:

द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २७५ सङ्कतेरपि तथैव सुग्रहत्वात् । व्यक्तिमात्ररूपेणाऽविनाभाव इति चेन्न । व्यक्तित्वस्य सामान्यस्याभावात् । भावे वा, तदाक्षेपेऽपि विशेषानाक्षेपात् । वाच्यत्वमपि वा तथैवास्तु, किमाक्षेपेण ? सङ्कतेरविरोधादिति । अर्थापत्तिराक्षेप इति चेन्न । व्यक्त्या विना किमनुपपन्नम् । जातिरिति चेन्न । तन्नाशानुत्पाददशायामपि सत्त्वात् । तथापि न व्यक्तिमात्रं विनेति चेन्न । मात्रार्थाभावात् । व्यक्तिज्ञानमन्तरेण जातिज्ञा- नमनुपपन्नमिति चेन्न । तदभावेऽप्युत्पादात् । व्यक्तिविषयत्वं विना जातिविषयता बोधनी । इति । आनन्त्यदोषो हि संगतिग्रह इवाविनाभावग्रहेऽपि सुलभ इति । ननु सर्वव्यक्त्यनुगतेन व्यक्तिमात्ररूपेणाविनाभावः शक्यग्रह इत्याह—व्यक्तिमात्ररूपेण-इति । न-इति । न ताव- ज्जाति व्यक्ति चान्तरा व्यक्तित्वं नाम सामान्यमस्ति, भावेऽपि तदेव जातेराक्षिप्येत न व्यक्तय इति । यदि च व्यक्तित्वसामान्यमभ्युपगम्येत ततः शब्दवाच्यमेव तदस्तु, तस्यैकत्वेन संगति- ग्रहस्य सुकरत्वात् । किमाक्षेपतः सिद्धयेदित्याह-वाच्यत्वमपि-इति । अपिरवधारणार्थः । ननु मा भूदाक्षेपोऽनुमानम्, अर्थापत्तिर्भविष्यतीत्याह-अर्थापत्तिः इति । तस्या हि नाविनाभा- वग्रहापेक्षेति भावः। व्यत्क्या विना इति । न किञ्चित् इति शेषः । जातिः। तदाश्रया हि सेति । न इति । व्यक्तीनां विनाशदशायामपि जातेरवस्थामान्न व्यक्त्या विना जातिरनुपपन्नेति । तथापि इति । यद्यपि काश्चिद्वयक्तीरन्तरेणाप्यवतिष्ठत इति । न इति । उक्तं हि न व्यक्तिजातिव्यतिरिक्तं- मन्यत्किञ्चिदस्तीति : व्यक्तिज्ञानम् इति । ततो जातिज्ञानाद् व्यक्तिज्ञानाक्षेप इति । न इति । शब्दात्केवलजातिज्ञानस्य भवद्भिरभ्युपगमादिति । व्यक्तिविषयताम् इति । तेन जातिज्ञाना- प्रकाशः । क्तिलाभः स्यादित्याह । व्यक्तिमात्रेति । व्यक्त्याश्रितव्याप्तिरपि न व्यक्तित्वमनुगतं विना ग्राह्येति । न च तज्जातिः । जातेरपि व्यक्तित्वत्वादित्याह । व्यक्तित्वेति । उपाधित्वे तस्य दोष- माह । भावे चेति । व्यक्तिमात्रलाभेऽपि व्यक्तिविशेषानाक्षेपात्तत्प्रतीत्यनुपपत्तिरित्यर्थः । ननु पक्षधर्मतावलाद् व्यक्तिविशेषः सिद्धयेदित्यभिप्रेत्याह । वाच्यत्वमपीति । यदि व्यक्ति- त्वेनोपस्थिते व्याप्तिस्तदा गोत्वेनोपस्थिते शक्तिग्रहोऽपि स्यादित्यर्थः । वस्तुतः पक्षधर्मता- बलाद्विशेषस्य भानेऽपि विशेषत्वेनोपस्थितिर्न स्यादनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमा- दिति भावः । व्यक्तिं विना जातिरनुपपन्ना तामाक्षिपतीत्याह । अर्थापत्तिरिति । तन्नाशेति । व्यक्तिं विनाऽपि गोत्वस्योक्तरीत्या प्रतीतेर्नानुपपत्तिरित्यर्थः । यद्यप्येकव्यक्तिनाशानूत्पाददशायामपि जातिरस्ति, तथापि व्यक्त्यन्तरमस्त्येवेति न व्यक्तिमात्रं विना जातिरस्तीत्याह । तथापीति । मात्रार्थो हि नाऽशेषव्यक्तिः, एकव्यक्तिनाशेऽपि गोत्वाद्दर्शनात् । नापि व्यक्तित्वं, तद्धि न जाति- रुक्तदोषात् । उपाधित्वे तु व्यक्तित्वेन उपस्थितसर्वव्यक्त्तधन्यथानुपपत्तिग्रहवच्छक्तिग्रहोऽपि स्या- दित्याह । मात्रार्थेति । तदभावेऽपीति । मकरन्दः । चिन्त्यम् । जातेरपीति । गोत्वत्वाद्युपाधिव्यक्तीभूतगोत्ववृत्तित्वव्यक्तित्वस्य जातित्वे जातावपि जातित्त्ववृत्तित्वाभ्युपगमेऽपसिद्धान्त इति भावः । विशेषत्वेनेति । गोत्वादिनेत्यर्थः । उक्तरीत्ये- ति । गोत्वं गवाविषयज्ञानविषय इत्यादि त्वदुक्तरीत्येत्यर्थः । इत्यर्थः=इति तात्पर्य्यार्थः । अक्षराख्यानुसारणाह यद्यपीति । ज्ञानादिति । सत्त्वान्चेत्यपि वोध्यम् । टिप्पणी । विशेषत्त्वेनेति । गोत्वादिनेत्यर्थः । गोत्वादेर्ज्ञानादिति । सत्त्वाच्चेत्यपि चोध्यम् ।

२७६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां तस्यानुपपन्नेति चेन्न । एवं तर्ह्येकज्ञानगोचरतायां किमनुपपन्नं किं प्रतिपादयेदिति । जातीनामन्वयानुपपत्त्या व्यक्तिरवसीयते इति चेन्न, परस्पराश्रयप्रसङ्गात् । बोधनी । दांतं मनो व्यक्तिविषयतामाक्षिपतो व्यक्तिज्ञानसिद्धिरिति । न इति । एवं हि जातिव्यक्त्योरेकज्ञान- विषयत्वमेवोक्तं स्यात्, तत्रोभयोरपि ज्ञातत्वाविशेषात् किमनुपपन्नं प्रतिपादकं भवेत् किं वा प्रतिपाद्यं भवेत् । अत्रानुपपन्नमात्रनिराकरणप्रकरणे किं प्रतिपादयेदिति प्रक्रियाया असंगतत्वात् प्रमादकृतः पाठ इति संप्रदाय इति । जातीनाम इति । गोत्वशुक्लत्वादीनां परस्परमन्वयानुपपत्त्या तदन्वयसिद्ध्यर्थं व्यक्तिः प्रतीयत इति । यद्वा, जातीनामनेकव्यक्त्यन्वयः प्रतीयमानो नान्तरेण व्यक्तिमुपपद्यत इति व्यक्तिरवसीयत इति । न इति । प्रतीते ह्यन्वये तदन्वयानुपपत्त्या व्यक्तिः प्रतीयते, प्रतीतायां च व्यक्तौ तदन्वयप्रतीतिरितीतरेतराश्रयत्वम् । किंच, जातिप्रतीतौ सत्यां तद्- न्वयानुपपत्त्या व्यक्तिप्रतीतिः, व्यक्तिप्रतीतौ च सत्यां जातिरित्यात्माश्रयत्वं, व्यक्तिप्रतीतिपुर- प्रकाशः । गोभिन्नभावत्वेन गां विनाऽपि त्वया गोत्वज्ञानाभ्युपगमादित्यर्थः । एवं तर्हीति । व्यक्तिं विनापि जातेर्ज्ञानात् केवला जातिर्नोपस्थितेति जातित्वविशिष्ट एव पदानां शक्तिः । विशिष्टानामानन्त्येऽ- प्येकत्र विशिष्टे तत्वं विहाय गोत्वमादाय गोत्वविशिष्टं शक्यमिति शक्तिग्रहात् सर्वत्रोदासीनस्य गोः शक्यत्वान्यत्किंचिदेकोपादानेऽपि गोरुपादानान्नोपादानाशक्यत्वमेकोपादानेऽनध्यवसायो वा, व्यक्ति- वाचकपश्वादिपदवदुपपत्तेः। वस्तुतो नानुमानार्थापत्तिभ्यां व्यक्तिलाभः । न हि यत्र यदा वा गोत्वं तत्र तदा वा, यद् गोत्वं सा व्यक्तिरिति वा व्याप्तिर्व्यभिचारात्। नापि जातित्वं व्यक्त्याश्रितत्वे । लिङ्गम्। जातित्वस्य पदानुपस्थितेः । तथात्वे वा, जातिरिति वेथैव व्यक्तिः, नित्यानेकसमवेतत्वस्य जाति- त्वात् । व्यक्तेश्चापदार्थत्वे विभक्त्यर्थसंख्याकर्मत्वादेर्व्यक्तावनन्वयः स्यात् । सुब्विभक्तीनां प्रकृत्यर्था- न्वितस्वार्थबोधकत्वस्य व्युत्पत्तिसिद्धत्वात् । न च प्रकृतितात्पर्यविषये तदन्वयव्युत्पत्तिः । लक्षणोच्छे- दापत्तेः । एवं तर्हि गामानयेत्यादौ जातेरानयनाद्यन्वयानुपपत्त्या जातिशक्तपदेन व्यक्तिर्लक्ष्यते, अत एव व्यक्तेः प्रकृतिप्रतिपाद्यत्वे विभक्त्यर्थाऽन्वयस्तत्र सङ्गच्छत इत्याह । जातीनामिति । जाति- ज्ञाने सति लक्षणया व्यक्तिज्ञानं, व्यक्तिमादाय जातिज्ञानमित्यन्योन्याश्रय इत्याह । परस्परेति । प्रकाशिका । विशेषः, तथापि समवेतत्वमात्रमेव हेतुः कर्त्तव्यमिति भावः । गामिति । गोज्ञानं विनापीत्यर्थः । जातित्वस्येति । प्रकारान्तरेण च तदुपस्थितिः कांदाचित्की व्यक्तिधीश्र्व सर्वदैव पदादिति तन्नि- र्वाहाय व्यक्तौ पदशक्तिस्वीकार इति भावः । व्युत्पत्तिसिद्धत्वादिति । पश्वादिपदे तथा कल्प- नादिति भावः । लक्षणेति । वह्नितात्पर्यके धूमोऽस्तीति वाक्ये धूमपदोत्तरविभक्त्यर्थस्य वह्नाव- मकरन्दः। गोभिन्नेति । यद्यपि तेनैकवित्तिवेद्यत्वमपाकृतं तच्चानुपदमेव शङ्कितं, तथापि व्यक्तेर्ज्ञानान्तरमपि तदा नास्तीत्यस्यापि तन्निंरस्यत्वमुक्तम् । वस्तुतो व्यक्तिज्ञानकारणत्वशङ्केयं, तत्र च तुल्यग्रहसामग्रीक- त्वात् तदभावेऽप्युत्पादादित्यर्थो युक्तः । गामिति । गोज्ञानं विनाऽपीत्यर्थः । जातित्वस्येति । न ह्यः प्रकारान्तरात्तदुपस्थितिः, तस्यासार्वत्रिकत्वात् , व्यक्तिबुद्धेश्च सार्वत्रिकतया शक्तिरेवेति भावः । टिप्पणी । गोत्वज्ञानाभ्युपगमादिति । गोभिन्नभावत्वेन लिङ्गेन गोत्वमात्रज्ञानस्य साधितत्वात् तथा च व्यक्तिज्ञानकारणत्वस्य समानकालत्वस्य च निरासः । व्यक्तिं विनापोति “एवं तर्हीत्यादे”रियं व्याख्या। नियमेन जातिव्यक्त्योरेकज्ञानविषयत्वे सतीत्येवं ह्येकज्ञानगोचरतायामित्येतस्यार्थोऽत्रादिः। एवन्तर्हीति । सुब्विभक्तीनाम्प्रकृत्यर्थेत्यादिव्यवस्थितौ । जातियक्त्योर्नियमेनै कज्ञाने भासमा-

द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् । २७७ स्यादेतत् । प्रतिबन्धं विनाऽपि पक्षधर्मताबलाद् यथा लिङ्गं विशेषे पर्यवस्यति, तथा सङ्गतिं विनाऽपि शब्दः शक्तिविशेषाद्विशेषे पर्यवस्यति, स एवाऽऽक्षेप इत्यु- च्यते इति चेद्, न तावत् प्रतीतिः क्रमेण । अपेक्षणीयाभावेन विरम्य व्यापारायो- गात् । जातिप्रत्यायनमपेक्षते इति चेत्, कृतं तर्हि शब्दशक्तिकल्पनया । नावतेव तत्सिद्धेः। ओमिति चेन्न । व्यक्त्यनालम्बनाया जातिप्रतीतेरसम्भवादित्युक्तत्वात्। बोधनी। स्कारेण जातिप्रतीतेरुक्तत्वात् । पश्चिमे तु व्याख्याने शब्दादप्रतीतासु व्यक्तिषु जातेस्तदन्वयप्रतीति स्तदन्वयप्रतीत्या च व्यक्तिप्रतीतिरितीतरेतराश्रयत्वं व्याख्येयमिति । तर्हि विशेषपर्यवसानमेवाक्षेप इत्याह-स्यादेतत् इति । यथा हि लिङ्गं साध्यसामान्येनैव गृहीतव्याप्तिकमपि पक्षधर्मतासहायं साध्यविशेषे पर्यवस्यति, तथा शब्दो जात्या गृहीतसंगति- रपि शक्तिविशेषाद्वयक्तौ पर्यवसास्यतीति । न तावत् इति । किमयं शब्दो जातिव्यक्त्योः प्रतीतिं क्रमेण जनयेद्युगपद्वा ? न तावत् क्रमेण, शक्तिविशेषादेव प्रतीतिं जनयतः शब्दस्यापेक्षणीयान्तराभा- वेन विरम्य ज्ञानोत्पादनव्यापारायोगादिति । ननु जातौ गृहीतसंगतिः शब्दः तद्विषयं ज्ञानं जनयि- त्वा तदपेक्ष एव व्यक्तिं प्रत्याययतीत्याह-जातिप्रत्यायनम् इति । यदि व्यक्तिज्ञानोत्पादने जाति- ज्ञानापेक्षा तर्हि किं तत्रापि शब्दव्यक्तिकल्पनयेत्याह-कृतं तर्हि इति । कुत इत्यत आह-तावतेव इति । जातिज्ञानेन व्यक्तिज्ञानसिद्धेरिति । ननु जातिज्ञानेनैव तत्सिद्धिमनुज्ञायत एवेत्याह-ओम् इति। न इति। उक्तत्वात् । न च व्यक्त्या विना जातिस्फुरणमित्यत्र लिङ्गमपि पक्षधर्मतासहकृतमेक- प्रकाशः। वस्तुतः स्वार्थादन्येन रूपेण ज्ञाते लक्षणा, तीरत्वेन ज्ञाते गङ्गापदस्येव । न च गोत्वादन्थेन रूपेण व्यक्तेरुपस्थितिः, किन्तु गोत्वेनैव । न च व्यक्तित्वेन तदुपस्थितिः। गोपदाद् व्यक्तित्वप्रकारक- बुद्ध्यापत्तेः । गां पश्य, गौस्तिष्ठतीत्यादौ जातेरप्यन्वययोग्यत्वे व्यक्तेरलाभप्रसङ्गाच्च । तस्मादेक- वित्तिवेद्यत्वान्न व्यक्तेराक्षेपः किन्तु विशिष्टे शक्तिरेवेति भावः । ननु जातिशक्ततया ज्ञातं पदं प्रथमं जातिं बोधयति, अनन्तरं स्वरूपसद्धर्मशक्त्या व्यक्तिम्, एवञ्च जातौ ज्ञाता शक्तिर्बोधिका, व्यक्तौ तु स्वरूपसती, यथा लिङ्गं वह्निसामान्यव्याप्ततया ज्ञातं तद्विशेषव्याप्ततयाऽनवगतमपि वस्तुगत्या व्यापकं गमयतीत्याशयावानाह- स्यादेतदिति । प्रतिबन्धं विना = प्रतिबन्धग्रहं विना । शक्तिविशेषात् = स्वरूपसद्धर्मशक्ति- 'शक्तेः । एवं पदाद् युगपदेव जातिव्यक्तिज्ञानं स्यादुभयज्ञानसामग्र्या वृत्तत्वादित्याह । न ताव- 'दिति । व्यक्तिज्ञाने कर्तव्ये जातिशक्ततया ज्ञातं पदं जातिज्ञानमपेक्षते इति क्रम इत्याह । जातीति । यदि जातिज्ञानं व्यक्तिज्ञानहेतुस्तदा किं व्यक्त्या ? । जातिज्ञानादेव व्यक्ति- शक्ति विनाऽपि तज्ज्ञानोपपत्तेरित्याह । कृतमिति । नास्त्येव व्यक्तौ शक्तिः, जातिज्ञानमेव व्यक्तिज्ञानहेतुरस्त्वित्याह । ओमिति । स्यादेवं, यदि व्यक्त्यविषयं जातिज्ञानं स्यान्न त्वेव- मित्याह । व्यक्तीति । किञ्चैवं व्यक्तिज्ञाने पदानामकरणत्वे जातिज्ञानं मानान्तरं स्यादित्याह । प्रकाशिका। न्यापत्तेश्चेत्यपि द्रष्टव्यम् । मन्मते केवलजातेरपि प्रतीतिस्वीकारान्नान्योन्याश्रय इत्यरुचेराह । वस्तुत इति । ननु नीलोऽग्र घट इत्यत्र नीलरूपप्रकारकलक्षणावद् गोत्वप्रकारकलक्षणा प्रकृते स्यादित्यरुचेराह । गां पश्येति । यद्यपि तात्पर्यानुपपत्त्या यष्टीः प्रवेशयेतित्यल्लक्षणायां बाधका- मकरन्दः। ननु परेण व्यक्तिज्ञानं विनाऽपि जातिज्ञानाभ्युपगमान्नान्योन्याश्रय इत्यरुचेराह वस्तुत इति । न- न्विदमप्रयोजकम्, अत एव नीलो घट इत्यादौ तथैव लक्ष्येत्यस्वरसादाह गां पश्येति । यद्यपि टिप्पणी। मत्वानभ्युपगमे नान्योन्याश्रय इत्यत आह-वस्तुत इति ।

२७८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां प्रमाणान्तरापातप्रसङ्गाच्च । स्मरणं तदित्ययमदोष इति चेन्न । अननुभूतानन्वयप्र- सङ्गात् । अस्त्वेकैव प्रतीतिरिति चेत्, कृतं तर्हि शक्तिभेदकल्पनया । एवञ्च यथा सामान्यविषया शक्तिरेकैव तद्वति पर्यवस्यति, तथा सामान्याश्रया सङ्गतिस्तद्वति पर्यवस्येदिति । बोधनी । मेव सामान्यविशेषविषयं ज्ञानं जनयतीति भावः । यदि च शब्दव्यापारो जातिज्ञान एव पर्यवस्यन् न व्यक्तिज्ञानं यावद् गच्छेत् तर्हि व्यक्तिज्ञानजनकं जातिज्ञानं सप्तमं प्रमाणमापद्येत, अनुमानाद्यर्थापत्त्यो- र्निरस्तत्वादसंभवाच्चान्येषामित्यभिप्रायवानाह-प्रमाणान्तर इति । ननु शब्दप्रतीता जातिः साहच- र्याद्व्यक्तिं स्मारयति न तु प्रमापयति, ततो न प्रमाणान्तरापात इत्याह-स्मरणम् इति । न इति । तर्ह्यननुभूतानां गवादिव्यक्तीनां समभिव्याहृतपदार्थान्वयप्रतीतिर्न स्यादिति । तदेवं क्रमेण प्रतीति- र्निराकृता, संप्रति यौगपद्यं निराकर्तुं शङ्कते-अस्तु इति । शब्दादेव जातिव्यक्तिगोचरा प्रतीतिरेकैव जायते न च प्रमाणान्तरापत्तिर्दोष इति । कृतं तर्हि इति । न हि कार्याभेदे कारणभेदशक्तिक- ल्पनायां प्रमाणमस्तीति । एवमुपपादितं दृष्टान्तप्रकारं दाष्ट्रान्तिके निगमयति-एवं च इति । शक्तिभेदाभावे सति यथा गोत्वादिसामान्यविषया शब्दशक्तिस्तद्वति विशेषे पर्यवस्यति तमपि विष- यीकरोतीति यावत् , तथा गोशब्दत्वादिसामान्याश्रया या वाचकत्वशक्तिस्तद्वति गोशब्दे पर्यवस्यति, सैव तस्यापि शक्तिर्भवति, नान्या कल्प्यत इत्यर्थः । प्रकाशः । प्रमाणेति । जातिज्ञानकरणकमपि व्यक्तिज्ञानं स्मरणं नानुभव इति, न तन्मानान्तरमित्याह । स्मरणमिति । एवं गामानयेति वाक्यादननुभूतगोव्यक्त्यननुभवप्रसङ्ग इत्याह । अननुभूतेति । अस्तु तर्हि जातिव्यक्तिविषयैकैव धीरुभयशक्तिसाध्येत्याशङ्कते । अस्त्विति । उभयविषयक- शक्त्यैवैकज्ञानोपपत्तौ शक्तिद्वयकल्पनं व्यर्थमिति परिहरति । कृतमिति । ननु मा भूच्छ- क्तिभेदकल्पनं, भवतु सङ्गतिरप्येका, तथापि कथं प्रकृतसिद्धिरित्यत आह । एवञ्चेति । यथा घटशब्दत्वसामान्यविषया घटपदस्य शक्तिर्व्यक्तौ पर्यवस्यति, न तु तत्र पृथक्शक्तिस्तथा शब्दानि- त्यत्वेऽपि शब्दत्वसामान्यस्यैव शक्तिः घटशब्दे वाचकत्वव्यवहारं करोति, न तु घटशब्दस्य जातिवाचकत्वं पृथगित्यर्थः । प्राभाकरास्तु-व्यक्तौ जातिरनुगमिका विशेषिकाऽवश्यंवाच्या चेति नागृहीतविशेषणान्यायेन सैव वाच्या । न च जातावपि व्यक्तिरेव विशेष इति नागृहीतविशेषणान्यायो व्यक्तावपीति प्रकाशिका । भावः, तथापि जातिव्यक्त्योः पदादेकैकप्रतीतिरनुभूयते न तु क्रमेणेति जातिशक्तावेव व्यक्तेरव- च्छेदकत्वमिति तात्पर्यात् । अननुभूतेति । तन्मते सामान्यलक्षणाया अस्वीकारादिति भावः ॥१॥ मकरन्दः । यष्टीः प्रवेशयेतिवल्लक्षणा सम्भवत्येव, तथापि गोपदाद्व्यक्तिमादायैव जातिस्मृतेरनुभूयमानत्वाद्विशिष्टे शक्तिरेव न लक्ष्णेति भावः । तदिदमाह तस्मादिति । अननुभूतेति । तन्मते इति शेषः । अपरं शब्दप्रकाशे व्याख्यातम् । वैशेषिकमते व्यावृत्तिबुद्धिसिद्धो विशेषनामा कश्चन पदार्थोऽस्ति । स च द्विविधः सामान्य- विशेषः, अन्त्यविशेषश्च । सामान्यविशेषो द्रव्यत्वादिः, स खल्वनुवृत्तिबुद्धिहेतुः सन्नेव व्यावृत्ति- बुद्धेरपि हेतुर्भवति । अन्त्यविशेषस्तु नित्यद्रव्यमात्रवर्तिरैकमात्रगतश्च, स तु स्वत एव व्यावृत्त- इति सिद्धान्तः। टिप्पणी । व्यक्तौ पर्य्यवस्यति । व्यक्तिमपि बोधयतीत्यर्थः । तथा घटशब्दत्वसामान्याश्रयेति । शब्दा-

द्वितीयस्तबके ] शब्दानित्योपपादनम् । २७९ न च नित्या अपि वर्णाः स्वरानुपूर्व्यादिहीनाः पदार्थैः सङ्गम्यन्ते, न च तद्विशि- बोधनी । सन्तु वर्णाः स्वरूपेण नित्यास्तथाप्यनित्यानामेव संगतिग्रहोऽभ्युपगन्तव्यः स्वरानुपूर्व्यादिवि- शिष्टानां तेषां वाचकत्वाद्व्यञ्जकध्वनिधर्मयत्त्वाच्च स्वरादीनामित्याह- न च इति । कथं तर्ह्यनि- त्यानामेव पदार्थानां पदानां चानन्त्यव्यभिचारादिपरिहारेण संगतिग्रह इत्याशङ्क्य सुहृद्भावेन प्रकाशः । वाच्यम् । जातेः स्वत एव व्यावृत्तत्वात् । अन्यथाऽन्योन्याश्रयात् । स्वतो व्यावृत्तत्वं च परेषा- मन्वयविशेषस्येव स्वाश्रयवत स्वस्मिन् व्यावृत्तधीजनकत्वम् । व्यक्तिधीस्तु जातिशक्तादेव पदात् , गोपदं हि नियमतो जातिव्यक्ती बोधयति, तत्रास्य जातिशक्तिज्ञानमेव सहकारि कल्प्यते, लाघ- वादावश्यकत्वाच्च, न तु व्यक्तिशक्तिज्ञानं, गौरवात् , जातिशक्तिज्ञाने सति तज्ज्ञानं विना व्यक्ति- ज्ञाने विलम्बाभावाच्च, यथा परेषां पदार्थशक्तादेव पदादन्वयधीः । यद्वा, जातिशक्तिज्ञानाज्जाति- ज्ञानं जायमानं व्यक्तिमपिविषयीकरोति । यद्येन विना न भासते, तज्ज्ञानहेतोस्तद्बोधकत्वनिय- मात् । अन्यथा, जातिमपि न बोधयेत् । तस्मादेकवित्तिवेद्यत्वनियमाज्जातिज्ञानार्थं क्लृप्ता शक्ति- र्व्यक्तिमपि ज्ञापयति । न च जातिं विनाऽपि प्रत्यक्षादिज्ञाऽपि व्यक्तिज्ञानादन्यैव व्यक्तिज्ञानसा- मग्री, जातिविशिष्टज्ञानं चोभयज्ञापकसामग्रीसमाजादिति वाच्यम् । जातिव्यक्त्योः प्रत्यक्षादिना बोधे सामग्रीभेदेऽपि शाब्दव्यक्तिबोधे जातिशक्तिज्ञानस्यैव हेतुत्वात् । लाघवात् । तत्सत्त्वे तन्न विलम्बाभावेन सामग्र्यन्तराकल्पनाच्च । न चैवं व्यक्तिज्ञानस्य शक्यत्वात्तद्विषयत्वाज्जातिवद् व्यक्तिरपि शक्या स्यात् । यद्विषयतया ज्ञाने ज्ञाता शक्तिरुपयोगिनी तस्यैव विषयतया शक्य- तावच्छेदकस्य शक्यत्वात् । एवञ्च जातिव्यक्तिज्ञानजनकत्वादुभयत्रापि पदशक्तिः । जात्यंशे तु सा ज्ञाता हेतुः । परेणाऽप्यन्वये कुब्जशक्तिस्वीकारात् । उच्यते । शक्यज्ञाने विषयतया जातेरवच्छेदकत्वं व्यक्तिमादायैव ज्ञायते, न तु केवलायाः । व्यक्तिं विना जातेरज्ञानादिति जातेरवच्छेदकत्वे नागृहीतविशेषणान्यायाद्व्यक्तेरवच्छेदकत्वमाव श्यकमिति शक्यज्ञाने विषयतयाऽवच्छेदकत्वाज्जातिवद्व्यक्तिरपि शक्या । यद्वा, प्रथमं व्यवहा- रानुमितव्यक्तिज्ञाने पदानुविधानात् पदं शक्तमित्यवधारयति न तु जातिज्ञाने, व्यवहाराहेतु- त्वेन तदा तस्यानुपस्थितेः । पश्चाद्व्यक्तेर्व्यावृत्त्यर्थमनुगमार्थञ्च जातिरपि तद्विषय इति मानान्तरेण ज्ञात्वा जातिज्ञानेऽपि तत्पदस्य कारणतां प्रत्येति । तथा च व्यक्तिशक्तिज्ञानमपि कारणम् । न च जातिशक्तिज्ञानेनान्यथासिद्धिः । व्यक्तिज्ञानकारणतामुपजीव्य जातिज्ञानकारणताग्रह इति उपजीव्य- विरोधात् । अपि च, पदस्य व्यक्तिज्ञानार्थं शक्यज्ञाने विषयतया व्यक्तेरवच्छेदकत्वमात्रं कल्पयति । लाघवात् । जातिविषयत्वाद्व्यक्तिविषयत्वस्य ज्ञानवित्तिवेद्यत्वेनावश्यं शीघ्रोपस्थितत्वात् । न तु जातौ शक्तिं तज्ज्ञानं कारणान्तरं वा तदवच्छेदकं कल्पयति गौरवात् । शक्तिग्रहकाले तेषां कल्प- नीयोपस्थितिकत्वाच्चेत्यस्मत्पितृचरणाः । इदानीं वर्णनित्यतापक्षेऽपि पदानित्यताया सङ्गतिरविशिष्टेत्याह- न चेति । स्वरो = ध्वनिः । तन्मतेऽप्यनित्यः । न हि तावद्वर्णमात्रे शक्तिः, व्युत्क्रमेण ततोऽर्थप्रत्ययाभावादित्यानुपूर्वीविशेषविशिष्टे तत्र शक्तिः, सा चैकवर्णज्ञानानन्तरज्ञानविषयत्वमर्पर- मकरन्दः । यत्र शक्तिरस्ति, परन्तु शाब्दबोधे तस्याः कारणता नास्ति, तत्रैव कुब्जशक्तिरित्येके । यत्र स्वरूपसत्येव शक्तिः कारणं न तु ज्ञाता, तत्र कुब्जशक्तिरित्यपरे ॥ १ ॥ टिप्पणी । नित्यत्वेऽपि शब्दत्वसामान्यस्यैव शक्तिः । क्वचित् ज्ञानानन्तरज्ञानविषयत्वमिति पाठः । इदञ्च शब्दनित्यतामते, स्वमते एकवर्णान्तरापरवर्णत्वस्यैव तथात्वात् ॥ १ ॥

Here is the line-by-line transcription of the Sanskrit text from the image:

२८० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२ कारिकापतरणिकाब-] ष्टत्वमपि तेषां नित्यम्, तस्मात्तत्तज्जातीयक्रोडनिविष्टा एव पदार्थाः पदानि च संबध्यन्ते नातोऽन्येथेति, नैतदनुरोधेनापि शब्दस्य नित्यत्वमाशङ्कनीयमिति । यदा च वर्णा एव न नित्यास्तदा कैव कथा पुरुषविवक्षाधीनानुपूर्व्यादिविशिष्टवर्णस- मूहभूतानां पदानां, कुतस्तराञ्च तत्समूहरचनाविशेषस्वभावस्य वाक्यस्य, कुत- स्तमां तत्समूहस्य वेदस्य ॥ १ ॥ परतन्त्रपुरुषपरम्पराधीनतया प्रवाहाविच्छेदमेव नित्यतां ब्रूम इति चेत् । एतदपि नास्ति । सर्गप्रलयसम्भवात् । अहोरात्रस्याहोरात्रपूर्वकत्वनियमात्, कर्मणां विषमविपाकसमयता युगपद् वृत्तिनिरोधायुपपत्तेर्वर्णादिव्यवस्थाऽनुपपत्तेः, समयानुपलब्धौ शाब्दव्यवहारविलो- पप्रसङ्गाद्, घटादिसम्प्रदायभङ्गप्रसङ्गाच्च कथमेव मिति चेत् । बोधनी । दर्शयंन्नुपसंहरति-तस्मात् इति । एतदनुरोधेन = संगतिग्रहानुरोधेनेति । तदेवं वर्णानामपि नित्यत्वं प्रसाध्य वेदानित्यत्वमाह-यदा वर्णाः इति । एवं तावत्प्रमायाः परतन्त्रत्वादिति व्याख्यातम् ॥१॥ अथ द्वितीयं पादं व्याचिख्यासुः शङ्कते-परतन्त्र इति । पूर्वपूर्वोच्चारयितृपुरुषपरतन्त्रोत्तरो- च्चारयितृपरम्पराप्रवाहस्याविच्छेदो नित्यता सा च प्रत्युच्चारणविनाशिनोऽपि संभवतीतिः। एतदपि इति। एवत्प्रवाहाविच्छेदलक्षणमपि नित्यत्वमिति । सर्गप्रलययोरसंभवे पराभिमतसाधना- न्याशङ्कते-अहोरात्रस्य इति । विप्रतिपन्नमहोरात्रमव्यवहिताहोरात्रपूर्वकम् अहोरात्रत्वात् अद्य- तनाहोरात्रवत्, अन्यथाऽद्यतनमपि तथा न स्यात् नियामकाभावात् । किञ्च, कर्मणां धर्माधर्माणाम् विषमोऽनेकः फलकालः तेनैकस्मिन् भुक्तफले कर्मणि क्षीयमाणे कर्मान्तरमुपतिष्ठते फलान्तरोत्पा- दनेनेत्येककर्मिणः कियन्त्यपि कर्माणि युगपन्निरुद्धवृत्तीनि न संभवन्तीति किमुतानन्तानां कर्मि- णामनन्तानि कर्माणि, तदापि कस्यचित्कर्मणो विपाकावश्यंभावात् । प्रयोगश्च-विवादाध्यासि- प्रकाशः । वर्णस्य, ज्ञानं चानित्यमिति तद्घटितं पदमपि तथेत्यर्थः । अभिमतमुपसंहरति । तस्मादिति ॥१॥ ननु कूटस्थनित्यतां वेदस्य न ब्रूमः, किन्तु प्रवाहाविच्छेदरूपामित्याह । परतन्त्रेति । तज्जातीयानुपूर्वीज्ञानजन्यत्वव्याप्यज्ञानविषयत्वं परतन्त्रपुरुषपरम्पराधीनत्वम् । तथा च काल- त्वस्य वेदाधिकरणत्वव्याप्यत्वमेव वेदस्य नित्यतेत्यर्थः । प्रलये बाधकमाह । अहोरात्रेस्येति । साम्प्रतिकाहोरात्रे तथा दर्शनादित्यर्थः । विपाकः = सहकारिलाभः । वर्णादीति । वर्णा = ब्राह्म- णादयः, तेषां व्यवस्था ब्राह्मणादिमातापितृजत्वेन, सर्गादौ तदभावात् सा न स्यादित्यर्थः । आ- दिपदाद्वादिगृह्यते । समयेति । सर्गादौ प्रयोज्यप्रयोजकवृद्धव्यवहाराभावान्नच्छदसङ्केतग्रहो न स्यादित्यर्थः । सर्वशब्दानाम्गृहीतसङ्केततयेश्वरेण शब्दतोऽपि व्युत्पादनस्याशक्यत्वादिति भावः । घटादीति । सम्प्रदायः = प्रवाहस्तस्य भङ्गो विच्छेदः । यथा घटादिः क्रियते, तद्रूपस्यादर्शना- दित्यर्थः ॥ प्रकाशिका । प्रलयसंभवेऽपि सर्गादित एवारभ्य-परतन्त्रपुरुषपरम्पराधीनत्वं स्यान्न चैतावता प्रवाहाविच्छेदसि- द्धिरत आह । तज्जातीयेति । ज्ञानविषयत्वमानुपूर्वी रूपं, प्रलयसम्भवे च सर्गादावेव व्यभिचा- रान्न, नैतदस्तीति भावः । कालत्वस्येति । कालोपाधित्वस्येत्यर्थः । मकरन्दः । ननु पूर्व्वविच्छेदेऽपि तदुत्तरं परतन्त्रपुरुषपरम्पराधीनत्वसम्भवान्न तावन्मात्रेण प्रवाहावि- च्छेदसिद्धिरित्यन्यथा व्याचष्टे तज्जातीयेति । विच्छेदे सर्गाद्यवेदस्य तज्जातीयानुपूर्वीज्ञानजन्य- त्वाभावान्द्व्याप्यसिद्धिरिति भावः । ज्ञानविषयत्वं तद्गत्वमित्यर्थः ।

द्वितीयस्तबके ] .. प्रलयोपपादनम् । २८१ उच्यते— वर्षांदिवद्भवोपाधिर्वृत्तिरोधः सुषुप्तिवत् ॥ उद्भिद्वृश्चिकवद्वर्णा मायावत् समयादयः ॥ २ ॥ तत्पूर्वकत्वमात्रे सिद्धसाधनाद् , अनन्तरतत्पूर्वकत्वे अप्रयोजकत्वाद् , वर्षादि बोधनी । तानि कर्माणि न युगपन्निरुद्धवृत्तीनि विषमविपाकसमयत्वात् इदानीं भुक्तभुज्यमानभोक्ष्यमाणकर्मव- दिति । किञ्च, सर्गादिभुवां जातिविशेषव्यवस्थापकोत्पादकजातिविशेषाभावाद् ब्राह्मणत्वादि- वर्णव्यवस्था न स्यात् । विप्रतिपन्ना ब्राह्मणा ब्राह्मणसंतानजन्मानः ब्राह्मणत्वादद्यतनवत् । किञ्च, सर्गादौ सर्वेषामव्युत्पन्नतवेन समयग्रहणाद्युपपत्तौ शब्दव्यवहारोऽपि लुप्येत । विप्रतिपन्नः शाब्द- व्यवहारः वृद्धव्यवहारपूर्वकः शाब्दव्यवहारत्वात् अद्यतनवत् । किञ्च, तदानीं कस्यचिदादर्शक- स्याभावाद् घटादिनिर्माणसंप्रदायो न स्यात् । विप्रतिपन्नं घटादिनिर्माणं तथाभूतादर्शकज्ञानपूर्वकं घटादिनिर्माणत्वादद्यतनवत् इत्येतैर्हेतुभिर्युगपत्सर्गप्रलययोर भावे सति कथं वेदसंप्रदायविच्छेदः स्यादिति ॥ पञ्चापि साधनानि दूषयति-उच्यते वर्षादिवत् इति । न तावदहोरात्रपूर्वकत्वे अहोरात्रत्वं प्रयोजकं, भवस्य ब्रह्माण्डस्थितेस्तत्रोपाधित्वात् । यथा वर्षादिदिनस्य तद्दिनपूर्वकत्वे तद्दिनत्वमप्र- योजकं राश्यादिसंसर्गोपाधित्वात् । तस्य च कर्मणां युगपद्वृत्तिनिरोधोऽपि सुषुप्तिदशायामिव संभवति । ब्राह्मणत्वादिनियमोऽपि गोमयादिजातानामिव वृश्चिकादीनामुपपद्यते । समयग्रहोऽपि सर्गादौ स्वयमेव परिगृहीतप्रयोज्यप्रयोजकवृद्धशरीरव्यवहारस्य परमेश्वरस्य व्यवहारात एव सुकरः, यथेन्द्रजालिकस्य सूत्रप्रोता दारुमयीपुत्रिकां इदमानयेति नियुज्य तथा कुर्वन्तीभिस्ताभिर्मायाव्यव- हारे तद्दर्शिनां बालानां, तया घटादिक्रियासंप्रदायोऽपि गृहीतकुलालादिविग्रहेण भगवतैव सिध्यतीति । प्रथमं पादं व्याचष्टे-तत्पूर्वकत्वमात्रे इति । सर्गादिवृत्तिनोऽहोरात्रस्याहोरात्रपूर्वकत्वे साध्ये सिद्धसाधनं, तस्यापि पूर्वसर्गान्तिमाहोरात्रपूर्वकत्वात् । किञ्च, संप्रतिपन्नाहोरात्रपक्षीकर- णे सिद्धसाधनं सर्गादिवृत्तिनस्तवाश्रयासिद्धिरिति भावः । नन्वव्यवहिताहोरात्रपूर्वकत्वं साध्यत इत्यत्राह-अनन्तर इति । तत्राहोरात्रत्वमप्रयोजकं संप्रतिपन्नाहोरात्राणामनन्तरतत्पूर्वकत्वेस्योपा- ध्यन्तरप्रयुक्तत्वादिति । अप्रयोजकत्वमेव दृष्टान्तेन दर्शयति-वर्षादि इति । यथा हि वर्षाः शरदि- प्रकाशः । वर्षादिवदिति । वर्षादौ, वर्षादिनपूर्वकत्वे साध्ये यथा राश्यादिभेदसंसर्गभेद उपाधिः, तथाऽ- होरात्रपूर्वकत्वेऽहोरात्रस्य साध्ये भवो ब्रह्माण्डस्य स्थितिकालः, स एवोपाधिरित्यर्थः । सुषुप्तौ यथा कर्मणां युगपन्निरोधस्तथा अन्यत्रापि स्यादित्याह । वृत्तिरोध इति । यथा तण्डुलीयवृश्चि- कयोस्तत्पूर्वकत्वेऽपि आद्यौ तौ तण्डुलकणगोमयाभ्यां भवतः, तथा ब्राह्मणादीनां तत्पूर्वकत्वेऽपि सर्गादौ तज्जनककर्मोपगृहीतभूतभेदात् स्यादित्याह । उद्भिदिति । प्रयोज्यप्रयोजकाद्यधिष्ठातुरी- श्वरस्यैव व्यवहारान्मायादिव्यवहारादिव तद्दर्शी व्युत्पन्नः स्यादित्याह । मायावदिति । विवादाध्यासिताहोरात्रस्याहोरात्रपूर्वकत्वं साध्यम् अव्यवहिताऽहोरात्रपूर्वकत्वं वा ? । नाद्य इत्याह । तत्पूर्वकत्वेति । पूर्वसर्गाहोरात्रपूर्वकत्वेन प्रलयेऽपि साध्यसिद्धेरित्यर्थः । नान्त्योऽप्रयोजक- त्वादित्याह । अनन्तरेति । वर्षादीति । तद्दिनं = वर्षादिनम् । ननु शारदाद्यदिनस्य वर्षादिनपूर्वकत्वं प्रकाशिका । वर्षादाविति । वर्षाद्यदिन इत्यर्थः । प्रलये = प्रलयाभ्युपगम इत्यर्थः । ३६ न्या०कु०

२८२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २ कारिकाव्याख्यायां दिनपूर्वकतद्दिननियमभङ्गवदुपपत्तेः । राश्यादिविशेषसंसर्गरूपकालोपाधिप्रयुक्तं हि तत् । तदभाव एव व्यावृत्तेः । तथेहापि सर्गानुवृत्तिनिमित्तब्रह्माण्डस्थितिरूपकालो- बोधनी । त्यादौ ऋतुमध्यन्दिनानां तत्तद्दिनपूर्वकत्वे तद्दिनत्वमप्रयोजकं संप्रतिपन्नाहोरात्राणां तत्तदृतूनां प्रथमदिनेषु व्यभिचारात् । यद्वा, वर्षात्तौरादिदिनस्य तद्दिनपूर्वकत्वे साध्ये तद्दिनत्वमप्रयोजकम्- भ्युपगम्यते, तदाहोरात्रत्वमप्रयोजकमपपद्यत इति । कस्तत्रोपाधिर्येन तद्दिनत्वस्य नियमो भज्यत इत्यत्राह—राश्यादि इति । राश्यादिविशेषैरादित्यस्य संसर्गात्मको यः कालोपाधिस्तत्प्रयुक्तं तद्दिन पूर्वकत्वं तस्य कालोपाधेरभावे तद्दिनपूर्वकत्वस्यापि व्यावृत्तेः साध्याभावाविनाभावात्ययत्वादिति यावत् इति । दाष्टन्तिंकत्वेऽप्यप्रयोजकत्वमुपाधिप्रदर्शनेनाह-तथा इति । सर्गस्यानुवृत्तौ प्रकाशः । साध्यमस्ति, न च राशिविशेषावच्छेद इति साध्याव्यापकत्वम् । न । वर्षादिनत्वे सति यद्वर्षादिन- पूर्वकं तद्राशिविशेषावच्छिन्नमिति साधनावच्छिन्नसाध्यव्यापकत्वात् । तथापि राशिविशेषावच्छि- न्नत्वं वर्षादिनत्वस्य साधनस्य व्यापकम् । अत्र, यदा दिनत्वेन वर्षाद्यदिनस्य वर्षादिनपूर्वकत्वं साध्यते, तदा पक्षधर्मावच्छिन्नसाध्यव्यापकोऽयमुपाधिरिति साम्प्रदायिकाः । किञ्च, विवादाध्या- सितत्वेनैतत्कालीनाहोरात्रस्य पक्षत्वे सिद्धसाधनम् , सर्गाद्यतत्पक्षत्वे च बाधः । न चाहोरात्र- प्रकाशिका । पक्षधर्मावच्छिन्नेति । अत्र यद्धर्मावच्छिन्नसाध्यस्य व्यापकः = तदवच्छिन्नस्यैव साधनस्याव्यापक उपाधिरुच्यते । अन्यथा व्यञ्जनवत्त्वादेरपि प्रसिद्धानुमान उपाधितापत्तेः, तथा च प्रकृतोपाधेरुक्त- पक्षधर्मावच्छिन्नसाधनव्यापकत्वादसङ्गतिरित्यरुचिं विभावयति साम्प्रदायिका इति । तस्माद् मकरन्दः । वर्षादाविति । वर्षाद्यदिने इत्यर्थः । प्रलये = प्रलयाभ्युपगमपक्षे । पक्षधर्मेति । वर्षादि- नत्वरूपपक्षधर्मावच्छिन्नेत्यर्थः । ननु वर्षाद्यदिनव्यावृत्तो राश्यादिविशेषसंसर्गविशेष उपाधित्वेना- भिमतः । तदिदमुक्तं प्राक्, राश्यादिभेदसंसर्गभेद उपाधिरिति । तथा च वर्षादिनत्वरूपसाध- नाव्यापकत्वमप्याद्यदिने सम्भवत्येवेत्यनुशयमाविष्करोति साम्प्रदायिका इति । केचित्तु राशि- विशेषवत्पूर्वकत्वमत्रोपाधित्वेनाभिमतं, तच्च शुद्धसाध्यव्यापकमेव, शरदाद्यदिनेऽपि तत्पूर्वकत्वस- त्त्वात् , एवञ्चात्र न साधनव्यापकत्वशङ्काऽपि, वर्षाद्यदिने वर्षादिनत्वरूपस्य साधनस्याव्यापकत्वा- दित्याहुः । पक्षविकल्पभिया पक्षधर्मत्वमाशङ्क्य परिहरति न चेति । अहोरात्रत्वं अहोरात्रवृत्ति टिप्पणी । साम्प्रदायिका इति । राशिविशेषसंसर्गविशेषो वर्षाद्यदिनव्यावृत्तोऽप्युपाधित्वेनाभिमतस्त- स्य वर्षाद्यदिन एव साध्यव्यापकत्वम् , पूर्वोक्तानुमान एव सम्भवतीत्यनुमानान्तरानुसरणं व्यर्थम् । यद्वा राशिविशेषवत्पूर्वकत्वस्यैवोपाधित्वं वाच्यम् तस्य शरदाद्यदिनेऽपि सत्त्वाच्छुद्धस्यै- वोपाधेः साध्यव्यापकत्वसम्भव इति पक्षधर्म्मत्वाद्यनुसरणं व्यर्थमित्यस्वरसः साम्प्रदायिका इति सूचितः । न चाहोरात्रत्वमव्यवाहितेति । अहोरात्रमात्रवृत्तिधर्मोऽत्राहोरात्रत्वं विवक्षितं न त्वहोरात्रत्वमहोरात्रवृत्तिधर्मो वा, आद्ये तत्तदहोरात्रत्वादेः पक्षैकदेशत्वाभावेन पक्षैकदेशस्यापी- त्यादिग्रन्थासङ्गतेः । न च पक्षैकदेशत्वाभावेऽपि साध्यहेतुमत्तया निश्चितस्य दृष्टान्तत्वसम्भवा- देवानुमानदोषाभावे ग्रन्थासङ्गतिरकिञ्चित्करीति वाच्यम् । तस्यैव पक्षत्वे सिद्धसाधनतादवस्थ्यात् । साध्यघटकाव्यवहितेत्यत्र स्वाश्रयाव्यवहितेत्यस्यैव वाच्यत्वात् सामान्यतोऽव्यवहितत्वस्याव्या- वर्त्तकत्वात् तत्राहोरात्रत्वे पक्षभूते साध्यसत्त्वसम्पादने स्वपदेन तस्यैवोपादेयतया स्वाश्र- यपूर्वसर्गीयाहोरात्राव्यवहिताहोरात्रपूर्वकत्वस्य सर्गीयाहोरात्रेऽपि सम्भवेन तदन्तर्भावेनापि व्या- प्यत्वक्षतेरभावात् । उक्तप्रकारेण पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यतया सर्गाहो-