भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

३६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकावतरणिकाव्याख्यायां प्रकाशः । न वा ? इति स्वर्गे । नरके तु दुःखपदस्थाने सुखपदप्रक्षेपात् संशयः । तादृशी च जातिर्बाल्या- दिभेदभिन्नानेकशरीरवृत्तिरसाधारणी चैत्रत्वादिः प्रसिद्धेति विशेषतः । परलोकमात्रे तु सुखदुः- खोभयजनक-मच्छरीरातिरिक्तशरीरवानहं न वेति संशयः । चैत्रस्तथा प्रसिद्धः । साधने तु, प्रागभावत्वाद्यप्रतियोगि कार्यं; प्रतियोगित्वप्रागभावान्यप्रागभावाविषयकप्रतीत्य- प्रकाशिका । तज्जातेः समानकालीनानेकवृत्तित्वात् वीचीतरङ्गन्यायेनापि नाश्यनाशकशब्दयोः समानकालीनत्वेन तथात्वात् । वस्तुतः समानकालोनत्वं समानकालोत्पत्तिकत्वमिति मनस्त्वादिकमादाय सिद्धसाधनवा- रणाय शरीरवृत्तिपदम् । जातिपदन्त्वेतच्छरीराभाविघटविशेषान्यतरत्वमादाय सिद्धसाधनवारणाय । दुःखावच्छेदकेत्यत्र दुःखपदं मरणजन्यदुःखपरमिति स्वर्गिशरीरस्यापि मरणजन्यदुःखावच्छेद- कत्वाद् बाध इति दूषणं निरस्तम् । यदि च स्वर्गिशरीरे आहारपरिणामभेदे मानाभावेन नानात्वा- भावात् तादृशी जातिर्नास्ति तदा सुखानवच्छेदकत्वमप्यनेकविशेषणम् । तथा च लोकविशेषजन्य- तावच्छेदकजातिमादायैव विधिकोटिरिति ध्येयम् । स्वर्गनरकान्यतरसाधनानुकूलां विप्रतिपत्तिमाह । परलोकेति । अत्र मत्पदमप्रसिद्धिवारणाय । अयञ्च विशिष्टाभावो द्वेधा मच्छरीरातिरिक्तशरी- रवत्त्वेन वा सुखदुःखयोरन्यतरमात्रावच्छेदकशरीरवत्त्वेन वा, तत्राद्ये बाधाद् द्वितीयमादायाभिमत सिद्धिरिति भावः । साधने त्विति । साधनत्वे त्वित्यर्थः । धम्मिणो दण्डादेः प्रागभावाविषयप्र- तीतिविषयत्वात् अग्रिमाग्रिमविप्रतिपत्तेस्तत्रैवान्वयाच्च । कारणत्वन्तु प्रागभावगर्भमिति प्रमेयत्वा- दिनापि तज्ज्ञाने प्रागभावविषयतावश्यकत्वम् । प्रागभावत्वमपि प्रागभावघटितत्वेन प्रागभावाविषयक- प्रतीत्यविषय इति तत्प्रतियोगित्वमादायार्थान्तरं मा भूदिति बाधस्फोरणाय प्रागभावत्वाद्यप्रति- मकरन्दः । यद्यपि जातिपदं व्यर्थम् । न चैहिकसुखमात्रावच्छेदकशरीरवृत्तिधर्ममादायाऽर्थान्तरवारणाय तदिति वाच्यम् । ऐहिकशरीरस्य दुःखावच्छेदकत्वनियमाद् बाधेनाऽसिद्धेः । अन्यथा जातिप- ददानेऽप्यप्रतीकारादिति । यदि च दुःखावच्छेदकत्वं तत्स्वरूपयोग्यत्वं, तदा तुल्यम् । एवञ्च स- मानकालीनपदमपि व्यर्थम् । तथापि पक्षे उपरञ्जकस्यापि दानाज्जातिपदमप्रसिद्धिवारकतया तदपि सार्थकमिति । वस्तुतस्तु एतच्छरीरभाविघटाद्यन्यतमत्वादिकमादायार्थान्तरवारणाय जाति- पदम् । तस्य दुःखावच्छेदकस्वरूपयोग्यत्वानधिकरणघटाद्यधिकरणत्वादिति । विधिनिषेधप्रसि- द्धिश्च शब्दत्वादौ चैत्रत्वादौ चेति बोध्यम् । सुखेति । सुखदुःखोभयजनकमच्छरीरातिरिक्तत्वमुभयथा सुखदुःखोभयजनकत्वविशेषणाभा- वान्दीयत्वविशेषणाभावाच्च । तच्चान्त्यनिबन्धनमन्यत्र प्रसिद्धम् । आद्यनिबन्धनञ्च पक्षधर्मता- बलात् पक्षे सिद्ध्यतीति भावः । साधने त्विति । साधनत्वे त्वित्यर्थः । तत्रैवाग्रे विप्रतिपत्तिद- टिप्पणी । त्त्वानधिकरणाधिकरणवृत्तित्वमर्थः, तथा सति सत्तामादाय सिद्धसाधनवारणायावृत्तित्वान्तस्य सार्थ- कता, यथाश्रुते तद्वैयर्थ्यं स्यादिति जलदे । साङ्कर्य्यस्य जातिबाधकत्वाभावे एकजातीयसुखावच्छेदक- चैत्रमैत्रादितत्तच्छरीरव्यक्तिविशेषवृत्तिजातिमादाय सिद्धसाधनवारणाय तत्सार्थक्यसम्भव इति तु वयम् । बाल्यादिभेदभिन्नानेकशरीरवृत्तिरिति । बाल्याद्यवस्थाभेदेन प्राप्तभेदमनेकं यच्छ- रीरं तद्वृत्तिरित्यर्थः । प्रागभावत्वाद्यप्रतियोगि कार्य्यमिति । प्रागभावत्वजन्याभावत्वरू- पध्वंसत्वस्य प्रागभावघटितस्य विशिष्टरूपस्य सखण्डस्य प्रागभावं विना न प्रतीतिविषयत्वमिति तदादायार्थान्तरं स्यादिति बाधस्फोरणायाप्रतियोग्यन्तम् । प्रागभावंतत्प्रतियोगित्वपूर्ववर्तित्व-

प्रथमस्तबके ] , न्यायाङ्गसंशयबीजविप्रतिपत्तिनिरूपणम् । ३७ प्रकाशिका योगीति पक्षविशेषणम् । आदिपदग्राह्यन्तु ध्वंसत्वादि, तस्य जन्याभावत्वरूपतया जन्यत्वस्य च प्रागभावगर्भतया तादृशप्रतीतिविषयत्वात् । प्रागभावघटान्‍योन्याभावाविति समूहालम्बनविषया- न्‍योन्याभावप्रतियोगितया सिद्धसाधनमिति तद्धारणाय नञ्द्वयगर्भता प्रागभावतत्प्रतियोगित्वाभ्यां सिद्धसाधनवारणाय प्रतियोगित्वप्रागभावान्येत्यविषयविशेषणम् । न च कार्यत्वावच्छिन्नप्रतियोगि- कान्योन्याभावमादाय सिद्धसाधनम् । तस्यापि प्रमेयत्वादिना ज्ञाने तादृशप्रतीतिविषयत्वात् । अत एव ध्वंसस्य जन्याभावतया जन्यत्वस्य च प्रागभावगर्भतया ध्वंसप्रतियोगितया सिद्ध- साधनमिति निरस्तम् । प्रमेयत्वादिना ध्वंसस्यापि तादृशप्रतीतिविषयत्वात् । ननु प्रतियोगित्वमत्र स्वरूपसम्बन्धविशेषः। नच प्रतियोगित्वस्य कार्यं प्रतियोगि किन्त्वाश्रयः, तथा च प्रतियोगित्वान्येति विशेषणं व्यर्थम् । न च प्रतियोगित्वमत्र सम्बन्धित्वमात्रम् । तथासति प्रागभावत्वत्वेनापि समं कार्यस्य परम्परासम्बन्धोऽस्त्येवेति तदादाय सिद्धसाधनाऽऽपत्तेः । न च स्वरूपसम्बन्धित्वं प्रतियोगि- गित्वम् । प्रकृते परम्परासम्बन्धस्यापि स्वरूपसम्बन्धत्वात् । संयोगसमवायान्यासम्बन्धस्यैव स्व- रूपसम्बन्धत्वात् । परम्परासम्बन्धान्यत्वस्यापि स्वरूपसम्बन्धलक्षणे विशेषणत्वे परम्परासम्ब- न्धस्य सर्वत्र सत्त्वेनासम्भवापत्तेः । न च साक्षात्सम्बन्धित्वमेव प्रतियोगित्वमत्र, प्रकृते च घटस्य कारणतेति प्रतीतिबलादस्त्येव घटस्य कारणतया साक्षात्सम्बन्धित्वमिति वाच्यम् । तथा सति प्रागभावान्यत्वाश्रयत्वलक्षणोपाध्याश्रयत्वेन सिद्धसाधनापत्तेः । न च तदन्यत्वमप्यविषयविशेषणं मकरन्दः । र्शनात् । धर्मिणस्तु दण्डादेः प्रागभावाविषयप्रतीतिविषयत्वात् । साधनञ्च न तथा, तस्य प्राग- भावगर्भतया प्रमेयत्वादिनाऽपिग्रहे प्रागभावविषयत्वनियमादिति प्रागभावविषयप्रतीतिविषयप्रति- योगित्वे साध्ये सिद्धसाधनं, कार्य्यस्य घटादेः प्रागभावघटान्‍योन्याभावाविति समूहालम्बनविषया- न्‍योन्याभावप्रतियोगित्वादिति नञ्द्वयम् । प्रागभावतत्प्रतियोगित्वाभ्यां तादृशप्रतीतिविषयाभ्यां सिद्धसाधनवारणार्थं प्रतियोगित्वप्रागभावान्येति तादृशप्रतीत्यविषयविशेषणम् । प्रागभावप्रतियो- गित्वप्रागभावान्येत्यर्थः । कैश्चित्तु सामान्यत्वेन विशेषोऽपि वारित इति यथाश्रुतेऽप्यदोष इत्याहुः । न च कार्यान्‍योन्या- भावमादाय सिद्धसाधनम् । तस्य कार्य्यत्वावच्छिन्नप्रतियोगितया कार्य्यत्वस्य च प्रागभावप्रतियोगि- त्वरूपतया तादृशप्रतीत्यविषयत्वादिति वाच्यम् । अनेन हि रूपेणाभावग्रहे प्रतियोगितावच्छेदकग्रह- ध्रौव्यं, न त्वन्यथापीति प्रकारान्तरेण तद्ग्रहे प्रागभावाविषयप्रतीतिविषयत्वात् । अत एव ध्वंसस्य जन्याभावतया जन्यत्वस्य प्रागभावगर्भतया तत्प्रतियोगित्वेन सिद्धसाधनमपास्तम् । ध्वंसस्य प्रका- रान्तरेण तादृशबुद्धिविषयत्वात् । ध्वंसत्वस्य तादृशप्रतीत्यविषयत्वेऽपि कार्य्यस्य तदप्रतियोगित्वात् । तदिदमुक्तं, प्रागभावत्वाद्यप्रतियोगीति । तथा च बाधान्न ध्वंसत्वप्रागभावत्वादिप्रतियोगित्वेनार्था- न्तरमिति बाधस्फोरणाय पक्षविशेषणमिति मन्तव्यम् । ननु प्रागभावत्वादेरिव प्रागभावप्रतियोगित्वस्यापि न प्रतियोगि कार्यं, किन्त्वाश्रयः । तथाच तमादाय सिद्धसाधनानवकाशात्तदन्यत्वं विशेषणमयुक्तम् । न हि प्रतियोगित्वं सम्बन्धित्वमात्रं वि- वक्षितम् । तथा सति परम्परासम्बन्धेन प्रागभावत्वादेरपि तथात्वात्तदन्यत्वमपि साध्यविशेषणं टिप्पणी । प्रागभावान्यत्वाश्रयत्वादिकमादाय सिद्धसाधनवारणाय तत्तद्भिन्नत्वोपलक्षकमन्यत्वान्तम् । कार्य- त्वावच्छिन्नात्यन्ताभावस्याखण्डस्य प्रमेयत्वतद्घटित्वादिना प्रतीतौ प्रागभावस्याविषयत्वेन तमा- दाय तु न सिद्धसाधनम् । वस्तुतोऽविषयत्वान्तं स्वप्रतियोगिकान्यथासिद्धान्यवृत्तिनियतपूर्ववर्ति-

३८ व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकावतरणिकाव्याख्यायां प्रकाशः । विषयप्रतियोगि, न वा ? यद्वा, कार्य्यप्रतियोगित्वं प्रतियोगित्वप्रागभावान्यप्रागभावाविषयबुद्ध्य- विषयवृत्ति न वा ? द्वयोरपि प्रागभावत्वे प्रसिद्धिः । यद्वा, कार्य्यपूर्ववर्त्तिनि तन्नियतत्वं वर्त्तते न प्रकाशिका । तथापि पूर्ववर्त्तित्वादिकं कारणताघटकमादाय सिद्धसाधनादिति । अत्र तत्तदन्यत्वमपि विशेषण- मिति केचित् । तत्पूर्ववर्त्तित्वमात्रमेवैतद्विप्रतिपत्तिजन्यविचारात्सिध्यति नियतत्वादिकञ्चाग्रिम- विप्रतिपत्तिमूलकविचारादेवेत्यन्ये । वस्तुतो नियतत्वे पूर्ववर्त्तित्वे च विप्रतिपत्तिरेव नास्ति किन्तु नियतपूर्ववर्त्तित्वस्य घटेन समं स्वरूपसम्बन्धविशेषे सा । अत एव स्वरूपसम्बन्धविशेष एव कारणतेति प्रामाणिकाः । तथा च प्रतीत्यविषयपर्यन्तपदेन नियतपूर्ववर्त्तित्वमेवोक्तं प्रतियोगि- त्वञ्च स्वरूपसम्बन्धविशेष एवेति नोक्तदोषावकाशः । न चैवमप्यन्यथासिद्धिविरहासिद्धिः । स्वप्र- तियोगिकान्यथासिद्धिभिन्नवृत्तिनियतपूर्ववर्त्तित्वप्रतियोगित्वस्य विधिकोटित्वात् । स्वं चरमप्रतियो- गिपदार्थः । प्रसिद्धिश्च नियतपूर्ववर्त्तित्वात्यन्ताभाव इति । कार्यप्रतियोगित्वमिति । अत्रापि प्रागभावत्वाद्यवृत्तीति विशेषणं बाधस्फोरणाय । यद्यपि पूर्वविप्रतिपत्तौ कार्यत्वस्य प्रतियोगित्वमभि- मतमत्र तु कारणतायाः, तथापि स्वरूपसम्बन्धविशेष एव प्रतियोगित्वमत्र तच्चोभयनिरूप्यमेवे- त्यविरोध इति भावः । व्याख्या तु पूर्ववदेव । द्वयोरपीति । यद्यपि प्रथमविप्रतिपत्तिविधिकोटे- स्तादृशप्रागभावत्वत्वाश्रयप्रागभावत्वे प्रसिद्धिरिति युक्तं, द्वितीयविधिकोटेस्तु कथं प्रागभावत्वे, तस्य प्रागभावत्वावृत्तित्वात् प्रागभावस्य च प्रागभावान्यत्वाभावात् । तथापि प्रागभावत्व इति सप्तमी न साक्षादधिकरणतायां किन्तु साक्षात्परम्परासाधारणाधिकरणमात्रे तथा च प्रागभावत्वत्वे द्वि- तीयविधिकोटिप्रसिद्धावपि परम्परया प्रागभावत्वस्याधिकरणत्वं सम्भवत्येव । केचित्तु प्रागभावत्व- मकरन्दः । स्यात् । पक्षविशेषणं चासिद्धं स्यात् । तथाच स्वरूपसम्बन्धविशेषो वाच्यः । स च तत्र नास्ति । किञ्च कारणतया समं स्वरूपसम्बन्धविशेषोऽन्यः प्रागभावादिना च समं कार्यस्यान्यः स इति श- ब्दमात्रसाम्यादनुमानप्रवृत्तिः । न च स्वरूपसम्बन्धत्वेनैवानुगम इति वाच्यम् । तस्य परम्परास- म्बन्धसाधारण्येनोक्तदोषानिवृत्तेः । न च तत्र परम्परासम्बन्धस्यैव सत्त्वात् सम्बन्धान्तरमन्तरेणे- त्यादिरूपं तन्न तत्रेति वाच्यम् । तस्य संयोगसमवायौ विनेत्यर्थात् । अन्यथा परम्परासम्बन्धस्य सर्वत्र सत्त्वादसम्भवापत्तेरिति चेन्न । साक्षात् सम्बन्धित्वस्य विवक्षितत्वात् । न च कारणतया समं कार्यकारणद्वारक एव सम्बन्धस्तथा च बाध इति वाच्यम् । घटाभाव इत्यत्रेव घटकारणतेत्य- त्रापि साक्षात्स्वरूपसम्बन्धानुभवात् । एवञ्च यद्यपि कारणताभिन्नं तादृशं प्रागभावगर्भं पूर्ववर्त्ति- त्वादिकं नानाधर्ममादायार्थान्तरं सिद्धसाधनं वा भवेत्येव । तथापि तत्तदन्यत्वेनापि तादृशप्रतीति- विषयो विशेषणीय इति युक्तमुत्पश्यामः । कार्यप्रतियोगित्वमिति । यद्यपि पूर्वेण कार्यस्य संप्रतियोगित्वमभिप्रेतमनेन च कारण- तायाः, तथापि साक्षात्सम्बन्धित्वमेव प्रतियोगित्वमभिप्रेतं तच्चोभयनिरूपितत्वमुभयत्र तुल्यमि- त्यविरोध इति भावः । अत एव प्रगभावादिद्वृत्तित्वेन नार्थान्तरशङ्का, कार्यसाक्षात्सम्बन्धित्वस्य तत्र बाधात् । अन्यच्च पूर्ववत् । द्वयोरपीति । ननु प्रथमविप्रतिपत्तौ प्रागभावत्वमादाय प्रसिद्धि- टिप्पणी । स्वपरमेव । प्रसिद्धिश्च तादृशपूर्ववर्त्तित्वात्यन्ताभावे । एतेन घटस्य कारणत्वमित्यादिप्रतीति- सिद्धस्य प्रतियोगित्वस्य स्वरूपसम्बन्धात्मकस्य प्रागभावादेरभावादन्यत्वान्तं व्यर्थमिति शङ्का परास्ता । द्वयोरपि प्रागभावत्वे प्रसिद्धिरिति । द्वयोर्घटकं यद्विषयत्वान्तं तस्य प्रागभा-

प्रथमस्तबके ] न्यायाङ्गसंशयवीजविप्रतिपत्तिनिरूपणम् । ३६ प्रकाशः । वा ? यद्वा, तज्जातीयोत्पत्तिप्राक्क्षणत्वप्रतियोगिव्यापकतावच्छेदकत्वमत्यन्ताभावप्रतियोगिवृत्ति न वा ? । प्रकाशिका । पदेन प्रागभाववृत्तिधर्म उक्तः, स च प्रागभावत्वं प्रमेयत्वं चेति यथासंख्यं प्रथमद्वितीयविधिकोटि- प्रसिद्धिरिति वदन्ति । यद्वा द्वयोरपि विप्रतिपत्त्योर्विषयपदान्तार्थस्य प्रागभावत्वे प्रसिद्धिरित्यर्थः । तथाच तत्प्रतियोगिनि प्रागभावे तद्वृत्तौ च प्रागभावत्वत्वे प्रसिद्धिरिति भावः । वस्तुतः कार्यपदं तद्विशेषघटादिपरं तथा च विधिकोटिरपि तत्प्रागभावान्यत्वगर्भा एवं च तादृशपटादिप्रागभाव- वृत्तितया प्रागभावत्वे प्रसिद्धिः सुलभवैति दिक् । कार्येति । अनन्यथासिद्धकार्यनियतपूर्ववर्ति- नीत्यर्थः, विशिष्टाप्रसिद्धावपि खण्डशः प्रसिद्धिः सुलभैवेति भावः । एकमेकजातीयं वा कारण- मित्यत्र संशयमाह यद्वेति । तज्जातीयोत्पत्तिप्राक्क्षणत्वं यत्र, तत्र ब्रह्माधिकरणत्वं प्रधानाधिक- रणत्वं वेत्यस्यां व्यापकतायां ब्रह्म प्रधानं वा निरूपकतावच्छेदकं तदुभयञ्च नित्यतया व्यापक- तया च नात्यन्ताभावप्रतियोगीति निषेधकोटिः । परेषां दण्डादीनां कारणतया विशिष्टप्राक्क्षणत्व- व्यापकाधिकरणताप्रतियोगितया विधिकोटिर्नैयायिकानां यद्यपि ब्रह्मणोऽप्यत्यन्ताभावप्रतियोगित्वम्। तथापि कालिकदैशिकविशेषणतासम्बन्धावच्छिन्नत्वमत्यन्ताभावविशेषणमिति । मिश्राणामवतारिका व्याख्या च वस्तुतो भवतु सा कारणता तथापि न सा व्यतिरेकिधर्मवृत्त्तिरिति नाहष्टाधिष्ठातृतया परमेश्वरसिद्धिरिति तस्या व्यतिरेकिवृत्तित्वसाधनाय विप्रतिपत्तिमाह । यद्वेति । यदा तदव्यव- हितप्राक्क्षणत्वं तदा स्वतो व्यापारतो वा दण्ड इति दण्डस्य व्यापकता, तदवच्छेदकं च तदाश्रय- मकरन्दः । सम्भवेऽपि द्वितीयायामसंभवः, न हि प्रागभावत्वस्य प्रागभावत्वे वृत्तिरपि तु प्रागभाव एव स च न प्रागभावान्य इति चेत् । प्रागभावत्वपदेन प्रागभावत्वत्वस्य विवक्षितत्वात् । तस्य च तादृ- शबुद्धयविषये प्रागभावत्वे वृत्तैः । तत्प्रतियोगित्वाच्चेत्येके । प्रागभावत्वपदेन प्रागभावधर्मः प्रमे- यत्वादिविवक्षित इत्यन्ये । यत्तु व्यासज्जयप्रतियोगिकाभावाश्रयणे प्रतियोगिताप्रागभावान्यः केवलः प्रागभावोऽपीति तद्वृत्तित्वेन यथाश्रुतमेव सम्यगिति । तत्तुच्छम् । प्रागभावमादाय सिद्धसाधनस्यैवमपरिहारात् । तथा च तदन्यत्वविशेषणं व्यर्थमापद्येत । वस्तुतस्तु कार्यपदं तद्विशेषपटादिपरम् । तथाच तत्प्रा- गभावतद्प्रागभावप्रतियोगित्वान्यप्रागभावाविषयप्रतीत्यविषयपटादिप्रागभाववृत्तित्वादिना प्रागभा- वत्वे प्रसिद्धिरिति यथाश्रुतमेव सम्यगिति । कार्येति । अनन्यथासिद्धकार्यपूर्ववर्त्तिनीत्यर्थः । विशिष्टस्याप्रसिद्धत्वेऽपि खण्डशः प्रसिद्भे- रिति भावः । एवं ब्रह्मैव कारणमेकजातीयं प्रधानं वेत्यत्र संशयमाह । यद्वेति । तज्जातीयोत्प- त्तिप्राक्क्षणत्वं यन्न, तत्र ब्रह्माधिकरणत्वं प्रधानाधिकरणत्वं वेत्यत्र व्यापकीभूताऽधिकरणत्वेऽव- च्छेदकं विशेषणीभूतं ब्रह्मैव प्रधानं वा नात्यन्ताभावप्रतियोगि व्यापकनित्यत्वादिति निषेधकोटिः परेषां, विधिकोटिरस्माकम्। अत्यन्ताभावप्रतियोगिनो दण्डादेरपि तादृशत्वाभ्युपगमादिति बोध्यम्। यद्यपि व्यापकनित्यत्वेऽप्याकाशवदत्यन्ताभावप्रतियोगित्वं ब्रह्मादेरविरुद्धं, तथापि तद्वद्वृत्तित्वान- भ्युपगमात् प्रत्युत सकलदेशकालवृत्तित्वादित्यवसेयम् । टिप्पणी । वत्वे प्रसिद्धिः, तथा च प्रथमे तादृशप्रागभावत्वमादाय प्रतियोगित्वस्य निरूपकत्वरूपस्याश्रयविधया प्रागेव प्रसिद्धिः । द्वितीये प्रागभावत्वमादाय वृत्तित्वस्य प्रागभावत्वत्वे प्रसिद्धिरिति । यद्वा सप्तम्य-

४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकावतरणिकाव्याख्यायां भावात् । अन्यथापि परलोकसाधनानुष्ठानसम्भवात् । तदभावावेदकप्रमाणस- द्भावात् । सत्त्वेऽपि तस्याप्रमाणत्वात् । तत्साधकप्रमाणाभावाच्चेति । बोधनी । अन्यथासिद्धं वेति न विवक्षितपुरुषसिद्धिरिति मीमांसकादिविप्रतिपत्तिमाह-अन्यथेति । कार्यत्वहे- तुरपीश्वरमन्तरेणास्मदादिभिरेवादृष्टद्वारा परमाण्वादिसाधनानां प्रेरणात्मकानुष्ठानसम्भवात् सिद्धसा- धनमिति भावः । बाधितविषयं प्रमाणद्वयमित्याह-तद्भावेति । ननु सत्यपि वेदकर्त्तरि न तत्प्र- णीतत्वादागमः प्रमाणं, तत्कर्त्तुरप्रमाणत्वात् , यद्ययं प्रमाणं स्यात् तदा प्रमाणस्य प्रमातृत्वनि- यमादीश्वरस्याचैतन्यं स्यादित्यनिष्टप्रसङ्गलक्षणप्रतिकूलतर्कप्रतिहतत्वान्न साधनमुपदेशः कार्यत्वं चेत्याह-सत्त्वेऽपीति । किञ्च, प्रमासाधनस्य प्रमाणत्वान्नित्यप्रमाश्रयस्य तदसम्भवादप्रमा- णत्वम्, किञ्च, अनधिगन्तुः प्रमाणत्वान्नित्यसर्वज्ञस्य च तदसम्भवादप्रमाणत्वम् , किञ्च, ईश्वरज्ञानस्यास्मदादिभ्रमानालम्बने सर्वविषयकत्वाभावः, तदालम्बने च तद्विषयालम्बन- स्यापि नान्तरीयकत्वादस्मदादिविभ्रमवदेवाप्रमाणत्वापात इति तर्काः । अत्र सत्त्वेऽपीति सत्त्वाभ्युपगमो बाधकाभावात् सम्भावनामात्रेण, न वस्तुत इति । अस्त्वनन्यथासिद्धादुपदेशाद् विशिष्ट उपदेष्टा । तथापि कार्यत्वस्य विपक्षे बाधकाभावेन सन्दिग्धविपक्षव्यतिरेकित्वम् , उपा- प्रकाशः । विशिष्टे तु, अलौकिके परलोकसाधनत्वं वर्त्तते न वा ? परलोकसाधनेऽलौकिकत्वं वर्त्तते न वेति विप्रतिपत्तिः । तथाच कार्यकारणभावाभावे क्षित्यादिकर्त्तृत्वान्नेश्वरसिद्धिः । परलोकाभावे च तत्साधनयागादिदृष्टुरभावे तदुपदेशकत्याऽपि नेश्वरसिद्धिः । अदृष्टसिद्धौ तदधिष्ठातृतयापि नेश्वरसिद्धिरिति चार्वाकाभिप्रायः । अन्यथेति । अदृष्टादिसत्त्वेऽपि वेदानामात्रोक्तत्वेन प्रामाण्यावधारणं विना तद्बोधितस्वर्गा- दिसाधनयागादौ बहुवित्तव्ययायाससाध्ये न प्रवृत्तिरित्याप्तो वेदकारः सिद्धयतीति नास्ति, अन्य- थापि वेदानां नित्यनिर्दोषत्वेन स्वतः प्रामाण्यावधारणात् , परतः प्रामाण्येऽपि कर्मयोगसिद्ध- सर्वज्ञपूर्वकत्वात्तेषां परलोकसाधनयागाद्यनुष्ठानसम्भवादित्यर्थः । तदभावेति । भवतु वेदानां पौरुषेयत्वाद् योगसिद्धसर्वज्ञपूर्वकत्वेनाप्याप्तोक्तत्वम् । तथापि तत्र, क्षित्यादेः कर्तृजन्यत्वे च प्रत्यक्षादिबाधान्न तत्सिद्धिरित्यर्थः । सत्त्वेऽपीति । बाधकाभावात्तत्सिद्धावपि स न प्रमाणम् , प्रमाणपदं हि भावकरणकर्त्तृव्युत्पत्त्या प्रमातत् साधनतदाश्रयेषु वर्त्तते, यथार्थानधिगतार्थाधिगतिश्च प्रकाशिका । त्वमेवेति अवतारिका व्याख्या चेति प्रतिभाति । उभयत्र च कल्पेऽनन्यथासिद्धत्वे सतीति विशेषणं बोध्यम् । विशिष्टे त्विति । प्रत्येकसिद्धचनन्तरमेवेयं विप्रतिपत्तिरिति नाप्रसिद्धिरिति भावः। कार्य- कारणभावादौ विप्रतिपत्तिः कथमीश्वरे पर्यवसितेत्यत आह तथा चेति । तत्साधनेति । तत्सा- धनत्वेन यागादिदृष्टुरभाव इत्यर्थः । प्रमाणपदं हीति । तथाचाप्रमाणत्वादिति बहुव्रीहितत्पुरु- षाभ्यां प्रमितिशून्यत्वात् तत्करणशून्यत्वात् तत्समवायिभिन्नत्वाच्चेति पर्यवसितं पूर्वपक्षं पूरयति मकरन्दः । विशिष्टे त्विति : विप्रतिपत्तिरिति शेषः । एवं प्रागपि बोध्यम् । अविशिष्टप्रत्येकप्रसिद्धि- दशायामेवैतदभिमतमिति प्रसिद्धिरिति भावः । तदिति । तत्साधनत्वेन यागादिदृष्टुरभाव इत्यर्थः। प्रमाणपदं हीति । तथाचाप्रमाणत्वादिति मूलोक्तस्य बहुव्रीहितत्पुरुषाभ्यां प्रमितिशून्यत्वात्

प्रथमस्तबके ] कारणत्वव्यवस्थापनम् । ४१ तन्न प्रथमः कल्पः । यतः— सापेक्षत्वादनादित्वाद्वैचित्र्याद्विश्ववृत्तितः । बोधिनी । धिसद्भावेनाप्रयोजकत्वम्, व्याप्तिप्रमाणाभावेन व्याप्त्यसिद्धिरिति जगत्कर्त्तृत्वादिविशिष्टे परमेश्वरे प्रमाणाभावादिति बौद्धमीमांसकचार्वाकाः प्रत्यवतिष्ठन्ते तत्साधकेति । केचित् 'पूर्वमु- पदेशलिङ्गकम्‌अनुमानमेव चिन्तितं न कार्यलिङ्गस्य प्रस्तावः, सम्प्रत्युपदेशे सिद्धेऽपि जगत्कर्त्तरि प्रमाणाभावमेव वदन्तः प्रत्यवतिष्ठन्त' इति व्याचक्षते । अनेन विप्रतिपत्तिप्रदर्शनेन न्यायस्य स- न्दिग्धविषयत्वमपि प्रदर्शितं भवति । तत्र यथामतस्यालौकिकस्य हेतोः साधकानि सङ्कलय्याह—सापेक्षत्वादिति । अत्र तावत् सापेक्षत्वेन, सत्येव हेतौ कार्यं भवति नासतीति सर्वलोकप्रसिद्धं प्रत्यक्षं हेतुमत्त्वे प्रदर्शि- तम्; अनुमानं च—विवादाध्यासितं हेतुमत् सापेक्षत्वात् । सापेक्षत्वं च कादाचित्कत्वात् । प्रकाशः । प्रमा । तथा च यदीश्वरः कर्त्ता स्यात्, प्रमावांस्तत्करणेन्द्रियादिमांस्तत्समवायिकारणञ्च स्यात्, न चायं तथेति विपर्य्ययानुमानादित्यर्थः । अप्रमाणपुरुषस्य वचः कः श्रद्धास्यतीति भावः । तत्साधकेति । कार्यत्वादेरुपाधिदुष्टत्वात् क्षितिवेदादेः कर्त्तृजन्यत्वसाधकमेव नास्तीत्यर्थः । तत्र चार्वाकस्यायं भावः । कार्यकारणभावे प्रत्यक्षं न तावन्मानं, धर्मिस्वरूपप्रत्यक्षेऽपि तत्र संशयात् । नचान्वयव्यतिरेकानुविधानज्ञानसहकारिविरहात् स इति वाच्यम् । तन्मात्रस्य व्यभि- चारिसाधारण्यात् । नियमानन्यथासिद्धयोश्च शङ्काकलङ्कितत्वेनानवधारणात् । नाप्यनुमानं, तस्य मया मानत्वेनानभ्युपगमात् । तत्साधने क्वचिदसिद्धावन्वयिनोऽसम्भवात् । तदसिद्धौ व्यतिरे- काज्ञानात् केवलव्यतिरेक्यनववतारात् । मम त्वप्रमितस्यासत्ख्यात्यभ्युपगमान्न निषेध्याप्रसिद्धिरि- त्यत आह । तत्रेति । तेषु मध्ये न प्रथमः पक्षः कल्पो यतः, कल्पनाऽसत्ख्यातिस्तद्विषयः । प्रकाशिका । तत्रेति । तदिति । तस्य मानत्वसाधनेऽपीत्यर्थः । तदसिद्धाविति । कारणत्वासिद्धावित्यर्थः । प्रत्यक्षेण तद्ग्रहस्य निषिद्धत्वादिति भावः । नन्वेवं निषेधोऽपि कथमत आह । मम त्विति । ननु न प्रथमः कल्पः पक्ष इति सामानाधिकरण्येनान्वये यतो हेतुरस्तीति हेत्वन्वये साध्याविशेषः, हेतोरेव हेत्वभावात्मकप्रथमपक्षाभावत्वात् हेत्वभावो न प्रामाणिको यतो हेतुरस्तीति व्यधिकरण- मतोऽन्यथा व्याचष्टे । कल्पः = कल्पनेति । यद्यपि प्रथमकल्पो न प्रामाणिकोऽसत्ख्यातिविषय- त्वादित्यत्रापि पर्यवसिते साध्यादीनामप्रसिद्धिः । तथापि वचने प्रतिपत्तिकारणत्वज्ञानं प्रामाणिकं तन्निष्टत्वेन व्याहतनिषेधप्रतियोगित्वादित्यत्र तात्पर्य्यम् । अत एवाग्रे कारणत्वाभावे व्याघातमेवाहेति । केचित्तु तन्मतमवलम्ब्यैवेदमुक्तम् । तन्मते चासत्ख्यातिरूपैव साध्यादीनां प्रसिद्धिरित्याहुः । ननु मकरन्दः । तत्करणेन्द्रियादिशून्यत्वात् तत्समवायिभिन्नत्वादित्यत्र तात्पर्य्यम् । तदिति । तस्य साधन- त्वसाधनेऽपीत्यर्थः । तदिति । कारणत्वासिद्धावित्यर्थः । प्रत्यक्षेण तद्ग्रहस्य निषिद्धत्वादिति भावः । न प्रथमः पक्ष इति । न प्रथमः कल्प इति सामानाधिकरण्ये प्रथमकल्पस्य हेत्वभावरूपतया तदभावरूपस्य साध्यस्य हेतुरस्तीति पर्य्यवसाने यतो हेतुरस्तीत्यत्र साध्याविशेषेण हेतुत्वानुपपत्तिः स्यात् । यदि च न प्रथमः कल्प इत्यस्य हेत्वभावकल्पो न प्रामाणिक इत्यर्थः, तथापि यतो हेतुरस्तीति व्यधिकरणम् । तथाच हेत्वभावकल्पो न प्रामाणिकः असत्ख्यातिविषयत्वादित्यत्र नोक्तदोष इति तदर्थपरतया व्याख्यातमिति मन्तव्यम् । यद्यपि पक्षादेरप्रसिद्धौ नोक्तानुमानमपि सम्भवति, त- ६ न्या० कु०

४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकायां

बोधनी । अत्रोभयत्रापि व्यतिरेकेण गगनं दृष्टान्त इति । ननु सापेक्षत्वेऽपि कादाचित्कत्वानुपपत्तिः,-अपे- क्षणीयस्य सदातनत्वेन कार्यस्यापि सदातनत्वप्रसङ्गात् । तथाच निरपेक्षादिव सापेक्षादपि व्यावृत्तेः कादाचित्कत्वहेतुरसाधारणः स्यादित्यत्राह-अनादित्वादिति । न हि कारणस्य सदातनत्वं, तस्याप्यपेक्षणीयान्तरसम्भवात् , न चानवस्था, कार्यकारणप्रवाहस्यानादित्वा- दिति । यद्वा, कारणान्तरानपेक्षत्वेऽपि भावस्योत्तरकोटिना प्रध्वंसमात्रेण कादाचित्कत्वोपपत्तेर्नैदं सापेक्षत्वव्याप्तमित्याशङ्कयाह-अनादित्वादिति । निरपेक्षत्वे कार्यस्यानादित्वप्रसङ्गात् सापेक्ष- परम्पराप्रवाहस्यानादित्वादिति । नन्वेकमेकजातीयं वा किञ्चित् कारणमस्तु, तथा च विवक्षितकारणासिद्धेर्न तदर्थमुपदेशां- पेक्षेति तत्राह—वैचित्र्यादिति । विचित्रकारणाभावे कार्यवैचित्र्यं न स्यात् , अस्ति च तदिति । अस्तु तर्हि दृष्ट एव विचित्रो हेतुर्जगद्वैचित्र्यस्य,तथाच विवक्षितासिद्धिस्तदवस्थेत्यत्राह- विश्ववृत्तित इति । तावन्मात्रहेतुत्वे प्रेक्षावतो विश्वस्य पशुपुत्रार्थं यागादौ प्रवृत्तिर्न स्याद् , दृश्यते चासौ, तस्माद्यागादिरपि कारणमिति । तर्हि यागादिरूपमेव कारणमस्तु, तथापि

प्रकाशः। तथाहि; कार्यकारणभावानभ्युपगमे परप्रतिपत्तिफलकवचनप्रयोगानुपपत्तेः । यथा यथा तन्निरा- करणाय प्रयत्नस्तथा तथा तस्यैवापत्तेरिति व्याघात एवेत्यर्थः । तथापि साधकं विना न तत्सिद्धि- रिति चेत् , तत्राह । सापेक्षत्वादिति । विवादपदस्य सापेक्षत्वात्=सहापेक्षया वर्त्तमानत्वात् कादाचित्कत्वादित्यर्थः । तच्च किञ्चित्कालासंबंधित्वे सति किञ्चित्कालसंबन्धरूपं कार्याणां प्रत्यक्षसिद्धमित्यनन्यथासिद्धमेतत् । एतस्मादनन्तरमिदं भवतीत्यदभावे नेति प्रत्यक्षमेव कार्यकार- णभावे मानम् । अत एव प्रागभावस्य कादाचित्कत्वेऽपि न तत्र तत्सिद्धिः । प्रागसत्त्वस्य विव-

प्रकाशिका। प्रामाणिके कारणत्वे निषेधोऽपि नास्माकमिति कुतो व्याघात इत्यभिप्रेत्याह । तथापीति । सा- पेक्षत्वादित्यस्य सहेतुकत्वादित्यर्थे हेतुरस्तीति साध्यवैयधिकरण्यं सहेतुकत्वे च साध्ये साध्यावि- शेष इत्यत आह । कादाचित्कत्वादित्यर्थ इति । साध्यञ्च सहेतुकत्वमिति भावः । किञ्चि- दिति । कारणत्वाभिमानानन्तरकालासम्वन्धित्वे सति तदभिमातोत्तरकालसम्बन्धित्वमित्यर्थः । ननु- सहेतुकत्वे साध्ये साध्याप्रसिद्धिस्तदवस्थैव निरुक्तकादाचित्कत्वज्ञानसहकृतप्रत्यक्षगम्यत्वेऽपि कारणता याः प्रागभावप्रतियोगिककारणताग्रहप्रसङ्ग इति प्रत्यक्षं विशिनष्टि एतस्मादिति । मानं=करणं न तु मितिः, उक्तप्रत्यक्षस्य कारणत्वाविषयकत्वाद् । विशेषणफलमाह अतएवेति । उक्त प्रत्यक्षस्य तत्रास- म्भवादित्यर्थः । कादाचित्कत्वेऽपि यथाश्रुतकादाचित्कत्वेऽपि । लिङ्गत्वपक्षेऽपि न प्रागभावे व्य- भिचार इत्याशयेनाह प्रागिति । कार्यविशेष्यकं कारणताग्राहकं प्रत्यक्षमुक्त्वा कारणविशेष्यकं तदाह

मकरन्दः । -थापि तन्मतेनैव तत्पक्षाभावसाधनमुपन्यस्तमिति मन्तव्यम् । यद्वा एतदस्वरसादेव व्याघातमा- लम्बते । तथाहीति । यत्तु, यतः सापेक्षत्वादिति पञ्चमीद्वयमसंगलग्नमिति कुसृष्टिव्याख्यानमिति । तन्न । यतो हेतुरस्तीति हेतुहेतुत्वेन सापेक्षत्वादित्यस्य सङ्गतत्वात् । सुहृद्भावेनाह । तथापीति । एताव- न्मात्रं प्रागभावसाधारणमतः प्रत्यक्षं विशिनष्टि । एतस्मादिति । तत्फलमाह । अत एवेति । उक्तप्रत्यक्षस्य तत्रासम्भवादेवेत्यर्थः । प्रत्यक्षपरतायां प्रागभावे कादाचित्कत्वस्य व्यभिचारेऽप्य- दोषः । लिङ्गत्वेनाप्यग्रे तदभिधानात् । तदभिप्रायेणाह । प्रागिति । प्रकारान्तरेण प्रागभावव्या-

प्रथमस्तबके ] कारणत्वव्यवस्थापनम् । ४३ प्रकाशः । क्षितत्वाद्वा। अपि च, इदमस्मान्नियतपूर्वसदित्यपि प्रत्यक्षं तत्र मानम् । प्रत्यक्षे चानन्यथासि- द्धिनियमंशावधारणे हेतुशङ्कानिवर्त्तकतकॊ दर्शयिष्यत इति भावः । यद्वा, प्रत्यक्षसहकारित्वेना- ऽनुमानमेवोपन्यस्तम् । यद्वा, प्रथमतॊऽनुमानप्रामाण्यं प्रसाध्य, कार्यं सहेतुकं कादाचित्कत्वात् यन्नैवं तन्नैवम् , यथाऽऽकाशम् । न च साध्याप्रसिद्धिः । कियद्भागे प्रत्यक्षेणैव तत्सिद्धौ तद- विषयेऽनुमानात् । नचोत्पत्तेः कादाचित्कत्वेऽपि न सहेतुकत्वम्, तथात्वे वोत्पत्तिमत्त्वापत्तावनव- स्थेति वाच्यम् । कार्य्यस्याद्यक्षणेन सह स्वरूपसम्बन्ध एव ह्युत्पत्तिः, कार्य्यक्षणस्वरूपयोश्चोत्प- त्तिमत्त्वेन हेतुमत्त्वात् । यद्वा, उत्पत्तिगर्भः किञ्चित्समयसम्बन्धः कादाचित्कत्वम् । अत एव न प्रागभावे व्यभिचारः । न चोत्पत्तेरुत्पत्तिमत्त्वेन हेतुमत्त्वात् स इति न तया व्यभिचारः । एतेना- नुमानपक्षे, हेतुरस्ति सापेक्षत्वाद्-इत्यत्र हेतोरसिद्धावाश्रयासिद्धिः । सापेक्षत्वस्य कार्य्यधर्मत्वेन हेताववृत्तौ स्वरूपासिद्धिश्च । कार्य्यस्यैव पक्षत्वे, सापेक्षत्वादित्यस्य हेतुमत्त्वादित्यर्थे साध्याविशेषः, कादाचित्कत्वादित्यर्थे च प्रागभावेन व्यभिचार इत्यपास्तम् । प्रकाशिका । अपि चेति। नियतेति। अनन्यथासिद्धेत्यपि विशेषणम् । नन्वेवं कादाचित्कत्वोपन्यासमयुक्तमेवे- त्यत आह । प्रत्यक्षसहकारित्वेनेति । सहकारिता च संवादेन प्रामाण्यग्रहद्वारा वा, अन्यथा प्रत्यक्षत्वानुमितित्वसङ्करापत्तेः । ननु अनुमानसम्भवे किं प्रत्यक्षेण ? वादिनं प्रति तस्याप्यनुमान- च्छाययैव प्रवृत्तेरित्यस्वरसादाह यद्वेति । प्रसाध्येत्यनन्तरमित्थं प्रयोग इति शेषः । अन्वयि- सम्भवेऽपि व्यतिरेकिणः सामर्थ्यमित्यभिप्रेत्याह । यन्नैवमिति । स्वरूपसम्बन्ध एवेति । सूर्य्यस्पन्दात्मककालोपाधिना समं सम्बन्धान्तराभावादिति भावः । ननु यथाश्रुतं कादाचित्कत्वं प्रागभावे व्यभिचारि प्रागसत्त्वविशेषणे च व्यर्थविशेषणतेत्यरुचेराह । यद्वेति । उत्पत्तिगर्भः= उत्पत्तिरूपः । अन्यथा व्यर्थविशेषणत्वादिति । विसर्गशून्यपाठपक्षे तु उत्पत्तिगर्भः=उत्पत्तिघ- टको य आद्यसमयस्तत्सम्बन्ध इत्यर्थः । तथाप्युत्पत्तिमत्त्व एव पर्य्यवसानम् । नचोत्पत्तेरिति । यद्यप्युत्पत्तेः क्षणघटोभयरूपत्वे उभयोः सहेतुकत्वमेवेति साध्यसत्त्वादेव न व्यभिचारः । तथापि मिलितस्योत्पत्तिरूपत्वं न च तत्र सहेतुकत्वमर्थवशसम्पन्नत्वादिति हेत्वसत्त्वमेवोक्तम् । उत्पत्तिरपि स्वरूपसम्बन्धात्मिका यद्यप्युत्पत्तौ, तथापि मिलिते तादृशसम्बन्धोऽपि नास्तीत्यभिप्रायेणेदमु- क्तम् । स्वरूपातिरिक्तसम्बन्धस्यैवोत्पत्तिरूपत्वं स चानवस्थाऽऽत्माश्रयादिदोषभयादुत्पत्तौ ना- मकरन्दः । वृत्तं प्रत्यक्षमाह । अपि चेति । अनन्यथासिद्धनियतपूर्वसदित्यर्थः । नियमानन्यथासिद्धयोरि- त्यत्र समाधिमाह । प्रत्यक्षे चेति । ननु परं प्रति प्रत्यक्षमुपन्यासानर्हमेव, अनुमानच्छाययैव तत्र तस्य गमकत्वाङ्गीकारात् । किञ्च कादाचित्कत्वमुपन्यस्तमलग्नकमेवैवं स्यादित्यत आह । यद्वा प्रत्यक्षेति । नन्वनुमानप्रामाण्ये किं सहकारितया ? स्वतन्त्रस्यैव समर्थत्वात् । अप्रामाण्ये सहकारित्वमपि न स्यात् । किञ्चैवं प्रत्यक्षानुमितित्वयोः सङ्करापत्तिरित्याशयेनाह । यद्वेति । सूर्य्यस्पन्दात्मक- क्षणेन समं घटादेः सम्बन्धाऽन्तराभावादाह । स्वरूपेति । ननु यथाश्रुतं कादाचित्कत्वं प्रागभावे व्यभिचारि, प्रागसत्त्वविशेषितञ्च व्यर्थविशेषणत्वग्रस्तमित्यरुचेराह । यद्वेति । नन्वे- वमुत्पत्तिमात्रमेव हेतुरस्तु, अधिकस्य व्यर्थत्वादिति चेन्न । इष्टत्वात् । उत्पत्तिपदेनोत्पत्तिरूप- त्वस्य विवक्षितत्वात् । तथाचाद्यसमयसम्बन्धस्य हेतुत्वपर्य्यवसानम् । यद्वा, उत्पत्तिगर्भ उत्पत्ति- घटकः किञ्चित्समय आद्यसमयस्तत्सम्बन्ध इत्यर्थः । तत्रैव पर्य्यवसानं विसर्गशून्यपाठादित्याहुः ।

४४ व्याख्यातत्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकायां प्रत्यात्मनियमाद् भुक्तेरस्ति हेतुरलौकिकः ॥ ४ ॥ बोधनी । विवक्षितासिद्धिरित्यत्राह-प्रत्यात्मेति । यागादिस्वरूपस्यैव हेतुत्वे तस्य क्षणिकत्वात् कालान्तरभा- विनः फलस्य भुक्तिर्न स्यात्, तस्मात् तेनान्तरा किञ्चिदपूर्वमनेन जनयितव्यम्, तच्च प्रत्या- प्रकाशः । ननु हेतुरपि यदि सदातनस्तदा तत्सापेक्षस्य कार्य्यस्यापि तथात्वापत्तिरिति कादाचित्कत्व- महेतोर्विवाकाशादेः सहेतोरपि सपक्षात् व्यावृत्तमित्यसाधारणं स्यादिति हेतुः कादाचित्को वाच्यः, तथा च तस्यापि कादाचित्कत्वं हेत्वपेक्ष्येत्यनवस्थापत्तिः । अहेतुकत्वे च तद्गदेव कार्य्यमप्यहेतुकं कादाचित्कं स्यादित्यत आह । अनादित्वादिति । हेतोरपि कादाचित्कत्वं स्वहेतुकादाचित्कत्वा- देव, प्रामाणिकी चेयमनवस्था बीजाङ्कुरवन्न दोषायेत्यर्थः । ननु कारणमात्रसिद्धावप्येकमेकजातीयं वा कारणमस्तु कार्य्यजातस्य, तच्चास्मदादिनैव शक्यज्ञानमिति न तदर्थमुपदेशो, न वा विलक्षणसामग्रीजन्यं कार्य्यं सिद्ध्यतीत्यत आह । वैचि- त्र्यात् । भिन्नजातीयकारणान्तरे तथाभूतकार्य्यविषयकं प्रत्यक्षमेव विचित्रे साधने मानमुपन्य- स्तम् । यद्वा, वैचित्र्यं कार्य्यस्य विचित्रहेतुकत्वे लिङ्गमेव । उभयत्राप्यभिन्नत्वाभिन्नजातीयत्व- योर्हेतोः कार्य्यस्य भेदविजातीयत्वे आकस्मिके स्यातामिति तर्कः सहकारीत्यर्थः । तथापि दृश्यमानविचित्रहेतुकमेव कार्य्यमस्त्विति नादृष्टसिद्धिरित्यत आह । विश्ववृत्तितः । विश्वेषां प्रेक्षावतां वृत्तिः—परलोकार्थितया यागादौ प्रवृत्तिः प्रेक्षावत्प्रवृत्तित्वेन सफला, फल- साधनत्वञ्च यागादेराशुविनाशित्वेन न स्यादिति तज्जन्यफलानुकूलमदृष्टं कल्प्यत इत्यर्थः । तथापि तददृष्टं भोग्यनिष्ठमुत भोक्तृनिष्ठम् ? अन्त्येऽपि किं प्रतिभोक्तृनियतं, साधारणं वा ? इत्यत आह । प्रत्यात्मेति । भुक्तेः=सुखदुःखसाक्षात्कारस्य प्रत्येकात्मनियतत्वाल्लाघवाच्च प्रकाशिका । स्तर्त्यभिप्रायेणेदमिति कश्चित् । वस्तुतः सहेतुकत्वमुत्पत्तिमत्वं च द्वयमप्युत्पत्तौ विशिष्टस्या- प्यनतिरेकात् तथा च न तत्र व्यभिचारः । कादाचित्कत्वं तु प्रागभावे व्यभिचारादेव त्यक्तम् । न चोत्पत्तेरित्यादिर्न तया व्यभिचार इत्यन्तश्च ग्रन्थ एकदेशिमतेन एकदेशिनश्चाभि- प्रायो वर्णित एवेत्यवधेयम्। असाधारणमिति अगमकमित्यर्थः । अहेतुकत्वे च सदातनहेतु- कत्वे च कादाचित्कत्वानुपपत्तेरिति भावः । शक्यज्ञानमिति । अल्पतयाऽनुमानावतारसम्भ- वादिति पूर्वपक्षिणो हृदयम् । ननूपादानगोचरं प्रत्यक्षं कार्यजनकमिति नास्मदादिना ब्रह्म प्रधानं वा साक्षात्कर्तुं शक्यमित्यरुचेराह । न वेति । तथा च नादृष्टसिद्धिरिति भावः । अभिन्नेति । हेतोरभिन्नत्वेऽभिन्नजातीयत्वे चेत्यर्थः । अभिन्नाभिन्नजातीययोर्हेत्वोरिति क्वचित् पाठः । तत्रापि फलतोऽयमेवार्थः । अभिन्नत्वाभिन्नजातीयत्वयोर्हेत्वोरिति क्वचित्पाठः । तत्रा- भिन्नहेतुकत्वाभिन्नजातीयहेतुकत्वयोरापादकयोः सतोरित्यर्थः । ननु दृष्टरूपकारणसाधारण्ये- ऽपि कारणान्तरवैचित्र्यादेव भोगासाधारण्यमत आह । लाघवाच्चेति । 'सामानाधिकरण्यला- मकरन्दः । यद्यप्यत्रापि स्वरूपस्यैव तत्सम्बन्धत्वेत त्र पूर्ववदुत्पत्तिमत्त्वेन चोत्पत्तेरित्यग्रिमग्रन्थविरोधः, तथापि स्वरूपातिरिक्तसम्बन्धस्योत्पत्तिरूपत्वं, तत्र चात्माश्रयादनवस्थानाच्च नोत्पत्तिमत्त्वमिति मताभ्युपगमानुसारेणेदम् । असाधारणं स्यादिति । अगमकं स्यादित्यर्थः । ननु तद् ब्रह्माऽऽत्मकं प्रधानात्मकं वाऽती- न्द्रियं, नास्मदादीनां शक्यज्ञानमिति यदि ब्रूयातदा दोषान्तरमाह । न वेति । अभिन्नत्वेति ।

प्रथमस्तवके ] कारणत्वव्यवस्थापनम् । ४५ न ह्ययं संसारोऽनेकविधदुःखमयो निरपेक्षो भवितुमर्हति, तदा हि स्या- देव न स्यादेव वा, न तु कदाचित् स्यात् ॥ ४ ॥ बोधनी । त्मसमवेतं, भोगं प्रति नियमदर्शनात् । तथा च तस्यास्मदादिभिरशक्यज्ञानत्वात् तदुपदेष्टा तदधिष्ठाता जगत्कर्त्ता चेश्वरः सिध्यतीति प्रथमपरिच्छेदार्थसंग्रहश्लोकतात्पर्यार्थः ॥ ४ ॥ तत्र तावत् सापेक्षत्वादित्येतदुपपादयन् विवृणोति—न ह्ययमिति । संसारः=कार्यवर्गः । नैकविधः सर्वकालं नैकरूपः, कादाचित्क इति यावत् । अनेकविध इति पाठे वक्ष्यमाणहेतु- वैचित्र्योपयुक्ततया कार्यवैचित्र्यमुक्तम् । दुःखमयत्वं स्वतन्त्रप्रसिद्ध्या सर्वस्यापि दुःखत्वभावना- र्थमुक्तं, न तु साधनोपयोगितया । यद्वा, दुःखमयत्वात् तथापि हेयं हानं हेतुनिवृत्त्या । तथाच प्रकाशः । तदुपपादकं प्रतिभोक्तृनियतमेवादृष्टं कल्प्यत इति, अस्ति हेतुरलौकिक इत्याद्यस्तवकार्थसंग्रहः ॥४॥ यथोक्तप्रत्यक्षानुमानयोरन्यथासिद्धिनिरासाय तर्कमाह । न ह्ययमिति । अनेकविधेति मुमुक्षुवैराग्यार्थं कार्यवैचित्र्यस्फोरणार्थं वा । तच्च विचित्रादृष्टसाधनोपयुक्तम् । निरपेक्षत्वञ्च कि- ञ्चित्पदार्थावधिकोत्तरत्वान्याप्यकालसम्बन्धित्वम् । न च प्रतियोग्यप्रसिद्धिः । तस्यासत्ख्यातिवा दिनः सांव्यवहारिकस्य सापेक्षत्वस्यापि स्वीकारात् । ननु, निरपेक्षत्वेनैकेन व्याप्येन स्यादेव, न स्यादेवेति द्विरूपं व्यापकद्वयं विरुद्धं कथमापाद्यते? न ह्येकं मिथोविरुद्धद्वयव्याप्यम् । तुशब्दश्चासङ्गतः, कादाचित्कत्वाभावस्य स्वतन्त्रस्यैवानि- ष्टापादनार्थत्वात् । अत्राहुः । निरपेक्षत्वेन कादाचित्कत्वव्यतिरेक एवाऽऽपाद्यः । स च स्यादेव, न स्यादेवेति पक्षद्वये पर्यवस्यति, अत एव तुशब्दोऽपि सङ्गच्छते । यद्वा, कार्यं यदि निरपेक्षं प्रकाशिका । घवादित्यर्थः । वस्तुतः कृतहानाकृताभ्यागमदोषप्रसङ्गादेवाद्दष्टस्य प्रत्यात्मनियतत्वमिति ॥ ४ ॥ किञ्चिदिति । अनन्यथासिद्धकिञ्चिदित्यर्थः । असमानाधिकरणेति कृतेऽसम्भव इत्यत उक्तम- व्याप्येति । अत्र च स्वपूर्ववर्तित्वमप्यवधौ विशेषणम् , अन्यथा परमाण्ववधिकोत्तरत्वव्याप्य- कालसम्बन्धसत्वादाकाशे निरपेक्षत्वाभावापत्तेः । न चेति । तथा चापादकाप्रसिद्धिः परमते पराभ्यु- पगतस्यैव चापादकत्वात् स्वमते प्रत्यक्षेणैव प्रसिद्धिरिति परमते तामाह । तस्येति । तुशब्द इति परस्पराङ्गाङ्गिभावापन्नतवस्य तुशब्दवाच्यत्वात् प्रकृते च कादाचित्कत्वाभावस्य स्वतन्त्रस्यैवापादना- दिति भावः । अत एवेति । पर्यवसितेऽङ्गाङ्गिभावसत्त्वादिति भावः । ननु नित्यत्वालीकत्वान्यतर- मकरन्दः । हेतोर्भिन्नत्वेऽभिन्नजातीयत्वे चेत्यर्थः । हेत्वोरिति पाठेऽप्यर्थः स एवेति ॥ ४ ॥ किञ्चिदिति । अनन्यथासिद्धकिञ्चित्पदार्थावधिकोत्तरत्वव्याप्यकालसम्बन्धित्वाभाव इत्यर्थः । न चेति । परसिद्धमापादकं भवति, न च कारणत्वपर्यवसन्नप्रतियोगिनस्तन्मते प्रसिद्धिरित्यर्थः । स्व मतेप्रत्यक्षेणैव तत्प्रसिद्धेरूक्तत्वादिति भावः । अत एव तन्मतेनैवोत्तरमाह । तस्येति । तुशब्द इ- ति । परस्पराङ्गाङ्गिभावस्य तुशब्दार्थत्वादिति भावः । पक्षद्वय इति । नित्यत्वालीकत्वान्यतरपक्ष इत्यर्थः । टिप्पणी । धर्म इत्यर्थः । द्वितीये प्रमेयत्वे, प्रथमे प्रागभावत्वत्वे प्रसिद्धिरिति केचित् ॥ ४ ॥ किञ्चित्पदार्थावधिकोत्तरत्वाव्याप्येति । असमानाधिकरणेत्युक्तौ आकाशादिनिष्ठकि- ञ्चित्कालसम्बन्धित्वस्यापि तादृशोत्तरत्वसमानाधिकरणत्वादप्रसिद्धिः स्यादिति तादृशव्याप्यत्वपर्य- न्तानुधावनम् । न चाकाशादिनिष्ठकालसम्बन्धित्वस्य परमाणूत्तरत्वव्याप्यतयाऽप्रसिद्धितादवस्थ्य- मिति वाच्यम् । किञ्चित्पदार्थरूपवाधौ किञ्चित्काला सम्बन्धित्वस्य विशेषणीयत्वात् । स्वतन्त्रस्यै- चानिष्ठापादनत्वादिति ।

४६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकाव्याख्यायां बोधनी। हेतुमत्त्वमवश्याश्रयणीयमिति प्रदर्शनार्थम्। अत्र कादाचित्कत्वेन सापेक्षत्वं साधितमिति। तदाह कीर्त्तिः— नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्। अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः॥ इति॥ ४॥ प्रकाशः। स्यात्, स्यादेव नित्यं स्यादाकाशवदिति स्वमते। तन्मते तु न स्यादेव केवलान्वय्यत्यन्ता- भावप्रतियोगि स्यात् खपुष्पवत्। उभयत्र तु कादाचित्कत्वं न स्यादिति। यद्वा, एतदुत्त- रकालानुत्पत्तिकोऽयं घटो यद्येतदुत्तरकालानुत्पत्तिकत्वे सत्येतत्पूर्वकालोत्पत्तिकानपेक्षोत्पत्तिकः स्या- प्रकाशिका। पर्यवसानमयुक्तम्। अलीकत्वस्य मन्मतेऽप्रसिद्धेरित्यरुचेराह। यद्वेति। केवलेति। सकलदेशका- लव्यापकेत्यर्थः। तन्मते सांख्यादीनां प्रसिद्धिरसत्ख्यातिरूपैवेति भावः। उभयत्रेति। अत्र च प्रत्येकमापाद्यत्वं तुशब्देन व्यवच्छेद्यमिति भावः। एतदुत्तरेति। उत्तरकालोत्पत्तिके मा भूदा- पादकासिद्धिरिति प्रथमं पक्षविशेषणम्। पूर्वकालीनपक्षत्वे मा भूदिष्टापत्तिरिति अयमिति पक्षविशे- षणं पूर्वकालावृत्तीत्यर्थः। घटसमानकालोत्पत्तिकसर्वपक्षत्वे आपादके व्यर्थविशेष्यता स्यात् पक्षी- यव्यभिचारस्यादोषत्वादिति विशिष्य पक्षयति घट इति। उत्तरकालोत्पत्तिके व्यभिचारवारणाय सत्यन्तम्। पक्षीकृतघटसमानकालोत्पत्तिके व्यभिचार इत्येतत्पूर्वकालेत्यादि। एतदव्यवहि- तपूर्वकालेत्यर्थः। तेन चिरतरपूर्वकालोत्पत्तिको दृष्टान्तः, यथाश्रुतस्याप्रसिद्ध्या दृष्टान्तासिद्धेरि- त्यवधेयम्। चिरतरपूर्वोत्पन्नस्यापि कालाद्यपेक्षतया एतत्पूर्वकालीनानपेक्षोत्पत्तिकत्वं नास्तीति पुन- रप्यप्रसिद्धिरिति प्रथमोत्पत्तिपदम्। आपाद्ये च वृत्तिः संयोगरूपा उत्पत्तिरूपा वा विवक्षितेति कालादौ व्यभिचारवारणाय द्वितीयोत्पत्तिपदम्। न च संयोगरूपा चेद्वृत्तिरापाद्येऽभिमता तदा पूर्वोत्पन्नगु- णादौ व्यभिचार इति वाच्यम्। तत्पक्षे द्रव्यत्वस्याऽऽपादकविशेषणत्वात्। वस्तुतो नापेक्षा उत्पत्ति- र्यस्येत्यर्थे यथोक्तविशेषणविशेष्यभावे न वैयर्थ्यम् यथाश्रुतेऽपीति। मिश्रास्तु नञ्द्व्यत्यासेन पूर्वकालो- त्पत्तिकसापेक्षोत्पत्तिकान्यत्वमुत्तरदलार्थ इति दृष्टान्तलाभाय नाऽव्यवहितत्वविशेषणापेक्षाऽऽपादके एवं सति गगनादेरेव दृष्टान्तत्वात्, न वा व्यर्थविशेषणता, विशिष्टाभावत्वादित्याहुः। मकरन्दः। नन्वस्मन्मते नित्यत्वपक्ष एव पर्यवस्यति, न त्वलीकत्वमसत्ख्यात्यनभ्युपगमे संव्यवहा- रिकस्यापि तस्य तत्रानभ्युपगमादित्यरुचेराह। यद्वेति। एतदुत्तरकालेति। एतत्तु पक्षविशेष- णमुत्तरकालोत्पत्तिकघटांशे आपादकासिद्धिवारणाय। पूर्वकालीनघटेऽंशतः सिद्धसाधनवारणायाय- मिति। पूर्वकालावृत्तिरित्यर्थः। एतत्कालवृत्तिसर्वपक्षत्वे आपादके व्यर्थविशेष्यता स्यात्, पक्षीय- व्यभिचारवारणायोगादतो विशिष्य पक्षयति। घट इति। उत्तरकालोत्पत्तिके व्यभिचारादाह सत्यन्तम्। तद्घटसमसमयोत्पत्तिकपटादौ व्यभिचारादाह। एतत्पूर्वकालेति। अव्यवहित- पूर्वकालेत्यर्थः। तथा च चिरतरपूर्वकालोत्पन्नो दृष्टान्तः। अन्यथा यथाश्रुतस्याप्रसिद्ध्या तदसि- द्धिरित्यवधेयम्। तेनापि तादृशकालाद्यपेक्षणात् दृष्टान्तासिद्धिरेवेत्यत आह प्रथममुत्पत्तिपदम्। चरममुत्पत्तिपदं चिन्त्यम्। केचित्तु वृत्तिपदेन संयोगस्य, कालस्य कालावृत्तित्वात् तत्र व्यभिचारवारणाय तदुपादानम्। न चैवं प्रागुत्पन्नगुणादौ व्यभिचारः। आपादके द्रव्यत्वस्यापि विवक्षितत्वादित्याहुः। वस्तुतस्तु नञ्द्व्यत्यासेन एतत्पूर्वकालोत्पत्तिकसापेक्षोत्पत्तिकत्वाभावो विवक्षितः। तथाच नाव्यवहितत्ववि- वक्षा, न वा अखण्डाभावे वैयर्थ्यशङ्का, न वा नित्यस्य दृष्टान्तत्वे तदसिद्धिरिति।

प्रथमस्तवके ] कारणत्वव्यवस्थापनम् । ४७ प्रकाशः ।

  • देतत्पूर्वकालवृत्तिः स्यात् । यद्वा, यद्ययमेतत्कालीनोत्पत्तिको घटः सहेतुको न स्यादेतत्पूर्वकालीनः स्यात् । यद्वा, घटो यदि घटव्यवहितकालानधिकरणपदार्थाधिकरणक्षणोत्तरत्वव्याप्योत्पत्तिर्न- स्याद् , घटव्यवहितकालः स्यात् तत्कालवृत्तिघटादिवदिति तत्र तत्र सत्त्वापादनं स्यादेवेत्य- स्यर्थः । अन्यकालानुत्पत्तिकोऽयं घटो यद्येतत्पूर्वकालानपेक्षोत्पत्तिकः स्यादेतत्कालोत्पत्तिको न प्रकाशिका । यद्ययमिति पूर्वकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् । पक्षविशेषणसिद्धयेऽयमिति प्रत्यक्ष- विषय इत्यर्थः । घटो यदीति । घटव्यवहितकालोऽनधिकरणं यस्य पदार्थस्य तदधिकरणं यः क्षणः तन्निरूपितोत्तरत्वव्याप्योत्पत्तिर्नो न स्यादित्यापादकार्थः । घटानधिकरणकालवृत्तिः स्यादित्यापाद्यार्थः । अत्र च घटान्यवहितकालाधिकरणेत्येतावति कृते आकाशाधिकरणत्वमादायापादकासिद्धिरिति घटव्य- वहितकालानधिकरणत्वं पदार्थविशेषणम् , आकाशादे श्चव्यवहितकालवृत्तितया न तमादायापादकासि- द्धिः। न चान्यव्यवहितोत्पन्नरासभाद्युत्तरोत्पन्नघटे रासभादिकमादायापादकासिद्धिर्भयेनानन्यथासिद्धेः प- दार्थविशेषणत्वावश्यकत्वे तयैवाकाशादिवारणात्कथं तमादायापादकासिद्धिप्रसङ्ग इति वाच्यम्। तादृशरा- सभादिवारक्यान्यथासिद्धिविरहस्य विशेषणत्वेऽपि आकाशजनकजनकदण्डत्वादिवारकाणामन्यथासिद्धि विरहाणामप्रवेशात् । आपादके घटव्यवहितपूर्वकालत्वञ्च घटाधिकरणक्षणव्यवहितक्षणत्वं न तु घटा नधिकरणक्षणत्वं विपर्यये कारणत्वासिद्धिप्रसङ्गात् । आपादने घटसमानकालवृत्तियते व्यभिचाराच्च । विपर्यये कारणत्वासिद्धिप्रसङ्गादेव च व्याप्यत्वपर्यन्तम् । अन्यथा घटत्वावच्छिन्नोत्पत्तेरपि तत्का- लोत्पन्नरासभाधिकरणक्षणोत्तरत्वसामानाधिकरण्यात् कारणत्वासिद्धिप्रसङ्गात् । न चानन्यथासिद्ध- पदेनैव तद्वारणं, घटत्वावच्छिन्नं प्रति रासभस्यान्यथासिद्धत्वादन्यथा कारणतालक्षणे नियमप्रवेशा- वैयर्थ्यात् । प्रतियोगी च परस्यासत्ख्यात्युपनीत इति ध्येयम् । तत्कालेति । घटव्यवहितकाले- त्यर्थः । तत्रतत्रेति पूर्वकालादावित्यर्थः । एवं च सत्त्वापादनं स्यादेवेत्यस्य, असत्त्वापादनं न स्यादेवेत्यस्यार्थ इति विभाग इति भावः । अन्यकालेति । अन्यकालोत्पत्तिक इष्टापत्तिवारणाय पक्षविशेषणम् । तथाप्यनुत्पन्नस्यापि पक्षत्वेऽसत इष्टापत्तिरिति तद्वारणाय घट इति पक्षविशेषणम् । अयमिति प्रत्यक्षोपन्यासः । पूर्ववद् दृष्टान्तश्च अन्यकालोकात्पत्तिकः । आपादके चोत्पत्तिपदमखण्डाभा- वतया यथोक्तविशेषणविशेष्यभावेऽव्यर्थतया वा समाधेयम् । आपादके च पूर्वकालपदमव्यवहितपूर्व- कालपरं कारणताशरीरसिद्धये तथा च व्यवहितपूर्वकालोत्पन्ने तत्कालविद्यमाने व्यभिचार इत्यापाद्य उत्पत्तिपदम् । वस्तुतः पक्षविशेषणमहिम्नेत्यस्य उभयापादनान्वयितया यथाश्रुतापाद्यस्य च नित्य- मकरन्दः । यद्ययमिति पूर्वकालोत्पत्तिक इष्टापत्तिवारणाय पक्षविशेषणम् । घटोयदीति । घटव्यवहितकालाऽ नधिकरणत्वं घटान्यवहितकालाधिकरणत्वं पर्य्यवस्यति । यत्तु आकाशादेरपि तथात्वे तदादायापादका- सिद्धिः स्यादिति घटव्यवहितकालानधिकरणत्वं यथाश्रुतमेवाभिमतमिति । तन्न । अनन्यथासिद्ध- त्वस्य पदार्थविशेषणस्यावश्यकत्वात् । अन्यथा दण्डरूपादिकमादाय दोषतादवस्थ्यापत्तेः तस्मा- दुभयथाऽप्यदोष इति । रासभाद्युत्तरत्वसामानाधिकरण्याद्विपर्ययानुमाने कारणत्वं न सिद्धयेदिति व्याप्यत्वपर्य्यन्तम् । न चानन्यथासिद्धत्वेनैव तद्वारणमिति वाच्यम् । रासभादेरपि तथात्वात् । अन्यथा कारणतालक्षणे नियमांशोपादानमनर्थकं स्यात् । तत्र च तस्याविवक्षितत्वे प्रकृतेऽपि तथाऽस्त्विति । प्रतियोगी चासत्ख्यात्युपनीत इति स्मर्त्तव्यम् । घटव्यवहितकालत्वं घटानधिक- रणकालवृत्तित्वमापाद्यम् । अन्यति । अन्यकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् । उत्त-

४६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [४ कारिकाव्याख्यायां बोधनी। हेतुमत्त्वमवश्याश्रयणीयमिति प्रदर्शनार्थम्। अत्र कादाचित्कत्वेन सापेक्षत्वं साधितमिति। तदाह कीर्तिः— नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्। अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः॥ इति॥ ४॥ प्रकाशः। स्यात्, स्यादेव नित्यं स्यादाकाशवदिति स्वमते। तन्मते तु न स्यादेव केवलान्वय्यत्यन्ता- भावप्रतियोगि स्यात् खपुष्पवत्। उभयत्र तु कादाचित्कत्वं न स्यादिति। यद्वा, एतदुत्त- रकालानुत्पत्तिकोऽयं घटो यद्येतदुत्तरकालानुत्पत्तिकत्वे सत्येतत्पूर्वकालोत्पत्तिकानपेक्षोत्पत्तिकः स्या- प्रकाशिका। पर्यवसानमयुक्तम्। अलीकत्वस्य मन्मतेऽप्रसिद्धेरित्यरुचेराह। यद्वेति। केवलेति। सकलदेशका- लव्यापकेत्यर्थः। तन्मते सांख्यादीनां प्रसिद्धिरसत्ख्यातिरूपैवेति भावः। उभयत्रेति। अत्र च प्रत्येकमापाद्यत्वं तुशब्देन व्यवच्छेद्यमिति भावः। एतदुत्तरेति। उत्तरकालोत्पत्तिके मा भूदा- पादकासिद्धिरिति प्रथमं पक्षविशेषणम्। पूर्वकालीनपक्षत्वे मा भूदिष्टापत्तिरिति अयमिति पक्षविशे- षणं पूर्वकालावृत्तित्यर्थः। घटसमानकालोत्पत्तिकसर्वपक्षत्वे आपादके व्यर्थविशेष्यता स्यात् पक्षी- यव्यभिचारस्यादोषत्वादिति विशिष्य पक्षयति घट इति। उत्तरकालोत्पत्तिके व्यभिचारवारणाय सत्यन्तम्। पक्षीकृतघटसमानकालोत्पत्तिके व्यभिचार इत्येतत्पूर्वकालेत्यादि। एतदव्यवहि- तपूर्वकालेत्यर्थः। तेन चिरतरपूर्वकालोत्पत्तिको दृष्टान्तः, यथाश्रुतस्याप्रसिद्ध्या दृष्टान्तासिद्धेरि- त्यवधेयम्। चिरतरपूर्वोत्तन्नस्यापि कालाद्यपेक्षतया एतत्पूर्वकालीनानपेक्षोत्पत्तिकत्वं नास्तीति पुन- रप्यप्रसिद्धिरिति प्रथमोत्पत्तिपदम्। आपाद्ये च वृत्तिः संयोगरूपा उत्पत्तिरूपा वा विवक्षितेति कालादौ व्यभिचारवारणाय द्वितीयोत्पत्तिपदम्। न च संयोगरूपा चेद्वृत्तिरापाद्येऽभिमता तदा पूर्वोत्पन्नगु- णादौ व्यभिचार इति वाच्यम्। तत्पक्षे द्रव्यत्वस्याऽऽपादकविशेषणत्वात्। वस्तुतो नापेक्षा उत्पत्ति- र्यस्येत्यर्थे यथोक्तविशेषणविशेष्यभावे न वैयर्थ्यम् यथाश्रुतेऽपीति। मिश्रास्तु नञ्व्यत्यासेन पूर्वकालो- त्पत्तिकसापेक्षोत्पत्तिकान्यत्वमुत्तरदलार्थ इति दृष्टान्तलाभाय नावव्यवहितत्वविशेषणापेक्षाऽऽपादके एवं सति गगनादेरेव दृष्टान्तत्वात्, न वा व्यर्थविशेषणता, विशिष्टाभावत्वादित्याहुः। मकरन्दः। नन्वस्मन्मते नित्यत्वपक्ष एव पर्यवस्यति, न त्वलीकत्वमसत्ख्यात्यनभ्युपगमे सांव्यवहा- रिकस्यापि तस्य तत्रानभ्युपगमादित्यरुचेराह। यद्वेति। एतदुत्तरकालेति। एतत्तु पक्षविशेष णमुत्तरकालोत्पत्तिकघटांशे आपादकासिद्धिवारणाय। पूर्वकालीनघटैऽशतः सिद्धसाधनवारणायाय- मिति। पूर्वकालावृत्तिरित्यर्थः। एतत्कालवृत्तिसर्वपक्षत्वे आपादके व्यर्थविशेष्यता स्यात्, पक्षीय- व्यभिचारवारणायोगादतो विशिष्य पक्षयति। घट इति। उत्तरकालोत्पत्तिके व्यभिचारादाह सत्यन्तम्। तद्घटसमसमयोत्पत्तिकपटादौ व्यभिचारादाह। एतत्पूर्वकालेति। अव्यवहित- पूर्वकालेत्यर्थः। तथा च चिरतरपूर्वकालोत्पन्नो दृष्टान्तः। अन्यथा यथाश्रुतस्याप्रसिद्ध्या तदसि- द्धिरित्यवधेयम्। तेनापि तादृशकालाद्यपेक्षणात् दृष्टान्तासिद्धिरेवेत्यत आह प्रथमुत्पत्तिपदम्। चरममुत्पत्तिपदं चिन्त्यम्। केचित्तु वृत्तिपदेन संयोगस्य, कालस्य कालावृत्तित्वात् तत्र व्यभिचारवारणाय तदुपादानम्। न चैवं प्रागुत्पन्नगुणादौ व्यभिचारः। आपादके द्रव्यत्वस्यापि विवक्षितत्वादित्याहुः। वस्तुतस्तु नञ्व्यत्यासेन एतत्पूर्वकालोत्पत्तिकसापेक्षोत्पत्तिकत्वाभावो विवक्षितः। तथाच नान्यवहितत्ववि- वक्षा, न वा अखण्डाभावे वैयर्थ्यशङ्का, न वा नित्यस्य दृष्टान्तत्वे तदसिद्धिरिति।

प्रथमस्तवके ] कारणत्वव्यवस्थापनम् । ४७ प्रकाशः । देतत्पूर्वकालवृत्तिः स्यात् । यद्वा, यद्ययमेतत्कालीनोत्पत्तिको घटः सहेतुको न स्यादेतत्पूर्वकालीनः स्यात् । यद्वा, घटो यदि घटव्यवहितकालानधिकरणपदार्थाधिकरणक्षणोत्तरत्वव्याप्योत्पत्तिर्न- स्याद्, घटव्यवहितकालः स्यात् तत्कालवृत्तिघटादिवदिति तत्र तत्र सत्त्वापादनं स्यादेवेत्य- स्यार्थः । अन्यकालानुत्पत्तिकोऽयं घटो यद्येतत्पूर्वकालानपेक्षोत्पत्तिकः स्यादेतत्कालोत्पत्तिको न प्रकाशिका । यद्ययमिति पूर्वकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् । पक्षविशेषणसिद्धयेऽयमिति प्रत्यक्ष- विषय इत्यर्थः। घटो यदिीति । घटव्यवहितकालोऽनधिकरणं यस्य पदार्थस्य तदधिकरणं यः क्षणः तन्निरूपितोत्तरत्वव्याप्योत्पत्तिर्नो स्यादित्यापादकार्थः। घटानधिकरणकालवृत्तिः स्यादित्यापाद्यार्थः । अत्र च घटाव्यवहितकालानधिकरणेत्येतावति कृते आकाशाधिकरणत्वमादायापादकासिद्धिरिति घटव्य- वहितकालानधिकरणत्वं पदार्थविशेषणम्, आकाशादे श्चव्यवहितकालवृत्तितया न तमादायापादकासि- द्धिः। नचाव्यवहितोत्पन्नरासभाद्युत्तरोत्पन्नघटे रासभादिकमादायापादकासिद्धिभयेनानन्यथासिद्धेःप- दार्थविशेषणत्वावश्यकत्वे तयैवाकाशादिवारणात्कथं तमादायापादकासिद्धिप्रसङ्ग इति वाच्यम्। तादृशरा- सभादिवारकान्यथासिद्धिविरहस्य विशेषणत्वेऽपि आकाशजनकजनकदण्डत्वादिवारकाणामन्यथासिद्धि विरहाणामप्रवेशात् । आपादके घटव्यवहितपूर्वकालत्वञ्च घटाधिकरणक्षणव्यवहितक्षणत्वं न तु घटा नधिकरणक्षणत्वं विपर्यये कारणत्वासिद्धिप्रसङ्गात् । आपादने घटसमानकालत्वनियते व्यभिचाराच्च । विपर्यये कारणत्वासिद्धिप्रसङ्गादेव च व्याप्यत्वपर्यन्तम् । अन्यथा घटत्वावच्छिन्नोत्पत्तेरपि तत्का- लोत्पन्नरासभाधिकरणक्षणोत्तरत्वसामानाधिकरण्यात् कारणत्वासिद्धिप्रसङ्गात् । न चानन्यथासिद्ध- पदेनैव तद्वारगं, घटत्वावच्छिन्नं प्रति रासभस्यान्यथासिद्धत्वादन्यथा कारणतालक्षणे नियमप्रवेश- वैयर्थ्यात् । प्रतियोगी च परस्यासत्ख्यात्युपनीत इति ध्येयम् । तत्कालेति । घटव्यवहितकाले- स्यर्थः । तत्रतत्रेति पूर्वकालादावित्यर्थः । एवं च सत्त्वापादनं स्यादेवेत्यस्य, असत्त्वापादनं न स्यादेवेत्यस्यार्थ इति विभाग इति भावः । अन्यकालेति । अन्यकालोत्पत्तिक इष्टापत्तिवारणाय पक्षविशेषणम् । तथाप्यनुत्पन्नस्यापि पक्षत्वेऽसत इष्टापत्तिरिति तद्वारणाय घट इति पक्षविशेषणम् । अयमिति प्रत्यक्षोपन्यासः । पूर्ववद् दृष्टान्तश्च अन्यकालोत्पत्तिकः। आपादके चोत्पत्तिपदमखण्डाभा- वतया यथोक्तविशेषणविशेष्यभावेऽव्यर्थतया वा समाधेयम् । आपादके च पूर्वकालपदमव्यवहितपूर्व- कालपरं कारणताशरीरसिद्धये तथा च व्यवहितपूर्वकालोत्पन्ने तत्कालविद्यमाने व्यभिचार इत्यापाय उत्पत्तिपदम् । वस्तुतः पक्षविशेषणमहिम्नेत्यस्य उभयापादनान्वयितया यथाश्रुतापाद्यस्य च नित्य- मकरन्दः । यद्ययमिति पूर्वकालोत्पत्तिक इष्टापत्तिवारणाय पक्षविशेषणम् । घटो यदीति । घटव्यवहितकालाऽ नधिकरणत्वं घटाव्यवहितकालाधिकरणत्वं पर्य्यवस्यति । यत्तु आकाशादेरपि तथात्वे तदा दायापादका- सिद्धिः स्यादिति घटव्यवहितकालानधिकरणत्वं यथाश्रुतमेवाभिमतमिति । तन्न । अनन्यथासिद्ध- त्वस्य पदार्थविशेषणस्यावश्यकत्वात् । अन्यथा दण्डरूपादिकमादाय दोपतादवस्थ्यापत्तेः तस्मा- दुभयथाऽप्यदोष इति । रासभाद्युत्तरत्वसामानाधिकरण्याद्विपर्ययानुमाने कारणत्वं न सिद्ध्येदिति व्याप्यत्वपर्यन्तम् । न चानन्यथासिद्धत्वेनैव तद्वारणमिति वाच्यम् । रासभादेरपि तथात्वात् । अन्यथा कारणतालक्षणे नियमांशोपादानमनर्थकं स्यात् । तत्र च तस्याविवक्षितत्वे प्रकृतेऽपि तथाऽस्त्विति । प्रतियोगी चासत्ख्यात्युपनीत इति स्मर्त्तव्यम् । घटव्यवहितकालत्वं घटानधिक- रणकालवृत्तित्वमापाद्यम् । अन्येति । अन्यकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् । उत्त-

४८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां प्रकाशः। स्यात्। यद्वा, सकलकालावृत्तिरयं घटो यदि निरपेक्षः स्यात् किञ्चित्कालावृत्तित्वे सति किञ्चित्का- लवृत्तिर्न स्यात् । तेन पक्षविशेषणमहिम्नाऽलीकत्वं सिद्ध्यति । यद्वा, एतावतकालपूर्वापरकाला- वृत्तिर्घटो यद्येतावत्कालपूर्वकालवृत्तित्वे सति एतत्कालाव्यवहितपूर्वकालवृत्तिपदार्थाधिकरणक्षणोत्तर- प्रकाशिका। त्वेनाप्युपपत्तेरन्यथा व्याख्या । तथाहि सर्वत्रोत्पत्तिपदं सत्तामात्रपरं नञ्व्यत्यास आपादके तेन पूर्वापरकालसत्तारहितोऽयं यद्येतदव्यवहितपूर्वकालोत्पत्तिसापेक्षसत्ताको न स्यादेतावत्कालसत्ताको न स्यात् पूर्वापरोत्पन्नपदाकाशादिवद्वेति दिक् । सकलकालेति । इदं च पक्षविशेषणं नित्यत्वेन इष्टाप- त्तिवारणाय, अतएवोक्तं पक्षविशेषणमहिम्नेति । अलीकत्वेन तद्वारणायमिति । प्रामाणिक इत्यर्थः किञ्चित्कालेति । किञ्चित्कालावृत्तित्वसमानाधिकरणकिञ्चित्कालवृत्तित्वस्याभाव आपाद्यः, अत्र विशेष्य- मात्रे अभावप्रतियोगिनि सति परमाण्वादौ व्यभिचार इति विशेषणमुक्तं प्रतियोगिनि, तस्य च प्राक्का- लावृत्तित्वेसतीत्यर्थोऽतो न प्रागभावे व्यभिचारः, विशेषणमात्रभावे आपाद्ये यद्यपि न व्यभिचारः, तथाप्यखण्डाभावतया न व्यर्थता । केचित्तु आकाशस्यावृत्तिकतया विशेषणाभावमात्रोपादाने तत्रैव व्यभिचार इति विशेष्यपदमित्याहुः । तन्न । वृत्तिपदमात्रोपादानेनैव तन्निरासे किञ्चित्कालपदवैय- र्थ्यात्, किञ्चित्पदद्वयञ्च विरोधभञ्जनाय । तेनेति । विशिष्टाभावः प्रकृते सकलकालवृत्तितया कालावृत्ति- तया च, तत्राद्यस्य पक्षविशेषणमहिम्ना बाधात् द्वितीयमादाय पर्यवसानं तच्चानिष्टमिति सापेक्ष- त्वसिद्धिरिति भावः । एतावदिति पूर्वापरकालवृत्तिपदार्थांशे इष्टापत्तिवारणाय पक्षविशेषणबलेना- लीकत्वासिद्ध्ये च पक्षविशेषणं, अलीकत्वेनेष्टापत्तिवारणाय घट इति विशेषणं प्रामाणिक इत्यर्थः । एतावत्कालवृत्तौ पूर्वोत्पन्ने व्यभिचार इति सत्यन्तम् । तत्रापि एतावदिति कालविशेषणमप्रसिद्धि- वारणाय, सत्यन्तमात्रं च घटसमानकालोत्पन्नपदार्थे व्यभिचारीति एतत्कालेत्यादि, तत्राप्येतत्पदं प्रतियोग्युपस्थापकतया पूर्वत्वनिरूपकपरमित्यप्रसिद्धिवारणाय । अव्यवहितपदं च दृष्टान्तलाभाय तदनुपादाने नित्य आपाद्याभावात् पूर्वकालोत्पन्ने च सत्यन्ताभावान्नूत्तरकालोत्पन्ने च पूर्वकालीन- दिगादिजन्यत्वात्तदलाभः । तदुपादाने च व्यवहितपूर्वकालतया दिगादेरुत्तरकालोत्पन्न एव दृष्टान्तः । न च दिगादेरव्यवहितपूर्वकालेऽपि सत्त्वादव्यवहितपदोपादानेऽपि तद्दोपतादवस्थ्यमिति वाच्यम् । नञ्व्यत्यासेन व्यवहितकालावृत्तित्वस्य पदार्थविशेषणत्वलाभादिति वदन्ति । तदयुक्तम् । एवमपि मकरन्दः। रकालोत्पत्तिको दृष्टान्तः । सकलेति । एतच्च पक्षविशेषणं नित्यत्वेनेष्टापत्तिवारणाय । अलीक- त्वेन तद्वारणायमिति । प्रामाणिक इत्यर्थः । किञ्चित्कालवृत्तिर्न स्यादित्येव कृते व्योमादौ व्यभिचार इत्यत आह । किञ्चिदिति । प्राक्का- लावृत्तित्वे सतीत्यर्थः । तेन न प्रागभावे व्यभिचारः । यद्यपि सत्यन्तमेव समर्थमिति व्यर्थविशे- ष्यत्वं, तथाऽप्यखण्डाभाव आपाद्य इति ध्येयम् । तेनेति । विशिष्टाभाव उभयथा सकलकाल- वृत्तितया सकलकालावृत्तितया च । तच्चाद्यस्य पक्षविशेषणमहिम्नाऽभावे द्वितीयस्य पर्यवसानम् । तच्चानिष्टमिति सापेक्षत्वसिद्धिरिति भावः । एतावदिति । पूर्वापरकालमात्रवृत्तिघटांशे सिद्धसाधनवारणाय पक्षविशेषणम् । एतावतका- लवृत्तौ पूर्वकालोत्पन्ने व्यभिचारादाह, सत्यन्तम् । एतावत्पदं कालविशेषणमात्रासिद्धिबारकम् । एतत्कालीनोत्पन्ने घटादौ सत्यन्तमात्रं व्यभिचारीत्यत आह । एतत्कालाव्यवहितेत्यादि । ननूत्तरकालोत्पत्तिक एव दृष्टान्तः, अन्यत्रापादकवैकल्यात् । तत्र चैतत्पूर्वकालवृत्तिनित्यदिगादिसा- पेक्षत्वादापादकवैकल्यमित्यत आह । अव्यवहितेति । नञ्व्यत्यासेन एतत्कालव्यवहितपूर्वका-

प्रथमस्तबके ] आकस्मिकतावादखण्डनम् । ४६ अकस्मादेव भवतीति चेन्न— हेतुभूतिनिषेधो न स्वानुपारूयविधिर्न च । बोधनी । कादाचित्कत्वहेतोरन्यथासिद्धिं शङ्कते - अकस्मादिति । तदेतद् यथासम्भवं विकल्प्य निराकरोति - हेतुभूति-इति । अकस्माद् भवतीत्यत्र प्रकाशः । त्वव्याप्यकालो न स्यादेतावत्कालवृत्तिर्न स्यादिति, न स्यादेवेत्यस्यार्थः । अत एव कालान्तरावृत्ति त्वे सत्येतत्कालवृत्तिः स्यादिति कादाचित्कत्वाभावापादनमपीति सम्प्रदायविदः ॥ ४ ॥ कार्यकारणभावग्राहकमने, कादाचित्कभावो निर्हेतुको भावत्वाद् व्योमवदिति सत्प्रतिपक्षं शङ्कते । अकस्मादिति । अत्र किंशब्दो यदा हेतुमात्रपरस्तदा तस्य नञा सम्बन्धाद्धेत्वभावे भवनं लभ्यते । यदा तु भवनक्रियया नञः सम्बन्धस्तदा प्रसज्यप्रतिषेधे भवननिषेधोऽर्थः, किंशब्द-समस्यमानेनापि नञा भवतीत्यस्यान्वयात् । असमर्थेऽप्यसूर्यंम्पश्या राजदारा इति- वत् समासः । अ-शब्दस्यैव वाऽयं समासं विना प्रयोगः । अ मानो ना प्रतिषेधवचना इति कोपात् । प्रकाशिका । चरमकारणमादायोत्तरकालोत्पन्न आपादकाभावात् । अत्र ब्रूमः । आपादके पूर्वकालवृत्तिपदं पूर्व- कालोत्पन्नपरम् , अतो न नित्यमादाय दृष्टान्तासिद्धिः, नचैवमपि तादृशादृष्टाजन्यतया उत्तरकाली- नस्यादृष्टान्तता, उत्तरकालोत्पन्नादृष्टजन्यस्यैव दृष्टान्तत्वात् । एवं चाव्यवहितपदं विपर्ययेऽन्यवधां- नघटितकारणतासिद्धये, अव्यवहितपदेनैव वा तादृशादृष्टवारणं यदव्यवहितपूर्वकालोत्पन्नादृष्टेनोत्तर- कार्यजननं तत्कालस्यैवैतत्कालपदेनोक्तत्वात् । व्याप्यत्वं पूर्वत्वं च विपर्यये पूर्वत्वनियमरूपकारण- तालाभाय, एवं च तदर्थमेवानन्यथासिद्धत्वमपि पदार्थविशेषणं प्रवेक्ष्यमिति दिक् । ननु यदिनिरपेक्षः स्यात् किञ्चित्कालावृत्तित्वे सति किञ्चित्कालवृत्तिर्न स्यादित्येव कादाचित्कत्वाभावापादनं तच्च न स्यादे- वेत्येतदर्थत्वेनैव व्याख्यातमिति, मूले न तु कदाचित् स्यादिति पुनरुक्तमत आह । अत एवेति । पौनरुक्त्यभयादेव कादाचित्कत्वाभावापादनमन्यथा वर्णयन्तीत्यर्थः । सम्प्रदायविद् इत्यरुचौ, तद्बीजन्तु किञ्चित्कालावृत्तित्वे सतीत्यादेरापादनस्य पक्षविशेषणमहिम्ना अलीकत्वे पर्यवसानम् , मकरन्दः । लावृत्तीत्यर्थः । नित्यन्तु व्यवहितेऽपि वर्त्तते इत्यदोष इति वदन्ति । तन्तुच्छम् । उत्तरकालोत्प- न्नचरमकारणमादाय दोषतादवस्थ्यापत्तेः । वयन्तु, पूर्वकालवृत्तिपदं पूर्वकालोत्पत्तिकपरमिति न नित्यमादाय दृष्टान्तासिद्धिः । न च तादृशादृष्टादिसापेक्षत्वादोषतादवस्थ्यम् । उत्तरकालोत्पन्ना- दृष्टसापेक्षस्य दृष्टान्तत्वे तथाप्यविरोधात् । अव्यवहितपदेनैव तद्वारणाद्वा । यदव्यवहितपूर्वकालो- त्पत्तिकादृष्टेन नोत्तरकालीनकार्योत्पादनम् , एतत्कालपदेन तस्यैव कालस्य विवक्षितत्वात् । प्रथ- मकल्पेऽव्यवहितपदं स्फुटार्थमिति युक्तमुत्पश्यामः । व्याप्यत्वं पूर्वत्वञ्च विपर्यये नियमादिगर्भका- रणत्वलाभाय । एवञ्चानन्यथासिद्धत्वमपि पदार्थे विशेषणमित्याहुः । अत एवेति । यत एव किञ्चित्कालावृत्तित्वे सतीत्यादौ न स्यादेवेत्यस्यैव कादाचित्कत्वाभाव- पदेन पर्य्यवसानम् अत एव मूले कदाचित् स्यादिति मूलोक्तकादाचित्कत्वाभावापादनं साम्प्र- दायिका अन्यादृशमाहुः । अन्यथा पौनरुक्त्यापत्तेरित्यर्थः । तत्र पक्षविशेषणमहिम्नाऽलीकत्व- सिद्धिरित्येव भेदो नोक्तदोष इत्यस्वरसोद्भावनं सम्प्रदायपदेनेतीति वदन्ति । केचित्तु सम्प्रदायविद इति प्रकरणान्वयीत्याहुः ॥ ४ ॥ ७ न्या० कु०

५० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकायां स्वभाववर्णना नैवमवधेर्नियतत्वतः ॥ ५ ॥ बोधनी । नामयोगिनोऽपि नञः प्रतिषेधार्थत्वमाश्रित्य यदा कस्मादिति निर्दिष्टहेतुसम्बन्धो विवक्ष्यते तदा हेतुनिषेधः स्यात् । यदा तु समासान्निष्कृष्य भवनसम्बन्धस्तदा भूतिनिषेधः । यदि पुनः स्वर- सप्राप्तो हेतुसम्बन्धः पर्युदासवृत्तिश्चाऽऽश्रीयते तदा तदितरविधिपरत्वाद्धेतुतोऽन्यस्मात् स्वस्माद्- नुपाख्याच्च भवतीति स्यात् । अथवा, यदा हेतुविशिष्टभवनसम्बन्धो विवक्षितो न हेतोर्भव- तीति तदा विशेषनिषेधस्य शेषविधिपरत्वादहेतुतो भवतीति स्यात् , अहेतुश्च स्वयमनुपाख्य- श्चेति, तयोरेव विधिः प्राप्नोति । यदा त्वश्वकर्णादिवद् व्युत्पत्त्यनपेक्षं, तदा स्वभावत एव भवतीति स्यात् । न चावश्यमत्र सर्वत्र ग्रन्थसंघटनायां यतितव्यं, तात्पर्यमात्रविकल्पनात् । पञ्चानामपि कल्पानां निराकरणहेतुरवधेर्नियतत्वत इति । अवधेः = कार्यपूर्वक्षणवर्तिनः कस्यचिदन्यस्य नियतत्वात् = किञ्चिदेकमवधीकृत्य दर्शनादित्यर्थः । यद्वा, अवधिः प्रागस- दुत्तरकालसम्बन्धस्तस्य, नियतत्वतः = नियतकालत्वात् कादाचित्कत्वादिति यावत् । यद्वा, अनन्तरोक्तस्यावधेः सहेतुकोत्पत्तिनियतत्वादिति । प्रकाशः । तदुभयं निरस्यति । हेतुभूतीति । अथ हेतुभवनयोर्निषेधस्य शेषाभ्यनुज्ञाफलकत्वात् पर्युदासनञा हेतुव्यतिरिक्ताद्भवनं लभ्यते, अहेतुश्च कार्यस्वरूपमवस्तु च तदा स्वानुपाख्य- विधिः, तं निषेधति । स्वानुपाख्येति । स्वं=कार्यम् , अनुपाख्यो=निर्धर्म्मकोऽलीकः । अथाश्वकर्णादिवदव्युत्पन्न एवायमकस्माच्छब्दः, किंवा शब्दोऽस्वभावपरो वा तदा स्वभावादेव कार्य्यस्य कादाचित्कत्वमित्यर्थः, तत्राह । स्वभावेति । सर्वत्र हेतुमाह । अवधेरिति । निय- तावधिसम्बन्धित्वेनैव विवादपदस्य कादाचित्कस्य कार्यस्य सतर्केण प्रत्यक्षेण विषयीक्रियमाणत्वा- प्रकाशिका । कादाचित्कत्वाभावापादने तु न तत्पर्यवसानं तादृशपक्षविशेपणाभावादिति यथाश्रुत एव न पौन- रुक्त्याशङ्केति । केचित्तु यत एव स्यादेवेत्यापादनमेव कादाचित्कत्वाभावापादनं अत एव तदर्थतयैव कादाचित्कत्वाभावापादनमपि व्याख्यातम् । मूलेऽपि कादाचित्कत्वाभावापादनं न स्वतन्त्रमपि तु पूर्वोक्तं स्यादेवेत्यापादने पक्षधर्मतावल्लभ्यानिष्टोप्रदर्शनपरमिति व्याचक्षते । सम्प्रदायविद इति च तन्मते प्रकरणान्वयि ॥४॥ हेतुभवनयोरिति । यद्यपि हेतुप्रसक्तभवनस्य विशिष्टस्यैकस्यैव निषेधाद् द्विवचनमयुक्तम् । तथापि भवननिषेधेऽर्थतो हेतुनिषेधोऽपि लभ्यते भवनं विना हेतोरनुपपत्तेरित्ये- तावता तदुपपत्तिः । अहेतुश्चेति । हेतुव्यतिरिक्तश्चेत्यर्थः । हेतुनिषेधे भवनमुत्पत्तिरूपमसम्भवी- मकरन्दः । हेतुभवनयोरिति । यद्यपि हेतोर्यद्भवनं तस्यैव विशिष्टस्यैकस्य निषेधात् तल्लभ्यत इति द्विवचनमयुक्तम् । तथापि विशिष्टमपि तदुभयात्मकमेवेति तथोक्तमिति ध्येयम् । अहेतु- टिप्पणी । अङ्गाङ्गिभावस्य शब्दार्थत्वेन स्वतन्त्रापादने तद्विरोध इत्यर्थः ॥४॥ हेतुभवनयोरिति । यद्यपि हेतुप्रसक्तभवनस्यैकस्यैव निषेधाद् द्विवचनमयुक्तम् । तथापि भवननिषेधेऽर्थतो हेतुनिषेधोऽपि लभ्यते भवनं विना हेतोरनुपपत्तेरित्येतावता तदुपपत्तिः । अस्वभावेति । तस्य नञा सम्बन्ध

प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् । ५१ हेतुनिषेधे भवनस्यानपेक्षत्वेन सर्वदा भवनम्, अविशेषात् । भवनप्रतिषेधे प्रागिव पश्चादप्यभवनम्, अविशेषात् । उत्पत्तेः पूर्वं स्वयमसतः स्वोत्पत्तावप्रभु- त्वेन स्वस्मादिति पक्षानुपपत्तेः । पौर्वापर्य्यनियमश्च कार्यकारणभावः । न बोधनी । तदेतदनिष्टप्रसङ्गप्रदर्शनमुखेन विवृणोति—हेतुप्रतिषेध इति । सर्वदा भवनम्=सत्त्वम् । स्यादिति शेषः । विपर्ययस्तु दृश्यत इति भावः । एतेनैतन्निरस्तं यदाहुः— कार्यत्वं कारणत्वं च सम्बन्धः सोऽसतां कुतः । सच्चैत् कारणवैयर्थ्यमसच्चेन्न चरिस्थितिः ॥ १॥ तथा—कुर्वत् कार्यमकुर्वद्वा कारणं कारणं भवेत् । कुर्वच्चेदनवस्थानमकुर्वत्यनवस्थितिः ॥ इति । पश्चादप्यभवनम्=असत्त्वम् । स्यादिति शेषः । अभवनाविशेषादुत्पत्त्यभावस्य पूर्वापर- कालयोरविशेषादिति । एतेनैतन्निरस्तं यदाहुः— न चेदुत्पत्तिरुत्पत्तेर्नित्यत्वमनवस्थितिः । उत्पत्ताचित्यतः कार्यं कारणं चानिरूपितम् ॥ उत्पत्तेरिति । न ह्यसतः प्रभुत्वं, नापि स्वस्य प्रभुत्वमिति । नन्वेकस्यैव कार्यकारण- भावे को दोषस्तत्राह—पौर्वापर्य्य-इति । चो हेत्वर्थः । यस्मात् पौर्वापर्य्यनियमतः कार्यकारण- प्रकाशः । दित्यर्थः । क्रमेण तर्कमेवाह । हेत्विति । भवनस्य सत्त्वस्याविशेषात् सदातनत्वे कार्य्यस्य कादा- चित्कत्वव्याघात इत्यर्थः । भवनेति । भवनस्योत्पत्तेः सदा प्रतिषेधे प्राक् पश्चादिव मध्येऽप्यभ- वनप्रसङ्गात् कदाचिद्द्भवनग्राहिप्रत्यक्षबाध इत्यर्थः । उत्पत्तेरिति । स्वोत्पत्तेः पूर्वं यदि स्वं भवेत् तदा नियतकालोत्पत्तौ हेतुः स्यात् । न चैवम् । असतोऽपि हेतुत्वे प्राक् पश्चादपि कार्य्यसत्त्वप्र- सङ्गेन तदनुपलब्धिविरोध इत्यर्थः । कार्यकारणयोरभेदे विरोधान्तरमाह । पौर्वापर्य्यमिति । पटा- प्रकाशिका । ख्यात आह । सत्त्वस्येति । पश्चादप्यभवनमित्यत्रेष्टापत्तिः, घटोत्पत्तिकालस्यैव पूर्वतानिरूपक- त्वेनोपस्थित्या पश्चात्त्वेऽपि तस्यावधित्वलाभात् तदा चाभवनस्यानुत्पत्तेः सत्त्वादित्यन्यथा व्या- मकरन्दः । श्चेति । हेतुव्यतिरिक्तश्चेत्यर्थः । हेतुनिषेधभवनमुत्पत्तिरूपमसम्भवत्यत आह । सत्त्वस्येति । अकारणकत्वेऽपीति । अकारणकत्वाविशेषेऽपीत्यर्थः । नियतेति । नियतदेशतद्वृ- टिप्पणी । इति शेषः । भवनस्य सत्त्वस्याविशेषादिति । हेतुं विना उत्पत्तेरसम्भवाद् भवनस्य सत्त्वमर्थः । सदा प्रतिषेधे प्राक्पश्चाद्विवेति । घटोत्पत्तिकालस्यैव पूर्वतानिरूपकत्वेनोपस्थि- त्या पश्चात्त्वेऽपि तस्यावधित्वलाभात् तदाऽभवनस्य सत्त्वादिष्टापत्तेरतः प्रागित्यादिमूलमन्यथा व्याचष्टे प्रागिति । स्वोत्पत्तेः पूर्वमिति । नियमानन्यथासिद्धत्वे आपादकविशेषणे तेनापाद्या- पादकव्याप्तेर्न भङ्गः । न चैवमिति । अत्र व्यभिचारशङ्कानिवर्त्तकतर्कमाह । असतोऽपी- ति । प्रागसतोऽपीत्यर्थः । तेन नालीकविधिपर्यवसानम्, तदाकारञ्च कार्यं यद्यविद्यमानप्राग्- हेतुकं स्यान्नियतकालोत्पत्तिकं न स्यादपि तु सदातनमेव स्यात् । अयमापादकः पराभ्युपगत एव । अथवा हेतुत्वं यदि प्रागविद्यमानावृत्ति स्यान्नियतकालोत्पत्तिनियामकताप्रयोजकं न स्यादिति । पटार्थिनः=पटनिर्म्माणेच्छावन्तः । तेन पटेच्छाभिः पट उपादीयमानेऽपि न

५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यायां

चैकं पूर्वमपरञ्च, तत्त्वस्य भेदाऽधिष्ठानत्वात् । अनुपाख्यस्य हेतुत्वे प्रागपि स- त्त्वप्रसक्तौ पुनः सदातनत्वोपत्तेः । स्यादेतत् । नाऽकस्मादिति कारणनिषेधमात्रं वा, भवनप्रतिषेधो वा, स्वात्महे-

बोधनी । भावस्तस्मादिति । अथवैतच्च न स्वस्मादुत्पत्तिरित्याह—पौर्वापर्य्य-इति । तत्त्वस्य पूर्वा- परभावस्येत्यर्थः । निराकृतात् पक्षचतुष्टयाद् विविञ्चानः पञ्चमं पक्षं स्वभाववादपक्षमाशङ्कते—स्यादेत- दिति । यथा घटादेश्विशेषसंसर्गासंसर्गनियमः, यथा वाकाशपरमाण्वादेरशेषदेशव्यापित्वान्व्या- पित्वनियमः, यथा वानेककारकसाध्यस्यापि कार्य्यस्य कस्मिंश्चिदेव कारके समवायो न कारकान्त-

प्रकाशः । र्थिनः पटमेव नोपाददते किन्तु तत्पूर्वकालवर्त्तिनस्तन्तूनीति लोकव्यवहारसिद्धकार्य्यकारणभाव- विरोध इत्यर्थः । तत्त्वस्य = पौर्वापर्य्यस्येत्यर्थः । अनुपाख्यस्यार्थक्रियाजनकत्वाभावेऽप्यनिष्टप्रसङ्गा- न्तरमाह । अनुपाख्यस्येति । एतत्पटानुत्पत्तिकक्षणे यद्येतत्पटोत्पादकानुपाख्योत्तरक्षणः स्याद् एतत्पटाधिकरणं स्यादित्यर्थः । यद्यपि स्वभावः कार्य्यं तद्धर्म्मो वा, आद्यः अकस्मादिति निरासे- नैव निरस्तः, अन्त्ये धर्मस्य कारणत्वमङ्गीकृतमेव । तथापि यथा परमाणुत्तपरिमाणयोरकारण कत्वेऽपि स्वभावादेव नियतदेशवृत्तित्वं, यथा वा कारणत्वाविशेषेऽपि पटस्य तन्तुदेशवृत्तित्वं न तु वेमादिदेशवृत्तित्वमिति स्वभावादेव नियमः, तथा कार्य्यस्याहेतुकत्वेऽपि तत्तत्कारणत्वाभिमतनि- यतोत्तरकालवृत्तित्वं न तु कालान्तरवृत्तित्वमिति स्वभावादेव कादाचित्कत्वं स्यादिति शङ्कते ।

प्रकाशिका । चष्टे प्राक् पश्चादिव मध्येऽपीति । एतत्पटेति । अत्रापादकेऽनुपाख्येति पराभ्युपगमविषयो- त्कीर्त्तनम्, व्याप्तिस्त्वनुपाख्यत्वविशेषणं विहायैव वेतव्येत्यवधेयम्। अकारणकत्वेऽपि=अकारणकत्वावि- शेषेऽपि । नियतेति । नियतदेशत्वं नियततद्वृत्तित्वं चेत्यर्थः । तेन परमाणुत्तपरिमाणयोर्यथासं-

मकरन्दः । त्त्वमित्यर्थः । परमाणोर्द्देशत्वमपरस्य तद्वृत्तित्वमिति स्वभावादेव यथा यथा नियम इति भावः । नियतदेशवृत्तित्नियतसम्बन्धित्वं विवक्षितमित्यन्ये । परमाणुपदं भावप्रधाननिर्देशेन पर-

टिप्पणी । क्षतिः । कार्यकारणभावविरोध इति । तथा च कार्यकारणभावनियमितप्रवृत्तिनिवृत्त्योरनु- पपत्तिरिति भावः । एतत्पटेति । अत्रापादकेऽनुपाख्येति पराभ्युपगमविषयोत्कीर्त्तनम्, व्या- प्तेरनुपाख्यत्वविशेषणं विहायैव सम्भवादिति ध्येयम् । स्वभावस्यातिरिक्ततया नियामकत्वे दृष्टा- न्तमुखेन प्रामाण्यं व्यवस्थापयति । परमाणुत्तपरिमाणयोरिति । अकारणकत्वेऽपीति । अकारणकत्वाविशेषेऽपीत्यर्थः । नियतेति । नियतदेशत्वं नियततद्वृत्तित्वञ्चेत्यर्थः । तेन परमा- णुत्तपरिमाणयोर्यथासङ्ख्यमन्वयात् परमाणोर्नियतदेशवृत्तित्वाविरहेऽपि न क्षतिः । यद्यपि नित्यप- रिमाणस्यातिरिक्तवृत्तित्वे प्रमाणाभावः, अवृत्तित्वे कारणनियमेन समवायिनि सिद्धस्य जन्यपरि- माणस्य दृष्टान्तस्यानुमानस्य प्रामाण्यञ्च, तथापि तत्र नातिरिक्तस्वभावापेक्षा । एवं कारणतावच्छे- दकसम्बन्धेन कारणानामेव कार्यसत्त्वे नियामकतया तन्तुत्वेनैव तादृशसम्बन्धसत्त्वादिति न वेमा- दिदेशवृत्तित्वम् । नचोभयोः कारणत्वात् कथञ्च वेमादिना तादृशसम्बन्ध इति वाच्यम् । तन्ता- वेव तस्य प्रत्यक्षेण, कल्पनायाः फलवलकल्प्यतया तेनैव तत्कल्पनमिति तत्रापि न स्वभावस्य तथाविधस्य प्रयोजनमिति दृष्टान्तविकलतया स्वभावस्योच्छेद एव, तथापि तत्स्वीकारेऽपि न

प्रथमस्तबके ] स्वभावकारणतावादखण्डनम् । ५३ तुकत्वं वा, निरुपाख्यहेतुकत्वं वाऽभिधित्सितम्, अपि त्वनपेक्ष एव कश्चिन्निय- तदेशवन्नियतकालस्वभाव इति ब्रूमः । न । निरवधित्वे अनियतावधिकत्वे वा का- दाचित्कत्वव्याघातात् । न ह्युत्तरकालसिद्धित्वमात्रं कादाचित्कत्वं, किंतु प्रागस- बोधनी । रेष्विति देशनियमो हेत्वभावेऽपि सङ्गच्छते, तथा कश्चिद् घटादिर्नियतकालसंसर्गः स्वभावत एवाकाशादिवदिति कालनियमोऽप्यहेतुक एव सङ्गंस्यत इति । अत्राप्यथचेन्नियतत्तत्त इत्येत- देवोत्तरयति—न निरवधित्व इति । किञ्चिदवधिमनुपादाय कादाचित्कत्वं निरूपयितुम- शक्यं, कदाचिदित्यस्यैवाभावे कादाचित्कत्वव्याघातात् । तन्नैवं कादाचित्कत्वम् । न हि क- स्मिंश्चिदेव देशे सत्त्वं कारणापेक्षामनिरूप्य निरूपयितुं शक्यते । किन्तु निरूपितं सत् स्वाभाविकं सहेतुकं वेति विमृश्यते । अस्ति चात्र सर्वत्रापि नियामको हेतुः, तथाचोन्मोचिता प्रतिवन्दीति भावः । ननु कालविशेषसंसर्गमात्रं कादाचित्कत्वं तच्च गगनादिवन्निरवधित्वेऽपि भविष्यति, तस्मान्न तत्स्वरूपानुप्रवेशित्वमवधेरित्याशङ्क्याह—न हीति । इतः पूर्व नासीदिदानीम- प्रकाशः । अपि त्विति । ये ये निरवधयो दृष्टास्तेषां नियमेन कादाचित्कत्वस्वभावविरहान्निरवधिकत्वका- दाचित्कत्वयोर्विरोधन्निरवधित्वे कादाचित्कत्वस्वभाव एव न निर्वहेदित्यभिप्रेत्य परिहरति । निर- वधित्व इति । अयं क्षणो यद्येतत्पटध्वंसानाश्रयः स्यान्नेतत्पटप्राग्भावाश्रयो न स्यादेतत्पटाधिक- णं स्यादिति भाव इत्यन्ये । ननूत्तरकालसंसर्गित्वं कादाचित्कत्वम् , तच्च निरवधित्वेऽप्याकाशवत् स्यादित्यत आह । न हीति । तथा सति घटाकाशयोः कादाचित्कत्वाकादाचित्कत्वलोकव्यवहारविरोध इति भावः । प्रकाशिका । इत्यन्वयः, नियतदेशत्वं नियतसम्बन्धित्वमेवाभिप्रेतमिति कश्चित् । ये ये निरवधय इति । आकाशादीनामकादाचित्कत्वं न तत्तद्धर्माधीनमननुगमादिति निरवधित्वनिबन्धनमेव मन्तव्यमिति निरवधित्वकादाचित्कत्वयोः परस्परविरोधावधारणमिति भावः । अत एवाननुगमप्रदर्शनार्थं ये य इत्युक्तम् । अयं क्षण इति । प्रागभावस्वीकारे स एवावधिः स्यादिति निरवधित्वाभ्युपगमे प्रागभाव- स्याप्यस्वीकार इति पराभ्युपगतमापादकम् । अत्र च कारणत्वमापादकविशेषणमतो न घटरूपादौ व्यभिचारः । इष्टापत्तिवारणायापाद्य एतदित्युक्तम् । दृष्टान्तलाभायापादक एतत्पदद्वयम् । अन्य इत्यरुचौ । तद्बीजन्तु उक्ततर्केण विरोधावधारणे पूर्वतनमेव सम्यक्। अनवधारणे त्विदमप्यप्रयोज- कमिति । न हीतीति । इदञ्च कादाचित्कत्वं मूलनिरुक्तं भावाभिप्रायकमिति न प्रागभावाव्याप्ति- रित्यवधेयम् । नन्वेवं गौरवमित्यत आह । तथासतीति । तथाच लोकव्यवहारविरोधभयेन गौ- मकरन्दः । र्माणुत्वपरमित्यपरे । ये ये निरवधय इति । अकादाचित्कत्वमाकाशादिषु न तत्तद्धर्माधीन- मननुगमादिति निरवधित्वनिबन्धनमेव मन्तव्यमन्यस्यासम्भवादिति परस्परविरोधावधारणेन निरवधित्वे कादाचित्कत्वस्वभावविरोध इत्यर्थः । अत एवाननुगमप्रदर्शनार्थं, ये य इत्यु- क्तमिति वदन्ति । अयं क्षण इति । अत्र च कालत्वमापादकविशेषणम् । तेन घटरूपादौ न व्यभिचार इति ध्येयम् । अन्ये इत्यस्वरसोद्भावनम् । तद्बीजन्तूक्ततर्कावष्टम्भे यथोक्तमेव युक्तम् । तदनवष्टम्भे त्वेतदप्यप्रयोजकमित्याहुः । न हीतीति । भावकादाचित्कत्वमिति न प्रागभावाऽव्याप्तिर्दोषः । नन्वेवं गौरवमित्यत आह । तथा सतीति । अन्यथा द्वयोरपि कादाचित्कत्वे घटस्य कादाचि- टिप्पणी । र्वाह इत्याह । ये य इति । आकाशादीनामकादाचित्कत्वं न तत्तद्धर्माधीनमननुगमादिति निर-