पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( ४०६ ) पञ्चतन्त्रम् ।
( ४०६ ) पञ्चतन्त्रम् ।
और बोला- "मित्र ! हास्यसे मैंने आपका अभिप्राय जाना । उसको कुछभी
तुम्हारे हृदयसे प्रयोजन नहीं है । सो आओ अतिथिरूपसे हमारे घर चलो ।
तेरी भाभी उत्कंठित है" । वानर बोला- "भो दुष्ट ! अब जाओ । मैं नहीं
आऊंगा । कहा है-
बुभुक्षितः किं न करोति पापं
क्षीणा जना निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रियदर्शनस्य
न गङ्गदत्तः पुनरेति कूपम् ॥ १६ ॥"
भूखा क्या पाप नहीं करता ? क्षीण मनुष्य करुणाहीन हो जाते है, हे भद्रे !
प्रियदर्शनसे कहना गंगदत्त फिर कूपमें नहीं आवेगा ॥ १६ ॥”
मकर आह- "कथमेतत् ?" स आह-
मकर बोला- "यह कैसी कथा है ?" वह बोला-
कथा २.
कस्मिंश्चित् कूपे गङ्गदत्तो नाम मण्डूकराजः प्रतिवसति
स्म । स कदाचित दायादैः उद्वेजितोऽरघट्टघटीमारुह्य
निष्क्रान्तः। अथ तेन चिन्तितम् । "यत् कथं तेषां दायादानां
मया प्रत्यपकारः कर्त्तव्यः । उक्तञ्च-
किसी कूपमें गंगदत्त नामक मेडकराजा रहता था, वह कभी हिस्सेदारोंसे
उद्वेजित हुआ कुएकी ढेकलीको आलम्बन कर बाहर निकला । और उसने
विचारा "इन गोतियोंका अपकार किस प्रकार करूं। कहा है-
आपदि येनापकृतं येन च हसितं दशासु विषमासु ।
अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ १७ ॥”
जिसने आपत्तिमें अपकार किया और विषम दशामें हँसा उन दोनोंके प्रति
फिर अपकार करकेही मनुष्यको उत्पन्न हुआ ऐसा मैं मानता हूं ॥ १७ ॥"
एवं चिन्तयन् बिले प्रविशन्तं कृष्णसर्पमपश्यत् । तं दृष्ट्वा
भूयोऽपि अचिन्तयत् । "यत् एनं तत्र कूपे नीत्वा सकलदा-
यादानां उच्छेदं करोमि । उक्तञ्च-
ऐसा विचार कर बिलमें प्रवेश करते काले सांपको देखा । उसको देखकर
[Header] भाषाटीकासमेतम् । (४०७)
फिरभी विचारने लगा कि "इसको उस कूपमें लेजाकर सम्पूर्ण दायादोका नाश
करूं। कहा है--
शत्रुभिर्योजयेच्छत्रुं बलिना बलवत्तरम्।
स्वकार्याय यतो न स्यात्काचित्पीडात्र तत्क्षये ॥ १८ ॥
शत्रुओंके साथ शत्रुओंको भिड़ावै, बलवान्के साथ बलवान्को अपने
कार्यके निमित्त लगावै कारण कि, उसके क्षयमें फिर कुछ पीडा नहीं होती १८
तथाच-
और देखो-
शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुना।
व्यथाकरं सुखार्थाय कण्टकेनेव कण्टकम् ॥ १९ ॥ "
बुद्धिमान् तीक्ष्ण शत्रुको तीक्ष्ण शत्रुसे नष्ट करावै व्यथा करनेवाला काटा
सुखके निमित्त कांटेसेही निकाला जाता है ॥ १९ ॥"
एवं स विभाव्य बिलद्वारं गत्वा तमाहूतवान्-"एहि !
एहि !! प्रियदर्शन ! एहि !" तत् श्रुत्वा सर्पश्चिन्तयामास ।
"य एष मां आह्वयति, स स्वजातीयो न भवति यतो नैषा
सर्पवाणी । अन्येन केनापि सह मम मर्त्यलोके सन्धानं
नास्ति । तदत्र एव दुर्गे स्थितः तावत् वेद्मि कोऽयं भवि-
ष्यति । उक्तञ्च--
ऐसा विचार बिलके द्वारे जाकर उसे बुलाता हुआ--"आओ ! आओ !!
प्रियदर्शन ! आओ ।" तब सुनकर साप विचारने लगा। "यह मुझे बुलाता
है सो अवश्यही मेरी जातीका न होगा। कारण कि यह सर्पकी वाणी नहीं है।
और किसीके साथ मर्त्यलोकमें मेरी मित्रता नहीं है। सो इसी दुर्गमें स्थित हुआ
पहले जानू कि यह कौन होगा। कहा है कि--
यस्य न ज्ञायते शीलं न कुलं न च संश्रयः।
न तेन सङ्गतिं कुर्यादित्यवाच बृहस्पतिः ॥ २० ॥
जिसका कुल शील और आश्रय न जाना हो उसकी संगति न करे ऐसा
बृहस्पतिजीने कहा है ॥ २० ॥
कदाचित् कोऽपि मन्त्रवादी औषधचतुरो वा मामाहूय
( ४०८ ) पञ्चतन्त्रम् ।
( ४०८ ) पञ्चतन्त्रम् ।
बन्धने क्षिपति । अथवा कश्चित पुरुषो वैरमाश्रित्य कस्य-
चिद्भक्षणार्थे मामाह्वयति”। आह च-“भोः ! को भवान् ?”
स आह-“अहं गङ्गदत्तो नाम मण्डूकाधिपतिः त्वत्सकाशे
मैत्र्यर्थमभ्यागतः”। तच्छ्रुत्वा सर्प आह,-“भो ! अश्रद्धेयमे-
तत् यत्तृणानां वह्निना सह सङ्गमः । उक्तञ्च-
कभी कोई सर्पमंत्रमें कुशल भौषधीमें चतुर मुझे बुलाकर बंधनमें डालना
चाहता है । अथवा कोई पुरुष वैरको आश्रित कर किसीके भक्षणके निमित्त
मुझे बुलाता है” । बोला भी-“भो ! आप कौन हैं ?” । वह बोला-“मैं
गंगदत्तनामक मण्डूकराजा तुम्हारे पास मित्रता करनेको आयाहूं” । यह
सुनकर सर्प बोला-“भो ! यह श्रद्धाके अयोग्य वचन हैं जो तृण और अग्निका
समागम होना, कहा है-
यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन ।
न तत्समीपमभ्येति तत्किमेवं प्रजल्पसि ॥ २१ ॥”
जो जिसका वध्य हो वह स्वप्नमेंभी कभी उसके समीप न जाय, सो तू
ऐसी जल्पना क्यों करता है ॥ २१ ॥”
गङ्गदत्त आह-“भोः सत्यमेतत् । स्वभाववैरी त्वम्
अस्माकम् । परं परपरिभवात् प्राप्तोऽहं ते सकाशम् । उक्तञ्च-
गंगदत्त बोला-“भो ! यह सत्य है तुम हमारे स्वभाविक वैरी हो परन्तु
शत्रुओंसे तिरस्कृत होकर मैं तुम्हारे पास आया हूं । कहा है-
सर्वनाशे च सञ्जाते प्राणानामपि संशये ।
अपि शत्रुं प्रणम्यापि रक्षेत्प्राणधनानि च ॥ २२ ॥”
सर्वनाश और प्राणसंशयके उत्पन्न होनेमें शत्रुकोभी प्रणाम कर अपने प्राण
और धनकी रक्षा करे ॥ २२ ॥”
सर्प आह-“कथय कस्मात् ते परिभवः ?” स आह-
“दायादेभ्यः”। सोऽपि आह-“क्व ते आश्रयो वाप्यां कूपे
तडागे ह्रदे वा ? तत्कथय स्वाश्रयम् ।” तेनोक्तम्-“पाषा-
णचयनिवद्धे कूपे”। सर्प आह-“अहो ! अपदा वयं तन्ना-
स्ति तत्र मे प्रवेशः । प्रविष्टस्य च स्थानं नास्ति । यत्र स्थितः
तव दायादान् व्यापदयामि । तद्गम्यताम् । उक्तञ्च-
भाषाटीकासमेतम् । (४०९)
सर्प बोला- "कहो किससे तुम्हारा परिभव हुआ है?" वह बोला-"गोत्रियों-
से"। वह बोला- "कहा तेरा आश्रय है । वावडी, कुए, तडाग वा हृदमे २ सो
अपना आश्रय कहो" वह बोला-"पत्थरसमूहसे बनेहुए कूपमें"। सर्प बोला-
"भो ! हमारे चरण नहीं हैं सो हमारा वहा प्रवेश नहीं हो सकता न रहनेका
स्थान है जहा स्थित होकर तुम्हारे दायादोंको भक्षण करू सो जाऊँ ।
कहा है-
यच्छक्यं ग्रसितुं शस्यं ग्रस्तं परिणमेच्च यत् ।
हितञ्च परिणामे यत्तदाद्यं भूतिमिच्छता ॥ २३ ॥"
जो वस्तु भक्षण करनेको सामर्थ्य हो वह प्रशस्त है और जो खाकर पाक
होजाय और पाकमे हितकारक हो कल्याणकी इच्छावालेको वह वस्तु खानी
चाहिये ॥ २२ ॥
गंगदत्त आह-"भोः ! समागच्छ त्वं अहं सुखोपायेन तत्र
तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्य-
तरं कोटरं अस्ति । तत्र स्थितः त्वं लीलया दायादान् व्या-
पादयिष्यसि"। तच्छ्रुत्वा सर्पो व्यचिन्तयत् । "अहं तावत्
परिणतवयाः, कदाचित् कथञ्चित् मूषकमेकं प्राप्नोमि ।
तत्सुखावहो जीवनोपायोऽयमनेन कुलाँगारेण मे दर्शितः ।
तद्गत्वा तान् मण्डूकान् भक्षयामि" इति । अथवा साधु
इदमुच्यते-
गंगदत्त बोला- "भो ! आप आइये मैं सुख उपायसे वहा तुम्हारा प्रवेश
कराऊगा । उसके मध्य जलके समीप मनोहर खखोडल है । वहा
स्थित होकर तू लीलासे ही दायादोंको भक्षण करना " । यह सुन सर्प विचा-
रने लगा । "मेरी अवस्था वृद्ध होगई है कभी एक चूहा प्राप्त होता है । सो
सुखदायक जीवनोपाय इस कुलाङ्गारने वर्णन किया है। सो जाकर उन मण्डूकों-
को भक्षण करूंगा । अथवा अच्छा कहा है-
यो हि प्राणपरिक्षीणः सहायपरिवर्जितः ।
स हि सर्वसुखोपायां वृत्तिमाराचयेद्बुधः ॥ २४ ॥"
जो प्राणोंसे परिक्षीण सहायसे रहित हो वह पंडित सर्व सुखके उपायवाली
वृत्तिको आचरण करे ॥ २४ ॥"
(४१०) पञ्चतन्त्रम् ।
(४१०) पञ्चतन्त्रम् ।
एवं विचिन्त्य तमाह-“भो गंगदत्त ! यदि एवं तदग्रे भव
येन तत्र गच्छावः”। गंगदत्त आह-“भोः प्रियदर्शन ! अहं
त्वां सुखोपायेन तत्र नेष्यामि स्थानञ्च दर्शयिष्यामि। परं
त्वया अस्मत्परिजने रक्षणीयः। केवलं यानहं तव दर्शयि-
ष्यामि ते एव भक्षणीयाः” इति । सर्प आह-“साम्प्रतं त्वं
मे मित्रं जातं तन्न भेतव्यम्, तव वचनेन भक्षणीयाः ते दाया-
दाः” एवमुक्त्वा बिलात् निष्क्रम्य तमालिङ्ग्य च तेनैव सह
प्रस्थितः। अथ कूपमासाद्य अरघट्टघटिकामार्गेण सर्पः तेन
आत्मना स्वालयं नीतः। ततश्च गङ्गदत्तेन कृष्णसर्प कोटरे
धृत्वा दर्शिताः ते दायादाः। ते च तेन शनैः शनैः भक्षिताः।
अथ मण्डूकाभावे सर्पेण अभिहितम्-“भद्र ! निःशेषिताः
ते रिपवः तत् प्रयच्छ अन्यत् मे किञ्चित् भोजनं, यतोऽहं
त्वया अत्र आनीतः”। गङ्गदत्त आह-“भद्र ! कृतं त्वया
मित्रकृत्यम्, तत् साम्प्रतम् अनेन एव घटिकायन्त्रमार्गेण
गम्यताम्” इति। सर्प आह-“भो गङ्गदत्त ! न सम्यगभिहितं
त्वया । कथमहं तत्र गच्छामि । मदीयबिलदुर्गमन्येन
रुद्धं भविष्यति । तस्मात् अत्रस्थस्य मे मण्डूकमेकैकं
स्ववर्गीयं प्रयच्छ नो चेत् सर्वानपि भक्षयिष्यामि” इति ।
तच्छ्रुत्वा गङ्गदत्तो व्याकुलमना व्यचिन्तयत् । “अहो !
किमेतन्मया कृतं सर्पमानयता तद्यदि निषेधयिष्यामि तत्स-
र्वानपि भक्षयिष्यति । अथवा युक्तमुच्यते-
ऐसा विचार कर उससे बोला-“भो ! गंगदत्त यदि ऐसा हो तो आगे हो
जिससे वहां चले”। गंगदत्त बोला-“भो ! प्रियदर्शन ! मैं तुमको सुखके उपा-
यसे वहां ले जाऊंगा और स्थान भी दिखाऊंगा । परन्तु हमारे परिजनोंकी तुमने
रक्षा करना । केवल जिनको मै दिखाऊं उन्हींको खाना”। सर्प बोला-“अब
तू हमारा मित्र होगया । सो मतडरो तुम्हारे वचनसे मै तुम्हारे गोतियोंको भक्षण
करूंगा”। ऐसा कह बिलसे निकल उसको आलिंगन कर उसके संग चला ।
तब कूपको प्राप्त हो ढेंकलीके मार्गसे सर्पको वह स्वयं अपने स्थानमें लाया । तब
भाषाटीकासमेतम् । (४११)
गंगदत्तने काले सर्पको खखोडलमे धरकर उन दायादोको दिखाया वे उसने
शनैः २ खालिये । तब मण्डूकोंका अभाव देखकर सर्पने कहा-“भद्र ! तुम्हारे
*शत्रु तो निःशेष होगये सो मुझे कुछ और भोजन दो, जो कि तुम मुझे यहा
लाये हो” । गंगदत्त बोला-“मित्र ! तुमने मित्रका कार्य किया है । सो अब
इसी ढेकलीके मार्गसे जाओ” । सर्प बोला-“भो गंगदत्त ! तुमने अच्छा नहीं
कहा कैसे मैं वहां जाऊ । मेरा बिलदुर्ग औरोंने घेर लिया होगा इस कारण यहीं
स्थित हुए मुझे एक एक मेढक अपने कुटुम्बका दो । नहीं तो सबको खाजा-
ऊंगा” यह सुन गंगदत्त व्याकुल मनसे विचारने लगा । “अहो ! सर्पको लाकर
यह मैंने क्या किया । सो यदि निषेध करू तो यह सबहीको खाजायगा ।
अथवा युक्त कहा है-
योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः ।
स करोति न सन्देहः स्वयं हि विषभक्षणम् ॥ २५ ॥
जो अपने पराक्रमसे अधिक अमित्रको मित्र करता है इसमें सन्देह नहीं
वह स्वयंही विष भक्षण करता है ॥ २५ ॥
तत् प्रयच्छामि अस्य एकं दिनं प्रतिसुहृदम् । उक्तञ्च-
सो प्रतिदिन इसको मै एक एक सुहृद दू । कहा है-
सर्वस्वहरणे युक्तं शत्रुं बुद्धियुता नराः ।
तोषयन्त्यल्पदानेन वाडवं सागरो यथा ॥ २६ ॥
बुद्धिमान् मनुष्य सर्वस्व हरण करनेमें युक्त हुए शत्रुको अल्प दानसे
सन्तुष्ट करे जैसे सागर वडवा अग्निको प्रतिदिन अल्प जल देताहै ॥ २६ ॥
तथाच-
और देखो-
यो दुर्बलोऽप्यूनमपि याच्यमानो
बलीयसा यच्छति नैव साम्ना ।
प्रयच्छते नैव च दर्शमानं
खारीं स चूर्णस्य पुनर्ददाति ॥ २७ ॥
जो दुर्बल प्रबलकी सात्वनापूर्वक याचना करनेपर अल्पभी प्रदान नहीं
करता है तथा दर्शमानभी नहीं देता है वह डाटनेसे चूर्णके स्थानमें खारी
परिमाण द्रव्यको फिर देता है (अर्थात् बलवानके थोडा मांगने पर न देनेसे
फिर अधिक देना पडता है) उपजाति वृत्त ॥ २७ ॥
तथाच-
और देखो-
सर्वनाशे समुत्पन्ने अर्द्धं त्यजति पण्डितः ।
अर्द्धेन कुरुते कार्य्यं सर्वनाशो हि दुस्तरः ॥ २८ ॥
सर्व नाश उत्पन्न होनेमें पंडित जन आधा त्याग देते हैं और आधेसे कार्य
करते हैं, सर्व नाश बडा दुस्तर है ॥ २८ ॥
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः ।
एतदेव हि पाण्डित्यं यत्स्वल्पाद्भूरिरक्षणम् ॥ २९ ॥"
बुद्धिमान् मनुष्य थोडेके निमित्त बहुतका नाश न करे यही चतुराई है कि
थोडे देकर बहुतकी रक्षा करनी ॥ २९ ॥"
एवं निश्चित्य नित्यमेकैकं आदिशति । सोऽपि तं भक्ष-
यित्वा तस्य परोक्षेऽन्यानपि भक्षयति । अथवा साधु
इदमुच्यते-
ऐसा विचार कर नित्यही एक एक देने लगा। वहभी उसे भक्षण कर उसके
पीछेमें औरोंकोभी भक्षण कर जाता । अथवा यह अच्छा कहा है-
यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते ।
एवं चलितवित्तस्तु वित्तशेषं न रक्षति ॥ ३० ॥
जैसे मलीन वस्त्र पहरे हुए मनुष्य जहां तहां बैठ जाता है इस प्रकार
निर्धन होनेपर यह प्राणी शेष धनकी भी रक्षा नहीं करता है ॥ ३० ॥
अथ अन्यदिने तेन अपरान् मण्डूकान् भक्षयित्वा गङ्गदत्त-
सुतो यमुनादत्तो भक्षितः । तं भक्षितं ज्ञात्वा गङ्गदत्तः तार-
स्वरेण धिक् धिक् प्रलापपरः कथञ्चिदपि न विरराम । ततः
स्वपत्न्या अभिहितः-
तब दूसरे दिन वह और मेडकोंको भक्षण करके गंगदत्तके पुत्र यमुनादत्तको
भी भक्षण कर गया उसको खाया हुआ जानकर गंगदत्त तारस्वरसे अपनेको
धिक् धिक् करता हुआ किंचित् काल भी विरामको प्राप्त न हुआ। तब उसकी
स्त्रीने कहा-
भाषाटीकासमेतम् । (४१३)
"किं क्रन्दसि दुराक्रन्द स्वपक्षक्षयकारक ।
स्वपक्षस्य क्षये जाते को नस्त्राता भविष्यति ॥ ३१ ॥
"हे दुष्ट रोदन करनेवाले ! क्यो रोदन करता है, हे अपने पक्षके क्षय करने
वाले ! अपना पक्ष क्षय होनेपर अब कौन हमारी रक्षा करेगा ॥ ३१ ॥
तत् अद्यापि विचिन्त्यतां आत्मनो निष्क्रमणमस्य
वधोपायश्च” । अथ गच्छता कालेन सकलमपि कवलितं
मण्डूककुलम् । केवलमेको गङ्गदत्तः तिष्ठति । ततः प्रियदर्श-
नेन भणितं ,-“भो गङ्गदत्त ! बुभुक्षितोऽहं निःशेषिताः सर्वे
मण्डूकाः । तदीयतां मे किञ्चित् भोजनं यतोऽहं त्वया अत्र
आनीतः”। स आह,-“भो मित्र ! न त्वया अत्र विषये मया
अवस्थितेन कापि चिन्ता कार्या तत् यदि मां प्रेषयसि
ततोऽन्यकूपस्थान् अपि मण्डूकान् विश्वास्य अत्र आनयामि”।
स आह-“मम तावत् त्वं अभक्ष्यो भ्रातृस्थाने, तत् यदि एवं
करोषि तत् साम्प्रतं पितृस्थाने भवसि,तदेवं क्रियताम्”इति ।
सोऽपि तत् आकर्ण्य अरघट्टघटिकां आश्रित्य विविधदेवतो-
पकल्पितपूजोपयाचितः तस्मात् कूपात् विनिष्क्रान्तः । प्रिय-
दर्शनोऽपि तदाकांक्षया तत्रस्थः प्रतीक्षमाणः तिष्ठति । अथ
चिरात् अनागते गंगदत्ते प्रियदर्शनोऽन्यकोटरनिवासिनीं गो-
धामुवाच-“भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतः चिरपरि-
चितः ते गङ्गदत्तः तद्गत्वा तत्सकाशं कुत्रचिज्जलाशये अन्विष्य
मम सन्देशं कथय । येन आगम्यतां एकाकिना अपि भवता
द्रुततरं यदि अन्ये मण्डूका न आगच्छन्ति । अहं त्वया
बिना नात्र वस्तुं शक्नोमि । तथा यदि अहं तव विरुद्धं आ-
चरामि तत् सुकृतमन्तरं मया विधृतम्” गोधा अपि तद्वच-
नात् गङ्गदत्तं द्रुततरमन्विष्य आह-“भद्र गङ्गदत्त ! स तव
सुहृत् प्रियदर्शनः तव मार्गं समीक्षमाणः तिष्ठति । तत् शीघ्रं
आगम्यतामिति । अपरञ्च तेन तव विरूपकरणे सुकृतमन्तरे
( ४१४ ) पञ्चतन्त्रम् ।
( ४१४ ) पञ्चतन्त्रम् ।
धृतम् । तत् निःशङ्केन मनसा समागम्यताम्" । तत् आकर्ण्य
गङ्गदत्त आह-
सो अब भी अपने निकलनेका उपाय विचार करो इसके वधका उपाय भी
विचारो" इस प्रकार समयके बीतते २ वह सम्पूर्ण मण्डूककुलको भक्षण
करगया । केवल एक गंगदत्त रहगया । तब प्रियदर्शनने कहा- "भो गंग-
दत्त ! मैं भूखा हूं सम्पूर्ण निःशेष होगये । सो मुझे कुछ भोजन दे क्यों कि
तू मुझे यहां लाया है" । वह बोला- "भो मित्र ! इस विषयमें तुझे मेरे रहते
कुछ चिन्ता न करनी चाहिये । सो यदि तुम मुझे भेजो तो और कूपमें स्थित
मेंडकोंको विश्वास देकर यहां लाऊं" । वह बोला- "भो ! तू तो भाईके स्था-
नमें होनेसे मेरा अभक्ष्य है । सो यदि ऐसा करेगा तो तू मेरे पिताके स्थानमें
होगा । सो ऐसाही करो" वह भी यह सुनकर उस ढेंकलीका आश्रय कर अनेक
देवताओंकी पूजाका संकल्प करके उस कूपसे निकला । प्रियदर्शन भी उसकी
आकांक्षासे वहीं स्थित हो वाट देखता स्थित था । तब बहुत दिनोंतक गंग-
दत्तके न आनेमें प्रियदर्शन दूसरी खखोडलमें रहनेवाली गोधासे बोला- "भद्रे !
थोडी हमारी सहाय करो । कारण कि तुम गंगदत्तको बहुत समयसे जानती
हो । सो जा उसके पास उसे किसी सरोवरमें ढूंढकर मेरा संदेशा कह तुम
इकले ही शीघ्र चले आओ यदि दूसरे मेंडक नहीं आते हैं तो मैं तुम्हारे बिना
यहां रहनेको समर्थ नहीं हूं । और यदि म तेरे साथ विरुद्ध आचरण करूं तो
मैंने इस अन्तरमें अपने पुण्यका फल लगा दिया है" । गोधा भी उसके बचन-
से शीघ्र गंगदत्तको ढूंढ कर बोली- "भद्र गंगदत्त ! वह तुम्हारा मित्र प्रियदर्शन
तुम्हारी वाट देखता स्थित है सो शीघ्र आओ । कदाचित् शंका हो तो तुमसे
विरुद्ध आचरण करनेपर उसने अपना पुण्य बीचमें धर दिया है । सो निश्शंक
मनसे आओ" । यह सुन गंगदत्त बोला-
“बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणां भवन्ति ।
आख्याहि भद्रे प्रियदर्शनस्य
भाषाटीकासमेतम् । ( ४१६ )
“भूखा क्या पाप नहीं करता है, क्षीण मनुष्य दयारहित होजाते हैं भद्रे
प्रियदर्शनसे कहना मैं फिर कूपमें नहीं आऊगा ॥३२॥”
एवमुक्त्वा स तां विसर्जयामास ।
यह कह उसने उसको विदा करादिया ।
तत् भो दुष्ट जलचर ! अहमपि गंगदत्त इव त्वद्गृहे न
कदाञ्चित् अपि यास्यामि” । तत् श्रुत्वा मकर आह-“भो
मित्र ! न एतद् युज्यते । सर्वथा एव मे कृतघ्नतादोषं अप-
नय मद्गृहागमनेन । अथवा अत्र अहं अनशनात् प्राणत्यागं
तव उपरि करिष्यामि” । वानर आह-“मूढ ! किं अहं
लम्बकर्णो मूर्खो दृष्टापायोऽपि स्वयमेव तत्र गत्वा आत्मानं
व्यापादयामि ।
सो हे दुष्ट जलचर ! मैंभी तेरे घर गंगदत्तकी समान किसी प्रकार नहीं
जाऊंगा” । यह सुनकर मकर बोला-“भो मित्र ! सर्वथा तुमको यह युक्त
नहीं है मेरे कृतघ्नता दोषको मेरे घर चल कर दूरकरो । अथवा मैं यहा लंघनकर
तुम्हारे ऊपर प्राण त्यागन करूंगा” वानर बोला-“मूर्ख ! क्या मैं लम्बकर्ण
मूर्ख हू जो अपाय ( आपत्ति ) देखकर भी स्वय वहा जाकर अपनेको नष्ट करू '
आगतश्च गतश्चैव दृष्ट्वा सिंहपराक्रमम् ।
अकर्णहृदयो मूर्खो यो गत्वा पुनरागतः ॥ ३३ ॥”
जो आकर सिंहके पराक्रमको देखकर भाग गया और कर्णहृदयरहित होनेके
कारण वह मूर्ख फिरभी आगया ॥ ३३ ॥”
मकर आह,-“भद्र ! स को लम्बकर्णः ? कथं दृष्टापायो-
ऽपि मृतः ? तत् मे निवेद्यताम्” ! वानर आह-
मकर बोला,-“भद्र वह लम्बकर्ण कौनहै ? किस प्रकार आपत्ति देखकर
भी वहा जाकर मृत हुआ २ । सो मुझसे कहो” । वानर बोला-
कथा ३.
कस्मिंश्चित् वनोद्देशे करालकेशरो नाम सिंहः प्रति-
वसति स्म । तस्य च धूसरको नाम शृगालः सदा एव अनु-
यायी परिचारकोऽस्ति । अथ कदाचित् तस्य हस्तिना सह
युद्ध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाता येः पदमेकमपि
चलितुं न शक्नोति तस्य अचलनात् च धूसरकः क्षुत्क्षामक-
ण्ठो दौर्बल्यं गतः । अन्यस्मिन् अहनि तं अवोचत् - "स्वामि-
न् ! बुभुक्षया पीडितोऽहं पदात् पदमपि चलितुं न शक्नोमि
तत्कथं ते शुश्रूषां करोमि" । सिंह आह- "भो ! गच्छ अन्वे-
षय किञ्चित् सत्त्वं येन इमां अवस्थां गतोऽपि व्यापादयामि" ।
तदाकर्ण्य शृगालोऽन्वेषयन् कञ्चित्समीपवर्त्तिनं ग्रामं आसा-
दितवान् । तत्र लम्बकर्णो नाम गर्दभः तडागोपान्ते प्रविरल-
दूर्वाङ्कुरान् कृच्छ्रादास्वादयन् दृष्टः । ततश्च समीपवर्त्तीना
भूत्वा तेन अभिहितः - "माम!नमस्कारोऽयं मदीयः सम्भा-
व्यतां चिरात् दृष्टोऽसितात कथय तत् किमेवं दुर्बलतां गतः?"
स आह,-"भो भगिनीपुत्र ! किं कथयामि,रजकोऽतिनिर्दयो-
ऽतिभारेण मां पीडयति,घासमुष्टिमाप न प्रयच्छति। केवलं दू-
र्वाङ्कुरान् धूलिमिश्रितान् भक्षयामि।तत्कुतो मे शरीरे पुष्टिः?"
शृगाल आह- "माम ! यदि एवं तदस्ति मरकतसदृशशष्प-
प्रायो नदीसनाथो रमणीयतरः प्रदेशः। तत्र आगत्य मया सह
सुभाषितगोष्ठीसुखमनुभवन् तिष्ठ । लम्बकर्ण आह- "भो
भगिनीसुत ! युक्तमुक्तं भवता परं वयं ग्राम्याः पशवोऽरण्य-
चारिणां वध्यास्तत् किं तेन भव्यप्रदेशेन " शृगाल आह-
"माम ! मैवं वद, मद्भुजपञ्जरपरिरक्षितः स देशः । तन्नास्ति
कस्यचित् अपरस्य तत्र प्रवेशः । परमेनैन एव दोषेण रजक-
कदर्थिताः तत्र तिस्रो रासभ्योऽनाथाः सन्ति । ताश्च पुष्टिमा-
पन्ना यौवनोत्कटा इदं मां ऊचुः-'यदि त्वं अस्माकं सत्यो
मातुलः तदा किञ्चित् ग्रामान्तरं गत्वा अस्मद्योग्यं कञ्चित
पतिमानय' । तदर्थे त्वामहं तत्र नयामि" । अथ शृगालवच-
नानि श्रुत्वा कामपीडितांगः तमवोचत् । "भद्र ! यदि एवं
तदग्रे भव, येन आगच्छामि । अथवा साधु इदमुच्यते-
[header]
भाषाटीकासमेतम् । (४१७)
[/header]
किसी स्थानमें करालकेशर ( कठिन गर्दनके वालवाला ) नामक सिंह रहता
था, उसका धूसरक नाम शृगाल सदा अनुगामी परिचारक था । एक समय
हाथीके साथ युद्ध करते उसके शरीरमे कठिन प्रहार पडगयेथे जिनसे एक
पगभी चलनेको समर्थ नहीं था । उसके असमर्थ होनेसे वह धूसरक भी भूखसे
व्याकुलकण्ठ दुर्बलतताको प्राप्त होगया और किसी दिन उससे बोला- "स्वामिन् !
मैं भूखसे व्याकुल हो एक पगभी नहीं चल सकता । सो किस प्रकार तुम्हारी
शुश्रूषा करू" सिंह बोला- "भो ! जाकर कोई जीव ढूंढ जिससे इस अवस्थाको
प्राप्त हुआ भी उसे मारू" । यह सुन शृगाल खोज कर्ता किसी समीपवर्ती
ग्राममे प्राप्त हुआ । वह लम्बकर्ण नामवाला गधा सरोवरके समीप लम्बायमान
दूर्वादलके अंकुरोंकू कृच्छ्र ( कष्ट ) से खाता हुआ देखा । तब समीपवर्ती होकर
उसने कहा- "मामा ! हमारा नमस्कार ग्रहण करो, बहुत दिनोंसे देखा है कहो
क्यो ऐसे दुर्बल हो रहे हो ?" वह बोला "भो भान्जे ! क्या कहू यह निर्दयी
धोबी अति बोझसे मुझको पीडा देताहै मुट्ठीभर घासभी नही देता । केवल
धूरिमिले दूर्वाङ्कुर भक्षण करता हू तो कहासे मेरे शरीरमे पुष्टि होगी" । शृगाल
बोला- "जो ऐसा है तो मरकतमणीकी समान शष्प ( घास ) वाला नदीके
किनारे मनोहर स्थान है। वहा आकर मेरे साथ सुभाषित गोष्ठीका सुख अनुभवकर
स्थित हो" । लम्बकर्ण बोला,- "भो भान्जे ! ठीक कहा तुमने । परन्तु हम
ग्राम्य पशु वनचारियोंके वध्य हैं सो उस मनोहर स्थानसे क्या है " शृगाल
बोला- "मामा ! ऐसा मत कहो वह देश मेरे भुजपजरसे रक्षित है । सो
वहा किसी औरका प्रवेश नहीं है किन्तु इसी दोषसे रजकसे क्लेशित हुई तीन
गधी अनाथा वहा और भी हैं । वे पुष्टिको प्राप्त हुई जवानीसे उत्कट मुझसे
यों बोलीं - "जो तू हमारा सत्य मामा है तो-किसी ग्रामान्तरमें जाकर हमारे-
योग्य किसी स्वामीको लाओ" । उस कारण मैं तुमको वहा लिये जाता हू" ।
तब शृगालके वचन सुन कामसे पीडित अग हो उससे बोला- "भद्र ! जो
ऐसा है तो आगे हो जिससे मैं वहा पहुचू । अथवा अच्छा कहा है-
नामृतं न विषं किञ्चिदेकां मुक्ता नितम्बिनीम् ।
यस्याः सङ्गेन जीव्येत म्रियेत च वियोगतः ॥ ३४ ॥
२७
( ४१८ ) पञ्चतन्त्रम् ।
( ४१८ ) पञ्चतन्त्रम् ।
एक स्त्रीको छोडकर कोई वस्तु अमृत और विष नहीं है जिसके संगसे
प्राणी जीता और वियोगसे मरता है ॥ ३४ ॥
तथाच-
और देखो-
यासां नाम्नापि कामः स्यात्सङ्गमं दर्शनं विना ।
तासां दृक्सङ्गमं प्राप्य यन्न द्रवति कौतुकम् ॥ ३५ ॥ ”
जिसका संगम व दर्शन तो दूर रहो नाम मात्रसेही कामके उद्रेक होता है
उस स्त्रीजनके दृष्टिको प्राप्त हो जो न द्रवै वह आश्चर्य है ॥ ३५ ॥ ”
तथानुष्ठिते शृगालेन सह सिंहान्तिकमागतः । सिंहोऽपि
व्यथाकुलितस्तं दृष्ट्वा यावत् समुत्तिष्ठति तावत् रासभः
पलायितुं आरब्धवान् । अथ तस्य पलायमानस्य सिंहेन
तलप्रहारो दत्तः। स च मन्दभाग्यस्य व्यवसाय इव व्यर्थतां
गतः ! अत्रान्तरे शृगालः कोपाविष्टस्तमुवाच-“भोः ! किं
एवंविधः प्रहारस्ते यद्गर्दभोऽपि तव पुरतो बलाद्गच्छति ।
तत्कथं गजेन सह युद्धं करिष्यसि ? तद् दृष्टं ते बलम्”। अथ
विलक्षस्मितं सिंह आह-“भोः ! किमहं करोमि। मया न
क्रमः सज्जीकृत आसीत् । अन्यथा गजोऽपि मत्क्रमाक्रान्तो
न गच्छति” शृगाल आह-“अद्यापि एकवारं तवान्तिके
तमानेष्यामि । परं त्वया सज्जीकृतक्रमेण स्थातव्यम्” ।
सिंह आह-“भद्र ! यो मां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथ-
मत्र आगमिष्यति । तदन्यत् किमपि सत्त्वमन्विष्यताम्” ।
शृगाल आह-“किं तव अनेन व्यापारेण त्वं केवलं सज्जित-
क्रमः तिष्ठ” । तथा अनुष्ठिते शृगालोऽपि यावत् रासभ-
मार्गेण गच्छति तावत् तत्रैव स्थाने चरन् दृष्टः । अथ शृगालं
दृष्ट्वा रासभः प्राह-“भो भगिनीसुत ! शोभनस्थाने त्वया
अहं नीतः, द्राक् मृत्युवशं गतः तत्कथय किं तत्सत्त्वम् ?
यस्य अतिरौद्रवज्रसदृशकरप्रहारात् अहं मुक्तः ” । तत
श्रुत्वा प्रहसन् शृगाल आह-“भद्र ! रासभी त्वां आयान्तं
भाषाटीकासमेतम् । ( ४१९ )
दृष्ट्वा सानुरागं आलिंगयितुं समुत्थिता । त्वं च कातरत्वात्
नष्टः सा पुनर्न शक्ता त्वां विना स्थातुमातया तु नश्यतः तेऽ-
वलम्बनार्थ हस्तः क्षितो न अन्यकारणेन, तत आगच्छ, सा
त्वत्कृते प्रायोपवेशना उपविष्टा तिष्ठति । एतत् वदति- "यत्
लम्बकर्णो यदि मे भर्त्ता न भवति, तत् अहमग्नौ जले वा
प्रविशामि, पुनस्तस्य वियोगं सोढुं न शक्नोमि"। तत्प्रसादं
कृत्वा तत्र आगम्यतामिति । नो चेत् तव स्त्रीहत्या भवि-
ष्यति । अपरं भगवान् कामः कोपं तव उपरि करिष्यति ।
उक्तञ्च-
ऐसा करनेपर शृगालके साथ सिंहके समीप आया। सिंह भी व्याकुल हो
उसे देख जबतक उठता है कि तबतक गधा भागने लगा । तब उस भागते
हुएके सिंहने पंजेका प्रहार किया वह मन्दभागीके उद्यमकी समान व्यर्थ होगया।
इसी समय शृगाल क्रोधित हो उससे बोला- "भो ! क्या आपका ऐसा प्रहार
है, जो गधा भी तुम्हारे आगेसे बलपूर्वक जाता है । सो हाथीके साथ कैसे
युद्ध करोगे ? सो देखलिया तुम्हारा बल" । तब लज्जित हो सिंह बोला,- "मैं
क्या करूं पहलेसे तयार नथा। नहीं तो हाथीभी मेरे पराक्रमसे न जाने पाता"।
शृगाल बोला- "अब भी एक बार उसे तुम्हारे पास लाऊंगा परन्तु तुम तयार
रहना" । सिंह बोला- "भद्र जो मुझे प्रत्यक्ष देखकर गया है वह फिर किस
प्रकार यहा आवेगा । सो और किसी जीवकी खोज करो" । शृगाल बोला-
"तुम्हें इस बातसे क्या, तुम केवल तयार रहो" ऐसा कहकर शृगालभी जबतक
गधेके मार्गसे जाने लगा । तब उसी स्थानमे उसे चरते देखा । तब शृगालको
देखकर गधा बोला- "भो भगिनीपुत्र ! अच्छे स्थानमे मुझे लेगये एक साथही
मृत्युको प्राप्त किया था । सो कह वह कौनसा जीव है ? जिसके अति कठिन
बज्रकी समान प्रहारसे मैं छुटा हू" । यह सुन हँसता हुआ शृगाल बोला- "भद्र !
वह गधी तुझे आया हुआ देख अनुरागसे आलिंगन करनेको उठी थी । तू
कातरतासे भाग गया अब वह तेरे बिना स्थित होनेको समर्थ न हुई । उसने
भागते हुए तुझे पकडनेको हाथ फैलाया था और कारणसे नहीं सो आओ। वह
तेरे बिना मरणके निमित्त बैठी है । और यों कहती है "जो लम्बकर्ण मेर,
( ४२० ) पञ्चतन्त्रम् ।
( ४२० ) पञ्चतन्त्रम् ।
स्वामी न होगा तो मैं अग्नि वा जलमें प्रवेश करजाऊंगी । कारण कि उसका
वियोग सहनेको मैं समर्थ नहीं हूं”। सो कृपाकर वहांको आओ । नहीं तो तुम्हें
स्त्रीहत्या होगी और भगवान् कामदेव तुमपर क्रोध करेंगे । कहा है-
स्त्रीमुद्रां मकरध्वजस्य जयिनीं सर्वार्थसम्पत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचिद्रक्तपटीकृताश्च जटिलाः कापालिकाश्चापरे ॥ ३६॥”
जो दुर्बुद्धि पुरुष कामके जीतनेवाली ध्वजा सब अर्थ और सम्पत्ति करनेवा-
लीको छोड़कर मिथ्या फल तपश्चर्या आदि करते हैं । वे उस कामनेही निष्ठुर-
तासे उन्हें मारकर कोई नंगे, कोई मुंडित, कोई लालवस्त्रवाले, कोई जटाधारी,
कोई कपाली करदिये हैं ॥ ३६ ॥”
अथ असौ तद्वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह
प्रस्थितः । अथवा साधु इदमुच्यते-
तब यह उसके वचनको श्रद्धासे सुनकर फिर भी उसके संग गया, अथवा
अच्छा कहा है-
जानन्नपि नरो दैवात्प्रकरोति विगर्हितम् ।
कर्म किं कस्यचिल्लोके गर्हितं रोचते कथम् ॥ ३७ ॥
मनुष्य जानकरभी प्रारब्धसे निन्दित कर्म करता है नहीं तो संसारमें निन्दित
कर्म किसको अच्छा लगता है ॥ ३७ ॥
अत्रान्तरे सज्जितक्रमेण सिंहेन स लम्बकर्णो व्यापा-
दितः । ततस्तं हत्वा शृगालं रक्षकं निरूप्य स्वयं स्नानार्थं
नद्यां गतः । शृगालेनापि लौल्यौत्सुक्यात् तस्य कर्णहृदयं
भक्षितम् । अत्रान्तरे सिंहो यावत् स्नात्वा कृतदेवार्चनः
प्रतर्पितपितृगणः समायाति तावत् कर्णहृदयरहितो रासभः
तिष्ठति । तं दृष्ट्वा कोपपरीतात्मा सिंहः शृगालं आह-
“पाप ! किमिदमनुचितं कर्म समाचरितम् । यत् कर्णहृदय-
भक्षणेन अयमुच्छिष्टतां नीतः” । शृगालः सविनयमाह-
“स्वामिन् ! मा मा एवं वद । यत्कर्णहृदयरहितोऽयं रासभः
भाषाटीकासमेतम् । ( ४२१ )
आसीत् येन इह आगत्य त्वामवलोक्य भूयोऽपि आगतः” ।
अथ तद्वचनं श्रद्धेयं मत्वा सिंहः तेनैव सह संविभज्य निःश-
ङ्कितमनाः तं भक्षितवान् । अतोऽहं ब्रवीमि-
इसी समय तयार बैठे सिंहने लम्बकर्णको मारडाला तब उसे मार उसकी
रक्षामें शृगालको निरूपण करके स्वय स्नान करनेके निमित्त नदीको गया । शृगा-
लनेभी चपलता को और उत्कंठासे उसका कान और हृदय भक्षण किया, इसी
समय सिंहभी जबतक स्नान कर देवतार्चन करके पितृगणोंको तृप्त करके आया
तबतक कर्णहृदयसे रहित गर्दभको देखा । उसे देख क्रोधसे सिंह शृगालसे
बोला-“पापिष्ठ ! क्या यह तैने अनुचित कर्म किया जो कर्ण हृदयको भक्षण-
कर यह जूठा कर दिया” । शृगाल विनयपूर्वक बोला-“स्वामिन् ऐसा मत कहो !
यह गधा कर्ण और हृदयसे रहितही था, जिससे यहा आकरभी तुम्हें देखकर
फिरभी आया” । तब उसके वचनको सिंहने श्रद्धासे मानकर उसको विभाग कर
उसके साथ निःशक होकर भक्षण किया । इससे मैं कहता हू--
“आगतश्च गतश्चैव दृष्ट्वा सिंहपराक्रमम् ।
अकर्णहृदयो मूर्खो यो गत्वा पुनरागतः ॥ ३८ ॥”
“जो आकर और सिंहके पराक्रमको देखकर चला गया । परन्तु कर्ण और
हृदय रहित होनेके कारण वह मूर्ख फिर आया ॥ ३८ ॥”
तन्मूर्ख ! कपटं कृतं त्वया । परं युधिष्ठिरेणेव सत्यवच-
नेन विनाशितम् । अथवा साधु इदमुच्यते-
सो मूर्ख ! तैने कपट किया परन्तु युधिष्ठिरकी समान सत्य वचनसे नष्ट कर
दिया । अथवा यह अच्छा कहा है-
“स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्दधीः ।
स स्वार्थाद् भ्रश्यते नूनं युधिष्ठिर इवापरः ॥ ३९ ॥”
“जो मूढमति पाखण्डी मनुष्य स्वार्थको छोडकर सत्य कहता है वह युधिष्ठि-
रकी समान अवश्य स्वार्थसे भ्रष्ट होता है ॥ ३९ ॥”
मकर आह-“कथमेतत् ?” स आह-
मकर बोला-“यह कैसी कथा है ?” वह बोला--
( ४२२ ) पञ्चतन्त्रम् ।
( ४२२ ) पञ्चतन्त्रम् ।
कथा ४.
कस्मिंश्चित् अधिष्ठाने कुम्भकारः प्रतिवसति स्म । स
कदाचित् प्रमादादर्द्धभग्नघटकपरतीक्ष्णाग्रस्योपरि महता
वेगेन धावन् पतितः । ततः कर्परकोट्या पाटितललाटो
रुधिरप्लाविततनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्च
अपथ्यसेवनात् स प्रहारस्तस्य करालतां गतः कृच्छ्रेण
नीरोग्यतां नीतः । अथ कदाचित् दुर्भिक्षपीडिते देशे स
कुम्भकारः क्षुत्क्षामकण्ठः कैश्चित् राजसेवकैः सह देशान्तरं
गत्वा कस्यापि राज्ञः सेवको बभूव । सोऽपि राजा तस्य
ललाटे विकरालं प्रहारक्षतं दृष्ट्वा चिन्तयामास । "यद्वीरः
पुरुषः कश्चित् अयम् । नूनं तेन ललाटपट्टे सम्मुखप्रहारः”।
अतस्तं सम्मानादिभिः सर्वेषां राजपुत्राणां मध्ये विशेषप्र-
सादेन पश्यतिस्म । तेऽपि राजपुत्राः तस्य तं प्रसादातिरेकं
पश्यन्तः परमेर्ष्याधर्मं वहन्तो राजभयात् न किञ्चित् ऊचुः ।
अथ अन्यस्मिन्नहनि तस्य भूपतेः वीरसम्भावनायां क्रिय-
माणायां विग्रहे समुपस्थिते प्रकल्पमानेषु गजेषु सन्नह्यमानेषु
वाजिषु योधेषु प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः
प्रस्तावानुगतं पृष्टो निर्जने । "भो राजपुत्र ! किं ते नाम ? का
च जातिः ? कस्मिन् संग्रामे प्रहारोऽयं ते ललाटे लग्नः” । स
आह-“देव ! नायं शस्त्रप्रहारः । युधिष्ठिराभिधः कुला-
लोऽहं प्रकृत्या मद्गृहेऽनेककर्पराणि आसन् । अथ कदाचित्
मद्यपानं कृत्वा निर्गतः प्रधावन् कर्परोपरि पतितः । तस्य
प्रहारविकारोऽयं मे ललाटे एवं विकरालतां गतः”। तदा-
कर्ण्य राजा सत्रीडमाह- "अहो ! वञ्चितोऽहं राजपुत्रानुका-
रिणा अनेन कुलालेन । तत् दीयतां द्राक् एतस्य चन्द्राद्धैः”
तथानुष्ठिते कुम्भकार आह-"मा मा एवं कुरु । पश्य मे रणे
हस्तलाघवम्” राजा प्राह-"भोः सर्वगुणसम्पन्नो भवान् ।
तथापि गम्यताम् । उक्तञ्च-
भाषाटीकासमेतम् । (४२३)
किसी एक स्थानमें कुभार रहता था वह कभी प्रमादसे आधे टूटे घडेके
तीक्ष्ण कोरके ऊपर वेगसे धावमान होकर पतित हुआ । तब उस ठीकडेकी
कोरसे माथा फट जानेके कारण रुधिरसे लिप्त शरीर होकर कठिनतासे उठ अपने
घरको गया । तब अपथ्यसेवनसे वह प्रहार उसका अधिक होगया और कठिन-
तासे निरोगताको प्राप्त हुआ । तब एक समय दुर्भिक्षसे पीडित देशके होनेमें वह
कुंभार भूखसे व्याकुल कठ किन्ही राजसेवकोंके साथ देशान्तरमें जाकर किसी
राजाका सेवक हुआ । वह राजाभी उसके माथेमें तीक्ष्ण प्रहारका घाव देखकर
विचारने लगा 'यह कोई वीरपुरुष है । इससे माथेके सामने सम्मुख प्रहार सहन
किया है'। इस कारण उसको सम्मानादिसे सम्पूर्ण राजपुत्रोंके मध्य विशेषप्रसन्न-
तासे देखता । वेभी राजपुत्र उसकी अधिक प्रसन्नताको देखते हुए परम ईर्षा-
धर्मको वहन करते राजभयसे कुछभी न बोले । तब और दिन उस वीरसंभावना
(परीक्षा) करनेमें विग्रह होनेपर हाथियोंके कल्पित होनेमें और घोडोंके सज्जित
होनेपर तथा योद्धाओंके प्रकृष्ट सज्जित होनेपर उस राजाने प्रसङ्गसे प्राप्त हुए एका-
न्तमें उससे पूछा ।--"भो गजपुत्र ! तुम्हारा क्या नाम ? क्या जाती है ? किस
सङ्ग्राममें यह प्रहार तुम्हारे मस्तकमें लगा है ?" वह बोला--"देव ! यह शस्त्रप्रहार
नहीं है मैं युधिष्ठिर नामवाला कुभार हू । मेरे घरमे अनेक फूटे बर्तन थे, सो
एक समयमें मद्यपान करके निकला दौडता हुआ बर्तनोंपर गिरा उसके प्रहा-
रका विकार यह मेरे माथेमें विकरालताको प्राप्त हो गया है" । यह सुन राजा
लज्जित हो बोला--"अहो राजपुत्रका अनुकरण करनेवाले इस कुभारने मुझे
ठगलिया, सो अभी गलहस्त देकर इसे निकालदो" । ऐसा कहनेपर कुम्भकार
बोला--"ऐसा मत करो, रणमें मेरा हस्तलाघव देखो" । राजा बोला--"भो !
आप सर्वगुणसपन्न हो तो भी जाओ । कहा है-
शूरश्च कृतविद्यश्च दर्शनीयोऽसि पुत्रक ।
यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥ ४० ॥"
हे पुत्र ! तू शूर विद्यावान् और दर्शनीय है परन्तु जिस कुलमे उत्पन्न हुए
हो उसमें हस्ती नहीं मारे जाते ॥ ४० ॥
कुलाल आह--"कथमेतत् ?" राजा कथयति -
कुलाल बोला-"यह कैसी कथा है ?" राजा कहने लगा-
( ४२४ ) पञ्चतन्त्रम् ।
( ४२४ ) पञ्चतन्त्रम् ।
कथा ५.
कस्मिंश्चिद्देशे सिंहदम्पती प्रतिवसतः स्म, अथ सिंही
पुत्रद्वयमजीजनत् । सिंहोऽपि नित्यमेव मृगान् व्यापाद्य
सिंह्यै ददाति, अथ अन्यस्मिन्नहनि तेन किमपि न आसा-
दितम् । वने भ्रमतोऽपि तस्य रविरस्तं गतः। अथ तेन
स्वगृहं आगच्छता शृगालशिशुः प्राप्तः। तं च बालकोऽय-
मिति अवधार्य यत्नेन दंष्ट्रामध्यगतं कृत्वा सिंह्या जीवन्त-
मेव समर्पितवान् । ततः सिंह्या अभिहितं-“भोः कान्त !
त्वयानीतं किञ्चित् अस्माकं भोजनम्?”।सिंह आह-“प्रिये!
मया अद्य एनं शृगालशिशुं परित्यज्य न किञ्चित् सत्वमा-
सादितम् । स च बालोऽयमिति मत्वा न व्यापादितो विशे-
षात् स्वजातीयश्च । उक्तञ्च--
किसी स्थानमें एक शेर शेरनी रहतीथी । उस समय सिंहिके दो पुत्र उत्पन्न
हुए, सिंहभी नित्यही मृगोंको मारकर सिंहिको देता । तब एक दिन उसने
कुछ नहीं पाया । तब उसको अपने घर आते गीदडका बच्चा मिला । यह
बालक है यह निश्चय करके यत्नसे दाढोंके भीतर धारण करके सिंहिको जीताही
देता हुआ । तब सिंही बोली--“भो स्वामिन् ! तुम कुछ हमारा भोजन लाये?”।
सिंह बोला-“प्रिये ! आज इस शृगाल शिशुके सिवाय मुझे ओर कुछ नहीं
मिला है । इसे भी बालक समझकर न मारा कारण कि सजातीय है। कहा है--
स्त्रीविप्रलिङ्गिवालेषु प्रहर्त्तव्यं न कर्हिचित् ।
प्राणत्यागेऽपि सञ्जाते विश्वस्तेषु विशेषतः ॥ ४१ ॥
स्त्री, ब्राह्मण और बालक इनपर कभी प्रहार नहीं करना चाहिये प्राणत्या-
गभी हो तो भी विशेष कर विश्वासीपर तो प्रहार करेही नहीं ॥ ४१ ॥
इदानीं त्वं एनं भक्षयित्वा पथ्यं कुरु । प्रभातेऽन्यत
किञ्चित् उपार्जयिष्यामि”। सा प्राह--“भो कान्त ! त्वया
बालकोऽयं विचिन्त्य न हतः । तत् कथमेनमहं स्वोदरार्थे
विनाशयामि । उक्तञ्च--
[Page Header]
भाषाटीकासमेतम् । ( ४२५
तो इस समय तू इसको भक्षण करके पथ्य कर प्रातःसमय और कुछ
उपार्जन करूंगा”। वह बोली- “भो स्वामिन् ! जब आपने इसे बालक जान-
कर न मारा तो कैसे इसको मैं अपने उदरके निमित्त विनाश करू। कहाहै कि-
अकृत्यं नैव कर्त्तव्यं प्राणत्यागेऽपि संस्थिते ।
न च कृत्यं परित्याज्यं धर्म एष सनातनः ॥ ४२ ॥
प्राणत्याग होनेपरभी अकृत्य नहीं करना चाहिये और कृत्यको छोड़ना नहीं
चाहिये यह सनातन धर्म है ॥ ४२ ॥
तस्मात् मम अयं तृतीयः पुत्रो भविष्यति”। इत्येवमुक्त्वा
तमपि स्वस्तनक्षीरेण परां पुष्टिम नयत् । एवं ते त्रयोऽपि
शिशवः परस्परमज्ञातजातिविशेषा एकाचारविहारा बाल्य-
समयं निर्वाहयन्ति । अथ कदाचित् तत्र वने भ्रमन्
अरण्यगजः समायातः । तं दृष्ट्वा तौ सिंहसुतौ द्वौ
अपि कुपिताननौ तं प्रति प्रचलितौ यावत् तावत् तेन
शृगालसुतेन अभिहितम्,-“अहो ! गजोऽयं युष्मत्
कुलशत्रुः, तन्न गन्तव्यमेतस्य अभिमुखम्” । एवमुक्त्वा गृहं
प्रधावितः । तौ अपि ज्येष्ठबान्धवभङ्गान्निरुत्साहतां गतौ
अथवा साधु इदमुच्यते-
इससे मेरा यह तीसरा पुत्र होगा”। ऐसा कह उसको भी स्तनके दूधसे पुष्ट
करनेलगी । इस प्रकार वे तीनो बालक परस्पर अपनी जातिको न जाननेवाले
एक आचरण और विहारसे बाल समयको बिताते हुए । एक समय उस वनमें
घूमता हुआ वनचारी हाथी आया । उसे देख वे दोनोंही सिंहपुत्र क्रोधितमुख हो
उसकी ओर ज्योंही चले तबतक उस शृगालपुत्रने कहा-“अहो ! यह हाथी
तुम्हारे कुलके शत्रु हैं । सो इसके सन्मुख मत जाओ” ऐसा कह घरको भागा
व दोनों भी बड़े भाईके पलायन करनेसे निरुत्साह होकर गये। अथवा यह अच्छा
कहाहै-
एकेनापि सुधीरेण सोत्साहेन रणं प्रति ।
सोत्साहं जायते सैन्यं भग्ने भङ्गमवाप्नुयात् ॥ ४३ ॥