भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ४. अधिकरणम् ॥ ( १ ) अज्ञानां प्रतीयमानमपि नेतरेषां शास्त्रयोनित्वम् । कुतः? सू- ॐ ॥ तत्तु समन्वयात् ॥ ॐ ॥ ४ ॥ ( २ ) अन्वय उपपत्त्यादि लिङ्गम् । क्तमिति भावेन स्वाभिमतार्थं दर्शयति—शास्त्रमिति । कारणार्थकेन योनिशब्देन योग्यतया ज्ञेयसम्बन्धे प्रमाणमिति पर्यवस्यतीत्यभिप्रा येण 'योनिः प्रमाणं' इति व्याख्यातम् । 'अस्य' जगत्कारणस्य 'इ ति शास्त्रयोनि' इत्यनन्तरं तुशब्दोऽध्याहार्यः । अत एव गीताभाष्ये “इति तु शास्त्रयोनित्वं” इत्युक्तम् । तुरेवार्थः । तथा च—शास्त्रं योनिः प्रमाणं यस्य तच्छास्त्रयोनीत्येव शास्त्रयोनिपदार्थो ब्रह्म, न तु शास्त्र स्य योनित्यर्थः । परव्याख्यानं तूक्तानुपयुक्तमयुक्तं चेति टीकायामेव दूषितम् ॥ ३ ॥ ॥ इति शास्त्रयोनित्वाधिकरणम् ॥ ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे जगत्कारणस्य शास्त्रयोनित्वान्न लक्षणाति व्याप्तिरिति पूर्वाधिकरणफलाक्षेपपरिहारमुखेन तस्य लक्षणत्वसि द्धये विष्णोरेव जगत्कारणत्वेन शास्त्रगम्यत्वं नेतरेषामपीति समर्थ्य ते । पूर्वपक्षसूचनपूर्वकं सिद्धान्तमाह—अज्ञानामिति ॥ कर्तरि षष्ठीय म् । इतरेषां इति सम्बन्धे । समुच्चयार्थस्याप्येरुभयत्रान्वयः । प्रतीत्या आ गमोपलक्षणा वा । तथा च—न केवलं पाशुपताद्युक्तम्, किन्तु 'अज्ञानां' श्रुतितात्पर्यार्थाज्ञानिभिरापातः ज्ञायमानमपि न केवलं विष्णोः कि न्तु 'इतरेषां' रुद्रादीनामपि शास्त्रयोनित्वं, जगत्कारणत्वेन शास्त्रगम्य त्वं नेत्यर्थः । ननु प्रतीत्यादेरज्ञानमूलत्वादिकं परिकल्प्यान्येषां कारण तया शास्त्रयोनित्वाग्रहणे को हेतुरिति पृच्छति—कुत इति । प्रतीय मानमपीत्यनेनास्यान्वयः । तत्र हेतुकथनाय सूत्रमुपन्यस्यति—तत्त्वि ति । यत इत्यादौ ग्राह्यम् ॥ ( २ ) सूत्राक्षराणि व्याचष्टे—अन्वय इति ॥ अन्वीयते स्वार्थेन स म्बध्यते तत्परतया ज्ञायते शास्त्रं शब्दो वाऽनेनेत्यन्वयः उपपत्त्यादिता त्पर्यलिङ्गमित्यर्थः । सूत्रानुसारादेकवचनं समुदायाभिप्रायम् । तेन

[ अधि - ४. सू - ४. ] दीपिकासहितम्. ६३ ( ३ ) उक्तं च बृहत्संहितायाम्— चोपक्रमादीनां क्वचिदविरोधं सूचयति । आदिपदं श्रुतिलिङ्गवाक्य- प्रकरणस्थानसमाख्यानामपि ग्राहकम् । अत्र श्रुत्यादिषट्कं च ग्राह्य- मिति टीकोक्तेः । अत्र वाक्ये श्रुत्यादिषट्कमप्यादिपदेन ग्राह्यमिति हि तस्यार्थः । परन्तु श्रुत्यादीनामुपक्रमादिवत्तात्पर्यग्राहकत्वाभावादा- गमार्थमात्रनिर्णायकत्वात् नात्र तन्निदर्शकप्रमाणोक्तिः । अत एवो- त्तरत्र— श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा । स्थानं पूर्वे बलीयः स्यादेवमागमनिर्णये ॥ इति तत्रापि प्रमाणं वक्ष्यति । उक्तं हि प्रमाणलक्षणटीकायाम् “ उपक्र- मादीनां तात्पर्यलिङ्गत्वमेतेषां पुनरर्थ एवेति विशेषज्ञापनार्थो योगवि- भागः ” इति । न चैवं “ अत्र श्रुत्यादिषट्कं च ग्राह्यं ” इति टीकायां तात्पर्यग्राहकेष्वन्तर्भावोक्तिरयुक्तेति वाच्यम्, यतोऽत्रेत्यस्य समन्व- यशब्दार्थ इत्येवार्थो न तात्पर्यग्राहकेष्विति, ‘ आकाशस्तल्लिङ्गात् ’ ‘ शब्दादेव प्रमितः ’ ( ब्र.सू.१-१-२२,४-२४. ) इत्यादौ श्रुतिलिङ्गादि- भिरागमार्थनिर्णयदर्शनेन तेषामपि अन्वीयते शक्तिरूपसम्बन्धवत्तया ज्ञायते पदजातमेभिरितिव्युत्पत्त्या अन्वयशब्दार्थत्वौचित्यात् । न चो- पक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्तयः श्रुतिलिङ्गवाक्यप्रक- रणस्थानसमाख्याश्च तात्पर्यलिङ्गानीति ज्ञानपादीयसुधाविरोध इति वाच्यम्, अत्र शक्तेरपि संयोजनात् । अत एव चन्द्रिकायामुपक्रमादि- प्रमाणकः शक्तितत्पर्यलक्षणस्सम्बन्धः समन्वय इत्युक्तम् । अत्रादिप- दं श्रुत्यादीनामपि ग्राहकम् । व्युत्क्रमेणान्वयः । अनेनात्र बृहत्संहिता- वचनोदाहरणं वक्ष्यमाणस्य श्रुतिर्लिङ्गमिति वचनस्योपलक्षककमिति सूचितम् ॥ ( ३ ) कानि तान्युपपत्त्यादीनि कुत्र च लिङ्गानीत्यत आह—उक्तं चेति ॥ उपपत्त्यादीत्यनुषज्यते । न केवलमुपपत्त्याद्युक्तं निर्दिष्टं, किन्तु तज्ज्ञाप्यं चोक्तमिति चार्थः । अस्मदुक्तमुपपत्त्यादि लिङ्गं बृहत्संहिता- यामप्युक्तमिति वा । किमुक्तमित्यतस्तत्पठति—उपक्रमेति । प्रकरणा- दिरुपक्रमः तदन्त उपसंहारः । उपक्रमोपसंहारश्च तौ तथोक्तौ । अत्रोपक्रमोपसंहारतदैक रूप्याभ्यासापूर्वताफलार्थवादाश्चेति प्रमाण

उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ इति । ( ४ ) उपक्रमादितात्पर्यलिङ्गैः सम्यङ्निरूप्यमाणे तदेव [ शास्त्रगम्यम् । लक्षणोक्तेः प्रत्येकविवक्षया विशकलितावुपक्रमोपसंहारौ द्वौ समुदा- यविवक्षया उभयाविरोधलक्षणं एकार्थत्वलक्षणं वा तदैकरूप्यमपि पृथक्तात्पर्यग्राहकमनुसन्धेयम् । अत एव द्विवचनप्रयोगः । एकप्रका- रासकृदुक्तिरभ्यासः । प्राचुर्येण प्रमाणान्तरासिद्धार्थबोधकता अपूर्व- ता । फलवदर्थप्रतिपादकं फलम् । स्तुतिः, निन्दा, एककर्तृकोपाख्या- नरूपा परकृतिः, अनेककर्तृकोपाख्यानरूपः पुराकल्पश्च, अर्थवादः । उ- पपत्तिः युक्तिः । 'तात्पर्यनिर्णये' वाक्यतात्पर्यनिश्चये 'लिङ्गं' साध- नमित्यर्थः । यद्वा—निर्णेतव्ये तात्पर्ये साध्ये 'लिङ्गं'

[ अधि - ४. सू - ४. ] दीपिकासहितम्. ६५ ( ५ ) मां विधत्तेऽभिधत्ते मां विकल्प्योऽपोह्य इत्यहम् । खप्रमाणकत्वे हेतुरिति सूचितं भवति । न केवलमुपपत्त्यादिकं सम- न्वयशब्दार्थः, किन्तु तद्धेतुकः शास्त्रजन्यप्रमागोचरत्वरूपः शास्त्र- योनित्वे हेतुभूतः । “तत्परत्वसंबन्धोऽपि” इति सुधोक्तेः । अनेन ‘स- मन्वयात्’ सावकाशत्वनिरवकाशत्वादिना बलाबलनिश्चयपुरस्सरं अ- न्यतरबाधया वाक्यार्थविमर्शरूपसम्यग्विचारितत्वलक्षणसम्यक्त्व- युक्तादुपक्रमादिशक्तितात्पर्यलिङ्गसमुदायात्समन्वयात् सर्वशास्त्रस्य भगवत्येव सम्यग्वचनवृत्त्या शक्तितात्पर्याख्यसंबन्धावगमात् तद्वि- ष्ण्वाख्यं ब्रह्मैव जगत्कारणतया शास्त्रयोनि न रुद्रादीति ‘समन्वया- त्’ इत्यस्यावृत्त्या सूत्रयोजना दर्शिता भवति ॥ ( ५ ) ननु कर्मविधानादिरूपशास्त्रस्य कथं ब्रह्मपरतेत्याशङ्कां भ- गवद्वाक्येन प्रतिषेधति— मामिति ॥ यद्यपि भागवते “इत्यस्या हृदयं लोकः” इति पाठः, तथा पूर्वोत्तरार्धयोर्व्युत्क्रमेण पाठश्च दृश्यते । त- थाऽप्यार्योक्तेरन्यकल्पीयोऽयमित्यदोषः । एकादशस्कन्धे उद्धवं प्रति कृष्णवचनमेतत् । अत्रास्मच्छब्देन कृष्ण उच्यते । तथा च “वसन्ते वसन्ते” ( ) इत्यादि कर्मविधात्री श्रुतिः ‘मां’ उद्दि- श्यैव मत्पूजात्वेन कर्म विधत्ते । इन्द्राद्यभिधात्री ‘मामभिधत्ते’ मङ्गु- णानैश्वर्यादीनभिधत्ते । ‘अहं विकल्प्यः’ कल्पनं विधानं तथा च— ‘चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति’ (ऋ० १ - १६४ - ४५०) इति श्रुत्या या वाग्वक्तृत्वा॑न्निमित्ताद्वाक्शब्दि- तो हरिः तस्या यानि स्थानापेक्षया ‘परिमितानि’ परिच्छिन्नानि ‘च- त्वारि पदानि’ वासुदेवादि रूपाणि तानि ये मनीषिणः ब्राह्मणाः त एव विदुः । तत्र वाचो हृदयगुहायां निहितानि वासुदेवादि त्रीणि रू- पाणि ‘मनुष्याः’ साधारणाः ‘नेङ्गयन्ति’ न जानन्ति । ‘तुरीयं’ अ- निरुद्धाख्यं तु ‘वदन्ति’ जानन्तीत्येवंरूपेण अहमेव चतुष्ट्वसंख्यावि- शिष्टवासुदेवादि विविधरूपतया बहुत्वेन विधेय इत्यर्थः । ‘अहमपो- ह्यः’ ‘न सुरां पिबेत्’ (मनु० ११ - ९४.) इत्यादिवाक्येनाप्रियादति- शेषः । तथा च “निषेधबुद्धिविषयमप्रियं हि हरेः स्मृतम्” इति भागवततात्पर्योक्तेः सुरापानादिकं मदप्रीतिसाधनत्वात् निषिध्यते ९

६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन । इति भागवते ॥ ४ ॥ ५. अधिकरणम् ॥ ( १ ) ननु यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । [ ( तै. उ. २-४-१. ) इत्यप्रियद्वारा ‘ न सुरां पिबेत् ’ इत्यादीना अहमेव निषेध्य इत्यर्थः । अथवा—अहमप्रियादपोह्यः ममाप्रीतिकरात्सुरापानशब्दितात् “सुरा हरेर्गुणा मे स्युः” इति चिन्तनात्तदपेक्ष्य अपोह्यो निषेध्य इत्यर्थः । तदुक्तं भागवततात्पर्ये—विधिरूपत्वेन कल्पनं विकल्पः चत्वारि वागित्यादि । तत्र वागित्‍यनुवादः । विधिभागे हरेः पूजैवाभिधाने च तद्गुणाः । विकल्पे तद्बहुत्वं चाप्यपोहे तु तदप्रियम् । उच्यते सर्ववेदेषु तच्च वेद स एव हि ॥ इति । तथा— सुरा हरेर्गुणाः प्रोक्तास्ते मे स्युरिति चिन्तनम् । सुरापानमिति प्रोक्तं तन्न कुर्यात्कथं चन ॥ इति । तत्त्वप्रदीपे तु-‘द्वे वाव ब्रह्मणो रूपे’ इति विकल्प्य विविधं कल्पयित्वा ‘ तत्र यस्स आत्मा’ ( तलवकारब्राह्मणम् ) इति सदोषादपोह्यो नि र्दोषत्वेन विधेयोऽप्यहमेवेत्यर्थः उक्तः । अत्र तत्त्वप्रदीपपक्षे विकल्प्ये ति ल्यप् । टीकाकृत्पक्षे तु विकल्प्यशब्दस्समासान्तर्गतो व्यस्तो वेति विशेषः। इयं च भगवति वाक्यसमन्वयरीतिः—आद्यस्य इतिशब्दस्य प्रकारार्थस्य हृदयमित्यनेनान्वयः । द्वितीयस्य एवंभूताया इत्यर्थः । तथा च ह्येवंभूताया विधिनिषेधादिरूपाया अन्यपरत्वेन प्रतीताया श्चास्याश्श्रुतेरिति ‘ मां विधत्ते ’ इत्याद्युक्तप्रकारेण ‘ हृदयं ’ तात्पर्यं ‘ अहमेव वेद ’ जानामि ‘ मदन्यः कश्चन ’ कोपि विशेषतः प्रायः न वेद न जानातीत्यर्थः । भागवत इत्यनन्तरं तदेव शास्त्रगम्यमित्युक्त त्वात् न कथमितिशङ्कावकाश इति वाक्यशेषः ॥ ४ ॥ ॥ इति समन्वयाधिकरणम् ॥ —:::— ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे संशब्द्योक्तं वाच्यत्वं कात्स्न्र्येन चाक्षिप्य समा धीयते । पूर्वपक्षयति—नन्विति ॥ ‘ इत्यादिभिश्चश्रुतिभिः ’ इति तृती

[ अधि - ५, सू - ५. ] दीपिकासहितम्. ६७ ( २ ) 'अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च [ यत् ' । ( कठ. ३ - १५. ) ( ३ ) 'अवचनेनैव प्रोवाच' ( बाष्कलश्रुतिः. ) या पञ्चम्यर्थे । नेत्याद्यावर्तते । तथा च 'तत्' पूर्वसूत्रे तच्छब्दोक्तं ब्रह्म शब्दगोचरं शास्त्रोक्तं कारणं न, कुतः? यतो न शब्दगोचरं शास्त्र मुख्यार्थः न, तदपि कुतः ? यतो न शब्दगोचरं शब्दावाच्यं, नचेक्षणीय त्वविरोधः तदसिद्धेः । कुतः ? यतो न तद्गोचरं ज्ञानविषयः न, अज्ञेयमिति यावत् । न चावाच्यत्वाज्ञेयत्वयोरसिद्धिः । “यतो वाचो निवर्तन्ते” इत्यादि श्रुतेरिति योजना । 'यतो वाचः' इति वाक्ये अवाच्यत्वस्य 'अप्राप्य मनसा सह' इत्यज्ञेयत्वस्य च उक्तत्वादिति भावः । “त्रयी न श्रुतिगोचरा” इत्यत्र गोचरशब्दस्य विशेष्यलिङ्गतया प्रयोगात् 'न तच्छब्दगोचरम्' इति साधु । सुधायां तु शब्दानां गवां ज्ञानानां चर श्चरणं वृत्तिर्यस्मिन् तच्छब्दगोचरमिति व्यधिकरणबहुव्रीहिं चरश्च रणमस्यास्तीति मत्वर्थीयाच्प्रत्ययान्तत्वं चाश्रित्य शब्दगोचरमित्यस्य साधुत्वमुक्तम् । 'यतः' इति तैत्तिरीयवाक्यम् । यतो 'वाचो' वेदा वा गिन्द्रियाणि च 'मनसा' मनोरूपेन्द्रियेण सह 'तमप्राप्य' तद्विषय कवत्तिज्ञानमजानन्त्य एव निवर्तन्ते । तं ब्रह्मण आनन्दं विद्वान्न बिभेति इत्यर्थः । गुणगुणिनोरभेदाश्रयेणैतदुदाहृतम् ॥ ( २ ) 'अशब्दम्' इति काठकवाक्यम् । अत्र सर्वत्र यच्छब्दो योज्यः । न विद्यते शब्दो गुणः प्रमाणं वा यस्मिंस्तत्तथोक्तम् । प्राक्त नशब्दगुणशून्यं शब्दप्रमाणाविषयः शब्दभिन्नं चेत्यर्थः । 'अस्पर्श' स्पर्शगुणशून्यं तत एव स्पर्शालिङ्गाविषयः तद्भिन्नं च, 'अरूपं' स्वरू परहितं अत एव चाक्षुषप्रत्यक्षाविषयस्तद्भिन्नं च । 'अरसं' रसगुण शून्यं रसभिन्नं च । अगन्धमित्यस्याप्युपलक्षकमेतत् । अनेन पञ्चमा त्राविलक्षणत्वमप्युक्तम् । 'अव्ययं नित्यम्' इत्याभ्यां स्वरूपतो देहत श्च नाशशून्यत्वमुच्यते । अगन्धवदित्यनेन गन्धवत्पृथिवीविलक्षणत्व मुक्तम् । अनेनोपलक्षणया पञ्चमहाभूतविलक्षणत्वमप्युक्तं भवति । अ स्य 'निचाय्य तं मृत्युमुखात्प्रमुच्यते' इत्यनेनान्वयः ॥ ( ३ ) 'अवचनेन' इत्यन्यच्छ्रुतिवाक्यम् । 'अवचनेन' वचनवृ

tail! It IS an ! Wait, why would it be इश्रुतिभिः? Because line 3 ended with इत्यादिभि, and the typesetter mistakenly repeated at the start of line 4, making इश्रुतिभिः, OR it was broken from इत्यादिभिः -> wait, could line 3 be इत्यादिभि and line 4 ? No, line 3 has इत्यादिभि. Wait, look at line 4 again: Could it be द्भिः? No. It is literally printed as इश्रुतिभिः! Wait, let's look closer at line 4: Could it be श्श्रुतिभिः? Wait, look at श् in तच्छब्दगोचरम् (line 4) - च्छ. Look at श् in श्रोत्रम् (line 3). Look at in इत्यादिभि (line 3). The letter in line 4 is: ! Yes, it is printed as इश्रुतिभिः.

Let's check line 15: (५) सिद्धान्तयत्सूत्रमवतारयति - नेति ॥ इतिशब्द आवर् Wait, at the end of line 15: आवर् followed by त्य? Notice the letter:

‘ आत्मन्येवात्मानं पश्येत्’ ( बृ. ६-४-२३. ) ‘विज्ञाय प्रज्ञां कुर्वीत ’ ( बृ. ६-४-२१. ) इत्यादिवचनैरीक्षणी यत्वाद्वाच्यमेव । ( ६ ) औपनिषदत्वान्नावचनेनेक्षणम् । न ‘ परात्परं ’ उत्तमादुत्तमं ‘पुरिशयं’ सकलदेहान्तर्गतं ‘पुरुषं ’ पूर्णं वासुदेवं परमात्मानं ‘ ईक्षते ’ जानातीत्यर्थः । यद्यपि षट्प्रश्नटीकायां “जीवघनाद्विरिञ्चात्तदुपासनयेति यावत्, ईक्षते पुनरभिबुद्धज्ञानो भ वति । ईक्षित्वाच तं प्राप्नोति ” इत्युक्तेरीक्षतेरपरोक्षज्ञानार्थत्वं प्रतीय ते । तथाऽपि मूले ज्ञानसामान्यविषयत्वरूपेक्षणीयत्वहेतोरसिद्धिपरि हाराय अस्याः श्रुतेरुपन्यस्तत्वात् “ हिरण्यगर्भोपदेशेन ” इति टी कोक्तेश्चेह प्रकृतानुगुण्यादीक्षतिः परोक्षज्ञानार्थो व्याख्येयः । ‘ आत्म नि ’ इत्यपरं काण्ववाक्यं जिज्ञासा नये व्याकृतम् । ‘विज्ञाय ’ इत्य न्यद्वाजसनेयवाक्यम् । ‘ब्राह्मणो ’ ब्रह्मनिष्ठो धीरः ‘तं ’ परमात्मानमे वं शास्त्रेणाचार्याद्वा ‘विज्ञाय ’ परोक्षतो ज्ञात्वा ‘प्रज्ञां ’ प्रकृष्टमपरोक्ष ज्ञानं ‘कुर्वीत’ सम्पादयेदित्यर्थः । इत्यादीति । एवमादिवाक्यैरित्यर्थः । आदिशब्देन “ आत्मा वा अरे द्रष्टव्यः ” ( बृ. उ. २-४-५. ) “ अज आत्मा महान् ध्रुवः” ( बृ. उ. ४-४-२०. ) “ तमेव धीरो विज्ञाय ” (बृ. उ. ४-४-२१. ) इत्यादिकं गृह्यते । ईक्षणीयत्वात् । अवगमोपलक्ष कमेतत् । अन्यथाऽनन्वयात् । अनेनासिद्धिः परिहृता । तदन्यथाऽनुपप त्तेरिति शेषः । वाच्यमेवेति सौत्रनञ्द्वयलब्धार्थोक्तिः । न त्ववाच्यं नापि लक्ष्यमिति एवशब्दार्थः । तादर्थ्येनास्यान्वयः । आनन्तर्यसूचनाय सूत्रभाष्ययोः प्रतिज्ञाहेत्वोर्व्युत्क्रमेणोक्तः ॥ ( ६ ) नन्वस्त्वीक्षणीयत्वं ब्रह्मणः, तथाऽपि न तदन्यथाऽनुपपत्त्या तस्य वाच्यत्वं वाच्यं प्रत्यक्षादिनाऽपीक्षणीयत्वोपपत्तेरित्यत आह— औपनिषदत्वादिति ॥ तदित्येतद्विपरिणम्यानुवर्तते । तथा च ‘तस्य’ ब्र ह्मणः ‘औपनिषदत्वात्’ उपनिषदेकसमधिगम्यत्वात् ‘अवचनेन ’ वचनेतरप्रमाणेन ‘ईक्षणं’ ज्ञानं नेत्यर्थः । तथा च श्रुतिस्मृतिसाहाय्य रहितप्रत्यक्षाद्यवेद्यत्वविशिष्टेक्षणीयत्वान्यथाऽनुपपत्या ब्रह्मणो वा च्यत्वं सिद्ध्यत्येवेति भावः । परिशेषप्रमाणपरतया वा इदमावृत्य व्या ख्येयम् । योजना तु—ब्रह्मणश्श्रुतिषूक्तं ईक्षणं प्रमाणेनैव हि भवेत् । प्र

७० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ७ ) 'सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वद- न्ति' । ( कठ. २-१५० ) वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । ( भ. गी. १५-१५० ) इत्यादिश्रुतिस्मृतिभ्यश्च । ( ८ ) अवाच्यत्वादिकं त्वप्रसिद्धत्वात् । सर्वप्रमाणेषु च 'नावचनेन' वचनेतरप्रमाणेनेक्षणं सम्भवति औप- निषदत्वाद् वचनेनैव भवदीक्षणं नावचनेन वचनवृत्त्यन्यलक्षणादि- ना सम्भवति । कुतः ? 'अवचनेन' भावप्रधानो बहुव्रीहिः । अवचन- त्वेनावाच्यत्वेन निमित्तेन अतः परिशेषादीक्षणं वाच्यत्वमेव साध- यतीति ॥ ( ७ ) ननु श्रुतिसिद्धमवाच्यत्वं कथमीक्षणीयत्वयुक्तिमात्रेण दू- ष्यते ? 'प्राबल्यमागमस्यैव' इति युक्तितः श्रुतेः प्राबल्योक्तेरित्यतः सौत्रो हेतुरागमोपलक्षक इति भावेन वाच्यत्वे श्रुतिस्मृती चाह— सर्वे इति ॥ कठानामियं श्रुतिः । सर्वे वेदा 'यत्पदं' यस्य ब्रह्मणः स्व- रूपं 'आमनन्ति' मुख्यवृत्त्या सतात्पर्यं प्रतिपादयन्ति । सर्वे वेदाः स- र्वाणि तपांसि प्रसिद्धानि 'यन्' ब्रह्म प्रति 'वदन्ति' तदुद्देशेन कर्त- व्यानीति बोधयन्तीत्यर्थः । तत्त्वप्रदीपरित्या 'तपांसि' आलोचनरूपा युक्तय इति वा । सर्वैर्वेदैरहमेव 'वेद्यो' मुख्यतः प्रतिपाद्यः । अहं 'वेदान्तकृत्' ब्रह्मसूत्रकृत् 'वेदवित्' वेदार्थज्ञानी चेति गीतास्मृत्य- र्थः । आदिपदात् 'अथ कस्मादुच्यते' 'नामानि सर्वाणि' 'वचसां वाच्यमुत्तमम्' इत्यादेस्सङ्ग्रहः । तथाच श्रुतौ 'आमनन्ति' इति सा- क्षाद्वाच्यत्वोक्तेः, स्मृतौ च 'अहमेव' इत्यवधारणोपपत्तये मुख्यतया वेद्यत्वस्य विवक्षणीयत्वात् तस्य च वाच्यत्वं विनाऽयोगात्सर्वशब्द- लक्षणायाश्चासम्भवाद्वाच्यत्वमेवाभ्यां सिद्ध्यतीति भावः । स्मृतिभ्य श्चेत्यस्य वाच्यमेवेत्यनेनान्वयः । आदिशब्दोपात्त श्रुतिस्मृत्यपेक्षया ब- हुवचनम् । न केवलमीक्षणीयत्वहेतोरिति चार्थः ॥ ( ८ ) नन्वेवं वाच्यत्वस्य युक्त्यादिसिद्धत्वे अवाच्यत्वाज्ञेयत्वा- विधायकोदाहृतश्रुतेः 'यतो वाचः' इत्यादिरूपायाः का गतिरित्यत आह—अवाच्यत्वादिकमिति ॥ अज्ञेयत्वमतर्क्यत्वं च आदिशब्दार्थः ।

[ अधि - ५. सू - ५. ] दीपिकासहितम्. ७१ (९) न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते । पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चितः । इतिवत् ॥ (१०) अप्रसिद्धेरेवाच्यं तद्वाच्यं सर्वागमोक्तितः । अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमेवं परं स्मृतम् ॥ इति गारुडे । (११) न चाशब्दत्वमितरसिद्धम् ॥ तुशब्दः शङ्काव्यावर्तकः । भिन्नक्रमेणावधारणे वा । तथा च 'अप्रसि द्धत्वात्' साकल्येन अगोचरत्वान्निमित्तादेव ब्रह्मणि 'अवाच्यत्वादि कं' अवाच्यत्वादिव्यपदेशो युज्यत इति न तद्विरोध इति भावः । अनेन सिद्धान्ते 'अशब्दम्' इत्यादेरप्रसिद्धत्वात्साकल्येन वाचकश ब्दशून्यमित्यादिरर्थः । 'अवचनेनै' इत्यस्य तु साकल्येन वचनमन्तरे णेत्यर्थ इत्युक्तं भवति ॥ (९) नन्वप्रसिद्धिनिमित्तकोऽवाच्यत्वादिव्यपदेशः क्व दृष्ट इत्य त आह-न तदिति॥ यस्मात् 'विपश्चितो' ज्ञानिनो मेरो रूपं पश्यन्तोऽ पि 'ईदृगिति' साकल्येन 'न पश्यन्ति' न जानन्ति । अनेनाप्रसिद्धत्वहेतुः सूचितः। तस्मान्मेरो रूपं न ज्ञेयं प्रत्यक्षेण। न वाच्यं शब्देन। 'न तर्क्यते' नानुमीयते च लिङ्गेनेत्युच्यत इत्यर्थः । इतिवदिति । इति वाक्य इवे त्यर्थः। अस्यावाच्यत्वादिकमिति पूर्वेणान्वयः। तथा च यथा मेरुरू पे अप्रसिद्धिनिमित्तकावाच्यत्वादिव्यपदेशस्तथा ब्रह्मण्यपीति भावः । (१०) न केवलं 'पश्यन्तः' इत्युक्तस्यान्यथाऽनुपपत्तिमात्रेणैव अप्र सिद्धेरज्ञेयत्वातर्क्यत्वावाच्यत्वव्यपदेश इति व्यवस्था सिद्धा, अपि तु स्मृतिसिद्धा चेति भावेनाह-अप्रसिद्धेरिति ॥ तद्ब्रह्म यतः 'परं' पूर्ण अतस्साकल्येनाप्रसिद्धत्वादवाच्यमुच्यते । सर्वे सदागमोक्तत्वा त्तप्रसिद्धत्वाद्वाच्यं च भवतीत्यर्थः । एवमप्रसिद्धिप्रसिद्धिभ्यां तत् अतर्क्यं अनुमेयं च अज्ञेयं ज्ञेयं ज्ञानिप्रत्यक्षगम्यं च 'स्मृतं' स्मृति कारैरुक्तमित्यर्थः । गारुडे इत्यनन्तरं उक्तमिति शेषः। अस्याप्यवा च्यत्वादिकमित्यनेनान्वयः ॥ (११) एवं 'यतो वाचः' इत्यादिश्रुतीनां युक्त्यादिबलादर्थान्त रोपपत्तेर्न तद्बलाच्छब्दावाच्यं ब्रह्मेति सूत्रं व्याख्यायापव्याख्यां प्रत्या ख्याति-न चेति ॥ चशब्दः स्वसिद्धमपि नेतिसमुच्चये । तथा च जग त्कारणं 'अशब्दं' प्रधानं न, कुतः ? अशब्दं हि तत् । 'अशब्दं' प्रधा

७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( १२ ) सू—ॐ ॥ गौणश्चेन्नात्मशब्दात् ॥ ॐ ॥ ६ ॥ ( १३ ) न च गौण आत्मा दृश्यो वाच्यश्च न निर्गुण इति यु क्तम् । आत्मशब्दात् । नं कारणं नेति वा, कुतः? ईक्षतेः 'तदैक्षत' इति जगत्कारणस्येक्षणक र्तृत्वश्रवणात्प्रधानस्य चाचेतनत्वेन तदसम्भवादिति साङ्ख्यमतनि राकरणपरतया व्याख्याने प्रथमप्रतिज्ञायां हेतूकृतं 'अशब्दत्वं' अश्रौ तत्वं 'इतरसिद्धं' स्वेतरसाङ्ख्यसिद्धं न, न केवलमेतावत्, किन्तु स्वसिद्धमपि न, साङ्ख्येन वैदिकत्वाभ्युपगतेः । सूत्रकारेण 'अजामे कां' (तै. आ. १०-१०-१०) इत्यादिश्रुत्युक्तत्वाङ्गीकारात् । यद्वा—तत्त्वप्रदीपरीत्या मायिना साङ्ख्यं प्रति हेतुत्वेनोपन्यस्त मशब्दत्वं मायीतरस्य साङ्ख्यस्य न सिद्धं नापि साङ्ख्येतरमायिसिद्ध मुक्तहेतुभ्यामेव। तथा चासिद्धिरिति न तद्व्याख्यानं युक्तमितिभावः । एवमशब्दत्वं श्रौतत्वं ब्रह्मणस्साङ्ख्येतरमायिसिद्धं न, तन्मते अवाच्य त्वात् । चकारादीक्षितृत्वमपि सिद्धं न, तस्येक्षतिस्वरूपत्वादित्यपि व्याख्येयम् । तथा च हेतुद्वयमपि स्वपक्षप्रतिकूलमिति न परव्याख्या युक्तेति भावः । तत्त्वप्रदीपे तु 'न च' इत्यादिभाष्यं 'इतरसिद्धं' मा यिसिद्धमशब्दत्वं न श्रुत्यर्थः उक्तन्यायेन ब्रह्मणो वाच्यत्वात् । एवं 'अशब्दत्वं' अवाच्यत्वं ब्रह्मण इतरस्य मायिनोऽपि न सिद्धम् । ब्रह्म णि व्यवहाराभावप्रसङ्गात् इति द्वेधा व्याख्याय परकृतव्याख्याप्रत्या ख्यानाय परोक्तहेतोष्टीकारीत्याऽसिद्ध्युक्तिपरतयाऽपि व्याख्यातम् ॥५॥ ( १२ ) ईक्षणीयत्वस्य हेतोर्व्यधिकरणासिद्धिमाशङ्क्य समाधातुं सूत्रम्—'ॐ गौणश्चेन्नात्मशब्दात्' इति ॥ अस्यार्थः—यतः 'आत्म न्येवात्मानं पश्येत्' इत्यादिश्रुत्युक्त आत्मा 'गौणः' सत्त्वादिगुणबद्धो जीव एवातस्तदन्यथाऽनुपपत्त्या वाच्योऽपि स एव स्यान्न निर्गुणः प रमात्मेति चेत्-न कुतः? 'आत्मानं पश्येत' इतीक्षणीये तस्मिन्नात्मशब्द श्रवणादिति । आत्मपदसामानाधिकरण्याय पुल्लिङ्गनिर्देशः ॥ ( १३ ) सूत्रं व्याचष्टे—न चेति ॥ अत्र यतो ' दृश्यः' ईक्षतिश्रुतौ दृश्यतयोक्तः 'आत्मा' जीवाख्यो गौण एव अतस्तदन्यथानुपपत्त्या वाच्योऽपि स एव स्यात् 'न निर्गुणः' गुणातीतो विष्णुः 'दृश्यः' ईक्षतिश्रुत्युक्तः । गौणग्रहणे बाधकस्येतरज्ञापकस्य चाभावादिति

[ अधि - ५. सू - ६. ] दीपिकासहितम्. ७३ ( १४ ) यो गुणैस्सर्वतो हीनो यश्च दोषविवर्जितः । हेयोपादेयरहितः स आत्मेत्यभिधीयते । एतदन्यस्वभावो यः सोऽनात्मेति सतां मतम् । अनात्मन्यात्मशब्दस्तु सोपचारः प्रयुज्यते । इति वामने । ( १५ ) ' द्वे वाव ब्रह्मणो रूपे आत्मा चैवानात्मा च । तत्र यः भावः । अतो न स वाच्यः इति चोद्यं न युक्तम् । कुतः ? ' आत्मश- ब्दात् ' ' आत्मन्येव ' इति वाक्ये ईक्षणीये तस्मिन् आत्मशब्दश्रवणा- दृश्यो निर्गुण एव, अत एवैक्षत्या लिङ्गेन वाच्योऽपि स एव भवेदिति योजना । यद्यपि सुधायां गौणपदं मायाशबलितैश्वर्यादिधर्मयुक्तसगु- णब्रह्मपरतया व्याख्यातः तथाऽपि पूर्वपक्षिणो मायाशबलितं वा गु- णबद्धा जीवा वा दृश्या वाच्याश्च, न सर्वथा निर्गुणं ब्रह्मेत्याशयान्न विरोधः ॥ ( १४ ) नन्वात्मशब्दसद्भावे कुतोऽयं निर्गुणो न गौण इत्यत आह— य इति ॥ यः ' सर्वतः ' प्रकारेण 'गुणैः' सत्त्वादिभिः शून्यः यश्च दुः- खादिदोषरहितः यश्च हेयोपादेयरहितः । भावप्रधानोऽयम् । हेयत्व- सहितोपादेयत्वरहित इति । उपादेय एवेत्यर्थः । तत्त्वप्रदीपरित्या स्वाभाविकदोषरहितो गुणपूर्णत्वेनाप्तकात्वाद्युपादेयरहित इति वा । तत्त्वोद्योतटीकारीत्या दोषाभावाद्धातुरभावाद्वा हेयत्वरहितः, लौकिकगुणाभावादुपादातुरन्यस्य स्वतन्त्रस्याभावाद्वा उपादेयत्वर- हितः अनिष्टाभावाद्धेयं नास्ति, अपूर्त्यभावादुपादेयमस्य नास्तीति वा तथोक्तः । य एवं भूतस्स आत्मेत्यभिधीयते । य एतद्विरुद्धस्वभा- ववान् सोऽनात्मेति सतां ' मतं ' सम्मतमित्यर्थः । क्वचित् ' हृदि ह्येष आत्मा ' इत्यादावेतदन्यस्वभावेऽप्यात्मपदप्रयोगात् कथं सोऽना- त्मेत्यत आह—अनात्मनीति । ' अनात्मनि ' आत्मशब्दमुख्यार्थभिन्ने जीवे ' आत्मशब्दः ' ' सोपचारः ' उपचारः परममुख्यवृत्त्यन्यमुख्यवृ- त्तिः तत्सहितस्तद्वृत्तिक इत्यर्थः । तुशब्दो विशेषार्थः । ' वामने ' इत्य- नन्तरं ' निर्गुणैकनिष्ठत्वेनोक्तत्वात् ' इति शेषः । अस्य नायं दृश्यो वा च्यश्च गौणः, किन्तु निर्गुण एवेत्यनेनान्वयः ॥ ( १५ ) अत्रैव प्रमाणान्तरमाह—द्वे वावेति ॥ ' ब्रह्मणः ' परब्रह्मणः रूपं च रूपं च रूपे । तत्राद्यो रूपशब्दः स्वरूपपरः द्वितीयो रूप्यते १०

? with an anusvara? Or is it? Wait, let's look at line 14 again: तां म्म ता मं ल्ये र्थः? Wait, does त्यhave an e-matra? Look aboveत्य: YES! There is a slant line going up to the left! That's an e-matra! Wait, an e-matra on त्यmakes itत्ये? No, wait! Is the e-matra on त्यor on the letter before it? Wait! Could the word be: सतां सम्मतान्वय्यर्थः? No. सतां सम्मतामेत्यर्थः? Wait, what if it is: सतां सम्मतामित्यर्थः? Let's look at the character: तां म्म ता मं त्य र्थः Wait, let's look at the dot aboveता: Is that an anusvara? Or a stray dot? Notice on this page, there are several small spots/ink marks (e.g. line 8 above पौन, line 10 under र्थः`).

[ अधि - ५. सू - ७. ] दीपिकासहितम्. ७५ ( १८ ) न हि गौणात्मनिष्ठस्य मोक्षः । ( १९ ) यस्यानुवित्तः प्रतिबुद्ध आत्मा अस्मिन् सन्दोहे गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ( बृ. उ. ६-४-१३. ) इत्यात्मनिष्ठस्य मोक्ष उपदिश्यते । धस्य आत्मज्ञानिनः 'मोक्षोपदेशात्' नात्मशब्दमुख्यवाच्यो गौण इ- ति सूत्रार्थः ॥ ( १८ ) तन्निष्ठस्य मोक्षोपदेशोऽपि कुतोऽयमात्मा न गौण इत्यप्रयो- जकत्वमाशङ्कयाह - न हीति ॥ गौणमोक्षपदसमभिव्याहृतो हिशब्दो विरोधाख्यहेतुसूचकः । तथा च- 'हि' यस्मात् 'गौणात्मनिष्ठस्य' गुणबद्धजीवज्ञानिनः तज्ज्ञानाद्गुणबन्धनिवृत्तिरूपो 'मोक्षो' न स- म्भवति, विरोधात् तस्मात् 'न हि' नाप्रयोजकता शङ्क्येत्यर्थः ॥ ( १९ ) असिद्धिशङ्कां परिहर्तुं कोऽसावात्मनिष्ठस्य मोक्षोपदेश इ- त्यतस्तं दर्शयति - यस्येति ॥ अत्र श्रुतिः स्वप्रयुक्तमुशब्दं एवेति व्या- चष्टे । 'उ' एकः प्रधान इति वा । तच्छब्दो विष्णुतज्ज्ञानिपरः । तथा च - 'हि' यस्मात् 'सः' विष्णुः 'सर्वस्य कर्ता' तस्मादेव 'वि- श्वकृत्' वायुकर्ता 'प्रतिबुद्धः' स्वतस्सर्वज्ञः 'अस्मिन् सन्दोहे' स- न्दुह्यते पुरुषार्थो अनेनेति वा कार्यकारणसंघातरूपत्वाद्वा भूतसमुदा- यरूपत्वाद्वा सन्दोहनामके मध्यदेहे स्थिते 'गहने' गम्भीरे हृदयगु- हास्थाने 'प्रविष्टः' सः 'आत्मा' विष्णुः 'यस्य' येनोपासकेन 'अ- नुवित्तः' सम्यग्ज्ञातः 'तस्य' अधिकारिणः 'उः' प्रधानः तस्य वि- ष्णोर्यो 'लोकः' स एव लोकः स्थानं भवतीत्यर्थः । 'सन्दोहे' इ- ति पाठेऽप्ययमेवार्थः । 'सन्देहे' इति पाठे अनेकार्थसङ्कट इत्यर्थः । तत्त्वप्रदीपे तु - सः विश्वकृत् कृतकृत्यः । कुतः ? यतः स हि परमा- त्मा प्रसन्नः सर्वशक्तिः सर्वमस्य ज्ञानिनः कार्यं करोतीत्युक्तम् । अ- स्मिन् पक्षे प्रथमः प्रथमान्ततच्छब्दो विष्णुज्ञानिपरः, विश्वशब्दः कृ- त्यपरः, सर्वशब्दो ज्ञानिकार्यपरः । टीकाकृतपक्षे तु-प्रथमः प्रकृतवि- ष्णुपरः, विश्वशब्दो वायुपरः, सर्वशब्दो जगत्पर इति भेदः । पक्षद्व- येऽपि द्वितीयतृतीयौ विष्णुतल्लोकपरौ । 'इति' इत्येवंरूपे बृहदार-

७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २० ) अयमात्मा ब्रह्म । ( मा. उ. १-२, बृ. उ.२-५-१९. ) ( २१ ) ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥ चेतनस्तु द्विधा प्रोक्तो जीव आत्मेति च प्रभो । जीवा ब्रह्मादयः प्रोक्ता आत्मैकस्तु जनार्दनः ॥ ण्यके ' आत्मनिष्ठस्य ' तज्ज्ञानिनो ' मोक्ष उपदिश्यते ' । अस्य यत इत्युपदिश्यते अतो ' न गौण आत्मा ' इति वक्ष्यमाणप्रतिज्ञाऽन्वयः । सूत्रस्य तु न गौण आत्मशब्द इति पूर्वेणान्वयः । आत्मेत्यनेन सौत्रत च्छब्दो नात्मशब्दपरः, किन्त्वर्थतः प्रधानात्मपर इत्युक्तं भवति ॥ ( २० ) आत्मशब्दो विष्णावेव मुख्यः न जीवेष्वित्यत्र न केवलं त न्निष्ठस्येत्यादिनोक्तमनुमानं मानम्, किन्तु सूत्रकृदभिप्रेताः स्पष्टश्रुति स्मृतयश्चेति भावेन तां ताश्चाह—अयमिति ॥ ब्रह्मेत्यन्तस्य उपदिश्य त इति पूर्वेणान्वयः । ' अयमात्मा ' रमाब्रह्मादिषु आदानादिकर्तृत्वेन स्थितः आत्मा ' ब्रह्म ' विष्णुरेवेति माण्डूकश्रुत्यर्थः “ सोऽयं विष्णु रमाब्रह्मरुद्रानन्तादिगः सदा । आदानादनकर्तृत्वादात्मा ” इति मा ण्डूकभाष्योक्तः ॥ ( २१ ) “ वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्म” इत्यपरं भागवतवाक्यम् । अद्वयं समाधिकशून्यं ज्ञानस्वरूपं यत्तत्त्वं वदन्ति ज्ञानिनः तत् देशकालादिषु बृंहितत्वात् सर्वान्तर्यामित्वाद्यैश्वर्यादिगु णवत्त्वाच्च निमित्तात् ' ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ' अभि धीयत इत्यर्थः । अस्यापि पूर्वेण सम्बन्धः । तत्रैव चतुर्थस्कन्धे “दत्तं ” इत्यन्यद्वाक्यम् । एतच्च ' अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ' इति पूर्वार्धेनैवान्वेतव्यम् । पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा । काश्यपं पूर्णिमानं च ययोरापूरितं जगत् ॥ इति प्रकृतेन समुच्चयर्थस्तथाशब्दः । तथा च—अनसूयाख्या अत्रि भार्या अत्रेः सकाशात् ' आत्मेशब्रह्मसम्भवान् ' आत्मा विष्णुरीशो रुद्रः ब्रह्मा चतुर्मुखः आत्मा चेशश्च ब्रह्मा च ते तथोक्ताः तैस्सह भव न्तीत्यात्मेशब्रह्मसम्भवाः तान् 'अकल्मषान्' अपापान् यो दत्तं दुर्वा साः सोमश्चैतान् पुत्रान् 'जज्ञे' जनयामासेत्यर्थः । यद्वा—अनसूया अ त्रेर्दत्तादीन् जनयामास, ते च आत्मेशब्रह्मसम्भवा इति विपरिणामेन

[ अधि - ५. सू - ७. ] दीपिकासहितम्. ७७ इतरेष्वात्मशब्दस्तु सोपचारः प्रयुज्यते । तस्यात्मनो निर्गुणस्य ज्ञानान्मोक्ष उदाहृतः ॥ सगुणास्त्वपरे प्रोक्तास्तज्ज्ञानान्नैव मुच्यते । परो हि पुरुषो विष्णुस्तस्मान्मोक्षस्ततस्मृतः ॥ इति पाद्मे । व्याख्येयम् । अत्र ब्रह्मावेशेन सहोत्पन्ने चन्द्रे निरुक्तसम्भवशब्दो मु- ख्यः । साक्षाद्विष्णुरुद्रांशत्वेन तत्सम्भूतयोर्दत्तदुर्वाससोस्तु छत्रिन्या- येनामुख्य इति द्रष्टव्यम् । यद्यपि “अत्रेः पत्न्यनसूया त्रीन् जज्ञेऽति यशसः सुतान् । दत्तं” इति भागवतपाठः, तथाऽप्यनुव्याख्याने एवं पठितत्वात्तथैव सुधायां व्याख्यातत्वात्तदन्यकल्पीयं पाठान्तरं भवि- ष्यतीत्यदोषः । अस्यापीत्युपदिश्यत इत्यनेनान्वयः । चेतनस्त्विति पा- द्मवाक्यम् । ‘प्रभो’ इति कस्य चित्सम्बोधनम् । तत्रेति शेषः । आ- द्यस्तुशब्दो विशेषार्थे । द्वितीयोऽवधारणे । तथा च—‘जीवाः ब्रह्मा- दयः प्रोक्ताः आत्मा तु’ तच्छब्दमुख्यवाच्यस्तु ‘जनार्दनो’ विष्णुः ‘एकः’ एव प्रोक्तः प्रमाणेषु । ‘इतरेषु’ ब्रह्मादिषु ‘आत्मशब्दः सोप- चारः’ परममुख्यवृत्त्यपेक्षया हीनवृत्तियुक्त इति ज्ञानिभिरभिधीयत इत्यर्थः । कुतस्तस्यैवात्मत्वं नान्येषामित्यत आह—तस्येति । यतः ‘तस्य’ निर्गुणस्य आत्मनो ‘ज्ञानान्मोक्षो’ भवतीति “यस्यानुवित्तः” ( बृ. उ. ४-४-१३. ) इत्यादौ ‘उदाहृतः’ उक्तः अतोऽयमात्मा निर्गुणो विष्णुरेव नान्यः। कुतः? तस्यैव विष्णोर्निर्गुणस्य मोक्षदातृत्वसम्भवात्, अन्येषां तदसम्भवादित्यर्थः । आत्मज्ञानान्मोक्षोपदेशोऽपि कुतो नेतरे- षामात्मत्वं तेषामपि मोक्षदातृत्वसम्भवादित्यत आह—सगुणा इति । तुरवधारणे । तथाच—‘अपरे’ विष्णोरन्ये ब्रह्मादयो यतः ‘सगुणाः’ सत्त्वादिगुणबद्धा एव न स्वतस्तद्विधुराः अतः ‘तज्ज्ञानान्नैव’ सर्वथा ‘मुच्यते’ अधिकारीत्यर्थः, गुणबद्धात्मविज्ञानात् गुणबन्धनिवृत्तिरूप- मोक्षायोगादिति भावः । ननु विष्णावपि निर्गुणत्वेनास्तु मोक्षदातृत्व- सम्भावना, तन्निश्चयस्तु कुत इत्यत आह—परो हीति । ‘हि’ यस्मात् ‘विष्णुःपरः’ स्वतन्त्रः । तत्त्वप्रदीपरीत्या सर्वोत्तम इति वा, ‘पुरुषः’ पूर्णः ‘तस्मान्मोक्षस्ततो’ विष्णोर्भवेदेवेति स्मृतः स्मृत्युक्त इत्यर्थः । ‘इति पाद्मे’ इत्यस्यापि इत्युपदिश्यत इति पूर्वेणान्वयः ॥ ७ ॥

७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २२ ) सू-ॐ ॥ हेयत्वावचनाच्च ॥ ॐ ॥ ८ ॥ 'तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ । अमृतस्यैष सेतुः ( मुं.उ. २-२-५. ) इत्यन्येषां हेयत्ववच- नादस्याहेयत्ववचनाच्च गौण आत्मा ॥ ( २३ ) सू-ॐ ॥ स्वाप्ययात् ॥ ॐ ॥ ९ ॥ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ (बृ.उ.५-१-१०.) ( २२ ) युक्त्यन्तरेणात्मशब्दादितो न गौण इत्याह सूत्रकृत्-हेय- त्वेति ॥ अत्र हेयत्वं नाम मोक्षार्थे प्राधान्येन ज्ञेयत्वेनाविहितत्वम् । त- था च-न केवलं तन्निष्ठस्य मोक्षोपदेशात्, किन्तु “तमेवैकम्” इति श्रुतौ आत्मनो हेयत्वावचनात्, प्रत्युत 'जानथ' इत्यहेयत्ववचनात्, जीव- स्य च “अन्या वाचो विमुञ्चथ” इति मुमुक्षुभिर्हेयत्ववचनाच्चेति सूत्रवृत्तिभिप्रेत्य सूत्रं व्याचष्टे-तमिति । हे ऋषयः 'तं' आत्मानं विष्णुं 'एव एकं' प्रधानं 'जानथ' जानीध्वम् । 'अन्याः' जीवादि- विषयिणीः 'वाचः विमुञ्चथ' त्यजत, प्राधान्येन विष्ण्वितरान् न जानीध्वमित्यर्थः । 'जानथ आत्मानं' इति विश्लेषो विष्णोः सर्वेभ्यो विलक्षणत्वप्रदर्शनार्थः । विकरणव्यत्ययस्तु छान्दसः । अमृतस्येत्येक- वचनं समुदायविवक्षया । तथा च-‘अमृतस्य’ मुक्तवर्गस्य ‘एषः’ विष्णुः 'सेतुः' मुख्याश्रय इत्यर्थः । 'इति' इत्येवंरूपायां मुण्डकश्रु- तौ 'अन्येषाम्' जीवानां 'हेयत्ववचनात्' इत्यनेन चशब्दसमुच्चेयं द- र्शितम् । सौत्रनञो व्यत्यासेन अन्वयम् अभिप्रेत्य समुच्चेयान्तरमाह-अ- स्य विष्णोरहेयत्वेति । चशब्दः समुच्चये । सूत्रे गौणशब्दानुवृत्तस्य “न गौण आत्मशब्दः” इत्यस्यार्थमाह-नेति । गौण आत्मशब्दमुख्य- वाच्यो न, किन्तु निर्गुणो विष्णुरेवेत्यर्थः । तथा च-आत्मशब्दादीक्ष- तिश्रुत्युक्तोऽपि निर्गुण एवेति सिद्धम् । तस्येक्षत्यन्यथाऽनुपपत्त्या वा- च्यत्वमिति भावः ॥ ८ ॥ ( २३ ) युक्त्यन्तरेणापि निर्गुणस्य विष्णोर्वाच्यत्वमुपपादयत्सूत्रमु- पन्यस्यति-स्वाप्ययादिति ॥ सूत्रं व्याचष्टे-पूर्णमिति । 'अदो' मू- लरूपं 'पूर्ण' 'इदं' अवताररूपं च 'पूर्णम्' । 'पूर्ण' अवताररूपं सृष्टिकाले 'पूर्णात्' मूलरूपात् 'उदच्यते' उद्गच्छति । तत्त्वप्रदीप

[ अधि - ५. सू - ९. ] दीपिकासहितम्. ७९

" स आत्मन आत्मानमुद्धृत्यात्मन्येव विलापयत्य थात्मैव भवति " । स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः । एकीभूय पुनश्शेते निर्दोषो हरिरादिकृत् । इति । ( २४ ) स्वस्यैव स्वस्मिन्नप्ययवचनात् । रीत्या अमुष्मादिदं सङ्ख्यामात्रेणोच्यते एकमेव बहुसङ्ख्यं भवति विशेषादेवैति वा । प्रलये मूलरूपं 'पूर्णस्य' स्वस्य 'पूर्णे' अवतार रूपं 'आदाय' स्वीकृत्यैकीभूय 'पूर्णमेव' अन्यत्रालिनं सदैव स्वयं 'अवशिष्यते' इति बृहदारण्यकश्रुत्यर्थः । 'स' इत्यन्या श्रुतिः । तदर्थ स्तु—'स' विष्णुः 'आत्मनः' स्वस्मात् मूलरूपात् 'आत्मानं' अव- तारगतं स्वस्वरूपं 'उद्धृत्य' सृष्टिकाले पृथग्व्यक्तीकृत्य प्रलये 'आ- त्मनि' स्वस्मिन्नेव 'विलापयति' एकीभावयति । 'अथ' अनन्तरं स विष्णुः 'आत्मैव' मूलरूप्येव 'भवति' अवशिष्यत इति । 'स दे- वः' इति स्काान्दस्मृतिः श्रौततच्छब्दार्थविवरणरूपा । 'देवो' द्योत- नादेः 'निर्गुणः' सत्त्वादिगुणेभ्यो निष्क्रान्तः तत एव गुणकार्यदोष- हीनः 'पुरुषोत्तमः' क्षराक्षरचेतनोत्तमः 'आदिकृत्' विश्वस्योत्पत्ति- कर्ता प्रथमकर्ता वा 'सः' श्वेतद्वीपगो 'हरिः' आदिसृष्टौ 'बहुधा भूत्वा' वराहादिबहुरूपणि सृष्ट्वा 'पुनः' अथ प्रलये 'एकीभूय' मूल- रूपेण तान्येकतां प्रापयित्वा अहिपतौ 'शेते' योगनिद्रां करोतीत्य- र्थः । इतीत्यस्य इति श्रुत्युक्तत्वाच्चेत्यध्याहारेण 'वाच्यमेव तत्' इति परमसाध्येनान्वयः ॥ ( २४ ) एतच्छ्रुत्युक्तोऽपि निर्गुणः कुतः? गौण एव किं न स्यादित्य- तस्तत्र सौत्रं हेतुं सावधारणस्वशब्दावृत्त्या योजयति—स्वस्यैवेति ॥ एवकारो भिन्नक्रमः । इतिशब्द आवृत्तोऽत्रापि योज्यः । वचनादि- त्यावर्त्तते । न गौण इत्यनुवर्तते । अयमिति शेषः । स्वाप्ययपदं पूर्ण- त्वस्याप्युपलक्षकम् । तथा च—पूर्णमिति श्रुतौ स्वाप्ययपदोपलक्षि- तपूर्णत्वस्य वचनात् स्वस्य स्वस्मिन्नेवाप्ययवचनाच्च, स इति स्पष्टश्रु- तावपि आत्मन्येव विलापयतीति स्वस्य स्वस्मिन्नेवाप्ययवचनात्, तस्य च निर्गुणहरिनिष्ठतायाः स्मृतौ वचनाच्च अयं निर्गुण एव न गौण इति योजना । वाच्यत्वे स्वाप्ययस्य साक्षाद्धेतुत्वाभावात् सूत्रे

८० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] न हि गौणात्मनि निर्दोषस्य लयः ॥ ९ ॥ ( २५ ) न च कासुचिच्छाखास्वन्यथोच्यते ॥ भाष्ये च चशब्दाभावः । यद्यप्यत्रोपलक्षणाभिप्रायकटीकारीत्या पूर्ण- त्वहेतुसमुच्चायकश्चशब्दोऽनुवर्तनीयः । तथाऽप्यस्य वाच्यत्वे साक्षा- दहेतुत्वात्तत्र हेत्वन्तरस्य ज्ञापकचशब्दो नानुवर्तनीयः । न च श्रुत्यु- क्तत्वाच्चेत्यध्याहृतहेतौ चशब्दावश्यंभावात् कथं तदभाव इति वा- च्यम्, सूत्रश्रुतहेतौ चशब्दाभाव इत्यभिप्रायात् । अत एव टीकायां तन्नेत्युक्तम् । तथा चायं सूत्रार्थः-न केवलं निर्गुणविष्ण्वाख्यं ब्रह्म ई- क्षणीयत्वाद्वाच्यम्, किन्त्वेतच्छ्रुत्युक्तत्वाच्च । श्रत्युक्तं निर्गुणमेव न गौ- णमिति कुतः? पूर्णत्वात्स्वस्य स्वस्मिन्नप्ययाच्च, गौणस्यापूर्णत्वान् अन्यस्मिन् लयेन स्वाप्ययशून्यत्वाच्चेति । श्रत्युक्तस्वाप्ययपूर्णत्वयोर सिद्धिपरिहाराय हेतौ साध्यसामानाधिकरण्योपपादनाय च श्रुति स्मृत्योर्वचनादित्युक्तं भाष्ये । नन्वयं स्वाप्ययवान् अन्यत्रालीनश्च गौ- णस्स्यात्, निर्गुणोऽन्योऽस्तीति चेत्-न, यद्ययं स्वाप्ययवान् गौणः त- र्ह्ययं निर्गुणश्चोभौ प्रलयेऽन्यत्र लयेहीनौ तिष्ठतः? उत एकस्मिन्नन्यस्य लयो भवति? नाद्यः “इदं वा अग्रे नैव किञ्च नासीत्” (तै.ब्रा.२-२- ९-१०) इत्यादिश्रुतिविरोधात्, अत्र प्रलये द्वितीयामात्रनिषेधात् । द्वि तीये न तावद्गौणस्य निर्गुणे लयः, तस्य स्वाप्ययवत्तया अवस्थानाभ्यु- पगमात् । तथा च निर्गुणस्य सगुणे लयो वाच्यः । स च न सम्भवती- त्याह—न हीति । ‘गौणात्मनि’ जीवे ‘निर्दोषस्य’ सत्त्वादिगुणबन्ध- रूपदोषहीनस्य निर्गुणस्य विष्णोर्लयो नोपपद्यत इत्यर्थः । हिशब्देन “यत्प्रयन्ति” (तै.उ.३-१०) इत्यादिश्रुतिविरोधादिति हेतुः सूचितः । तस्मान्निर्गुणस्य स्वस्मिन्नेव लयो वाच्य इत्यतोऽयमनन्यलीनो निर्गुण एवेति तस्यैव श्रत्युक्तत्वाद्वाच्यत्वं सिद्धमिति भावः । अत्र नये गौणा- दिव्यपदेशः सत्त्वादिगुणयुक्तत्वतदभावरूपधर्माश्रयजीवपरमात्मधि- षयक एव, न तु मुख्यासम्भवे गौणाश्रयणादित्यत्रेव निर्गुणोऽयमित्यत्रे व वा मुख्यार्थगुणहीनविषय इति सूचनाय निर्गुणस्येति वक्तव्यत्वे ऽपि निर्दोषस्येत्युक्तम् ॥ ( २५ ) नन्वस्तु निर्गुणस्य विष्णोर्वाच्यत्वोपपत्तौ सत्यां कारणत्वे न शास्त्रगम्यत्वम् । तच्चोपक्रमादिबलात् प्रसिद्धशाखास्वेव कारणत्वे

[अधि - ५. सू - १०.] दीपिकासहितम्. ८१

सू-ॐ ॥ गतिसामान्यात् ॥ ॐ ॥ १० ॥ सर्वे वेदा युक्तयः सुप्रमाणा ब्राह्मं ज्ञानं परमं त्वेक मेव । प्रकाशयन्ते न विरोधः कुतश्चिद्वेदेषु सर्वेषु तथेतिहासे ॥ इति पैङ्गिश्रुतेर्गतेर्ज्ञानस्य साम्यमेव ॥ न प्रतिपाद्यत्वपर्यवसितम् । अप्रसिद्धशाखासु पुनरन्योऽपि कारणत्वे न उच्यताम् । न च ता न सन्ति, तासामानन्त्येनेयत्ताऽनिश्चयादित्यत आह—न चेति ॥ चोऽप्यर्थः । तथा च—‘कासुचित्’ अप्रसिद्धशा खास ‘अन्यथा’ अन्यो निर्गुणात् सगुणोऽपि ‘अन्यथा’ अकारणत्वादेः कारणत्वेन आत्मशब्दमुख्यवाच्यत्वेन मोक्षजनकज्ञानविषयत्वेन च, निर्गुणो वा ‘अन्यथा’ अकारणत्वादिना ‘उच्यते’ उच्यतामिति ‘न’ इति योजना । ‘नान्यथा’ इत्यनेन सूत्रे गौणसूत्रान्नेत्यस्यानुवृत्तिः अन्यथेत्यध्याहारश्च सूचितः । ‘तत्तु सं’ इत्युक्तादन्यथा नेत्यर्थः । कु तो नेत्यतस्तत्र हेतुत्वेन सूत्रमुपन्यस्य व्याचष्टे—गतीति । उत्तरसूत्र पदाकर्षणेन सर्वाधिकारिसाधारणं गतिसामान्यस्य श्रुतत्वादिति योजनामभिप्रेत्य असिद्धिपरिहाराय तत्सूत्रसूचितां श्रुतिमाह—सर्वे इति । वेदा इत्यस्य विवरणं ‘सर्वे’ इति । तथा च—‘सर्वे वेदाः’ त था ‘सुप्रमाणाः’ सुष्ठु प्रमाणं प्रमाणान्तरं मूलभूतं यासां ताः ‘युक्त यः’ । ‘तथेतिहासे’ इति वक्ष्यमाणानुरोधादत्रेतिहासा अप्युपल क्ष्याः । तथा चेतिहासाश्च । ‘ब्राह्मं’ ब्रह्मैकविषयं ‘एकं’ एकविधमे व परमार्थविषयकत्वात् ‘परमं’ उत्तमं ‘ज्ञानं’ ‘प्रकाशयन्ते’ उत्पा दयन्ति, न पुनरनेकम् । अतः ‘सर्वेषु वेदेषु’ तथा युक्तिषु ‘तथेतिहा से’ इतिहासेषु ‘कुतश्चित्’ कश्चिदपि विषयकृतो वा प्रकारकृतो वा ‘विरोधो न’ इत्यर्थः ज्ञानरूपमेकमेव ब्रह्मस्वरूपं ज्ञापयन्तीति वा । श्रुतेरिति पञ्चमी तृतीयार्थे । गतेरित्यस्य व्याख्या ज्ञानस्येति । सामान्यादिति सौत्रपदे प्रातिपदिकार्थमाह—साम्यमिति । विषयगु णानामनन्योक्त्या साम्यमित्यर्थः । “न ह्येकत्र ज्ञानानन्दादिकमु क्त्वाऽन्यत्राज्ञानादिरूपत्वं ब्रह्मण उच्यते” इति तत्त्वप्रदीपोक्तेः क थ्यत इति शेषः । न तु विषमत्वमिति वा स्वयमेव साक्षान्न त्वन्यमुखे नेति वा एवशब्दार्थः । तथा च—‘सर्वे वेदा’ इति श्रुत्या स्वयमेव ११