पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
ीरानभो"? Wait, "समीरण"? Air = समीरण! Look at the letters: स (sa) - म (ma) - ी (ī) - र (ra) - णा (ṇā) - न् (n) - भो (bho)? WAIT! Look at: त (ta) - look at the letter before: क्षि (kṣi). Is it "र-जो-गु-णो-प-ल-क्षि-त-"? Wait, what is before समीरण? अप् (water), तेजस् (fire)! Could it be "अब्-तेजः-समीर"? Wait, look at the glyphs: Letter 1 after क्षि: त (ta) Letter 2: ा (aa)? Wait, is it ा, or is it a vertical line of something else? Wait, look at: "अब्" - does it have अब्? Look at: त (ta) with what? Wait! Could it be: "तावच्छरीरानभो"? No, why शरीर? The text says: "विराजं ब्रह्मणः शरीरं" in the very next line (L18)! Wait! In L16-17: "'रजसा परीवृतं ' रजोगुणोपलक्षिता..." Wait, what does "रजसा परीवृतम्" mean in the Upanishad? Mantra: "सुवर्णं कोशं रजसा
[ अधि - १०. सू - २६. ] दीपिकासहितम्. १३९ (८) स हि पुरुषसूक्ताभिधेयः । ‘यज्ञेन यज्ञमयजन्त’ (तै. आ. ३-१२.) इति यज्ञशब्दात् । ‘यज्ञो विष्णु र्देवता’ ( श्रुत्यन्तरम्.) इति हि श्रुतिः। (९) तस्मिन् काले महाराज राम एवाभिधीयते । (८) स्यादेतदेवं यदि ‘तावान्’ इत्यस्यामृचि विष्णुरभिधीय त इत्यत्र प्रमाणं स्यात्, तदेव नास्ति, अतो लिङ्गमन्यनिष्ठं भविष्यती त्यतः सौत्रचशब्देन भूतादिपादत्वस्य विष्णुलिङ्गत्वे साध्ये पुरुषसू क्तोक्तत्वादिति यदनुमानं सूचितं तस्याप्रयोजकत्वमाशङ्क्य परिहर ति—स हीति ॥ ‘हि’ यस्मात् ‘सः’ विष्णुरेव ‘पुरुषसूक्ताभिधेयः’ त त्प्रतिपाद्यः तस्मात्स एव पुरुषसूक्तोक्तभूतादिपादोऽपीति योजना। अ न्यथा भूतादिपादत्वस्य विष्णुधर्मत्वाभावे पुरुषसूक्तप्रतिपाद्यत्वं न स्यादिति भावः। यद्वा—गायत्र्या विष्णुत्वे साध्ये सूत्रे भिन्नक्रमेणा न्वितचशब्दसूचितयुक्त्यन्तरमाह-स हीति। अस्य तस्माद्गायत्री वि ष्णुरेवेति प्रधानप्रतिज्ञावाक्येनान्वयः। चतुष्पदेत्युक्तगायत्रीचतुष्पा दत्वस्य पुरुषसूक्तमन्त्रेणोपपादनात् तत्प्रतिपाद्यत्वे तदुपपाद्यगाय त्रीशब्दार्थताऽपि तस्यैव प्राप्नोतीति भावः। पुरुषसूक्तोक्तस्य विष्णु त्वं कुत इत्यत आह—यज्ञेनेति । देवाः ‘यज्ञेन’ ज्ञानकर्मात्मकेन रुद्रा ख्यपशुना वा ‘यज्ञं’ विष्णुं ‘अयजन्त’ अपूजयन्निति श्रुत्यर्थः । इति यज्ञशब्दादिति । इति वाक्ये यज्ञशब्दश्रवणादित्यर्थः । यज्ञशब्दः कथं विष्णुत्वनिश्चायक इत्यतो शिष्टरूढ्येत्याह—यज्ञ इति । ‘हि’ यतः य ज्ञ इति पदेन विष्ण्वाख्या देवतोच्यत इत्यर्थः । यद्यपि ‘यज्ञो वै वि ष्णुः’ इत्यध्वर्यूणां श्रुतिः । तथाऽपि श्रुत्यन्तरमिदमित्यदोषः ॥ (९) ननु पुरुषसूक्तं न विष्णुप्रकरणं, किन्त्वन्यप्रकरणमेव । न च यज्ञश्रुतिविरोधः। पशुरूपान्यप्रकरणे तदन्यविष्णुश्रुतेः अयोगादि तिवाच्यम् । तस्याः प्रासङ्गिकत्वसम्भवात् । न च तत एव भूतादिपाद त्वस्य विष्णुलिङ्गत्वनिश्चयः । तथाऽप्यसिद्धिः । ‘पादोऽस्य विश्वा भू तानि’ इति श्रुतेर्भूतादिपादे यज्ञश्रुतेरभावादित्यतः पुरुषसूक्तोक्तस्य विष्णुत्वे स्मृतिञ्चाह—तस्मिन्निति ॥ महाराजेति कस्यचित्सम्बो धनं रामविशेषणं वा । तथात्वे दीर्घस्स्यात् । तथा च हे महाराज ‘त स्मिन्’ त्रेतायुगे सर्वैः पुरुषनामभी राम एवाभिधीयते इत्यर्थः । अतए वांशाधिकरणे—
१४० ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - १.] यथा हि पौरुषे सूक्ते विष्णुरेवाभिधीयते । इति च स्कान्दे ॥ (१०) सू—ॐ ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यवि- रोधात् ॥ ॐ ॥ २७ ॥ 'त्रिपादस्यामृतं दिवि' (छां.३-१२-६.) इति पूर्वोपदे- शः। 'परो दिवः' (छां.३-१३-७.) इति पञ्चम्यन्तः पश्चिमः। नक्षत्रमानगणितं त्रयोदशसहस्रकम् । ब्रह्मलोकसमं चक्रे समस्तं क्षितिमण्डलम् ॥ रामोराम इति ह्याख्या सर्वेषामभवत्तदा । सर्वो राममयो लोको यदा रामस्त्वपालयत् ॥ इति स्कान्दे इत्युक्तं तत्त्वप्रदीपे । अत्र दृष्टान्तमाह—यथेति । यथा कृत्स्ने पौरुषे सूक्ते विष्णुरेव न त्वन्यः । पशुः नरः प्रासङ्गिकतयाऽ भिधीयते इत्यर्थः । अनेन सिद्धस्यैव दृष्टान्तत्वात्पुरुषसूक्तस्य विष्णु परत्वं सिद्धमिति भावः । स्कान्द इत्यनन्तरं एतदुक्तमिति शेषः । अ स्य स हीति पूर्ववाक्येनान्वयः ॥ (१०) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति—उपदेशेति ॥ 'उ पदेशयोः' सप्तमीपञ्चमीयुतवाक्ययोः 'उपदेशेन' गायत्रीज्योतिषोः द्युस्थत्वदिवःपरत्वरूपविरुद्धधर्मोक्त्या 'भेदात्' विरोधात् न द्वयो र्विष्ण्वाख्यं एकं वस्तु प्रतिपाद्यं, किन्तु भिन्नमेवेति चेत्—न, किन्तु 'उभयस्मिन्' उभयत्राप्युपदेशे एकमेव प्रतिपाद्यं, कथं ? अविरोधा त् । त्रिसप्तलोकापेक्षया सप्तमीपञ्चम्योः एकार्थत्वेन विरोधाभावा दिति सूत्रयोजनामभिप्रयन्नाक्षेपांशं तावद्व्याचष्टे—त्रिपादिति । 'पू र्वोपदेशः' पूर्वोक्तिः । 'पश्चिमः' पश्चात्तनः उत्तर उपदेशस्तद्भिन्नोऽ स्तीति शेषः । विरोधस्फोरणाय पञ्चम्यन्त इत्याद्युक्तिः । उपक्रमग तस्य प्राबल्योपपादनाय पूर्व इत्युक्तिः । ततः किमित्यत आह—तस्मा दिति । यस्मादेवं भिन्नोपदेशद्वयमस्ति तस्मादत्रोपदेशद्वये गायत्री ज्योतिश्शब्दाभ्यां नैकं वस्तु विष्ण्वाख्यमुच्यते । कुतः ? यतोऽत्र 'नैकं' अनेकं वस्तु द्युस्थत्वदिवःपरत्वरूपं धर्मद्वयमुच्यते । किन्त्वत्र 'नै कं' अनेकं वस्तुद्वयमुच्यते इति योजना । सिद्धान्तयत्सूत्रांशं व्याच ष्टे—नेति । नात्र वस्तुद्वयमुच्यते इत्यर्थः । किं त्वितिशेषः, एकं वस्तु च्यते इति अनुषज्यते । उभयस्मिन्निति साध्यान्तर्गतम् । अपिशब्दो
[ अधि - ११. सू - २७. ] दीपिकासहितम्. १४१ तस्मान्नैकं वस्त्वत्रोच्यते इति चेत्-न, त्रिसप्तलो न केवलमेकत्र, किन्तुभयत्रापीति समुच्चये। तथाच किन्तुभयस्मिन् अप्युपदेशे एकमेव विष्ण्वाख्यं वस्तुच्यते इति योजना। विरोधात्क थमेतद्युज्यते इत्यत आह—त्रिसप्तलोकापेक्षयेति। त्रिलोकविवक्षया सप्तलोकविवक्षया च 'अविरोधात्' उभयत्राप्येकवस्त्वभिधाने वि रोधाभावादित्यर्थः। अयं भावः—यदा भूर्भुवस्स्वरिति लोकत्रयविव क्षा, तदा लक्षयोजनोच्छ्रितान्तरिक्षाख्यभुव उपरितनस्य सर्वस्यापि द्युत्वात् श्वेतद्वीपानन्तासनवैकुण्ठानां चान्तरिक्षादुपरितनत्वात्तत्रत्यं नारायणवासुदेववैकुण्ठाख्यं त्रिपाच्छब्दोक्तं रूपत्रयं दिवि तिष्ठतीत्यु च्यते इति न सप्तम्यन्तोपदेशविरोधः। न
१४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] कापेक्षया उभयस्मिन्नप्यविरोधात् ॥ १२. अधिकरणम् ॥ ( १ ) प्राणो विष्णुरित्युक्तम् । तत्र ' ता वा एताः शीर्षन् छ्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राणः' (ऐ. आ. २-१-४. ) इत्यत्र प्राणस्य विष्णुत्वं न युज्यते । इन्द्रि यैस्सहभिधानादिति । अत आह— इति प्रमाणविरोधापातात् । छान्दोग्यभाष्ये तु— अनन्तशयनं चैव तथाऽनन्तासनं हरेः । बहुलक्षोच्छ्रिते नित्ये विमाने संस्थितं यतः ॥ चित्रप्रकृत्यात्मनि ततो दिवीति कथितं श्रुतौ । इति प्रमाणबलेन चित्रप्रकृत्यात्मकानन्तासनश्वेतद्वीपवैकुण्ठाख्यस्थान त्रये सप्तम्यन्तो द्युशब्दो द्योतमानत्वनिमित्तेन यौगिकः, स्वर्गादौ तु रूढ इति उपदेशयोरविरोध इति प्रकारान्तरेण विरोधपरिहारः कृतः ॥ ११ ॥ ॥ इति छन्दोभिधानाधिकरणम् ॥ १२. अधिकरणम् ॥ ( १ ) अत्राधिकरणे लोकतोऽन्यत्र प्रसिद्धप्राणनाम्नो विष्णौ समन्व यः प्रतिपाद्यते । श्रुत्यादिसङ्गतिविषयवाक्यविषयसंशयसयुक्तिकपूर्व पक्षान् दर्शयति-प्राण इति। आद्यप्राणाधिकरणे 'तद्वै त्वम्' (तै.आ.३- १४.) इति वाक्योक्तप्राणो विष्णुरित्युक्तमित्यर्थः । ततः किमित्यत आह- तत्रेति । उक्तमित्यनुषज्यते । तस्यावृत्तिविपरिणामौ । एवं तत्रेत्यप्याव र्तनीयम् । तथा च 'तत्र' तद्वै त्वमिति वाक्ये उक्तस्य प्राणस्य विष्णुत्वं न विद्यते न युज्यते । कुतः ? यतस्तत्र 'तद्वै त्वम्' इति वाक्योक्तप्राण विषये 'उक्ते' श्रुते 'ता वा एताः' इत्यैतरेयवाक्ये उक्तस्य श्रुतस्य प्रा णस्य विष्णुत्वं न विद्यत इति योजना । कुतो न विद्यते इत्यत आह- इन्द्रियैस्सहभिधानादिति । इन्द्रियैस्सह पठितत्वात् इन्द्रियगणे ग णितत्वात् इत्यर्थः । अनेनैतरेयप्राणस्य विष्ण्वन्यत्वाक्षेपमुखेन प्राची नतैत्तिरीयोक्तप्राणस्याप्यन्यत्वाक्षेपात्तेनास्याक्षेपिकी सङ्गतिरुक्ता भ वति । ऐतरेयप्राणाख्यो विषयः । प्राणोऽन्य उत विष्णुरिति संशयश्च
[ अधि - १२. सू - २८. ] दीपिकासहितम्. १४३ ( २ ) सू—ॐ ॥ प्राणस्तथाऽनुगमात् ॥ ॐ ॥ २८ ॥ ‘तं देवाः प्राणयन्त’ (ऐ. आ. २-१-५.) ‘स एषोऽ सुः स एष प्राणः’ (ऐ. आ. २-१-८.) ‘प्राण ऋच इत्येव विद्यात्’ (ऐ. आ. २-२-२.) ‘तदयं प्राणोऽ धितिष्ठति’ (ऐ. आ. २-३-८.) इत्याद्यनुगमात् । ( ३ ) अत्रापि प्राणो विष्णुरेव । सूचितः । तथा वाय्वादिरन्य एवेति पूर्वपक्षः । इन्द्रियगणे गणितत्वा ख्यतत्साधकलिङ्गं च सूचितम् । ‘ता वा एताः’ इत्येतच्च चतुर्मुख शिरसि शिरश्शब्दप्रवृत्तिनिमित्तकथनाय प्रवृत्तम् । वैशब्दः प्रसिद्धौ । तथा च यतः ‘ता एताः’ चक्षुः श्रोत्रं मनोवाक्प्राण इत्येतच्छब्दवाच्या स्तदभिमानिन्यो देवताः । ‘शीर्षन्’ शीर्षणि शिरःसंज्ञकमूर्ध्नि श्रि ताः । अत एव श्रयणाच्छ्रिय इति सिद्धान्ते श्रुत्यर्थः । अनेन चक्षुरा दिभिः श्रितत्वं शिरःपदप्रवृत्तिनिमित्तमित्युक्तं भवति । पूर्वपक्षी तु प्रा णशब्दमन्यमात्रपरं मन्यते । सिद्धान्तयत्सूत्रमवतारयति-अत इति । यतः पूर्वपक्षः प्राप्तः अत उत्तरं सूत्रमाह भगवान् बादरायण इत्यर्थः॥ ( २ ) सूत्रं पठित्वा तत्रानुगमादिति हेत्वंशं श्रत्युदाहरणेन व्या चष्टे—प्राण इति ॥ इत्यादीति । एवमादिवाक्योक्तानां देवतोपदेश्य त्वादिलिङ्गानामत्रास्मिन् प्रकरणे बहुषु स्थलेषु ‘अनुगमात्’ अनुवृत्ते रभ्यासादित्यर्थः । आदिपदेन ‘प्राणो ह्येवैष य एष तपति’ इति सूर्य मण्डलस्थत्वप्रतिपादकवाक्यं गृह्यते । तथा ‘सर्वाणि भूतान्यापिपी लिकाभ्यः प्राणेन बृहत्या विष्टब्धानि’ इत्यादि वाक्यं च गृह्यते ॥ ( ३ ) सौत्रं तथाशब्दं व्याचष्टे—अत्रापीति ॥ श्रुत इति शेषः । न केवलं ‘तद्वै त्वम्’ इत्यत्र, किन्त्वैतरेयेऽपीति समुच्चयेऽपिशब्दः । सूत्रे अनुवृत्तस्य तत्त्वित्यस्यार्थमाह—विष्णुरेवेति । अनेन यथा ‘तद्वै त्वम्’ इति श्रुत्युक्तप्राणो विष्णुः तथैतरेयोक्तोऽपि विष्णुरेव, न त्व न्यः । कुतः? विष्णुलिङ्गानां देवतोपदेश्यत्वादीनामस्मिन् प्रकरणे ‘अ नुगमात्’ अनुवृत्तेरभ्यासादिति सूत्रार्थ उक्तो भवति ॥ ऐतरेये ‘तं देवाः प्राणयन्त’ इति एकखण्डस्थवाक्यम् । ‘तं’ नारायणं वायुं च देवाः ‘प्राणयन्त’ प्रकर्षेण शिष्यप्रशिष्यादिषु नी तवन्तः उपदिदिशुरित्यर्थः । अनेन विष्णोः सर्वदेवोपास्यत्वमुक्तं भवति ॥
१४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] 'स एषोऽसुः स एष प्राणः स एष भूतिः' इत्याद्यन्यखण्डगतं वाक्यम् । अनेन भूतित्वादिना देवाद्युपास्यत्वमुच्यते । 'स एषः' भ- गवान् दुष्टनिरसनादसुः प्रकृष्टानन्दरूपत्वात्प्राणः देवानां भूतिशब्दित- ज्ञानाद्यैश्वर्यप्रदत्वादसुराणां अज्ञानाद्यनैश्वर्यहेतुत्वाच्च भूत्यभूतिशब्द- वाच्य इत्यर्थः ॥ तत्रैव 'ता वा एताः सर्वा ऋचः सर्वे देवाः सर्वे घोषा एकैव व्याहृ- तिः । प्राण एव प्राण ऋच इत्येव विद्यात्' इति अन्यद्वाक्यम् । अत्र प्राणस्य सर्ववेदोक्तत्वमुच्यते । यास्ता एताः सर्वा ऋचस्तासां 'ए- कैव व्याहृतिः' एकमेव व्याहर्तव्यं प्रतिपाद्यम् । तच्च किं ? प्राणो वि- ष्णुरेव । किञ्च ये सर्वे वेदाः तेषामपि प्राण एव प्रतिपाद्यः । अपि च [L
[ अधि - १२. सू - २८. ] दीपिकासहितम्. १४५ ( ४ ) विष्णुमेवानयन् देवा विष्णुं भूतिमुपासते । स एव सर्ववेदोक्तस्तद्रथो देह उच्यते ॥ इति स्कान्दे । ( ५ ) ब्रह्मशब्दानुगमाच्च ॥ ( ४ ) ननु बाहुल्येन बलवतः सैद्धान्तिकलिङ्गादपि पूर्ववाद्युक्त लिङ्गमेव बलवत् । निरवकाशत्वेन स्वभावतो बलवत्त्वात् । न चावि- शेषेणानिर्णयः, बाहुल्येन बलवतोऽपि स्वभावबलिनः प्राबल्यात् । यदाहुः— द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः । तयोस्स्वभावो बलवान् उपजीव्यादिकश्च सः ॥ इति । अतः कथं तैर्विष्णुत्वनिश्चय इत्यतो देवतोपदेश्यत्वादिलिङ्ग- नां निरवकाशत्वमपि स्मृत्या साधयति—विष्णुमिति ॥ देवाः विष्णु- मेव प्राधान्येन शिष्यादिषु ज्ञानसम्प्रदायप्रवर्तनेन 'आनयन्' उपादि- शन् । भूतिमुद्दिश्य विष्णुमेवोपासते । भूतिमिति विधेयविशेषणं वा । तथा च विष्णुं भूतिं भूतिर्ज्ञानाद्यैश्वर्यरूप इत्युपासते इत्यर्थः । ' सः ' विष्णुर्मुख्यवाच्यतयेति शेषः, तेनैवकारोपपत्तिः । ' तद्रथो ' विष्णोरे- व रथः । अत्रैवकारस्य द्विर्ग्रहणात्सर्वत्रानुषङ्गः सूचितः । तेन सर्व- लिङ्गानामपि निरवकाशत्वमुक्तं भवति । स्कान्दे इत्यनन्तरं लिङ्गाना- मनन्यथासिद्धत्वमुक्तमिति वाक्यशेषः । तथाचैकप्रकारेण प्रबलात्पू- र्वपक्षिलिङ्गात्प्रकारद्वयेनापि प्रबलस्य सैद्धान्तिकलिङ्गस्याधिक्येन निर्णयोपपत्तिरिति भावः । अभ्युपेत्य चेदमुदितम् । वस्तुतस्तु पूर्वपक्षि- लिङ्गस्य न निरवकाशत्वेनापि प्राबल्यमस्ति, प्राणैः सहगणितत्वस्या- न्तर्यामिनिष्टतासम्भवात् ॥ ( ५ ) यदा बहुत्वनिरवकाशत्वाख्यप्रकारद्वयेनापि दुर्बललिङ्गस्यो- भयथाप्रबललिङ्गतो बाधसम्भवेन तेनैव प्राणस्य विष्णुत्वसिद्धिः, त- दा किमु वाच्यं निरवकाशब्रह्मशब्दाभ्यासादिति भावेनानुगमपदं प्र- कारान्तरेण व्याचष्टे-ब्रह्मेति ॥ अस्मिन् प्रकरणे ' एतद्ब्रह्म ' (ऐ.आ.२- १-१०) 'ब्रह्मणो लोकः' (ऐ.आ.२-१-३.) 'ब्रह्मेमं पुरुषम्' (ऐ.आ.२-१-४.) 'उदरं ब्रह्मेत्याचक्षते' (ऐ.आ.२-१-४.) 'अ इति ब्रह्म' (ऐ.आ.२-३-८.) इ- त्यादिनिरवकाशब्रह्मशब्दाभ्यासाच्चेत्यर्थः । एतद्विष्णुस्वरूपं ब्रह्म गुण- पूर्णम् । अयं जीवो ब्रह्मणः परस्याश्रयः । इमं पुरुषं चतुर्मुखं परब्रह्म १९
...? Wait, let's read the characters between तथा चेत्थंandटीकोक्त: तthenत्त्व? Wait, no! Is it तत्त्व? Look at the first letter: तSecond:त्त्व? No, it has a repha? Wait, let's look at: त त् त्व? No, त त्त्व प्र ती क ो क ्त? Wait! "प्रतीकटीकोक्त"? Let's zoom in to line 30: Word after चेत्थं`:
तत्त्व? Wait, look at line 24:तत्त्वनिर्णय- in line 24,तत्त्वis written with त + त + व. In line 30: afterचेत्थं, there is:तthenत्त्व? No, it looks likeतत्तत्प्रतीकोक्त? Wait! Look at:तत्त्व? No, it'sत्त्वwith a bar? No, look:तत्त्वप्रतीकोक्त? Wait, look at the letters:तthenत्त्व? It
[ अधि - १२. सू - २९. ] दीपिकासहितम्. १४७
णः सर्वाणि भूतानि' ( ऐ. आ. २ २-३. ) इति बहु- ध्यात्मसम्बन्धो ह्यत्र विद्यते ॥ २९ ॥ प्रागुक्तप्रबलतमलिङ्गादेः । तथा सत्युपदेशविरोध इति चेत् — न, कु- तः ? यतोऽत्र प्रकरणे स्वस्थितस्यैव प्रथमं ‘प्राणो वा अहमस्म्यृषे’ इति वाक्येन परमात्मत्वमुक्तमिन्द्रेण । तर्ह्यैक्योक्तिविरोध इत्यपि न । यतोऽत्र तस्यैव प्राणाख्यपरमात्मनः ‘प्राणस्त्वं प्राणः सर्वाणि भूता- नि’ इत्येवमादिवाक्येन ‘बहुध्यात्मसम्बन्धः’ इन्द्रादिजीवरूपबहुदे- हसम्बन्धः सर्वगतत्वमेव ऋर्षि प्रति इन्द्रेणोक्तं ‘विद्यते’ अस्ति न त्वैक्यमत इति । सूत्रोक्तसम्बन्धबाहुल्यं सम्बन्धिनि पर्यवस्यतीत्या- शयेन बह्वित्युक्तम् । भूमशब्दस्य भाववाचित्वेऽपि भावभवित्रोरभेदा- द्भवितरि प्रयोगः । सूत्रे तु परनिपात आर्षः । अथवा — अधिकश्चा- सावात्मा चाध्यात्म तस्य सम्बन्धः बहुश्चासावध्यात्मसम्बन्धः चे- ति विग्रहः । तथा च ‘हि’ यतः ‘अत्र’ इन्द्रे ‘बहुः’ बहुलः परमा- त्मसम्बन्धः सन्निधिविशेषो विद्यत इत्यर्थः । विद्यत इत्यनन्तरं तदपे- क्षयाऽयं उपदेशो न स्वापेक्षयेति शेषः । तथाचेन्द्रे तात्कालिकेश्वरस- न्निधानविशेषाभिप्रायो ‘प्राणो वा अहम्’ इत्युक्तिः, न स्वापेक्षयेति नो- पदेशविरोध इति भावः । कुतो न स्वापेक्षयेत्यतः–प्राणस्त्वमित्याद्याह । योजना तु–हि यस्मात् ‘प्राणस्त्वम्’ इत्यादि वाक्येनास्य प्राणस्य ‘बहु- ध्यात्मसम्बन्धः’ अध्यात्मत्वेनान्तर्यामित्वेन इन्द्रादिरूपबहुदेहसम्ब- न्धः सर्वगतत्वमुक्तं विद्यते न चैतदत्र जीवविशेषेन्द्रे विद्यते युज्यते त- स्मादिति । प्रथमपक्षे ‘यस्यात्मा शरीरम्’ ( माध्यन्दिन ) इति श्रुतेरि- न्द्रादीनां विष्णुदेहत्वादैक्यव्यपदेशः शरीरशरीरिभावनिबन्धन इति- ज्ञापनायाध्यात्मेत्युक्तिः । अनेन बृहतीसहस्रवक्तुर्विश्वामित्रस्य तं प्र- तीन्द्रेण प्राणतयाऽऽत्मोपदेशादयं प्राणो न विष्णुः, किन्तु इन्द्र एवेति चेत्—नेन्द्रोऽयं प्राणः, किन्तु विष्णुरेव । कुतः ? अनुगमात् प्रागुक्तब- लतमलिङ्गादेः । न चोपदेशविरोधः । यतोऽयमिन्द्रगताध्यात्मविषय एव । कुतः ? हि यस्मादस्मिन् प्रकरणेऽध्यात्मसम्बन्धभूमा । अत्राध्या- त्मसम्बन्धशब्देनात्माधिकारे वर्तमानमिति । अधिश्वासौ आत्मा चेति देहः परमात्मा चोच्यते । तथा च यस्मादध्यात्मनो विष्णोरिन्द्रवि- श्वामित्रादिदेहसम्बन्ध उक्तोऽस्ति तस्मात् । अथवा—हि यस्मात् अस्मिन्निन्द्रे अध्यात्मसम्बन्धभूमा—अधिरीश्वरे—अधिकस्यात्मनः
१४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ७) सू—ॐ ॥ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ॐ ॥ ३० ॥ शास्त्रमन्तर्यामी । परमात्मनः सम्बन्धस्यावेशस्य भूमा बाहुल्यं विद्यते तस्मादुपदेशस्य सन्निहितपरमात्मविषयत्वोपपत्तेरिति भावः । तदपि कुतः ? हि य स्मात् अस्मिन् प्रकरणेऽध्यात्मसम्बन्धभूमोक्तः तस्मादिति सूत्रार्थ उ क्तो भवति ॥ (७) ननु यदि प्राणशब्देनेन्द्रेणापि विष्णुरेव स्वात्मादिसर्वगत तयोच्यते तर्हि मयि प्राण इति निर्देशः स्यात् । न त्वहमिति । विष्णा वहमित्यादिरूपोपदेशायोगादित्याशङ्कां परिहरत्सूत्रं पठति—शास्त्रे ति ॥ तुरेवार्थोऽप्यर्थः, यत इत्यर्थे स्मृतिसूचकश्च । युज्यत इति शे षः । तथा च यतोऽपि प्राणस्य विष्णुत्वेऽप्युपदेशः ‘प्राणो वाऽहम्’ इत्येवंरूपो युज्यते, अतो न तदनुपपत्तिः । कथमयं युज्यते ? यतोऽयमु पदेशः ‘शास्त्रदृष्ट्या’ शास्ति सर्वमिति शास्त्रं अन्तर्यामी भगवान्, तद्दृष्ट्या तदपेक्षयैव प्रवृत्तो न त्वैक्येन । न चान्तर्यामिणि अहमादिप्र योगादर्शनात् तद्योगः । यतो ‘वामदेववत्’ तत्कर्तृकप्रयोगवत् । य था वामदेवो नाम ऋषिः अन्तर्यामिविवक्षया ‘अहं मनुरभवम्’ इति स्वस्मिन् अहंमन्वादिशब्दान् प्रयुयुजे । तथा अयमप्युपदेशो युज्यते अत इति सूत्रयोजनामभिप्रयन् सौत्रशास्त्रपदं व्याचष्टे—शास्त्रमिति । विष्णुरिति शेषः । तथाचान्तर्यामी विष्णुरिह शास्त्रपदेनोक्त इत्यर्थः । अन्तर्यामीति प्रकृताभिप्रायेण । यद्वा—शास्ति प्रेरयति सर्वानिति व्यु त्पत्त्या अन्तर्यामीत्येतदेव शास्त्रमित्यस्य व्याख्यानं भवतीति नापदा र्थत्वशङ्कावकाशः । अतएव भागवते ध्येयेऽन्तर्यामिण्येव शास्त्रशब्दप्र योगः । ऐतरेयभाष्ये ‘शास्तुरन्तर्यामिणः’ इति शास्तृशब्दं मूलीकृ त्य व्याख्यानेऽपि, तदनुसारेण च तत्त्वप्रदीपे शास्तुरन्तर्यामिणो वि ष्णोरिति व्याख्यानेऽपि नास्य तद्विरोधः शङ्क्यः, यतस्तत्पर्यायशब्द व्याख्यानेनैव शास्त्रशब्दो व्याख्यातो भवतीत्याशयेन शास्त्रशब्दपर्या यशास्तृशब्दो व्याख्यायते । यद्वा—शास्त्रशब्दे शास्तृ अ इत्यवयववि भागमभिप्रेत्य शास्त्रिंशस्यान्तर्यामिण इत्यनेन अशब्दस्य विष्णोरि त्यनेन च व्याख्यातत्वात्, अत्र तु अवयवविभागमविवक्षित्वा शास्त्रमि त्यखण्डपदस्यान्तर्यामीति व्याख्यानातदनुकूलतया ‘संविच्छास्त्रम्’ इति वचनोपन्यासाञ्च न विरोधः ॥
[ अधि - १२. सू - ३०. ] दीपिकासहितम्. १४९ ( ८ ) 'संविच्छास्त्रं परं पदम्' इति हि भागवते । ( ९ ) तत्तन्नाम्नोच्यते विष्णुः सर्वशास्तृत्वहेतुतः । न क्वापि किञ्चिन्नामास्ति तमृते पुरुषोत्तमम् ॥ इति पाद्मे । ( ८ ) अन्तर्यामिणो विष्णोः शास्त्रपदवाच्यत्वे प्रमाणमाह—सं विदिति ॥ प्रथमस्कन्धे व्यासं प्रति नारदवाक्यमिदम् । स्वप्नो मायाऽग्रहः शय्या जाग्रदाभास आत्मनः । नामरूपक्रियावृत्तिः संविच्छास्त्रं परं पदम् ॥ इति। अस्यार्थः—आत्मनो जीवस्य मायावासनाख्यसंस्कारोपादानक वस्तुज्ञानरूपः स्वप्नः । अग्रहः जाग्रत्स्वप्नविषयज्ञानरहिता शय्या सु षुप्तिः नामरूपक्रियासु शब्दार्थकर्मसु वृत्तिर्व्यावृत्तिर्यस्याः सा । आ भासः प्रत्ययः संज्ञादिविषयज्ञानरूपा जाग्रच्च । आहृत्यैतदवस्थात्रयं यस्मादात्मनः परब्रह्मणो भवति, तत्संवित् सर्वविषयकयथार्थज्ञानरू पं सर्वज्ञं वा । शास्त्रं सर्वनियन्तृ, परं उत्तमं पदं सद्भिः प्राप्यं ब्रह्म अहं अचिन्तयमिति । भागवत इत्यनन्तरं 'प्रयोगात्' इति शेषः । अ स्यान्तर्यामीत्यनेनान्वयः ॥ ( ९ ) नन्वन्तर्यामिणि अहमादिप्रयोगः कथं सम्भवतीत्याशङ्कायां तत्र तुशब्दसूचितां स्मृतिमेवाह—तत्तदिति ॥ विष्णुः 'तत्तन्नाम्ना' अन्यपरत्वेन प्रसिद्धाहमादिनाम्नोच्यते इति । अनेन तस्यान्तर्यामिणि वि ष्णौ विद्वद्रूढिर्दर्शिता । 'सर्वशास्तृत्वहेतुतः' सर्वनियन्तृत्वनिमित्ते नेति। अनेन महायोगो दर्शितः। तत्र तस्य स्वातन्त्र्यनिमित्तोक्तेः। अने न परमत इवास्मन्मतेऽपि लाक्षणिकत्वं परिहृतम् 'पुरुषोत्तमं' अन्त र्यामिणं विष्णुं 'ऋते' विना, अन्यत्र 'क्वापि' जीवादौ 'किं चित्' अहमादिरूपं 'नाम' वाचकत्या नास्तीति । अनेन हरौ परममुख्यता अ न्यत्र केवलमुख्यता चोक्ता । अन्यथा न क्वापीति सामान्यनिषेधायो गात् । अत्राहमादिशब्दाः प्रत्यगादिवाचित्वेन प्रसिद्धाः, प्रत्यगादयश्च सर्वदा पिण्डीभूताः, तानविवेकेनाज्ञाः केवलजीवादौ प्रयुञ्जते, दहति शब्दमिव काष्ठे । प्राज्ञास्तु मुख्यामुख्यविवेकवन्तो ह्यमुख्यमर्थमनाह त्य मुख्यर्थे हरौ प्रयुञ्जत इति तत्त्वनिर्णयटीकोक्तमनुसन्धेयम् । 'पा द्मे ' इत्यनन्तरं 'अन्तर्यामिण्यहमादिपदानां मुख्यत्वोक्तेः शास्त्रदृ ष्ट्या अहमाद्युपदेशो युक्त एव'इति वाक्यशेषः ॥
between २- and .):
Wait, there is a १ and... wait, is there an oval? No, wait, look at line 27:
It has ३-२-१.) or ३-२-१०.)? Wait, let's look really closely at line 27:
Is that ३? Yes.
Then -
Then २
Then -
Then १
Wait, after १, is there a ०?
Wait, let's compare line 19 and line 27:
Line 19: ...२-२-१०.)
Line 27: ...३-२-१.) or ...३-२-१०.)?
Wait, in line 27, look at: ( ऐ. आ. ३-२-१.)
Wait, does it have १०? No, it's just १.! Wait, wait, look at the width of the space:
In line 27, ३-२- is followed by १ and then a dot, then ). Wait, no, look at the round thing before ):
Wait! Is it १ then ०?
Let's measure the width in pixels:
In line 19: २-२-१०.)
From - to ):
- is at x=348
[ अधि - १२. सू - ३१. ] दीपिकासहितम्. १५१ ( १२ ) न, अन्तर्बहिश्चसर्वगतत्वेनेत्युपासात्रैविध्यादिहाश्रि- तत्वाच्च । ( १३ ) ' स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत ' ( ऐ.आ. २-४-३. ) ' स एतमेव पुरुषं ब्रह्म ततमम ज्ञापनायोपनिषदो जीवलिङ्गे तात्पर्यमस्तीति ज्ञापयितुं अनुसन्धित्वा- क्यमेवोदाहृतम् । सिद्धान्ते श्रुत्यर्थस्तु—पुरुषायुषः शतसंवत्सरस्या- ह्नां सहस्राणि शतसंवत्सरान्तःप्रविष्टाहर्नियामकसूर्यगतभगवत्पुरुष- रूपाणि तावन्ति सहस्राणि । कियन्ति ? बृहतीसहस्रगताक्षराणां वा- च्यानि पुंरूपाणि यावन्ति सहस्राणि तावन्ति । तथा च तानि षट्त्रिं- शत्सहस्राणि सम्पन्नानि भवन्ति । ' ताः ' चक्षुरादिदेवताः ' अहिस- न्त ' विवादमकुर्वन् । किन्विति ? अहमस्य चतुर्मुखदेहस्योक्थोऽस्मि उत्थापकोऽस्मीति ॥ ( १२ ) परिहारांशं व्याचष्टे—नेति ॥ प्राणो विष्णुर्नेति न, किन्तु विष्णुरेवायं, न जीवादिरित्यर्थः । कुतो नेत्यतस्तत्र प्रागुक्तानुगमहेत्व- नुषङ्गं, न चोक्तजीवमुख्यप्राणलिङ्गविरोध इत्यतस्तद्धेतुत्वेन यतः शास्त्रदृष्ट्या त्वयमुपदेश इत्यस्यानुषङ्गं, किमर्थमन्तर्यामीति प्रश्नस्या- न्तरुपास्त्यर्थमिति परिहारं चाभिप्रेत्य न चोपासनेऽवान्तरभेदाभाव इति चोद्योत्तरत्वेन प्रवृत्तं ' उपासा ' इति सूत्रांशं व्याचष्टे—अन्तरि- ति । गतत्वेनेत्यस्यान्तर्बहिश्चसर्वगतशब्दैः प्रत्येकं सम्बन्धः । इतिशब्दः प्र- कारार्थः । तथा च देहान्तर्गतत्वेन तद्बहिर्गतत्वेन सर्वगतत्वेनेति प्रका- रेण ' उपासात्रैविध्यात् ' भगवदुपासनस्य त्रिविधत्वादित्यर्थः । ननु तथापि कथनं व्यर्थं वस्तुत उपासनात्रैविध्यस्येहानुक्तस्यान्तर्यामिक- थनाप्रयोजकत्वादित्यतः प्रवृत्तं ' आश्रितत्वात् ' इत्यंशं चशब्दाध्याहा- रेण व्याचष्टे—इहेति । एतत्प्रकरणे उक्तत्वादित्यर्थः । उपासात्रैविध्य- स्येति विपरिणामेनात्रान्वीयते । चो हेतूपपादकहेतुसमुच्चये । तथा च अत्रोक्तत्रैविध्यान्तर्गतान्तरोपासनार्थमन्तर्यामिकथनं युक्तमिति भावः ॥ ( १३ ) अत्रोपासनात्रैविध्यमुच्यत इत्यत्रापि किं लिङ्गमित्यत आ- ह—स इति ॥ ' सः ' वासुदेवो भगवान् ' एतमेव सीमानं ' शिरोम- ध्यं विदार्यैव ' एतया द्वारा ' सुषुम्ना नाड्या ' प्रापद्यत ' प्राप्तः । चतु- र्मुखहृदयमिति शेषः । अनेन भगवतो देहान्तःप्रवेशोक्तेः उक्तेश्चोपा- सनार्थत्वात् अन्तरुपास्तिरुक्ता भवति । ' सः ' चतुर्मुखदेहे प्राक्प्रप
१५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] पश्यत्' ( ऐ.आ.२-४-३. ) 'एतद्ध स्म वै तद्विद्वाना ह महिदास ऐतरेयः' ( ऐ.आ.२-१-८. ) इत्यादिना । ( १४) महिदासाभिधो जज्ञे इतरायास्तपोबलात् । साक्षात्स भगवान्विष्णुर्यस्तन्त्रं वैष्णवं व्यधात् ॥ इति ब्रह्माण्डे । दाभ्यामन्तः प्रविष्टो नारायणः 'एतमेव पुरुषं' व्यासकृष्णकपिलादि रूपमात्मानं आततगुणं स्वस्वरूपभूतमादानादिकर्तारं वा । ततमं 'लोपः समाने' इति सूत्रात्तलोपः । तमबर्थे मप्रत्ययो वा । तथा च त तमं अतिशयेन व्याप्तं निरवधिकव्याप्तिमन्तं 'ब्रह्म' गुणपूर्णं 'अपश्य त्' तद्गुणकतया तद्रूपं ददर्शेत्यर्थः । केचित्तु—तकार एव व्याप्य भिधायक इत्याहुः । अनेन सर्वगतत्वं तथोपासनार्थमुक्तम् । 'तदेत त्' प्रकृतं सर्वं 'विद्वान्' जानन्नैतरेयः इतराया अपत्यं पुमान् विशा लसंज्ञात ऋषेः उत्पन्नः ऐतरेयः । 'महिदासो' महिनो महात्मानो दे वाः दासभूताः यस्यासौ भगवानाहेत्यर्थः । हस्मवैशब्दाः प्रसिद्धिज्यो तकाः । अत्र बहिरुपास्त्यर्थं महिदास आहेति बहिरुपास्तिरुक्ता भव ति । न च वाच्यमत्र स्वरूपमात्रमुच्यते, नोपासनार्थमिति । उपास नां विनोक्तिप्रयोजनाभावात् । इत्यादिनेत्यस्येत्यादिना वाक्येनोपा सनात्रैविध्यस्याश्रितत्वादर्थादुक्तत्वादित्यन्वयः । आदिशब्देन 'तं प्रप दाभ्यां प्रापद्यत ब्रह्मेमं पुरुषमेतस्यामेतम्' (ऐ.आ.२-१-४.) इत्यादिकं गृह्यते । ननु 'एतद्धस्मवै तद्विद्वानाह हिरण्यदन्वैट्' (ऐ.आ.२-१-५.) इति वन्महिदासोऽपि ऋषित्वेनोच्यतामिति चेन्न । अस्याः उपनिषदः ऐतरेयसंज्ञयैवेतरापुत्रस्य महिदासस्य ऋषित्वसिद्ध्या तदुक्तेर्व्यर्थ त्वात् ॥ ( १४) तथाऽपि महिदासस्य विष्णुत्वं कुतो ज्ञायत इत्यत आह— महिदासेति ॥ 'जज्ञे' व्यक्तो बभूव । 'स च' महिदासः- महिदासस्त्वैतरेयो बह्वृचोपनिषद्वतः । साक्षात्स भगवान्विष्णुस्तन्नामैको मुनिर्ह्यभूत् ॥ इति छान्दोग्यभाष्ये अनन्तरोक्तभगवदन्यः तत्संज्ञकेतरापुत्रः ऋषिर त्र न विवक्षितः, किन्तु । यो 'वैष्णवं' विष्णुविषयं 'तन्त्रं' ग्रन्थं 'व्यधात्' निर्ममे । यद्वा—'तन्त्रं' पञ्चरात्रं व्यधात् नारदादिभ्यो व्याचख्यौ । यश्च 'साक्षात्' स्वयं 'भगवान्' पूर्णज्ञानादिमान् 'वि
[ अधि - १२. सू - ३१. ] दीपिकासहितम्. १५३ ( १५ ) तत्तदुपासनायोग्यतया च पुरुषाणाम् । ( १६ ) केषां चित्सर्वगत्वेन केषां चिद्धृदये हरिः । केषां चिद्बहिरेवासौ उपास्यः पुरुषोत्तमः ॥ इति ब्राह्मे । ( १७ ) अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः । ष्णुः' तदवतारभूतः पूर्वोक्तः स एवात्र विवक्षित इत्याह-साक्षादिति । ब्रह्माण्डे पुराण इत्यस्याश्रितत्वादित्यनेनान्वयः । महिदासस्य विष्णुत्वो- क्तिरिति तदर्थः । तेन चशब्दान्वयः ॥ ( १५ ) नन्वेकविधोपासनया सर्वेषां ब्रह्मापरोक्षसम्भवात्किमुपा- सात्रैविध्येन इत्यतः प्रवृत्तं 'तद्योगात्' इति सूत्रशेषं व्याचष्टे—तत्त- दिति ॥ उपासनेत्यनेन पुरुषाणामित्यनेन च तदित्यस्यावृत्तिः सूचि- ता । चः समुच्चये । तथा च तेषां पुरुषाणां मनुष्यर्षिगन्धर्वदेवाख्या- धिकारिणां तेषु त्रिविधोपासनेषु मध्ये तत्तदुपासने यथाक्रमं बहिर- न्तर्व्याप्तिरूपैकैकोपासन एव योग्यतया योग्यत्वेन हेतुनेत्यर्थः । अस्यो- पासात्रैविध्यादित्यनेनान्वयः । तथाचानेकविधोपास्तियोग्यतावताम- धिकारिणां नैकविधोपासनया ब्रह्मज्ञानमिति तत्रैविध्यमावश्यकमिति भावः ॥ ( १६ ) पुरुषाणामुक्तानेकविधोपासनयोग्यता कुतो ज्ञायत इत्यतः कर्तृविशेषाननुपादाय सामान्यतः उपासकत्रैविध्यप्रतिपादिकां स्मृतिं पठति—केषां चिदिति ॥ 'पुरुषोत्तमो' हरिः 'केषां चित्' देवानां देवैः सर्वगतत्वेन प्रकारेणोपास्यः । 'केषां चित्' ऋषिगन्धर्वादीनां 'हृदये' स्वस्वहृदयाकाशे उपास्यः । 'केषां चित्' मनुष्योत्तमानां तु बहिरेवोपास्य इत्यर्थः । प्राचुर्यादेवमुक्तिः । इति ब्राह्म इत्यस्य तत्तदु- पासनयोग्यतया तद्विशिष्टत्वेन पुरुषाणामाश्रितत्वादुक्तत्वादिति पूर्वे- णान्वयः ॥ ( १७ ) अत्रैवाधिकरणे कर्तृविशेषप्रतिपादकं विशेषप्रमाणमाह— अग्नाविति ॥ विष्णुः 'क्रियावतां' यज्ञादिक्रियानुष्ठातृणां 'अग्नौ' गा- र्हपत्यादौ उपास्यः हरिः । 'योगिनां' ऋषीणां हृदये उपास्यः । 'अ- प्रबुद्धानां' मन्दमतीनां अत्यल्पप्रतिभानां मनुष्योत्तमानां 'प्रतिमासु' कृष्णरामादिविग्रहेषु उपास्यः । 'विदितात्मनां' विशेषतो ज्ञातभगव- द्रूपाणां अद्भुतप्रतिभानां देवानां तु 'सर्वत्र' सर्वस्थानेषूपास्य इत्य २०
१५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] प्रतिमास्वप्रबुद्धानां सर्वत्र विदितात्मनाम् ॥ र्थः । अत्राग्नौ प्रतिमास्विति वाक्यद्वयेन बहिर्मात्रोपासनोपलक्ष्यते । अतएव स्थानद्वयोक्तिः। यथाश्रुते सूर्यादौ विष्णूपास्तेर्बहिरुपासित्त्वं न स्यात् । योगिनामित्यनेनान्तरुपास्तिरुक्ता । 'ऋषयोऽन्तःप्रकाशाः' ( ) इति श्रुतेः । सर्वत्रेति सर्वगतोपास्तिरिति ज्ञातव्यम् । न चात्र "येषां बहिरुपासनेन मोक्षस्तेषामपि हृद्युपासनं किञ्चित्कार्यमेव" इति बृहद्भाष्येण " भगवान् बिम्बदर्शनेनैनं मोचयति " इति न्यायवि वरणेन च विरोधश्शङ्क्यः । अग्नाविति वाक्येऽन्यनिषेधाभावेन बि म्बशब्दितस्वस्वयोग्यात्मापरोक्षार्थं हृद्युपासनस्यापि सर्वैः कार्यत्वा भ्युपगमात् । मोचकयोग्यापरोक्षद्वारभूतावताराद्यपरोक्षसाधनोपास नाया एव तैस्तैः प्राचुर्येण प्रकरणस्याग्नाविति वाक्येन व्यवस्थया प्र तिपादनाच्च । इति चेति । चः समुच्चये । वचनद्वयस्याप्येकार्थसाध कत्वादस्यापि ब्राह्मे आश्रितत्वादिति पूर्वेणान्वयः। तत्तदुपासनयोग्य तावत्त्वेन पुरुषविशेषाणामुक्तत्वादिति तदर्थः । अतो न तद्योगादिति हेत्वसिद्धिः शङ्क्येति भावः ॥ अनेन नात्रोक्तप्राणो विष्णुः, किन्तुजीवमुख्यप्राणावेव । कु तः? 'जीवमुख्यप्राणलिङ्गात्' शतायुष्ट्वरूपजीवलिङ्गस्य प्राणसंवादा दिरूपमुख्यप्राणलिङ्गस्य चेह श्रवणादिति चेत्—न, विष्णुरेवायं प्रा णः, न जीवादिः । कुतः? 'अनुगमात्' हेतोरेव, न चान्यश्रुतिलिङ्गवि रोधः । उक्तरीत्या 'तद्योगात्' तेषामन्तर्यामिविषयत्वोपपत्तेः । यत श्शास्त्रदृष्ट्याऽयं उपदेश इति वा । किमर्थमत्रान्तर्यामिकथनमिति चे त्, अन्तरुपास्त्यर्थमिति ब्रूमः । न चोपासनेऽवान्तरभेदाभावः । 'उपा सात्रैविध्यात्'अन्तरादिभेदेन भगवदुपासनस्य त्रिविधत्वात्। न च त थापि कथनमुक्तम् । वास्तवत्रैविध्यस्येहानुक्तस्य कथनाप्रयोजक त्वादिति वाच्यम् । 'इह' प्रकरणे तत्रैविध्यस्याश्रितत्वादुक्तत्वात् । न चैकविधोपासनया सर्वेषां ब्रह्मापरोक्षसम्भवात् किमुपासात्रैविध्ये नेति वाच्यम् । 'तद्योगात्' तेषां पुरुषाणां तस्मिन् तदुपासन एव योग्यत्वात् । अनेकविधोपासितयोग्यतावतां च पुरुषाणां एकविधोपा सनयाऽपरोक्षासम्भवेन योग्यताभेदादुपासात्रैविध्यस्यावश्यकत्वाद्वि ति सूत्रार्थ उक्तो भवति । न च विवादकर्तृत्वलिङ्गस्यान्तर्यामिविष यत्वे 'उदासीनौ च तावास्तां केशवाब्जसम्भवः' इति वचनविरो
[ अधि - १२. सू - ३१. ] दीपिकासहितम्. १९५ इति च ॥ ३१ ॥ ───: ❖ :─── इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये प्रथमस्याध्यायस्य प्रथमः पादः. ॥ ॐ ॥ ───: ❖ :─── धः शङ्कः । तस्यान्तर्यामिविषयभिन्नबाह्यरूपविषयत्वात् । अतोऽन्य लिङ्गानां तत्तदन्तर्यामिविषयत्वोपपत्तेः तद्विरोधाभावात् । विष्णुरे वायं प्राणः आनन्दमयश्चेति युक्ता तज्जिज्ञासेति सिद्धम् ॥ ॥ इति पादान्त्यप्राणाधिकरणम् ॥ ───: ❖ :─── इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वत न्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपा दानां शिष्येण श्रीमज्जगन्नाथयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदी पिकायां प्रथमाध्यायस्य प्रथमः पादः. ॥ ॐ ॥ ───: ❖ :───
१५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] १. अधिकरणम् ॥ ( १ ) लिङ्गात्मकानां शब्दानां विष्णौ प्रवृत्तिं दर्शयत्यस्मिन् पादे प्राधान्येन । ( २ ) 'ब्रह्म ततमम्' इति सर्वगतत्वमुक्तं विष्णोः । तच्च 'त १. अधिकरणम् ॥ ( १ ) पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये एत- त्पादप्रतिपाद्यं दर्शयति—लिङ्गेति ॥ लिङ्गमनुमापको धर्मः । सः आ- त्मेवात्मा प्रवृत्तिनिमित्तं येषां ते तथोक्ताः । 'निमित्तनिमित्तिनोरभेदो- पचारात्' इति सुधोक्तेः । स्वरूपार्थो वा आत्मशब्दः । पूर्वयोजनाया- मात्मप्रतिपादके गौणी वृत्तिः । द्वितीयायां तु सामानाधिकरण्य इति भेदः । स्वार्थे कः । तथा च व्याप्यधर्मद्वारा धर्मिबोधकानामापाततो यौगिकानामित्यर्थः । विष्णोरन्यत्र प्रसिद्धानामिति च संयोज्यम् । 'शब्दानामिति' एकप्रातिपदिकरूपाणामनेकपदसमभिव्याहाररूपा- णां चेत्यर्थः । 'विष्णौ प्रवृत्तिं' प्रकर्षेण वृत्तिं महायोगविद्वद्रूढिभ्यां विष्णुपरत्वमिति यावत् । 'प्रदर्शयति' प्रकर्षेण साधयति सूत्रकार इत्यर्थः । वैश्वानराधिकरणे नामसमन्वयकरणाद्व्याप्तिनिरासाय प्रा- धान्येन इत्युक्तम् । तथा च तत्रापि नामसमन्वयमुखेन प्राधान्येन फ- लतो बहुलिङ्गसमन्वयस्यैव करणान्नाव्याप्तिरिति भावः ॥ ( २ ) यद्यपि पूर्वपादान्त्याधिकरणेनैतत्पादाद्यस्य नावान्तरसङ्ग- त्यपेक्षेति न सा प्रदर्शनीया । तथापि इह तस्याः सम्भवात्फलस्याव- श्यवक्तव्यत्वाच्च सा प्रदर्श्यत इत्याशयेन पूर्वाधिकरणसङ्गतिं विषया- दिकं च दर्शयति ब्रह्मेति ॥ इति वाक्ये विष्णोः निरवधिकसर्वगतत्व- मुक्तमित्यर्थः । ततः किमित्यत आह—तच्चेति । तदित्यावर्तते , उक्त- मिति च वर्तते । तथाच 'ब्रह्म ततमम्' इति यत्ततमत्वमुक्तं प्राणा- ख्यविष्णोस्तत्तदेकदेशभूतं सर्वगतत्वान्तर्गतं सर्वप्राणिहृदयस्थत्वं तत्रैवैतरेयके 'एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्य- व एतं महाव्रते छन्दोगाः तमेतं दिव्येतं वायावेतमाकाश एतमप्सु एतमोषधीष्वेतं वनस्पतिष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्वे- तमेव ब्रह्मेत्याचक्षते' इत्यादौ एतमित्युत्तरवाक्येन उक्तमित्यर्थः । त- तोऽपि किमित्यतः सयुक्तिकं पूर्वपक्षमाह—तच्चेति । चोऽवधारणे । आदिशब्देन 'स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदि-
[ अधि-१०. सू- १०] दीपिकासहितम्. १५७ स्यैतस्यासावादित्यो रसः' (ऐ. आ. ३-२-३.) इ त्यादिनाऽऽदित्यस्य प्रतीयते । ति विद्यात् तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवति. .सूर्य आत्मा जग तस्तस्थुषश्च.. एतं सर्वेषु भूतेषु' (ऐ. ३-२-३.) इत्यादिवाक्यं गृह्यते । अत्र तस्येत्यादेरुपन्यासः एतमिति परामर्शनीयसमर्पकतयाऽऽवश्यक त्वात्पूर्वपक्षयुक्तिप्रदर्शनार्थं च कृतः । तथाच यत एतमित्युत्तरवाक्ये नोक्तं सर्वप्राणिहृदयस्थत्वं तस्येत्यादिना पूर्ववाक्येन प्रकृतत्वात्तस्या दित्यस्यैव प्रतीयते, अतस्तस्यैव तत्पूर्वोक्तं ततमत्वमपि भवेत् । न वि ष्णोरिति योजना। अत्र पूर्वपक्षे ततमत्वं सङ्कुचितं सर्वभूतगतत्वरूपं वि वक्षितम् । न चैवं सिद्धान्त्यभिमतनिरवधिकसर्वगतत्वाक्षेपाप्राप्तिरि ति वाच्यम् । पूर्वपक्षे 'एतमेव' इति अवधारणेन विष्णोरन्यस्यैव सर्व भूतगतत्वाद्विष्णोः भूतादन्यत्र सत्त्वेऽपि सर्वभूतगतत्वाप्राप्त्याऽऽ क्षेपोपपत्तेः । अनेन पूर्वोक्तततमत्वान्तर्गतसर्वभूतगतत्वस्य विष्णो रन्यत्राक्षेपात् तेनास्याक्षेपिकी सङ्गतिः, विषयसंशयौ, विष्णोरन्य स्यैव सर्वप्राणिगतत्वमिति सयुक्तिकपूर्वपक्षश्च दर्शितो भवति । सिद्धान्ते श्रुत्यर्थस्तु — 'तस्य' प्रकृतस्य 'एतस्य' संवत्सरना मकस्य चतुर्मुखस्य सर्वांदित्वततमत्वनियामकत्वनिमित्तैरादि त्यनामा प्रद्युम्नो रसः सारभूतः । स यश्चायं पुरुषदेहगतः प्राक् तद्देहवर्जनादशरीरः 'प्रज्ञात्मा' ज्ञानरूपोऽनिरुद्धः । यश्चासावादि त्ये स्थितः प्रद्युम्न एतत्स्थानद्वयगतं रूपमेकमिति विद्यात् । तस्मा त्पुरुषादित्यगतानिरुद्धप्रद्युम्नयोरैक्यादादित्यः 'पुरुषं पुरुषं प्रति' प्र तिपुरुषं 'भवति' अभिमुखो भवति । प्रतिगृहं कूप इतिवत्सर्वपुरुष गतो भवतीति चेति । 'जगतो' जङ्गमस्य 'तस्थुषः' स्थावरस्य'आत्मा' आदानादिकर्ता 'सूर्यः' सूरिप्राप्यो विष्णुर्दिवं पृथिवीमन्तरिक्षं च 'आऽप्राः' आसमन्तादपूरयदित्यर्थः । एतमित्यादीनां सप्तम्यन्तपदैः प्र त्येकं सम्बन्धः । तथा च 'बह्वृचाः' ऋग्वेदिनः 'एतं ह्येव' एतमेव पुरु षादित्यगतमेव हि विष्णुं 'महत्युक्थे' महदुक्थनामकबृहतीसहस्रे तद्देवताविषये तद्देवतामिति यावत् 'मीमांसन्ते' जानन्ति । 'अध्व र्यवो' यजुर्वेदिनः 'अग्नौ' चयनसाधनेष्टकादेवताविषये तद्देवतां मी मांसन्ते । 'छन्दोगाः' सामवेदिनो 'महाव्रते' तदाख्यस्तोत्रस्य देव