भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

...? Wait, let's read the characters between तथा चेत्थंandटीकोक्त: thenत्त्व? Wait, no! Is it तत्त्व? Look at the first letter: Second:त्त्व? No, it has a repha? Wait, let's look at: त् त्व? No, त्त्व प्र ती ्त? Wait! "प्रतीकटीकोक्त"? Let's zoom in to line 30: Word after चेत्थं`:

  1. त्त्व? Wait, look at line 24: तत्त्वनिर्णय - in line 24, तत्त्व is written with त + त + व. In line 30: after चेत्थं, there is: then त्त्व? No, it looks like तत्तत्प्रतीकोक्त? Wait! Look at: त्त्व? No, it's त्त्व with a bar? No, look: त्त्व प्र ती ्त? Wait, look at the letters: then त्त्व? It

[ अधि - १२. सू - २९. ] दीपिकासहितम्. १४७

णः सर्वाणि भूतानि' ( ऐ. आ. २ २-३. ) इति बहु- ध्यात्मसम्बन्धो ह्यत्र विद्यते ॥ २९ ॥ प्रागुक्तप्रबलतमलिङ्गादेः । तथा सत्युपदेशविरोध इति चेत् — न, कु- तः ? यतोऽत्र प्रकरणे स्वस्थितस्यैव प्रथमं ‘प्राणो वा अहमस्म्यृषे’ इति वाक्येन परमात्मत्वमुक्तमिन्द्रेण । तर्ह्यैक्योक्तिविरोध इत्यपि न । यतोऽत्र तस्यैव प्राणाख्यपरमात्मनः ‘प्राणस्त्वं प्राणः सर्वाणि भूता- नि’ इत्येवमादिवाक्येन ‘बहुध्यात्मसम्बन्धः’ इन्द्रादिजीवरूपबहुदे- हसम्बन्धः सर्वगतत्वमेव ऋर्षि प्रति इन्द्रेणोक्तं ‘विद्यते’ अस्ति न त्वैक्यमत इति । सूत्रोक्तसम्बन्धबाहुल्यं सम्बन्धिनि पर्यवस्यतीत्या- शयेन बह्वित्युक्तम् । भूमशब्दस्य भाववाचित्वेऽपि भावभवित्रोरभेदा- द्भवितरि प्रयोगः । सूत्रे तु परनिपात आर्षः । अथवा — अधिकश्चा- सावात्मा चाध्यात्म तस्य सम्बन्धः बहुश्चासावध्यात्मसम्बन्धः चे- ति विग्रहः । तथा च ‘हि’ यतः ‘अत्र’ इन्द्रे ‘बहुः’ बहुलः परमा- त्मसम्बन्धः सन्निधिविशेषो विद्यत इत्यर्थः । विद्यत इत्यनन्तरं तदपे- क्षयाऽयं उपदेशो न स्वापेक्षयेति शेषः । तथाचेन्द्रे तात्कालिकेश्वरस- न्निधानविशेषाभिप्रायो ‘प्राणो वा अहम्’ इत्युक्तिः, न स्वापेक्षयेति नो- पदेशविरोध इति भावः । कुतो न स्वापेक्षयेत्यतः–प्राणस्त्वमित्याद्याह । योजना तु–हि यस्मात् ‘प्राणस्त्वम्’ इत्यादि वाक्येनास्य प्राणस्य ‘बहु- ध्यात्मसम्बन्धः’ अध्यात्मत्वेनान्तर्यामित्वेन इन्द्रादिरूपबहुदेहसम्ब- न्धः सर्वगतत्वमुक्तं विद्यते न चैतदत्र जीवविशेषेन्द्रे विद्यते युज्यते त- स्मादिति । प्रथमपक्षे ‘यस्यात्मा शरीरम्’ ( माध्यन्दिन ) इति श्रुतेरि- न्द्रादीनां विष्णुदेहत्वादैक्यव्यपदेशः शरीरशरीरिभावनिबन्धन इति- ज्ञापनायाध्यात्मेत्युक्तिः । अनेन बृहतीसहस्रवक्तुर्विश्वामित्रस्य तं प्र- तीन्द्रेण प्राणतयाऽऽत्मोपदेशादयं प्राणो न विष्णुः, किन्तु इन्द्र एवेति चेत्—नेन्द्रोऽयं प्राणः, किन्तु विष्णुरेव । कुतः ? अनुगमात् प्रागुक्तब- लतमलिङ्गादेः । न चोपदेशविरोधः । यतोऽयमिन्द्रगताध्यात्मविषय एव । कुतः ? हि यस्मादस्मिन् प्रकरणेऽध्यात्मसम्बन्धभूमा । अत्राध्या- त्मसम्बन्धशब्देनात्माधिकारे वर्तमानमिति । अधिश्वासौ आत्मा चेति देहः परमात्मा चोच्यते । तथा च यस्मादध्यात्मनो विष्णोरिन्द्रवि- श्वामित्रादिदेहसम्बन्ध उक्तोऽस्ति तस्मात् । अथवा—हि यस्मात् अस्मिन्निन्द्रे अध्यात्मसम्बन्धभूमा—अधिरीश्वरे—अधिकस्यात्मनः

१४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ७) सू—ॐ ॥ शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ॐ ॥ ३० ॥ शास्त्रमन्तर्यामी । परमात्मनः सम्बन्धस्यावेशस्य भूमा बाहुल्यं विद्यते तस्मादुपदेशस्य सन्निहितपरमात्मविषयत्वोपपत्तेरिति भावः । तदपि कुतः ? हि य स्मात् अस्मिन् प्रकरणेऽध्यात्मसम्बन्धभूमोक्तः तस्मादिति सूत्रार्थ उ क्तो भवति ॥ (७) ननु यदि प्राणशब्देनेन्द्रेणापि विष्णुरेव स्वात्मादिसर्वगत तयोच्यते तर्हि मयि प्राण इति निर्देशः स्यात् । न त्वहमिति । विष्णा वहमित्यादिरूपोपदेशायोगादित्याशङ्कां परिहरत्सूत्रं पठति—शास्त्रे ति ॥ तुरेवार्थोऽप्यर्थः, यत इत्यर्थे स्मृतिसूचकश्च । युज्यत इति शे षः । तथा च यतोऽपि प्राणस्य विष्णुत्वेऽप्युपदेशः ‘प्राणो वाऽहम्’ इत्येवंरूपो युज्यते, अतो न तदनुपपत्तिः । कथमयं युज्यते ? यतोऽयमु पदेशः ‘शास्त्रदृष्ट्या’ शास्ति सर्वमिति शास्त्रं अन्तर्यामी भगवान्, तद्दृष्ट्या तदपेक्षयैव प्रवृत्तो न त्वैक्येन । न चान्तर्यामिणि अहमादिप्र योगादर्शनात् तद्योगः । यतो ‘वामदेववत्’ तत्कर्तृकप्रयोगवत् । य था वामदेवो नाम ऋषिः अन्तर्यामिविवक्षया ‘अहं मनुरभवम्’ इति स्वस्मिन् अहंमन्वादिशब्दान् प्रयुयुजे । तथा अयमप्युपदेशो युज्यते अत इति सूत्रयोजनामभिप्रयन् सौत्रशास्त्रपदं व्याचष्टे—शास्त्रमिति । विष्णुरिति शेषः । तथाचान्तर्यामी विष्णुरिह शास्त्रपदेनोक्त इत्यर्थः । अन्तर्यामीति प्रकृताभिप्रायेण । यद्वा—शास्ति प्रेरयति सर्वानिति व्यु त्पत्त्या अन्तर्यामीत्येतदेव शास्त्रमित्यस्य व्याख्यानं भवतीति नापदा र्थत्वशङ्कावकाशः । अतएव भागवते ध्येयेऽन्तर्यामिण्येव शास्त्रशब्दप्र योगः । ऐतरेयभाष्ये ‘शास्तुरन्तर्यामिणः’ इति शास्तृशब्दं मूलीकृ त्य व्याख्यानेऽपि, तदनुसारेण च तत्त्वप्रदीपे शास्तुरन्तर्यामिणो वि ष्णोरिति व्याख्यानेऽपि नास्य तद्विरोधः शङ्क्यः, यतस्तत्पर्यायशब्द व्याख्यानेनैव शास्त्रशब्दो व्याख्यातो भवतीत्याशयेन शास्त्रशब्दपर्या यशास्तृशब्दो व्याख्यायते । यद्वा—शास्त्रशब्दे शास्तृ अ इत्यवयववि भागमभिप्रेत्य शास्त्रिंशस्यान्तर्यामिण इत्यनेन अशब्दस्य विष्णोरि त्यनेन च व्याख्यातत्वात्, अत्र तु अवयवविभागमविवक्षित्वा शास्त्रमि त्यखण्डपदस्यान्तर्यामीति व्याख्यानातदनुकूलतया ‘संविच्छास्त्रम्’ इति वचनोपन्यासाञ्च न विरोधः ॥

[ अधि - १२. सू - ३०. ] दीपिकासहितम्. १४९ ( ८ ) 'संविच्छास्त्रं परं पदम्' इति हि भागवते । ( ९ ) तत्तन्नाम्नोच्यते विष्णुः सर्वशास्तृत्वहेतुतः । न क्वापि किञ्चिन्नामास्ति तमृते पुरुषोत्तमम् ॥ इति पाद्मे । ( ८ ) अन्तर्यामिणो विष्णोः शास्त्रपदवाच्यत्वे प्रमाणमाह—सं विदिति ॥ प्रथमस्कन्धे व्यासं प्रति नारदवाक्यमिदम् । स्वप्नो मायाऽग्रहः शय्या जाग्रदाभास आत्मनः । नामरूपक्रियावृत्तिः संविच्छास्त्रं परं पदम् ॥ इति। अस्यार्थः—आत्मनो जीवस्य मायावासनाख्यसंस्कारोपादानक वस्तुज्ञानरूपः स्वप्नः । अग्रहः जाग्रत्स्वप्नविषयज्ञानरहिता शय्या सु षुप्तिः नामरूपक्रियासु शब्दार्थकर्मसु वृत्तिर्व्यावृत्तिर्यस्याः सा । आ भासः प्रत्ययः संज्ञादिविषयज्ञानरूपा जाग्रच्च । आहृत्यैतदवस्थात्रयं यस्मादात्मनः परब्रह्मणो भवति, तत्संवित् सर्वविषयकयथार्थज्ञानरू पं सर्वज्ञं वा । शास्त्रं सर्वनियन्तृ, परं उत्तमं पदं सद्भिः प्राप्यं ब्रह्म अहं अचिन्तयमिति । भागवत इत्यनन्तरं 'प्रयोगात्' इति शेषः । अ स्यान्तर्यामीत्यनेनान्वयः ॥ ( ९ ) नन्वन्तर्यामिणि अहमादिप्रयोगः कथं सम्भवतीत्याशङ्कायां तत्र तुशब्दसूचितां स्मृतिमेवाह—तत्तदिति ॥ विष्णुः 'तत्तन्नाम्ना' अन्यपरत्वेन प्रसिद्धाहमादिनाम्नोच्यते इति । अनेन तस्यान्तर्यामिणि वि ष्णौ विद्वद्रूढिर्दर्शिता । 'सर्वशास्तृत्वहेतुतः' सर्वनियन्तृत्वनिमित्ते नेति। अनेन महायोगो दर्शितः। तत्र तस्य स्वातन्त्र्यनिमित्तोक्तेः। अने न परमत इवास्मन्मतेऽपि लाक्षणिकत्वं परिहृतम् 'पुरुषोत्तमं' अन्त र्यामिणं विष्णुं 'ऋते' विना, अन्यत्र 'क्वापि' जीवादौ 'किं चित्' अहमादिरूपं 'नाम' वाचकत्या नास्तीति । अनेन हरौ परममुख्यता अ न्यत्र केवलमुख्यता चोक्ता । अन्यथा न क्वापीति सामान्यनिषेधायो गात् । अत्राहमादिशब्दाः प्रत्यगादिवाचित्वेन प्रसिद्धाः, प्रत्यगादयश्च सर्वदा पिण्डीभूताः, तानविवेकेनाज्ञाः केवलजीवादौ प्रयुञ्जते, दहति शब्दमिव काष्ठे । प्राज्ञास्तु मुख्यामुख्यविवेकवन्तो ह्यमुख्यमर्थमनाह त्य मुख्यर्थे हरौ प्रयुञ्जत इति तत्त्वनिर्णयटीकोक्तमनुसन्धेयम् । 'पा द्मे ' इत्यनन्तरं 'अन्तर्यामिण्यहमादिपदानां मुख्यत्वोक्तेः शास्त्रदृ ष्ट्या अहमाद्युपदेशो युक्त एव'इति वाक्यशेषः ॥

between २- and .): Wait, there is a and... wait, is there an oval? No, wait, look at line 27: It has ३-२-१.) or ३-२-१०.)? Wait, let's look really closely at line 27: Is that ? Yes. Then - Then Then - Then Wait, after , is there a ? Wait, let's compare line 19 and line 27: Line 19: ...२-२-१०.) Line 27: ...३-२-१.) or ...३-२-१०.)? Wait, in line 27, look at: ( ऐ. आ. ३-२-१.) Wait, does it have १०? No, it's just १.! Wait, wait, look at the width of the space: In line 27, ३-२- is followed by and then a dot, then ). Wait, no, look at the round thing before ): Wait! Is it then ? Let's measure the width in pixels: In line 19: २-२-१०.) From - to ): - is at x=348

[ अधि - १२. सू - ३१. ] दीपिकासहितम्. १५१ ( १२ ) न, अन्तर्बहिश्चसर्वगतत्वेनेत्युपासात्रैविध्यादिहाश्रि- तत्वाच्च । ( १३ ) ' स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत ' ( ऐ.आ. २-४-३. ) ' स एतमेव पुरुषं ब्रह्म ततमम ज्ञापनायोपनिषदो जीवलिङ्गे तात्पर्यमस्तीति ज्ञापयितुं अनुसन्धित्वा- क्यमेवोदाहृतम् । सिद्धान्ते श्रुत्यर्थस्तु—पुरुषायुषः शतसंवत्सरस्या- ह्नां सहस्राणि शतसंवत्सरान्तःप्रविष्टाहर्नियामकसूर्यगतभगवत्पुरुष- रूपाणि तावन्ति सहस्राणि । कियन्ति ? बृहतीसहस्रगताक्षराणां वा- च्यानि पुंरूपाणि यावन्ति सहस्राणि तावन्ति । तथा च तानि षट्त्रिं- शत्सहस्राणि सम्पन्नानि भवन्ति । ' ताः ' चक्षुरादिदेवताः ' अहिस- न्त ' विवादमकुर्वन् । किन्विति ? अहमस्य चतुर्मुखदेहस्योक्थोऽस्मि उत्थापकोऽस्मीति ॥ ( १२ ) परिहारांशं व्याचष्टे—नेति ॥ प्राणो विष्णुर्नेति न, किन्तु विष्णुरेवायं, न जीवादिरित्यर्थः । कुतो नेत्यतस्तत्र प्रागुक्तानुगमहेत्व- नुषङ्गं, न चोक्तजीवमुख्यप्राणलिङ्गविरोध इत्यतस्तद्धेतुत्वेन यतः शास्त्रदृष्ट्या त्वयमुपदेश इत्यस्यानुषङ्गं, किमर्थमन्तर्यामीति प्रश्नस्या- न्तरुपास्त्यर्थमिति परिहारं चाभिप्रेत्य न चोपासनेऽवान्तरभेदाभाव इति चोद्योत्तरत्वेन प्रवृत्तं ' उपासा ' इति सूत्रांशं व्याचष्टे—अन्तरि- ति । गतत्वेनेत्यस्यान्तर्बहिश्चसर्वगतशब्दैः प्रत्येकं सम्बन्धः । इतिशब्दः प्र- कारार्थः । तथा च देहान्तर्गतत्वेन तद्बहिर्गतत्वेन सर्वगतत्वेनेति प्रका- रेण ' उपासात्रैविध्यात् ' भगवदुपासनस्य त्रिविधत्वादित्यर्थः । ननु तथापि कथनं व्यर्थं वस्तुत उपासनात्रैविध्यस्येहानुक्तस्यान्तर्यामिक- थनाप्रयोजकत्वादित्यतः प्रवृत्तं ' आश्रितत्वात् ' इत्यंशं चशब्दाध्याहा- रेण व्याचष्टे—इहेति । एतत्प्रकरणे उक्तत्वादित्यर्थः । उपासात्रैविध्य- स्येति विपरिणामेनात्रान्वीयते । चो हेतूपपादकहेतुसमुच्चये । तथा च अत्रोक्तत्रैविध्यान्तर्गतान्तरोपासनार्थमन्तर्यामिकथनं युक्तमिति भावः ॥ ( १३ ) अत्रोपासनात्रैविध्यमुच्यत इत्यत्रापि किं लिङ्गमित्यत आ- ह—स इति ॥ ' सः ' वासुदेवो भगवान् ' एतमेव सीमानं ' शिरोम- ध्यं विदार्यैव ' एतया द्वारा ' सुषुम्ना नाड्या ' प्रापद्यत ' प्राप्तः । चतु- र्मुखहृदयमिति शेषः । अनेन भगवतो देहान्तःप्रवेशोक्तेः उक्तेश्चोपा- सनार्थत्वात् अन्तरुपास्तिरुक्ता भवति । ' सः ' चतुर्मुखदेहे प्राक्प्रप

१५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] पश्यत्' ( ऐ.आ.२-४-३. ) 'एतद्ध स्म वै तद्विद्वाना ह महिदास ऐतरेयः' ( ऐ.आ.२-१-८. ) इत्यादिना । ( १४) महिदासाभिधो जज्ञे इतरायास्तपोबलात् । साक्षात्स भगवान्विष्णुर्यस्तन्त्रं वैष्णवं व्यधात् ॥ इति ब्रह्माण्डे । दाभ्यामन्तः प्रविष्टो नारायणः 'एतमेव पुरुषं' व्यासकृष्णकपिलादि रूपमात्मानं आततगुणं स्वस्वरूपभूतमादानादिकर्तारं वा । ततमं 'लोपः समाने' इति सूत्रात्तलोपः । तमबर्थे मप्रत्ययो वा । तथा च त तमं अतिशयेन व्याप्तं निरवधिकव्याप्तिमन्तं 'ब्रह्म' गुणपूर्णं 'अपश्य त्' तद्गुणकतया तद्रूपं ददर्शेत्यर्थः । केचित्तु—तकार एव व्याप्य भिधायक इत्याहुः । अनेन सर्वगतत्वं तथोपासनार्थमुक्तम् । 'तदेत त्' प्रकृतं सर्वं 'विद्वान्' जानन्नैतरेयः इतराया अपत्यं पुमान् विशा लसंज्ञात ऋषेः उत्पन्नः ऐतरेयः । 'महिदासो' महिनो महात्मानो दे वाः दासभूताः यस्यासौ भगवानाहेत्यर्थः । हस्मवैशब्दाः प्रसिद्धिज्यो तकाः । अत्र बहिरुपास्त्यर्थं महिदास आहेति बहिरुपास्तिरुक्ता भव ति । न च वाच्यमत्र स्वरूपमात्रमुच्यते, नोपासनार्थमिति । उपास नां विनोक्तिप्रयोजनाभावात् । इत्यादिनेत्यस्येत्यादिना वाक्येनोपा सनात्रैविध्यस्याश्रितत्वादर्थादुक्तत्वादित्यन्वयः । आदिशब्देन 'तं प्रप दाभ्यां प्रापद्यत ब्रह्मेमं पुरुषमेतस्यामेतम्' (ऐ.आ.२-१-४.) इत्यादिकं गृह्यते । ननु 'एतद्धस्मवै तद्विद्वानाह हिरण्यदन्वैट्' (ऐ.आ.२-१-५.) इति वन्महिदासोऽपि ऋषित्वेनोच्यतामिति चेन्न । अस्याः उपनिषदः ऐतरेयसंज्ञयैवेतरापुत्रस्य महिदासस्य ऋषित्वसिद्ध्या तदुक्तेर्व्यर्थ त्वात् ॥ ( १४) तथाऽपि महिदासस्य विष्णुत्वं कुतो ज्ञायत इत्यत आह— महिदासेति ॥ 'जज्ञे' व्यक्तो बभूव । 'स च' महिदासः- महिदासस्त्वैतरेयो बह्वृचोपनिषद्वतः । साक्षात्स भगवान्विष्णुस्तन्नामैको मुनिर्ह्यभूत् ॥ इति छान्दोग्यभाष्ये अनन्तरोक्तभगवदन्यः तत्संज्ञकेतरापुत्रः ऋषिर त्र न विवक्षितः, किन्तु । यो 'वैष्णवं' विष्णुविषयं 'तन्त्रं' ग्रन्थं 'व्यधात्' निर्ममे । यद्वा—'तन्त्रं' पञ्चरात्रं व्यधात् नारदादिभ्यो व्याचख्यौ । यश्च 'साक्षात्' स्वयं 'भगवान्' पूर्णज्ञानादिमान् 'वि

[ अधि - १२. सू - ३१. ] दीपिकासहितम्. १५३ ( १५ ) तत्तदुपासनायोग्यतया च पुरुषाणाम् । ( १६ ) केषां चित्सर्वगत्वेन केषां चिद्धृदये हरिः । केषां चिद्बहिरेवासौ उपास्यः पुरुषोत्तमः ॥ इति ब्राह्मे । ( १७ ) अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः । ष्णुः' तदवतारभूतः पूर्वोक्तः स एवात्र विवक्षित इत्याह-साक्षादिति । ब्रह्माण्डे पुराण इत्यस्याश्रितत्वादित्यनेनान्वयः । महिदासस्य विष्णुत्वो- क्तिरिति तदर्थः । तेन चशब्दान्वयः ॥ ( १५ ) नन्वेकविधोपासनया सर्वेषां ब्रह्मापरोक्षसम्भवात्किमुपा- सात्रैविध्येन इत्यतः प्रवृत्तं 'तद्योगात्' इति सूत्रशेषं व्याचष्टे—तत्त- दिति ॥ उपासनेत्यनेन पुरुषाणामित्यनेन च तदित्यस्यावृत्तिः सूचि- ता । चः समुच्चये । तथा च तेषां पुरुषाणां मनुष्यर्षिगन्धर्वदेवाख्या- धिकारिणां तेषु त्रिविधोपासनेषु मध्ये तत्तदुपासने यथाक्रमं बहिर- न्तर्व्याप्तिरूपैकैकोपासन एव योग्यतया योग्यत्वेन हेतुनेत्यर्थः । अस्यो- पासात्रैविध्यादित्यनेनान्वयः । तथाचानेकविधोपास्तियोग्यतावताम- धिकारिणां नैकविधोपासनया ब्रह्मज्ञानमिति तत्रैविध्यमावश्यकमिति भावः ॥ ( १६ ) पुरुषाणामुक्तानेकविधोपासनयोग्यता कुतो ज्ञायत इत्यतः कर्तृविशेषाननुपादाय सामान्यतः उपासकत्रैविध्यप्रतिपादिकां स्मृतिं पठति—केषां चिदिति ॥ 'पुरुषोत्तमो' हरिः 'केषां चित्' देवानां देवैः सर्वगतत्वेन प्रकारेणोपास्यः । 'केषां चित्' ऋषिगन्धर्वादीनां 'हृदये' स्वस्वहृदयाकाशे उपास्यः । 'केषां चित्' मनुष्योत्तमानां तु बहिरेवोपास्य इत्यर्थः । प्राचुर्यादेवमुक्तिः । इति ब्राह्म इत्यस्य तत्तदु- पासनयोग्यतया तद्विशिष्टत्वेन पुरुषाणामाश्रितत्वादुक्तत्वादिति पूर्वे- णान्वयः ॥ ( १७ ) अत्रैवाधिकरणे कर्तृविशेषप्रतिपादकं विशेषप्रमाणमाह— अग्नाविति ॥ विष्णुः 'क्रियावतां' यज्ञादिक्रियानुष्ठातृणां 'अग्नौ' गा- र्हपत्यादौ उपास्यः हरिः । 'योगिनां' ऋषीणां हृदये उपास्यः । 'अ- प्रबुद्धानां' मन्दमतीनां अत्यल्पप्रतिभानां मनुष्योत्तमानां 'प्रतिमासु' कृष्णरामादिविग्रहेषु उपास्यः । 'विदितात्मनां' विशेषतो ज्ञातभगव- द्रूपाणां अद्भुतप्रतिभानां देवानां तु 'सर्वत्र' सर्वस्थानेषूपास्य इत्य २०

१५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] प्रतिमास्वप्रबुद्धानां सर्वत्र विदितात्मनाम् ॥ र्थः । अत्राग्नौ प्रतिमास्विति वाक्यद्वयेन बहिर्मात्रोपासनोपलक्ष्यते । अतएव स्थानद्वयोक्तिः। यथाश्रुते सूर्यादौ विष्णूपास्तेर्बहिरुपासित्त्वं न स्यात् । योगिनामित्यनेनान्तरुपास्तिरुक्ता । 'ऋषयोऽन्तःप्रकाशाः' ( ) इति श्रुतेः । सर्वत्रेति सर्वगतोपास्तिरिति ज्ञातव्यम् । न चात्र "येषां बहिरुपासनेन मोक्षस्तेषामपि हृद्युपासनं किञ्चित्कार्यमेव" इति बृहद्भाष्येण " भगवान् बिम्बदर्शनेनैनं मोचयति " इति न्यायवि वरणेन च विरोधश्शङ्क्यः । अग्नाविति वाक्येऽन्यनिषेधाभावेन बि म्बशब्दितस्वस्वयोग्यात्मापरोक्षार्थं हृद्युपासनस्यापि सर्वैः कार्यत्वा भ्युपगमात् । मोचकयोग्यापरोक्षद्वारभूतावताराद्यपरोक्षसाधनोपास नाया एव तैस्तैः प्राचुर्येण प्रकरणस्याग्नाविति वाक्येन व्यवस्थया प्र तिपादनाच्च । इति चेति । चः समुच्चये । वचनद्वयस्याप्येकार्थसाध कत्वादस्यापि ब्राह्मे आश्रितत्वादिति पूर्वेणान्वयः। तत्तदुपासनयोग्य तावत्त्वेन पुरुषविशेषाणामुक्तत्वादिति तदर्थः । अतो न तद्योगादिति हेत्वसिद्धिः शङ्क्येति भावः ॥ अनेन नात्रोक्तप्राणो विष्णुः, किन्तुजीवमुख्यप्राणावेव । कु तः? 'जीवमुख्यप्राणलिङ्गात्' शतायुष्ट्वरूपजीवलिङ्गस्य प्राणसंवादा दिरूपमुख्यप्राणलिङ्गस्य चेह श्रवणादिति चेत्—न, विष्णुरेवायं प्रा णः, न जीवादिः । कुतः? 'अनुगमात्' हेतोरेव, न चान्यश्रुतिलिङ्गवि रोधः । उक्तरीत्या 'तद्योगात्' तेषामन्तर्यामिविषयत्वोपपत्तेः । यत श्शास्त्रदृष्ट्याऽयं उपदेश इति वा । किमर्थमत्रान्तर्यामिकथनमिति चे त्, अन्तरुपास्त्यर्थमिति ब्रूमः । न चोपासनेऽवान्तरभेदाभावः । 'उपा सात्रैविध्यात्'अन्तरादिभेदेन भगवदुपासनस्य त्रिविधत्वात्। न च त थापि कथनमुक्तम् । वास्तवत्रैविध्यस्येहानुक्तस्य कथनाप्रयोजक त्वादिति वाच्यम् । 'इह' प्रकरणे तत्रैविध्यस्याश्रितत्वादुक्तत्वात् । न चैकविधोपासनया सर्वेषां ब्रह्मापरोक्षसम्भवात् किमुपासात्रैविध्ये नेति वाच्यम् । 'तद्योगात्' तेषां पुरुषाणां तस्मिन् तदुपासन एव योग्यत्वात् । अनेकविधोपासितयोग्यतावतां च पुरुषाणां एकविधोपा सनयाऽपरोक्षासम्भवेन योग्यताभेदादुपासात्रैविध्यस्यावश्यकत्वाद्वि ति सूत्रार्थ उक्तो भवति । न च विवादकर्तृत्वलिङ्गस्यान्तर्यामिविष यत्वे 'उदासीनौ च तावास्तां केशवाब्जसम्भवः' इति वचनविरो

[ अधि - १२. सू - ३१. ] दीपिकासहितम्. १९५ इति च ॥ ३१ ॥ ───: ❖ :─── इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये प्रथमस्याध्यायस्य प्रथमः पादः. ॥ ॐ ॥ ───: ❖ :─── धः शङ्कः । तस्यान्तर्यामिविषयभिन्नबाह्यरूपविषयत्वात् । अतोऽन्य लिङ्गानां तत्तदन्तर्यामिविषयत्वोपपत्तेः तद्विरोधाभावात् । विष्णुरे वायं प्राणः आनन्दमयश्चेति युक्ता तज्जिज्ञासेति सिद्धम् ॥ ॥ इति पादान्त्यप्राणाधिकरणम् ॥ ───: ❖ :─── इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वत न्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपा दानां शिष्येण श्रीमज्जगन्नाथयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदी पिकायां प्रथमाध्यायस्य प्रथमः पादः. ॥ ॐ ॥ ───: ❖ :───

१५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] १. अधिकरणम् ॥ ( १ ) लिङ्गात्मकानां शब्दानां विष्णौ प्रवृत्तिं दर्शयत्यस्मिन् पादे प्राधान्येन । ( २ ) 'ब्रह्म ततमम्' इति सर्वगतत्वमुक्तं विष्णोः । तच्च 'त १. अधिकरणम् ॥ ( १ ) पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये एत- त्पादप्रतिपाद्यं दर्शयति—लिङ्गेति ॥ लिङ्गमनुमापको धर्मः । सः आ- त्मेवात्मा प्रवृत्तिनिमित्तं येषां ते तथोक्ताः । 'निमित्तनिमित्तिनोरभेदो- पचारात्' इति सुधोक्तेः । स्वरूपार्थो वा आत्मशब्दः । पूर्वयोजनाया- मात्मप्रतिपादके गौणी वृत्तिः । द्वितीयायां तु सामानाधिकरण्य इति भेदः । स्वार्थे कः । तथा च व्याप्यधर्मद्वारा धर्मिबोधकानामापाततो यौगिकानामित्यर्थः । विष्णोरन्यत्र प्रसिद्धानामिति च संयोज्यम् । 'शब्दानामिति' एकप्रातिपदिकरूपाणामनेकपदसमभिव्याहाररूपा- णां चेत्यर्थः । 'विष्णौ प्रवृत्तिं' प्रकर्षेण वृत्तिं महायोगविद्वद्रूढिभ्यां विष्णुपरत्वमिति यावत् । 'प्रदर्शयति' प्रकर्षेण साधयति सूत्रकार इत्यर्थः । वैश्वानराधिकरणे नामसमन्वयकरणाद्व्याप्तिनिरासाय प्रा- धान्येन इत्युक्तम् । तथा च तत्रापि नामसमन्वयमुखेन प्राधान्येन फ- लतो बहुलिङ्गसमन्वयस्यैव करणान्नाव्याप्तिरिति भावः ॥ ( २ ) यद्यपि पूर्वपादान्त्याधिकरणेनैतत्पादाद्यस्य नावान्तरसङ्ग- त्यपेक्षेति न सा प्रदर्शनीया । तथापि इह तस्याः सम्भवात्फलस्याव- श्यवक्तव्यत्वाच्च सा प्रदर्श्यत इत्याशयेन पूर्वाधिकरणसङ्गतिं विषया- दिकं च दर्शयति ब्रह्मेति ॥ इति वाक्ये विष्णोः निरवधिकसर्वगतत्व- मुक्तमित्यर्थः । ततः किमित्यत आह—तच्चेति । तदित्यावर्तते , उक्त- मिति च वर्तते । तथाच 'ब्रह्म ततमम्' इति यत्ततमत्वमुक्तं प्राणा- ख्यविष्णोस्तत्तदेकदेशभूतं सर्वगतत्वान्तर्गतं सर्वप्राणिहृदयस्थत्वं तत्रैवैतरेयके 'एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्य- व एतं महाव्रते छन्दोगाः तमेतं दिव्येतं वायावेतमाकाश एतमप्सु एतमोषधीष्वेतं वनस्पतिष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्वे- तमेव ब्रह्मेत्याचक्षते' इत्यादौ एतमित्युत्तरवाक्येन उक्तमित्यर्थः । त- तोऽपि किमित्यतः सयुक्तिकं पूर्वपक्षमाह—तच्चेति । चोऽवधारणे । आदिशब्देन 'स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदि-

[ अधि-१०. सू- १०] दीपिकासहितम्. १५७ स्यैतस्यासावादित्यो रसः' (ऐ. आ. ३-२-३.) इ त्यादिनाऽऽदित्यस्य प्रतीयते । ति विद्यात् तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवति. .सूर्य आत्मा जग तस्तस्थुषश्च.. एतं सर्वेषु भूतेषु' (ऐ. ३-२-३.) इत्यादिवाक्यं गृह्यते । अत्र तस्येत्यादेरुपन्यासः एतमिति परामर्शनीयसमर्पकतयाऽऽवश्यक त्वात्पूर्वपक्षयुक्तिप्रदर्शनार्थं च कृतः । तथाच यत एतमित्युत्तरवाक्ये नोक्तं सर्वप्राणिहृदयस्थत्वं तस्येत्यादिना पूर्ववाक्येन प्रकृतत्वात्तस्या दित्यस्यैव प्रतीयते, अतस्तस्यैव तत्पूर्वोक्तं ततमत्वमपि भवेत् । न वि ष्णोरिति योजना। अत्र पूर्वपक्षे ततमत्वं सङ्कुचितं सर्वभूतगतत्वरूपं वि वक्षितम् । न चैवं सिद्धान्त्यभिमतनिरवधिकसर्वगतत्वाक्षेपाप्राप्तिरि ति वाच्यम् । पूर्वपक्षे 'एतमेव' इति अवधारणेन विष्णोरन्यस्यैव सर्व भूतगतत्वाद्विष्णोः भूतादन्यत्र सत्त्वेऽपि सर्वभूतगतत्वाप्राप्त्याऽऽ क्षेपोपपत्तेः । अनेन पूर्वोक्तततमत्वान्तर्गतसर्वभूतगतत्वस्य विष्णो रन्यत्राक्षेपात् तेनास्याक्षेपिकी सङ्गतिः, विषयसंशयौ, विष्णोरन्य स्यैव सर्वप्राणिगतत्वमिति सयुक्तिकपूर्वपक्षश्च दर्शितो भवति । सिद्धान्ते श्रुत्यर्थस्तु — 'तस्य' प्रकृतस्य 'एतस्य' संवत्सरना मकस्य चतुर्मुखस्य सर्वांदित्वततमत्वनियामकत्वनिमित्तैरादि त्यनामा प्रद्युम्नो रसः सारभूतः । स यश्चायं पुरुषदेहगतः प्राक् तद्देहवर्जनादशरीरः 'प्रज्ञात्मा' ज्ञानरूपोऽनिरुद्धः । यश्चासावादि त्ये स्थितः प्रद्युम्न एतत्स्थानद्वयगतं रूपमेकमिति विद्यात् । तस्मा त्पुरुषादित्यगतानिरुद्धप्रद्युम्नयोरैक्यादादित्यः 'पुरुषं पुरुषं प्रति' प्र तिपुरुषं 'भवति' अभिमुखो भवति । प्रतिगृहं कूप इतिवत्सर्वपुरुष गतो भवतीति चेति । 'जगतो' जङ्गमस्य 'तस्थुषः' स्थावरस्य'आत्मा' आदानादिकर्ता 'सूर्यः' सूरिप्राप्यो विष्णुर्दिवं पृथिवीमन्तरिक्षं च 'आऽप्राः' आसमन्तादपूरयदित्यर्थः । एतमित्यादीनां सप्तम्यन्तपदैः प्र त्येकं सम्बन्धः । तथा च 'बह्वृचाः' ऋग्वेदिनः 'एतं ह्येव' एतमेव पुरु षादित्यगतमेव हि विष्णुं 'महत्युक्थे' महदुक्थनामकबृहतीसहस्रे तद्देवताविषये तद्देवतामिति यावत् 'मीमांसन्ते' जानन्ति । 'अध्व र्यवो' यजुर्वेदिनः 'अग्नौ' चयनसाधनेष्टकादेवताविषये तद्देवतां मी मांसन्ते । 'छन्दोगाः' सामवेदिनो 'महाव्रते' तदाख्यस्तोत्रस्य देव

१५८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ३ ) अतोऽब्रवीत्— सू—ॐ ॥ सर्वत्र प्रसिद्धोपदेशात् ॥ ॐ ॥ १ ॥ ( ४ ) ‘स यश्चायमशरीरः प्रज्ञात्मा’ (ऐ. आ. ३-२-४. ) इत्यादिना सर्वत्रोच्यमानो नारायण एव । तां स्तोत्रे मीमांसन्ते । ‘अस्यां’ पृथिव्यां एतं ‘दिवि’ अन्तरिक्षे वा ख्यादौ चैवं एतमेव ‘सर्वेषु भूतेषु’ सर्वप्राणिषु अन्तः व्याप्तमाचक्षते विद्वांस इत्यर्थः । सर्वेष्वित्येव पूर्तेः पुनर्भूतेष्वित्युक्तिरत्र भूतवृत्तित्व मात्रं प्रतिपाद्यतयाऽभिप्रेतमिति ज्ञापयितुम् । एतं सर्वभूतगतमेव वि ष्णुं गुणपूर्णत्वाद्ब्याप्तत्वाच्च एतं मुख्यतो ब्रह्मेत्याचक्षते इति वाक्यशे षार्थः । न स्थानाधिकरणटीकायां तु—सर्वेषु भूतेषु चक्षुरादिस्थानेषु एतमेकमेव ब्रह्म गुणपूर्णमाचक्षते इति व्याख्यातम् । पूर्वपक्षी तु त स्यैतस्य प्रकृतप्रसिद्धसंवत्सरस्यासौ प्रसिद्ध आदित्यः सूर्यो रसः सारभूतोऽधिपतिरित्यर्थं मन्यते ॥ ( ३ ) अथ सिद्धान्तयतसूत्रमवतारयति--अत इति ॥ इति सङ्ग तिसम्भवादाक्षेपसद्भावाच्च अतस्तत्परिहारायोत्तरमब्रवीद्बादरायण इत्यर्थः । तदेव सूत्रं पठति—सर्वेति ॥ ( ४ ) अत्र समन्वयसूत्रात्तत्त्वित्यस्यानुवृत्तिं लिङ्गव्यत्ययं ‘उच्यमा नं’ इत्यध्याहारं चाभिप्रेत्य प्रतिज्ञांशं व्याचष्टे—स यश्चेति ॥ वाक्येने ति शेषः । यद्यपि ‘तस्यैतस्यासौ’ इत्यादिनेति वक्तव्यम् । पूर्ववा क्यत्वात् । तथाऽपि तस्य पूर्वपक्षयुक्तिप्रदर्शनार्थत्वेनोपन्यस्तत्वात्त द्विहाय सिद्धान्तयुक्तिप्रदर्शकवाक्यज्ञापनाय ‘स यश्चायमशरीरः प्र ज्ञात्मा’ इत्यादिनेत्येवोक्तम् । वस्तुतस्तु---न ‘तस्यैतस्यासौ’ इत्यस्ये व ‘स यश्च’ इत्यस्य युक्तिप्रदर्शनमात्रतात्पर्येणोपन्यासः, नापि विष यमात्रप्रदर्शनतात्पर्येण । अपि तु पूर्वं विषयवाक्यस्य अनुदाहृतत्वा त्तदर्थतया तद्गतैतच्छब्दपरामर्शनीयसमर्पणार्थमनन्यसाधारणस्वतः ऽशरीरत्वयुक्तिप्रदर्शनार्थं चेति ध्येयम् । ‘सर्वत्र’ सर्वप्राणिहृदयेष्व न्तर्गततयोच्यमानो नारायण एवेति । नारायणशब्दप्रयोगेन यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थितः ॥ इति वाक्यमपि सङ्गृहीतं भवति । तेन च सूत्रे सङ्कुचितवृत्तिना सर्व

[ अधि - १. सू - २. ] दीपिकासहितम्. १५९ ( ५ ) 'तदेव ब्रह्म परमं कवीनाम्' ( महाना. १-६०. ) 'परमं यो महद्ब्रह्म' ( ६ ) वासुदेवात्परः को नु ब्रह्मशब्दोदितो भवेत् । स हि सर्वगुणैः पूर्णः तदन्ये तूपचारतः ॥ इति । तस्मिन्नेव प्रसिद्धब्रह्मशब्दोपदेशात् ॥ १ ॥ ( ७ ) सू— ॐ ॥ विवक्षितगुणोपपत्तेश्च ॥ ॐ ॥ २ ॥ त्रेत्यनेन सर्वभूतहृद्गतत्वस्यैवाभिप्रेतत्वेनान्यत्र बहिर्नेति प्राप्तशङ्का निरस्ता भवति ॥ ( ५ ) हेत्वंशं व्याचष्टे—तदेवेति ॥ व्याख्यातमेतज्जिज्ञासानये । ईश्वरब्रह्मणोरभेदबोधनार्थ प्रवृत्तस्य 'परमं यो महद्ब्रह्म परमं यः प रायणम्' इति भारतवाक्यस्य यः परमं महद्ब्रह्म यः परमं परायणं तस्य लोकप्रधानस्य जगन्नाथस्य नाम्नामित्युत्तरवाक्येनान्वयः ॥ ( ६ ) वासुदेवादित्यपरा स्मृतिः ॥ 'वासुदेवात्' कृष्णादन्यः को वा ब्रह्मशब्दमुख्यवाच्यो भवेत्, न कोपि । किन्तु, स एव मुख्य वाच्यः । कुतः ? 'हि' यस्मात् 'सः' वासुदेवः सर्वगुणैः पूर्णस्तद न्ये त्वपूर्णाः तस्मात् । तर्हि 'ब्रह्माणि जीवाः सर्वेऽपि' इत्यादि कथ मित्यत आह—तदन्य इति । वासुदेवान्ये जीवाः 'उपचारतः' अ मुख्यत एव ब्रह्मशब्दोदिताः, न तु मुख्यत इत्यर्थः । इतीति । वाक्येष्वि ति शेषः । अनेन सर्वत्रेत्यस्य हेतावप्यन्वयो दर्शितः । तथा च सर्व तोदाहृतवाक्येषु 'तस्मिन्नेव' विष्णावेव 'प्रसिद्धस्य' रूढत्वेनावग तस्य 'ब्रह्मशब्दस्योपदेशात्' सर्वगते वस्तुनि श्रवणादित्यर्थः । त स्मिन्नेवेत्यनेन श्रुतेर्निरवकाशत्वमुक्तं भवति । अनेन 'स यश्चायमश रीरः प्रज्ञात्मा' (ऐ. आ. ३-२-३.) इत्यादिना 'सर्वेषु भूतेष्वेतमेव ब्रह्मे त्याचक्षते' (ऐ. आ. ३-२-३.) इति शाखाशेषेण सर्वत्र सर्वेषु भूतेषु अ न्तर्गततयोच्यमानो नारायण एव न त्वादित्यादिः । कुतः ? 'एतमेव ब्रह्मेत्याचक्षते' इति सर्वभूतगते वस्तुनि नारायणैकनिष्ठत्वेन श्रुत्या दिप्रसिद्धब्रह्मशब्दोपदेशाच्छ्रुतेरिति सूत्रार्थ उक्तो भवति ॥ ( ७ ) युक्त्यन्तरे

१६० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] 'स योऽतोऽश्रुतः' (ऐ. आ. ३-२-४.) इत्यादि । (८) स हि 'न ते विष्णो जायमानो न जातो देवः' (ऋ. त' (ऐ.आ.३-२-४.) इति वाक्यशेषो गृह्यते । इत्यादीति लुप्ततृतीया विभक्तिकं पदम् । अस्य विवक्षितेति सूत्रपदेनान्वयः । अत एव सूत्र भाष्ययोरेकीभाव इति तत्त्वप्रदीपोक्तिः । अनेन सूत्रे श्रुतेरिति शेषः सू चितः । चः पूर्वोक्तहेतुसमुच्चयेऽवधारणे च । यतो वक्तुं योग्ये विव क्षा भवति । अतो विवक्षिताः वक्तुं योग्याः वक्ष्यमाणा इति वा । ये तु श्रुतीनां ब्रह्मगुणेषु तात्पर्याभावं वदन्ति, तन्निरासाय विवक्षितपदमुप निबबन्ध सूत्रकृदिति तत्त्वप्रदीपोक्तेः श्रुतितात्पर्यविषयभूता इति वा । सर्वत्रेत्यनुवर्तते । गते इति शेषः । तथा च सर्वत्र गते विवक्षितानां श्रुत्या सर्वत्र गतनिष्ठतया वक्तुं योग्यानां इतःपरं श्रुत्या सर्वगतनिष्ठ तया वक्ष्यमाणानां श्रुतितात्पर्यविषयीभूतानां वा गुणानामुपसंहारग ताश्रुतत्वादीनां विष्णोरेव योग्यत्वेन तस्मिन्नेवोपपत्तेः अन्यत्रानुपपत्ते श्च सर्वत्रोच्यमानो नारायण एव इति सूत्रार्थ उक्तो भवति । यः प्रकृ तो विष्णुः सः 'अतः' देशकालगुणैर्व्याप्तः । अत सातत्यगमने इति धातुव्याख्यानात् 'सन्ततो ह्यत उच्यते' इति वचनाच्च । यद्वा-अतो तिस्तुतीयेतिशये अधिक इत्यर्थः । 'अश्रुतः' सर्वात्मना श्रोतुमश क्यः । स्वयमेव स्वात्मानं स्वातन्त्र्येण शृणोति । 'नर्ते त्वत्' (ऋ.१०- ११२-९.) इति श्रुतेः । 'अगतः' अप्राप्तः पूर्णत्वात्सर्वात्मनाऽज्ञात इति वा । सर्वात्मना मननविषयो न भवतीत्यमतः । 'अनतो' नेतृरहितः स्वत न्त्र इति यावत् । 'अदृष्टः' प्रत्यक्षेण केन चिन्न, सर्वात्मना पूर्णत्वात् । अत एव सर्वात्मना 'अविज्ञातः' विशेषतो न ज्ञातः । 'अनादिष्टः' नियोजकशून्योऽन्यैरनाज्ञप्त इति वा । यथाऽन्यैः स्वयमश्रुतादिर्न तथा न्ये, सर्वात्मना श्रुताद्या इत्याह—श्रोतेति । 'श्रोता' युगपत्स्वातन्त्र्ये ण श्रवणकर्ता । 'मन्ता' स्वातन्त्र्येण सर्वमननकर्ता । स्वातन्त्र्येण सर्वद्रष्टा । 'आदेष्टा' नियोजनकर्ता । 'आघोष्टा' सम्यग्वक्ता । 'विज्ञा ता' विशेषेण ज्ञाता । प्रकर्षेण ज्ञाता । 'सर्वेषां भूतानां' जीवानां 'अ न्तरः' अन्तस्थः 'पुरुषः' पूर्णः 'समः' समानः, सर्वरूपेण 'आत्मा' आदानादिकर्तेति विद्यादित्यैतरेयभाष्यतत्त्वप्रदीपविश्वेश्वरतीर्थीयदि शा श्रुत्यर्थः ॥ (८) नन्वेतच्छ्रुत्युक्तानां अश्रुतत्वादिगुणानां कुतो विष्णुनिष्ठत्व

स विष्णुरतत्वादिगुणकः प्रसिद्ध इति सिद्धनिर्देशायोगात् ... इत्युक्तम्"? Wait! In the mantra: "न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप । उदस्तभ्ना नाकम्..." The mantra mentions: "परमन्तमाप" -> "अन्त" = end/limit. "न आप" = did not reach. Wait, what did the Bhashya write? Did the Bhashya write "अततत्वादिगुणकः" or "अश्रुतत्वादिगुणकः" or "अभूतत्वादिगुणकः"? WAIT! Look at line 1: "इत्यादिनाऽभ्रुतत्वादिगुणकः" / "इत्यादिनाऽभूतत्वादिगुणकः"? LOOK AT LINE 1: Is that a 'भ' with 'ू'? "ऽभूतत्वादिगुणकः"? Wait! "न जातो" = न भूत! "जायमानो न जातो"! "जायमानो न जातः" = अभूत!! "अभूतत्वादिगुणकः"!! YES! YES! YES! जायमानो न जातो = अभूत! Look at line 1: "इत्यादिनाऽभूतत्वादिगुणकः ।" LOOK AT THE LETTER: अ + भू + त + त्वा + दि + गु + ण + कः = अभूतत्वादिगुणकः!

१६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - २. ] ( ११ ) सू—ॐ ॥ अनुपपत्तेस्तु न शारीरः ॥ ॐ ॥ ३ ॥ एकस्य सर्वशरीरस्थत्वानुपपत्तेरेव ॥ ३ ॥ ( १२ ) सू—ॐ ॥ कर्मकर्तृव्यपदेशाच्च ॥ ॐ ॥ ४ ॥ ‘ आत्मानं परस्मै शंसति ’ ( ऐ. आ. ३ - २ - ३. ) इत्यादि ॥ ४ ॥ भिप्रायम् । जीवश्चेत्यपि चशब्दान्वयः । तेनादित्यप्रतिज्ञा समुच्ची- यते । सर्वत्र गत इति शेषः । इति न वाच्यमिति सम्बन्धः ॥ ( ११ ) कुतो न वाच्यमित्यत्र हेत्वाकांक्षायां सूत्रमुपन्यस्य प्रतिज्ञा- भागस्यावतारिकाभाष्येणैव व्याख्यातत्वाद्धेत्वंशमेव व्याचष्टे—अनुप- पत्तेरिति ॥ एकस्यैकैकस्य जीवस्येति विपरिणामेनानुवर्तते । सर्वश- रीरेति । सर्वशरीरस्थत्वस्यानुपपत्तेः सर्वजीवस्य समानभोगप्राप्तिरू- पोपपत्तिविरुद्धत्वादेवेत्यर्थः । न त्वन्यप्रापकाभावादिति हेत्वन्तरम- न्वेषणीयमित्येवशब्दार्थः । एवेत्यनेन सौत्रतुशब्दो व्याख्यातः । अनुप- पत्तिस्तु टीकायामेव सहेतुकमुपपादिता ॥ ( १२ ) युक्त्यन्तरेण शारीरस्य सर्वगतत्वं निराकुर्वत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहरति—कर्मेति ॥ भावप्रधानोऽयं, चः समुच्चये । ‘सर्वत्रोक्तः शारीरः’ इति पदत्रयं विपरिणामेनानुवर्तते । तथा च सर्व- त्रोक्तस्य सर्वगतस्य प्रकृतस्य ‘एतमात्मानं परस्मै शंसति’ इत्यैतरे- यश्रुतौ शंसनक्रियायां स एतमात्मानमिति कर्मत्वेन शारीरस्य जीव- स्य च तस्यामेव कर्तृत्वेन व्यपदेशात् एकस्यां क्रियायां तयोरुत्सर्ग- तो भिन्नत्वनियमात् अपवादकारणाभावाच्च न सर्वत्रोच्यमानः शारी- र इत्यर्थः । तत्त्वप्रदीपे तु—चकारात् ‘परस्मै’ इति सम्प्रदानव्यपदे- शाच्चेत्यभिप्राय इत्युक्तम् । यः ‘एतमात्मानं’ चक्षुर्मयत्वादिगुणकं प- रमात्मानं ‘अन्यस्मै’ अयोग्याय ‘शंसति’ उपदिशति तस्य वेदाः ‘दुग्धदोहाः’ फलविधुरा भवन्तीत्यर्थः । इत्यादीत्यस्य पूर्ववत्सूत्रेणा- न्वयः । आदिपदेन ‘आत्मानं वेद’ इति टीकोक्तं ‘यस्तित्याज सखिवि- दं सखायं न तस्य वाच्यपि भागो अस्ति’ (ऐ.आ.३-२-४.) इति तत्त्व- प्रदीपोदाहृतवाक्यं च गृह्यते । ‘सखिविदं’ कर्मसञ्चयवेत्तारं प्रीत्या एकदेशस्थत्वात् सखायं हरिं ‘यस्तित्याज’ तत्याज अन्यथा वेद, तस्य ‘वाचि’ वेदाध्ययनादौ तस्मात् ‘भागः’ फलं नास्ति नरकं च स्यादित्यर्थः ॥

[ अधि - १. सू - ५. ] दीपिकासहितम्. १६३ ( १३ ) सू—ॐ ॥ शब्दविशेषात् ॥ ॐ ॥ ५ ॥ ‘एतमेव ब्रह्मेत्याचक्षते’ ( ऐ. आ. ३-२-३. ) इति । ( १४ ) न हि जीवमेव ब्रह्मेत्याचक्षते । ( १३ ) यदुक्तंब्रह्मशब्दात् विष्णुरेव सर्वगत इति । तदयुक्तम्, ब्रह्मशब्दस्य जीवेऽपि वृत्तेः । न चासौ जीवेऽमुख्य इति तद्ग्रहः । चक्षु र्मयत्वादिबाधकबलेनामुख्यार्थस्यापि ग्रहणोपपत्तेः । न च द्वितीयसू त्रोक्तबाधकान्न जीवः ‘श्रुत्वाप्येनं वेद न चैव कश्चित्’ इति गीता यां जीवस्याश्रुतत्वादिश्रवणात्, तृतीयोक्तस्य च विष्णावपि साम्या त् । नापि तुरीयोक्तचक्षुर्मयत्वादिबाधकेन, एकस्यैव कर्मत्वकर्तृत्व योः उपपत्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहर ति--शब्देति ॥ भाष्यस्य सूत्रेणान्वयः । तथा च ‘एतमेव ब्रह्मेत्याच क्षते’ इति वाक्ये हेतुत्वेन प्रकृतब्रह्मशब्दस्य ‘विशेषात्’ सावधारण त्वरूपविशेषवत्त्वादित्यर्थः । अस्य नानेन ब्रह्मशब्देन शारीर उच्यते इति लब्धसाध्येनान्वयः । अनेनैवकारो विधेयपदसङ्गतः, तच्छिर स्कब्रह्मशब्दश्च मुख्यब्रह्मत्वार्थकः । स च जीवे न युक्त इत्युक्तं भव ति । यद्वा—एवकार एतमित्युद्देश्यवाचिपदेनैव सङ्गतोऽन्ययोगव्यव च्छेदार्थकः । न चैवं ब्रह्मशब्दस्य सावधारणत्वाप्राप्तिरिति वाच्यम् । एवकारार्थावधारणस्यान्ययोगव्यवच्छेदस्यान्यस्मिन् ब्रह्मत्वयोगव्य वच्छेद इति विवरणे ब्रह्मशब्दार्थब्रह्मत्वसम्बन्धात् ब्रह्मशब्दस्य साव धारणत्वप्राप्तेः । यद्यपि न शारीर एतच्छब्दार्थः । कुतः ? तस्य एव कारार्थप्रतियोगिवाचकब्रह्मशब्देनैव विशेषितत्वादिति सूत्रवृत्तिस्स म्भवति । तथाऽपि न सा टीकोक्तेति न कैरपि प्रदर्शिता ॥ ( १४ ) सावधारणत्वेपि ब्रह्मशब्दस्य कुतो न जीवे वृत्तिरित्यत आ ह—न हीति ॥ हिशब्दः प्रसिद्धौ हेतौ च । कवय इति शेषः । कुत इ ति चेत् एवकारशिरस्कब्रह्मशब्दवाच्यत्वे जीवस्य मुख्यब्रह्मत्वं स्या त्, तच्च नोपपद्यते । तस्यामुख्यब्रह्मत्वेन प्रसिद्धत्वादिति भावः । एव मेवकारस्योद्देश्यसम्बन्धेनान्ययोगव्यवच्छेदकत्वेऽपि पूर्वपक्षे एतच्छ ब्दार्थत्वेन अभिमतजीवादन्यस्य ब्रह्मत्वं निषिद्धं स्यात् । तच्च नोपप द्यते । जीवादन्यस्य परमात्मनो मुख्यब्रह्मणो जात्यादेरमुख्यब्रह्मणश्च सत्त्वेनान्यस्य ब्रह्मत्वसम्बन्धनिषेधायोगादित्यपि द्रष्टव्यम् । तत्त्वप्र दीपे तु—जीवस्य ब्रह्मत्वे तस्य भूतत्वेन भूतेष्वित्युक्तं भूतस्थत्वं न

न्वयः). Look at the letter after त्य: It is: न् (n) + व (va) ? Wait, if it's "धारयाम्यित्यन्वयवाक्यार्थः", is there a word "अन्वयवाक्यार्थः"? No, look at: धारयाम्यित्य (dha-ra-ya-myi-tya) न्व (nva) य (ya) -> wait, there is a 'य'! Wait, is there 'न्व' and 'य'? Let's look at L28: ... सामर्थ्येन धारयाम्यित्यन्वयवाक्यस्यार्थः ??? Wait, let's look at the character after 'त्य': It has a vertical line, with a left loop. Wait, let's compare: Line 22: तां स्मृतिमुदाहरति-स्मृतेश्चेति ॥ इत्यादिस्मृतेश्च सर्वत्रोच्य Line 23: मानो नारायण एवेत्यन्वयः । (look at 'एवेत्यन्वयः'!) In Line 23: ए (e) वे (ve) त्य (tya) न्व (nva) यः (yah) Look at "त्यन्वयः" in Line 23! Now look at Line 28: त्य (tya) न्व (nva) य (ya) वा (vaa) क्य (kya)

: Could it simply be: हेतुं अर्भकौकस्त्वादीनां? Wait, why would anyone write भर्मैकौकस्त्वादीनां? That's not a word in Sanskrit! Could it be धर्मैकौकस्त्वादीनां? No, that's not a word either! It is definitely a misprint in the book for अर्भकौकस्त्वादीनां or it IS अर्भकौकस्त्वादीनां with broken type. Let's see: in the image, it literally looks like भर्मैकौकस्त्वादीनां or र्भकौकस्त्वादीनां. Wait, look at the letter: ? Actually, let's look at: हेतुं -> wait, could it be हेतुमर्भकौकस्त्वादीनां? No, there is a dot on तु: हेतुं. Then the letter is with र्? No, wait! Look at the letter: is it ? Look at line 1: ( १७ ) न चाप्रामाणिकं कल्प्यम् ॥ ६ ॥ Look at line 28 again: `( १९ ) कुतो नेत्यतोऽत्र बाधकाभावादिति हेतुं अर्भकौकस्त्वादी