पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
३३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] स्सर्वतः प्राण एवेदं सर्वम्' इति प्राणस्य व्याप्तिः प्र तीयते । ( २ ) यतस्सर्वं जगद्व्याप्य तिष्ठति प्राण एव तु । अतो धृतं जगत्सर्वमन्यथा केन धार्यते ॥ इति च युक्तिर्वायुप्रोक्ते । इति न गतार्थता । यद्यपि 'अणवश्च' इत्यनेनेदं गतार्थं, मुख्यस्यापि प्राणत्वात् । तथाऽप्यस्य बहिर्देहादपि व्याप्तेः सत्त्वात्, कर्तृप्रयोज्यत्वे न इन्द्रियाद्विलक्षणत्वाच्च 'अणुश्च' इति पृथगणुत्वसमर्थनं युक्तमिति ध्येयम् । मुख्यप्राणो व्याप्तोऽणुर्वेति सन्देहबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं च सूचयति - प्राण एवेति ॥ अत्र प्राणशब्देन मुख्यप्राण उ च्यते । तस्याभ्यासस्तात्पर्यार्थोऽन्यत्वशङ्कानिरासार्थश्च । 'सर्वतः' सर्वदिक्षु अस्तीति शेषः । 'सर्वं' सर्वसत्ताप्रदः । एवशब्दस्य द्विर्ग्रह णं सर्वत्रानुषङ्गार्थम् । प्राधान्याभिप्रायेणैवकारः । इतीत्यनन्तरं श्रुता विति शेषः ॥ ( २ ) नन्वणुत्वेऽपि श्रुतिरस्तीति तद्विरोधोऽस्या इत्यत आह— यत इति ॥ तुशब्दोऽवधारणे । अतस्त्विति सम्बध्यते । तेन पूर्वार्धोक्त स्य व्यापकतासिद्धिः । एवकारोऽन्यप्राधान्यव्यवच्छेदकः । सङ्कोच निरासाय सर्वशब्दः । 'अन्यथा' सर्वत्र व्याप्यभावे, असौ न धार येदिति शेषः । ततश्च सर्वं जगत्केन धार्यते, न केनापीत्यर्थः । इति वा युप्रोक्ते ग्रन्थे उक्ता युक्तिश्चात्रार्थे मानमित्यर्थः । न केवलं श्रुतिरिरिति वार्थः । वायुप्रोक्ते चेति वा चान्वयः । तथात्वे न केवलं वायुप्रोक्ते जग द्धारकत्वयुक्तिरुक्ता, किन्तु 'सप्तस्कन्धगतो लोकान्यो विभर्ति महा बलः' इति हरिवंशेऽपीति समुच्चयार्थश्चकारः । तथा च व्याप्तिश्रुतेर्यु क्तियुक्तत्वेन प्राबल्यात् नाणुत्वश्रुतिविरोधोऽस्या इति भावः । एको नपञ्चाशन्मरुतां दितिगर्भे प्रविष्टानां गणशः सप्तधेन्द्रेण विभक्तानां पु नश्चैकैकशः सप्तधा कृतानां सप्तस्कन्धसंज्ञा समजनि । तान् गतो यो महाबलो लोकान् बिभर्तीति हरिवंशवचनार्थः । 'सप्तस्कन्धा इमे स प्त चरन्तु मम पुत्रकाः' इति दिति वचनात्, 'सप्तगणा वै मरुतः' (तै. सं.२-२-५०) इति श्रुतेः, सप्त सप्तका हि ते इति ऋग्भाष्यटीकोक्तेश्च । केचित्तु स्वस्कन्धेन गतः प्राप्तः सप्त लोकान् बिभर्तीत्यर्थमाहुः । तन्न, 'सप्तस्कन्धगतो लोकान् त्रीन् दधार चचार ह' इति पाठान्तरविरो
[अधि - ९. सू - १४.] दीपिकासहितम्. ६६७ ( ३ ) 'अणुर्नैतत्सृज्यते अणुर्नैतद्धार्यते अणौ लयमभ्युपैति प्राणो वा अणुः प्राणैर्हीतद्भवति' इति च सौत्राय णश्रुतिः ॥ ( ४ ) अत आह - सू - ॐ ॥ अणुश्च ॥ ॐ ॥ १४ ॥ 'स वा एष प्राणोऽणुर्महान् नामान्तर्वा अणुर्बहिर्महान् । प्रा णो वा ईशितव्येश ईशो ह्यसौ सर्वस्येशितव्यश्च पर धात् । मरुत्सु प्रधाना ये सप्त मरुतः तेषां स्कन्धगतो मुख्यवायुः लोकान् बिभर्तीति व्याख्यानमप्युक्तप्रमाणविरुद्धम् । एतेन महदहङ्कारपञ्चभू ताख्यसप्तस्कन्धगत इत्यर्थ इति पक्षोऽपि निरस्तः ॥ ( ३ ) एवं व्याप्तिश्रुतिं प्रदर्श्याणुत्वश्रुतिं दर्शयति - अणुनेति ॥ 'ए तत्' शरीरं जगद्वा । अणुः क इत्यत आह - प्राणो वेति । अत्रोक्तोऽ णुः श्रेष्ठः प्राणः कुतः, अन्यः किं न स्यादित्यतो जगत्स्रष्टृत्वादिकमु क्तम् । तस्योपनयमाह - प्राणैर्हीति । हिः प्रसिद्धौ यत इत्यर्थे च । 'एतत्' जगत्स्रष्टृत्वादिकम् । श्रुतिरित्यनन्तरमणृत्वं वक्तीति शेषः । अनेन प्रबलव्याप्तिश्रुतिविरोधादणुत्वश्रुतिरप्रमाणमिति पूर्वपक्षस्सू चितः ॥ ( ४ ) सिद्धान्तयत्सूत्रमवतारयति - अत इति ॥ सूत्रे चशब्द ए वार्थो व्याप्तत्वसमुच्चयार्थश्च । श्रेष्ठ इति चानुवर्तते । तथा च श्रेष्ठो मु ख्यप्राणरूपेणाणुरेव । न च व्याप्तिश्रुत्यादिविरोधः । यतो न केवलम णुः, किन्तु बहिर्देहाद्वर्तमानेन मुख्यप्राणरूपेणाण्डादिव्याप्तश्च, अत इ ति सूत्रार्थः । कुतोऽयं विशेष इत्यत आह - स इति । वै नामेति निपा तौ प्रसिद्धयर्थौ । 'एष प्राणो' मुख्यप्राणोऽणुर्महांश्च भवति । न चैक स्मिन्नुभयोर्विरोध इत्यत आह - अन्तरिति । देहस्यान्तरणुः हृदयसु षिरस्थ सूक्ष्मत्वादिति तत्त्वप्रदीपोक्तेः । तथा च अध्यात्मगतप्राणरूपे णाणुरित्यर्थः । 'बहिः' देहात् । तथा चाधिदैवगतवायुरूपेण 'महा न्' व्याप्त इत्यर्थः । तत्र बहिर्देहत एव व्याप्तिः, अन्तस्तु प्राणस्य देह तोऽप्यणुत्वमिति विवेकः । नन्वत्र श्रुतः प्राणो मुख्य इति कुत इत्यतो वाक्यशेषादित्याशयेन तमुदाहरति - प्राण इति । वै प्रसिद्धौ । ईशित व्यश्चासावीशश्चेति विग्रहः । तदुभयं विवृणोति - ईश इति । 'हि' यतः 'असौ' मुख्यः 'सर्वस्य' स्वपरमात्मातिरिक्तस्य जगतः 'ईशः'
६६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] स्य' इति कौण्डिन्यश्रुतिः ॥ १४ ॥ * १०. अधिकरणम् ॥ ( १) करणत्वं प्राणानामुक्तम् । जीवस्य करणान्याहुः प्राणानेतांस्तु सर्वशः । यस्मात्तद्वशगा एते दृश्यन्ते सर्वदेहिषु ॥ इति सौत्रायणश्रुतौ सयुक्तिकं जीवकरणत्वं प्रतीयते । ( २ ) 'ब्रह्मणो वा एतानि करणानि चक्षुश्श्रोत्रं मनो वागि ति । तद्धेतैः कारयति' इति काषायणश्रुतौ । स्वामी 'परस्य' परमात्मनः 'ईशितव्यः' भृत्यः । श्रुतिरित्त्यनन्तरं उ क्तविशेषमाहेति शेषः। अनेन पूर्वोदाहृतव्याप्तिश्रुतौ प्राणशब्दो मुख्य वायुपर इति सूचितम् ॥ ९ ॥ ॥ इति अण्वधिकरणम् ॥ * १०. अधिकरणम् ॥ ( १ ) अत्रेन्द्रियविषयश्रुतिविरोधः परिह्रियते । अधिकरणसङ्गतिं दर्शयति—करणत्वमिति ॥ 'प्राणानां' इन्द्रियाणां करणत्वं 'अकर णत्वाच्च' इति चशब्देन 'उक्तं' सूचितमित्यर्थः । सन्देहबीजं श्रुति विरोधं दर्शयन् पूर्वपक्षं च सूचयति—जीवस्येति । तेषामेवेत्याद्यावु पस्कार्यम् । अस्य जीवकरणत्वं प्रतीयत इत्यनेनान्वयः । श्रुतौ तुश ब्दोऽवधारणे । 'सर्वशः' सर्वान् । तथा च वृद्धाः ज्ञानिनः सर्वशः स र्वान् 'प्राणान्' इन्द्रियाणि 'जीवस्यैव करणानि' तदपेक्षयैव तत्प्रयो ज्यानीत्याहुरित्यर्थः । कुत इत्यतस्तत्र हेतुमाह—यस्मादिति ॥ यस्मा त् 'एते' प्राणाः 'सर्वदेहिषु' सर्वप्राणिभिः 'तद्वशगाः' जीववशव र्तिनः स्वस्ववशा एव 'दृश्यन्ते' अनुभूयन्ते तस्मादित्यर्थः ॥ ( २ ) एवं जीवकरणत्वश्रुतिमुदाहृत्य तद्विरुद्धश्रुतिमुदाहर ति—ब्रह्मण इति ॥ एतानीत्यस्य व्याख्यानं—चक्षुरित्यादि । इत्येता नीत्यन्वयः । अत्र हेतुमाह—तदिति । 'तत्' ब्रह्म । हिशब्दो यस्मादि त्यर्थे । 'एतैः' इन्द्रियैः । इन्द्रियाणि कर्म कुर्वन्ति, तैर्ब्रह्म कारयतीति करणे कर्तृत्वोपचारः । एतैर्ब्रह्म करोतीति फलितार्थः । चः श्रुतिसमु च्चये । श्रुतावित्यनन्तरं ब्रह्मकरणत्वं प्रतीयते इति शेषः । श्रुतावित्यने
[ अधि - १०. सू - १५. ] दीपिकासहितम्. ६६९ ( ३) अत आह— सू—ॐ ॥ ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ ॐ॥ १५ ॥ यज्ज्योतिराद्यधिष्ठानं ब्रह्म तदेवैतैः करणैः प्रवर्तय न सयुक्तिकमिति क्रियाविशेषणेन चक्षुरादीनि जीवस्यैव करणा नि, तथा श्रुतेस्तद्वशत्वेनानुभयसिद्धत्वाच्चेति सयुक्तिकपूर्वपक्षः सू चितो भवति ॥ (३) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे-अत इति ॥ ज्योतिराद्यधिष्ठा नमिति हेतुगर्भं पक्षविशेषणम् । अत्र ज्योतिश्शब्दो 'योऽग्नौ तिष्ठन्' ( बृ. ५-७-५.) इति श्रुताग्निपरः । आदिशब्देन पृथिव्यादिभूतं तद्देवता च गृह्यते । 'यस्तेजसि तिष्ठन्' (बृ. ५-७-१४.) इति श्रुता प्रकृतिश्च । 'अ धिष्ठानं' प्रेरकम् । ज्योतिराद्यधिष्ठानं यद्ब्रह्म तदेवेत्यनेन सूत्रे तदिति व्यस्तमपि भवति । तच्च ब्रह्मपरं, तेन अवधारणार्थकतुशब्दस्यान्वय इ त्युक्तं भवति। तदेव, न जीव इत्येवशव्दार्थः । 'एतैः' चक्षुरादिभिः कर णैः प्रवर्तयतीति। अनेन सूत्रे ज्योतिराद्यधिष्ठानमित्यावर्तते । अत्र ज्यो तिशब्दोऽग्निकार्यचक्षुःपरः । तथा च ज्योतिराद्यधिष्ठानं यद्ब्रह्म तदेव 'ज्योतिराद्यधिष्ठानं' ज्योतीरूपचक्षुरादिनियामकम्, न जीव इति सौ त्रप्रतिज्ञापदतात्पर्यार्थ उक्तो भवति । केचित्तु—सूत्रे शेषोक्तिरियमि त्याहुः । कुत इत्यतस्तत्र ज्योतिराद्यधिष्ठानमिति पक्षविशेषणेन ब्रह्म णः तेजःप्रभृतिभूतप्रेरकत्वे तदुपचितत्वेन तदंशभूतचक्षुरादिप्रेरकत्व स्यापि युक्तत्वादिति हेतोः, एवमादिपदगृहीतप्रकृतिसूर्याप्रथादिनि यन्तुः परस्य चक्षुरादिनियामकत्वस्य कैमुत्येन सिद्धत्वादिति हेतोश्च सिद्धत्वात् चक्षुरादिनियामकत्वे कैमुत्यान्तरपरतया तदामननादिति सूत्रखण्डं व्याचष्टे-य इति । इत्यादीति लुप्तविभक्तिको निर्देशः । इत्या दावित्यर्थः। आदिपदेन 'यश्चक्षुषि तिष्ठन्' (बृ. ५-७. ) इत्यादिकं गृह्य ते । तथा च इत्यादिवाजसनेयवाक्ये तस्य सर्वेन्द्रियप्रेरकमुख्यप्राणप्रे रकत्वस्य आमननात् प्रतिपादनादित्यर्थः । 'यश्चक्षुषि' इत्यादिश्रुतिसू चनेन विष्णोश्चक्षुरादिनियामकत्वे श्रुतिप्रदर्शनपरतयाऽपि तदामन नादित्यंशो व्याख्यातः । 'प्राणे' सर्वप्राणप्रेरकमुख्यप्राणे तिष्ठन्यस्त स्मात् 'अन्तरो' विविक्तः एष त आत्माऽन्तर्यामीति श्रुत्यर्थः । एवमु त्तरवाक्यस्यार्थोऽपि ज्ञेयः । यद्यपीन्द्रियप्रायपाठात् प्राणशब्दो घ्राणे
६७० ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - ४.] ति । ‘यः प्राणे तिष्ठन्’ (बृ. ५ - ७ - १६.) इत्यादि तदामनात् ॥ १५ ॥ ( ४ ) कथं जीवकरणत्वश्रुतिरित्यता वक्ति— सू—ॐ ॥ प्राणवता शब्दात् ॥ ॐ ॥ १६ ॥ जीवेनैव स्वकरणैः कारयति परमात्माऽतो न विरोधः । ( ५ ) ‘एष ह्येनेनात्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति मनसा मनयति बुद्ध्या बोधयति तस्मादेतावाहुः श्रुति न्द्रियपरो वा इन्द्रियमात्रपरो वा भवति । तथाऽप्यधिकार्थलाभादपौ नरुक्ताच्चेन्द्रियमुख्याभिमानिप्रधानवायुपरो व्याख्येयः । अत एव टीकायां मुख्यप्राणेत्युक्तम् । प्रमेयदीपेऽप्यमुख्यमुख्यसाधारण्येन ग्रा ह्येन्द्रियदेवतापरोऽयमित्युक्तम् । ननु सूत्रे भूतक्रमेणोक्तौ आकाशाद्य धिष्ठानमिति वाच्यम् । श्रौतक्रमेण चेत्, पृथिव्याद्यधिष्ठानमिति । तदुभयं विहाय ज्योतिरादीति कथं निर्देश इति चेत्-न, पूर्वसूत्रे चक्षु रादिवदिति, ‘ब्रह्मणो वा’ (काषायण.) इति श्रुतौ चक्षुरिति, ‘एषः’ इति वक्ष्यमाणश्रुतौ च चक्षुषेति चक्षुष आदित्वेन प्रकृतत्वात्तद्विवक्षया चक्षुरादीत्युक्तत्वात् । अत एव भाष्ये द्वितीयश्रुत्यनुसाराद्रूप्येत्युक्तम् ॥ ( ४ ) प्राणवतेतिसूत्रं तन्निरसनीयशङ्काप्रदर्शनपूर्वकमवतारयति- कथमिति ॥ तर्हीति शेषः । तथाच यदि प्राणानां ब्रह्मकरणत्वं तर्हीत्य र्थः । श्रुतिरित्यनन्तरमुपपद्यत इति शेषः । किन्तु ब्रह्मकरणत्वस्य त द्विरोध एव भवेदिति वाक्यशेषः । सूत्रं व्याचष्टे—जीवेनेति । एव कारो भिन्नक्रमः । सूत्रे करणैस्स्वकरणैरेव, न तु जीवकरणैरित्यव धारणार्थकतूशब्दोऽन्वितः । सूत्रानुषक्तं तदिति पदं ‘एषः’ इति श्रुत्य नुसाराल्लिङ्गविपरिणामेन परमात्मेति व्याख्यातम् । दर्शनादीति इति श्रुतेरर्थ इति च शेषः । जीवेनेत्यनेन प्राणवता इन्द्रियवता जीवेनेति प्राणवतेत्यस्यार्थ उक्तः । न विरोध इति सूत्रे शेषोक्तिः । तथा च यतो ‘जीवस्य करणानि’ इति श्रुतेः स्वकरणैरेव प्राणैः परमात्मा जीवेना मुख्यकर्त्रा दर्शनादि कर्म कारयतीत्यर्थो युक्तः । अतः प्राणानां ब्रह्मकर णत्वोक्तेः जीवकरणत्वश्रुतिविरोधो नेत्यर्थः ॥ ( ५ ) ब्रह्म इन्द्रियैः जीवेन दर्शनादि कारयतीत्येतत्कुत इत्यतस्तत्र हेतुत्वेन शब्दादित्यंशं व्याचष्टे—एष इति ॥ ‘हि’ यस्मात् ‘एषः’ परमा त्मा जीवस्य स्वाधीनतया किञ्चिदिन्द्रियस्वामित्वं दत्वा एतेनानेन
व र्ज
६७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] (८) सू—ॐ ॥ तस्य च नित्यत्वात् ॥ ॐ ॥ १७ ॥ अनादिनित्यत्वाज्जीवकरणसम्बन्धस्य युज्यते तत्कर णत्वश्रुतिः । (९) ‘अथावियोगीनि करणैर्वाव न वियुज्यते देहेनैव वियु ज्यते इत्येतद्भाव करणानां करणत्वं यद्भाव न वियुज्य त्वं परमेश्वरदत्तजीवप्रयोज्यत्वरूपजीवकरणत्वसहितब्रह्मकरणत्वमि न्द्रियाणां ‘अकरणत्वात्’ इति सूत्रे चशब्देन विवक्षितमिति तस्य च मुख्येऽनभ्युपगमात् न तस्याकरणत्वोक्तिविरोध इति भावः । इति वाराहे उक्तमिति शेषः । अस्यातो न विरोध इति पूर्ववाक्यानुवृत्त्या ऽन्वयः ॥ (८) एवं भगवदधीनान्यपीन्द्रियाण्यस्वतन्त्रजीवकर्तृके कर्मणि साधनत्वात्तत्करणानीत्युच्यन्ते, यथा परकीयकुठारेणापि घ्नंस्ततोऽसौ तत्करणमुच्यत इत्येवं मुख्यमर्थं जीवकरणत्वश्रुतेरुक्त्वा मुख्यार्थान्त रप्रतिपादकं सूत्रं पठित्वा व्याचष्टे—तस्य चेति ॥ सूत्रे नित्यत्वादि त्युपलक्षणम् । अनेन नाशाभावोक्तावपि उत्पत्त्यभावस्यालाभादित्या शयेनानादीत्युक्तम् । मुक्तिपर्यन्तं सदा विद्यमानत्वादित्यर्थः । न के वलं जीवकर्तृके कर्मणि इन्द्रियाणां साधनत्वादिति चशब्दार्थः । अने न चशब्दो भिन्नक्रमो निमित्तसमुच्चयार्थ इति सूचितम् । जीवकरण सम्बन्धस्येत्यनेन तस्येति पदं व्याख्यातम् । युज्यत इत्यादिना साध्या ध्याहारस्सूचितः । ‘तत्करणत्वश्रुतिः’ ‘जीवस्य करणानि’ इति जीवक रणत्वश्रुतिरित्यर्थः । तथा च परकीयेऽपि बहुकालसम्बन्धिनि वस्तु नि उपचारस्तदीयत्वव्यवहारदर्शनादत्रापि भगवदीयेष्वपीन्द्रियेषु बहुकालीनजीवसम्बन्धितामादाय तत्करणत्वश्रुतिः प्रवृत्तेति श्रुतेरुपच रितार्थत्वमिति भावः ॥ (९) अनादिकालीनसम्बन्धनिमित्तेयमिन्द्रियाणां जीवकरण त्वश्रुतिरित्युक्त कुत इत्यत आह—अथेति ॥ प्रमेयान्तरारम्भार्थोऽथेति शब्दः । ‘अवियोगीनि’ जीवेनेति शेषः । कुत इत्यत आह—‘करणैः’ इन्द्रियैरिति । वावेति प्रसिद्धौ न वियुज्यते जीवः, तर्हि कथं मृतिरि त्यत आह—देहेनेति । न करणैरित्येवार्थः । एवं जीवकरणसम्बन्ध स्यानादिनित्यत्वमुक्त्वा तस्य जीवकरणत्वव्यवहारनिमित्त वमुपपा दयति—इत्येतदिति । इति वाक्यबोध्यमित्यर्थः । ‘करणानां करणत्वं’
[ अधि - ११. सू - १८. ] दीपिकासहितम्. ६७६ ते ' इति गौपवनश्रुतिः । ( १० ) चशब्दः करणसम्बन्धग्राही ॥ १७ ॥ :[flower]: ११० अधिकरणम् ॥ ( १ ) 'अथेन्द्रियाणि प्राणा वा इन्द्रियाणि प्राणा हीदं वृञ्जन्ति' इन्द्रियाणां जीवकरणत्वव्यवहारे निमित्तम् । किमेतदित्यतौ देहेनेत्यु क्तव्यावर्तनेन करणैरित्यंशेनोक्तं पुनराह—यद्विति । यद्वाच न वियु ज्यत इत्यंशेनोक्तं जीवकर्तृकावियोगत्वमिन्द्रियधर्मिकावियोगित्व व्यवहारे हेतुभूतनादिसम्बन्धित्वपर्यवसितं तदेतदिन्द्रियाणां जीव करणत्वव्यवहारनिमित्तमित्यर्थः । श्रुतिरित्त्यनन्तरं यत इति शेषः । अ स्यानादिनित्यत्वाच्चेति सहेतुकप्रतिज्ञावाक्येनान्वयः ॥ ( १० ) ननु 'प्राणवता' इति सूत्रे जीवस्य प्राणवत्पदेन प्रकृतत्वाद
६७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
इति सयुक्तिकपौत्रायणश्रुतिः सामान्येन प्राणानामि- न्द्रियत्वं वक्ति । ‘द्वादशैवेन्द्रियाण्याहुर्मनोबुद्धी तु द्वादशे’ इति च काषायणश्रुतिः । अतः कस्येन्द्रियत्वं निवार्यमिति । ज्ञेयाः । प्राणानामिन्द्रियत्वं कुत इत्यत आह—प्राणा इति । ‘हि’ य- स्मात् ‘इदं’ विषयजातमुद्दिश्य प्राणाः ‘द्रवन्ति’ गच्छन्ति तस्मा- दित्यर्थः । एवमिन्द्रियाणां त्रयोदशत्वप्रापकश्रुतिं समुदाहृत्य द्वादश- त्वश्रुतिमुदाहरति—द्वादशेति । एवकारोऽधिकसङ्ख्याव्यावर्तकः । ‘मनोबुद्धी’ मनश्च बुद्धिश्च मनोबुद्धी इति विग्रहः । तुशब्दो विशेषा- र्थः । द्वादशे इति । द्वादशं च द्वादशं च द्वादशे । इन्द्रियशब्दविवक्ष- या नपुंसकद्विवचनप्रयोगः । प्रथमयोरित्येव द्वादशशब्दस्यैकत्र ल- क्षणा एकादशे द्वादशत्वारोपो वा । तथा च मनोबुद्धीन्द्रिये एकाद- शत्वद्वादशत्वसङ्ख्यापूरके इत्यर्थः । यत्तु एकादशी च द्वादशं चेति ततो ‘नपुंसकम्’ इत्येकशेषे एकवद्भावाभावे च द्वादशे इति रूपं सि- द्ध्यतीति व्याख्यानं, तन्न बुद्धेरेकादशीत्वं मनसः द्वादशत्वं इति व्य- त्यासेनान्वयस्य भिन्नार्थयोर्विरूपयोरेकशेषस्यादृष्टस्य कल्प्यत्वादुपे- क्ष्यम् । केचित्तु—एकादशं च एकादशी चैकादशे द्वादशं च द्वादशी च द्वादशे उभयत्र नपुंसकमित्येकशेषः । ततः एकादशे च ते द्वाद- शे चेति कर्मधारयः । एवं च मनोबुद्ध्योः प्रत्येकमेकादशत्वं द्वादशत्वं च लक्ष्यते इति एतट्टीकार्थमाहुः । अपरे तु—काकेभ्यो दधि रक्ष्यतामि- त्यत्रोपलक्षितार्थमादाय बहुत्वान्वयवदत्रापि द्वादशशब्दोपलक्षितैका- दशशब्दबोध्यार्थमादाय द्वित्वान्वय इत्याहुः । अयं प्रथमपक्षान्तर्भूत एव । स्वप्रबुद्धार्थस्तु मिलित्वा द्वौ दशशब्दौ ययोः पदयोः प्रविष्टौ ते द्वादशे तत्पदबोध्ये इति यावत् । एकादशद्वादशपदयोः दशशब्दस्य प्रविष्टत्वादिति भावः । अत एवैकादशद्वादशे इति टीकाऽपि मनो- बुद्धिपदसामानाधिकरण्यात् तत्पदबोध्यत्वाभिप्रायेति । अस्तु श्रुति- द्वयम्, ततः किमित्यत आह—अत इति । यतः पौत्रायणश्रुतिः त्रयो- दशानामपि प्राणानामिन्द्रियत्वं वक्ति । ‘द्वादश’ इति काषायणदृष्ट- श्रुतिश्च द्वादशानामेव । अतो विप्रतिपत्तेः संशय इत्यध्याहारेण योज- ना । अनेनाधिकरणाङ्गसंशयः इन्द्रियत्वाख्यविषयश्च दर्शितो भवति। एवं ‘अथ’ इति श्रुतिर्यत्त्रयोदशानामपि प्राणानामिन्द्रियत्वं वक्ति,
[ अधि - ११. सू - १८. ] दीपिकासहितम्. ६७५ ( २ ) अतो वक्ति— सू—ॐ ॥ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ ॐ ॥ १८ ॥ मुख्यप्राणमृते त एवेन्द्रियाणि ॥ ( ३ ) द्वादशैवेन्द्रियाण्याहुः प्राणो मुख्यस्त्वनिन्द्रियम् । द्रवतामिन्द्रियाणां हि नियन्ता प्राण एकराट् ॥ इति पौत्रायणश्रुतिः । अतः सर्वेऽपि प्राणाः इन्द्रियाणीति साध्याध्याहारेणावृत्त्या योजनायां पूर्वपक्षः प्रदर्शितो भवति । तत्र हेत्वसिद्धिपरिहाराय सामान्येनेत्यु क्तम् । तथा च यतः श्रुतिः ‘सामान्येन’ साधारण्येन सर्वेषामिन्द्रि यत्वं वक्ति, अतो नासिद्धिरिति भावः । ननु विशेषश्रुतित्वात् द्वाद शत्वश्रुत्या बाधितेयं त्रयोदशत्वश्रुतिरित्यत आह—सयुक्तिकेति । य त इयं श्रुतिः ‘सयुक्तिका’ इदंद्रवणरूपयुक्तियुक्ता तद्वादिनी अतः प्राबल्यान्न बाधितेति भावः । नन्वन्यतमस्य निवारणेन द्वादशानामेवे न्द्रियत्वनिर्धारणसम्भवात् कथमयं पूर्वपक्ष इत्यत आह—अत इति । यतः सामान्येनेन्द्रियत्वेदंद्रवणयोर्वचनमस्ति, अतः कस्य प्राणस्ये न्द्रियत्वं ‘निवार्यते’ न कस्याप्यशक्यत्वात् इत्यर्थः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अन्यत्र श्रे ष्ठादित्यस्यार्थो—मुख्यप्राणमृत इति । मुख्यप्राणादन्ये प्राणा इत्यर्थः। पूर्वसूत्रात्तुवृत्तचशब्दस्य एवेत्यर्थ उक्तः। ते श्रुत इति चावर्तते । एक मिति चाध्याह्रियते । तथा च ‘एकमृते’ विनैव ‘ते’ श्रुत्युक्ताः प्रा णाः ‘इन्द्रियाणि’ द्वादशैवेन्द्रियाणि, न तु सर्वे प्राणा इत्यर्थः । तत्र कस्य व्यावृत्तिरित्यत आह—मुख्येति । तथा च मुख्यप्राणमेकमृतेऽ न्ये प्राणाः इन्द्रियाणि, न तु मुख्यप्राणोऽपीत्यर्थः ॥ ( ३ ) कुत इत्यतस्तत्र हेतुत्वेन तद्व्यपदेशादित्येतद्व्याचष्टे—द्वा दशैवेति ॥ ‘हि’ यस्मात् इति विशेषश्रुतिरस्ति तस्मान्मुख्यप्राणमृते ऽन्य एवेन्द्रियाणि न तु मुख्योऽपीत्यर्थः । श्रुत्यर्थस्तु-इन्द्रियाणि द्वाद शैवेत्याहुः, न तु त्रयोदशेति।अत्र कस्य व्यावृत्तिरित्यत आह-प्राण इति। मुख्यप्राणस्त्वित्यन्वयः । तुशब्दो विशेषार्थः । इत्याहुरित्यस्ति । नन्वि दंद्रवणवतः तस्य कथमिन्द्रियत्वाभाव इत्यत उक्तम्—द्रवतामिति। गच्छतामित्यर्थः । विषयं प्रतीति शेषः । ‘नियन्ता’ स्वामी ‘एकराट्’ स्वतन्त्रः । तथा च मुख्ये इदंद्रवणादिति हेतुरसिद्ध इति भावः । तुरे
६७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ( ४) श्रोत्रादीनि तु पञ्चैव तथा वागादिपञ्चकम् । मनोबुद्धिसहायानि द्वादशैवेन्द्रियाणि तु ॥ विषयद्रवणात्तेषां इन्द्रियत्वमुदाहृतम् । तेषां नियामकः प्राणः स्थित एवाखिलप्रभुः ॥ इति बृहत्संहितायाम् ॥ १८ ॥ ( ५) सू—ॐ ॥ भेदश्रुतेः ॥ ॐ ॥ १९ ॥ 'स्थित एव हीदं मुख्यप्राणः करोति कारयति बलति बालयति धत्ते धारयति प्रभुं वा एनमाहुरथेन्द्रियाणि न स्थितानि न कुर्वन्ति न कारयन्ति न बलन्ति न बालयन्ति न धत्ते न धारयन्ति तानि ह वा एतान्यबला बार्थो नियन्तैवेति सम्बध्यते ॥ ( ४) अत्रैव स्मृतिमाह—श्रोत्रादीनीति ॥ आद्यस्तुशब्दो ज्ञाने- न्द्रियत्वरूपविशेषद्योतकः द्वितीयश्चेदित्यर्थे । एवशब्दो वागादिपञ्चक- स्य ज्ञानेन्द्रियत्वव्यावर्तकः, तथाशब्दः समुच्चये, तथा च यानि श्रो- त्रादीनि पञ्चैव ज्ञानेन्द्रियाणि यथातथाभूतं वागादिपञ्चकं कर्मे- न्द्रियं तान्येव मनोबुद्धिसहायानि चेत् द्वादश भवन्ति । एतानि द्वाद- शैवेन्द्रियाणि, न त्वन्यदिति योजना । कुतो द्वादशानामिन्द्रियत्वमत आह—विषयेति । विषयं प्रति गमनादित्यर्थः । एतदन्यस्य मुख्यप्राण- स्यानिन्द्रियत्वे हेतुमाह—'तेषां' इन्द्रियाणामिति । गच्छन्नियामकस्या- पि गमनमस्त्येवेति तस्यापीन्द्रियत्वं स्यात् इत्यत आह—स्थित इति । स्वस्थान इति शेषः । न तु विषयं प्रति स्वयमपि गच्छतीत्यर्थः । अत्रो- पपत्तिमाह—अखिलेति । अखिलेन्द्रियस्वामीत्यर्थः । स्वामिनो भृत्यानु- गमनमयुक्तमिति भावः । बृहत्संहितायामिति । उक्तमिति शेषः ॥ ( ५) यदि मुख्यप्राणो नेन्द्रियं तर्हि चक्षुरपि न स्यात्, चक्षुर्मु- ख्यप्राणयोः सर्वथा विशेषाभावात् इदंद्रवणभावाभावरूपस्य स्थित- त्वास्थितत्वरूपस्य सूत्रकृताऽनुक्तत्वात् अप्रयोजकत्वाच्च इत्याशङ्कां परि- हरत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहरति—भेदेति ॥ स्थित इत्यतः प्राक्स्वस्थान इत्युपस्कार्यम् । हिशब्दः प्रसिद्धौ । 'इदं' सर्वं कार्यं करोति स्वयं, कारयत्यन्यमुखेन 'बलति' बलयुक्तवदाचरति चेष्टते वा 'बाल- यति' बलयुक्तान् करोति चेष्टयतीति वा । स्वयमखिलं 'धत्ते' बिभर्ति धारयत्यन्यमुखेन । उभयत्र हेतुमाह—प्रभुमिति । 'एनं' मुख्यं, अनेन
[ अधि - ११. सू - २०. ] दीपिकासहितम्. ६७७ नि तस्मादाहुरिन्द्रियाणि करणानि' इति पौत्रायण श्रुतेः ॥ १९ ॥ ( ६ ) सू—ॐ ॥ वैलक्षण्याच्च ॥ ॐ ॥ २० ॥ पुरुषापेक्षया प्रवृत्तिरिन्द्रियाणां दृश्यते न मुख्यस्य । मुख्यस्य सर्वकर्तृत्वकारयितृत्वबलत्वबालयितृत्वधर्तृत्वधारयितृत्वा- दिविशेषोक्त्या ईश्वरसाम्यमुक्तम् । तथा च सौत्रभेदशब्दो विशेष- परतया व्याख्यातः । एवं मुख्यप्राणधर्ममभिधाय तद्भावमिन्द्रियेष्वा- ह—अथेति । इन्द्रियस्वामिस्थितिकथनानन्तरं तद्वशानीन्द्रियाणि ल- क्षणमुखेन कथ्यन्त इत्यर्थः । ततः किमित्यत आह—तानीति । हवेति प्रसिद्धौ । यस्मात्तान्येतानीन्द्रियाणि ' अबलानि' करणकारणबलन- बालनधरणधारणपोषणदिष्वत्यन्तं असमर्थानि तस्माज्जीवापेक्षया 'करणानि' तत्प्रयोज्यानि इति वि
६७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ' प्राणाग्नय एवैतस्मिन् पुरे जाग्रति ' ( प्र. ४-३. ) इति च श्रुतेः ॥ २० ॥ —:*:— १२. अधिकरणम् ॥ ( १ ) ' विरिञ्चो वा इदं विरेचयति विदधाति ब्रह्मा वाव वि भयवशप्रवृत्तिकत्वात् मुख्यस्य च केवलेश्वराधीनप्रवृत्तित्वरूपवैल क्षण्यात् । न चासिद्धिः 'वैलक्षण्यात्' इन्द्रियेषूक्तवैलक्षण्यस्य प्रत्य क्षसिद्धत्वात्, मुख्यप्राणे च श्रुतिसिद्धत्वादिति सूत्रार्थ उक्तो भवति। षट्प्रश्ने हि 'एष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृ शते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्ष ते' ( प्र. ४-२. ) इति पूर्ववाक्ये जीवस्य स्वापकाले श्रोत्रचक्षुर्घाणरस नत्वग्वाक्पाण्युपस्थपायुपादाख्यदशेन्द्रियव्यापाराभावमभिधाय त र्हि कानि तदा जाग्रतीति पिप्पलादमृषिं प्रति सौर्यायणिप्रश्नविप्रश्नस्यो त्तरमुच्यते—प्राणाग्नय इति । स्वापकाले 'एतस्
[ अधि - १२. सू - २१० ] दीपिकासहितम्. ६७९ रिञ्च एतस्माद्धीमे रूपनामनी' इति गौपवनश्रुतिः । ( २ ) यस्माद्विरेचयेत्सर्वं विरिञ्चस्तेन भण्यते । एको हि कर्ता जगतो ब्रह्मैव च चतुर्मुखः ॥ इति च युक्तिर्ब्राह्मे । कुतो विरिञ्चत्वमित्यतस्तदर्थभूतविरेचकत्वस्य तत्र प्रसिद्धत्वादित्या नाह—एतस्माद्धीति । ब्रह्मण इत्यर्थः । हिशब्दः प्रसिद्धौ । 'इमे' प्र सिद्धे रूपनामनी उत्पद्येते इति शेषः । अत्र 'रूपं च तदपेक्षया' इति स्मृतेः अयोगिप्रत्यक्षगम्यं रूपं त्रिवृत्क्रियापेक्षया भवति । नाम च त द्व्यवहार्यं तदपेक्षं भवतीति तत्त्वप्रदीपोक्तेः अयोगिप्रत्यक्षगम्यं अस्म . दादिशरीरमेव रूपशब्देनोच्यते, अयोगिभिर्व्यवहार्यमेव नामशब्देनो च्यते । अस्मदादिशरीरस्यैव त्रिवृत्कृतोपादानकत्वात्, उपादानार्थमे व त्रिवृत्क्रियापेक्षणात्, अयोगिभिर्व्यवहार्यनाम्नामेव रूपापेक्षत्वाच्च, न तु योगिप्रत्यक्षगम्यदेवतादिशरीरमपि रूपशब्देनोच्यते, तस्य केवल भूतोपादानकत्वेन तदर्थं त्रिवृत्क्रियानपेक्षणात् । योगिभिर्व्यवहार्यना म्नां रूपानपेक्षत्वाच्च । श्रुतिरित्यनन्तरं विरिञ्चस्य नामरूपकर्तृत्वं व क्तीति शेषः ॥ : ( २ ) श्रुत्यन्तरापेक्षयाऽस्याः प्राबल्योपपादनाय युक्त्युपेतां दर्शय ति—यस्मादिति ॥ यस्मात् 'सर्वं' नामरूपात्मकं 'विरेचयेत्' सृजे त् तेन कारणेन ब्रह्मा विरिञ्च इति भण्यते । नास्य कर्तृत्वं द्वारत्वाभि प्रायं, किन्तु मुख्यमेवेत्याशयेन अस्य साध्यमाह—एको हीति । हिः प्रसिद्धौ । तुरेव । यस्मादित्यावर्तते, तेनेति च । तथा च यस्माद्विरि ञ्चो भण्यते, तेन ब्रह्मैव जगतः 'एको' मुख्यः कर्ता, न द्वारभूतः, स च 'ब्रह्मा' प्रसिद्धश्चतुर्मुख एवेत्यर्थः । चतुर्मुख इत्यनेन श्रुतिगतो ब्र ह्मशब्दो जगत इत्यनेनेदंशब्दश्च विवृतः । केचित्तु—श्रुतौ विरेचकत्व निमित्तेन विरिञ्चशब्दवाच्यत्वोक्तावपि तस्य जगत्स्रष्टृत्वे हेतुत्वानुक्तेः तदर्थं यस्मादित्यादिस्मृत्युदाहरणम् । तथा च यस्मात् विरिञ्चो भ ण्यते तस्मात् एको हि कर्ता जगत इत्यावृत्तिं विना स्मृतिवाक्यार्थमा हुः । इतीति । इति ब्राह्मवचने विरेचयितृत्वनिमित्तकविरिञ्चशब्दवा च्यत्वरूपयुक्तिश्चोक्तेत्यन्वयः । न केवलं श्रुतिरिति चशब्दार्थः । अनेन विरिञ्चस्यैव नामरूपात्मकदेहादिकर्तृत्वं तथा श्रुतेः विरिञ्चत्वयुक्तेश्चे ति सयुक्तिकः पूर्वपक्षस्सूचितो भवति ॥
६८० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ( ३ ) ' अथ कस्मादुच्यते परम इति परस्माद्ध्येते नामरूपे व्याक्रियेते तस्मादेनमाहुः परम इति । अथ कस्मादु- च्यते ब्रह्मेति बृहत्त्वाद्वृंहितत्वाच्च ' इत्याग्निवेश्यश्रुतिः। ( ४ ) अत आह— सू—ॐ ॥ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ ॐ ॥ २१ ॥ नामरूपक्लृप्तिः परादेव । ' सर्वाणि रूपाणि विचित्य धीरः। नामानि कृत्वाऽभिवदन्यदास्ते' (तै.आ.३-१२) इति श्रुतेः। ( ३ ) एवं विरिञ्चकर्तृत्वे श्रुतिमुदाहृत्य परमात्मकर्तृत्वेऽपि तामु- दाहरति—अथेति ॥ प्रश्नेऽथशब्दः । विष्णुः परम इति कस्मादुच्यत इति प्रश्नस्योत्तरमाह—परमादिति । ' हि ' यस्मात् ' एते नामरूपे ' संज्ञामूर्ती ' परस्मात् ' विष्णोः ' व्याक्रियेते ' सृज्येते तस्मादेनं परम इत्याहुः कवय इत्यर्थः । अत्र परमत्वे नामरूपकर्तृत्वाख्यो हेतुरुक्तः, स च नाप्रयोजकः, अपरस्याल्पशक्तेः सर्वनामरूपकर्तृत्वायोगात् । ' क- र्तृत्वात्सगुणं ब्रह्म ' इति भागवतोक्तेरिति ध्येयम् । न केवलं नामरूप- कर्तृत्वं परमत्वे हेतुः, किन्तु विष्णोर्ब्रह्मत्वेऽपि हेतुरिति सूचनाय ब्रह्म- शब्दं प्रश्नपूर्वं निर्वक्ति—अथेति । यद्वा—' ब्रह्मा वा ' ( ) इति श्रुतिगतब्रह्मशब्दप्रकृतेः सावकाशत्वोपपादनायेदमुदाहृतम् । पूर्ववत्प्र- श्नार्थोऽथ शब्दः । ' बृहत्त्वात् ' वृद्धत्वात् ' बृंहितत्वात्' नामरूपात्मक- जगत्सृष्ट्यादिगुणबृंहितत्वात् पूर्णत्वाच्च ब्रह्मेत्युच्यते इत्यर्थः । श्रुतिरि- ति । विष्णोर्नामकर्तृत्वं वक्तीति शेषः ॥ ( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ संज्ञामूर्तिक्लृ- प्तिरित्यस्य व्याख्यानं—नामरूपक्लृप्तिरिति । नामरूपात्मकदेहादिप्रप- ञ्चस्योत्पत्तिरित्यर्थः । ' परात् ' परमात्मन इति लब्धविशेष्योक्तिः । न विरिञ्चादित्येवकारार्थः । भवतीत्यध्याहार्यम् । कुत इत्यतः प्रवृत्तमुप- देशादिति हेत्वंशं व्याचष्टे—सर्वाणीति । इतीति । इति तैत्तिरीयपुरुष- सूक्तमन्त्रोक्तत्वादित्यर्थः । श्रुतौ यदिति लिङ्गव्यत्यासः । तथा च ' यो धीरः ' परमधैर्यशीलो भगवान् सर्वाणि रूपाणि ' विचित्य ' सृष्ट्वा तेषां ' नामानि ' वाचकशब्दांश्च कृत्वा तानि तैः ' अभिवदन् ' व्यवह- रन्नास्ते । तमेवं विद्वान् अमृतो भवतीत्यर्थः ॥
[ अधि - १२. सू - २१. ] दीपिकासहितम्. ६८१
( ५ ) त्रिवृत्कुर्वत इति हेतुगर्भः । त्रिवृत्करणापेक्षत्वान्नामरू- पयोः । ( ६ ) सर्वनाम्नां च रूपाणां व्यवहारेषु केशवः । ( ५ ) नामरूपयोः विरिञ्चसृष्टत्वेऽप्यस्ति श्रुतिरित्या...दमनया पर- मात्मसृष्ट्यनिश्चय इत्यतस्तत्परिहारत्वेन प्रका भावप्रधानत्रिवृत्पदघ- टितं त्रिवृत्कुर्वत इत्यंशं परस्य नामरूपकर्तृत्व हेतुसमर्पकतया व्याच- ष्टे--त्रिवृत्कुर्वत इति ॥ त्रिवृत्कुर्वत इति विशेषणनिर्देशो हेतुगर्भः वा- च्यो यस्य स हेतुगर्भो लिङ्गवाचीत्यर्थः । तथा च सिद्धान्तश्रुतेः प्राब- ल्यज्ञापनाय त्रिवृत्क्रियाकर्तृत्वरूपपरमात्मविशेषणवाचकपञ्चम्यन्तश- ब्देन परस्य नामरूपकर्तृत्वे त्रिवृत्त्वकर्तृत्वादिति युक्तिरुक्तेति भावः । [L1
Here is the line-by-line Devanagari transcription of the provided page:
६८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] एक एव यतः स्रष्टा ब्रह्माद्यास्तदवान्तराः ॥ इति पाद्मे । (७) त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया । रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥ अतो नाम्नश्च रूपस्य व्यवहारस्य चैकराट् । हरिरेव यतः कर्ता पिताऽतो भगवान् प्रभुः ॥ इति च ब्रह्माण्डे ॥ २१ ॥ —: ❖ :— १३. अधिकरणम् ॥ (१) 'अद्भ्यो हीदमुत्पद्यते आपो वाव मांसमस्थि च भव भूत इत्यार्थः । तदवान्तरा इत्यस्यैकपदत्वे तस्य विष्णोस्तस्यां सृष्टौ द्वारभूता इत्यर्थः । यतस्सर्वरूपाणां स्रष्टाऽतः सर्वेनाम्नां चेत्यप्यन्वयः। तथा च पूर्वपक्षिश्रुतेः द्वारविषयत्वेन सावकाशत्वान्न तद्विरोध इति भावः । न च मुख्यार्थसम्भवे किममुख्यार्थाश्रयणेनेति वाच्यम् । यतः कर्तृत्वशक्तिरूपं मुख्यकर्तृत्वं 'एक एव स्रष्टा' इत्यनेन विष्णोरेव, नान्येषां तस्यैव त्रिवृत्कर्तृत्वादित्युक्त्वा 'ब्रह्माद्यास्तदवान्तराः' इत्य नेनेतरेषां द्वारकारणत्वरूपामुख्यकर्तृत्वमेवोक्तम् । इति पाद्मे इत्यस्य वचनादित्यध्याहारेण नामरूपक्लृप्तिः परादेवेति पूर्वेणान्वयः ॥ (७) सूत्रार्थं स्मृतिसमर्थितं चाह—त्रिवृदिति ॥ आद्यश्चस्त्वर्थः। तथाशब्द उपमायाम् । द्वितीयश्चशब्दः समुच्चये । भवतीति शेषः । तथा च 'यतस्त्रिवृत्क्रिया' पृथिव्यप्तेजसां मिश्रीभावकरणं विष्णोस्स म्बन्धि भवति । यतश्च रूपं 'तदपेक्षया' त्रिवृत्क्रियाऽपेक्षयैव भवति । यतश्च नाम 'रूपापेक्षं' तत्साध्यं यतश्च 'व्यवहारः' अभिलपनादिरूपः 'तदात्मकः'नामापेक्षः अतो नाम्नो रूपस्य व्यवहारस्य च हरिरेव 'एकराट्' स्वतन्त्रः कर्ता, नान्यः । यतः कर्ता भगवान् अतः सर्वजी वानां पिता । न केवलमेतावत्, किन्तु 'प्रभुः' स्वामी चेत्यर्थः स्मृति द्वयसमुच्चये चशब्दः ॥ १२ ॥ ॥ इति संशाधिकरणम् ॥ —: ❖ :— १३. अधिकरणम् ॥ (१) अत्राधिकरणे शरीरकारणश्रुतिविरोधः परिह्रियते । तन्नोप
[ अधि - १३. सू - २२. ] दीपिका सहितम्. ६८३ *'ह्यापः शरीरमाप एवेदं सर्वम्' इति कौण्डिन्यश्रुतिः। ( २ ) अम्मयं तु यतो मांसमतस्तृप्तिश्च मांसतः । इति च भारतं ॥ ( ३ ) 'पृथिवीं शरीरमाकाशमात्मा' (बृ. ५-२-१३.) इ लक्षणाभिप्रायेण कोटिद्वयमात्रे सन्देहबीजं दर्शयन् पूर्वपक्षं च दर्श- यति—अद्भ्य इति ॥ हिशब्दः प्रसिद्धौ । 'इदं' शरीरम् । एवं प्रतिज्ञा- तमपां सर्वशरीरकारणत्वमुपपादयति—आप इति । आपो मांसं भव- न्ति, अस्थि च भवन्तीति प्रत्येकमन्वयः। यत इति शेषः। अतः 'आपः शरीरं' अब्जन्यं शरीरमित्यर्थः । शरीरस्य मांसाद्यात्मकत्वादिति भा- वः। निगमयति—आप एवेति 'इदं' शरीरम् । श्रुतिरिति । आप्यत्वं शरीरस्य वक्तीति शेषः। अनेन शरीरमाप्यमेवेत्येकः पूर्वः पक्षः प्रद- र्शितो भवति ॥ ( २ ) नन्वाप्यत्वश्रुतेः पार्थिवत्वादिप्रापकश्रुत्यन्तरविरोध इत्या- शङ्क्य सयुक्तिकत्वेनास्याः प्राबल्यमित्याह—अम्मयमिति ॥ तुशब्दोऽ- वधारणे भिन्नक्रमः । यतो मांसमम्मयं, अत एव मांसतः तृप्तिर्जायते तर्पकत्वस्याब्धर्मत्वेन कार्यानुस्यूतेरावश्यकत्वादिति भावः। 'भारते' शरीरस्याप्यत्वे युक्तिरुक्तेति शेषः । शरीरैकदेशस्य मांसस्याप्य- त्वे तर्पकत्वाख्ययुक्तिकथनाच्छरीरस्याप्याप्यत्वे युक्तिरुक्तप्रायेति भावः ॥ ( ३ ) संशयकोट्यन्तरप्रदर्शनाय श्रुत्यन्तरमुदाहरति—पृथिवी- मिति ॥ 'यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः चक्षुरा- दित्यं मनश्चन्द्रं दिशःश्रोत्रं पृथिवीं शरीरमाकाशमात्मा' इति बृहदा- रण्यकश्रुतौ वागादीनामंशेन गमनमुक्त्वा आत्मशब्दितदेहान्तर्गतपर- मात्मरूपस्याकाशपदोक्तमूलरूपप्राप्तिरुच्यते । तथा च पुरुषस्य वाक् अग्निमप्येति, पुरुषस्य शरीरं 'पृथिवीमप्येति' तत्र लीनं भवति, पुरुष- स्य 'आत्मा' देहान्तर्गतो हरिः 'आकाशं' मूलरूपिणं परमात्मानं प्रा- प्नोतीत्यर्थः। 'आत्मा' जीवः आकाशं परमात्मानमाप्नोतीति व्या- ख्याने तु 'पुरुषस्य' जीवस्य 'आत्मा' जीव इत्यन्वयायोगादयुक्तम् । 'आकाशाख्यं स्वरूपं तु विष्णुस्तद्धृदि संस्थितः' इति बृहद्भाष्य
६८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ति च श्रुतिः । ( ४ ) अतो ब्रवीति— सू—ॐ ॥ मांसादिभौमं यथाशब्दमितरयोश्च ॥ ॐ ॥ २२ ॥ वीकार्यत्वासिद्धिः । अनेन शरीरं पार्थिवमित्यपरः पूर्वः पक्षः प्रदर्शितो भवति । एवं शरीरस्य तैजसत्वपूर्वपक्षेऽपि 'सोऽग्नेर्देवयोन्या आहुति- भ्यः सम्भूय हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमिति' ( ऐ.ब्रा.७-४.) इति बह्वृचब्राह्मणवाक्यमुदाहर्तव्यम् । 'सः' यजमानो देवेभ्यः स्वदत्ताहु- तिप्रदानेन देवपोषकत्वेन 'देवयोन्याः' देवमुखादग्नेः स्वेन दत्ताहुति- भ्यां निमित्तेभ्यो हिरण्यशरीरः 'सम्भूय' भूत्वा 'ऊर्ध्वः' ऊर्ध्वगतिस्सन् स्वर्गं लोकमेतीति श्रुत्यर्थः । एवं शरीरस्य भूतत्रयात्मकत्वेऽपि 'इमा स्तिस्रो देवताः पुरुषं प्राप्य' ( छा.६-४-७.) इत्यादिश्रुतिरुदाहर्तव्या । 'इमाः' तेजोऽबन्नात्मिकाः तिस्रो देवताः ॥ ( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे— अत इति ॥ यतोऽनेकधा विरुद्धश्रुतिरस्ति । यतश्च देहस्य भूतत्रयात्मकत्वश्रुतेः एकैकभूतोपा- दानकत्वश्रुतिविरोधेनाप्रामाण्ये तन्न्यायेन जगत्कारणत्वश्रुतेरप्यप्रा- माण्यान्न तया विष्णोर्जगत्कारणतासिद्धिः, अतस्तन्निराकरणार्थं सि- द्धान्तमाह— सूत्रकार इत्यर्थः । इति श्रुतेरित्यनेन यथाशब्दमिति या श्रुतिः सूचिता, यच्च श्रुतेरङ्गीकारहेतुत्वं सूचितं तद्विवृतं भवति । तेन विपक्षे श्रुतिविरोध उक्तः । ब्राह्मणे 'यत्कठिनं' मांसादि सा पृथिवी । 'यद्द्रवं' शोणितादि तदापः । 'यदुष्णं' मज्जादि तत्तेज इति श्रुत्यर्थः । मांसादीति शोणितादिमज्जादीत्यनयोरुपलक्षणम् । अतएव टीकायां श- रीरेऽस्ति शोणितमज्जादीत्युक्तम् । तत्र प्रत्येकमादिशब्दान्वयः । अस्थि शोणितेत्यपपाठः । सूत्रे मध्यमधातुजन्यत्वेन मांससमयोः शोणितमज्- योरैव ग्राह्यत्वात्, अस्तीति क्रियापदस्यैव अपेक्षितत्वाच्च । तत्र प्रथमा- दिशब्देन मनःपुरीषयोर्ग्रहणम् । द्वितीयेन मूत्रप्राणयोः, तृतीयेनास्थि- वाचोर्ग्रहणम् । एवेत्यनेन पूर्वसूत्रादेवार्थस्य तुशब्दस्यानुवृत्तिस्सूचि- ता । चार्थो वा एवकारः। भौममित्येतत् आप्यं तैजसमित्यनयोरुपलक्ष- णम् । अत्र सर्वत्र तत्त्वप्रदीपोदाहृता सूत्रे यथाशब्दमित्यनेन सूचिता भाष्ये श्रुतेरित्यनेनोपलक्षिता टीकायामपि यथाशब्दत्वादित्यनेनोक्ता 'अन्नमशितं त्रेधा विधीयते तस्य यस्स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमः तन्मांसं योऽणिष्ठस्तन्मनः' ( छा.६-५-१. ) इति तथा 'अ-
[ अधि - १३. - सू - २२. ] दीपिकासाहितम्. ६८५ 'यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजः' ( गर्भ. ३. ) इति श्रुतेर्मांसाद्येव भौमं, न सर्वशरीरम् । अब्तेजसोश्च कार्यं यथाशब्दमङ्गीकर्तव्यम् । ( ५ ) 'यद्वावाथो विमिश्रं विमिश्राद्धयेतद्भवति मिश्रानि हि भू न्नमयं हि सोम्य मनः' ( छा. ६-६-५. ) इति छन्दोगे पुरीषमांसमनसां पार्थिवत्वश्रुतिः, एवं 'आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुः तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठस्स प्राणः' (छा. ६-५-२.) इति तथा 'आपोमयः प्राणः' (छा. ६-६-५.) इति मूत्रशोणि- तप्राणानामाप्यत्वश्रुतिः, एवं 'तेजोऽशितं त्रेधा विधीयते तस्य यः स्थ- [L11