पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[अधि - १२. सू - २१. ] दीपिकासहितम्. ७८१
‘अथात आनन्दस्य मीमांसा भवति’ (तै. २-८.) इत्यारभ्य ब्रह्मपर्यन्तेषु सुखे विशेषदर्शनात् । ह्मापर्यन्तेषु’ चतुर्मुखपर्यन्तेषु मुक्तेष्विति शेषः। ‘सुखे’ आनन्देषु विशे- षस्य तारतम्यस्य दर्शनादुक्तत्वादित्यर्थः। यद्यपि ‘सैषाऽऽनन्दस्य मी- मांसा भवति’ (तै. २-८.) इति तैत्तिरीयश्रुति पाठः। तथाऽपि शाखान्त- रपाठोऽयमित्यदोषः। श्रुतौ प्रकरणान्तरारम्भे अथशब्दः। ‘अतः’ पक्षद्व- यप्रापकसत्त्वात् ‘आनन्दस्य’ मुक्तसुखस्य ‘मीमांसा’ किं सर्वेषामेक- प्रकार उत अनेकप्रकार आनन्द इति विचारो ‘भवति’ प्रवर्तेत इत्य- र्थः। एवं विचारे अनेकथेत्युत्तरमुच्यत इति केचित्। तन्न, तैत्तिरीयभा- ष्ये आनन्दस्य ‘मीमांसा’ विचित्रता भवतीति व्याख्यानात् । विवि- धचरणं वैचित्र्यम् धात्वर्थः । स्वार्थे सन्। फलवैचित्र्ये हेतुभावा- दित्यतश्शब्दार्थः। मानुषोत्तममारभ्य विरिञ्चपर्यन्तमानन्दतारतम्यं व- क्तुं तत्र मनुष्योत्तमचक्रवर्त्यानन्दस्य पूर्वावधिभूतत्वात्तद्वचनाय मु- क्तचक्रवर्तिनो विशेषणान्याह—युवा स्यादित्यादिना । विष्णुना युत- स्सन् वाति गच्छतीति युवा । साधुगुणयुक्तत्वात्साधुना विष्णुना यु- तत्वाद्वा साधुयुवा । मुक्तथाख्याध्ययनफलवत्त्वादाध्यायिकः । आस- मन्ताच्छमस्येत्याशः अतिशयेनाशः आशिष्ठः नित्यपूर्णसुखवानित्यर्थः। अतिशयेन दृढो द्रढिष्ठः । अतिशयेन बली बलिष्ठः । य एवंभूतः मुक्त- चक्रवर्ती तस्य त्रेतायुगे संसारदशायामियं सर्वा पृथिवी ‘वित्तस्य’ वित्तेन पूर्णा स्यात्तदा तस्य यत्सुखं ‘स एको मानुष आनन्दः’ मुक्तम- नुष्यचक्रवर्तिसम्बन्ध्येक आनन्द इत्यर्थः । ‘ते’ प्रसिद्धाः ‘ये शतं मा- नुषाः’ मुक्तमनुष्यचक्रवर्तिसम्बन्ध्यानन्दाः ‘स एकः मनुष्यगन्धर्वा- णां’ मुक्तानामानन्दः । मुक्तत्वज्ञापनाय विशेषणद्वयमाह-श्रोत्रियस्ये- ति । श्रोत्रियाणामकामहतानां चेत्यर्थः । एवमग्रेऽपि वचनव्यत्ययो ज्ञे- यः । प्राप्तमोक्षिणः श्रोत्रियाः । कामकृतोपद्रवशून्याः अकामहताः । ये साक्षाद्देवप्रेष्यास्ते देवगन्धर्वाः। तेषां मनुष्यगन्धर्वापेक्षया शतगुणि- तोत्कृष्ट आनन्द इत्यर्थः । एवमग्रेऽपि पूर्वपूर्वापेक्षया उत्तरोत्तरेषां श- तगुणोत्कर्षो ज्ञातव्यः । चिरकालीनो लोकश्चिरलोकः, स एव लोको येषां ते तथोक्तास्तेषामित्यर्थः । देवेष्वनाख्याता अकथिता या देवताः देवकुले जातास्ते आजानदेवास्तेषामित्यर्थः । के कर्मदेवाः ? कुतश्च ते- षाम् कर्मदेवत्वमित्यत उक्तं—ये कर्मणेत्यादि । ‘ये ’ बल्याद्याः कर्मणा
७८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ( ५) चशब्दात् स्मृतिः । यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे । तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने ॥ इति ॥ २१ ॥ —— १३. अधिकरणम् ॥ ( १ ) सृष्टिसंहारकर्तृत्वमेवास्य, न पालकत्वम्, स्वतस्सि द्धेरिति । मध्ये 'देवान्' देवत्वं 'अपियन्ति' प्राप्नुवन्ति ते कर्मदेवा इत्यर्थः । देवानामिति । सृष्ट्यादौ देवत्वं प्राप्तानां तत्त्वाभिमानिदेवानामित्यर्थः । 'इन्द्रस्य' दक्षप्रजेश्वरस्य 'बृहस्पतेः' पुरन्दरस्य 'प्रजापतेः' रुद्र स्य 'ब्रह्मणः' चतुर्मुखस्येति समग्रश्रुत्यर्थः ॥ ( ५ ) नन्वस्तु फलतारतम्यं, तथाऽपि भक्तिसाम्यं किं न स्यात्, फलतारतम्यस्य भक्तीतरप्रसादादितारतम्येनापि सम्भवादित्यत आ ह—चशब्दादिति ॥ समुच्चितेति शेषः । काऽसावित्यतः तां स्मृतिं पठ ति—यथेति । 'अत्र' संसारे ज्ञानिनां परमेश्वरे 'यथा भक्तिविशेषो' भक्त्यतिशयो दृश्यते, तथैव तेषां 'लिङ्गभेदने' लिङ्गशरीरभङ्गे जाते सति 'मुक्तिविशेषो' मुक्तावानन्दव्यक्तिविशेषोऽपि दृश्यते । नान्यथे त्यर्थः । दृशिरत्र भवत्यर्थः । यद्वा— अत्र 'ज्ञानिनां' ज्ञानिषु यथा भ क्तितारतम्यं योगिभिः 'दृश्यते' ज्ञायते तथैव तेषां लिङ्गभेदने सति 'मुक्तिविशेषो' मुक्तितारतम्यमपि दृश्यते । न वैरूप्येणेत्यर्थः इति स्मृतिरित्यन्वयः ॥ १२ ॥ ॥ इति वृद्धिह्रासाधिकरणम् ॥ —::— १३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विश्वपालकत्वं समर्थ्यते । पूर्वपक्षयति—सृ ष्टीति ॥ सृष्टिश्च संहारश्च तयोः कर्ता तस्य भावस्तत्त्वमित्यर्थः । य द्वा—सृष्टौ सत्यां संहारः तस्य कर्तृत्वमित्यर्थः 'अस्य' भगवतः । इ दं चावर्तनीयम् । एवकारः क्रमेण भिन्नक्रमेण चान्वेति । तत्राद्यपक्षे तद्भावार्थं दर्शयति—नेति । अस्तीति शेषः । अस्येत्यनुवृत्तपदं । तथा च न विश्वपालकत्वं भगवतोऽस्ति किन्तु सृष्टिसंहारकर्तृत्वमेव । कुतः? यतोऽस्य संहारकर्तृत्वं, न च संहर्तुः पालकत्वं सम्भवतीति भावः ।
[ अधि - १३. सू - २२. ] दीपिकासहितम्. ७८३ ( २ ) अत आह— सू—ॐ ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ ॐ ॥ २२ ॥ पालनसाध्यकार्याभावाच्च । न च स्थितिस्तत्कार्यं, सृष्टौ सत्यां याव त्संहारस्तावदस्य जगतः स्थितिकार्यस्य पालनं विना स्वत एव सि द्धेस्तस्य तदेकप्रयोजनत्वात् । न च संहारनिवारणव्यापारः अवा न्तरोपद्रवनिवारणं वा तत्प्रयोजनम् । यतोऽस्यैव सृष्टिसंहारकर्तृत्वं न त्वन्यस्येति योजना । अनेन सयुक्तिकः पूर्वपक्षः प्रदर्शितो भवति ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति । उक्तमिति । स्वस्यां प्रागुक्तमित्यर्थः । अनेन प्रकृतेति प्रातिपदिकं व्याख्यातं भवति । एतावत्त्वमित्येतद्व्याचष्टे—सृष्टीति । इदं चावर्तते । तथा च उक्तं सृ ष्टिसंहारकर्तृत्वं सृष्टिसंहारकर्तृत्वमात्रं तावन्मात्रपर्यवसितमित्येतत्प्र तिषिध्येतार्थः । वचनापेक्षया प्रतिषेधस्य पूर्वकालीनत्वज्ञापनाय ल्यब न्तनिर्देशः । मात्रशब्देन पालनाख्यगुणान्तरं व्यावत्र्त्यते । ' ततः ' उ क्तात् । भूय इत्यस्य व्याख्यानं—अधिकमिति । पालनमपीत्यर्थः । अ स्येत्यनुवर्तते । ब्रवीतीत्यनन्तरं श्रुतिरिति यत इति च शेषः । अस्य हे तोरस्त्येव हरेः पालकत्वमिति प्रकरणलब्धसाध्येनान्वयः । अनेन हि शब्दो हेत्वर्थतया व्याख्यातः । अस्येदेषा सुमतिः पप्रथानाऽभवत्पूर्व्या भूमना गौः । अस्य सनीळा असुरस्य योनौ समान आभरणे बिभ्रमाणाः॥ किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः। सन्तस्थाने अजरे इतऊती अहानि पूर्वीरुषसोऽजरन्त ॥ नैतावदेनापरो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति । त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्ये न हरितो वहन्ति ॥ (ऋ. १०-३१-६,७,८. ) इति ऋक्श्रुतेरयमर्थः ' अस्येत् ' विष्णोस्सकाशादेव ' एषा सुमतिः ' ब्रह्मादिसुबुद्धिः- ' पप्रथाना ' अतिशयेन प्रथाना प्रथमाऽभवत् । अनेन ' भूमना ' भूम्ना पूर्णेन विष्णुना ' पूर्व्या ' पूर्वतना ' गौः ' द्यावापृथिवी 'अभवत् ' अभूताम् । अस्य विष्णोर्भूम्ना महिम्नैव सुमतिर्गौश्चाभवदि ति वा। 'असुरस्य' असुषु प्राणेषु रमणादसुत्वात्प्राणरूपत्वात् रमणीय त्वाद्वासुरो वायुः 'महद्देवानामसुरत्वमेकम्' (ऋ.३-५५-१.) इति श्रुतेः। ' या मारुताद्गर्भमाधत्त पूर्वम् ' इति स्मृतेः । तस्य ' योनौ ' भार्यायां
तु सदिति पदच्छेदं कृत्वा सदित्यस्य भवत्कार्यमिति च ज्ञे-" Wait, what is at the end of line 31? "ज्ञे-" or "ज्ञेयं"? Wait, look at the last character: There is "ज्ञे" and a hyphen or a small mark? It looks like "ज्ञे-" or "ज्ञेयं"? Wait, look at the bottom: Is line 31 the last line on this page? Yes, it's the very bottom line. Let's look at the end of line 31: "च ज्ञे" - wait, after ज्ञे, there is a letter: Is that "यं"? Let's zoom in on line 31: "माध्वबोधे तु सदिति पदच्छेदं कृत्वा सदित्यस्य भवत्कार्यमिति च ज्ञे" Wait, after 'ज्ञे', is that a hyphen, or a 'यं'? Look at the shape: it has a loop with an e-matra: ज्ञे. Then there is a small horizontal mark: hyphen! "ज्ञे-" Wait, or is it "ज्ञेयं"? No, it's definitely hyphenated: "ज्ञे-" (continued on next page: "यम्").
Let's double-check all lines carefully!
Line-by-line review: Header: ७८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
Line
[ अधि - १४. सू - २३. ] दीपिकासहितम्. ७८५ ( ३ ) चशब्दात् स्मृतिश्च — सृष्टिं च पालनं चैव संहारं नियमं तथा । एक एव करोतीशः सर्वस्य जगतो हरिः ॥ इति ब्रह्माण्डे ॥ २२ ॥ * १४. अधिकरणम् ॥ ( १ ) परमात्मापरोक्ष्यं च तत्प्रसादादेव । न जीवशक्त्येति धा व्याख्यानमित्युक्तम् । तत्र स इति प्रसिद्धपदविभागाविरोधादक- रे द्वित्वाश्रवणं च बाधकमिति ध्येयम् ॥ ( ३ ) सृष्टिसंहारकर्तुरपि पालकत्वरूपगुणान्तरसत्त्वे स्पष्टस्मृति- परतया सौत्रचशब्दं व्याचष्टे—चशब्दादिति ॥ समुच्चितेति शेषः । तां स्मृतिं पठति—सृष्टिमिति । सृष्ट्यादिशब्दैः प्रयोज्यव्यापारा लक्ष्य- न्ते । सर्वस्य जगत इत्यादौ योज्यम् । परस्परसमुच्चये चः । 'चैव' एवं संहारम् । तथाशब्दः समुच्चये । नियमनं च । 'एक एव' न त्व- न्यः । अत्रोपपत्तिः—ईश इति । ब्रह्माण्डे उक्तिश्चेति शेषः । अस्य श्रु- तिरित्यस्य च ब्रवीतीति क्रियापदेनान्वयः । श्रुतौ स्थित्यतिरिक्तस्य धारणपोषणादिरूपप्रयोजनान्तरस्योक्त्या तस्य च 'एकः' इति स्मृ- तावनन्यसाध्यत्वस्योक्त्या च स्थितेः स्वतःसिद्धत्वात्तत्पालनं नि- ष्प्रयोजनमिति चोद्यं निरस्तं भवति । अनेन—'हि' यतो 'नैतावत्' इति श्रुतिः 'अस्येदेषा सुमतिः' इत्यादिना पूर्वं प्रकृतस्योक्तस्य सृ- ष्ट्यादिकर्तृत्वस्य 'एतावत्त्वं' एतावन्मात्रपर्यवसितत्वं पालनाख्यगु- णान्तरासाहित्यं प्रतिषेधति । न केवलमेतावत्किन्तु 'ततः' सृष्ट्यादि- कर्तृत्वात् 'भूयः' अधिकं पालकत्वमप्यस्य विष्णोर्ब्रवीति । तथा 'सृ- ष्टिं च' इति स्मृतिश्च स्पष्टम् । अतः सृष्टिसंहारकर्तृत्वातिरिक्तं पा- लकत्वाख्यं महिमान्तरमपि परस्य सिद्धमिति सूत्रार्थ उक्तो भव- ति ॥ २३ ॥ ॥ इति प्रकृत्यधिकरणम् ॥ ःःः— १४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भगवद्भक्तेः कर्तव्यतासमर्थनाय तस्योपल- ब्धियोग्यत्वं समर्थ्यते । सिद्धान्तसूत्रमवतारयति—परमात्मेति ॥
वक्तुमुच्यते — सू—ॐ ॥ तदव्यक्तमाह हि ॥ ॐ ॥ २३ ॥ अव्यक्तमेव तद्ब्रह्म स्वतः । (२) अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्कलम् । यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाक्षयो भवेत् ॥ इति कौण्डिन्यश्रुतिः ॥ २३ ॥ चस्त्वर्थः । भक्तिफलत्वेनोक्तमिति विशेषणसमुच्चये वा । तदिति ईश्वरो भक्तिश्चोच्यते । तथा च भक्तिसाध्येश्वरप्रसादादित्यर्थः । य- द्वा—तदितीश्वर एवोक्तः । भक्तिसाध्यादिति शेषः । एवकारव्यावर्त्य- माह—नेति । ‘जीवशक्त्या’ पुरुषप्रयत्नेनेत्यर्थः । अनेनेश्वरस्य व्यक्त- त्वे विनैव भक्तिं जीवशक्त्यैव स्तम्भादिवदपरोक्षज्ञानसम्भवात् अ- व्यक्तत्वे च सत्यामपि भक्तौ तदसम्भवात्प्रयोजनस्याभावान्न भक्तिः कर्तव्येति सयुक्तिकपूर्वपक्षः, तथा स्वतोऽव्यक्तस्यापीश्वरस्य भक्ति- [
[ अधि - १४. सू - २४. ] दीपिका सहितम्. ७८७ ( ३ ) सू--ॐ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ ॐ ॥ २४॥ आराधनेऽप्यव्यक्तमेव ज्ञानिनां प्रत्यक्षेण इतरेषामतिसू- क्ष्मत्वाल्लिङ्गादनुमानेन । ( ४ ) न तमाराधयित्वाऽपि कश्चिद्व्यक्तीकरिष्यति । नित्योऽभिव्यक्तश्च भवेदित्यर्थः । हिशब्दो हेतौ । श्रुतिराहेति । अनेन सूत्रे श्रुतिरिति शेषो दर्शितः ॥ ( ३ ) नन्वस्तु ब्रह्म स्वतोऽव्यक्तं, तथाऽप्याराधनेन पुरुषप्रयत्नेन व्यक्तीभविष्यति । समाराधनेनाव्यक्तयक्षसाक्षात्कारदर्शनात् । एवं चेत्किं भक्त्येत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे--अपीति ॥ अ- व्यक्तमेवेत्यनन्तरं तत्स्वत इत्यनुवर्तते । तथा च न केवलमणाराधनेऽ- व्यक्तं, किंतु 'आराधनेऽपि' भक्तिरहिताराधनेन संपूजनेनाप्यव्यक्त- मेव, न तु व्यक्तीकर्तुं शक्यमित्यर्थः । कुतः ? यतस्तद्ब्रह्म स्वतोऽव्यक्तं अत इति योजना । यद्वा--भक्तिरहिताराधनं एव तदव्यक्तं, न तु भ- क्तिसहिताराधनेऽपि येन भक्तेर्वैयर्थ्यं स्यादिति । अनेन सूत्रे संराधने संपूजने इति निमित्तसप्तमी । अपिः भिन्नक्रमः समुच्चये । तदव्यक्त- मिति चानुवर्तनीयमित्युक्तं भवति । आराधनेऽप्यव्यक्तत्वं कुत इत्य- तः प्रवृत्तं प्रत्यक्षानुमानाभ्यामिति सूत्रखण्डं व्याचष्टे--ज्ञानिनां प्रत्य- क्षेणेति । कर्तरि षष्ठीयम् । इतरेषां ज्ञानसाधनमाह--इतरेषामिति । ज्ञानिभ्योऽन्येषामित्यर्थः । इतरेषामित्यनेन प्रत्यक्षसिद्धेऽर्थेऽनुमानवैफ- ल्यमिति निरस्तम् । लिङ्गादनुमानेनेति । लिङ्गाख्येनानुमानेनेत्यर्थः । आगमव्यावर्तनायेदं विशेषणम् । यद्वा--लिङ्गात् अव्यक्तत्वस्य अनु- मानेनेति वैयधिकरण्येनान्वयः । समासपाठे सूक्ष्मत्वहेतुकानुमानेने- त्यर्थः । अस्याराधनेऽप्यव्यक्तमेवेति साध्येनान्वयः । इति सिद्धमिति शेषः । यद्यपि सूक्ष्मत्वस्याव्यक्तशब्दप्रवृत्तिनिमित्तत्वान्न तत्साधक- त्वम् । तथाऽपि प्रत्यक्षाविषयस्वभावत्वमव्यक्तत्वम् । सूक्ष्मत्वं तु त- तोऽतिरिक्तमिति भेदादविरोधः । यदा सूक्ष्मा अपि परमाण्वादयो नास्मदक्षगोचराः तदा किम्बतिसूक्ष्मं ब्रह्मेति ज्ञापनाय--अतीत्युक्तम् । न च ज्ञानिकर्तृकब्रह्मविशेष्यकाव्यक्तत्वप्रकारकप्रत्यक्षे ब्रह्मणोऽपि भानात् तस्याव्यक्तताविरोध इति वाच्यम् । स्वतोऽव्यक्तस्यापि ब्र- ह्मणो भक्तिवशादचिन्त्यशक्त्याभिव्यक्तेरङ्गीकारात् ॥ ( ४ ) ननु परप्रत्यक्षस्यासिद्धत्वात्कथमत्र ज्ञानिप्रत्यक्षं प्रमाणीक्रि-
७८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] नित्याव्यक्तो यतो देवः परमात्मा सनातनः॥ इति ब्रह्मवैवर्ते ॥ २४ ॥ ( ५ ) नित्याव्यक्तस्वरूपेण तथैव तिष्ठति व्यक्तं किञ्चिद्रूपं गृही- त्वा दृश्यते । यथाऽग्न्यादयस्तन्मात्रारूपेणादृश्या अपि स्थूलरूपेण दृश्यन्ते एवमिति चेत्— यत इत्यतः तैरव्यक्तत्वोक्त्या तदन्यथाऽनुपपत्त्या तेषामव्यक्तप्रत्य- क्षसिद्धेः तदुपन्यासोपपत्तेरिति भावेनाह—नेति ॥ 'तं' परमात्मानं, न केवलमनाराधयित्वा, किन्तु भक्तिं विनाऽऽराधयित्वाऽपि भक्तिं विनाऽपीति वा अपिशब्दार्थः । 'कश्चित्' योग्यो जनः । कुतो न व्य- क्तीकरिष्यति ? यतोऽव्यक्तः । नन्वव्यक्तस्यापि विष्णोराराधनेन व्यक्तिस्सम्भवति यक्षादिवदित्यत उक्तम्—नित्येति । नित्यं सदा स्वतोऽव्यक्त इत्यर्थः । यक्षादयस्तु नैवमिति न व्यभिचार इति भावः । एवम्भूतश्चेत्कथं भक्त्याऽपि व्यक्तो भवेत्, तथा च भक्तेर्वैयर्थ्यमि- त्यतो—देवः परमात्मेति चोक्तम् । अचिन्त्यशक्त्योभयं युज्यत इति तदभिप्रायः । अनित्यस्य कथं नित्याभिव्यक्तत्वमित्यत आह—सना- तन इति । देहतः स्वभावतश्च नित्य इत्यर्थः । ब्रह्मवैवर्ते इति । उक्त- मिति शेषः । अतो न प्रत्यक्षासिद्धिरिति भावः ॥ न चानेनाव्यक्तत्व- मात्रसिद्धावपि कथं तत्प्रत्यक्षासिद्धिरिति वाच्यम् । व्यासादिज्ञानिक- र्तृकाव्यक्तत्वादिवचनस्य वचनान्तरमूलत्वेनानवस्थापत्या प्रत्यक्षमू- लकत्वस्यैव वक्तव्यत्वेन तेनाव्यक्तत्वसिद्धिसम्भवात् ॥ ( ५ ) आक्षिपति—नित्येति ॥ ब्रह्मेत्यनुवर्तते । आदिपदेन जलभु- वौ गृह्येते । न त्वाकाशवायू अपि, तयोः स्थूलरूपेणाप्यदृश्यत्वात् । यद्यपिताथापीत्यर्थेऽपिशब्दः । तथा च यथा अग्न्यादयोऽग्निमात्रादिल- क्षणानुपचितसूक्ष्मरूपेणादृश्या अपि स्थूलोपचितरूपेण 'दृश्यन्ते' व्यज्यन्ते, एवं नित्यमुत्पत्त्यादिरहितमत एवाव्यक्तं यन्मूलरूपं तेन 'त- थैव' अव्यक्तत्वेनैव तिष्ठति ब्रह्म, किञ्चिदवताररूपं गृहीत्वा तेन दृ- श्यत इति योजना । यत एवमतो भक्तिं विनाऽपि ब्रह्मदर्शनाभावाद्व्यर्था सेति वाक्यशेषः । तथैवेत्येतदवताररूपमित्यनेनापि सम्बध्यते । मूलरूपसदृशमेवेति तदर्थः । तेन मूलरूपदर्शनस्य मोक्षहेतुत्वेऽपि ना- वतारदर्शनस्य तथात्वमिति शङ्काऽनवकाशः ॥
[ अधि - १४. सू - २५. ] दीपिकासहितम्. ७८९ ( ६ ) न, सू—ॐ ॥ प्रकाशवच्चावैशेष्यम् ॥ ॐ ॥ २५ ॥ अग्न्यादिवत्स्थूलसूक्ष्मत्वविशेषाभावात् । ( ७ ) 'नासौ सूक्ष्मों न स्थूलः पर एव स भवति । तस्मादा- हुः परमः' इति माण्डव्यश्रुतेः । ( ८ ) स्थूलसूक्ष्मविशेपोऽत्र न क्वचित्परमेश्वरे । ( ६ ) एतच्चोद्यं प्रतिषेधति—नेति ॥ नित्येत्यादिनोक्तं नेत्यर्थः । अ- नेन सौत्रचशब्दो न दृष्टान्तसमुच्चायकः, किन्तु शङ्काव्यावर्तक इत्युक्तं भवति । तत्त्वप्रदीपे तु 'सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमे- श्वरः' इति तुश्रुतेः प्रकृतिवच्च नास्य सूक्ष्मत्वं नैव चाग्न्यादिवदिति चकारार्थ इति चकारस्यानुक्तदृष्टान्तसमुच्चायकत्वमुक्तम् । एतत्पक्षे नेत्येतत् आगामिसूत्रेऽध्याहृतनञर्थकथनरूपमिति द्रष्टव्यम् । कुतो नेति हेत्वाकांक्षायां सूत्रमुपन्यस्य व्याचष्टे—प्रकाशवच्चेति । अग्न्या- दिवदित्यनेन गुणवाचकप्रकाशशब्दोऽग्न्यादिगुणिवाचकतया व्याख्या- तः । आदिशब्देन जलपृथिव्योर्ग्रहणम् । त्वप्रत्ययः प्रत्येकं सम्बध्यते । विशेष्येनेन सूत्रे स्वार्थे ष्यञित्युक्तं भवति । विशेषो धर्मः । पञ्चमी- निर्देशेन चो यत इत्यर्थेऽपीत्युक्तं भवति । ब्रह्मणिति शेषः ॥ ( ७ ) ननु ब्रह्मणि स्थूलसूक्ष्मत्वयोरभावः कुतो ज्ञायते, येन व्य- क्ताव्यक्तत्वयोरभावः स्यादित्यतः अत्रापि—आह हीत्यस्यानुवृत्तिम् अभिप्रेत्य तदभिप्रेतां श्रुतिमुदाहरति—नासाविति ॥ 'असौ' भगवान् केनचिद्रूपेण सूक्ष्मः केनचिच्च स्थूल इति न, किन्तु 'स पर एव' सर्व- रूपेषु परमसूक्ष्म एव भवति न त्वनैवंभूतः । एवं असौ केनचित् रूपेण स्थूलः केनचित्सूक्ष्म इति न, किन्तु सर्वत्र 'परः' परमस्थूल एवेत्य- र्थः । अत एव नञ्द्वयप्रयोगः, 'महतो महीयान्' (कठ.२-२०.) इति श्रुत्यविरोधश्च । स्थूलात् स्थूलतमत्वं हि तदर्थः ! न चैवं व्यक्तत्वाप- त्तिः, तद्विरोधिपरमसूक्ष्मत्वेन तत्प्रतिबन्धात् । किञ्चातः ? यस्मात्सर्व- त्र परमसूक्ष्मः स्थूलश्च तस्मादेनं विष्णुं परम इत्याहुर्ज्ञानिन इत्यर्थः । श्रुतेरित्यास्यावैशेष्यमित्यत्रान्वयः । सिद्धमिति शेषः ॥ ( ८ ) नन्वनुत्पन्नस्य मूलरूपस्योत्पन्नानां चावताररूपाणां च क- थं स्थूलसूक्ष्मत्वविशेषाभाव इत्यत आह—स्थूलेति ॥ व्यवस्थयेति शे-
७९० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] सर्वत्रैकप्रकारोऽसौ सर्वरूपेष्वजो यतः ॥ इति च गारुडे । ( ९. ) अव्यक्तव्यक्तभावौ च न क्वचित्परमेश्वरे । सर्वत्राव्यक्तरूपोऽयं यत एव जनार्दनः ॥ इति कौर्मे ॥ २५ ॥ ( १० ) तर्हि किं यत्नेनेत्यत आह— सू—ॐ ॥ प्रकाशश्च कर्मण्यभ्यासात् ॥ ॐ ॥ २६ ॥ षः । तथा च यतोऽसौ भगवान् ‘सर्वरूपेष्वजः’ उत्पत्तिशून्यः सदा अतः ‘अत्र’ भगवति क्वचिदपि रूपे काले वा ‘स्थूलसूक्ष्मविशेषः’ स्थू- लसूक्ष्मत्वरूपो धर्मः ‘व्यवस्थया’ केनचित् रूपेण स्थूलः केनचित् रू- पेण सूक्ष्म इति न । एवं घटादिवज्जननात्पूर्वं सूक्ष्मस्तदूर्ध्वं स्थूल इत्य- पि न, किन्तु सर्वत्रैकरूप एवेत्यर्थः । ननु कथमेतदन्यत्रादृष्टमत्र युज्य- त इत्यत आह—परमेश्वर इति । हेतुगर्भमेतत् । इति चेति चः श्रुति- समुच्चये । गारुडे उक्तमिति शेषः । अस्याप्यवैशेष्यमित्यनेनान्वयः ॥ ( ९ ) एवं स्थूलसूक्ष्मत्वयोर्व्यापकयोरेवात्रानुपलब्ध्या तद्व्याप्य- योर्व्यक्तत्वाव्यक्तत्वयोरप्यभाव उक्तः । स्मृत्याऽप्येतदभावं साधय- ति—अव्यक्तेति ॥ अव्यक्तत्वव्यक्तत्वे इत्यर्थः । चः समुच्चये । क्वचि- द्रूपेऽव्यक्तत्वं क्वचिद्व्यक्तत्वमिति व्यवस्थितौ नेत्यर्थः । परमेश्वरपद- प्रयोजनं तु पूर्ववदेव । कुतो नेत्यत आह—सर्वत्रेति । सर्वरूपेष्वित्य- र्थः । ‘अव्यक्तरूपः’ अव्यक्तस्वरूपः ‘अयं’ परमेश्वरः । कुत इत्यत आह—यत इति । एवकारो भिन्नक्रमः । उत्पत्त्या जननं व्यक्तिमर्दय- ति गमयति प्रापयत्येवान्यान् न स्वयमन्यशक्त्या प्राप्नोतीति जनार्द- नः । स्वजननमर्दयति अपगमयतीति वा । गीताभाष्ये तु न जायत इ- ति जनः अर्दयति गमयति संसारमिति जनार्दन इति व्याख्यातं, तद- पि प्रकृतानुकूलमेव । कौर्मे उक्तमिति शेषः । अस्याप्यवैशेष्यमित्यने- नान्वयः । व्यक्तत्वाव्यक्तत्वरूपविशेषराहित्यमिति तदर्थः ॥ ( १० ) उत्तरसूत्रमवतारयति—तर्हीति ॥ ब्रह्मणः सर्वथाऽव्यक्तत्वे इत्यर्थः । किमिति । ‘यत्नेन’ श्रवणादिरूपेण भक्तिपूर्वकेण किं प्रयो- जनं, न किमपीत्यर्थः । ‘इत्यतः’ इति शङ्कायां परिहारमाह सूत्रकृदि- त्यर्थः । सूत्रे निराकृतेऽप्यशब्दत्वे तदव्यक्तमित्युक्त्या कस्य चित्तद् विषयत्वाशङ्का स्यात्, तां वारयितुं प्रयुक्तः कर्मशब्दः कर्मकारकपरः।
[ अधि - १४. सू - २७. ] दीपिकासाहितम्. ७९१ विषयभूतं तस्मिंश्च श्रवणाद्यभ्यासात्प्रकाशश्च भ- वति । ( ११ ) 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या- सितव्यः' (बृ. ४-४-५.) इति श्रुतेः ॥ २६ ॥ ( १२ ) नित्याव्यक्तस्य कथं प्रकाश इत्यत उच्यते— सू— ॐ ॥ अतोऽनन्तेन तथा हि लिङ्गम् ॥ ॐ ॥ २७॥ उभयत्र प्रमाणभावात् तत्प्रसादादेव प्रकाशो भवति। तदव्यक्तमित्यनुवर्तते । तस्य विपरिणाम इत्याशयेन विषयभूते ‘ त- स्मिन् ’ अव्यक्ते ब्रह्मणीत्युक्तम् । न त्वन्यत्रेत्येवार्थः । तथा च तदे- कविषयकश्रवणमननाद्यावर्तनादित्यर्थः । भक्तिपूर्वकादिति शेषः । प्र- काश इत्यत्रापि तस्मिन्नित्यावर्तनीयम् । तथा च तस्मिन् ‘ प्रकाशः ’ तद्विषयकापरोक्ष्यमित्यर्थः । न केवलमप्रकाशः, किन्तु प्रकाशश्चेति चार्थः । ‘तस्मिन्’ अव्यक्तेऽपीत्यप्यर्थो वा । यत इति शेषः । अनेन सू- त्रे हिशब्दानुवृत्तिस्सूचिता । अस्यातो न श्रवणादिवैय्यर्थ्यमित्य- ध्याहृतेनान्वयः । अनेन सूत्रे नञनुवृत्तिस्सूचिता ॥ ( ११ ) श्रवणाद्यभ्यासेन अपरोक्षं भवतीत्येतत्कुतो ज्ञायत इत्यत स्वशब्देन आह हीत्यनुवृत्तेन वा सूचितश्रुतेरेवेत्याह— आत्मेति ॥ ब्रह्म णो निदिध्यासनकर्मत्वं च स्वप्रतिमाद्वारा तदुपासनं च भवति । प्र- तिमोपासनमित्युक्तेः । व्याख्यातेयं श्रुतिर्जिज्ञासाधिकरणे ॥ ( १२ ) उत्तरसूत्रमवतारयति— नित्येति ॥ ब्रह्मणः श्रवणाद्यभ्या- सादपीति सम्बन्धः । कथमित्याक्षेपे । न कथमपीत्यर्थः । युक्तिविरोधा- दिति भावः । उच्यत इति । इत्यस्मिन् चोद्ये परिहार उच्यत इत्यर्थः । तत्सूत्रं पठित्वा व्याचष्टे— अत इति । उभयत्रेति । अव्यक्तत्वे प्रत्यक्ष- त्वे च प्रमाणसद्भावादित्यर्थः । तदन्यथाऽनुपपत्त्येति यावत् । अत इ- त्यस्यार्थान्तरमाह— तस्य प्रसादादिति । तस्याधिकारिणस्तस्याव्य- क्तस्यापि परब्रह्मणः प्रसादादेवेत्यर्थः । न साधनसामर्थ्येनेत्येवार्थः । ‘ प्रकाशः ’ आपरोक्ष्यम् । इदं चानुवृत्तं पदं भवति । इति ज्ञायत इति शेषः । चेत्यप्यनुषञ्जनीयम् । तस्य ‘ अनन्तेन ’ अपरिमितसामर्थ्येने- त्यनेनान्वितस्यावधारणार्थत्वं, प्रकाशश्चेत्यनेनान्वितस्य पुरुष
७९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ( १३ ) 'तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्व मायानिवृत्तिः' (श्वे. १-१०.) इति लिङ्गात् । ( १४ ) युज्यते च तस्य अनन्तशक्तित्वात् । ( १५ ) नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निजशक्तितः । तमृते परमात्मानं कः पश्येतामितं प्रभुम् ॥ ( १३ ) न केवलमन्यथाऽनुपपत्त्या प्रसादाधीनप्रत्यक्षत्वं ब्रह्मणः, किन्तु बलवच्छ्रुत्या चेत्याह सूत्रकृत्— तथा हीति । तद्व्याचष्टे— त स्येति ॥ इतिलिङ्गादिति । इतिवाक्योक्ताद्बन्धनिवृत्तिरूपमोक्षस्य म ध्यमप्रसादसाध्यत्वरूपात् दर्शनस्य प्रसादसाध्यत्वज्ञापकादित्यर्थः । इतिशब्द आद्यर्थे। तेन च 'दृष्ट्वैव तं मुच्यते' ( ) इति श्रुतिः सूचिता। तथा च 'तस्याभिध्यानात' 'दृष्ट्वैव' इति वाक्यद्वयबलाद्दर्श नान्मोक्षः, उपासनाजनितप्रसादाच्च दर्शनमिति पारम्पर्यं सिद्ध्यतीति भावः। लिङ्गादित्युक्त्या सूत्रे यत इत्यध्याहार्यमित्युक्तं भवति । तथा शब्दस्तूपमार्थो वा अर्थापत्तियुक्त्योः समुच्चयार्थो चेति हृदयम् । 'त स्य' इति श्रुतिस्तदभिध्यानान्नये व्याख्याता ॥ ( १४ ) नन्वव्यक्तस्वभावस्य ब्रह्मणः प्रसादेनापि न प्रत्यक्षता युज्यते । न हि प्रसन्नोऽपि नरो वानरो भवितुमीष्ट इत्यत आह— यु ज्यते चेति ॥ चशब्दोऽवधारणार्थः । उभयमिति विपरिणामेन सम्ब ध्यते । तदिति च । तथा च तस्य विष्णोरव्यक्तत्वं प्रत्यक्षत्वं चेत्यु क्तमुभयं युज्यते । तस्यैव युज्यते न त्वन्यस्येति वा । कुतः ? 'अन न्तशक्तित्वात्' अपरिमिताघटितघटकसामर्थ्यादित्यर्थः । तस्यैवा नन्तशक्तित्वादित्यनेन सूत्रे तेनेत्यनुक्त्वा अनन्तेनेत्यधिकोक्तेः प्रयो जनं चोक्तं भवति । अत एव प्रमेयदीपे— ननु ज्ञानिभिर्भगवान् दृश्य ते चिन्त्यते च । तत्कथमुच्यते 'अव्यक्तोऽयमचिन्त्योयम्' ( गीता. २-२५.) इत्यवतार्य अत एवाव्यक्तादिरूप इति भाष्यं 'अत एव' अ चिन्त्यशक्तित्वादेव, यथोक्तं— 'अतोऽनन्तेन' इतीति व्याख्यातम् । सौत्रातशब्दस्य व्याख्यानान्तरमिदमिति केचित् ॥ ( १५ ) सूत्रार्थे स्मृतिं चाह— नित्येति ॥ अत्रेत्थं योजना--यद्य पि भगवान्नित्यं नियमेन स्वतोऽव्यक्तस्तथाऽपि 'भक्तैरीक्ष्यते' तद्द र्शनविषयो भवति । कथम् ? 'निजशक्तितः' स्वरूपसामर्थ्यादेव । तेन विना सर्वकार्ये प्रति कथं तस्य हेतुत्वं व्यभिचारादित्यत आह-
[ अधि - १५. सू - २८. ] दीपिकासहितम्. ७९३ इति नारायणाध्यात्मे ॥ २७ ॥ -- १५. अधिकरणम् ॥ ( १ ) स्वरूपेणानन्दादिना कथमानन्दित्वादिरिति । ( २ ) अत उच्यते— सू—ॐ ॥ उभयव्यपदेशास्त्वहिकुण्डलवत् ॥ ॐ ॥ २८ ॥ तमिति । परमात्मानं विना तत्प्रसादं विनेति यावत् । तं परमात्मानं कः पश्येन्न कोऽपीति । अव्यक्तस्वभावस्य कथं दर्शनकर्मता युक्ति विरोधादित्यत उक्तम्— ‘अमितं’ अनन्तं ‘प्रभुं’ समर्थमिति च । नारायणाध्यात्म इत्यनन्तरं सूत्रोक्तमुक्तमिति शेषः ॥ १४ ॥ ॥ इति अव्यक्तत्वाधिकरणम् ॥ ::- १५. अधिकरणम् ॥ ( १ ) अत्र भगवतो गुणित्वं समर्थ्यते । सयुक्तिकं पूर्वपक्षयति —स्वरूपेणेति ॥ हेतौ तृतीया । कथमित्याक्षेपे । ब्रह्मण इति शेषः । प्रथमादिपदेन ज्ञानादिकं गृह्यते । द्वितीयेन ज्ञानत्वादिकं भजनीयत्वं च । युज्यते इत्याकृष्यते । तथा च ब्रह्मणः ‘कथं भजनीयत्वं युज्यते’ न युज्यते । कुतः ? यतस्तस्य ‘कथमानन्दित्वादियुज्यते’ न युज्यते । अगुणित्वादिति यावत् । कुतः ? ‘स्वरूपेण’ ब्रह्मस्वरूपत्वेनाङ्गीकृते नानन्दादिना हेतुना, आनन्दादिगुणानां ब्रह्मस्वरूपत्वाङ्गीकारादिति यावत् । तत्स्वरूपत्वे च तद्वत्त्वायोगादिति भाव इति योजना । स्वरू- पेणानन्दादिना धर्मेण कथमानन्दित्वादियुज्यते इत्येकान्वयो वा । त- थात्वे युक्तिविरोधादिति शेषः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ ‘आनन्दं ब्रह्म- णः’ इति तैत्तिरीयश्रुतेः ‘न बिभेति कदाचन’ इत्युत्तरेणान्वयः । ‘अथ’ इत्यन्या श्रुतिः । ‘एषः’ विष्णुरेव ‘परमः’ पूर्णः । इतिशब्द आद्यर्थे । तेन ‘आनन्दो ब्रह्म’ (तै. ३-६. ) इत्यादिः गृह्यते । इत्युभयव्यपदेशादि- ति । इत्याद्यासु श्रुतिषूभयोः ब्रह्मतदानन्दयोः उभयोर्गुणित्वतत्स्वरूप- त्वयोरुक्तत्वादित्यर्थः । यद्वा—ब्रह्मण इति शेषः । अत्राद्यवाक्यं ब्रह्म- णो गुणित्वं वक्ति, द्वितीयं तत्स्वरूपत्वमिति विवेकः । ननु श्रौतमपि गुणात्मकस्य ब्रह्मणो गुणित्वं कथं युज्यते अदर्शनादित्यत उक्तं—अ- १००
७९४ ब्रह्मसूत्रभाष्यम् [ अध्या - ३. पा - २. ] ' आनन्दं ब्रह्मणो विद्वान् ' (तै. २-४.) ' अथैष एव प- रम आनन्दः ' (बृ. ६-३-३३.) इत्युभयव्यपदेशादहि कुण्डलवदेव युज्यते । यथाऽहिः कुण्डली कुण्डलं च । ( ३ ) तुशब्दात्केवलश्रुतिगम्यत्वं दर्शयति ॥ २८ ॥ ( ३ ) सू—ॐ ॥ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ ॐ ॥ २९ ॥ हिकुण्डलवदिति दृष्टान्तवाक्यमनूद्य व्याचष्टे–अहीति । नन्वहेः कुण्ड- लित्वावस्थायाः कादाचित्कत्वेन खण्डितत्वाद्भेदाभेदयोः सत्त्वेन कु- ण्डलित्वं कुण्डलत्वं चेत्युभयं युज्यते । ब्रह्मणस्तु आनन्दादिनाऽत्य- न्ताभेदात्कथं गुणत्वं गुणित्वं च युज्यत इत्यतः अहिकुण्डलवदिति सावधारणमित्याह—एवेति । विशेषादेवेत्यर्थः । तथा च ब्रह्मणस्तद्ध- र्माणां च भेदप्रतिनिधिविशेषादङ्गीकाराद्यथोक्तं युज्यत इति भावः । यु- ज्यत इत्यत्र स्वरूपेणानन्दादिनेत्याद्यनुवर्तते । अनेन सूत्रेऽध्याहार्यं प्र- तिज्ञावाक्यं दर्शितम् । ननु नेश्वरो गुणवान्, गुणात्मकत्वात्, यथा अश्वोऽनश्ववान् दण्डोऽदण्डवान् । आनन्दाद्या न ब्रह्मगुणाः तत्स्वरूप- त्वाद्व्रह्मवदिति युक्तिविरोधात् न गुणित्वं गुणत्वं च ब्रह्मणो युज्यत इत्यतः प्रवृत्तं तुशब्दं व्याचष्टे–तुशब्दादिति ॥ केवलेति । प्रत्यक्षाद्यस- हितेत्यर्थः । श्रुत्यैकसमधिगम्यत्वमिति यावत् । ब्रह्मस्वरूपानन्दादेरि- ति शेषः । ' दर्शयति ' ज्ञापयति सूत्रकार इत्यर्थः । तथा च न तत्र यु- क्तिविरोधः शङ्क्य इति भावः । तत्र अहेः कुण्डलित्वस्य सिद्धत्वात् कुण्डलत्ववदित्येकस्यैव ग्रहणं कृतमिति ध्येयम् ॥ ( ३ ) दृष्टान्तान्तरेणैतदेव साधयत्सूत्रमुपन्यस्य व्याचष्टे–प्रकाशेति॥ यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं चेत्यनेन भास्वररूपार्थप्रकाशश- ब्दो भावप्रधानः, प्रकाशाश्रयशब्दोऽपि भावप्रधानः । स चावर्तनीयः । तत्पुरुषश्चायम्। तथा च प्रकाशाश्रयस्यादित्यमण्डलस्य प्रकाशत्ववत् प्रकाशाश्रयत्ववत् प्रकाशित्वञ्चेति दृष्टान्तपदस्यार्थ उक्तो भवति । अत्र पूर्वदृष्टान्त इव न भेदाभेदौ, अखण्डितत्वात् । किन्तु भेदप्रतिनि- धिविशेष एवेति ध्येयम् । एवमित्यत्र ब्रह्मण इत्याकृष्यते । तथा ब्रह्म- णोऽपि विशेषबलाद्गुणगुणिभावो युज्यत इत्यर्थः । इतिशब्दोऽध्याहा- र्यः । वाशब्दो व्यवस्थितविकल्पे । ' दृष्टान्तो ' वाच्य इति शेषः । उभ- येत्युक्तानुमाने अहिकुण्डलवदिति वा प्रकाशाश्रयवदिति वा दृष्टान्त- पदं प्रयोक्तव्यमिति सूत्रकृतो हृदयमिति भावः । नन्वत्र यावद्द्रव्यभावि
[ अधि - १५ - सू - ३०. ] दीपिकासहितम्. ७९५ यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं च एवं वा दृष्टा- न्तः। तेजोरूपत्वाद्ब्रह्मणः ॥ २९ ॥ (४) सू–ॐ ॥ पूर्ववद्वा ॥ ॐ ॥ ३० ॥ यथैक एव कालः पूर्व इति अवच्छेदको अवच्छेद्य श्च भवति। अतिसूक्ष्मत्वापेक्षयैष दृष्टान्तः। स्थूलम- तीनां च प्रदर्शनार्थमहिकुण्डलदृष्टान्तः। (५) प्रकाशवत्कालवद्वा यथाऽङ्गे शयनादिकम्। गुणाभिन्नानां तद्वतां घटादीनामपि दृष्टान्तयितुं शक्यत्वात्तान्विहाय विशिष्यादित्यग्रहणे का विवक्षेत्यतः प्रवृत्तं तेजस्त्वादिति सूत्रखण्डं व्याचष्टे—तेजोरूपत्वादिति। ब्रह्मणः आदित्यस्येत्युभाभ्यामस्य सम्ब- न्धः। तेन सूत्रे उभयोरिति पदानुवृत्तिस्सूचिता। तथा च घटादीनां मतेजोरूपत्वात् तान् परित्यज्य तेजोरूपत्वसाधर्म्यविवक्षयाऽऽदित्यदृ- ष्टान्तोक्तिरिति भावः ॥ (४) दृष्टान्तान्तरेण ब्रह्मणो गुणगुणिरूपत्वं साधयत्सूत्रं पठित्वा व्याचष्टे—पूर्ववद्वेति ॥ एक एवेति । अभिन्नोऽपीत्यर्थः । कालशब्दस्त- दंशपरः। पूर्व इत्यनन्तरमपि कालशब्दो योज्यः । भवतीत्यनन्तरं ए- वमित्यादि च। तथा च यथा पूर्वः काल इति प्रयोगे पूर्वेणाभिन्नोऽपि कालः पूर्व इति ‘अवच्छेदको’ विशेषकः काल इति ‘अवच्छेद्यो’ विशेष्यश्च विशेषबलाद्भवत्येवमिति वा दृष्टान्तयोजना। ननु व्यर्थोक्ते- रपर्यवसानात्किमर्थोऽयं दृष्टान्त इत्यत आह—अतीति । ‘अपेक्षया’ विवक्षया। ब्रह्मण इति शेषः। ‘एषः’ कालदृष्टान्तः । तर्ह्यलमनेन दृ- ष्टान्तद्वयेन, किं भेदाभेदविषयेणाहिकुण्डलदृष्टान्तेनेत्यत आह—स्थू- लेति। चोऽप्यर्थः। ‘प्रदर्शनार्थं’ एकस्मिन्नेव विशेषणविशेष्यभाव- स्येति शेषः। अत एवास्य प्राथमिकत्वम् । उभयत्र सूत्रकृदभिहित- मिति शेषः ॥ (५) सूत्रकृदुक्तार्थे स्मृतिं पठति—प्रकाशवदिति ॥ आदित्यम- ण्डलप्रकाशवदित्यर्थः। ‘कालवत्’ साक्षिसिद्धपूर्वोत्तरादिकालावय- ववदित्यर्थः। ‘अङ्गे’ शरीरे ‘शयनं’ अवस्थाविशेषः, न तु निद्रा म- नोधर्मो वा। तथा च अङ्गे शयनमिति प्रयोगे अङ्गाभिन्नमपि शयनं यथा अङ्गविशेषणकं भवति अङ्गं शयनविशेषणं भवतीत्यर्थः। आदि- पदेनाङ्गं शेत इत्यङ्गस्य शयनक्रियाकर्तृभावो गृह्यते। अङ्गमङ्गमधिशे
७९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ब्रह्मणश्चैव मुक्तानामानन्दो भिन्न एव तु ॥ इति नारायणाध्यात्मे । (६) आनन्देन त्वभिन्नेन व्यवहारः प्रकाशवत् । कालवद्वा यथा कालः स्वावच्छेदकतां व्रजेत् ॥ इति पाद्मे ॥ ३० ॥ (७) सू- ॐ ॥ प्रतिषेधाच्च ॥ ॐ ॥ ३१ ॥ 'एकमेवाद्वितीयम्' (छा. ६-२-१०) 'नेह नानाऽ त इत्यङ्गस्य शयनक्रियाकर्मकर्तृभावो वा । अनेनाहिकुण्डलदृष्टान्तः सङ्गृहीतः । कुण्डलस्याप्यवस्थाविशेषत्वात् । 'एव' एवम् । तुशब्दो विशेषार्थः । चशब्दो भिन्नक्रमः । तथा च यद्यप्यभिन्न एवानन्दः, त थाऽपि प्रकाशवत्कालवद्वा ब्रह्मणो मुक्तानां चेत्येवं तत्सम्बन्धित्वेनो च्यते इत्येकोऽन्वयः । यथाऽङ्गे 'शयनादिकं' शयनक्रियानिरूपितविशे षणत्वकर्तृत्वादिकं तद्भिन्नमपि तद्धर्मत्वेनोच्यते, तथा ब्रह्माभिन्नोऽ प्यानन्दादिर्विशेषादेव तद्धर्मत्वेनोच्यते इत्यपरोऽन्वयो द्रष्टव्यः । न त्वेकान्वयः । आद्ययोर्विशेषानिर्वाह्यत्वात् अन्त्यस्य भेदनिर्वाह्यत्वात् । अत एव प्रकाशवत् कालवदिति यथाऽङ्गे शयनादिकमिति विचि त्रोक्तिः ॥ (६) सूत्रोक्तार्थे स्मृत्यन्तरं चाह--आनन्देन त्विति ॥ तुरव धारणे । स्वाभिन्नेनैवेति सम्बध्यते । 'व्यवहारो' विशेषणविशेष्यभा वेन व्यपदेशः । भवतीति शेषः । कालवदित्येतद्विवृणोति--यथेति । 'स्वावच्छेदकतां' स्वविशेषणकत्वम् । स्वावच्छेद्यत्वस्याप्युपलक्षण मेतत् । एवमानन्दादिरपीत्युपस्कृतवाक्येनास्यान्वयः । नारायणाध्या त्मे ब्राह्मो इत्युभयत्रापि सूत्रोक्तमुक्तमिति शेषः । आद्यदृष्टान्तस्य वि षमत्वाद्वितीयस्मृतावनुक्तिः ॥ (७) ननु किमनेन गुणगुणिनोरभेदमभ्युपेत्य ब्रह्मणो गुणित्वप्र तिपादनेन । गुणगुणिनोर्भेद एव किं न स्यादित्याशङ्कां परिहरत्सूत्रं प ठित्वा व्याचष्टे--प्रतिषेधाच्चेति ॥ इति वाक्येन ब्रह्मणस्तद्गुणानां च भेदनिषेधादित्येवं भाष्यस्य सूत्रेणान्वयः । अनेन सौत्रश्चशब्दः शङ्का व्यावर्तकः । तेन न ब्रह्मतद्गुणादेर्भेदः शंक्य इति प्रतिज्ञा सिद्धा । कु तः ? तस्य भेदस्य प्रतिषेधादिति वा, उभयोर्गुणगुणिनोरुभयत्वस्य भेदस्य प्रतिषिद्धत्वादिति वाऽध्याहारानुवृत्तिभ्यां सूत्रयोजना दर्शि
[ अधि - १६. सू - ३२. ] दीपिकासहितम्. ७९७ स्ति किञ्चन ' ( कठ. २-४-११.) इति भेदस्य ॥ ३१ ॥ — * ॐ * — १६. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ परमतः सेतून्मानसम्बन्धभेदव्यपदेशे भ्यः ॥ ॐ ॥ ३२ ॥ न चानन्दादित्वाल्लोकानन्दादिवत्, 'एष सेतुर्विधृ ता भवति । 'एकमेव' इति छान्दोग्यश्रुतिः । तस्याः 'एकं' ज्ञानान न्दादिगुणैरवयवैश्चाभिन्नं ब्रह्मैकमेव, न घटादिवद्वयवसहितैकत्वयु क्तं स्वावयवैर्भिन्नाभिन्नं, 'अद्वितीयं' समाभ्यधिकशून्यमित्यर्थः । 'ने ह' इति कठश्रुतिः । तस्याः 'इह' ब्रह्मणि 'किञ्चन' गुणगुण्यादिकं 'नाना' भिन्नं नास्तीत्यर्थः । तत्त्वप्रदीपे तु 'इह' परमेश्वररूपेषु अ वयवेषु धर्मेषु च किञ्चन नाना नास्तीत्यर्थ इत्युक्तं । एतत्पक्षे नानाश ब्दो नानात्वार्थकः । तथा च 'किंचन' किंरूपोऽपि हीनाधिकभावो वा अन्योन्याभावो वा पृथक्त्वरूपो वा भेदो नास्तीत्यर्थः ॥ १५ ॥ ॥ इति अहिकुण्डलाधिकरणम् ॥ * १६. अधिकरणम् ॥ ( १ ) अत्र भगवद्गुणानां लोकविलक्षणत्वं समर्थ्यते । सिद्धान्तय त्सूत्रमुपन्यस्य व्याचष्टे—परमिति ॥ अत्रेत्थं योजना । ब्रह्मानन्दादिकं 'आनन्दादित्वात्' तच्छब्दवाच्यत्वाद्वहेतोः 'लोकानन्दादिवत्' लौ किकजीवानन्दादिसदृशं न, किन्त्वतो लोकानन्दादेः 'अलौकिकत्वा त्' तृतीयार्थे पञ्चमी । अलौकिकत्वेन प्रकारेण 'परं' विलक्षणं अलौ किकमेवेत्येका प्रतिज्ञा । यद्वा—परब्रह्मानन्दादिकं 'अतो' लोकान न्दादेः 'परं' विलक्षणमित्येव प्रतिज्ञासमर्पकम्, नालौकिकत्वादित्य पि । न चेत्यादिकमपि अतः परमेवेति सावधारणप्रतिज्ञासूचितपूर्वप क्षनिषेधकं, न प्रतिज्ञान्तर्गतं, अलौकिकत्वादित्येतच्च हेतुसमर्पकमि त्यपरा । प्रथमपक्षे कुतोऽलौकिकत्वरूपवैलक्षण्यमित्यतः प्रवृत्तं सेतू न्मानेति हेतुं व्याचष्टे—एष इति । यद्वा—द्वितीयपक्षे वैलक्षण्ये सा ध्येऽतःशब्दोक्तस्यालौकिकत्वादिति हेतोः साधकतया प्रवृत्तं हेतुवाक्यं व्याचष्टे—एष इति । सेतुपदं भावप्रधानमित्याशयेन इति सेतुत्वमि त्युक्तम् । एवंविधमाधारत्वरूपं वैलक्षण्यमित्यर्थः । हिशब्दो यत इत्य
तिः' (छा.८-४-१.) 'य एष आनन्दः परस्य' 'एष नित्यो महिमा ब्राह्मणस्य' (बृ.६-४-२३.) इति सेतुत्वं ह्युच्यते । 'यतो वाचो निवर्तन्ते' (तै.२-४.) इत्यु न्मानत्वं 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुप जीवन्ति' (बृ.६-३-३२.) इति सम्बन्धः । र्थे । 'उच्यते' व्यपदिश्यते । इत्युच्यत इति सर्वत्र सम्बध्यते । अ स्यात् एभ्यो व्यपदेशेभ्योऽलौकिकत्वावगमादित्यन्वयः । अत्र प्रथम पक्षे सेतुत्वादिधर्मवत्त्वरूपवैलक्षण्ये व्यपदेशः साक्षाद्धेतुः । द्वितीये तु अवगमो हेतुः । व्यपदेशस्तु तत्साधक इति विवेकः । न च व्यपदे शेभ्यः सेतुत्वादिकमेवावगम्यते नालौकिकत्वहेतुरिति वाच्यम् । अलौकिकत्वादित्यस्य टीकारीत्या लोकानन्दादावसम्भावितसेतुत्वा द्विधर्मवत्त्वादित्यर्थाभ्युपगमात् । 'एषः' इति शाखान्तरवाक्ये विधृ तिः सेतुः धारणसमर्थाश्रय इत्यर्थः । एष इति क इत्यत आह—य इति । नन्वत्रानन्दस्य विष्णुसम्बन्धित्वं न प्रतीयते परशब्दस्यानेका र्थत्वादित्यत उक्तं-एष इति । प्रकृतसार्वज्ञ्यपूर्णानन्दादिरित्यर्थः। तथा च विष्णुपरब्राह्मणश्रुतिनित्यमहिमत्वलिङ्गबलाद्विष्णुसम्बन्धित्वं ज्ञाय त इति भावः। 'यतः' इति श्रुतिरीक्षत्यधिकरणे व्याख्याता। उन्मानप दमपि भावप्रधानं कृत्वा व्याचष्टे-उन्मानत्वमिति । उद्गतं मानं मर्यादा यस्मादिति विग्रहः । पूर्णत्वमित्यर्थः । अत्र यद्यपि सर्वात्मना वेदाद्य वाच्यत्वमानन्दस्य प्रतीयते, न विष्णोः, न चोद्गतमर्यादत्वम् । तथाऽपि निमित्तेन नैमित्तिकोपलक्षणान्नासङ्गतिः । व्याख्यानान्तरं वा । स्वरू पत्वाच्चानन्दस्य, ततो नासङ्गतिः । 'एतस्य' इति बृहदारण्यकवा क्यम् । 'अन्यानि भूतानि' ब्रह्मादीनि मुक्तान्यपि 'एतस्य' विष्णोरे वानन्दस्य 'मात्रां' प्रतिबिम्बांशमश्नन्तीत्यर्थः । प्रतिबिम्बरूपविप्लुड्कं तदानन्दस्य चाखिलाः । मुक्ता ब्रह्मादयोऽश्नन्ति तारतम्येन नित्यदा ॥ इति बृहद्भाष्योक्तेः । इतीत्यनन्तरं वाक्यबोधित इति शेषः । 'सम्ब न्धो' बिम्बप्रतिबिम्बभावः उपजीव्योपजीवकभावरूपः । अन्यज्ज्ञानमि ति । 'जीवानां ज्ञानमन्यत्' नियामकादीशज्ञानान्नियम्यत्वेन विलक्ष णमित्यर्थः । 'परस्य' विष्णोः । वैलक्षण्ये निमित्तमाह—नित्येति । परस्य ज्ञानं 'नित्यानन्दाव्ययं' नियमेनानन्दरूपमव्ययं च 'पूर्णं' अ
अन्यज्ज्ञानं तु जीवानामन्यज्ज्ञानं परस्य च । नित्यानन्दाव्ययं पूर्णं परज्ञानं विधीयते ॥ इति भेदः । अतोऽलौकिकत्वात्परमेव ब्रह्मानन्दादिकम् ॥ ३२ ॥ ( २ ) सू—ॐ ॥ दर्शनात् ॥ ॐ ॥ ३३ ॥ परिमितं च ‘विधीयते’ तेन रूपेण व्यपदिश्यते शास्त्रेषु, जैवं तु न तथेत्यर्थः । इतीति । इति श्रुतिवाक्य इत्यर्थः । ‘भेदः’ ईशज्ञानस्या- धिक्यरूपं वैलक्षण्यम् । यद्यप्युदाहृतवाक्यैरानन्दमात्रस्यालौकिक- त्वमवगम्यते, न सर्वगुणानाम् । तथा च ब्रह्मानन्दादिकमित्यादिपदा- योगः । तथाऽपि सेत्वादिवाक्येष्वानन्दग्रहणात् वैलक्षण्यवाक्ये ज्ञान- ग्रहणात् तस्य चानन्दाभेदोक्तेः प्रयोजनान्तराभावात् विचित्रोक्तिब- लात्पूर्वत्र ज्ञानादीनामुत्तरत्रानन्दादीनां चोपलक्षणया ग्रहणावगमान्न दोषः । अथवा—न चेत्यनेन अतः परमित्यनेन ज्ञापितपूर्वपक्षं प्रतिषिद्ध्य ‘एषः’ इत्यादिना सौत्रहेतून्व्याख्याय अतः परमिति प्रतिज्ञा व्याख्याय- ते । अत्रात इत्यनूदितपदस्य लौकिकत्वादिति पदच्छेदेन ‘अमृतत्वस्यै- शानः’ ( तै.आ.३-१२. ) इतिवत् भावभवित्रोरभेदविवक्षया त्वप्रत्ययस्य स्वार्थिकत्वेन वा लौकिकत्वादिति व्याख्यानम् । तथा च ‘अतो लौ- किकत्वात्परं’ अलौकिकमित्यर्थः । लौकिकत्वात्परं तदतिक्रान्तमिति यथाश्रुतमेव वा । अस्मिन् पक्षे न चेत्यपि न सिद्धान्तप्रतिज्ञान्तर्गतं, किन्तु द्वितीयपक्ष इव पूर्वपक्षप्रतिषेधकम् । आद्यपक्षे तु तदपि प्रति- ज्ञान्तर्गतम् । न चैवमस्य द्वितीयसाङ्कर्यम् । नञ्प्रश्लेषाप्रश्लेषाभ्यां भेदात् । ब्रह्मानन्दादिकमित्यनेन अहिकुण्डलसूत्रे प्रकृतमीशानन्दा- दिकमिह विशेष्यत्वेन संयोज्यमित्युक्तं भवति । शिष्टं सुगमम् । तत्त्व- प्रदीपे तु परमित्यस्य उत्तममित्यर्थमुपेत्य ‘एष सेतुः’ इत्यादौ आधार- त्वामितत्वोपजीव्यत्वनियामकत्वानां व्यपदेशात् ‘नित्यानन्द’ इत्या- दाराधिक्येन वैलक्षण्यव्यपदेशाच्च सर्वस्मात्परं उत्तममेव ब्रह्मानन्दा- दिकमिति सूत्रार्थोऽभिहितः । अस्मिन् पक्षे ‘अतो’ व्यपदेशेभ्यः से- तुत्वाद्यलौकिकधर्मवत्स्वरूपालौकिकत्वावगमात्परमिति भाष्यार्थोऽवग- न्तव्यः ॥ ( २ ) हेत्वन्तरेणानन्दादेरलौकिकत्वं समर्थयत्सूत्रमुपन्यस्य व्या- चष्टे—दर्शनादिति ॥ मनोवाग्गोचरत्वादित्यर्थः । अत एवोत्तरत्र ता- दृक्श्रुत्युपन्यासः । अन्येति । ब्रह्मणोऽन्येषां जीवानामानन्दादीनामित्य-
८०० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] दर्शनादेव चाम्यानन्दादीनाम् । ( ३ ) 'अदृष्टमव्यवहार्यमव्यपदेश्यं सुखं ज्ञानमोजो बलमिति ब्रह्मणस्तस्माद्ब्रह्मेत्याचक्षते तस्माद्ब्रह्मेत्याचक्षते' इ ति कौण्डिन्यश्रुतिः ॥ ३३ ॥ ( ४ ) अप्रसिद्धस्य कथमानन्द इत्यादिव्यपदेश इत्यतो वक्ति— र्थः । अस्य अतः परमिति साध्यवाक्येनान्वयः । एवशब्दो लिङ्गस्य निर- वकाशत्वेन प्राबल्यसूचकः । चो भिन्नक्रमः । न केवलं सेतुत्वादि- भ्यः, किन्तु दर्शनाच्च । ब्रह्मानन्दादीनां मनसा विषयीकरणात् वा- चा व्यवहरणात् परानन्दादीनां चातथाभूतत्वाच्चेति समुच्चये । न चा- न्यानन्दादीनां तत्तत्साक्षिवेद्यानां च कथं अन्यमनोजन्यप्रत्यक्षविषय- त्वमिति वाच्यम् । तेषां परिमितत्वेन योगिमनोजन्यप्रत्यक्षविषयत्वस- म्भवात् । सूत्रभाष्ययोः मनसा वाचेत्यध्याहारेण दर्शनपदस्य मनो- वाग्वृत्तिसामान्यपरत्वाच्च ॥ ( ३ ) ननु अन्यानन्दादीनां मनोवाग्गोचरत्वादस्तु लौकिकत्वे, ताव- ता ब्रह्मानन्दादेः कथमलौकिकत्वसिद्धिः मानाभावादित्यतस्तत्प्रमाण- त्वेन दर्शनपदोक्तां श्रुतिमाह—अदृष्टमिति ॥ परमादन्यैस्सर्वात्मनाऽ- स्पृष्टत्वेन च मनसाऽदृष्टमित्यर्थः । 'अव्यवहार्यं' वाचा । तत्त्वप्रदीप- रीत्याऽहेयोपादेयं वा । 'अव्यपदेश्यं' वाचा विविक्ततया निरूपयितु- मशक्यम् । तत्त्वप्रदीपरीत्या वाचा अव्यवहार्यं वा । इति ब्रह्मण इति । ब्रह्मण आनन्दादिकमेवं ज्ञेयमित्यर्थः । तस्माददृष्टत्वादिनाऽलौकिकान- न्दादिपूर्णत्वाद्ब्रह्मेत्याचक्षते ज्ञानिनः । तस्मात्तच्छब्दमुख्यवाच्यत्वाद्ब्र- ह्मेति शब्देन परं ब्रह्म व्यवहरन्तीत्यर्थः । श्रुतिरिति । ब्रह्मानन्दादेरलौ- किकत्वं वक्तीत्यर्थः ॥ ( ४ ) नन्वेवमानन्दादेरलौकिकत्वात्कथं श्रुतिपुराणादिष्वानन्दादि- पदप्रयोग इत्याशङ्क्य तत्परिहाराय सूत्रमवतार्य व्याचष्टे—अप्रसिद्ध- स्येति ॥ ब्रह्मानन्दादेरिति विपरिणामेनान्वेति । हेतुगर्भमिदम् । कथ- मित्याक्षेपे । आनन्दशब्दात्परं इतिशब्दो योज्यः । आदिशब्देन ज्ञानमि- त्यादिव्यवहारो गृह्यते । तथा च 'अप्रसिद्धस्य' ब्रह्मानन्दादेः 'आन- न्दादिव्यपदेशः' ब्रह्मानन्दादिकर्मकानन्दादिशब्दव्यवहारः 'कथं' केनोपायेन युज्यते । एवं 'कथं' किमर्थं युज्यते न युज्यते, तस्याप्र- सिद्धत्वेन तच्छब्दानां तत्र शक्तिग्रहायोगान् तत्र तत्प्रयोगे प्रयोजना-