रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
सप्तदशः सर्गः ५८१
करते थे पर उन्हें इतना गुप्त रखते थे कि व्यवहार में आने पर भी किसी को पता नहीं चलता था ॥ ५० ॥
परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः ।
सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि ॥ ५१ ॥
अन्वयः—यथाकालं स्वपन् अपि सः परेषु च क्षिप्तैः अज्ञातपरस्परैः अपसर्पैः जजागार ।
परेष्विति । यथाकालमुक्तकालानतिक्रमेण स्वपन्नपि सोऽतिथिः परेषु शत्रुेषु स्वेषु स्वकीयेषु च मन्वादितीर्थेष्विति शेषः । क्षिप्तैः प्रहितै रविज्ञाताः परस्परे येषां तैः । अन्योन्याविज्ञातैरित्यर्थः । अपसर्पश्चरैः । ‘अपसर्पश्चरा स्पर्शः’ इत्यमरः । जजागार बुद्धवान् । चारमुखेन सर्वमज्ञासीदित्यर्थः । अत्र कामन्दकः—‘चारान्वि-चारयेत्तीर्थेष्ववात्मनश्च परस्य च । पाषण्डचादीनविज्ञातानन्योन्यमितरैरपि’ । इति ।
भाषार्थ—उन्होंने अपने कर्मचारियों तथा शत्रुओं का भेद जानने के लिए ऐसी चतुराई से उनके पीछे गुप्तचर लगा रखे थे कि वे गुप्तचर भी आपस में एक दूसरे को नहीं पहचान पाते थे । उनसे सब समाचार मिलते रहने के कारण वे सोते हुए भी मानो जागते रहते थे ॥ ५१ ॥
दुर्गाणि दुर्ग्रहाण्यासंस्तस्य रोद्धुरपि द्विषाम् ।
न हि सिंहो गजास्कन्दी भयाद् गिरिगुहाशयः ॥ ५२ ॥
अन्वयः—द्विषां रोद्धुः तस्य दुर्ग्रहाणि दुर्गाणि आसन् । हि गजास्कन्दी सिंहः भयात् गिरिगुहाशयः न ( किन्तु स्वभावात् ) ।
दुर्गाणीति । द्विषां रोद्धू रोधकस्यापि न तु स्वयं रोध्यस्येत्यर्थः । तस्य राज्ञो दुर्ग्रहाणि परैर्दुर्धर्षाणि दुर्गाणि महीदुर्गादीन्यासन् । न च निर्भीकस्य किं दुर्गैरिति वाच्यमित्यर्थान्तरन्यासमुखेनाह—न हीति । गजानास्कन्दति हिनस्तीति गजास्कन्दी सिंहो भवाद्धेतोः गिरिगुहासु शेत इति । गिरिगुहाशयी न हि किंतु स्वभावत एवेति शेषः । “अधिकरणे शेतेः” इत्यच्प्रत्ययः । अत्र मनुः—‘धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्ष्यमेव वा । नृदुर्गं गिरदुर्गं वा समाश्रित्य वसेत्पुरम्’ ॥ इति ।
भाषार्थ—यद्यपि वे युद्ध में शत्रुओं को घेरते थे फिर भी उन्होंने राजधानी के चारों ओर बहुत-बड़े बड़े दुर्ग बनवा दिये थे, क्योंकि हाथियों पर आक्रमण करने वाला सिंह भय से पहाड़ की कन्दरा में नहीं सोता । अर्थात् जैसे निर्भीक होने पर भी सिंह सुरक्षित कन्दरा में सोता है वैसे ही निर्भीक अतिथिके भी दुर्जय किले थे ॥ ५२ ॥
५८४ रघुवंशमहाकाव्ये
भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः ।
गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे ॥ ५३ ॥
अन्वयः—भव्यमुख्याः प्रत्यवेक्ष्याः (अतएव) निरत्यया गर्भशालि सधर्माणः तस्य समारम्भाः गूढं विपेचिरे ।
भव्येति । भव्यमुख्याः कल्याणप्रधानाः न तु विपरीताः प्रत्यवेक्ष्या एतावत्कृतमेतावत्कर्तव्यमित्यनुसंधानेन विचारणीयाः । अतएव निरत्यया् निर्बाधा गर्भेऽभ्यन्तरे पच्यन्ते ये शालयस्तेषां सधर्माणः । अतिनिगूढा इत्यर्थः । "धर्मादनिच्केवलात्" इत्यनिच्प्रत्ययः, समासान्तः तस्य राज्ञः समारभ्यन्त इति समारम्भाः कर्माणि गूढमप्रकाशं विपेचिरे । फलिता इत्यर्थः । 'फलानुमेयाः प्रारम्भाः' इति भावः ।
भाषार्थ—वे जो काम करते थे सब कल्याणकारी होते थे । वे काम करने के पहले उस पर भली भाँति विचार कर लेते थे, इसलिए उसमें किसी प्रकार की बाधा नहीं पड़ती थी, जिस प्रकार साठी धान का दाना भीतर ही भीतर पक जाता है उसी प्रकार उनका काम गुप्तरूप से आरम्भ होकर पूरा हो जाता है ॥ ५३ ॥
अपथेन प्रववृते न जातुपचितोऽपि सः ।
वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥ ५४ ॥
अन्वयः—सः उपचितः जातु अपथेन न प्रववृते हि लवणाम्भसः वृद्धौ नदीमुखेनैव प्रस्थानम् ।
अपथेनेति । सोऽतिथिरुपचितोऽपि वृद्धिं गतोऽपि सन् जातु कदाचिदप्यपथेन कुमार्गेण न प्रववृते न प्रवृत्तः । मर्यादां न जहावित्यर्थः । तथाहि लवणाम्भसो लवणसागरस्य वृद्धौ पूरोत्पीडे सत्यां नदीमुखेनैव नदीप्रवेशमार्गेणैव प्रस्थानं निःसारणम् । न त्वन्यथेत्यर्थः ।
भाषार्थ—ऐश्वर्यशाली होकर भी उन्होंने बुरे मार्ग में पैर नहीं रखा क्योंकि ज्वार के समय जब समुद्र बढ़ता है तब नदियों के मार्ग से ही बढ़ता है दूसरे मार्गों से नहीं ॥ ५४ ॥
कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमः ।
यस्य कार्यः प्रतीकारः स तन्नैवोदपादयत् ॥ ५५ ॥
अन्वयः—प्रकृतिवैराग्यं (दैवादुत्पन्नम्) सद्यः कामं शमयितुं क्षमः शक्तः स यस्य प्रतीकारः कार्यः तत् न उदपादयत् ।
काममिति । प्रकृतिवैराग्यं प्रजाविरागम् । दैवादुत्पन्नमिति शेषः । सद्यः कामं सम्यक्शमयितुं प्रतिकर्तुं क्षमः शक्तः स राजा यस्य प्रकृतिवैराग्यस्य प्रतीकारः कार्यः
सप्तदशः सर्गः ५८५
कर्त्तव्यः। अनर्थहेतुत्वादित्यर्थः। तद्वैराग्यं नोदपादयत्। उत्पन्नप्रतीका- रादनुत्पादनं वरमिति भावः। अत्र कौटिल्यः—'क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम्। विरक्ता यान्त्यमित्रं वा भर्त्तारं घ्नन्ति वा स्वयम्'।। तस्मात्प्रकृतीनां विरागकारणानि नोत्पादयेदित्यर्थः।
भाषार्थ— राजा अतिथि में इतनी शक्ति थी कि प्रजा में यदि किसी प्रकार का असन्तोष हो तो उसे क्षणभर में दूर कर दें किन्तु उन्होंने प्रजा में कोई ऐसा असन्तोष उत्पन्न ही नहीं होने दिया जिसे दूर करने की आवश्यकता पड़े ॥५५॥
शक्येष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः।
समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः ॥ ५६ ॥
अन्वयः— शक्तिमतः सतः तस्य शक्येषु एव यात्रा अभवत्, समीरणसहायः अपि दावानलः अम्भःप्रार्थी न ( अभवत् ) ।
शक्येष्विति। शक्तिमतः शक्तिसंपन्नस्यापि सतस्तस्य राज्ञः शक्येषु शक्ति- विषयेषु स्वस्माद्धीनबलेष्वेव विषये यात्रा दण्डयात्राऽभवत्। न तु समधिकेष्वित्यर्थः। तथाहि समीरणसहायोऽपि दवानलोऽम्भःप्रार्थी जलान्वेषी न दग्धुमिति शेषः। किंतु तृणकाष्ठादिकमेवान्विष्यतीत्यर्थः। अत्र कौटिल्यः—'समज्यायोभ्यां सन्दधीत हीनेन विगृह्णीयात्' इति।
भाषार्थ— राजा अतिथि शक्तिमान् थे इसलिए शक्तिशाली राजाओं पर ही चढ़ाई करते थे, दुर्बलों पर नहीं क्योंकि वायु की सहायता मिलने पर भी वन में लगी हुई आग पानी को नहीं चाहती। अर्थात् आग वायु का सहयोग रहने पर जल को जलाने की इच्छा नहीं करती किन्तु तृण, काष्ठ आदि को ही जलाती है ॥ ५६ ॥
न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ।
नार्थं कामेन कामं वा सोऽर्थेन सदृशस्त्रिषु ॥ ५७ ॥
अन्वयः— सः अर्थकामाभ्यां धर्मं न बबाधे, तेन च तौ न बबाधे, अर्थं कामेन कामं वा अर्थेन ( न बबाधे ), ( किन्तु ) त्रिषु सदृशः ( अभूत् ) ।
न धर्ममिति। स राजार्थकामाभ्यां धर्मं न बबाधे न नाशितवान्। तेन धर्मेण च तावर्थकामो न अर्थं कामेन कामं वार्थेन न बबाधे। एकत्रैवासक्ता नाभूदित्यर्थः। किन्तु त्रिषु धर्मार्थकामेषु सदृशस्तुल्यवृत्तिः। अभूदित्यर्थः।
भाषार्थ— राजा अतिथि ने अर्थ और काम के लिए कभी धर्म को नहीं छोड़ा और धर्म में आसक्त होकर अर्थ और काम को नहीं छोड़ा और न अर्थ के
| ५८६ | रघुवंशमहाकाव्ये |
|---|
कारण कामको अथवा कामके कारण अर्थ को छोड़ा किन्तु धर्म, अर्थ और काम इन तीनों के साथ वे एकसा व्यवहार करते थे ॥ ५७ ॥
हीनान्यनुपकर्तॄणि प्रवृद्धानि विकुर्वते ।
तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः ॥ ५८ ॥
**अन्वयः—**मित्राणि हीनानि अनुपकर्तॄणि प्रवृद्धानि ( चेत् ) विकुर्वते; अतः तेन मित्राणि मध्यमशक्तीनि स्थापितानि ।
हीनानीति । मित्राणि हीनान्यतिक्षीणानि चेदनुपकर्तॄण्यनुपकारीणि प्रवृद्धान्यतिसमृद्धानि चेद्विकुर्वते विरुद्धं चेष्टन्ते । अपकुर्वत इत्यर्थः । "अकर्मकाच्च" इत्यात्मनेपदम् । अतः कारणात्तेन राज्ञा मित्राणि सुहृदः । 'मित्रं सुहृदि मित्रोऽर्के' इति विश्वः ।
**भाषार्थ—**यदि नीच मनुष्य मित्र बन जाते हैं तो कुछ न कुछ खोटा कर्म अवश्य कर देते हैं, यदि धनी मिल जाते हैं तो कुछ न कुछ बाधा डालते हैं, इसलिए राजा अतिथि मध्यममार्ग का अवलम्बन करके ऐसे लोगों को मित्र बनाते थे जो न नीच थे न धनी ही थे ॥ ५८ ॥
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् ।
ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा ॥ ५९ ॥
**अन्वयः—**सः परात्मनोः शक्त्यादीनां बलाबलं परिच्छिद्य एभिः परस्मात् बलिष्ठः चेत् ययौ अन्यथा आस्त ।
परेति । सोऽतिथिः परात्मनोः शत्रोरात्मनश्च शक्त्यादीनां शक्तिदेशकालादीनां बलाबलं न्यूनाधिकभावं परिच्छिद्य निश्चित्य एभिः शक्त्यादिभिः परस्माच्छत्रोर्बलिष्ठः स्वयमतिशयेन बलवाञ् चेत् । बलशब्दान्मतुबन्तादिष्ठन्प्रत्ययः । "विन्मतोर्लुक्" इति मतुपो लुक् । ययौ यात्रां चक्रे । अन्यथा बलिष्ठश्चेदास्तात्तिष्ठत् । ययावित्यर्थः । अत्र मनुः—'यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् । परस्य विपरीतं चेत्तदा यायादरीन्प्रति ॥ यदा तु स्यात्परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् ॥' इति ।
**भाषार्थ—**शत्रुओं पर आक्रमण करने के पहले वे राजा अतिथि अपनी और शत्रुओं की त्रुटि को भलीभांति तौल लेते थे, जब शत्रुसे अपना बल अधिक देखा तभी उसपर आक्रमण किया, नहीं तो चुप बैठे रहे ॥ ५९ ॥
सप्तदशः सर्गः ५८७
सप्तदशः सर्गः ५८७
कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः । अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते ॥ ६० ॥
अन्वयः—कोशेन आश्रयणीयत्वं (भवति) इति तस्य अर्थसंग्रहः, हि अम्बु- गर्भः जीमूतः चातकैः अभिनन्द्यते ।
कोशेनेति । कोशेनार्थचयेनाश्रयणीयत्वं भजनीयत्वम् । भवतीति शेषः । इति हेतोस्तस्य राज्ञः कर्तुः अर्थसंग्रहः । न तु लोभादित्यर्थः । तथाहि अम्बुगर्भो यस्य सोऽम्बुगर्भो जीवनस्य जलस्य मूतः पुटबन्धो जीमूतो मेघः । 'मूङ् बन्धने' पृषोद- रादित्वात्साधुः । चातकैरभिनन्द्यते । सेव्यते । अत्र कामन्दकः—'धर्महेतोस्तथार्थाय भृत्यानां रक्षणाय च । आपदर्थं च संरक्ष्यः कोशो धर्मवता सदा' ॥ इति ।
भाषार्थ—राजा अतिथि ने इसलिए धन इकट्ठा किया कि एक तो इससे आदर होता है और दूसरे दीन लोग आकर आश्रय लेते हैं क्योंकि चातक उन्हीं बादलों का स्वागत करते हैं जिनमें पानी भरा रहता है ॥ ६० ॥
परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु । आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्निपून् ॥ ६१ ॥
अन्वयः—स परकर्मापहः (सन्) स्वेषु कर्मसु उद्यतः अभूत्, रिपून् रन्ध्रेषु प्रहरन् आत्मनः रन्ध्रं आवृणोत् ।
परकर्मेति । स राजा परेषां कर्माणि सेतुवार्तादीन्यपहन्तीति परकर्मापहः सन् । ‘‘अन्येष्वपि दृश्यते’’ इत्यपिशब्दसामर्थ्याद्विन्तेर्डप्रत्ययः । किं च रिपून्तरन्ध्रेषु प्रहरन्नात्मनो रन्ध्रं व्यसनादिकमावृणोत्संवृतवान् । अत्र मनुः—‘नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ।।' इति ।
भाषार्थ—शत्रुओं का उद्योग नष्ट करके वे राजा अतिथि अपने उद्योग में लग गये । उन्होंने शत्रुओं के दोषों से लाभ उठाकर उन्हें नष्ट कर दिया और अपने दोषों को दूर कर दिया ॥ ६१ ॥
पित्रा सम्बर्धितो नित्यं कृतास्त्रः साम्परायिकः । तस्य दण्डवतो दण्डःस्वदेहात्न व्यशिष्यत ॥ ६२ ॥
अन्वयः—दण्डवतः तस्य पित्रा नित्यं सम्बर्द्धितः कृतास्त्रः साम्परायिकः दण्डः स्वदेहात् न व्यशिष्यत ।
पित्रेति । दण्डो दमः सैन्यं वा तद्वतो दण्डतो दण्डसम्पन्नस्य तस्य राज्ञः पित्रा कुशेन नित्यं सम्बर्धितः कृतास्त्रः शिक्षितास्त्रः सम्परायो युद्धम् । 'युद्धायत्योः सम्प-
५८८ | रघुवंशमहाकाव्ये
राया' इत्यमरः । तमर्हतीति साम्परायिकः । “तदर्हति” इति ठक्प्रत्ययः ।• दण्डः सैन्यम् । 'दण्डो यमे मानभेदे लगुडे दमसैन्ययोः' इति विश्वः । स्वदेहान्न व्यशिष्यत नाभिद्यत । स्वदेहेऽपि विशेषणानि योज्यानि । मूलबलं स्वदेहमिवारक्षदित्यर्थः ।
भाषार्थ—कुशके प्रयत्न से बढ़ी हुई शस्त्रास्त्र चलाने में कुशल और युद्ध करने में समर्थ जो सेना थी, उसे अतिथि अपने शरीर के समान ही प्यार करते थे॥६२॥
सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः ।
स चकर्ष परस्मात्तदयस्कान्त इवायसम् ॥ ६३ ॥
अन्वयः—सर्पस्य शिरोरत्नम् इव अस्य शक्तित्रयं परः न चकर्ष । स तु परस्मात् तत् अयस्कान्त आयसम् इव (चकर्ष) ।
सर्पस्येति । सर्पस्य शिरोरत्नमिव अस्य राज्ञः शक्तित्रयं परः शत्रुर्न चकर्ष । स तु परस्माच्छत्रोस्तच्छक्तित्रयम् । अयस्कान्तो मणिविशेष आयसं लोहविकारमिव चकर्ष ।
भाषार्थ—जिस प्रकार सर्प के सिरसे मणि नहीं निकाली जा सकती, उसी प्रकार शत्रु इनके प्रभाव, उत्साह और मन्त्र इन तीन शक्तियों को अपनी ओर नहीं खींच सके, किन्तु जैसे चुम्बक लोहे को अपनी ओर खींच लेता है वैसे ही उन्होंने शत्रुओं की उन शक्तियों को अपनी ओर खींच लिया ॥ ६३ ॥
वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव ।
सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥ ६४ ॥
अन्वयः—स्रवन्तीषु वापीषु इव अद्रिषु उपवनेषु इव अद्रिषु स्वकीयेषु वेश्मसु इव सार्थाः स्वैरं चेरुः ।
वापीष्विति । स्रवन्तीषु नदीषु वापीषु दीर्घिकास्रिव । 'वापी तु दीर्घिका' इत्यमरः । वनेष्वरण्येषूपवनेष्वारामेष्विव । 'आरामः स्यादुपवनम्' इत्यमरः । अद्रिषु वेश्मस्विव सार्था वणिक्प्रभृतयः स्वैरं स्वेच्छया चेरुश्चरन्ति स्म ।
भाषार्थ—राजा अतिथिका का इतना प्रताप था कि व्यापारी लोग ऐसे बेरोक-टोक व्यापार करते थे कि नदियां बांवलियों जैसी, वन उद्यान जैसे सुखकर और पर्वत अपने घर से सुखकर हो गये थे ॥ ६४ ॥
तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च सम्पदः ।
यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक् ॥ ६५ ॥
अन्वयः—विघ्नेभ्यः तपः रक्षन् तस्करेभ्यः सम्पदः च ( रक्षन् ) स आश्रमैः वर्णैः च यथास्वं षडंशभाक् चक्रे ।
सप्तदशः सर्गः
५८९
तप इति। विघ्नेभ्यस्तपो रक्षन् तस्करेभ्यः संपदश्च रक्षन् स राजाश्रमैर्ब्रह्मचर्यादिभिर्वर्णैरपि ब्राह्मणादिभिश्च यथास्वं स्वमनतिक्रम्य षडंशभाक्चक्रे। यथाक्रममाश्रमैस्तपसो वर्णैः सम्पदां च षष्ठांशभाक्कृत इत्यर्थः। षष्ठोऽंशः षडंशः। सङ्ख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमुक्तं प्राक्।
**भाषार्थ—**राजा अतिथि ने विघ्नों से तपस्वियों के तप की रक्षा की, चोरों से प्रजा की सम्पत्तियों को बचाया और चारों वर्ण एवं चारों आश्रमों से उनके अनुसार छठा भाग पाया ॥ ६५ ॥
खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान्।
दिदेश वेतनं तस्मै रक्षासदृशमेव भूः ॥ ६६ ॥
**अन्वयः—**भूः तस्मै राज्ञे रक्षासदृशं एवं वेतनं दिदेश, खनिभिः रत्नं सुषुवे, क्षेत्रैः सस्यं, वनैः गजान् (सुषुवे)।
खनिभिरिति। भूर्भूमिस्तस्मै राज्ञे रक्षासदृशं रक्षणानुरूपमेव वेतनं भृतिं दिदेश ददौ। कथम्? खनिभिराकरैः 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः। रत्नं माणिक्यादिकं सुषुवे अजीजनत्, क्षेत्रैः सस्यं वनैर्गजान्हस्तिनः सुषुवे।
**भाषार्थ—**जिस प्रकार वे रक्षा कर रहे थे उसी प्रकार पृथ्वी भी उन्हें ऐश्वर्य देती जा रही थी, खानों ने रत्न दिये, खेतों ने अन्न दिया और वनों ने उन्हें हाथी दिये ॥ ६६ ॥
स गुणानां बलानां च षण्णां षण्मुखविक्रमः।
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥ ६७ ॥
**अन्वयः—**षण्मुखविक्रमः षण्णां गुणानां बलानां च साधनीयेषु वस्तुषु विनियोगज्ञः बभूव।
स इति। षण्मुखविक्रमः स राजा षण्णां गुणानां सन्धिविग्रहादीनां बलानां मूलभृत्यादीनां च साधनीयेषु वस्तुषु साध्येष्वर्थेषु विनियोगं जानातीति विनियोगस्य ज्ञ इति वा विनियोगज्ञः। कर्मविवक्षायामुपपदसमासः। "आतोऽनुपसर्गे कः" इति कप्रत्ययः। शेषविवक्षायां षष्ठीसमासः। "इगुपधज्ञा०" इत्यादिना कप्रत्ययः। बभूव। 'इदमत्र प्रयोक्तव्यम्' इत्याद्यज्ञासीदित्यर्थः।
**भाषार्थ—**कार्तिकेय के समान पराक्रमी राजा अतिथि यह अच्छी तरह जानते थे कि सन्धि, विग्रह, यान, आसन, संश्रय एवं द्वैधीभाव इन छ राजगुणों को कैसे व्यवहार में लाना चाहिए तथा मूल, भृत्य, सुहृद्वर्ग, शत्रु, आटविक और बल इन छ प्रकार की सेनाओं के साथ कैसा व्यवहार करना चाहिए ॥ ६७ ॥
| ५९० | रघुवंशमहाकाव्ये |
|---|
इति क्रमात्प्रयुञ्जानो राजनीतिं चतुर्विधाम् ।
आतीर्थादप्रतिघातं स तस्याः फलमानशे ॥ ६८ ॥
अन्वयः— इति चतुर्विधां राजनीतिं क्रमात् प्रयुञ्जानः सः आतीर्थात् तस्याः फलं अप्रतिघातं आनशे ।
इतीति । इति चतुर्विधाम् । सामाद्युपायैरिति शेषः । राजनीतिं दण्डनीतिं क्रमात्सामादिक्रमादेव प्रयुञ्जानः स राजा तीर्थान्मन्त्र्याद्यष्टादशात्मकतीर्थपर्यन्तम् । 'योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्यात्' इति हलायुधः । तस्या नीतेः फलमप्रतिघातमप्रतिबन्धं यथा तथानशे प्राप्तवान् । मन्त्र्यादिषु यमुद्दिश्य य उपायः प्रयुज्यते स तस्य फलतीत्यर्थः ।
भाषार्थ— इस प्रकार साम, दाम, दण्ड और भेद इन चार उपायों के साथ राजनीति चलाते हुए राजा अतिथि ने उन उपायों का निर्विघ्न फल पा लिया ॥६८॥
कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि ।
भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी ॥ ६९ ॥
अन्वयः— कूटयुद्धविधिज्ञे अपि सन्मार्गयोधिनि तस्मिन् वीरगामिनी श्रीः अभिसारिका वृत्ति भेजे ।
कूटेति । कूटयुद्धविधिज्ञेऽपि कपटयुद्धप्रकाराभिज्ञे सन्मार्गेण योधिनि धर्मयोद्धरि तस्मिन्नतिथौ वीरगामिनी जयश्रीरभिसारिकावृत्तिं भेजे । 'कान्तार्थिनी तु या याति सङ्केतं साभिसारिका' इत्यमरः । जयश्रीस्तमन्विष्यागच्छदित्यर्थः ।
भाषार्थ— वे कपट-युद्ध भी जानते थे पर युद्ध क्षेत्र में वे धर्म की लड़ाई ही लड़ते थे इसलिए वीरों की सखी जयश्री उनके पास अभिसारिका के समान चुपके से पहुँचती थी ॥ ६९ ॥
प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः ।
रणो गन्धद्विपस्येव गन्धभिन्नान्यदन्तिनः ॥ ७० ॥
अन्वयः— अरीणां प्रतापभग्नत्वात् तस्य गन्धभिन्नान्यदन्तिनः गन्धद्विपस्य इव प्रायः रणः दुर्लभः ( भवति ) ।
प्राय इति । अरीणां सर्वेषामपि प्रतापेनातितेजसैव भग्नत्वात्तस्य राज्ञः गन्धेन मदगन्धेनैव भिन्ना भग्ना अन्ये दन्तिनो येन तस्य गन्धद्विपस्येव प्रायः प्रायेण रणो दुर्लभः । खलर्थयोगेऽपि शेषविवक्षायां षष्ठीमिच्छन्तीत्युक्तम् ।
भाषार्थ— युद्ध क्षेत्र में अतिथि को देखते ही शत्रुओं के छक्के छूट जाते थे और वे प्राण लेकर भाग खड़े होते थे, इसलिए जैसे बिना मद वाले हाथी मतवाले
सप्तदशः सर्गः ५९१
सप्तदशः सर्गः ५९१
हाथी से नहीं लड़ते हैं वैसे ही प्रतापी राजा अतिथि से लड़ने का कोई साहस नहीं करता था ॥ ७० ॥
प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः । स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी ॥ ७१ ॥
**अन्वयः—**प्रवृद्धौ चन्द्रः हीयते समुद्रः अपि तथाविधः, सः तु तत्समवृद्धिः अभूत् तौ इव क्षयी न (अभूत्) ।
प्रवृद्धाविति । प्रवृद्धौ सत्यां चन्द्रे हीयते समुद्रोऽपि तथाविधश्चन्द्रवदेव प्रवृद्धौ हीयते । 'प्रवृद्धः' इति वा पाठः । स राजा तु ताभ्यां चन्द्रसमुद्राभ्यां समा वृद्धिर्यस्य स तत्समवृद्धिश्चाभूत् । तौ चन्द्रसमुद्राविव क्षयी । “जिदृक्षि०” इत्यादिनेन-प्रत्ययः । नाभूत् ।
**भाषार्थ—**पूरा बढ़ चुकने पर चन्द्रमा घटने लगता है और समुद्र की भी यही दशा होती है किन्तु राजा अतिथि के साथ यह बात उलटी थी, वे चन्द्रमा और समुद्र के समान बढ़े तो सही पर उनके समान घटते नहीं थे ॥ ७१ ॥
सन्तस्तस्याभिगमनादत्यर्थं महतः कृशाः । उदधेरिव जीमूताः प्रापुर्दातृत्वमर्थिनः ॥ ७२ ॥
**अन्वयः—**अत्यर्थं कृशाः अर्थिनः सन्तः महतः तस्य अभिगमनात् उदधेः जीमूताः इव दातृत्वं प्रापुः ।
सन्त इति । अत्यर्थं कृशा दरिद्रा अत एवार्थिनो याचनशीलाः सन्तो विद्वांसो महतस्तस्य राज्ञोऽभिगमनात् उदधेरभिगमनाज्जीमूता इव दातृत्वं वदान्यत्वं प्रापुः । अर्थिषु दानभोगपर्याप्तं धनं प्रयच्छतीत्यर्थः ।
**भाषार्थ—**जिस प्रकार निर्जल मेघ समुद्र के पास जाते हैं और वह उन्हें इतना जल दे देता है कि वे संसारभर को बाँटने लगते हैं, उसी प्रकार जो निर्धन विद्वान् राजा अतिथि के पास जाते थे उन्हें वे इतना धन दे देते थे कि स्वयं दूसरों को भी दान देने लगते थे ॥ ७२ ॥
स्तूयमानः स जिह्राय स्तुत्यमेव समाचरन् । तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः ॥ ७३ ॥
**अन्वयः—**स स्तुत्यं एव समाचरन् (अत एव ) स्तूयमानः ( सन् ) जिह्राय तत्कारिद्वेषिणः तस्य यशः ववृधे ।
स्तूयमान इति । स राजा स्तुत्यं स्तोत्रार्हमेव यत्तदेव समाचरन्नत एव
५९२ | रघुवंशमहाकाव्ये
स्तूयमानः जिह्राय ललज्ज । तथापि ह्रीणत्वेऽपि तत्कारिणः स्तोत्रकारिणो द्वेषीति तत्कारिद्वेषिणस्तस्य राज्ञः यशो ववृधे । ‘गुणाढ्यस्य सतः पुंसः स्तुतौ लज्जैव भूषणम्’ इति भावः ।
**भाषार्थ—**उनके सभी कार्य प्रशंसनीय थे, पर जब कोई उसकी प्रशंसा करता तब वे सकुचाते थे । प्रशंसा की इच्छा न करने पर भी उनका यश बढ़ता ही गया ॥ ७३ ॥
दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः ।
प्रजाः स्वतन्त्रयांचक्रे शश्वत्सूर्य इवोदितः ॥ ७४ ॥
अन्वयः—(स) उदितः सूर्यः इव दर्शनेन दुरितं घ्नन् तत्त्वार्थेन तमः नुदन् शश्वत्प्रजाः स्वतन्त्रयांचक्रे ।
दुरितमिति । स राजा उदितः सूर्यः इव दर्शनेन दुरितं घ्नन्निवर्तयन् । तथा च स्मर्यते—‘अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः । दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत नित्यशः’ ॥ इति । तत्त्वस्य वस्तुतत्त्वस्यार्थेन समर्थनेन च तमोऽज्ञानं ध्वान्तं च नुदञ्शश्वत्प्रजाः स्वतन्त्रयाञ्चक्रे स्वाधीनाश्चकार ।
**भाषार्थ—**जिस प्रकार निकलते हुए सूर्य के दर्शन से पाप दूर हो जाते हैं उसी प्रकार राजा अतिथि के दर्शन से पाप भाग जाते थे । वे ज्ञानी थे इसलिए वे दूसरों को भी तत्त्वज्ञान सिखाकर अज्ञान का अन्धकार भी मिटाते थे इसलिए उन्होंने प्रजा को सब प्रकार से स्वतन्त्र कर दिया ॥ ७४ ॥
इन्दोरगतयः पद्मे सूर्यस्य कुमुदेऽंशवः ।
गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरम् ॥ ७५ ॥
**अन्वयः—**इन्दोः अंशवः पद्मे अगतयः सूर्यस्य (च) अंशवः कुमुदे (अगतयः) गुणिनः तस्य गुणाः विपक्षे अन्तरं लेभिरे ।
इन्दोरिति । इन्दोरंशवः पद्मेऽगतयः । प्रवेशरहिता इत्यर्थः । सूर्यस्यांशवः कुमुदेऽगतयः । गुणिनस्तस्य गुणास्तु विपक्षे शत्रावप्यन्तरमवकाशं लेभिरे प्रापुः ।
**भाषार्थ—**चन्द्रमा की किरणें कमलों में तथा सूर्य की किरणें कुमुदों में नहीं पैठ पाती हैं पर राजा अतिथि के गुणों ने शत्रुओं के हृदय में भी घर कर लिया था और शत्रु भी उनके गुणों का लोहा मानते थे ॥ ७५ ॥
पराभिसंधानपरं यद्यप्यस्य विचेष्टितम् ।
जिगीषोरश्वमेधाय धर्म्यमेव बभूव तत् ॥ ७६ ॥
सप्तदशः सर्गः | ५९३
| सप्तदशः सर्गः | ५९३ |
|---|
अन्वयः—अश्वमेधाय जिगीषोः अस्य विचेष्टितं यद्यपि पराभिसंधानपर ( तथापि ) तत् धर्म्यं एव बभूव ।
परेति । अश्वमेधाय जिगीषोरस्य विचेष्टितं दिग्विजय रूपं यद्यपि पराभिसंधान-परं शत्रुवञ्चनप्रधानं तथापि तद्धर्म्यं धर्मादनपेतमेव । “धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः । बभूव । ‘मन्त्रप्रभावोत्साहशक्तिभिः परान्सन्दध्यात्’ इति कौटिल्यः ।
भाषार्थ—अश्वमेध यज्ञ करने के लिए वे दिग्विजय करने निकले तब इनका काम यद्यपि शत्रुओं को जिस-तिस प्रकार हराना ही था पर उस समय भी उन्होंने धर्म से ही काम लिया कूटनीति, या छल से नहीं ॥ ७६ ॥
एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवर्त्मना ।
वृषेव देवो देवानां राज्ञां राजा बभूव सः ॥ ७७ ॥
अन्वयः—शास्त्रनिर्दिष्टवर्त्मना प्रभावेण उद्यन् सः वृषा देवानां देव इव राज्ञां राजा बभूव ।
एवमिति । एवं शास्त्रनिर्दिष्टवर्त्मना शास्त्रोपदिष्टमार्गेण प्रभावेण कोशदण्ड-जेन तेजसा । ‘स प्रभावः प्रतापश्च तत्तेजः कोशदण्डजम्’ इत्यमरः । उद्यन्नुद्युञ्जानः सः वृषा वासवो देवानां देवो देवदेव इव राज्ञां राजा राजराजो बभूव ।
भाषार्थ—इस प्रकार शास्त्रों के अनुसार चलने से अतिथि का प्रभाव बढ़ गया और जैसे इन्द्र देवों के देव हैं वैसे ही अतिथि भी राजाओं के राजा हो गये ॥७७॥
पञ्चमं लोकपालानां तमूचुः साम्ययोगतः ।
भूतानां महतां षष्ठमष्टमं कुलभूभृताम् ॥ ७८ ॥
अन्वयः—तं साधर्म्ययोगतः लोकपालानां पञ्चमं ऊचुः महतां भूतानां षष्ठं ( ऊचुः ) कुलभूभृतां अष्टमं ( ऊचुः ) ।
पञ्चममिति । तम् राजानमिति शेषः । साधर्म्ययोगतो यथाक्रमं लोकसंरक्षण-परोपकारभूधारणरूपसमानधर्मत्वबलाल्लोकपालानामिन्द्रादीनां चतुर्णां पञ्चम-मूचुः । महतां भूतानां पृथिव्यादीनां पञ्चानां षष्ठमूचुः । कुलभूभृतां कुलाचलानां महेन्द्रमलयादीनामष्टममूचुः ।
भाषार्थ—इन्द्र आदि चारों लोकपालों के समान पराक्रम होने के कारण लोग उन्हें पाचवाँ लोकपाल कहने लगे । पृथिव्यादि पाँचों तत्त्वों के समान महान् होने के कारण लोग उन्हें छठा तत्त्व कहते थे और हिमालय आदि सात कुल पर्वतों के समान विशाल होने के कारण वे आठवें कुलपर्वत कहलाते थे ॥७८॥
३८ र० सम्पू०
| ५९४ | रघुवंशमहाकाव्ये |
|---|
दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनापिताम् ।
दधुः शिरोभिर्भूपाला देवाः पौरन्दरीमिव ॥ ७९ ॥
अन्वयः— भूपालाः शासनापितां तस्य आज्ञां देवाः पौरन्दरीम् इव शिरोभिः दधुः ।
दूरेति । भूपालाः शासनेषु पत्रेष्वर्पितामुपन्यस्तां तस्य राज्ञ आज्ञां देवाः पौरन्दरीमैन्द्रीमाज्ञामिव दूरापवर्जितच्छत्रैर्दूरात्परिहृतातपत्रैः शिरोभिर्दधुः ।
भाषार्थ— जैसे देवता लोग इन्द्र की आज्ञा मानते हैं वैसे ही राजा लोग भी अपने छत्र उतारकर उनकी आज्ञा अपने माथे चढ़ाते थे ॥ ७९ ॥
ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ ।
यथा साधारणभूतं नामास्य धनदस्य च ॥ ८० ॥
अन्वयः— सः महाक्रतौ ऋत्विजः दक्षिणाभिः तथा आनर्च यथा अस्य धनदस्य च नाम साधारणीभूतम् ।
ऋत्विज इति । स राजा महाक्रतावश्वमेधे ऋत्विजो याजकान् दक्षिणाभिस्तथानर्चार्चयामास । अर्चतेर्भावादिकाल्लिट् । यथास्य राज्ञो धनदस्य च नाम साधारणीभूतमेकीभूतम् । उभयोरपि धनदसंज्ञा यथा स्यात्तथेत्यर्थः ।
भाषार्थ— अश्वमेध के समय जिन ब्राह्मणों ने यज्ञ कराया था उनका राजा अतिथि ने इतना सत्कार किया कि लोग उन्हें दूसरा कुबेर कहने लगे ॥ ८० ॥
इन्द्राद् वृष्टिनिर्यमितगदोद्रेकवृत्तिर्यमोऽभू-
द्यादोनाथः शिवजलपथः कर्मणे नौचराणाम् ।
पूर्वापेक्षी तदनु विदधे कोषवृद्धिं कुबेर-
स्तस्मिन्दण्डोपनतचरितं भेजिर लोकपालाः ॥ ८१ ॥
अन्वयः— इन्द्रात् वृष्टिः अभूत् यमः नियमितगदोद्रेकवृत्तिः (अभूत्) यदोनाथः नौचराणां कर्मणे शिवजलपथः । अभूत् ) तदनु पूर्वापेक्षी कुबेरः कोषवृद्धिं विदधे लोकपालाः तस्मिन् दण्डोपनतचरितं भेजिर ।
इन्द्रादिति । इन्द्राद् वृष्टिरभूत् । यमो निवारिता गदस्य रोगस्योद्रेक एव वृत्तिर्येन सोऽभूत् । यादोनाथो वरुणो नौचराणां नाविकानां कर्मणे सञ्चाराय शिवजलपथः सुचरजलमार्गोऽभूत् । तदनु पूर्वापेक्षी रघुरामादिमहिमाभिज्ञः कुबेरः कोषवृद्धिं विदधे । इत्थं लोकपालास्तस्मिन् राज्ञि विषये दण्डोपनतस्य शरणागतस्य चरितं वृत्तिं भेजिर । 'दुर्बलो बलवत्सेवी विरुद्धाच्छङ्कितादिभिः । वर्तेत दण्डोपनतो भर्तयैवमवस्थितः' ॥ इति कौटिल्यः ।
अष्टादशः सर्गः ५९५
अष्टादशः सर्गः ५९५
**भाषार्थ—**इन्द्र ने उस राजा अतिथि के साम्राज्य पर वर्षा की, यमराज ने रोगों का बढ़ना रोका, वरुणने नाव चलाने वालों के लिए जल-मार्ग खोल दिये और कुबेर ने इनका राजकोष भर दिया । इस प्रकार इन्द्र आदि लोकपाल मानो इनके प्रताप से ही डरकर इनकी सेवा कर रहे थे ॥ ८१ ॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया व्याख्यया समेतो महाकविकालिदासकृतौ रघुवंशे महाकाव्ये अतिथिवर्णनो नाम सप्तदशः सर्गः ॥ १७ ॥
अष्टादशः सर्गः
यत्पादपांसुसम्पर्कादहल्यासीदपांसुला ।
कारुण्यसिन्धवे तस्मै नमो वैदेहिबन्धवे ॥
स नैषधस्यार्थपतेः सुतायामुत्पादयामास निषिद्धशत्रुः ।
अनूनसारं निषधाज्नगेन्द्रात्पुत्रं यमाहुर्निषधाख्यमेव ॥ १ ॥
**अन्वयः—**निषिद्धशत्रुः स नैषधस्य अर्थपतेः सुतायां निषधात् नगेन्द्रात् अनूनसारं पुत्रं उत्पादयामास यं निषधाख्यं एव आहुः ।
स इति । निषिद्धशत्रुर्निवारितरिपुः सोऽतिथिर्नैषधस्य निषधदेशाधीश्वरस्यार्थपते राज्ञः सुतायां निषधान्निषधाख्यान्नगेन्द्रात्पर्वतादनूनसारमन्यूनबलं पुत्रमुत्पादयामास । यं पुत्रं निषधाख्यं निषधनामकमेवाहुः ।
**भाषार्थ—**शत्रुसंहारक राजा अतिथि ने निषध देश के राजा की कन्या से निषध पर्वत के समान बलवान् पुत्र उत्पन्न किया और उसका भी नाम निषध रखा ॥ १ ॥
तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना ।
सुवृष्टियोगादिव जीवलोकः सस्येन सम्पत्तिफलोन्मुखेन ॥ २ ॥
**अन्वयः—**उरुवीर्येण प्रजायै कल्पिष्यमाणेन तेन पिता सुवृष्टियोगात् सम्पत्तिफलोन्मुखेन सस्येन जीवलोक इव ननन्द ।
तेनेति । उरुवीर्येणातिपराक्रमेणात एव प्रजायै लोकरक्षणार्थं कल्पिष्यमाणेन
५९६ | रघुवंशमहाकाव्ये
तेन यूना निषधेन पितातिथिः सुवृष्टियोगात्सम्पत्तिफलोन्मुखेन पाकोन्मुखेन सस्येन जीवलोकः इव ननन्द जहर्ष ।
भाषार्थ—जिस प्रकार समय की वर्षा से फले हुए धानों को देखकर संसार के सभी प्राणी प्रसन्न होते हैं उसी प्रकार महापराक्रमी और भविष्य में प्रजा की रक्षा के लिए समर्थ युवराज निषध को देखकर राजा अतिथि परम प्रसन्न हुए ॥ २ ॥
शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः ।
कौमुद्वतेयः कुमुदावदातैर्धामर्जितां कर्मभिरारुरोह ॥ ३ ॥
अन्वयः—कौमुद्वतेयः शब्दादि सुखं निर्विश्य चिराय तस्मिन् प्रतिष्ठापितराजशब्दः कुमुदावदातैः कर्मभिः अर्जितां द्यां आरुरोह ।
शब्दादीति । कुमुद्वत्या अपत्यं पुमान्कौमुद्वतेयोऽतिथिः शब्दादि शब्दस्पर्शादि सुखं सुखसाधनं विषयवर्गं निर्विश्योपभुज्य चिराय तस्मिन्निषधाख्ये पुत्रे प्रतिष्ठापितराजशब्दो दत्तराज्यः सन् कुमुदावदातैर्निर्मलैः कर्मभिरश्वमेधाभिरजितां सम्पादितां द्यां स्वर्गमारुरोह ।
भाषार्थ—कुमुद्वती के पुत्र राजा अतिथि ने बहुत दिनों तक सुख, शब्दादि विषयों को भोग कर और अपने पुत्र निषध को राजपाट सौंपकर कुमुद के समान उज्ज्वल पुण्य कर्मों के बल से प्राप्त स्वर्ग में सुख भोगने के लिए चले गये ॥ ३ ॥
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः ।
एकातपत्रां भुवमेकवीरः पुरार्गलादीर्घभुजो बुभोज ॥ ४ ॥
अन्वयः—कुशेशयाक्षः सागरधीरचेताः एकवीरः पुरार्गलादीर्घभुजः कुशस्य पौत्रः अपि ससागरां एकातपत्रां भुवं बुभोज ।
पौत्र इति । कुशेशयाक्षः शतपत्रलोचनः । ‘शतपत्रं कुशेशयम्’ इत्यमरः । सागरधीरचेताः समुद्रगम्भीरचित्त एकवीरोऽसहायशूरः पुरस्यार्गला कपाटविष्कम्भः । ‘तद्विष्कम्भोऽर्गलं न ना’ इत्यमरः । तद्वद्दीर्घभुजः कुशस्य पोत्रो निषधोऽपि ससागरामेकातपत्रां भुवं बुभोज पालयामास । “भुजोऽनवने” इत्युक्तेः परस्मैपदम् ।
भाषार्थ—कमल के समान नेत्रवाले, समुद्रके समान गम्भीर चित्तवाले और नगर के प्रधान फाटक की अर्गला के समान बड़ी-बड़ी बाहुवाले, अद्वितीय वीर कुश के पौत्र निषध ने भी सागर तक फैली हुई एकछत्र पृथ्वी का भोग किया ॥ ४ ॥
तस्यानलौजस्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः ।
यो नड्वलानीव गजः परेषां बलान्यमृद्नान्नलिनामवक्त्रः ॥ ५ ॥
अष्टादशः सर्गः ५९७
अष्टादशः सर्गः ५९७
अन्वयः—अनलौजाः नलाभिधानः तस्य तनयः तदन्ते वंशश्रियं प्राप यः नलिनाभवक्त्रः गजः नड्वलानीव परेषां बलानि अमृद्नत् ।
तस्येति । अनलौजाः वह्नितेजाः नलाभिधानो नलाख्यस्तस्य निषधस्य तनयस्तस्य निषधस्यान्तेऽवसाने वंशश्रियं राज्यलक्ष्मीं प्राप । नलिनाभवक्त्रो यो नलः गजो नड्वलानि नडप्रायस्थलानीव । “नडशादाड्वलच्” इति ड्वलच्प्रत्ययः । परेषां बलान्यमृद्नान्ममर्द ।
भाषार्थ—निषध के पीछे अग्नि के समान तेजस्वी उनके पुत्र राजा नल हुए । वह्नि के समान सुन्दर तेज वाले राजा नल ने शत्रुओं के बल को वैसे ही तोड डाला जैसे हाथी नरकट के गट्ठे को तोड़ डालता है ॥ ५ ॥
नभश्चरैर्गीतयशाः स लेभे नभस्तलश्यामतनुं तनूजम् ।
ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासमिव प्रजानाम् ॥ ६ ॥
अन्वयः—नभश्चरैः गीतयशाः स नभस्तलश्यामतनुं नभः शब्दमयेन नाम्ना ख्यातं नभोमासमिव प्रजानां कान्तं तनूजं लेभे ।
नभ इति । नभश्चरैर्गन्धर्वादिभिर्गीतयशाः स नलो नभस्तलश्यामतनुं नभःशब्दमयेन नाम्ना ख्यातम् । नभःशब्दसंज्ञकमित्यर्थः । नभोमासमिव श्रावणमासमिव प्रजानां कान्तं प्रियं तनूजं पुत्रं लेभे ।
भाषार्थ—वे इतने यशस्वी थे कि आकाश में गन्धर्व लोग उनका यश गाते थे । उन्हें आकाश के समान साँवला नभ नामक पुत्र हुआ, जो लोगों को वैसे ही प्यारा था जैसा सावन का महीना ॥ ६ ॥
तस्मै विसृज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वम् ।
मृगैरजय्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध ॥ ७ ॥
अन्वयः—धर्मोत्तरः प्रभवे तस्मै तदुत्तरकोशलानाम् प्रभुत्वं विसृज्य जरसा उपदिष्टं मृगैः अजय्यं अदेहबन्धाय बबन्ध ।
तस्मा इति । धर्मोत्तरो धर्मप्रधानः स नलः प्रभवे समर्थाय तस्मै नभसे तदुत्तरकोसलानां प्रभुत्वमाधिपत्यं विसृज्य दत्त्वा जरसा जरयोपदिष्टम् । वार्द्धके चिकीर्षितमित्यर्थः । मृगैरजय्यं तैः सह सङ्गतम् । “अजय्यं सङ्गतम्” इति निपातः । पुनरदेहबन्धाय पुनर्देहसम्बन्धनिवृत्तये बबन्ध मोक्षार्थं वनं गत इत्यर्थः । अदेहबन्धायेत्यत्र प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते ।
भाषार्थ—धर्मात्मा नल ने उस नभ नामके पुत्र को उत्तर कोशल का राज्य
५९८ रघुवंशमहाकाव्ये
सोंप दिया और स्वयं बुढ़ापे के कारण जंगलों में जाकर मृगों के साथ इसलिए रहने लगे कि फिर संसार में जन्म न लेना पड़े ॥ ७ ॥
तेन द्विपानामिव पुण्डरीको राज्ञामजय्योऽजनि पुण्डरीकः ।
शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षमिव श्रिता श्रीः ॥ ८ ॥
अन्वयः—तेन द्विपानां पुण्डरीक इव राज्ञां अजय्यः पुण्डरीकः अजनि पितरि शान्ते आहृतपुण्डरीका श्रीः यं पुण्डरीकाक्षं इव श्रिता ।
तेनेति । तेन नभसा द्विपानां पुण्डरीको दिग्गजविशेष इव राज्ञामजय्यो जेतुमशक्यः । “क्षय्यजय्यौ शक्यार्थे” इति निपातनात्साधुः । पुण्डरीकाख्यः पुत्रोऽजनि जनितः । पितरि शान्ते स्वर्गते सति आहृतपुण्डरीका गृहीतश्वेतपद्मा श्रीयं पुण्डरीकं पुण्डरीकाख्यं विष्णुमिव श्रिता ।
भाषार्थ—नभको पुण्डरीक नाम का पुत्र हुआ, जैसे हाथियों में पुण्डरीक नाम का हाथी सर्वश्रेष्ठ है, वैसे ही उस समय के राजाओं में वे ही सर्वश्रेष्ठ राजा थे । पिता के स्वर्ग चले जाने पर पुण्डरीक ( कमल ) धारिणी लक्ष्मी ने उस पुण्डरीक को ही विष्णु मान कर वर लिया ॥ ८ ॥
स क्षेमधन्वानममोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षम् ॥
क्षमां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश्चचार ॥ ९ ॥
अन्वयः—अमोघधन्वा स प्रजाक्षेमविधानदक्षं क्षमया उत्पन्नं क्षेमधन्वानं पुत्रं क्षमां लम्भयित्वा क्षान्ततरः वने तपः चचार ।
स इति । अमोघं धनुर्यस्य सोऽमोघधन्वा । “धनुषश्च” इत्यनङादेशः समासान्तः । स पुण्डरीकः प्रजानां क्षेमविधाने दक्षं क्षमयोपपन्नं क्षान्तियुक्तं क्षेमं धनुर्यस्य तं क्षेमधन्वानं नाम पुत्रम् । “वा संज्ञायाम्” इत्यनङादेशः । क्षमां लम्भयित्वा प्रापय्य । ‘लभेर्गत्यर्थत्वाद् द्विकर्मकत्वम्’ क्षान्ततरोऽत्यन्तसहिष्णुः सन्वने तपश्चचार ।
भाषार्थ—उस सफल धनुर्धारी पुण्डरीक ने प्रजाओं के कल्याण करने में समर्थ और शान्तस्वभाव वाले अपने पुत्र क्षेमधन्वा को राज सौंप दिया, स्वयं शान्त होकर जंगल में तपस्या करने के लिए चले गये ॥ ९ ॥
अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूत् ।
व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य ॥ १० ॥
अन्वयः—तस्य अपि समरे अनीकिनीनां अग्रयायी देवप्रतिमः सुतः अभूत् । अनीकपदावसानं देवादि यस्य नाम त्रिदिवेऽपि व्यश्रूयत ।
५९९
अष्टादशः सर्गः
अनीकिनीनामिति । तस्य क्षेमधन्वनोऽपि समरेऽनीकिनीनां चमूनामग्रयायी देवप्रतिम इन्द्रादिकल्पसुतोऽभूत् । अनीकपदावसानमनीकशब्दान्तं देवादिदेवशब्दपूर्वं यस्य नाम देवानीकः इति नामधेयं त्रिदिवे स्वर्गेऽपि व्यश्रूयत विश्रुतम् ।
भाषार्थ— उस क्षेमधन्वा को भी इन्द्र के समान पराक्रमी पुत्र हुआ जो युद्ध में सेना के आगे-आगे चलते और जिसका देवशब्द से आरम्भ होने वाला और अनीक शब्द से अन्त होने वाला देवानीक नाम स्वर्ग में भी प्रसिद्ध हो गया ॥ १० ॥
पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन ।
पुत्रस्तथैवात्मजवत्सलेन स तेन पित्रा पितृमान् बभूव ॥ ११ ॥
अन्वयः— सः पिता समाराधनतत्परेण तेन पुत्रेण यथैव पुत्री बभूव तथैव स पुत्रः आत्मजवत्सलेन तेन पित्रा पितृमान् बभूव ।
पितेति । स पिता क्षेमधन्वा समाराधनतत्परेण शुश्रूषापरेण तेन पुत्रेण यथैव पुत्री बभूव । तथैव स पुत्रो देवानीक आत्मजवत्सलेन तेन पित्रा पितृमान् बभूव । लोके पितृत्वपुत्रत्वयोः फलमनयोरेवासीदित्यर्थः ।
भाषार्थ— जिस प्रकार सेवा में तत्पर पितृभक्त पुत्र को पाकर क्षेमधन्वा पुत्रवान् हुए, उसी प्रकार पुत्र को प्यार रखने वाले पिता को पाकर देवानीक भी पिता वाले हुए ॥ ११ ॥
पूर्वस्तयोरात्मसमे चिरोढामात्मोद्भवे वर्णचतुष्टयस्य ।
धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकम् ॥ १२ ॥
अन्वयः— गुणानां एकनिधिः यज्वा तयोः पूर्वः आत्मसमे आत्मोद्भवे चिरोढां वर्णचतुष्टयस्य धुरं निधाय यजमानलोकं जगाम ।
पूर्व इति । गुणानामेकनिधिर्यज्वा विधिवदिष्टवांस्तयोः पितृपुत्रयोर्मध्ये पूर्वं पिता क्षेमधन्वात्मसमे स्वतुल्य आत्मोद्भवे पुत्रे देवानीके चिरोढां वर्णचतुष्टयस्य धुरं रक्षाभारं निधाय यजमानलोकं यष्टृलोकं नाकं जगाम ।
भाषार्थ— गुणों का मुख्य आकार और विधिवत् यज्ञ करने वाले उन दोनों पिता-पुत्रों में क्षेमधन्वा अपने ही समान तेजस्वी पुत्र को चिरकाल से धारण किये गये चारों वर्णों की रक्षा का भार सौंप कर स्वर्ग चले गये ॥ १२ ॥
वशी सुतस्तस्य वशंवदस्तस्वेषामिवासीद् द्विषतामपीष्टः ।
सकृद्विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्ग्रहीतुम् ॥ १३ ॥
अन्वयः— तस्य वशी सुतः वशंवदत्वात् स्वेषां इव द्विषतां अपि इष्टः आसीत् । हि प्रयुक्तं माधुर्यं सकृद् विविग्नान् हरिणान् ग्रहीतुमिष्टे ।
६०० रघुवंशमहाकाव्ये
वशोति । तस्य देवानीकस्य वशी समर्थः सुतोऽहीनगुर्नामेति वक्ष्यमाणनामकः वशं वशकरं मधुरं वदतीति वशंवदः । “प्रियवशे वदः खच्” इति खच्प्रत्ययः । तस्य भावस्तत्त्वम् । तस्मादिष्टवादित्वात्स्वेषामिव द्विषतामपीष्टः प्रिय आसीत् । अथदिवानीकनिर्धारणं लभ्यते । तथाहि प्रत्युक्तमुच्चारितं माधुर्यं सकृदेकवारं विविग्नान्भीतानपि हरिणान्ग्रहीतुं वशीकर्तुमीष्टे शक्नोति ।
**भाषार्थ—**क्षेमधन्वा के जितेन्द्रिय पुत्र देवानीक इतना मधुर बोलते थे कि शत्रु भी उनका वैसा ही आदर करते थे जैसे मित्र, क्योंकि मधुर वचन में ऐसा प्रभाव होता है कि एक बार डराये गए हरिण भी वश में हो जाते हैं ॥ १३ ॥
अहीनगुर्नाम स गां समग्रामहीनबाहुद्रविणः शशास ।
यो हीनसंसर्गपराङ्मुखत्वाद्युवाप्यनर्थैर्व्यसनैर्विहीनः ॥ १४ ॥
**अन्वयः—**अहीनबाहुद्रविणः हीनसंसर्गं पराङ्मुखत्वात् युवा अपि अनर्थैः व्यसनैः विहीनः यः अहीनगुः नाम सः समग्रां शशास ।
अहीनगुरिति । अहीनबाहुद्रविणः । 'द्रविणं काञ्चनं वित्तं द्रविणं च पराक्रमः' इति विश्वः । हीनसंसर्गपराङ्मुखत्वान्नीचसंसर्गविमुखत्वाद्धेतोर्युवाप्यनर्थैरनर्थकरैर्व्यसनैः पानद्यूतादिभिर्विहीनो रहितो योऽहीनगुर्नाम स पूर्वोक्तो देवानीकसुतः समग्रां सर्वां गां भुवं शशास ।
**भाषार्थ—**देवानीक के पुत्र का नाम अहीनगु था । उनकी भुजायें बड़ी शक्तिशाली थीं, उन्होंने कभी नीच लोगों का साथ नहीं किया, इसलिए अनर्थकारी व्यसनों से दूर रहकर वे युवावस्था में ही सारी पृथिवी पर शासन करने लगे ॥ १४ ॥
गुरोः स चानन्तरमन्तरज्ञः पुंसां पुमानाद्य इवावतीर्णः ।
उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव ॥ १५ ॥
**अन्वयः—**पुंसां अन्तरज्ञः चतुरः सः गुरोः अनन्तरं अवतीर्णः आद्यः पुमान् इव अस्खलितैः चतुर्भिः उपक्रमैः चतुर्दिगीशः बभूव ।
गुरोरिति । पुंसामन्तरज्ञो विशेषज्ञश्चतुरो निपुणः सोऽहीनगुश्च गुरोः पितुरनन्ताम्। अवतीर्णो भुवं प्राप्त आद्यः पुमान्विष्णुरिव अस्खलितैरप्रतिहतैश्चतुर्भिरुपक्रमैः सामाद्युपायैः । 'सामादिभिरुपक्रमैः' इति मनुः । चतुर्दिगीशश्चतसृणां दिशामीशो बभूव ।
**भाषार्थ—**अहीनगु बड़े चतुर थे और सबके मनकी बातें जान लेते थे । पिता के बाद राजा होकर वे सफलता के साथ साम, दाम, दण्ड और भेद का प्रयोग करके शीघ्र ही अवतारधारी विष्णु के समान चारों दिशाओं के स्वामी हो गये ॥१५॥
अष्टादशः सर्गः ६०१
तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम्।
उच्चैः शिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ॥१६॥
अन्वयः—अरीणां जेतरि तस्मिन् परलोकयात्रां प्रयाते उच्चैः शिरस्त्वात् जितपारियात्रं तदीयं तनयं लक्ष्मीः सिषेवे किल ।
तस्मिन्निति । अरीणां जेतरि तस्मिन्नहीनगौ परलोकयात्रां प्रयाते प्राप्ते सति उच्चैःशिरस्त्वादुन्नतशिरस्कत्वाज्जितः पारियात्रः कुलशैलविशेषो येन तं पारियात्राख्यं तदीयं तनयं लक्ष्मी राज्यलक्ष्मीः सिषेवे किल ।
भाषार्थ—उस शत्रुविजयी राजा के स्वर्ग चले जाने पर अयोध्या की राजलक्ष्मी उनके प्रतापी पुत्र पारियात्र की सेवा करने लगी, जिन्होंने अपने शिर की ऊँचाई से पारियात्र पर्वत को नीचा दिखा दिया था ॥ १६ ॥
तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः।
जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतामव्रजदीड्यमानः ॥ १७ ॥
अन्वयः—तस्य उदारशीलः शिलापट्टविशालवक्षाः शीलः सूनुः अभवत् यः शिलीमुखैः जितारिपक्षः अपि ईड्यमानः शालीनतां अव्रजत् ।
तस्येति । तस्य पारियात्रस्योदारशीलो महावृत्तः । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । शिलापट्टविशालवक्षाः शिलः शिलाख्यसूनुरभवत् । यः सूनुः शिलीमुखैर्बाणैः । 'अलिबाणौ शिलीमुखौ' इत्यमरः । जितारिपक्षोऽपीड्यमानः स्तूयमानः सन् शालीनतामधृष्टतां लज्जामव्रजदगच्छत् । स्यादधृष्टे तु शालीनः' इत्यमरः । “शालीनकौपीने अधृष्टाकार्ययोः” इति निपातः ।
भाषार्थ—उन्हें शील नाम का बड़ा शीलवान् पुत्र हुआ जिसकी छाती पत्थर की पाटी जैसी चौड़ी थी, यद्यपि उन्होंने बाणों से शत्रु को जीत लिया फिर भी स्तुति करने पर लज्जित रहे ॥ १७ ॥
तमात्मसंपन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव।
सुखानि सोऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञामुपसुरुद्धवृत्तम् ॥ १८ ॥
अन्वयः—अनिन्दितात्मा सः आत्मसम्पन्नं युवानं युवराजं कृत्वा एव सुखानि अभुङ्क्त, हि राज्ञां वृत्तं सुखोपरोधि उपरुद्धवृत्तम् ।
तमिति । अनिन्दितात्माऽगर्हितस्वभावः स पारियात्र आत्मसंपन्नम् । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । युवानं तं शिलं युवराजं कृत्वैव सुखान्यभुङ्क्त । न त्वकृत्त्वेत्येवकारार्थः । किमर्थं युवराजशब्दकरणमित्याशङ्कया-
६०२ रघुवंशमहाकाव्ये
न्याथासुखोपभोगो दुर्लभ इत्याह—सुखोपरोधीति । हि यस्माद्राज्ञां वृत्तं प्रजापाल- नादिरूपं सुखोपरोधि बहुलत्वात्सुखप्रतिबन्धकम् अतएवोपरुद्धवृत्तम् । कारादिवद्- सदृशमित्यर्थः । उपरुद्धस्य स्वयमूढभारस्य च सुखं नास्तीति भावः ।
भाषार्थ— शुद्ध चरित्र वाले पारियात्र ने बुद्धिमान् शील को युवराज बनाने पर ही सुख भोगना आरम्भ किया, क्योंकि राजा रहते हुए उन्हें इतने अधिक काम थे कि उन्हें सुख भोगने के लिए अवसर ही कहाँ मिलता ॥ १८ ॥
तं रागबन्धिष्ववितृप्तमेव भोगेषु सौभाग्यविशेषभोग्यम् ।
विलासिनीनामरतिक्षमापि जरा वृथा मत्सरिणी जहार ॥ १९ ॥
अन्वयः— रागबन्धिषु भोगेषु अवितृप्तम् एव विलासिनां सौभाग्यविशेषभोग्यं तं अरतिक्षमा अपि वृथा मत्सरिणी जरा जहार ।
तमिति । रागं बघ्नन्तीति रागबन्धिनः । रागप्रवर्तका इत्यर्थः । तेषु भोगेषु विषयेष्ववितृप्तमेव सन्तं किंच विलासिनीनां भोक्तॄणां सौभाग्यविशेषेण सौन्दर्यातिशयेन हेतुना भोग्यं भोगार्हम् । "चजोः कु घिण्यतोः" इति कुत्वम् । तं पारियात्रं रतिक्षमदा न भवतीत्यरतिक्षमापि अतएव वृथा मत्सरिणी । रतिक्षमासु विलासिनीष्वित्यर्थः । जरा जहार वशीचकार ।
भाषार्थ— वे अभी भोगों से अघाये नहीं थे और सुन्दरी स्त्रियों से भोग कर ही रहे थे, उन्हें उस वृद्धावस्था ने आ घेरा, जो स्वयं भोगने योग्य न होने पर भी सुन्दरियों से व्यर्थ ही ईर्ष्या करती है ॥ १९ ॥
उन्नाम इत्युद्गतनामधेयस्तस्यायथार्थोन्नतनाभिरन्ध्रः ।
सुतोऽभवत्पङ्कजनाभकल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य ॥ २० ॥
अन्वयः— तस्य उन्नाभ इति उद्गतनामधेयः यथार्थोन्नतनाभिरन्ध्रः पङ्कजनाभकल्पः कृत्स्नस्य नृपमण्डलस्य नाभिः सुतः अभवत् ।
उन्नाम इति । तस्य शिलाख्यस्योन्नाभ इत्युद्गतनामधेयः प्रसिद्धनामा यथार्थं यथा तथोन्नतनाभिरन्ध्रं यस्य सः गम्भीरनाभिरित्यर्थः । तदुक्तं—'स्वरः सत्त्वं च नाभिश्च गम्भीर्यं त्रिषु शस्यते' । पङ्कजनाभकल्पो विष्णुसदृशः कृत्स्नस्य नृपमण्डलस्य नाभिः प्रधानम् । 'नाभिः प्रधानं कस्तूरीमदेऽपि क्वचिदीरितः' इति विश्वः । सुतोऽभवत् । 'अचप्रत्यन्ववपूर्वात्सामलोम्नः' इत्यत्राजिति योगविभागादुन्नामपद्मनाभादयः सिद्धाः ।
भाषार्थ— राजा शील को उन्नाभ नाम का प्रसिद्ध पुत्र हुआ, जिनकी नाभि गहरी थी और जो विष्णु के समान होने के कारण संसार के सभी राजाओं के मुखिया बन गये ॥ २० ॥