भारतकोश
संग्रह पर लौटें

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पञ्चदशः पटलः । ३४१ दिव्यौषधिपुटं पाक्यं¹ रसखोटस्य लक्षणम् ॥ १३८ ॥ एतत्ते कथितं गुह्यं विज्ञेयं² रसवादिभिः । मत्प्रसादेन देवेशि तस्य सिद्धिर्न³ संशयः ॥ १४० ॥ स्नुहीक्षीरं सकाञ्जीकं⁴ बीजानि⁵ कनकस्य च । कञ्चुकी लाङ्गली चेन्द्रवारुणी विषमुष्टिका । पलाश⁶मूलतोयं च मर्दयेत्तेन सूतकम् ॥ १४१ ॥ समे हेम्नि⁷ समं सूतं पिष्टिकां कारयेद्बुधः⁸ । महारसान् पिष्टिकार्थं⁹ मर्दयेदौषधोरसैः ॥ १४२ ॥ यामत्रयं मर्दयित्वा गोलकं कारयेद्बुधः । पिष्टिकां बन्धयित्वा तु गन्धतैले¹⁰ विपाचयेत् ॥ १४३ ॥ अन्धमूषागतं गोलं¹¹ छायाशुष्कं तु कारयेत् । [ ततो लघुपुटं दत्त्वा खदिराग्नौ तु धामयेत् । खोटस्तु जायते हेम्नि सह हेम्ना ह जारयेत् ॥ ]¹² (1) B reads erroneously पाथ. (2) B reads विज्ञतं, which is incorrect. (3) B reads तस्य सिद्धेन. (4) स्नुहीक्षीरस काञ्जिकं, a variant in B. स्नुहिक्षीरस्य काञ्जीकं, a variant in My. (5) My reads बीजकं. (6) K reads पालाश. (7) B and My have समहेम्नि. (8) पिष्टिका काठैद्बुधः, an incorrect variant in D. My reads कारयेत्ततः. (9) महारसान् पिष्टिकारार्थं, an incorrect variant in B. This hemistich and the next one are not found in D. महारसं पिष्टिकार्थं, a variant in My. (10) D has गन्धतैलं, which is inaccurate. (11) D and K have चैव. (12) The śloka within brackets is found only in B and My.

३४२ रसार्णवे अक्षीणे मिलिते¹ हेम्नि समावर्त्तश्च जायते ॥ १४४ ॥ भक्षणादेव सूतस्य² दिव्यदेहो भवेन्नरः । वेधयेत् सर्व्वलोहानि रञ्जितः क्रमितो रसः³ ॥ १४५ ॥ समांशभक्षणं सूतं⁴ मर्दयेद्दोषधौरसैः⁵ । नष्टपिष्टं तु तं कृत्वा पूर्व्वयोगेन धामयेत् ॥ १४६ ॥ खोटस्तु जायते दिव्यः⁶ षोडशांशेन वेधयेत्⁷ । बद्धः⁸ संकलिकाद्योगाद्दिव्येह्यष्टगुणोत्तरम् ॥ १४७ ॥ मृगदूर्व्वा⁹ चन्द्रवल्ली पक्का चिञ्चा¹⁰ तथैव च । कोकिला¹¹ करवीरं च बीजं चोन्मत्तकस्य च । काकाण्डी¹²फलसंयुक्तं मर्दयेत् सुरसुन्दरि ॥ १४८ ॥ समहेम्नि समं सूतं पिष्टिकां कारयेद्बुधः ॥ १४६ ॥ अथवा सारयित्वा तु समेन सह सूतकम् । (1) D reads लिखिते, which qualifies हेम्नि. My wants this charana. (2) D reads तस्याम्भू. The portion beginning with दिव्यदेहो and ending in वेधयेत् is not found in K. (3) D reads क्रामितो रसः. (4) समांसभक्षण सूतं, a variant in B. समांसं भक्षणं सूते, a variant in D. समांश भक्षणं सूते, a variant in K. (5) D reads मर्दयेत दुग्धौरसै, which appears to be incorrect. (6) B, K and My read दिव्य, which is gram. inc. (7) B and My read वेधकः. (8) D reads बद्ध. K reads बद्ध. (9) My reads मृगा दूर्वां. (10) B reads erro- neously पक्वचिन्ता. D reads पक्वांचत्रौ (11) B has काकिला. D has कोकणा My has कंचेला. (12) D reads काकण्डी. K reads झाकडि

पञ्चदशः पटलः । २४१ महारसं पिष्टिकार्थं१ मर्दयेदोषधोरसैः ॥ १५० ॥ यामत्रयं मर्दयित्वा गोलकं कारयेत्ततः२ । अन्धमूषागतं३ गोलं छायाशुष्कं त कारयेत् ॥ १५१ ॥ ततो लघुपुटं दत्त्वा४ प्रातः खोटो भवेत् प्रिये ॥ १५२ ॥ मृगदूर्व्वातमासोम-रसैः५ सूतकचारणम्६ । मूलैस्त्रयाणां लाङ्गल्या रामठेन च हन्यते७ ॥ १५३ ॥ समेन हेम्ना संयुक्तां पिष्टिकां८ कारयेद्बुधः । अथ तारकपिष्टं च९ समसूतेन कारयेत् ॥ १५४ ॥ पूर्ववत् क्रमयोगेण खोटो भवति शोभनः । अन्धमूषागतं१० भूमौ स्वेदयेत् करिषाग्निना ॥ १५५ ॥ पहोरात्रं त्रिरात्रं वा चूर्णबन्धो११ भवेत्ततः । तच्चूर्णबंधः कुरुते१२ वेधं दशगुणोत्तरम् ॥ १५६ ॥


[L1

३४४ रसार्णवे शूलिनौरससूतञ्च¹ स्रोतोऽञ्जनसमन्वितम् । पूर्व्ववत् पिष्टिकाattr/योगात् खोटो भवति शोभनः ॥ १५७ ॥ स्रोतोऽञ्जनं सतगरं² पिष्टिमययुतं रसम्³ । धमयेद्वह्निकसञ्चित्तं⁴ सूतकः सर्व्वकर्म्मकृत् ॥ १५८ ॥ हेमाभ्रं चैव ताराम्रं⁵ शुल्बाम्रं चाम्रतीक्ष्णकम् । वङ्गाभ्रं चैव नागाभ्रं समसूतेन वेधयेत्⁶ ॥ १५९ ॥ यथालाभौषधीघृष्टं⁷ महारससमन्वितम् । हेम्ना तारेण शुल्बेन तीक्ष्णवङ्गोरगैस्तथा⁸ ॥ १६० ॥ एभिर्व्वस्तैः समैःसर्व्वा पिष्टिं कृत्वा समे समाम्⁹ । मारयेत् पूर्व्वविधिना गर्भयन्त्रे¹⁰ तुषाग्निना ॥ १६१ ॥ समांशं सूतकं दत्त्वा वारं वारं पुनः पुनः ।


(1) मृतगौरससूतं च, a variant in D. (2) स्रोतोऽञ्जनशतगुणं, a variant in D. K reads सतगरं. (3) पिष्टिमययुतं रसः, a variant in D., which seems to be incorrect. (4) B reads वह्निप्रसञ्चितं, which has no clear sense. (5) The portion beginning from ताराम्रं and ending in चैव is wanting in K. My has हेमाभ्रकं च ताराम्रं. (6) समसूतेन बंधयेत्, a variant in B and My. D reads समं सूतेन वेधयेत्, K has समं सूतेन बंधयेत्. (7) यथालाभौषधीधृष्टं, a variant in D. यदा लाभीषधीधृष्टं, a variant in My. (8) तीक्ष्णवङ्गरसेन च, a variant in D, which seems to be incorrect. (9) पौठीं कृत्वा समे समाः, a variant in B and My, which is partly correct. D reads समः, which is incorrect. (10) B and D read गर्भपचे. For the description of गर्भयन्त्र vide रस. स. Chap. ix, verses 28 - 31.

पञ्चदशः पटलः। ३४५ जायन्ते विविधाः खोटाः¹ कान्तबद्धो² महारसः ॥ १६२ ॥ भवेत् संकलिकायोगात् वेधो दशगुणोत्तरः ॥ १६३ ॥ खोटः पोटस्तथा³ भस्म धूलिः कल्कश्च⁴ पञ्चमः । एते निगलगोलाभ्यां⁵ सर्व्वबन्धफलोदयाः⁶ ॥ १६४ ॥ शिग्रुसर्व्वभवं क्षारं⁷ भल्लाबीजानि गुग्गुलुः । सैन्धवं द्विगुणं दत्त्वा मर्दयित्वा विचक्षणः ॥ १६५ ॥ पिष्टिकावेष्टनं कृत्वा कल्केनानेन⁸ सुन्दरि । विल्वप्रमाणं कृत्वा तु मूषामतिदृढां शुभाम्⁹ ॥ १६६ ॥ अर्द्धाधो लवणं दत्त्वा मूषामध्ये¹⁰ रसं क्षिपेत् । मूषालेपः प्रदातव्यो¹¹ दग्धशंखादिचूर्णकः¹² ॥ १६७ ॥


(१) जायते-विविधः खोटः, a variant in D, K and My. (२) D reads कान्तवेधो. K and My read कान्तिबद्धो. (३) B and My read पाटस्तथा. (४) D reads काल्कं च. My reads धूलो कल्कं च. (५) D reads कोलाभ्यां. K reads काङ्गाभ्यां. My reads रोगाभ्यां. (६) सर्व्वबंघा फलोदया, a variant in B. सर्व्व बन्धफलो द्विजेत्, a variant in D. सर्व्वबद्धः फलोदया, a variant in My. (७) सुह्वर्कसंभवं चीरं, a variant in B and My. D reads चारौ. सिपुसर्वंभवक्षारं, a variant in K. (८) D has मूखा यनेन. K has मूखामनेन. (९) D has an incomplete hemistich —बिल्वप्रमाण मूखां कृत्वामाटो हृदपभम्. (१०) D and K read मूखामध्ये, which is incorrect. (११) मूषालेपे प्रदातव्यं, a variant in B and My. मूखालिपा प्रहातव्यं, a variant in D. मूखालिपष्प्रदातव्यं, a variant in K. All the texts are incorrect. (१२) All the texts read चूर्वंकम्, which is not, lexicographically correct. 44

मुखं तस्या¹ दृढं बद्ध्वा लोणमृत्तिकया² पुनः । कारयेच्च सुधालेपं³ छायाशुष्कं च कारयेत् ॥ १६८ ॥ उक्तो निगलवन्धोऽयं⁴ पुत्रस्यापि न कथ्यते ॥ १६९ ॥ तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत्⁵ । अहोरात्रप्रमाणेन⁶ पुटं दत्त्वा प्रयत्नतः⁷ ॥ १७० ॥ एवं⁸ मूषा महेशानि रसस्य खोटतां नयेत्⁹ । सुध्यातः¹⁰ खदिराङ्गारैः रसेन्द्रः खोटतां व्रजेत्¹¹ ॥ १७१ ॥ सौवीरं टङ्कणं काचं¹² दत्त्वा खोटं तु शोधयेत्¹³ । अक्षीणे मिलिते¹⁴ हेम्नि समावर्णस्तु जायते ॥ १७२ ॥


(1) D reads मूखा तस्य, which is incorrect. My reads तस्य. (2) D reads लवणमृत्तिकया, which destroys the metre. K reads लोणडत्तिकया, which is incorrect. My reads लोणमृत्तिकया. (3) D has दृढा मूखा. K has दृढां मूर्खा. Both are improper. (4) B and D read निगल- बंधोयं. K reads मुक्तो निगलबंधोयं, wherein the first term is incorrect. (5) मृदुर्घामचतुष्टयोः, a variant in D. मृदुदेयशतष्टयोः, a variant in K. (6) B and My have अहोरात्रं चिरात्रं वा. (7) D reads प्रमाद्यतः. (8) B reads सर्वं. This hemistich is not found in D and My. (9) B has खोटता व्रजेत्. (10) B and My read सुध्मातं. D reads सुध्मांतं, which is incorrect. (11) रसेंद्रं खोटतां नयेत्, a variant in B. रसेन्द्रं खोटतां व्रजेत्, a variant in D. रसेन्द्रो खोटतां नयेत्, a variant in My. The last two readings seem to be incorrect. (12) D reads काचं, which is incorrect. (13) दत्वा दत्वा विशोधयेत्, a variant in B and My. दत्त्वा खोटे तु साधयेत्, a variant in D. (14) D and K read अचिक्षौ मिलितं, wherein the first term is incorrect. अक्षीणौ निर्मलं, a variant in My.

पञ्चदशः पटलः । ३४७ समांशभक्षणं तं तु¹ शुद्धसूतेन कारयेत् । भ्रमयेत् पूर्व्वयोगेन² रसेन्द्रं खोटतां³ नयेत् ॥ १७३ ॥ भवेत् संकलिकायोगात् वेधो दशगुणोत्तरः⁴ ॥ १७४ ॥ पलाशबीजनिर्यासं कोकिलोक्षत्तवारुणि⁵ । शूलिनीरससंयुक्तं⁶ पेषयेत् सैन्धवान्वितम् ॥ १७५ ॥ पिष्टिकावेष्टनं कृत्वा निगलेन तु बन्धयेत् ॥ १७६ ॥ मूषायां निगलो देवि लेपितः शिवशासनात्⁷ । रसस्य परिणामाद्य महदग्निस्थितो⁸ भवेत् ॥ १७७ ॥ अभ्रकस्य तु पत्रेषु वज्रार्कक्षीरसिञ्चना⁹ । ताप्येन लोहकिट्टेन¹⁰ सिकतामृन्मयेन च ॥ १७८ ॥ (1) B and K have समांश भक्षण ततु. D has समांसं भक्ष्यान्तं तु. (2) भ्रमें तमप्रयोगेन, a variant in D. (3) रसेन षोडतां is an incorrect reading in D. My reads erroneously रसेन्द्रो खोटतां. (4) B reads दशगुणोत्तरं, which is incorrect. (5) कोकिलीत्तरवारुणी, a variant in D. (6) शूलीरसेन संयुक्त, a variant in D. (7) B reads सौवसासन. K reads विश्वसासनात्. Both the texts are incorrect. This hemistich and the next one are not found in D and My. (8) B has परीणामाद्या माहदग्निस्थिती. K reads महादग्निस्थितो. Both the texts are incorrect. The text adopted above is also gram. inc. , महाग्निस्थितो is. the proper term, which mars the metre. (9) D reads पचिणा instead of सिञ्चना. K reads वज्रका and My reads वज्रांक instead of वज्रार्क (10) B reads तापैन D reads ताप्येन लोहकठिन, which seems to be. incorrect.

३४८ रसार्णवे एभिस्तु निगलैर्बद्धः¹ पारदोऽयो² महारसः । नातिक्रामति मर्यादां वेलामिव महोदधिः³ ॥ १७९ ॥ तैलार्कक्षीरवाराही⁴-लाङ्गल्या⁵ निगलोत्तमः । काकविट् ब्रह्मबीजानि लाङ्गली निगलो वरः ॥ १८० ॥ वाकुची ब्रह्मबीजानि⁶ कर्कटाक्षीणि सुन्दरि । सामुद्रं साम्बरं⁷ चैव लवणं निगलोत्तमः ॥ १८१ ॥ क्षुद्रार्कसंभवं क्षीरं ब्रह्मबीजानि⁸ कोकिला । करकस्य तु बीजानि लोष्टाष्टांशेन मर्दयेत् ॥ १८२ ॥ निगलोऽन्यस्तु योजिङ्गा-मूलानि क्षीरजोऽपरः । वाकुची ब्रह्मबीजानि⁹ क्षुद्रार्कक्षीरसम्भवम्¹⁰ । ज्वालिनी काकविष्ठा च¹¹ प्रशस्तो निगलोत्तमः ॥ १८३ ॥ लवणं टङ्कणं क्षारं शिला तालकगन्धकम्¹² । तथाऽम्लवेतसं ताप्यं¹³ हिङ्गुलं समभागिकम् । क्षुद्रार्कपयसा युक्तं पेषयेन्निगलोत्तमम्¹⁴ ॥ १८४ ॥

(1) निगलैबधः is the incorrect reading in D. (2) D reads पारदोऽयं. (3) D reads महोदधेः, which is gram. inc. (4) D and K have वाराहि. My has ताडारि. (5) B and My read लाङ्गल्या. (6) B reads काकची ब्रह्मबीजानि. The portion from कर्कटाक्षीणि upto ब्रह्म- बीजानि is wanting in D. (7) My reads सैम्भवं. (8) K reads शश्वरीजानि. (9) B has वाकुचित्रं ब्रह्मबीजानि. (10) D has सम्भवेः, which is not proper. (11) D reads तु. K reads ज्वालिचि, which is incorrect. (12) B reads तारकगन्धकं. (13) D has an absurd variant ताम्रान् प्रवैत समाप्य.. तिक्ताम्ले वेतसं ताप्यं, a variant in My. (14) D reads निगलोत्तमः.

१८५ ॥ Visual Line 4:द्वितीयं⁴ गोलकं वक्ष्ये पिष्टिकासम्भ⁵मुत्तमम् ॥ १८६ ॥ Visual Line 5:द्विपदौरजमूत्राणि सैन्धवाभ्रं च गुग्गुलुः⁶ । Visual Line 6:पिष्टीं संवेष्ट्य कल्केन मृदा तु पुनरष्टधा ॥ १८७ ॥ Visual Line 7:तुषकर्षाग्निना भूमौ⁷ मृदुस्वेदं तु कारयेत् । Visual Line 8:अहोरात्रं त्रिरात्रं वा⁸ पूर्व्ववत् खोटतां⁹ नयेत् ॥ १८८ ॥ Visual Line 9:वाकुची ब्रह्मबीजानि¹⁰ गगनं विमलं मक्षिम्¹¹ । Visual Line 10:सौवर्चलं¹² सैन्धवञ्च टङ्कणं गुग्गुलुं तथा¹³ ॥ १८९ ॥ Visual Line 11:द्विपदौरजसा मूत्रं¹⁴ सुश्लक्ष्णं तच्च¹⁵ मर्दयेत् । Visual Line 12:पिष्टीं संवेष्ट्य¹⁶ कल्केन पूर्व्ववत् खोटतां¹⁷ नयेत् ॥ १९० ॥ (Divider rule) Visual Line 13:(1) परिवेष्टयेद्देवा, an incomplete charana in

३५० रसार्णवे विषबीजं¹ ब्रह्मबीजं बीजानि कनकस्य च । मूलानि यवचिञ्चायाः² लाङ्गली चेन्द्रवारुणी ॥ १८१ ॥ कोकिलाक्षंस्नुहीक्षीरं³ सैन्धवाभ्रकगुग्गुलु । पिष्टीं संवेष्ट्य⁴ कल्केन पूर्व्ववत् खोटतां नयेत् ॥ १८२ ॥ लाङ्गली ब्रह्मबीजानि विष्ठा काकस्य गुग्गुलुः । श्वेताश्कमारमूलानि मूलं कनकवारुणी ॥ १८३ ॥ तैलं सैन्धवसंयुक्तं मर्दयेत्तद्विचक्षणः । पिष्टीं संवेष्ट्य कल्केन पूर्व्ववत् खोटतां नयेत् ॥ १८४ ॥ वाकुची ब्रह्मबीजानि जीरकद्वयगुग्गुलु । सैन्धवाभ्रं कुलीरास्थि टङ्कणं ज्वलिनीरसः⁵ ॥ १८५ ॥ पिष्टीं संवेष्ट्य कल्केन मृदा तु पुमरुष्टधा । तुष⁶कर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ॥ १८६ ॥ अहोरात्रं त्रिरात्रं वा⁷ रसेन्द्रं खोटतां⁸ नयेत् । दशसंकलिकायोगात्⁹ शब्दवेधी महारसः¹⁰ ॥ १८७ ॥

(1) B reads वीषबीजं. D reads व्याघ्रीबीज. (2) D reads यव चिंचाया. K reads मुखानि यवचिंचाया. Both are incorrect. (3) K has कोकिलाक्षस्नुहीक्षीरं, which is incorrect. My has बुद्धिचीर. (4)

पञ्चदशः पटलः । ३५१ शङ्करस्य द्विभागन्तु पारदस्य त्रयं¹ तथा । पिष्टिकां कारयेत्तेन तप्तखल्ले तु काञ्जिके² ॥ १६८ ॥ पूर्व्ववन्निगलोपेतं³ खोटं कृत्वा तु वेधयेत् । दशसंकलिकायोगात्⁴ शब्दवेधी⁵ महारसः ॥ १६६ ॥ बद्धसूतकराजेन्द्र शिलागन्धकमाक्षिकैः । कान्तपाषाणचूर्णेन भूलताभिः समन्वितः ॥ २०० ॥ ध्मातो मूषागतश्चैव⁶ रसोऽयं⁷ सुरवन्दिते । रसांश्चोपरसान् लोहान्⁸ रत्नानि च मणींस्तथा⁹ । प्रकाश्यमूषागर्भे च¹⁰ ग्रसते वडवानलः¹¹ ॥ २०१ ॥ माक्षिकं दरदञ्चैव गन्धकं च मनःशिला¹² । (1) पारदत्रितयं is the reading in D. (2) तदा खल्ले तु काञ्जिकम्, a variant in D. (3) पूर्व्वनिगलोपेतं, an incomplete variant in D. (4) दशमण्डलिकायोगात्, a variant in M. (5) D and My read शत- वेधी. The ślokas 198th and 199th are not found in B and K. (6) B has मूषागते चैव. D has मूषागतो नैव. M has ध्माते मूषागतेनैव. My has मूषागतेनैव. All the texts seem to be incorrect. (7) B reads दृढोऽयं. (8) K reads चैव. (9) D reads रत्नमणींस्तथा. K and My read मणींस्तथा. M reads मणींस्तथा. (10) प्रकाश्यमूषया गर्भे, a variant in B. प्रकाश्यमूषाया गर्भो, a variant in D. प्रकाश्यमुखगर्भे च, a variant in K. प्रकाश्यमृषामध्यगतो, a variant in M. प्रकाश्यमूषाया गर्भे, a vari- ant in My. All the texts are more or less incorrect. (11) ग्रसते चतुरङ्गुलोन्नतः, a variant in D, which is senseless. My reads वडवानिलः. (12) D has समं शिलाम्, which is incorrect.

३५२ रसार्णवे राजावर्त्तं प्रवालं च कङ्कुष्ठं तुत्थकं¹ तथा ॥ २०२ ॥ पीतरक्तगवेर्भाथ्यं कङ्गुणी²तैलमिश्रितम् । खोटं इष्टिकया पक्वं³ द्रुतं हि नलिके क्षिपेत्⁴ ॥ २०३ ॥ इच्छां तु सिकतां⁵ दत्त्वा त्रिरात्रमपि धामयेत्⁶ ॥ २०४ ॥ क्षारक्षालेन तत् स्विन्नं⁷ दोलायां घृतमेव च⁸ । एवं संरञ्जितः⁹ सूतः शरीरधनकृद्¹⁰भवेत् ॥ २०५ ॥ उद्घाटः परमः¹¹ प्रोक्तः सर्व्वकर्म्महितः परः¹² । द्रवौ पतङ्गी¹³ दुर्द्भावी दुर्म्भेली नैव जायते । वर्णान्यत्वञ्च कुरुते¹⁴ स्फोटयेद्वरवर्णिनि¹⁵ ॥ २०६ ॥ (1) D reads कुष्ठं तुथकं, which seems to be incorrect. (2) B reads कंगुणि. M reads कुङ्गुणी. My reads कंगुणी. (3) M has भिष्टी- कषापक्वं, which seems to be incorrect. (4) द्रुतं हि नलिकां पचेत्, a variant in B. द्रुतं हि नलिकं क्षिपेत्, a variant in D. द्रुतं हि नलिका क्षिपेत्, a variant in K. द्रुतं ही नालिकां पचेत्, a variant in M. द्रुतं हि नलिकां पचेत्, a variant in My. (5) D reads सिक्रातां, which is incorrect. M reads आच्छां तु सिकतां. (6) D and K read धारयेत्. (7) D reads तस्विन्नं, which seems to be incorrect. (8) B reads डोलायां. M and My read डोलायां द्रुतमेव च. (9) B reads सुरञ्जितः. K reads संरचितः. M reads स गदितः. My reads सलब्धितः. (10) B reads शरीरदृढकृद्. (11) M reads उत्खोटः. My reads उद्घाटः पंचमः. (12) B and K read परं. (13) M reads घिवौ पतङ्गी. (14) D reads वर्ण्यं लचं प्रकुरुते, which appears to be incorrect. (15) स्फटयेद्वरवर्चिनी, a variant in B. D reads वरवर्धिनी, which is incorrect. K has स्फोटवद्वरवर्विनि. My has खोटयेद्वरवर्चिनि.

पञ्चदशः पटलः । ३५३ बन्धमेवं¹ द्रुतं कृत्वा कुरुते वज्रजारणम्² । तसमाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ २०७ ॥ इति श्रीपार्व्वतीपरमेश्वरसंवादे³ रसार्णवे रससंहितायां वज्रबन्धो नाम⁴ पञ्चदशः पटलः ॥ १५ ॥ (1) B reads बद्धमेवं. D and My read बद्धमेव. M reads बन्धमेतत्, which is grammatically incorrect. (2) कुरु वज्राणि जारणं, a variant in K. कूरि वस्त्राणि जारणम्, an incorrect variant in M. My reads कुरु वज्राधिजारणं. (3) B, M and My want this line. (4) D, M and My have पिष्टिसन्धानं नाम. K has पिष्टिसत्त्वमहारसोपरसलोहवधो नाम 45

िकां."

Line : "दोलायन्त्रे¹⁵ सुरेशाति स्वेदयेद्दिवसत्रयम्।" Wait, look at "सुरेशाति" vs "सुरेशानि": Look at the third/fourth letters: सु - रे - शा - नि Wait! Is it 'नि'? Look at 'नि': न with short i: नि! Wait, but is it 'सुरेशानि' (sureśāni) = vocative for Parvati (सुरेशानी / सुरेशाने / सुरेशानि)? Yes, Shiva is speaking to Devi: "सुरेशानि" (O Sureshāni / ruler of gods)! Wait, let's look at the letter: 'शा' or 'श'? It has 'श' and 'ा' (aa): शा. Then 'नि'. "सुरेशानि"! Yes, Shiva addresses Parvati as "सुरेशानि"! That makes perfect sense.

Line : "अनेन क्रमयोगेण मृतः सूतो¹⁶ भवेद्द्रुतः¹⁷ ॥ ५ ॥"

Now let's check the footnotes: Line : (1) M has देव्युवाच. (2) B reads शुद्धस्य. (3) D reads Line : रसस्रजस्य, which is incorrect. (4) B reads erroneously द्रावणमोश्वरि. Line : (5) B and D

षोडशः पटलः । ३५५ चार्द्रकं मूलकं शुण्ठी लसुनं हिङ्गु माक्षिकम् । त्रिक्षारं पञ्चलवणं कांची कासीसगन्धकम्¹ । अम्लवर्ग²समायुक्तं गोलकं कारयेत् प्रिये ॥ ६ ॥ तस्य मध्यगता पिष्टी³ दोलायां स्वेदनेन तु⁴ । द्रवते नात्र सन्देहो द्रुतं जारयते रसम्⁵ ॥ ७ ॥ बद्धं महारसं⁶ देवि द्रावयेत् पादयोगतः । द्रुतपादे ततो देयं⁷ द्रावयित्वा पुनर्द्रवेत्⁸ ॥ ८ ॥ एवं बद्धं द्रुतं कृत्वा समद्वित्रिगुणादिकम्⁹ । तस्मिन् द्रुते जारणा च¹⁰ कर्त्तव्या कर्मवेदिभिः ॥ ६ ॥ कुकुटीकन्दमार्जारी¹¹ उच्चटापोखरी तथा¹² ।


(1) कांचिकोशीसगन्धकम्, a variant in D. कांचीकोशीसगन्धक, a variant in K. काचीमांसीसगन्धकम्, a variant in M. (2) B and My read चाग्लवर्ग. M reads वम्लवर्ग. (3) तस्य मध्यगतं पिष्ट, a variant in D. तस्य मध्ये गतां पिष्टिं, a variant in K. My has an incomplete charana— तस्य ता पिष्टि. (4) D reads दोलायम्ब स्वेदयेन्न तु, which is incorrect. डोलायां खादनेन तु, a variant in M, which is partly correct. My reads डोलायां. (5) D reads रसे. M reads रसं:. Both are incorrect. (6) D reads महारसे, which is incorrect. We do not find the 8th, 9th and 10th ślokas in My. (7) द्रुत पादसतो देयः, a variant in D. द्रुत- पारदरोधाय, a variant in M. (8) M reads पुनर्दमेत्, which is incor- rect. (9) K reads समं द्विविगुणादिकम्. M reads सप्तद्विविगुणाधिकम्. (10) M reads चारणा च. (11) कर्कटीकन्दमार्जाय, a variant in D. कुकुटीकन्द्यार्त्ताव, a variant in K. (12) सर्पाय मामरी तथा. a variant in D. खपाय माप्तरो तथा, a variant in K.

३५६ रसार्णवे क्षीरकञ्चुकया युक्तं¹ खेदितं च द्रुतं² रसम् ॥ १० ॥ द्रुतं दोलादिसंभिन्नं³ कुक्कुटाद्यै⁴र्दिनत्रयम् । आर्द्रकाद्यैर्द्रुतञ्चैव⁵ तत्सूतं स्वेदतां⁶ व्रजेत् ॥ ११ ॥ वज्रं⁷ द्रुतं यथा⁸ सूतं जारयेत्⁹ सुरवन्दिते । ईश्वरस्तस्य¹⁰ विज्ञेयो देवदेवो¹¹ जगद्गुरुः¹² ॥ १२ ॥ विधाय खोटं यत्किञ्चित्¹³ मृतकोत्थापिते रसे¹⁴ । षड्गुणं हेम जार्यं तु सारयेत् सारणात्रयम्¹⁵ ॥ १३ ॥ क्रोशांशेन¹⁶ तु तेनैव मुखवेधं¹⁷ प्रदापयेत् । जायते कनकं दिव्यं देवाभरणभूषणम् ॥ १४ ॥ पुनस्तत्तु¹⁸ रसेन्द्रस्य वज्ररत्नानि जारयेत्¹⁹ । (1) क्षीर कञ्चुकया युक्त, a variant in D. (2) सेवितं च द्रुतरसः, a variant in D. M reads मृत. (3) D has दोलःसंसित कर्क. K has दोलादिसंमित--, an incomplete charana. M and My read दोलादिसंभिन्नं. (4) B reads कक्रमाद्या. D reads कर्कटाद्यै. K reads कर्कटाद्यै. (5) B and K read आर्द्रकादि. D reads आर्द्रकादि धृते चैव, which seems to be incorrect. This charana and the next nine ones are not found in My. (6) B and M read स्वच्छतां. D and K read खेदतां. (7) B and M read वज्र (8) K reads यदा. (9) D reads पारदः, which seems to be incorrect (10) M reads ईश्वरस्तं तु. (11) M reads देवदेव्या. (12) D reads erroneously देवदेवात्र भवद्गुरुम्. (13) D reads त पङ्क्ति, which is incorrect. (14) मृतकोत्थापितो रसः, a variant in M. (15) B reads सारणात्रये. (16) D has वधा- शेन, which is senseless. (17) D reads शुल्वं वन्धं. (18) B has पुनस्तन्तु D has पुनस्त. K has पुनस्तस्य. (19) D reads कारयेत्.'

षोडशः पटलः । ३५७ प्रकाशमूषागर्भे च दृढाग्नौ जरते क्षणात्¹ ॥ १५ ॥ उन्नटा²मीननयना सर्पाक्षी³रक्तचित्रकैः । एतैः रत्नं द्रवेत्याशु⁴ नीलमणिक्यमौक्तिकम्⁵ ॥ १६ ॥ विष्णुकान्ता च चक्राङ्गा⁶ कुमारी गविचिञ्चिका⁷ । वज्राणि पद्मरागाश्च⁸ राजावर्त्तादिसन्यकम्⁹ । ओषधीनां द्रवं दत्वा तप्ते¹⁰ सूते विनिक्षिपेत् ॥ १७ ॥ पश्चाद्रत्नानि देयानि द्रवन्ति सलिलं यथा ॥ १८ ॥ दोलायां¹¹ खेदयेद्देवि विडयोगेन¹² जारयेत् । प्रकाशमूषागर्भे च दृढाग्नौ जारयेत् क्षणात् ॥ १८ ॥ शङ्खेनैवार्कदुग्धेन¹³ पुटेन शतवावितम् । तत्तोजं¹⁴ क्षारसंयुक्तमम्लवर्गेण¹⁵ भावयेत्¹⁶ ॥ २० ॥ (1) D and K read जायते क्रमात्. (2) D reads उन्नसे, which is incorrect. (3) D has साप्यांजी, which is unintelligible. K has सर्पाक्षि. (4) एते रत्नप्रवन्त्यांसु, an incorrect variant in D. M reads द्रुवन्त्याशु, which is incorrect. (5) तिलमाणिक्यमौक्तिकं, a variant in K, which is not correct. (6) D reads चक्राङ्गा. M reads चक्राङ्गी. (7) D has पञ्चचिंचिका. (8) D and K read पद्मराग च. (9) K reads सःस्ककां, which is incorrect. (10) D reads तथा. K reads ततः. (11) D reads दोलायन्त्रे, which destroys the metre. (12) D reads वीरयोगेन, which is incorrect. (13) K reads शनेवार्कदुग्धेन, which destroys the metre. (14) B reads तडिङ्. D reads तडिज्ञ. M reads तत्पिच्छौ. (15) B and M read क्षारलयवर्गै. (16) B and M read भावितम्.

३५८ रसार्णवे विड्‌हिङ्गुलसंयुक्त¹-राजावर्त्तप्रवालकैः² । गन्धकः शिलया युक्तः³ खोटानां जारणे हितः⁴ ॥ २१ ॥ मूषालेपादिसंयोगात्⁵ वह्नहेम्नो हि जारणम्⁶ । तत्क्षेपाज्जायते देवि⁷ विड्यॊगेन जारणम्⁸ ॥ २२ ॥ पश्चाद्धेम प्रदातव्यं षट्त्रिंशांशद्रवेण च⁹ ॥ २३ ॥ ततो वै सूतराजस्य जायते रश्मिमण्डलम्¹⁰ । तिर्यगूर्ध्वमधोव्यापि¹¹तेजःपुञ्जेन पूरितम् ॥ २४ ॥ इत्थं शुद्धो भवेत् सूतः¹² चिन्तामणिरिव¹³ स्वयम् । सदेवैः पूज्यते सिद्धैः¹⁴ द्वितीय इव शङ्करः¹⁵ ॥ २५ ॥ (1) विड़्‌हिङ्गुलसंयुक्तं, a variant in M. (2) राजावर्त्तं प्रवालकैः, a variant in D. राजावर्त्त प्रवालकम्, a variant in M. (3)

षोडशः पटलः । ३५८ लोकानुग्रहकर्त्ता च भुक्तिमुक्तिप्रदायकः । जारयेच्च महानीलं तत्त्वसंख्याक्रमेण¹ तु ॥ २६ ॥ भ्रमते दक्षिणावर्त्तस्तदासौ खेचरो रसः² । वेधयेत् सर्व्वलोहानि भारसंख्यानि³ पार्व्वति ॥ २७ ॥ एवं जीर्णस्य सूतस्य शृणु कापालिरञ्जनम् ॥ २८ ॥⁴ शुल्वपत्रपलैकं तु⁵ पलार्द्धं⁶ गन्धकस्य च । टङ्कणं कर्षमेकं तु कर्षैकां रसकज्जलीम्⁷ ॥ २९ ॥ माक्षिकं⁸ कर्षमेकं तु सर्व्वमेकत्र कारयेत्⁹ । अन्धमूषागतं ध्मातं खोटो¹⁰ भवति तत्क्षणात् ॥ ३० ॥ तं खोटं सूक्ष्मचूर्णन्तु चणकाम्लेन¹¹ मर्दयेत् । आरण्य¹²गोमयेनैव पुटान्¹³ दद्याच्चतुर्दश ॥ ३१ ॥ इन्द्रगोपकसंकाशं जायते नात्र संशयः ॥ ३२ ॥ तच्चूर्णं मधुना युक्तं शुद्धतारं तु रञ्जयेत् । (१) D reads ततः संख्याक्रमेण. (२) तदासौ खेचरगो रसः, a variant in B. सूदासङ्गो खेचरो रसः, a variant in M, which is incorrect. (३) M reads क्षारसंख्यानि, which is incorrect. (४) After this hemistich we find in B अतः परं प्रवक्ष्यामि शृणु कापालिरंधनं ; in D अतः पर कजापालनी ; in K अतः परं कपालिनि. (५) D has शुल्यपवकपौकं तु, which is incor- rect. K has शुल्यपत्रं पलैकं तु. (६) B reads पलैकं. (७) कर्षैकं रसकज्जलीं, a variant in B. कर्षैकं रसकज्जलं, a variant in D. कर्षैका रस- कज्जली, a variant in M. (८) B reads माचीकं. (९) M reads मर्दयेत्. (१०) M reads खोट्टी. (११) B and K read दद्युम्नाम्लेन. M reads विङ्गाम्लेन. (१२) D reads चरण्य. (१३) B, K and M read पुटं.

३६० रसार्णवे रञ्जयेत् त्रीणि वाराणि¹ शोभनं हेम जायते² ॥ ३३ ॥ एष कापालिको योगः सर्व्वलोहानि रञ्जयेत् । रञ्जयेद्वङ्गसूतं च³ वज्रवञ्च⁴ रञ्जयेत् ॥ ३४ ॥ आरचूर्णपलैकं वा⁵ मृतनागपलं तु वा⁶ । वङ्गाभ्रकपलैकं वा⁷ तीक्ष्णचूर्णपलं तु वा⁸ ॥ ३५ ॥ त्रिशूल्खं नागवङ्गौ वा⁹ एकैकांशसमन्वितम्¹⁰ । त्रिशूल्खं गैरिकैकैक¹¹मथवा तीक्ष्णमाक्षिकम् ॥ ३६ ॥ अथवा तीक्ष्णभागौ द्वौ त्रयो घोषा नवोरगाः¹² । ताम्रस्य नव भागाः स्युरारभागचतुष्टयम्¹³ ॥ ३७ ॥ अथवा देवदेवेशि माक्षिकस्य पलद्वयम् । मयूरग्रीवतुत्थैकं¹⁴ मृतनागपलं तथा ॥ ३८ ॥ (1) त्रीणि वाराणि is grammatically incorrect. This hemistich and the next one are not found in D (2) K reads जायन्ते, which is not correct. (3) M reads रजयदेवङ्गसूननेन. (4) D and M read वज्रवङ्गं च. (5) D reads च. भारचूर्णं पलैकञ्च, a variant in K. M reads तु. (6) मृतनागं पलं तु च, a variant in D. K reads च. (7) D reads तु. वंगाभ्रकं पलैक च, a variant in K. (8) B reads च वा. D reads तीक्ष्णचूर्णं ये तु वा, which is incorrect. तीक्ष्णचूर्णं पलं तु वा, a variant in K. (9) M has नागवङ्ग वा. (10) D reads समन्वितः. K reads एकैकं तु समन्वितं. (11) विशूल्कं गैरकं चैव, a variant in D. त्रिशुल्खं गैरिकैकं वा, a variant in M. (12) D reads त्रयो दोषा. M reads नवोरसाः. Both are incorrect. (13) D has तारभागचतुष्टयम्. K has सारभागचतुष्टयं. (14) K reads मयूरुग्रीवं तत्थैव, which is incorrect. This hemistich and the next two are not found in M.