ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
६. षष्ठ सर्ग: वसन्त वर्णन (आम्र-मञ्जरी, कोकिल-कूजन व नव-जीवन)
७८ ऋतुसंहारे नानामनोज्ञकुसुमद्रुमभूषितान्ता- न्हृष्टान्यपुष्टनिनदाकुलसानुदेशान् । शैलेयजालपरिणद्धशिलातलौघा- न्दृष्ट्वा जनः क्षितिभृतो मुदमेति सर्वः ॥२५॥ नानेति ॥ सर्वो जनो लोको नाना नानाजातीया मनोज्ञाः सुन्दरा ये कुसुमद्रुमाः पुष्पवृक्षास्तैर्भूषिताः शोभिता अन्ताः प्रान्तभागा येषां तांस्तथोक्तान् । हृष्टा हर्षिता येऽन्यपुष्टाः कोकिलास्तेषां निनदैः शब्दैराकुला व्याकुलाः सानुदेशाः प्रस्थप्रदेशा येषां तांस्तथोक्तान् । ‘स्नुः प्रस्थः सानुरस्त्रियाम्’ इत्यमरः । शैलेयजालेन परिणद्धा व्याप्ताः शिलातलानामो- घाः समुदाया येषां तांस्तथोक्तान्क्षितिभृतः पर्वतान्दृष्ट्वा मुदं हर्षमेति प्राप्नोतीत्यर्थः ॥ नेत्रे निमीलयति रोदिति र्याति शोकं घ्राणं करेण विरुणद्धि विरौति चोच्चैः । कान्तावियोगपरिखेदितचित्तवृत्ति- र्दृष्ट्वाध्वगः कुसुमितान्सहकारवृक्षान् ॥२६॥ नेत्रे इति ॥ कान्ताया वियोगेन विरहेण परिखेदिता खिन्ना चित्तवृत्तिर्यस्य स तथोक्तोऽध्वगः पथिकः कुसुमिता- न्मञ्जरीयुतान्सहकारवृक्षानाम्रवृक्षान् । ‘आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः’ इत्यमरः । दृष्ट्वावलोक्य नेत्रे लोचने निमीलयति पिधत्ते । तद्दर्शनस्य संतापाधिक्यजनकत्वात् । १. ‘भूषिताग्रान्’; ‘भूषिताङ्गान्’. २. ‘संधिदेशान्’. ३. ‘तलान्तान्’; ‘गुहान्तान्’. ४. ‘समुपैति सर्वान्’. ५. ‘निमीलति; विरोदिति’. ६. ‘याति मोहम्’; ‘जातमोहान्’. ७. ‘प्राणान्’. ८. ‘नरः’.
षष्ठः सर्गः । ७९ रोदिति क्रन्दति शोकं याति । तत्समये प्रेयसीप्राप्त्यभावात् । घ्राणं करेण हस्तेन विरुणद्धि । तदीयसौगन्ध्यस्यापि संता- पाधिक्यजनकत्वात् । उच्चैरुच्चस्वरेण विरौति । हा कान्ते इति शब्दं करोतीत्यर्थः ॥ समदमधुभराणां कोकिलानां च नादैः कुसुमितसहकारैः कर्णिकारैश्च र॑म्यः । इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां तुदति कु॑सुममासो मन्मथोत्तेजनाय ॥२७॥ १. 'रम्यैः'. २. 'कुसुमवाणो मन्मथोद्दीपनाय.' २७ श्लोकस्यान्ते इमे श्लोका दृश्यन्ते— रुचिरकनककान्तीन्मुद्गतः पुष्पराशी- न्मृदुपवनविधूतान्पुष्पितांश्चूतवृक्षान् । अभिमुखमभिवीक्ष्य क्षामदेहोऽपि मार्गे मदनशरनिघातैर्मोहमेति प्रवासी ॥ परभृतकलगीतैर्ह्लादिभिः सद्द्वचांसि स्मितदशनमयूखान्कुन्दपुष्पप्रभाभिः । करकिसलयकान्तिं पल्लवैर्विद्रुमाभै- रुपहसति वसन्तः कामिनीनामिदानीम् ॥ कनककमलकान्तेराननैः पाण्डुगण्डै- रुपरिनिहितहारैश्चन्दनाः स्तनार्नैः । मदजनितविलासैर्दृष्टिपातैर्मुनीन्द्रा- न्स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥ मधुसुरभिमुखाब्जं लोचने लोध्रताम्रे नवकुरुबकपूर्णः केशपाशो मनोज्ञः । गुरुतरकुचयुग्मं श्रोणिबिम्बं तथैव न भवति किमिदानीं योषितां मन्मथाय ॥
८० ऋतुसंहारे समदेति ॥ रम्यः सुन्दरः कुसुममासो वसन्तसमयः सम- दा मदसहिता ये मधुकरा भ्रमरास्तेषां कोकिलानां च नादैः। कुसुमिताः संजातकुसुमाः सहकारा आम्रवृक्षास्तैः कर्णिकारै- र्द्रुमोत्पलैः । सुतीक्ष्णैरतिनिशितैरिषुभिर्बाणैरिव । मन्मथोद्वे- जनायोद्वेजयन्मानिनीनां मानवतीनां मानसं तुदति व्यथय- तीत्यर्थः । मालिनीवृत्तमेतत् । लक्षणं तूक्तम् ॥ आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनु- र्ज्या यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम्। मत्तेभो मलयानलः परभृताँ यद्वन्दिनो लोकजि- त्सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः२८ आकम्पितानि हृदयानि मनस्विनीनां वातैः प्रफुल्लसहकारकृताधिवासैः । संबाधितं परभृतस्य मदाकुलस्य श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ॥ रम्यः प्रदोषसमयः स्फुटचन्द्रभासः पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः । मत्तालियूथविरुतं निशि शीधुपानं सर्वं रसायनमिदं कुसुमायुधस्य ॥ छायां जनः समभिवाञ्छति पादपानां नक्तं तथेच्छति पुनः किरणं सुधांशोः । हर्म्ये प्रयाति शयितुं सुखशीतलं च कान्तां च गाढमुपगूहति शीतलत्वात् ॥ मलयपवनविद्धः कोकिलेनाभिरम्यः सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः । विविधमधुपयूथैर्वेष्ट्यमानः समन्ता- द्भवतु तव वसन्तः श्रेष्ठकालः सुखाय ॥
षष्ठः सर्गः । ८१ आम्रीति ॥ यस्याम्राम्रसंबन्धिनी मञ्जुला सुन्दरा म- ञ्जरी वरशरा उत्कृष्टा वाणाः सदुत्तमं किंशुकं पलाशकुसुमं धनुः । यस्यालिकुलं भ्रमरसमूहो ज्या गुणः । यस्य कल- ङ्करहितं सितं श्वेतं छत्रं सितांशुश्चन्द्रः । यस्य मत्तेभो मत्तगजो मलयानिलो मलयसंवन्धी पवनः । यस्य वन्दिनो वैतालिकाः परभृतः कोकिलाः । लोकजिद्वसन्तेनान्वितो युक्तः सोऽयं वितनुरनङ्गो वो युष्मभ्यं भद्रं कल्याणं वित- रीतरीतु ददात्वित्यर्थः । शार्दूलविक्रीडितं वृत्तम् । तल्लक्षणं तु वृत्तरत्नाकरे—‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्री- डितम्’ इति ॥ पूजितो न जगदीश्वरो मया नापि विश्वजननी सुसेविता । किंतु यत्प्रलपितं निजेच्छया तत्र सद्गुरुकृपैव कारणम् ॥ वेदचन्द्रवसुभूमि—( १८१४ )—वत्सरे माघसूर्यसितपञ्चमीतियौ । व्योमपुष्करनगै—( ७०० )—र्मिताकृतिः पूरिता हि मणिरामशर्मणा ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृत्तुसंहारे महाकाव्ये वसन्तवर्णनं नाम षष्ठः सर्गः ।
The provided image is completely blank (contains no text or content). Please provide a valid page image to transcribe.
महाकविश्रीकालिदासकृतं शृङ्गारतिलकम् । बाहू द्वौ च मृणालमास्यकमलं लावण्यलीलाजलं श्रोणीतीर्थशिला च नेत्रशफरी धम्मिल्लशैवालकम् । कान्तायाः स्तनचक्रवाकयुगलं कंदर्पबाणानलै- र्दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम्॥ आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रहं प्रार्थये । व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहुग्रहः कंदर्पे हरनेत्रदीधितिरियं प्राणेश्वरे मन्मथः ॥२॥ इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन । अङ्गानि चम्पकदलैः स विधाय वेधा कान्ते कथं घटितवानुपलेन चेतः ॥३॥ एको हि खञ्जनवरो नलिनीदलस्थो दृष्टः करोति चतुरङ्गबलाधिपत्यम् । किं मे करिष्यति भवद्वदनारविन्दे जानामि नो नयनखञ्जनयुग्ममेतत् ॥४॥ ये ये खञ्जनमेकमेव कमले पश्यन्ति दैवात्क्वचि- त्ते सर्वे कवयो भवन्ति सुतरां प्रख्यातपृथ्वीभुजः ।
[ २ ] त्वद्वक्त्राम्बुजनेत्रखञ्जनयुगं पश्यन्ति ये ये जना- स्तेते मन्मथबाणजालविकला मुग्धे किमित्यद्भुतम् ५ झटिति प्रविश गेहे मा बहिस्तिष्ठ कान्ते ग्रहणसमयवेला वर्तते शीतरश्मेः । तव मुखमकलङ्कं वीक्ष्य नूनं स राहु- र्ग्रसति तव मुखेन्दुं पूर्णचन्द्रं विहाय ॥ ६ ॥ कस्तूरीवरपत्रभङ्गनिकरो भ्रष्टो न गण्डस्थले नो लुप्तं सखि चन्दनं स्तनतटे धौतं न नेत्राञ्जनम् । रागो न स्खलितस्तवाधरपुटे ताम्बूलसंवर्धितः किं रुष्टासि गजेन्द्रमत्तगमने किं वा शिशुस्ते पतिः ७ नाहं नो मम वल्लभश्च कुपितः सुप्तो न वा सुन्दरो वृद्धो नो न च वालकः कृशांतनुर्न व्याधितो नो शठः। मां दृष्ट्वा नवयौवनां शशिमुखीं कंदर्पबाणाहतो मुक्तो दैत्यगुरुः प्रियेण पुरतः पश्चाद्गतो विह्वलः ८ समायाते कान्ते कथमपि च कालेन बहुना कथाभिर्देशानां सखि रजनिरर्धं गतवती । ततो यावल्लीलाकलहकुपितास्मि प्रियतमे सपत्नीव प्राची दिगियमभवत्तावदरुणा ॥ ९ ॥ श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः क्लेशः श्लाघ्यतरः सुपङ्कनिचयैः श्लाघ्योऽतिदाहोऽनलैः यत्कान्ताकुचपार्श्वबाहुलतिकाहिन्दोललीलासुखं लब्धं कुम्भवर त्वया नहि सुखं दुःखैर्विना लभ्यते १०
[ ३ ] किं किं वक्त्रमुपेत्य चुम्बसि बलान्निर्लज्ज लज्जा न ते वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूर्त निर्वञ्चसे । खिन्नाहं तव रात्रिजागरतया तामेव याहि प्रियां निर्माल्योज्झितपुष्पदामनिकरे का षट्पदीनां रतिः॥ वाणिज्येन गतः स मे गृहपतिर्वार्त्तापि न श्रूयते प्रातस्तज्जननी प्रसूततनया जामातृगेहं गता । बालाहं नवयौवना निशि कथं स्थातव्यमेकाकिनी सायं संप्रति वर्तते पथिक हे स्थानान्तरं गम्यताम् १२ यामिन्येषा बहलजलदैर्बद्धभीमान्धकारा निद्रां यातो मम पतिरसौ क्लेशितः कर्मदुःखैः । बाला चाहं खलु खलभयात्प्राप्तगाढप्रकम्पा ग्रामश्चौरैरयमुपहतः पान्थ निद्रां जहीहि ॥ १३ ॥ क्व भ्रातश्चलितोऽसि वैद्यकगृहे किं तद्रुजां शान्तये किं ते नास्ति सखे गृहे प्रियतमा सर्वं गदं हन्ति या । वातं तत्कुचकुम्भमर्दनवशात्पित्तं तु वक्रामृता- च्छ्लेष्माणं विनिहन्ति हन्त सुरतव्यापारकेलिश्रमात् यच्चन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते १५ चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते । आलोकस्तिमिरायते विधिवशात्प्राणोऽपि भारायते हा हन्त प्रमदावियोगसमयः कल्पान्तकालायते १६
[ ४ ] प्राणेश विज्ञप्तिरियं मदीया तत्रैव नेया दिवसाः कियन्तः । संप्रत्ययोग्यस्थितिरेष देशः करा हिमांशोरपि तापयन्ति ॥ १७ ॥ कल्याणि चन्दनरसैः परिषिच्य गात्रं द्वित्राण्यहानि कथमप्यतिवाहयेथाः । अङ्के विधाय भवतीं परिरभ्य दोर्भ्यां नेष्यामि सूर्यकिरणानपि शीतलत्वम् ॥१८॥ अन्तर्गता मदनवह्निशिखावली या सा बाध्यते किमिह चन्दनपङ्कलेपैः । यत्कुम्भकारपचनोपरि पङ्कलेप- स्तापाय केवलमसौ न च तापशान्त्यै ॥ १९ ॥ दृष्ट्वा यासां नयनसुषमामङ्ग वाराङ्गनानां देशत्यागः परमकृतिभिः कृष्णसारैरकारि । तासामेय स्तनयुगजिता दस्तिनः सन्ति मत्ताः प्रायो मूर्खाः परिभवविधौ नाभिमानं त्यजन्ति २० गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलं संदष्टाधरमुक्तसीत्कृतमभिभ्रान्तभ्रु नृत्यत्करम्। चाटुप्रायवचोविचित्रमणितै र्भातं रुतैश्चाङ्कितं वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे कान्तापयोधरयुगे रतिखेदखिन्नः ।
[ ५ ] वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ २२ ॥ हे रोहिणि त्वमसि रात्रिकरस्य भार्या एनं निवारय पतिं सखि दुर्विनीतम् । जालान्तरेण मम वासगृहं प्रविश्य श्रोणीतटं स्पृशति किं कुलधर्म एषः ॥ २३ ॥ अविदितसुखदुःखं निर्गुणं वस्तु किंचि- जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे । मम तु मतमनङ्गस्मेरतारुण्यघूर्ण- न्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥ २४ ॥ एनं पयोधरयुगं पतितं निरीक्ष्य खेदं वृथा वहसि किं हरिणायताक्षि । स्तब्धो विवेकरहितो जनतापकारी योऽत्युन्नतः प्रपततीति किमत्र चित्रम् ॥ २५ ॥ अयि मन्मथचूतमञ्जरि श्रवणव्यायतचारुलोचने । अपहृत्य मनः क्व यासि त- त्किमराजन्यकमत्र राजते ॥ २६ ॥ यदि कथमपि दैवाद्दुर्गमार्गे स्खलित्वा विदलति तनुमध्या दीयतां नौ न दोषः । पृथुनिबिडकुचाभ्यां वर्त्म पश्यावुरुद्धं कथयितुमिव नेत्रे कर्णमूले प्रयातः ॥ २७ ॥
[ ६ ] कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि शोचामि यत्तव किमत्र विरोधमन्यत् । आश्लेषमर्पय मदर्पितपूर्वमुच्चै- रुच्चैः समर्पय मदर्पितचुम्बनं च ॥ २८ ॥ मानं मानिनि मुञ्च देवि दयिते मिथ्यावचः श्रूयते कः कोपो निजसेवके यदि वचः सत्यं त्वया गृह्यते । दोर्भ्यां बन्धनमाशु दन्तदलनं पीनस्तनास्फालनं दोषश्चेन्ममते कटाक्षविशिखैः शस्त्रैः प्रहारं कुरु ॥ २९ ॥ किं मां निरीक्षसि घटेन कटिस्थितेन वक्रेण चारुपरिमीलितलोचनेन । अन्यं निरीक्ष पुरुषं तव भाग्ययोग्यं नाहं घटाङ्कितकटिं प्रमदां भजामि ॥ ३० ॥ सत्यं ब्रवीषि मकरध्वजबाणपीड नाहं त्वदर्पितदृशा परिचिन्तयामि । दासोऽद्य मे विघटितस्तव तुल्यरूपः सोऽयं भवेन्नहि भवेदिति मे वितर्कः ॥ ३१ ॥ इति महाकविश्रीकालिदासकृतं शृङ्गारतिलकं समाप्तम् ॥