रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
३६ रूपमण्डने गण्डकैश्चीरकैर्युक्तं मयूरवरवाहनम् । (१)स्थापनीयाखेटनगरे भुजान् द्वादश कल्पयेत् ॥ २७ ॥ चतुर्भुजः (२)कर्पटे स्याद् वने ग्रामे द्विबाहुकः । दक्षिणे शक्तिपाशञ्च खड्गं बाणं त्रिशूलकम् ॥ २८ ॥ (३)वरदैश्चैकहस्तस्यादथवाऽभयदो भवेत् । एते दक्षिणतो ज्ञेयाः केयूर(४)वनकोज्ज्वलाः ॥ २९ ॥ धनुः पताका मुष्टिश्च तर्जनी तु प्रसारिता । (५)खेटकं ताम्रचूडञ्च वामहस्तेषु शस्यते ॥ ३० ॥ (६)द्विभुजश्च करे शक्तिर्वाम ऊर्ध्वे च (७)कर्कुटम् । चतुर्भुजे शक्तिपाशौ वामतो दक्षिणे त्वसिः ॥ ३१ ॥ वरदोऽभयदो वाऽपि (८)दक्षिणस्यात्तुरीयकम् । कार्तिकेयमनुं शुभ्रं कर्तव्यं सर्वकामदम् ॥ ३२ ॥ इति कार्तिकेयः । अक्षसूत्राम्बुपात्रे च अधोहस्ते प्रकारयेत् । सर्वांसामीदृशौ हस्तौ द्वावूर्ध्वौ कथयाम्यथ ॥ ३३ ॥ पद्मे युग्मे लीलया स्याल्लीला पद्मं च पुस्तकम् । लीलाङ्गी पाशपद्माभ्यां ललिता वज्रमङ्कुशम् ॥ ३४ ॥ पाशाङ्कुशौ लीलावती लीलया(:) पञ्च कीर्तिता(:) । इति पञ्च लीलाः । वरं त्रिशूलं खेटञ्च पानपात्रं च बिभ्रती । नीलकण्ठं तथा नागा महालक्ष्मीः प्रकीर्तिता ॥ ३५ ॥ [ इति महालक्ष्मीः ] (१) ‘स्थानीयखेट-’ इति स्यात् । (२) ‘खर्वटे’ इति स्यात् । (३) ‘वरदश्चैक- हस्तः’ इति स्यात् । (४) ‘-कनकोज्ज्वलाः’ इति ‘-कटकोज्ज्वलाः’ इति वा स्यात् । (५) ‘खेटकस्ताम्रचूडश्च’ इति साधुः । (६) ‘द्विभुजस्य’ इति स्यात् । (७) ‘कुक्कुटः’ इति साधुः । (८) ‘दक्षिणः स्यात्तुरीयकः’ इति स्यात् ।
पञ्चमोऽध्यायः ३७ वरं त्रिशूलं खेटञ्च पानपात्रञ्च बिभ्रती । क्षेमङ्करी तदा नाम क्षेमारोग्यप्रदायिनी ॥ ३६ ॥ [ इति क्षेमङ्करी ] कमण्डलुञ्च खड्गञ्च (१)मरुं पानञ्च पात्रकम् । हरसिद्धिस्तदा नाम सर्वेषां सिद्धिहेतवे ॥ ३७ ॥ [ इति हरसिद्धिः ] इति दुर्गा-मूर्तयः । गोधासना भवेद् गौरी लीलया हंसवाहना(ः) । सिंहारूढा भवेद् दुर्गा मातरः स्वस्ववाहनाः ॥ ३८ ॥ [ इति गौर्यादीनां वाहनानि ] चण्डिका क्रूररूपा च पिङ्गकेशा कृशोदरी । रक्ताक्षी (२)भयनेत्रा च निर्मांसा विकृतानना ॥ ३९ ॥ (३)चण्डिका क्रूररूपा च पिङ्गकेशा कृशोदरी । व्याघ्रचर्मपरीधाना भुजङ्गाभरणान्विता ॥ ४० ॥ कपालमालिनी कृष्णा शवारूढा भयावहा । त्रिशूलं खेटकं खड्गं धनुः पाशाङ्कुशौ शरः ॥ ४१ ॥ कुठारो दर्पणं घण्टा शङ्खं वस्त्रं गदा पविः । दण्डमुद्गर इत्येतैर्यथास्थानायुधैर्युता ॥ ४२ ॥ बाहुषोडशसंयुक्ता चण्डमुण्डविघातिनी । इति चामुण्डा । खड्गं पात्रञ्च मुशलं लाङ्गलञ्च बिभर्ति सा । आख्याता रक्तचामुण्डा देवी योगेश्वरीति च ॥ ४३ ॥ अधीते य इमं नित्यं रक्तदन्त्या वपुस्तवम् । तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना ॥ ४४ ॥ [ इति रक्तचामुण्डा.] (१) 'डमरुं पानपात्रकम्' इति स्यात् । (२) 'भीमनेत्रा' इति स्यात् । (३) इदमर्धं सम्पातायातं स्यात् ।
३८ रूपमण्डने अथ (१)कात्यायिनीं वक्ष्ये (२)दशहस्तां महुर्भुजाम् । तेजःप्रतापदां नित्यं नृपाणां सुखबोधिनी(म्) ॥ ४५ ॥ त्रिभङ्गीस्थानसंस्थानां महिषासुरसूदनीम् । (३)दक्षत्रिशूलं खड्गञ्च चक्रं बाणं च शक्तिकाम् ॥ ४६ ॥ खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च । घण्टाञ्च वामतो दद्याद् दैत्यमूर्धजधृक्कराम् ॥ ४७ ॥ हृदि शूलेन निर्भिन्नं तिर्यग्दन्तविभूषितम् । रक्तरक्तीकृताङ्गञ्च रक्तविस्फारितेक्षणम् ॥ ४८ ॥ वेष्टितं नागपाशैश्च भ्रुकुटीभीषणाननाम् ॥ ४९ ॥ देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम् । किञ्चिदूर्ध्वं तथा (४)वाममङ्गुष्ठो महिषोपरि ॥ ५० ॥ इति श्रीकात्यायनीमूर्तिः । चण्डिकायाः प्रतीहारान् कथयिष्याम्यनुक्रमात् । वेताल(:)करटश्चैव पिङ्गाक्षो भ्रुकुटिस्तथा ॥ ५१ ॥ धूम्रकः कङ्कदश्चैव रक्ताक्षश्च सुलोचनः । दंष्ट्राननविक(५)टास्यसस्फुरद्दशनोज्ज्वलः ॥ ५२ ॥ बर्बरीव्यक्तदेहश्च रक्ताक्षश्च महाबलः । तर्जनी चैव खट्वाङ्गमूर्ध्वं डमरुदण्डकौ ॥ ५३ ॥ वेतालः सुसमाख्यातोऽपसव्ये करटः पुनः । अभयं खड्गखेटञ्च दण्डः पिङ्गललोचनः ॥ ५४ ॥ (६)वामापसव्ययोगेन भवेद् भ्रुकुटिनामकः । तर्जनी च त्रिशूलञ्च खट्वाङ्गं दण्ड एव च ॥ ५५ ॥ (१) 'कात्यायनीं' इति साधुः । (२) 'दशहस्तां सुदुर्जयम्' इति स्यात् । (३) 'दक्षे' इति स्यात् । (४) 'वाममङ्गुष्ठं' इति मात्स्ये (२६०।६५) देवतामूर्त्तौ च (न११७) पाठः । (५) '-टास्यः संस्फुर-' इति स्यात् । (६) 'वामेऽपसव्य-' इति स्यात् ।
पञ्चमोऽध्यायः ३६ रक्ताक्षो (१)वाम भेदोऽसौ वामे दक्षे त्रिलोचनः । दिग्द्वारपक्षयुग्मे च प्रशस्ता विघ्ननाशनाः ॥ ५६ ॥ इति चण्डिकाष्टकप्रतिहाराः । अष्टपत्राम्बुजस्योर्ध्वे लक्ष्मीः सिंहासने शुभे । विनायकवदासीना सर्वाभरणभूषिता ॥ ५७ ॥ ऊर्ध्वहस्तौ प्रकर्तव्यौ देव्याः पङ्कजधारिणौ । (२)वामे घृतघटं धत्ते दक्षिणे मातुलिङ्गकम् ॥ ५८ ॥ इति लक्ष्म्या मूर्तिः । क्षेत्रे कोल्हा(३)पुरे दैत्ये महालक्ष्मीर्यदाऽर्च्यते । लक्ष्मीवत् सा सदा कार्या रूपाभरणभूषिता ॥ ५९ ॥ दक्षिणाधःकरे पात्रमूर्ध्वे कौमोदकी भवेत् । वामोर्ध्वे खेटकं धत्ते श्रीफलं तदधःकरे ॥ ६० ॥ इति महालक्ष्मीः । एकवक्त्रा चतुर्हस्ता मुकुटेन विराजिता । प्रभामण्डलसंयुक्ता कुण्डलान्वितशेखरा ॥ ६१ ॥ अक्षाब्जवीणा पुस्तकं महाविद्या प्रकीर्तिता । [ इति महाविद्या ] वराक्षाब्जं पुस्तकञ्च सरस्वती शुभावहा ॥ ६२ ॥ [ इति सरस्वती ] हंसारूढा प्रकर्तव्या साक्षसूलकमण्डलुः । स्रुवं च पुस्तकं धत्ते ऊर्ध्वहस्तद्वये शुभा ॥ ६३ ॥ इति ब्राह्मी । माहेश्वरी प्रकर्तव्या वृषभासनसंस्थिता । कपालशूलखट्वाङ्गवरदा च चतुर्भुजा ॥ ६४ ॥ इति माहेश्वरी ।
(१) ‘नाम’ इति स्यात् । (२) ‘वामेऽमृतघटं’ इति स्यात् । (३) ‘पुरादन्ये’ इति स्यात् ।
४० रूपमण्डने कुमाररूपा कौमारी मयूरवरवाहना । रक्तवस्त्रधरा तद्वच्छूलशक्तिगदाधरा ॥ ६५ ॥ इति कौमारी । वैष्णवी विष्णुसदृशी गरुडोपरि संस्थिता । चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा ॥ ६६ ॥ इति वैष्णवी । वाराहीं तु प्रवक्ष्यामि महिषोपरि संस्थिताम् । (१)वाराहसदृशी घण्टानादा चामरधारिणी ॥ ६७ ॥ गदा चक्रगदा तद्वद्दानवेन्द्रविघातिनी । लोकानाञ्च हितार्थाय सर्वव्याधिविनाशिनी ॥ ६८ ॥ इति वाराही । इन्द्राणी त्विन्द्रसदृशी वज्रशूलगदाधरा । गजासनगता देवी लोचनैर्बहुभिर्वृता ॥ ६९ ॥ इति इन्द्राणी । दंष्ट्राला क्षीणदेहा च गर्त्ताक्षा भीमरूपिणी । दिग्बाहुः क्षामकुक्षिश्च मुशलं चक्रमार्गणौ ॥ ७० ॥ अङ्कुशं बिभ्रती खड्गं दक्षिणेष्वथ वामतः । खेटं पाशं धनुर्दण्डं कुठारं चेति बिभ्रती ॥ ७१ ॥ चामुण्डा प्रेतगा रक्ता विकृता(२)स्यादिभूषणा । द्विभुजा वा प्रकर्तव्या ( कृत्तिकाकार्यरान्विता ? ) ॥ ७२ ॥ इति चामुण्डा । वीरेश्वरस्तु भगवान् वृषारूढो धनुर्धरः । वीणाहस्तं त्रिशूलञ्च मातृणामग्रतो भवेत् । मध्ये च मातृका कार्या अन्ते (३)तेषां विनायकः ॥ ७३ ॥ इति सप्त मातरः । (१) 'वराह-' इति स्यात् । (२) '-स्याहिभूषणा' इति स्यात् । (३) 'तासां' इति स्यात् ।
पञ्चमोऽध्यायः ४१ क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः । कर्तिकां डमरुं बिभ्रद्दक्षिणे तु करद्वये ॥ ७४ ॥ वामे शूलं कपालञ्च मुण्डमालोपवीतकम् । (१)करोतिकटितोदारसर्पग्रन्थिसशेखरः ॥ ७५ ॥ इति क्षेत्रपालः । खट्वाङ्गमसिपाशञ्च शूलञ्च दधतः करैः । डमरुञ्च कपालञ्च वरदं भुजगं तथा ॥ ७६ ॥ आत्मवर्णसमोपेतसारमेयसमन्वितम् । ध्यात्वा जपेत् सुसंहृष्टः सर्वान् कामानवाप्नुयात् ॥ ७७ ॥ इति वटुकभैरवः । इति श्रीसूत्रधारमण्डनविरचिते रूपमण्डने वास्तुशास्त्रे गौर्याः प्रमाणमूर्तिलक्षणाधिकारः पञ्चमोऽध्यायः । (१) ‘करोटिनिकरोदार-’ इति देवतामूर्त्तौ पाठः ( अ० ८, श्लो० ६० ) । रूप—६
षष्ठोऽध्यायः अथ जैनमूर्त्तिलक्षणाधिकारप्रारम्भः [ चतुर्विंशतिरर्हन्तः ] एतस्या(१)मिषसर्पिण्या ऋषभोऽ(२)जिनसम्भवः । अभिनन्दस्तु (३)सुमूत्तिस्ततः पद्मप्रभाभिधः ॥ १ ॥ सुपार्श्वश्चन्द्र(४)प्रभेव(५)स्तुविधिस्त्याथ शीतलः । (६)श्रियांशो वासपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥ २ ॥ धर्मशान्ति(७)कुप्यरोममल्लिश्च मुनि(८)सुवृतः । (९)नेमि-नेमि-पार्श्व-वीरश्चतुर्विंशति अर्हताः (?) ॥ ३ ॥ [ जिनानां वर्णाः ] (१०)रक्तो च पद्म(११)प्रभु....भवासंपूज्यौ (१२) शुक्लं च चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमि(१३) षुगुणेर्विलीनै (१४)श्रीमल्लिः पार्श्वे कनकत्विषोऽन्ये ॥ ४ ॥ [ यथाक्रमं जिनानां ध्वजाः ] वृषो गजोऽश्व(१५)जो मृगवक्त्रोंचोब्जः स्वस्तिकः शशी । मकरवत्सखङ्गीशमहिषः शूकरस्तथा ॥ ५ ॥ श्येनो वज्रं (१६)मृगछागो नन्द्यावर्त्तो घटोऽपि च । कूर्मो नीलोत्पलं शङ्खः (१७)फाणी सिंहोऽर्हतां ध्वजाः ॥ ६ ॥ (१) ‘-मवसर्पिण्याम्’ इति स्यात् । (२) ‘-जित-’ इति स्यात् । (३) ‘सुमति-’ इति स्यात् । (४) ‘-प्रभश्च’ इति स्यात् । (५) ‘सुविधिश्चाथ’ इति स्यात् । (६) ‘श्रेयांसो’ इति स्यात् । (७) ‘कुन्थरयो’ इति स्यात् । (८) ‘-सुव्रतः’ इति स्यात् । (९) ‘नमि-’ इति स्यात् । (१०) ‘रक्तौ’ इति स्यात् । (११) ‘-प्रभवासपूज्यौ’ इति स्यात् । (१२) ‘शुक्लौ’ इति स्यात् । (१३) ‘-मुनी च नीलौ’ इति स्यात् । (१४) ‘श्रीमल्लिपार्श्वौ’ इति स्यात् । (१५) ‘-श्वः प्लवगः क्रौञ्चोऽब्जः’ इति स्यात् । (१६) ‘मृगश्छागो’ इति साधु । (१७) ‘फणी’ इति स्यात् ।
षष्ठोऽध्यायः ४३ अथ नक्षत्राणि उत्तराषाढरोहिण्यौ मृगशीर्षं पुनर्वसुः । मघा चित्रा विशाखा चानुराधा मूलमेव च ॥ ७ ॥ पूर्वाषाढा श्रुतिश्चैव शतभिषोत्तरं पदम् । रेवती पुष्यभरणी कृत्तिका रेवती क्रमात् ॥ ८ ॥ अश्विनी श्रवणाश्विन्यौ तथा चित्रा विशाखिका । उत्तरा फल्गुनी चेति जिनानां जन्मभानि वै ॥ ९ ॥ अथ राशयः धनुर्वृषोऽथ (१)मिथुनौ मिथुनं सिंह(२)कन्यकैः । तुलावृश्चिकचापानि धनुर्मकर(३)कुम्भकैः ॥ १० ॥ (४)मीनामीने कर्कमेषा वृषो मीनोऽप्यजः क्रमात् । मकरो मेष-कन्ये तु तुला कन्येति राशयः ॥ ११ ॥ [ जिनोपासकयक्षनामानि ] (५)यक्षिणी स्याद् गोमुखो महायक्षस्त्रिमुखो यक्षनायकः । तुम्बरुः कुसुमश्चापि मातङ्गो विजयो जयः ॥ १२ ॥ ब्रह्मा यक्षेद् कुमारः षण्मुखपातालकिन्नराः । गरुडो गन्धर्वो यक्षेद् कुबेरो वरुणोऽपि च ॥ १३ ॥ भृकुटि(६)र्गोंऽभिधः पार्श्वे वा मातङ्गोऽर्हदुपासकाः [ जिनानां शासनदेवताः ] चक्रेश्व(७)र्यजिनबला दुरितारिश्च कालिका ॥ १४ ॥ महाकाली(८)शमा शांता (९)भृगुढद्यश्च सुतारिका । अशोका मानवी चण्डी विदिता चाङ्कुशी तथा ॥ १५ ॥ (१) मिथुनं' इति स्यात् । (२) '-कन्यके' इति स्यात् । (३) '-कुम्भकौ' इति स्यात् । (४) 'मीनो मीन-' इति स्यात् । (५) अत्र 'यक्षिणी'ति सम्पातायातं स्यात् ; 'स्याद् गोमुखो महायक्ष-' इतिक्रमेण पाठ्यम् । (६) '-गौमेघपार्श्वौ मातङ्गोऽ-' इति स्यात् । (७) '-र्यनितबला' इति देवतामूर्त्तौ (७।१४) । (८) 'श्यामा' इति स्यात् । (९) 'भृकुटिश्च' इति स्यात् ।
४४ रूपमण्डने कन्दर्पी निर्वाणी बाला धारिणी (१)धरणाप्रिया । नादरक्ता च गन्धर्वीऽम्बिका (२)पद्मवती तथा । सिद्धायका चेति जैन्यः(३)क्रमा वासवदेवताः ॥ १६ ॥ इति जिनानां (४)यक्षणीनामानि । [ एतेषां लक्षणम् , तत्र गोमुखः ] (५)रिषभो गोमुखो यक्षो(६)हेमवर्णो गजानना । (७)वराक्षसूत्रमाशाञ्च उभबीजपुरेषु च ॥ १७ ॥ [ चक्रेश्वरी ] चक्रेश्वरी हेमवर्णा तार्क्ष्यारूढाऽष्टबाहुका । वरं बाणं (८)चक्रं ( शक्तिशूलमनाकुलम् ? ) ॥ १८ ॥* [ अम्बिका ] सिंहारूढाऽम्बिका पीता(मलुंबि ?)नागपाशकम् । अङ्कुशञ्च तथा(९)पुत्रं तथा हस्तेष्वनुक्रमात् ॥ १९ ॥ [ पार्श्वः ] (१०)पार्श्वे स्यात् पार्श्वनानाथस्य कूर्मारूढा गजानना । बीजपूरोरगं नागं नकुलं श्यामवर्णकैः ॥ २० ॥ [ पद्मावती ] (११)रक्तायसावती पूर्णा कुर्कुटोरगचतुर्भुजा । (१२)पद्मपाशोंशो बीजपूरं हस्तेषु कारयेत् ॥ २१ ॥
(१) 'धरणप्रिया' इति स्यात् । (२) 'पद्मावती' इति साधु । (३) 'क्रमात् शासनदेवताः' इति स्यात् । (४) 'यक्षयक्षिणी-' इति स्यात् । (५) 'ऋषभे' इति स्यात् । (६) 'हेमवर्णो गजाननः' इति स्यात् । (७) 'वरोऽक्षसूत्रं पाशञ्च बीजपूरं करेषु च' इति स्यात् । (८) 'पाशचक्रं' 'चक्रपाशं' वा स्यात् । (९) 'फलं' इति स्यात् । (१०) 'पार्श्वः स्यात् पार्श्वनाथस्य कूर्मारूढो गजाननः' इति स्यात् । (११) 'पद्मा- वती रक्तवर्णा कुक्कुटस्था' इति स्यात् । (१२) 'पद्मं पाशाङ्कुशौ' इति स्यात् ।
- अत्रैतदनन्तरं नेमिनाथोपासकस्य 'गोमेघ'यक्षस्य लक्षणं लेखकप्रमादात् त्रुटितम् इति सम्भाव्यते । यतोऽत्र ग्रन्थकृता संक्षेपबुद्ध्या जिनोपासकानां यक्षाणां यक्षिणीनाञ्च तावन्ति लक्षणान्यनभिधाय 'चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः' ( २९) इत्यग्रिमप्रतिज्ञाग्रन्थानु- सारेण आदिनाथ (ऋषभ)-नेमिनाथ-पार्श्वनाथ-महावीराणामुपासकान् गोमुख-गोमेध-पार्श्व- मातङ्गाह्नो यक्षान्, चक्रेश्वर्यम्बिका-पद्मावती-सिद्धायकाख्या यक्षिणीश्च लक्षयितुं प्रवृत्तम् इति विज्ञायते । नास्ति चास्य 'गोमेध'मलक्षयतः प्रतिज्ञाताथपरिसमाप्तिरित्यवसेयम् ।
षष्ठोऽध्यायः ४५ [ मातङ्गः ] महावीरस्य मातङ्गो (१)गजारूढो मितो भवेत् । दक्षिणे नकुलं हस्ते वामे स्याद् बीजपूरकम् ॥ २२ ॥ [ सिद्धायका ] सिद्धायका नीलवर्णा (२)सिद्धारूढाश्चतुर्भुजा । पुस्तकं चाभयं (३)दत्ते बाणं वै मातुलिङ्गकम् ॥ २३ ॥ अथ द्वितीयभेदेन चक्रेश्वरी द्वादशभुजाष्टचक्राणि वज्रयोर्द्वयमेव च । मातुलिङ्गाभये चैव पद्मस्था गरुडोपरि ॥ २४ ॥ [ जिनेषु चतुर्णां प्राधान्यकथनम् ] जिनस्य मूर्त्तयोऽनन्ताः पूजिताः (४)सौख्यसर्वदा । चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः ॥ २५ ॥ [ एषां नामानि ] श्रीआदिनाथो नेमिश्च (५)पर्वे वीरश्चतुर्थकः । (६)चक्रे चर्याम्बिका पद्मावती सिद्धायकेति च ॥ २६ ॥ कैलासं सोमशरणं सिद्धिवर्तिं सदाशिवम् । सिंहासनं धर्मचक्रमुपरीन्द्रातपत्रकम् ॥ २७ ॥ [ जिनप्रतीहारनामानि ] इन्द्र इन्द्रजयश्चैव माहेन्द्रो विजयस्तथा । धरणेन्द्रः पद्मकश्च सुनाभः सुरदुन्दुभिः ॥ २८ ॥ इत्यष्टौ च प्रतीहारा वीतरागे तु शान्तिदाः । [ प्रतीहाराणामायुधानि ] फलं वज्राङ्कुशौ दण्डमिन्द्र(७)मिन्द्रजयस्तथा ॥ २९ ॥ द्वौ वज्रौ फलदण्डश्च माहेन्द्रो विजयोद्भवः । ( तदा युद्धयोगाद्भव्रा त्रिपञ्चादिफणोर्ध्वगाः ? ) ॥ ३० ॥ (१) 'गजारूढः सितो' इति स्यात् । (२) 'सिंहारूढा चतुर्भुजा' इति स्यात् । (३) 'धत्ते' इति स्यात् । (४) 'सर्व सौख्यदाः' इति स्यात् । (५) 'पार्श्वो वीरश्चतुर्थकः' इति स्यात् । (६) 'चक्रेश्वर्यम्बिका' इति स्यात् । (७) 'इन्द्रजय-' इति स्यात् ।
४६ रूपमण्डने धरणेन्द्रः पद्मकश्च सर्वे शान्तिकराः स्मृताः । यक्षरूपाधिकाराश्च निधिहस्ताः (१)शुभोदराः ॥ ३१ ॥ (२)सुनाभ्यो दुन्दुभश्चैव क्रमेणाष्टौ प्रकीर्तिताः । इत्यष्टौ च प्रतीहारा वीतरागाः प्रकीर्तिताः ॥ ३२ ॥ (३)नागरादिपूरग्रामे सर्वे विघ्नप्रणाशनाः । छत्रत्रयं जिनस्यैव रथिकाभिस्त्रिभि(४)र्युताः ॥ ३३ ॥ अशोकद्रुमपत्रैश्च देवदुन्दुभिवादिकैः । सिंहासनमसुराद्यो गजसिंहा विभूषिताः ॥ ३४ ॥ मध्ये च कर्मचक्रं च तत्पार्श्वयोश्च यक्षिणी । द्वितालविस्तराः कार्या बहिः परिकरस्य तु ॥ ३५ ॥ दैर्घ्ये तु प्रतिमा तुल्या तयोरूर्ध्वे तु तोरणम् । वाहिकाबाह्यपक्षे तु (५)गोसिंहैरलंकृताः ॥ ३६ ॥ कर्तव्या द्वारशाखा च तत्तन्मूर्तिगसंयुता । तोरणं पञ्चधा प्रोक्तं रथिकार्य च देवताः ॥ ३७ ॥ ललितं चेतिकारं त्रिरथं वलितोदरम् । श्रीपुञ्जं पञ्चरथिकं सप्तावानन्दवर्धनम् ॥ ३८ ॥ रथिकायां भवेद् ब्रह्मा विष्णुरीशश्च चण्डिका । जिनो गौरी गणेशश्च स्वे स्वे स्थाने सुखावहाः ॥ ३९ ॥ इति परिकरः । श्रीमद्देशे (६)मैदपाठाभिधाने (७)क्षेलाख्येऽभूत् सूत्रधारो वरिष्ठः । पुत्रो ज्येष्ठो मण्डनस्तस्य तेन प्रोक्तं शास्त्रं मण्डनं रूपपूर्वम् ॥ ४० ॥ इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे रूपमण्डने (८)षष्ठमोऽध्यायः समाप्तः । ॥ समाप्तश्चायं ग्रन्थः ॥ (१) 'शुभोदयाः' इति स्यात् । (२) 'सुनामो' इति स्यात् । (३) 'नगरादिपुर-' इति स्यात् । (४) '-र्युतम्' इति स्यात् । (५) 'गोसिंहैः समलंकृताः' इति स्यात् । (६) 'मेद-' इति स्यात् । (७) 'क्षेताख्योऽभूत्' इति स्यात् । (८) 'षष्ठोऽध्यायः' इत्येतन्मात्रं साधु ।
देवतामूर्त्तौ व्याख्यातानां सरूपाणामीषद्द्विरूपाणाञ्च रूपमण्डनीयपद्यानां निर्देशः रूपमण्डने \qquad\qquad देवतामूर्त्तौ \qquad\qquad रूपमण्डने \qquad\qquad देवतामूर्त्तौ पृ० \quad श्लो० \qquad\quad पृ० \quad श्लो० \qquad\quad पृ० \quad श्लो० \qquad\quad पृ० \quad श्लो० ३ \quad ३ \qquad\qquad ९ \quad ७ \qquad\qquad १२ \quad ३६ \qquad\quad ७२ \quad ६४ ,, \quad ५ \qquad\qquad १० \quad ९ \qquad\qquad ,, \quad ३८ \qquad\quad ७३ \quad ६६ ,, \quad ६ \qquad\qquad ११ \quad १० \qquad\quad १३ \quad ५ \qquad\qquad ७४ \quad ३ ४ \quad ७ \qquad\qquad १९ \quad १७ \qquad\quad ,, \quad ६ \qquad\qquad ,, \quad ४ ,, \quad ८ \qquad\qquad ,, \quad १८ \qquad\quad १७ \quad ३१ \qquad\quad ७७ \quad १९ ,, \quad ९ \qquad\qquad २० \quad १९ \qquad\quad ,, \quad ३४ \qquad\quad ७८ \quad १८ ,, \quad १० \qquad\quad २१ \quad २३ \qquad\quad ,, \quad ३५ \qquad\quad ,, \quad १९ ,, \quad ११ \qquad\quad २२ \quad २४ \qquad\quad ,, \quad ३७ \qquad\quad ,, \quad २१ ,, \quad १३ \qquad\quad २३ \quad २६ \qquad\quad ,, \quad ३८ \qquad\quad ७९ \quad २२ ,, \quad १४ \qquad\quad ,, \quad २६-२७ \quad\quad ,, \quad ३९ \qquad\quad ,, \quad २२-२३ ५ \quad १५ \qquad\quad २५ \quad ३३ \qquad\quad १८ \quad ४० \qquad\quad ,, \quad २३-२४ ,, \quad १६ \qquad\quad ३० \quad ४५ \qquad\quad ,, \quad ४२ \qquad\quad ,, \quad २५ ,, \quad १७ \qquad\quad ३४ \quad ५८ \qquad\quad ,, \quad ४७ \qquad\quad ८८ \quad ६५ ,, \quad १८ \qquad\quad ७ \quad ६ \qquad\qquad ,, \quad ४८ \qquad\quad ,, \quad ६७ ,, \quad २२ \qquad\quad ४८ \quad १०-११ \quad\quad ,, \quad ४९ \qquad\quad ,, \quad ६६ ७ \quad ३४ \qquad\quad ५० \quad २८-२९ \quad\quad ,, \quad ५० \qquad\quad ,, \quad ६८ ,, \quad ३५ \qquad\quad ,, \quad २९-३० \quad\quad १९ \quad ५२ \qquad\quad ९२ \quad ९१ ,, \quad ३६ \qquad\quad ५०-५१ \quad ३०-३१ \quad ,, \quad ५४ \qquad\quad ,, \quad ९३ ,, \quad ३७ \qquad\quad ५१ \quad ३१-३२ \quad\quad ,, \quad ५७ \qquad\quad ९३ \quad ९७ ८ \quad ६ \qquad\qquad ५९ \quad २ \qquad\qquad २० \quad ६२ \qquad\quad ९४ \quad १०४-१०५ ,, \quad ८ \qquad\qquad ६१ \quad ८ \qquad\qquad ,, \quad ६३ \qquad\quad ९५ \quad १०६ ९ \quad ११ \qquad\quad ६२ \quad १४ \qquad\quad २१ \quad १ \qquad\qquad ९७ \quad १ ,, \quad १२ \qquad\quad ,, \quad १५ \qquad\quad ,, \quad २ \qquad\qquad ,, \quad २ ,, \quad १३ \qquad\quad ,, \quad १६ \qquad\quad ,, \quad ५ \qquad\qquad ९८ \quad ६ ,, \quad १७ \qquad\quad ६४ \quad २० \qquad\quad ,, \quad ६ \qquad\qquad ,, \quad ७ ११ \quad ३२ \qquad\quad ७१ \quad ६० \qquad\quad ,, \quad ७ \qquad\qquad ,, \quad ८ ,, \quad ३४ \qquad\quad ७२ \quad ६२ \qquad\quad ,, \quad ८ \qquad\qquad ,, \quad ९ १३ \quad ३५ \qquad\quad ,, \quad ६३ \qquad\quad २२ \quad ९ \qquad\qquad ,, \quad १०
[ २ ] रूपमण्डने देवतामूर्त्तौ रूपमण्डने देवतामूर्त्तौ पृ० श्लो० पृ० श्लो० पृ० श्लो० पृ० श्लो० २२ १६ ९९ १६ ३६ १८ १६० २६ २४ २६ १०४ ५५ " २० १६१ २९ " २९ १०१ ३२ " २१ " ३० " ३२ १०२ ४२ " २२ " ३१ २७ ५४ १०८ ६६ " २३ १६२ ३५ " ५६ " ६६ " २६ " ३६ " ५८ १११ ८० ३६ २७ " ३७ " ६० ११० ७६ " २८ १६३ ३८ २८ ६१ " ७७ " ३१ " ४१ " ६३ १११ ७९ " ३२ " ४२ " ६४ ११९ ९५ " ३४-३६ १६४ ४६-४७ " ६६ " ९६ " ३६ १६५ ५० " ६६ ११३ ८३ ३८ ५२ १६२ ९६ " ६८-६९ ११९ ९८ " ५४ " ९७-९८ २८-२९ ७०-७१ १२० १०० ३९ ५७ १६३ १०३ २९ ७४ १२१ १०४ " ५९ १६४ १०७ " ७७ " १०७ " ६१-६२ १६९ ७९-८० ३१ ९३ १२७ १६१ ४१ ७४ १६६ ६९ ३२ १०४ १२८ १६२ " ७५ " ६० " १०५-१०६ १२९ १६४-१६५ ४२ ४ १३२ ४ ३३ १ १४४ १ " ५ १३३ ५ " ३ " ४ " ६ " ६ " ५ १४५ १० ४३ ७ " ७ ३४ ८ १४६ १५ " ८ " ८ " ९ " १६ " ९ " ९ " १० १४७ १७ " १२ १३४ १२ " ११ " १८ ४४ १७ १३५ १७-१८ " १२ " १९ " १९ १४१ ६१ " १५ १४८ २१ " — — — ३६ १७ १४९ २३ ४५ २३ १४२ ६५
देवतामूर्त्तिप्रकरणस्य शब्दसूची —:*:— शब्दाः पत्राङ्काः | शब्दाः पत्राङ्काः अक्षमाला ६१,६२,६६,९३,१०१,१४९ | कपाल ९९,१००,१०३,१४९ अक्षसूत्र ५९,६१,६२,६४,९९,१००,१०१, | कपालिन् ९९ १०२,१०३,१०४,१३७,१४०,१४१, | कमण्डलु ५९,६१,६३,६५,७१,७२,८९ १४४,१४५,१४६ | ९४,१०२,१०३,१४४,१४५,१४६,१६१ अघोर ९८ | कला ४४ अङ्कुश ६१,६४,७१,९४,१०३,१०४,१३७, | कल्पान्त १६८ १३८,१३९,१४० | कार्त्तिकेय १९२ अङ्गार ६९ | कालिका ४७ अङ्गुष्ठ १६५ | कांस्य १० अण्डज ५१ | किन्नर १३९ अतसी ९८ | कुक्कुट ७२ अनिरुद्ध ७९,८० | कुण्डल ९७,९८,१००,१०१,१४७ अनुलेपन ९७,९८ | कुण्डिका ९९ नान्तरीयक ८० | कुमार १०१ अपसव्य ६४,६९,९६,१४७,१५१,१५२ | कृष्णाजिन ८९,१६१ अभय ९७,९९ | केतुसंस्थान ६७ अर्धनारीश्वर १०० | केयूर ७१,१०२ अष्टलोह २१,१०५ | कैरव २३ आमलकी ७८ | कोल्हापुर १६४ उपवीत ८९ | क्रूर ११८ उमा १००,१४४ | क्षिप्रगणाधिपं १६० उल्का २६ | क्षेत्रपाल १५६ उष्णीष ९८ | खट्वाङ्ग ९९,१००,१०२,१०३,१०४ ऋण ११७ | खड्ग ९८,९९,१०३,१०४ ऋज १९७ | खर्वट १९३ कटिसूत्र ९८ | खात १२४ कन्द १२४ | खेद ९४
[ २ ] शब्दाः पत्राङ्काः शब्दा पत्राङ्काः खेटक ७०,७१,७२,९०,९६,९८,९९,१०३ ताल १,१६७ १३७,१३८,१५२ तालपत्र १०० गण १२६,१२७ तीर्थङ्कर १३१ गदा ६६,६९,७०,७२,८९,९१,९२,९४ त्रपुष ११९ ९६,१०२,१०४ त्रिविक्रम ७५ गरुड १०१ त्रिशूल ६२,६६,७३,९९,१०१,१०२,१०३ गर्भगृह २० त्रिशूलक १३७ गोधासन १४४,१४५ दण्ड ७२,१४८,१४९,१५१,१५२ गौरी १४४,१४५ दशावतार ९५ चक्र ६५,८०,९०,९१,९२,९३,९४,९९, दिक्पाल ५६,७३ १०१,१०२,१०३,१०४ द्राविड ११४ चक्रभृत् ७६ धन ११७ चण्डभैरव १०४ धातुलिङ्ग १०६ १०८ चण्डिका १६९ ध्वज १०१,१३३ चतुरस्र २० ध्वजपताक ७२ चतुष्की २० नट ७४ चाप १०३ नन्दी १२८ चामुण्डा १५८ नाग १०५ चिपिट २५ नागपाश १३८,१४० छाया ४२ नागर ११३ . जटा ९८,९९,१००,१०१ नारसिंह २३ जया १४७ नेमिनाथ १४१ जरायुज ९१ पट्टिश १०४ जिन १३३,१४२ पताका ९३ जैन १२३,१४३ परशु ९९,१०४ टङ्क १६० पाश ६४,६९,७२,९९ डमरु १००,१०४ पिङ्गली १६७ तक्षक ९८ पिण्डिका १२४ तस्कर ११६ पीठ ११३,११९ ताम्रचूड ६९ पुरुषोत्तम ७५,८१,८६
[ ३ ] शब्दाः पत्राङ्काः शब्दाः पत्राङ्काः प्रणाश १२४ मृगाल ७१ प्रतीहार १४३ मेखला १०१,१२४,१२५,१२६ प्रदक्षिण ६८ यक्ष १३९,१३८,१४०,१४३ प्रद्युम्न ७५,८० यज्ञोपवीतिन् ८९,९९ प्रवाल २१ यम ७२ बाण १२१,१२३ योगमुद्रा ९३,९४,९९ बाणलिङ्ग १२०,१२२ योनि ११७ बुद्ध ८६ रस १६६ बौद्ध ५५ राजन्य ८० ब्रह्मसूत्र ५२ राशि १३४ भद्रकाली १६१ राहुसंस्थान ६७ भरतागम १६७ रुण्डमाला ९८ भाव १६६,१६७ रुद्र १०३ भ्रुकुटि १३७ लिङ्ग ४,९,१०९,११३,१२० भृङ्गिर्रीट १०१ लीलया १५४ भृङ्गी १२८ लेखनी ७२ मधुपर्क ३३ लोकपाल ५६ महरुण्डा १५५ वक्रलिङ्ग १११ महाकाल १२८ वज्र १०५ महाकाली १३६,१६० वज्र ६९,७१,९४ महामहिष ७२ वर ७३ महालक्ष्मी ४७ वरट ७४,१६२ मातुलुङ्ग ९९,१००,१०१ वरद ९७,९९ मातृ ५७ वराह २३,७४ मातृगण ५६ वर्णाष्टक ३९ मातृरूप १५७ वर्तुल ७७,८० माधव १०२ वामन ७४,७९,८८ मुकुट १००,१०१ वाहन १२९,१३० मुण्डमाला १०४ विजय ९६ विनाश १६३
[ ४ ] शब्दाः पत्राङ्काः शब्दाः पत्राङ्काः विप्र ५९ श्रोत्रिय १४६ विरिञ्चि ६१ षडष्टक ३२ विरूपाक्ष १०४ सङ्कर्षण ७६,७९,८० विलोम ९६ सर्वती १५५ विश्वकर्मन् ९८,९९,१६७ सव्य ९६,१४७ विष्कम्भ ११२ सावित्री ४७,६१ वेताल ५६ सिद्ध ४८ वेदि १६१ सिद्धक्षेत्र १२१ वेसर ११९ सिन्दूर १५० वैकुण्ठ ८२,९२ सुदर्शन ६५,६६,९४ व्यालका १०० सुषिर ८० शक्ति ९४,१००,१०३,१०४ सूत्र ५२ शङ्ख ९४,९६,१०१,१०२,१०३ स्कन्द ३२ शर १०३,१०४ स्रुक् १६१ शालग्राम ७८ स्वस्तिक ११९ शालग्रामशिला ८७ हनुमान् ५७ शिखा ८९ हिरण्यकशिपु ९० शूल ६५,७०,७१,९९,१००,१०२,१०३,१०४ हिरण्यगर्भ ७४ श्रुव १६१ हुताशन ७१
रूपमण्डनस्य —: ० :— शब्दाः पत्राङ्काः शब्दाः पत्राङ्काः अक्षमाला ९,२२,२४ गदा १२,१४,१९ अक्षसूत्र ८,९,३३ गौरी ४६ अङ्कुश ३४,३६,३७ चक्र १४,१९,४९ अतसीपुष्प २१ चण्डिका ४६ अनिरुद्ध(क) १३,१९ चामुण्डा ४० अपसव्य २० जिन ९,२७,४२,५३,४६ अष्टलोह २६ डमरु २३,३२,३८,४१ आग्नेयी २० तर्जनी ११ ईशान २० ताम्रचूड ११ उद्देश ७ ताल ६ उष्णीष २१ तुलसी ८ ऋषभ ४२ तोमर २३ कमण्डलु ८,९,१०,१२,२४,३३,३७ तोरण ४६ कम्बु ९,१४,१९,१६ त्रिलोह २६ कल्की १६ त्रिशूल १२,३२,३७,३८,५० कर्तिका ४१ दण्ड ९ कुण्ड १० दशावतार २० कुमार ३५,४० दामोदर १६ कुष्ठरोग २६ धातु २६ केतु १० ध्यान ९ कैलास ४९ नैर्ऋत्य २० कौमोदकी १४,१९ पञ्चरथिक ४६ क्षय २६ पट्टिश २३,२४ खड्ग ११ पाञ्चजन्य १४,१९ खेटक ११,१६,३६,३९ पीठिका ३० गणनायक ५ प्रतिमा ३,४
[ ६ ] शब्दाः पत्राङ्काः शब्दाः पत्राङ्काः प्रद्युम्न १३,१५ वायव्य २० बाणलिङ्ग २९ वासुदेव १३ बुद्बुद् २८ विनायक ४० भृकुटि ४३ विश्वकर्मा ९ भृङ्गी ३२ वेताल ३८ भैरव ४ शङ्ख १४,१९ महालक्ष्मी ३६,३९ शक्ति १६ महाविद्या ३१ शालिग्राम ८ महावीर ४५ श्रीपुञ्ज ४६ मातुलुङ्ग २२,२४ श्रीफल ३९ मातृका ३१ श्रोत्रिय ६ मुद्गर २३ षट्पर्व २६ मेखला ३० सङ्कर्षण १३,१४ यज्ञोपवीतिन् २१,२३ सावित्री ८ योगमुद्रा १९ सिद्धायक ४९ रक्तचामुण्डा ३७ सुदर्शन १४,१५ राहु १० हिरण्यगर्भ १३ लिङ्गपीठ ३ हीरक २९ लेखनी ११ हृषीकेश १६ ———
देवतामूर्त्तिप्रकरणस्य टीकायां प्रमाणत्वेनोद्धृतानां ग्रन्थानां नामानि। १। विष्णुधर्मोत्तरम् (पुराणम्) २। मत्स्यपुराणम् ३। अग्निपुराणम् ४। बृहत्संहिता (ज्योतिषग्रन्थः) ५। शुक्रनीतिसारः ६। मयमतम् (शिल्पशास्त्रम्) ७। काश्यपशिल्पम् ,, ८। समराङ्गणसूत्रधारः ,, ९। शिल्परत्नम् (पूर्वोत्तर-भागद्वयात्मकम्) ,, १०। रूपमण्डनम् ११। रूपावतारः १२। प्राणतोषणी (तन्त्रम्) १३। श्रीतत्त्वचिन्तामणिः (तन्त्रम्) १४। शिलाचक्रार्थबोधिनी १५। वीरमित्रोदयः १६। जैनपद्मपुराणम् १७। चतुर्विंशतिजिनस्तुतिसंग्रहः।