रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
over चा.
In line 5: the र् is over a letter that has a top horizontal bar, a rounded left, and a vertical right stem... wait!
Could it be बहिर्चनीय?
Wait, if it's बहिर्चनीय, is there an anusvara or anything? No.
Wait, let's look at the letter again:
Could it be बहिर्भवनीय? Wait, why would there be a gap if it's भ?
Wait, look at र्भवनीय: in Devanagari ligature, र् + भ is written with र् on top of भ.
Wait, does it look like र्भवनीय?
Look at the left of that letter: there is a small loop, then a downstroke, then up and vertical line. That IS भ!
Wait, look at भ in शुभ (line 12):
The top of भ has a small circle, a left vertical, a lower loop, a horizontal stroke, and a right vertical stem!
In line 5, look at the glyph:
It has a repha on the right vertical stem!
On the left, it has the top open/loop of भ!
Wait, or is it र्चनीय?
Wait, let's search if बहिर्भवनीय or बहिर्चनीय or बहिर्भावनीय is in Devatamurtiprak
[ २ ] विषयाः पन्नाङ्काः | विषयाः पन्नाङ्काः २ । प्रतिमातालनिर्णयाधिकाराख्ये | ब्रह्मायतनेऽन्यदेवतापदम् ... ६२ द्वितीये—[४२—५१] | ब्रह्मप्रतीहाराः ... ,, माननिर्णयः ... ४२ | द्वादश सूर्यमूर्तयः ... ६४ तालमानकथनम् ... ४४ | (१) सुधामा ... ६५ तालमानेन मूर्त्तीनां कर्त्तव्यता ... ४६ | (२) मित्रः ... ,, तालानुसारेणावयवमानम्— | (३) अर्यमा ... ,, सप्ततालेऽवयवमाननिरूपणम् ... ४८ | (४) रुद्रः ... ,, मध्यमस्सप्ततालेऽवयवमाननिरूपणम् ४९ | (५) वरुणः ... ,, अष्टतालेऽवयवमानम् ... ,, | (६) सूर्यः ... ,, मध्यमाष्टतालेऽवयवमानम् ... ५० | (७) भगः ... ,, नवतालेऽवयवमानम् ... ,, | (८) विवस्वान् ... ६६ ३ । प्रतिमापदस्थानदृष्टिस्थानाधिकाराख्ये | ९) पूषा ... ,, तृतीये—[ ५२—५८ ] | (१०) सविता ... ,, देवतापदस्थानम् ... ५२ | (११) त्वष्टा ... ,, देवतादृष्टिस्थानम् ... ५४ | (१२) विष्णुः ... ,, देवतास्थापने दिङ्निर्णयः ... ५७ | सूर्यायतनम् ... ६७ | सूर्यप्रतीहाराः ... ६८ ४ । ब्रह्मसूर्यनवग्रहदशदिक्पालाधि- | काराख्ये चतुर्थे—[ ५६—७३ ] | नवग्रहाः— विश्वकर्मा ... ५९ | चन्द्रः ... ६९ कमलासनः ... ,, | भौमः ... ,, विरिञ्चिः ... ६१ | बुधः ... ७० पितामहः ... ,, | बृहस्पतिशुक्रौ ... ,, ब्रह्मा ... ,, | शनिः ... ,, सावित्री ... ,, | राहुः ... ७१ ऋग्वेदः ... ,, | केतवः ... ,, यजुर्वेदः ... ,, | ग्रहमूत्तौ साधारणविधिः ... ,, सामवेदः ... ६२ | दशदिक्पालाः— अथर्ववेदः ... ,, | इन्द्रः ... ७१ नृत्यशास्त्रम् ... ,, | अग्निः ... ,,
[ ३ ] विषयाः पत्राङ्काः विषयाः पत्राङ्काः यमः ... ७२ (१८) अच्युतः ... ७६ निर्ऋतिः ... ,, (१९) वामनः ... ,, वरुणः ... ,, (२०) नारायणः ... ,, वायुः ... ,, (२१) पद्मनाभः ... ,, कुबेरः ... ,, (२२) उपेन्द्रः ... ,, ईशानः ... ७३ (२३) हरिः ... ,, ५। विष्णुशालग्रामशिलापरीक्षाभेदाधि- (२४) कृष्णः ... ,, काराख्ये पञ्चमे—[ ७४—९६ ] चतुर्विंशतिमूर्त्तीनामायुधन्यासक्रमः ७७ वर्णविशेषेषु मूर्त्तिभेदेन विष्णोः शुभ- शालग्रामशिलापरीक्षा— दायकत्वम् ७४ आकृतिंतो ग्राह्यशिलालक्षणम् ... ७७ अवस्थाभेदेन मूर्त्तीनां ग्राह्याग्राह्यत्वम् ७५ प्रमाणतो ग्राह्यशिलालक्षणम् ... ७८ विष्णोश्चतुर्विंशतिमूर्तयः— त्याज्यशिलालक्षणम् ... ,, (१) केशवः ... ७५ तत्र प्रतिप्रसवः ... ,, (२) मधुसूदनः ... ,, वर्णभेदात् फलभेदिनिरूपणम् ... ७९ (३) सङ्कर्षणः ... ,, वर्णभेदात् संज्ञाभेदः ... ,, (४) दामोदरः ... ,, चक्रप्रमाणम् ... ,, (५) वासुदेवः ... ,, चक्रविशेषलक्षणम्— (६) प्रद्युम्नः ... ,, वासुदेवः ... ८० (७) विष्णुः ... ,, सङ्कर्षणः ... ,, (८) माधवः ... ,, प्रद्युम्नः ... ,, (९) अनिरुद्धः ... ,, अनिरुद्धः ... ,, (१०) पुरुषोत्तमः ... ,, एतेषां पूजाधिकारिणः ... ,, (११) अधोक्षजः ... ,, त्रिचक्रलक्ष्मीनारायणः ... ८१ (१२) जनार्दनः ... ,, मधुसूदनः ... ,, (१३) गोविन्दः ... ,, दामोदरः ... ,, (१४) त्रिविक्रमः ... ,, द्विचक्रलक्ष्मीनृसिंहः ... ,, (१५) श्रीधरः ... ,, द्विचक्रपुरुषोत्तमः ... ,, (१६) हृषीकेशः ... ,, एकचक्रे वर्णकृतो विशेषः ... ,, (१७) नृसिंहः ... ,, वर्णक्रमेण चक्रनामानि ... ८२
[ ४ ] विषया: पत्राङ्का: विषया: पत्राङ्का: यथाक्रममेतेषां फलम् ... ८२ नरसिंह: ... ९० द्विचक्रे चक्रनिबन्धने विशेष: ... ” प्रकारान्तरम् ... ९१ यथाक्रममेतेषां फलम् ... ” जलशायी ... ” चक्रान्तराणि ... ८३ वैकुण्ठ: ... ९२ हरि: ... ” विश्वरूप: ... ९३ एतत्पूजाफलम् ... ” अनन्त: ... ” नृसिंह: ... ” त्रैलोक्यमोहन: ... ९४ कपिलनृसिंह: ... ८४ विष्ण्वायतनम् ... ९५ सुदर्शनम् ... ” विष्णुप्रतीहारा: ... ” हयग्रीव: ... ” मत्स्य: ... ” ६। रुद्रमूर्त्ति-लिङ्गाधिकाराख्ये षष्ठे— जनार्दन: ... ” [ ६७—१३० ] कूर्म: ... ८५ शिवमूर्तय:— वराह: ... ” सद्योजात: ... ९७ नरसिंह: ... ” वामदेव: ... ९८ वामन: ... ” अघोर: (१) ... ” जामदग्न्य: ... ” तत्पुरुष: ... ९९ कौशल्यानन्दन: ... ” ईशान: ... ” बुद्ध: ... ८६ मृत्युञ्जय: ... ” कल्की ... ” विजय: ... ” चक्रप्रतिष्ठानिषेध: ... ८७ किरणाक्ष: ... ” चक्रविक्रयादिनिषेध: ... ” अघोर: (२) ... १०० चक्रप्रशंसा ... ” श्रीकण्ठ: ... ” महादेव: ... ” मूर्त्तिविशेषा:— सदाशिव: ... ” पन्नगाशन: ... ८७ अर्धनारीश्वर: ... ” वामन: .. ८९ उमामहेश्वरौ ... १०१ राम: ... ” कृष्णशङ्कर: ... ” नरवराह: ... ” कृष्णकार्त्तिकेय: ... :१ प्रकारान्तरम् ... ९० शिवनारायण: ... ”
[ ५ ] विषयाः पत्राङ्काः विषयाः पत्राङ्काः हरिहरपितामहः ... १०२ तिथ्यानयनम् ... ११९ सूर्यहरिहरपितामहः ... १०३ प्रशस्तचिह्नम् ... ” चन्द्राङ्कपितामहः ... ” लिङ्गे रेखाकरणम् ... ” चण्डभैरवः ... ” लिङ्गशिरोवर्त्तनम् ... ” विरूपाक्षः ... १०४ दुष्टलिङ्गलक्षणम् ... १२० त्र्यम्बकः ... १०४ स्फाटिकलिङ्गमानम् ... ” हरिहरमूर्त्तिः ... ” बाणलिङ्गोत्पत्तिस्थानानि ... ” लिङ्गानि— बाणलिङ्गपरीक्षा ... १२१ धातुलिङ्गमानम् ... १०५ वर्ज्यबाणलिङ्गानि ... ” धातुलिङ्गनामानि ... १०६ स्थानविशेषोत्पन्नपाषाणस्यापि पूज्यत्वम् ... ” धातुलिङ्गे विशेषः ... ” यथातथाऽवस्थितस्यापि बाणस्य प्राशस्त्यम् ... ” रत्नलिङ्गम् ... ” भोगदबाणलक्षणम् ... ” दारुलिङ्गमानम् ... १०७ सर्वावस्थास्वपि बाणस्य पूज्यत्वम् ... १२२ दारुलिङ्गनामानि ... १०८ बाणस्थापनप्रशंसा ... ” लिङ्गोचितवृक्षाः ... ” एकाब्दादिबाणमाहात्म्यम् ... १२३ वृक्षाणां लक्षणोद्धारः ... ” शिवतीर्थोदकलक्षणम् ... ” लिङ्गोचितगृहाणि ... ” शिवतीर्थोदकस्य पुण्यजनकत्वम् ... ” शैललिङ्गमानम् ... ” शिवतीर्थोदकल्लङ्घने प्रत्यवायः ... ” शैललिङ्गनामानि ... ११० प्रदक्षिणनियमः ... ” प्रासादमानेन लिङ्गमानम् ... ” जैनदेवालये विशेषः ... ” गर्भगृहमानेन लिङ्गमानम् ... १११ प्रणालदिङ्नियमः ... १२४ लिङ्गविस्तारः ... ११२ पिण्डिकालक्षणम् ... ” लिङ्गस्य ब्रह्मादिभागाः ... ११३ तस्याः स्वजातिकर्त्तव्यत्वम् ... ” नागरलिङ्गानि ... ” मतान्तरम् ... ” द्राविडलिङ्गानि ... ११४ पीठानां सन्धिस्थानम् ... ” वेशरलिङ्गानि ... ११५ नालमध्ये कर्णसन्धेर्निषेधः ... ” लिङ्गप्रासादोचितनक्षत्राणयनम् ... ” प्रणालभागकथनम् ... ” तस्कराद्यंशानयनम् ... ११६ मेखला ... ” धनर्ण-योन्यानयनम् ... ११७ खातविधानम् ... ” वारानयनम् ... ११८ पीठम् ... १२५
[ ६ ] विषयाः पत्राङ्काः विषयाः पत्राङ्काः लिङ्गपीठयोर्न्यूनाधिक्यनिषेधः ... १२५ जिनानां वर्णाः ... १३२ तयोर्न्यूनाधिक्ये दोषः ... ,, जिनानां ध्वजाः ... १३३ पीठिकाभेदास्तन्नामानि च ... ,, जिनानां नक्षत्राणि ... ,, पीठिकालक्षणम्— जिनानां जन्मराशयः ... १३४ स्थण्डिला ... १२६ जिनोपासकयक्षनामानि ... ,, मण्डला ... ,, जिनानां शासनदेवताः ... ,, पूर्णचन्द्रा ... ,, *यक्षाणां शासनदेवतानाञ्च लक्षणम्— वज्रा ... ,, गोमुखः ... १३५ पद्मा ... ,, चक्रेश्वरी ... ,, अर्धचन्द्रा ... ,, महायक्षः ... ,, त्रिकोणा ... ,, अपराजिता ... ,, पीठिकाफलम् ... ,, त्रिमुखः ... ,, पीठिकानां स्वजातिकर्त्तव्यता ... १२७ दुरितारिः ... १३६ प्रणालव्यवस्था ... ,, यक्षनायकः ... ,, मुखलिङ्गम् ... ,, कालिका ... ,, मुखनामानि ... ,, तुम्बरः ... ,, एकद्वारशिवायतनम् ... ,, महाकाली ... ,, चतुर्मुखशिवायतनम् ... १२८ कुसुमः ... ,, पूर्वप्रतीहारौ ... ,, श्यामा ... १३७ दक्षिणप्रतीहारौ ... ,, मातङ्गः ... ,, पश्चिमप्रतीहारौ ... ,, शान्ता ... ,, उत्तरप्रतीहारौ ... १२९ विजयः ... ,, वाहनविधानम् ... ,, भृकुटिः ... ,, वाहनदृष्टिकथनम् ... १३० अजितः ... ,, सुतारका ... ,, ७। जिनमूर्ति-चतुर्विंशतियक्षयक्षिण्य- ब्रह्मा ... १३८ धिकाराख्ये सप्तमे—[ १३१—१४३ ] अशोका ... ,, चतुर्विंशतितीर्थङ्कराः ... १३१ यक्षेट् ... ,,
- अत्र पुंवाचकाः शब्दा यक्षाभिधायकाः स्त्रीवाचकाः शासनदेवताभिधायकाः ।
[ ७ ] विषयाः पत्राङ्काः विषयाः पत्राङ्काः मानवी ... १३८ ८ । देवीमूर्त्तिलक्षणाधिकाराख्येऽष्टमे— कुमारः ... ,, [ १४४—१६८ ] प्रचण्डा ( टी० ) ... ,, गौरीमूर्त्तीनां सामान्यलक्षणम् ... १४४ षण्मुखः ... ,, गौरीनामानि— विदिता ... १३९ उमा ... १४४ पातालः ... ,, पार्वती ... ,, अङ्कुशी ... ,, गौरी ... १४५ किन्नरः ... ,, ललिता ... ,, कन्दर्पा ... ,, श्रिया ... ,, गरुडः ... ,, कृष्णा ... ,, निर्वाणी ... ,, हिमवन्ती ... ,, गन्धर्वः ... १४० रम्भा ... ,, बला ... ,, सावित्री ... १४६ यक्षेट् ... ,, त्रिखण्डा ... ,, धारिणी ... ,, तोतला ... ,, कुबेरः ... ,, त्रिपुरा ... ,, धरणप्रिया ... ,, गौर्यायतनम् ... ,, वरुणः ... ,, गौर्याः प्रतीहाराः ... १४७ वरदन्ता ... १४१ गणेशः ... १४८ भ्रुकुटिः ( यक्षः ) ... ,, हेरम्बः ... १४९ गान्धारी ... ,, गजाननः ... ,, गोमेधः ... ,, वक्रतुण्डः ... १५० अम्बिका ... ,, उच्छिष्टगणपतिः ... ,, पार्श्वः ... १४२ हेरम्बः ... ,, पद्मावती ... ,, क्षिप्रगणपतिः ... ,, मातङ्गः ... ,, गणेशायतनम् ... १५१ सिद्धायका ... ,, गणेशप्रतीहाराः ... ,, द्वितीयभेदेन चक्रेश्वरो ... ,, कार्तिकेयः ... १५२ जिनप्रतीहाराः ... १४३ द्वादशभुजकार्तिकेयः ... १५३ एषां स्वरूपम् ... ,, द्विभुजकार्तिकेयः ... ,,
[ ८ ] विषयाः पत्राङ्काः | विषयाः पत्राङ्काः चतुर्भुजकार्त्तिकेयः ... १५३ | महावाणी ... १५९ पञ्चलीलयाः ... १५४ | भारती ... १६० नवदुर्गाः— | सरस्वती ... ,, महालक्ष्मीः ... १५५ | आर्या ... ,, नन्दा ... ,, | ब्राह्मी ... ,, क्षेमङ्करी ... ,, | महाधेनुः ... ,, सर्वती ... ,, | वेदगर्भा ... ,, महरण्डा ... ,, | ईश्वरी ... ,, भ्रमणी ... १५६ | महालक्ष्मीः ... ,, सर्वमङ्गला ... ,, | महाकाली ... ,, रेवती ... ,, | महासरस्वती ... ,, हरसिद्धिः ... ,, | भद्रकाली ... ,, क्षेत्रपालः ... ,, | चण्डी ... १६१ मातरः— | चण्डिकाप्रतीहाराः ... १६२ ब्राह्मी ... १५७ | लक्ष्मीः ... ,, माहेश्वरी ... ,, | महालक्ष्मीः ... १६४ कौमारी ... ,, | कात्यायनी ... ,, वैष्णवी ... १५८ | नृत्ये संस्थानवैशिष्ट्यम् ... १६५ वाराही ... ,, | हस्तादीनां रसाभिव्यञ्जकता ... १६६ ऐन्द्री ... ,, | नृत्ये आस्यादीनां प्रातिस्विकविषय- चामुण्डा ... ,, | निरूपणम् ... १६७ चण्डिका ... १५९ | ग्रन्थकृतः स्वाहङ्कारपरिहारः ... ,, द्वादश सरस्वत्यः— | ग्रन्थसमाप्तिः ... ,, महाविद्या ... १५९ | विषयानुक्रमणी समाप्ता ।
ग्रन्थकर्त्तुर्मङ्गलाचरणम् [आदौ यः सूत्रधारस्त्रिभुवनरचनासूत्रलक्ष्यस्य(स्व?)रूपो येनेदं देवदैत्योरगधरणितलं पर्वताकाशरूपम् । सृष्टं चित्रं विचित्रं जगदिति सकलं जन्तुवृत्तादिसर्वं वन्द्योऽसौ सृष्टिकर्त्ता सुरदनुजनरैः सर्पविद्याधराद्यैः ॥]
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है, यह एक रिक्त पृष्ठ (blank page) है।
देवतामूर्त्तिप्रकरणम् प्रथमोऽध्यायः ॐ नमो गणेशाय [ अथ शिलापरीक्षा ] धातुरत्नशिलाकाष्ठचित्रलेपसमुद्भवम् । यद्रूपं विधिवत्तस्य विधिं वक्ष्यामि वस्तुनः ॥१॥ एकवर्णा घना स्निग्धाऽऽमूलाग्रादार्जवान्विता । अजघण्टारवाघोषा सा पुं'शिला प्रकीर्त्तिता ॥२॥ स्थूलमूला कृशाग्रा या कांस्यतालसमध्वनिः । स्त्रीशिला कृशमूलाऽग्रस्थूला षण्ढेति निःस्वना ॥३॥ २ । अजघण्टारवाघोषेति । अजगललम्बिन्या घण्टाया रव इवाऽऽघोषो रवो यस्याः सेत्यर्थः । सा च किङ्किण्यपरपर्याया क्षुद्रा घण्टिका । यच्च मयमते 'गजघण्टारवे'ति (अ० ३३, ८ श्लो० ) पाठस्तस्यापि क्षुद्रघण्टेत्यर्थः, गजगले तादृश्या एव घण्टिकाया बन्धनप्रसिद्धेः । अत्र च किं मयमतीयपाठदर्शनाद् गजघण्टैव लेखकप्रमादादिहाजघण्टात्वमापन्ना, अत्रत्यपाठस्वरसाद्गज- घण्टैव वा मयमते गजघण्टात्वमापन्ना, उतोभयमेव पृथक् प्रमाणमित्यपि च न सुनिर्णयम् । काश्यपशिल्पे तु "घण्टाध्वनिसमोन्नादे"ति (अ० ४९, ५५ श्लो०) पाठः । ३ । स्थूलमूलेति । कांस्यतालसमध्वनिरिति कांस्यनिर्मितेन तालेन वाद्यभाण्डविशेषेण समस्तुल्यो ध्वनिर्यस्याः सा । तथाच मयमते— स्थूलमूला कृशाग्रा या कंसतालसमध्वनिः । स्त्रीशिला ... ... ... ॥ इति । (अ० ३३, ९ श्लो०) कंसं कांस्यञ्च पर्यायशब्दौ । यद्यपि— तालः करतलेऽङ्गुष्ठमध्यमाभ्याञ्च सम्मिते । गीतकालक्रियामाने तालः खड्गादिमुष्टिषु ॥
२. अध्याय ३-४: वैष्णव प्रतिमा लक्षण (दशावतार, चतुर्विंशति केशव रूप व आयुध)
४ देवतामूर्त्तिप्रकरणम् [ शिलाभेदेन कर्मभेदः ] लिङ्गानि प्रतिमा मिश्रं कुर्यात् पुंशिलया बुधः । युञ्ज्यात् स्त्रीशिलया सम्यक् पीठिकाशक्तिमूर्त्तयः ॥४॥ द्रुमभेदे करास्फाले तालस्तु हरितालके । वाद्यभाण्डे च कांस्यस्य ... ॥ इति विश्वदर्शनात् तालशब्देनैव कांस्यनिर्मितवाद्यविशेषलाभात् कांस्यपदं ( मयमते च कंसपदं ) व्यर्थम्, तथापि 'सम्भेदनान्यतरवैयर्थ्यमि'ति न्यायात् 'नयनाश्व' इत्यादिवद् विशेषप्रतिपत्त्यर्थं वा तदुपात्तमिति ज्ञेयम् । स्पष्टमाह काश्यपशिल्पे— “तालशब्दसमाकारा दीर्घा या सा शिला स्त्रियः” इति । (अ० ४९, ५६ श्लो०) निःस्वनेति । निर्नास्ति स्वनो यस्याः सा निःस्वना शब्दहीना । व्यक्तमाह—काश्यपीये— “अस्विन्न झर्झरी इ(रु)क्षा स्वरहीना नपुंसका” इति । (अ० ४९, ५६ श्लो०) मयमते त्वविकलोऽयं श्लोकः परिदृश्यते । एवं मिश्राभ्यामाकृतिस्वराभ्यां भेद उक्तः । केवलया आकृत्यापि स्त्रीपुंनपुंसकादिभेदमाह काश्यपः— चतुरस्रा च वस्वस्रा स्त्रीशिलेति प्रकीर्त्तिता ॥ आयतास्रा च वृत्ता च दशाष्टादशकोणका । पुंलिङ्गा सा शिला ख्याता सुवृत्ता सा नपुंसका ॥ इति । (अ० ४९, ५७-५८ श्लो०) शिलानां वृद्धाबालायुवत्यादिसंज्ञा, अन्ये च विशेषाः काश्यपशिल्पे (अ० ४९) मयमते (अ० ३३) आग्नेये (अ० ५३) च द्रष्टव्याः । ४ । लिङ्गं त्रिविधं निष्कलं सकलं मिश्रञ्चेति । तत्र निष्कलं लिङ्गाख्यम्, सकलं प्रतिमा, सा च प्रस्तावाच्छिवस्यैव । मिश्रञ्च तयोर्मिश्रणादुत्पन्नं मुखलिङ्गाख्यम् । तथा चोक्तं मयमते— निष्कलं सकलं मिश्रं लिङ्गञ्चेति त्रिधा मतम् । निष्कलं लिङ्गमित्युक्तं सकलं बेरमुच्यते ॥ मुखलिङ्गं तयोर्मिश्रं लिङ्गार्चाकृतिसन्निभैः । बिम्बमूर्त्तिः शरीराभा विश्वमूर्त्तिस्वरूपकैः ॥
प्रथमोऽध्यायः ५ षण्ढोपलेन कर्तव्यं (व्ये?) ब्रह्मकूर्मशि(ले त ?) लैस्तथा । प्रासादनल(तल ?)कुण्डादि कर्म कुर्याद्विचक्षणः ॥५॥ छन्नदेहप्रतिच्छन्दप्रतिमाङ्गैस्तु नामभिः । दृश्यो देवसमाख्यातः ... ... ॥ (अ० ३३, १-३ श्लो०) एवं त्रिविधमपि लिङ्गं पुंशिलया कार्यमित्याह—लिङ्गानीति। काश्यपशिल्पे तु 'पुंशिलाभिः कृतं लिङ्गम्' (अ० ४९, ५९ श्लो०) इत्यविशेषेण लिङ्गमात्रोल्लेखः कृतः । व्यक्तमाह मयमते— “सकलं निष्कलं मिश्रं कुर्यात् पुंशिलया सुधीः” इति । (अ० ३३, १० श्लो०) पीठिकेत्यादि—पीठिका पिण्डिका गौरीपीठमित्यर्थः, न तु पादशिला, पुंशिलाभिः कृतं लिङ्गं स्त्रीशिलाभिस्तु पिण्डिका । नपुंसकशिलाभिस्तु पादाधारं समाचरेत् ॥ (अ० ४९, ५९-६० श्लो०) इति काश्यपशिल्पे, बिम्बार्थं पुंशिला ग्राह्या पीठार्थं स्त्रीशिला तथा । नपुंसकशिला पादशिलार्थमखिले मता ॥ इति । (अ० १, २९ श्लो०) शिल्परत्नोत्तरभागे च पादशिलापीठशिलयोर्द्वयोः पृथग्जातीयशिलासाध्यत्वेन निर्देशात् । लौकिक- दृष्ट्यापि युक्तमचेतनस्य पादाधारस्यैव क्लीबशिलया घटनम्, योनिपीठस्य च शक्तिस्वरूपस्य स्त्रीशिलया निर्माणमिति । ग्रन्थकृता तु वक्ष्यमाणश्लोके ब्रह्मकूर्मशिलैरित्युक्त्वा पादाधारशिला संगृहीतेति ज्ञेयम् । शक्तिमूर्त्तयः स्त्रीदेवताप्रतिमाः । तथा च मयमते— “युञ्जीयात् स्त्रीशिलाः सम्यक् नारीवेरञ्च पिण्डिका” (अ० ३३, १० श्लो०) नारीवेरञ्च पिण्डिकेति नारीवेरे स्त्रीप्रतिमायां पिण्डिकायां गौरीपीठे च इत्यर्थः । अत्र मूर्त्तय इति द्वितीयार्थे प्रथमा । ५। षण्ढ
६ देवतामूर्त्तिप्रकरणम् ब्रह्मभागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छ्रयम् । न्यसेद् ब्रह्मशिलां विद्वान् सम्यक् कर्मशिलोपरि ॥ (अ० ५२, १४ श्लो०) इति । अत्र च कथं ब्रह्मशिलैवोपरिष्टात् स्थापनीया न कर्मशिला, कर्मशिला चाधस्तादेव स्थापनीया न ब्रह्मशिलेति प्रश्ने तयोरौत्तराधर्यं कारणं परावरत्वमेवेत्युत्तरयिष्यन् स्थापन- परिपाटीमाह मात्स्ये— अधः कूर्मशिला प्रोक्ता सदा ब्रह्मशिलाऽधिका । उपर्य्यवस्थिता तस्या ब्रह्मभागाधिका शिला ॥ (अ० २६६, ५ श्लो०) इति । अधः कूर्मशिला प्रोक्ता (तस्याः) अधिका ब्रह्मभागाधिका शिला ब्रह्मशिला तस्या उपरि अवस्थितेत्यन्वयः, ब्रह्मभागाधिक्यमेव तस्या उपर्य्यवस्थाने हेतुरिति भावः । एवञ्च मूलग्रन्थे 'कर्त्तव्यम् इति, ब्रह्मकूर्मशिलैरि'ति चापपाठौ ; शुद्धः पाठस्तु 'कर्त्तव्ये ब्रह्मकूर्मशिले' इति, मयमते तथा पाठदर्शनात्, कोषादौ शिलार्थकस्य 'शिल'शब्दस्यानुपलम्भा- दर्थासङ्गतेश्च । न हि ब्रह्मशिल्या कूर्मशिल्या वा किञ्चित् क्रियते अपि तु ते एव क्रियेते इति कर्मकरणयोरविवेक एवात्रासङ्गतिः । तथा चानयोः कर्त्तव्यतामाह—समराङ्गणसूत्रधारे— याताभिषेक (यावताभ्यधिका ?) ब्रह्मशिला ब्रह्मांशतो भवेत् । ताव(त्या ? ता)भ्यधिका कार्या तस्याः कर्मशिला बुधैः ॥ इति । (अ० ७०, १४० श्लो०) अन्यत्र च— “नपुंसकशिलाभिस्तु कर्त्तव्या ब्रह्मणः शिलाः” इति ब्रह्मशिलाया षण्ढोपलकर्त्तव्यतामुपदिशन् सर्वान् संशयानपुदति । 'प्रासादनलकुण्डादी'ति पाठोऽपि प्रामादिक इव प्रतिभाति, अन्यत्र तादृशपाठानुपलम्भा- दर्थासङ्गतेश्च । न च नालमिति पाठः निर्माल्यद्वारलक्षणस्य तस्य पुंशिल्या कर्त्तव्यतोपदेशात् । तथा च काश्यपे— “पुंशिल्या तु कर्तव्यं नालं तु द्विदलान्वितम्” इति । ( अ० ८० १३ श्लो० ) तस्माद् ग्रन्थान्तरसंवादात् 'तल' इत्येव पाठो बन्धनीमध्ये परिकल्पितः । यद्यपि 'कुड्यादी'ति मयमते पाठस्तथापि साधकबाधकयुक्त्यभावाद् भवेदपि 'कुण्डादीत्य'पि पाठ इति बुद्ध्या पाठान्तरं नोपकल्पितम् । मयमतेऽपि 'नन्द्यावर्त्तशिले' इत्यपपाठ इव प्रतिभाति, द्वित्वानुपपत्तेः, 'नन्द्यावर्त्तशिला' इति शुद्धः पाठः । यथोक्तशिलाभिर्यथोक्तकार्याकरणे दोषमाह काश्यपः— “कृतञ्च विपरीतं यत्तत् सदा कर्तृनाशनम्” (अ० ४९, ६० श्लो०) विपरीतमिति यदुक्तं तदेव विवृण्वन्नाह शिल्परत्न उत्तरभागे— स्त्रीशिलाकल्पिते लिङ्गे राष्ट्रं राजा च नश्यति । पुंशिलाकल्पिते पीठे लिङ्गे पीठे च षण्डके ॥
shape of द्ध with subscript. Wait, let's look at the very beginning of that word: "शिलाया ऊर्द्ध्वोधोज्ञानार्थं" vs "शिलाया ऊर्ध्वाधोज्ञानार्थं". Wait, let's search if this exact commentary text is known: The text is from a commentary on Shilparatna or Kashyapa or similar. Look at the main verse: "प्राक् पश्चाद्दक्षिणे सौम्ये स्थिता भूमौ तु या शिला । प्रतिमायाः शिरस्तस्याः कुर्यात् पश्चिमदक्षिणे ॥६॥" This is Shilparatna, Chapter 14, verse 6! Wait! Let's check line 7: "तथा च शिल्परत्ने—" -> no, this text is quoting Shilparatna, so this work itself is NOT Shilparatna. What is this work? Header: "प्रथमोऽध्यायः" (Chapter 1). Main verse 6: "प्राक् पश्चाद्दक्षिणे सौम्ये स्थिता भूमौ तु या शिला । प्रतिमायाः शिरस्तस्याः कुर्यात् पश्चिमदक्षिणे ॥६॥" This is from प्रतिमालक्षणम् or विष्णुसंहिता or हयशीर्षपञ्चरात्र or शिल्परत्न or तन्त्रसमुच्चय? Wait, Tantrasamuccaya! Let's check Tantrasamuccaya, Patala 1 or 2? In Tantras
८ देवतामूर्त्तिप्रकरणम् स्निग्धा शल्यसहा गभीरनिनदा दिश्याहिताग्रा शिला। ग्राह्या बिम्बविधौ ... ... ... ॥ इति। (अ० १४, ११ श्लो०) दिश्याहिताग्रेति दिशि आहितम् अर्थात्कवस्थितम् अग्रं यस्यास्तादृशीत्यर्थः। दिक्- शब्दश्रुत्या जायमानं जनानां कोणभ्रममपनयन् स्पष्टमाह तत्रैव ग्रन्थकारः— “दुःस्पर्शापदिशं निवेशितशिरोदेशा विवर्ज्या शिला” इति। (श्लो० १०) अपदिशमिति अन्तरालं कोणमित्यर्थः। तथा च अमरः— “क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्” इति। कोणनिवेशितशिराः शिला वर्ज्येत्यर्थः। “कोणशीर्षा शिला त्याज्या भर्तुर्दुःखकरी यतः” (अ० १४, ४ श्लो०) इति च स्पष्टात् स्पष्टतरं तत्रैव। ग्रन्थकृता कृतः समाधिस्तु न युक्तिं सहते। तथा हि—पूर्वोक्तैः काश्यपमयशिल्परत्नादिवचनै- रैकमत्येन शिलायाः प्रागुदगग्रत्वं प्रतिपद्यते, एवञ्च प्रागग्रया शिलया प्रागग्रा, उदगग्रया शिलया चोदगग्रैव प्रतिमा युक्तितः करणीयेति किमिति तं पन्थानमुत्सृज्य ग्रन्थकृता नवीन इव पन्थाः समवलम्बितः किं वा तत्र प्रमाणं तेनोपलब्धमिति न जानीमः। यद्यप्यस्मत्सूचितेऽर्थे स्फुटं कमपि ग्रन्थान्तरसंवादं नोपलभामहे, तथाऽप्येकत्र दृष्टः शास्त्रार्थो बाधकमन्तरेणान्यत्रापि तथेति न्यायादयमर्थः समर्थयितुं शक्यते। तथा हि, दारवप्रतिमाया उपादानस्य वृक्षस्य यथामूलं यथोर्ध्वं यथापार्श्वञ्च प्रतिमाया अपि शिरःपादादिकं कुर्यादित्युप- लभ्यते। तथा च बृहत्संहितायाम्— लिङ्गं वा प्रतिमा वा यथादिशं यस्मात्। तस्माच्चिह्नयितव्या दिशो द्रुमस्योर्ध्वमथ वाऽधः ॥ ( अ० ५८, ७ श्लो० ) अस्यायमर्थः—लिङ्गं शिवलिङ्गं वा प्रतिमा अर्चा वा यस्माद् द्रुमवद् वृक्षवत् स्थाप्या तस्माद्धेतोर्द्रुमस्य दिश आशाश्चिह्नयितव्याः, एवमूर्ध्वाधरौ भागावपि चिह्नयितव्यौ। अयमर्थः— द्रुमस्य यः पूर्वाभिमुखो भागः स एव प्रतिमायाः पूर्वभागः कार्यः। एवं दक्षिणो दक्षिणः। पश्चिमः पश्चिमः। उत्तरभाग उत्तरभाग एव कार्यः। वृक्षस्य योऽधोभागः स एव प्रतिमाया अधोभागः कार्यः। वृक्षस्य य ऊर्ध्वभागः सोऽपि प्रतिमाया ऊर्ध्वभागः कार्य इति तद्विवृतौ भट्टोत्पलः। बृहत्संहिताविवृतिकृद्धृतकाश्यपे च— वृक्षवत् प्रतिमा कार्या प्राग्भागाद्युपलक्षिता। पादाः पादेषु कर्तव्याः शीर्षमूर्ध्वे तु कारयेत् ॥ इति।
प्रथमोऽध्यायः ६ [ आकृतितो ग्राह्यशिलाकथनम् ] निविडा निर्व्रणा मृद्वी सुगन्धा मधुरा शिला । सर्वार्चालिङ्गपीठेषु श्रेष्ठा कान्तियुता च या ॥७॥ काश्यपशिल्पे तु— वृक्षस्य पूर्वभागे तु मुखं पृष्ठन्तु पश्चिमे । दक्षिणं सव्यपार्श्वं स्याद्वामपार्श्वं तथोत्तरम् ॥ इति । (अ० ४९, २३ श्लो०) परं तत्र तत्र शिलाया ऊर्ध्वाधःकथनं प्रतिमाया अपि ऊर्ध्वाधोनिर्णयाभिप्रायकम्, अन्यथा तदुक्तेरुपयोगो दुरुपपाद एव स्यात् । एवञ्च मयमते शिलाया अधोऽग्रादिकमभिधाय मुखपृष्ठादि- निर्णयार्थम्— “मुखमुद्धरणेऽधोऽंशमूर्ध्वं भागं शिरो विदुः” इति यदुक्तं तदपि निराकुलं सम्पद्यते । इतरथात्र शिलायाः शिरोमुखादिवचनमव्यावर्त्तकं भवेत् । श्लोके ‘उद्धरणे’ इत्यस्य शिलाहरणे, ‘शिर’ इत्यस्य च मुखपृष्ठभाग इत्यर्थः । व्यक्तमाह काश्यपशिल्पे— “अधोभागं मुखं ख्यातं पृष्ठमूर्ध्वगतं भवेत्” इति । ( अ० ४९, ६८ श्लो० ) मूलश्लोके पश्चिमादिशिरस्कत्वकथनं शयानशिलाभिप्रायेण । दण्डायमानशिलायास्तु भूमिष्ठो- ऽंशो मूलम्, ऊर्ध्वभागश्चाग्रमिति ज्ञेयम् । तदुक्तं मयमते— “अग्रमूर्ध्वमधो मूलं पाषाणस्य स्थितस्य तु” इति । ( अ० ३३, १८ श्लो० ) ७ । निविडा सुश्लिष्टाङ्गसन्धिः, निर्व्रणा स्फोटकाकृतिबिन्दुरहिता । बिन्दुमाह काश्यपः— ............त्रिविधा बिन्दुरेव हि । कृष्णलोहनिभाकारा कृष्णभ्रमरसन्निभा ॥ शिखिपिच्छसमाकारा............॥ इति ( अ
१० देवतामूर्तिप्रकरणम् [ त्याज्यशिलाकथनम् ] विमलं हेमकांस्यादिचिह्नं लोहमयं हि यत् । य(त?)थान्यद् विविधं चिह्नं प्रतिमायां भयावहम् ॥८॥ [ वर्णतो ग्राह्यशिलाकथनम् ] कपोतकुमुदभृङ्गमाषमुद्गासितोपमा । पाण्डुरा घृतपद्माभा सर्वार्चासु सुखावहा ॥६॥ या च कान्तियुता स्निग्धा शिला सा सर्वार्चालिङ्गपीठेषु सर्वास्वेवर्चासु प्रतिमासु, सर्वेषु लिङ्गेषु पीठेषु चेत्यर्थः, श्रेष्ठा । मृद्वी अरूक्षा, न त्वनायासच्छेदत्वप्रयोजककोमलतापर्यायमृदुत्ववती । मयमते शिलाया बालायुवत्यादिसंज्ञाप्रस्तावे— टङ्काघातादिमृद्वी या मन्दपक्केष्टकोपमा । शिला बाला मता तज्ज्ञैः सर्वकर्मसु निन्दिता ॥ (अ० ३३, ४३ श्लो०) इत्यनेन तादृशशिलाया बालसंज्ञकत्वेन
प्रथमोऽध्यायः ३१ [ शिलाद्याहरणक्षणः ] सुदिने शुभनक्षत्रे शकुने शान्तचेष्टिते । प्रतिमागृहकाष्ठादिकर्म कार्यं न चान्यथा ॥१०॥ इति शिलापरीक्षा इत्येकान्तकृष्णाया एव दोषश्रुतेः, “हरिता कृष्णा शिला ग्राह्या सितवर्णा विशेषतः” इति (अ० ४९, ५० श्लो०) ईषत्कृष्णाया ग्राह्यत्वविधानाच्च । अग्निपुराणे तु— “पाण्डरा ह्यरुणा पीता कृष्णा शस्ता तु वर्णिनाम्” (अ० ४३, १२ श्लो०) इत्यविशेषेण सर्वेषामेव ब्राह्मणादिवर्णानां सर्वाऽप्यरुणपीतादिशिला प्रशस्तेत्याह । इह तु कासाञ्चन कृष्णानां कासाञ्चन पीतानामविशेषेण च श्वेतानां शुभावहत्वमाह—कपोतेत्यादिना । तथा च कपोतादिवत् कृष्णशिला, घृतवत् पद्मवच्च पीतशिला श्वेतशिला च सर्वांर्चासु प्रयुक्ता कर्तुः सुखमावहतीति श्लोकार्थः । १०। सुदिन इति । शुभनक्षत्रे कर्तुरिति ज्ञेयम्, सुदिने इति सामान्यतोऽभिधाय विशिष्य पुनर्नक्षत्रोपादानस्य फलाभावात् । सुदिनञ्च ज्योतिःशास्त्रादाववलोकनीयम् । विशिष्याह काश्यपः— “सुमासतिथिनक्षत्रलग्नवारे शिलां ग्रहेत्” इति । (अ० ४९, १८ श्लो०) मयमते च शिलाद्याहरणं प्रकृत्य— उत्तरायणमासे तु शुक्लपक्षे शुभोदये । प्रशस्तपक्षनक्षत्रे मुहूर्त्ते करणान्विते ॥ इति । (अ० ३३, १९-२० श्लो०) शकुने शान्तचेष्टित इति । शकुने शुभाशुभाशंसिनि निमित्ते शान्तचेष्टिते शान्तं सौम्यं कर्मानुकूलमिति यावत् चेष्टितं यत्र तादृशे सति । शकुनमाह काश्यपशिल्पे— वायसं दक्षिणे वामादागतञ्च तथैव च । श्येनं वै दक्षिणे वामे गृध्रं मांसेन संयुतम् ॥ कन्यागोदर्शनञ्चैव गावस्त्ववावाहनं तथा । दधिना पूर्णकुम्भञ्च क्षीरकुम्भं तथैव च ॥ पुष्पं पुष्पप्लुतं वापि सुतवतीयु(षदयु)वतिस्त्रियः । अन्नञ्च मांसहास्व (हारञ्च) शिवमक्तिपरायणम् ॥ ज्वालाऽनलञ्च दीपञ्च जलैः पूर्णघटावृतम् । त(व)राहं च गजं चैव वेण्या चात्यन्तसुन्दरी ॥ शुभान्येतानि भौमानि अशुभं विपरीतकम् ।
१२ देवतामूर्तिप्रकरणम् उल्कापातं दिशां दाहं महावातप्रवर्त्तनम् । अशुभान्यन्तरीक्षाणि ... ... ॥ इत्यादि । (अ० ४९, २०-२५ श्लो०) शुभशकुनञ्चेद् गच्छेदशुभञ्चेन्न गच्छेदित्याशयः । तदुक्तं काश्यपे— “शुभञ्चेद् गमनं कुर्यादशुभञ्चेद् विवर्जयेत्” इति । (अ० ४९, २८ श्लो०) कालातिपाताक्षमे कर्मण्यशुभशकुनदर्शने प्रतिप्रसवमप्याह तत्रैव— अशुभे त्वग्निमास्तीर्य शिवेनैव शताहुतीः । समिदाज्योदनैः कुर्यान्नागाङ्गं नागभूषणम् ॥ दत्त्वा शिवं नमस्कृत्य गच्छेदाचार्यशिल्पि च । इति । (अ० ४९, २९-३० श्लो०) प्रतिमेति । एतदुपलक्षणम्, लिङ्गपीठाद्युचितशिलाद्याहरणेऽप्येतद् योज्यम् । तथा च काश्यपे— आचार्यः शिल्पिसंयुक्तः शिलाग्रहणमाचरेत् । दिव्यान्तरीक्षमौमानि निमित्तान्युपलक्षयेत् ॥ (अ० ४९, १९ श्लो०) इति सामान्यतः शिलाहरणमुक्तम् । मयमते च— प्रशस्तपक्षनक्षत्रे मुहूर्त्ते करणान्विते । गच्छेल्लिङ्गं समुद्दिश्य वनं चोपवनं गिरिम् ॥ ... ... ... निमित्तैः शकुनैर्योग्यैः सह मङ्गलशब्दकैः ॥ इति । (अ० ३३, २०-२२ श्लो०) अत्र लिङ्गमित्युपलक्षणमर्चादीनाम् । वनं चोपवनमिति प्रतिमोचितद्रुमोद्देशकथनम्, गिरिमिति लिङ्गाद्युपयोगिशिलास्थानकथनम् । शिलाग्रहणमन्त्रमाह तत्रैव— ॐ अपक्रामन्तु भूतानि देवताश्च सगुह्यकाः । युष्मभ्यन्तु बलिर्भूयात् क्रूराश्च वनदेवताः ॥ कर्मैतत् साधयिष्यामि क्रियतां व[वा ?]स्तुपर्ययः । इति । (अ० ३३, २७-२८ श्लो०) प्रतिमोचितकाष्ठग्रहणे विशेषमाह बृहत्संहितायाम्— कर्तुरनुकूलदिवसे दैवज्ञविशेषिते शुभनिमित्ते । मङ्गलशकुनैः प्रास्थानिकैश्च वनसम्प्रवेशः स्यात् ॥ इति ।