षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
मर्यादामागैसृष्टिप्रकारमाहुः वचसेति । वचसां वेदरूपवाण्या मर्यादामागं सृष्टवान् । मर्यादामागंस्य वेदमूलकत्वप्रसिद्धिद्योतनार्थं हिशब्दः । एवं शरीरैकदेशाभ्यां मार्गद्वयसर्ग- मुक्त्वा पुष्टिमार्गसृष्टेः सर्वोत्कृष्टत्वज्ञापनाय पुष्टिमार्गसृष्टिमाहुः पुष्टिं कायेनेति । आनन्द- मात्रकरपादमुखोदरादिरूपेण सम्पूर्णकायेन पुष्टिमार्गसृष्टिं कृतवान् । मार्गत्रयप्रयोजनमग्रे वक्ष्यन्ति । सम्पूर्णदेहेन पुष्टिसर्गस्य कथनात् पुष्टिसर्गस्य सर्वोत्कृष्टत्वं निर्धारितमिति ज्ञापनायोक्तं निश्चय इति ॥ ९ ॥ एवं मार्गत्रयसर्गस्वरूपं निरूप्य मार्गभेदेन मार्गत्रयफलस्वरूपमाहुः मूलेच्छात् इति । मूलेच्छातः फलं लोके वेदोक्तं वैदिकेपि च । कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकता ॥ १० ॥ सृष्ट्यन्तर्गतानां केषाञ्चित् जीवानामासुरत्वसम्पादिका या भगवदिच्छा सा मूलेच्छा, ततः तदिच्छया लोके प्रवाहमार्गे फलं अन्धंतमःप्रवेशरूपं भवतीत्यर्थः । एवं प्रावाहिकाणां फलं निरूप्य मर्यादामार्गीयाणां फलं निरूपयन्ति वेदोक्तं वैदिकेऽपि चेति । वैदिके मर्यादाज्ञानमार्गे 'तमेव विदित्वाति मृत्युमेति' इत्यादिश्रुतिप्रतिपाद्यमक्षरप्राप्तिरूपं फल- मुक्तम् । एवं कर्ममार्गेपि 'अग्निष्टोमेन स्वर्गकामो यजेते'त्यादिश्रुत्या सकामस्य स्वर्गलोक- प्राप्तिरूपं फलम्, निष्कामयागकर्तुरपि स्वर्गलोककामनाभावात् स्वर्गलोके च 'यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं यत् तत्पदं स्वःपदास्पद'मिति स्वःपद- लक्षणाभावात् आत्मसुखे च स्वःपदलक्षणयोगात् निष्कामयागकर्तुरात्मसुखरूपं फलं भवति । चकारात्तादृशस्यापि भगवदनुग्रहेण भगवद्भक्तसङ्गेन भक्तिप्राप्तौ सत्यां मर्यादा- मार्गीयभक्तस्यापि मुक्तिरूपा पुरुषोत्तमप्राप्तिर्भवतीति ज्ञापनाय चकारः। एवं द्विविधमर्यादा- मार्गीयाणां द्विविधं वेदोक्तं फलं निरूप्य पुष्टेः फलं निरूपयन्ति कायेन तु फलं पुष्टा- विति । कायेन आनन्दमात्रकरपादमुखोदरादिरूपेण, सर्वेन्द्रियास्वाद्यस्वरूपानन्ददानरूपं फलम् । एतदतिरिक्तप्रकारस्य फलत्वाभावार्थे तुशब्दः । अत एव पुष्टिश्रुतिरूपाभिर्व्रजसी- मन्तिनीभिः 'अक्षण्वता'मिति श्लोके सर्वश्रुतिविरोधपरिहारेण सर्वेन्द्रियास्वाद्यपुरुषोत्तम- स्वरूपस्यैव फलत्वं निरूपितम् । ननु मर्यादामार्गीयभक्तेरपि पुरुषोत्तमप्रापकत्वात् पुष्टि- मार्गीयभक्तेरपि पुरुषोत्तमप्राप्तिहेतुत्वात् उभयोरपि फलैक्यं भवत्वित्याशङ्कां परिहरन्ति भिन्नेच्छातोपि नैकतेति । तस्यायमर्थः । यद्यपि मर्यादामार्गीयभक्तस्यापि अन्ते पुरुषो- त्तमप्राप्तिरस्ति, तथापि तस्य मुक्तिरूपैव प्राप्तिः, न तु पुष्टिमार्गीयभक्तवत् साक्षात्सम्बन्ध- रूपप्राप्तिः, यतो मर्यादामार्गीयभक्तस्यान्ते स्वप्राप्तौ तादृश्येव भगवदिच्छा । अत एव श्रीभागवते 'अनिच्छतोपि गतिमण्वीं प्रयुङ्क्त' इति । पुष्टिमार्गीयस्य साक्षात् स्वरूपसम्बन्धानु- भवरूपफलप्राप्तावेव भगवदिच्छा । यदि मार्गद्वयेपि एकमेवं फलं स्यात्, तदा मार्गभेदवै- यर्थ्यमेव स्यादित्यत उक्तं 'भिन्नेच्छातोपि नैकते'ति ॥ १० ॥ १. गोपीभिरित्यधिकं क्वचित् । २ पु. प्र. म.
१० श्रीवल्लभकृतविवरणसमेता । एवं मार्गत्रयस्य सर्गभेदं फलभेदं च निरूप्यैतेषां त्रयाणां स्वरूपाङ्गक्रिया निरूप- यन्ति । तत्र प्रथमं प्रवाहमार्गीयाणां स्वरूपमाहुः तानहं द्विषतो वाक्यादिति । 'तानहं द्विषतो' वाक्याद्विन्ना जीवाः प्रवाहिणः । अत एवैतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥ तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः । भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥ 'तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमसुरानासुरीष्वेव योनिषु । आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गति'मिति प्रवाहमार्गीया जीवा मर्यादामार्गीयपुष्टिमार्गीयजीवेभ्यो भिन्ना आसुरा इत्यर्थः । अत एवैतरौ मर्यादामार्गीयपुष्टिमार्गीयजीवौ प्रवाहमार्गीयजीवेभ्यो भिन्नौ दैवावित्यर्थः । भेदप्रकारमाहुः सान्ताविति । तत्तन्मार्गीयफलपर्यवसानावन्तौ । फलरूप- माहुः मोक्षप्रवेशत इति । स्वस्वमार्गीयमोक्षप्रवेशत इत्यर्थः । ननु प्रावाहिकाणां जीवाना- मपि तन्मार्गीयमोक्षप्राप्त्या सान्तत्वसम्भवेपि उभयोरेव सान्तत्वकथने को हेतुरिति चेत्, सत्यम्, यद्यपि तन्मार्गीयमुक्त्या तस्यापि सान्तत्वं सम्भवति, तथापि तन्मुक्तेरानन्दरहित्या- न्मोक्षलक्षणाभावात्, किञ्च, 'ततो यान्त्यधमां गति'मिति तन्मुक्तेरधमगतित्वनिरूपणात् आनन्दरूपफलपर्यवसानाभावाच्च सान्तत्वेन गणना, न सान्तत्वमिति उभावेव सान्तौ गणितौ, न तु प्रवाहोपि, इति ज्ञापनायोक्तं सान्तौ मोक्षप्रवेशत इति । ननु 'मोक्षप्रवेशत' इति सामान्योक्त्या मोक्षस्य मार्गद्वयेपि एकरूपता भविष्यतीत्या- शङ्कानिरासायाहुः तस्मादिति । यस्मात् पूर्वमेव पुष्टिमार्गीयाणां 'कायेन तु फलं पुष्टा'- वित्यत्र फलभेदोपि निरूपित एव, तथापि पुनरपि यत् 'मोक्षप्रवेशत' इति सामान्योक्त्या फलैकत्वशङ्का तन्निरासाय विशेषतस्तेषां पुष्टिमार्गीयजीवानां स्वरूपमाहुः तस्माज्जीवाः पुष्टिमार्गे भिन्ना इति । मर्यादामार्गीयेभ्यो भिन्ना एव, अत्युत्कृष्टा एवेत्यर्थः । तेषां कदाचिन्मार्गान्तरीयसङ्गेपि मार्गान्तरप्रवेशो न भवतीति ज्ञापनाय न संशय इत्युक्तम् । अतः परं केवलपुष्टिसृष्टेः सर्वात्मना सर्वतो भेदेन सर्वोत्कृष्टत्वनिरूपणस्य प्रयोजनमाहुः भगवद्रूपसेवार्थमिति । यथा मर्यादासृष्टेः तन्मार्गीयधर्मकरणं प्रयोजनम्, तथा पुष्टिसृष्टेः भगवत्सेवाकरणमेव प्रयोजनमिति, अत उक्तं भगवद्रूपसेवार्थमिति । यद्यपि मर्यादा- मार्गे सेवा वर्तते, परं तत्र मनस्येव अङ्गुष्ठमात्रादिरूपकल्पनेन, न तु साक्षादानन्दमात्र- करपादमुखोदरादिरूपेण प्रकटस्येति ज्ञापनाय स्वरूपपदमुक्तम् । नान्यथेति । एतत्प्रयो- जनातिरिक्तप्रयोजनाभावार्थमुक्तं नान्यथेति । यदिदं प्रयोजनं न भवेत्, तदा पुष्टि- सृष्टिरेव न भवेत्, अत उक्तं नान्यथा भवेदिति ॥ १२ ॥
पुष्टिप्रवाहमर्यादा । ११ सेवाकरणप्रकारमाहुः स्वरूपेणेति । स्वरूपेणावतारेण लिङ्गेन च गुणेन च । तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३ ॥ तथापि यावता कार्यं तावत्तस्य करोति हि ॥ १३½ ॥ यद्यपि केवलस्वरूपपदं केवलजीवपरमपि भवति, तथाप्यत्र फलरूपसेवाकरण- प्रकारनिरूपणे देहरहितकेवलजीवस्वरूपेण सेवाकरणासम्भवात् स्वरूपपदं लीलोपयोगि- देहपरमेव । देहस्य फलरूपसेवोपयोगिफलोपयोगिफलरूपभजनोपयोगित्वकथनेन अविकृत- त्वमानन्दमयत्वं नित्यत्वं च ज्ञापितम् । एवं साक्षाद्भजनोपयोगिदेहस्वरूपं निरूप्या- विर्भावप्रकारमाहुः अवतारेणेति । अवतारेण साक्षात् फलरूपभजनोपयोगिसमाजमध्ये प्राकट्येन । भजनोपयोगिप्रकारान्तरमाहुः लिङ्गेनेति । भजनोपयोगिदेहचिह्नैस्तैरित्यर्थः । चकारस्तदुपयोगिवयःसमुच्चयार्थः । पुनः प्रकारान्तरमाहुः गुणेनेति । गुणाः सौन्दर्य- रसोद्बोधकचातुर्यभावादयः । फलभोगस्य सर्वाज्ञातत्वप्रकारज्ञापनाय चकारः । (यतोऽयं रसः सर्वात्मना गोपनीय एव, भगवतो रसपोषाय । अत एव फलप्रकरणीयलीलारम्भे मुख्यभक्तानां भगवन्निकटागमनसमये 'ता वार्यमाणा' इति भर्त्रादीनां तदागमनज्ञाना- नन्तरमपि रसपोषाय योगमायाद्वारा तथा प्रभुः सम्पादितवान्, यथा तेषां 'मन्यमानाः स्वपार्श्वस्था'निति वचनात् तदागमनज्ञानसम्भावनापि नाभूत् । यदि तेषां तदागमनज्ञान- सम्भावनापि स्यात्, तदा रसाभासः स्यात् । अतः सर्वाज्ञानमावश्यकम् ।) ननु पुष्टिमार्गीय- फलानुभवः भोक्तृभोग्यसाम्ये सति सम्पूर्णो भवति, न तु यत्किञ्चित्तारतम्येन । प्रभो- रगणितानन्दस्वरूपत्वेन भजनरसानुभवकर्तॄणां तत्समत्वाभावात् पूर्णरसानुभवो न भविष्य- तीत्याशङ्कापरिहाराय स्वरूपेणेत्यादिना भजनरसानुभवकर्तृयोग्यताप्रकारं निरूप्य पूर्ण- रसानुभवसिद्धिहेतुमाहुः तारतम्यं न स्वरूप इति । पूर्वोक्तरसानुभवकर्तृयोग्यताप्रकारैः पूर्णस्वरूपरसानुभवसिद्धिप्रतिबन्धेहेतुतारतम्याभाव उक्तः । तारतम्यं न स्वरूप इति । स्वरूपे । यथा आनन्दमात्रकरपादमुखोदरादेर्भगवतः आत्मनि देहे वा आनन्दमयत्वेन तारतम्याभावः, तथा साक्षात्फलानुभवकर्तृभक्तेष्वपि आत्मनि आत्मस्वरूपे देहे वा आनन्द- मयत्वादिना तारतम्याभावः । नतु प्राकृतदेहवत् देहात्मनोस्तारतम्यमपि । अत एव जन्मो- त्सवाध्याये शुकदेवैरपि 'गोप्यश्चाकर्ण्य मुदिता' इतिश्लोके एतासां देहस्यालौकिकानन्दम- यत्वज्ञापनाय 'आत्मानं भूषयाञ्चक्रु'रित्युक्तम्, न तु देहं भूषयाञ्चकुरिति । तेनात्मपदोपादा- नात् यथा आत्मा नित्य आनन्दमयः अविकृतः, तादृश एवैतासां देह इति ज्ञापितम् । यद्येवं न स्यात्, तदा 'ते तु ब्रह्महदं नीता' इत्यत्र मुक्तिसुखानुभवसमये तद्देहस्थितिर्न स्यात् । मुक्त्यनुभवानन्तरमपि तेनैव देहेन मुक्त्यधिकपूर्णभजनानन्दानुभवो न स्यात् । एतदेवा- भिप्रेत्याचार्यैरुक्तं तारतम्यं न स्वरूपे देहे वा तत्क्रियासु चेति । अन्यथा उभयत्र पूर्ण- १. चिह्नान्तर्गतं नास्ति क्वचित् । २. पूर्णरसः ।
१२ श्रीवल्लभकृतविवरणसमेता । रसानुभवो न स्यात् । एवं देहात्मनोस्तारतम्याभावमुक्त्वा तत्क्रियास्वपि तारतम्याभावमाहुः तत्क्रियास्विति । क्रियासु तारतम्याभावप्रकारविशेषः । यथा भगवत्कर्तृकरसोपयोगिक्रिया- विशेषैर्भक्तेषु परमानन्दरसानुभवः, तथा भक्तकर्तृकरसोपयोगिक्रियाविशेषैर्भगवति परमानन्द- रसानुभव इति तारतम्याभावः, तथा सर्वत्र तारतम्याभावज्ञापनाय वाशब्दः । यद्यपि सर्वत्र तारतम्याभावोऽस्त्येव, तथापि भगवान् ततोपि अनिर्वचनीयपरमकाष्ठापन्नरसानुभवार्थं तारतम्यमपि करोतीत्याहुः तथापि यावतेति । यथा फलप्रकरणीयप्रथमाध्याये ‘बाहु- प्रसारपरिरम्भे’ति श्लोके ‘उत्तम्भयन् रतिपतिं रमयाञ्चकारे’ति स्वरमणेन पूर्णरसानुभवं कारयित्वा, अग्रिमश्लोके ‘आत्मानं मेनिरे स्त्रीणां मानिन्योभ्यधिकं भुवी’ति स्वरूपपरावृत्ति- रूपेण पूर्णरसानुभवं कारयित्वापि, पुनश्च फलप्रकरणीयचतुर्थाध्याये ‘तद्दर्शनाह्लादविधूत- हृद्रुज’ इतिश्लोके ‘मनोरथान्तं श्रुतयो यथा ययु’रित्यनेन भक्तमनोरथागम्यमपि पूर्वानु- भूतपूर्णरसतार्तम्यं ज्ञापयितुं स्वरूपानन्दं दत्तवानितिप्रकारं ज्ञापयितुमुक्तं यावतेति । यावता तारतम्येन तस्य भक्तस्य कार्यं मनोरथान्तरूपं स्वरूपानन्दानुभवं सिध्यति, तावत्ता्रतम्यं करोति । यत्र पूर्णरसदानार्थं तारतम्याभावं येषु भक्तेषु सम्पादितवान्, तेषु मनोरथान्तं स्वरूपानन्ददानं युक्तमेवेति ज्ञापनार्थं हिशब्दः ॥ १३३/२ ॥ एवं प्रकारभेदेन शुद्धमार्गत्रयाणां फलपर्यवसानमुक्त्वा शुद्धमिश्रभेदेन मार्गत्रयेपि द्वैविध्यमाहुः ते हि द्विधेति । ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥ प्रवाहादिविभेदेन भगवत्कार्यसिद्धये । पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥ मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः ॥ १५१/२ ॥ एवं द्वैविध्ये शुद्धभेदप्रकारस्य पूर्वोक्तत्वात् परं मिश्रभेदस्य भेदत्रयमाहुः मिश्रा- स्त्रिधा पुनरिति । मिश्रेशु त्रैविध्यं दर्शयन्ति प्रवाहादिविभेदेनेति । त्रैविध्यदर्शन- प्रयोजनमाहुः भगवत्कार्यसिद्धय इति। भगवत्कार्यं मार्गत्रयसर्गरूपम्, तत्सिद्धये मार्ग- त्रयविवेकज्ञानसिद्ध्यर्थमित्यर्थः । अथवा । भगवत्कार्यं लीलारूपम्, तत्सिद्धये क्रीडारस- सिद्ध्यर्थमित्यर्थः । अत एव श्रीभागवते विन्ध्यावल्याप्युक्तं ‘क्रीडार्थमात्मन इदं त्रिजग- त्कृतं ते स्वाम्यं तु तत्र कुधियोऽपर ईश कुर्यु’रिति । मिश्राणां त्रैविध्यं दर्शयन्ति पुष्ट्या विमिश्रा इति । ये सर्वज्ञास्ते सर्वज्ञत्वेन पुष्टिमार्गोत्कर्षं ज्ञात्वा पुष्ट्या विमिश्रा भवन्ति, यथा नारदप्रह्लादादयः, ये पूर्णज्ञानफलनिष्ठाः सन्तः पुष्टिखरूपभिज्ञास्ते पुष्ट्या विमिश्रा भवन्ति । पुष्टिमार्गाभिज्ञत्वे हेतुः सर्वज्ञा इति । ‘ज्ञाननिष्ठा तदा ज्ञेया सर्वज्ञो हि यदा भवेत्’ । ये स्वभावतः पूर्णज्ञाननिष्ठाः सन्तः सर्वज्ञत्वात् पुष्टिमार्गस्वरूपा- भिज्ञास्त एवोक्ताः पुष्ट्या विमिश्राः सर्वज्ञा इति । अतः परं प्रवाहविमिश्रणप्रकारमाहुः १, स्वरूपाङ्गगवरूपादपि परावृत्तिः पूर्वरूपापेक्षया स्वखरूपपरावृत्तिर्वा तत्पूर्वकमित्यर्थः ।
पुष्टिप्रवाहमर्यादा । १३ प्रवाहेण क्रियारता इति । ये स्वभावतः काम्यकर्मरताः काम्यकर्मनिष्ठाः सन्तः प्रवाहेण मिश्रा जाताः, तदा विशेषेण काम्यकर्मनिष्ठाः काम्यकर्मरताः काम्यकर्मजडा एव भवन्ति । यथा सर्वज्ञाः पुष्ट्या विमिश्रा भवन्ति, तद्वदेव प्रवाहेण विमिश्रास्ते कर्मजडा एव भवन्ति । न तु मार्गान्तरविमिश्रा भवन्ति । त एवोक्ताः प्रवाहेण क्रियारता इति । एवं प्रवाहविमिश्रणप्रकारमुक्त्वा मर्यादाविमिश्रणप्रकारमाहुः मर्यादया गुणज्ञा इति । ये शुद्धमर्यादामार्गीयास्ते मर्यादामार्गीयभक्तसङ्गविमिश्रणेन भगवद्गुणपरा भवन्ति भगवद्गुणज्ञा इति । एवं मिश्रभेदान्निरूप्य सर्वतः सर्वोत्कृष्टत्वज्ञापनाय केवलपुष्टि- मार्गीयान् निरूपयन्ति शुद्धाः प्रेम्णेति । शुद्धाः प्रेम्णा पुष्टिमार्गीयभावातिरिक्तभावान्तर- रहितास्ते अतीव दुर्लभाः । अतीव दुर्लभाः इत्यत्रातीवशब्दात् भगवदनुग्रहैकलभ्या इत्यर्थः । एवं मिश्रभेदप्रकारेण मार्गत्रयं निरूप्य शुद्धपुष्टिप्रकारनिरूपणेन पुष्टिमार्गस्य सर्वोत्कृष्टत्वं निरूपितम् ॥ १५ १/२ ॥ एवं तेषां मार्गत्रयाणां सर्गभेदप्रकारमुपसंहरन्ति एवं सर्ग इति । एवं सर्गस्तु तेषां हि फलं त्वत्र निरूप्यते ॥ १६ ॥ भगवानैव हि फलं स यथाविर्भवेद्भुवि । गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७ ॥ आसक्तौ भगवानेव शापं दापयति क्वचित् । अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥ न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवः । महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥ भगवत्तारतम्येन तारतम्यं भजन्ति हि । लौकिकत्वं वैदिकत्वं कापट्यात्तेषु नान्यथा ॥ २० ॥ वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः ॥ २० १/२ ॥ एवं अनेन प्रकारेण सर्गभेदमुपसंहृत्य तेषां फलनिरूपणं प्रतिजानते फलं त्वत्र निरूप्यत इति । अत्र मार्गत्रयनिरूपणप्रस्तावे मार्गत्रयस्य फलं निरूप्यते । तत्र पूर्वं पुष्टिमार्गस्य फलमाहुः भगवानेव हि फलमिति । अत्र भगवत्पदेन साक्षात्पुरुषोत्तम उक्तः । एवकारेण साक्षात् स एवानन्दमात्रकरपादमुखोदरादिरूपेण प्रकट एव फलम् । स यथा पूर्वोक्तस्वरूप एव भुवि पुष्टिमार्गीयभक्तस्थितिस्थाने आविर्भवेत् प्रकटो भवेत् । कदाचित् ज्ञानिभक्तन्यायेन हृद्येव भावनाप्रकारेण प्राकट्यं भविष्यतीत्याशङ्का- निरासायाहुः गुणस्वरूपभेदेनेति । गुणाः ईक्षणभाषणादिलीलारूपाः, स्वरूपं तु पूर्वोक्त- मेव, तद्भेदेन तत्तत्प्रकारभेदेन यथा प्रकटो भवेत्, तथा तेन प्रकारेण प्रकारभेदेन तेषां फलानुभवहेतुर्भवेदित्यर्थः । पुष्टिमार्गीयाणां साक्षात्सम्बन्धस्यैव फलत्वमेव युक्तमिति १. जीवाः । २. त्रयभेदम् ।
१४ श्रीवल्लभकृतविवरणसमेता । ज्ञापनाय हिशब्दः । ननु पुष्टिमार्गस्य सर्वोत्कृष्टत्वं यद्यपि सर्वप्रमाणसिद्धम्, तथापि तन्मा- र्गीयस्यापि वृत्रास्यासुरयोनिप्रवेशे को हेतुरित्याशङ्कानिरासायाहुः आसक्तावपीति । पुष्टि- मार्गीयस्य स्वमार्गीयभगवत्स्वरूपातिरिक्तासक्तेरनुचितत्वात् वृत्रस्य पूर्वजन्मनि सङ्कर्षण- स्वरूपासक्तत्वात् तस च साक्षात् पुरुषोत्तमत्वाभावात् तदासक्तिनिवृत्त्यर्थं शापं दापि- तवान् । अथवा । अहङ्कारे सत्यपि क्वचित् लोके भक्ताय शापं दापयति । यथा परी- क्षिति । कचिदितिपदात् अहङ्काराभावेपि क्वचित् शापो दृश्यते । यथेन्द्रद्युम्ने अगस्त्यशापः । शापायोग्येष्वपि भगवद्भक्तेषु शापानिमित्तोद्मनदर्शनेन यत् शापदानम्, तद्भगवदिच्छ- यैव, नतु प्रकारान्तरेणेति ज्ञापनाय भगवानेवेत्यत्र एवकारः । तत्र शापदाने हेतुमाहुः तन्मार्गस्थापनाय हीति । यस्य यस्मिन् मार्गे अङ्गीकारः, तस्य शापानन्तर- मपि तन्मार्गाङ्गीकारस्य नित्यत्वेन तन्मार्ग एव स्थापनम्, न तु मार्गान्तरसम्बन्धस्तदर्थ- मित्यर्थः । नित्यपदार्थस्य परावृत्त्यभावो युक्त इति ज्ञापनायोक्तं हीति । अतःपरं शापानन्तरमपि मार्गाङ्गीकारस्थितिनित्यत्वज्ञापनप्रकारमाहुः न ते पाषण्डतां यान्तीति । यदि भगवदङ्गीकारस्य नित्यत्वं न स्यात्, तदा तेषां भगवत्सम्बन्धाभावात् पाषण्डित्वमेव स्यात् । यदि तेषां भगवदङ्गीकारो न स्यात्, तदा कल्माषपादवत् ब्रह्मद्रोहरूपं दुष्टकर्म्माचरणं स्यात् । अत एवोक्तं न ते पाषण्डतां यान्तीति । ते पाषण्डमार्गप्रविष्टा न भवन्ती- त्यर्थः । एवमेकं मार्गाङ्गीकारनित्यत्वज्ञापकलक्षणमुक्त्वाव्यान्यान्यपि लक्षणान्याहुः । शापस्य क्लेशहेतुत्वमाशङ्क्याङ्गीकारनित्यत्वेन तदभावमाहुः न च रोगाद्युपद्रव इति । तेषां व्याध्याद्युपद्रवो न भवति । अत एव वृत्रस्य सर्वाभिभावुकत्वम्, न तु केनाप्यभिभाव्य- त्वम् । लक्षणान्तरमाहुः महानुभावा इति । महान् अनुभावो येषाम् । यद्यपि शाप- युक्तास्तथापि ते महानुभावा एव । अत एव भगवन्मार्गतत्त्वज्ञैर्महादेवैः शापदानान्तरं पार्वतीं प्रति तेषामनुभाव उक्तः । 'दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मणः । माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् । नारायणपरा लोके न कुतश्चन बिभ्यति । स्वर्गा- पवर्गनरकेष्वपि तुल्यार्थदर्शिन' इति । ननु यदि तेषां महानुभावत्वं तर्हि कथं शापसम्भव इत्यत आहुः प्रायेण शास्त्रं शुद्धत्वहेतवे इति । शास्यते अनेनेति व्युत्पत्त्या शास्त्रमिति, शापस्य शास्त्ररूपत्वात् पूर्वजन्मापराधन्निवृत्तिहेतुत्वेन शुद्धिहेतुत्वमुक्तम् । प्रायेणेति सम्भावना । एवं भगवदङ्गीकारस्य नित्यत्वं मर्यादामार्गेपि ज्ञेयम् । नित्यत्वज्ञापका धर्माः 'न ते पाषण्डतां यान्ती'त्यादयो मर्यादामार्गेपि ज्ञेयाः । परीक्षिति गजेन्द्रे च । ननु यदि शापानन्तरमपि भगवदङ्गीकारस्य नित्यत्वेन त्रिष्वपि पूर्वधर्मसमानत्वम्, तर्हि फलेपि साम्यं भविष्यतीत्याशङ्कानिरासायाहुः भगवत्तारातभ्येनेति । भगवत्स्वरूपतद्भजनप्रकारतारत- म्येन फलेपि भक्तास्तारतम्यं भजन्ति हि । तत्र भजनतारतम्यप्रकारः । पुष्टिमार्गभजने स्नेह एव नियामकः । मर्यादामार्गीयभक्तभजने मर्यादामार्गीयभक्तस्य यद्यपि भजनीयः पुरुषोत्तम एव, तथापि तत्र विधिरेव नियामकः, न तु स्नेहोपीति तारतम्यम् । इन्द्रद्युम्नस्य
पुष्टिप्रवाहमर्यादा । १५ पूजापरत्वात्, तत्र पूज्यस्य पुरुषोत्तमविभूतिरूपत्वात् पूजायाश्च कर्ममार्गत्वात् तत्रापि विधिरैव नियामक इति । भगवत्स्वरूपतद्भजनप्रकारतारतम्येन तारतम्यं भजन्ति । भजन- तारतम्येन फलतारतम्यस्य युक्तत्वज्ञापनाय हिशब्दः । फलतारतम्यं तु 'गजेन्द्रो भगव- त्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासश्चतुर्भुज'मित्यादिवाक्येषु प्रसिद्धमिति नात्र विचारः । ननु यदि तेषां केवलं भगवत्परत्वमेव, तर्हि श्रौतस्मार्तकर्म- चरणे को हेतुरिति चेत्, तत्राहुः लौकिकत्वं वैदिकत्वमिति । यद्यपि ज्ञानमार्गीयस्यापि भक्तस्य 'तावत्कर्माणि कुर्वीते'त्यनेन श्रौतस्मार्तकर्माणचरणस्यानावश्यकत्वं श्रूयते, पुष्टिमार्गी- याणामपि 'यानास्थाये'तिवाक्यात् । अत्र 'आस्थाये'ति, आस्थानं नाम कायवाङ्मनसां तदे- कपरत्वम्, तादृशानामपि श्रौतस्मार्तकर्मचरणानावश्यकत्वेपि यत्कर्माचरणं तत्र को हेतुरि- त्याशङ्कय हेतुमाहुः वैदिकत्वं लौकिकत्वं कापट्यादिति । वैदिकत्वं वैदिककर्माचरणम्, लौकिकत्वं लौकिकव्यवहारादिप्रतिपालनम्, तत्तेषु कापट्यात् कापट्याद्धेतोरित्यर्थः । कापट्यं नाम लोकसङ्ग्रहः । अत एव भगवताप्युक्तं 'सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् । न बुद्धिभेदं जनयेदज्ञानां कर्म- सङ्गिनाम् । जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्' इति भगवद्वाक्यात् तत्तन्मार्गीय- पूर्णभक्तिमतां लौकिकवैदिककर्माचरणं लोकसङ्ग्रहार्थमेव, न तु कर्मासक्तानामिव परमपु- रुषार्थरूपत्वेन । यद्यपि तेषां पूर्वोक्तकर्मकरणमनासक्तिपूर्वकं लोकसङ्ग्रहार्थमेवेत्युक्तम्, तर्हि तेषां कस्मिन् कर्मणि आसक्तिपूर्वकं करणमिति चेत्, तत्राहुः वैष्णवत्वं हि सहज- मिति । वैष्णवत्वं नाम पुष्टिमर्यादामार्गप्रवर्तकाचार्योपदेशपूर्वकं तदुक्तप्रकारेण तन्मार्गा- नुवर्तित्वम्, तदेव तेषां सहजो धर्मः स्वाभाविकोधर्मः, सहजमिति । तेन तन्मार्गीया- णामेव धर्माणामासक्तिपूर्वकं करणम्, ततोऽन्यत्र ततः वैष्णवधर्मातिरिक्तधर्मेषु विपर्ययः पूर्वोक्तप्रकारः अनासक्तिपूर्वकं करणम्, लोकसङ्ग्रहार्थं करणमित्यर्थः ॥ २०१/२ ॥ एवं मार्गद्वयजीवानां फलपर्यवसानान्तां कृतिं निरूप्य पुष्टिमर्यादामार्गाङ्गीकाररहितानां दैवजीवानां साधारणानां स्वरूपं कृतिं चाहुः सम्बन्धनस्त्विति । सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥ चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु । क्षणात् सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥ तेषां क्रियानुसारेण सर्वत्र सकलं फलम् ॥ २२१/२ ॥ सम्बन्धिनः दैवजीवत्वेन पुष्टिमर्यादामार्गाङ्गीकृतजीवसम्बन्धिनो, न तु तन्मा- र्गप्रवृत्ताः । तथा अपरे प्रवाहस्थाः । ते सर्वे चर्षणीशब्दवाच्याः सर्वमार्गेषु परिभ्रमण- शीलाः । त एव सर्ववर्त्मसु मार्गत्रयेष्वपि क्षणात् कालविशेषं प्राप्य सर्वत्वं तत्तन्मार्गी- यत्वं प्राप्नुवन्ति, तत्तन्मार्गीयधर्मानुकरणं कुर्वन्ति । ते मार्गत्रयधर्मानुकरणमेव कुर्वन्ति ।
१६ श्रीवल्लभकृतविवरणसमेता । न तु तेषां कुत्रचित् रुचिः । रुचिः क्वापि न भवतीत्यर्थः । न तु क्वापि श्रद्धेत्यर्थः । तेषां फलपर्यवसानमाहुः तेषां क्रियानुसारेणेति । तेषां तत्तन्मार्गीयक्रियानुकरणेन सर्वत्र सकलं कामितं कामनाविषयं फलं भवतीत्यर्थः । तेषां भगवदङ्गीकृतानां साधारणानां कामासक्तत्वात् तत्तत्क्रियानुसारेण सकलं तत्तत्कामितं फलं भवतीत्यर्थः ॥ २२½ ॥ एवं सम्बन्धिनां स्वरूपमुक्त्वा केवलप्रवाहस्थानां स्वरूपमाहुः प्रवाहस्थान् प्रवक्ष्यामीति । प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥ जीवास्ते ह्यासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः । ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥ दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः । प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते ॥ २५ ॥ सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २६½ ॥ कथनप्रकारमाहुः स्वरूपाङ्गक्रियायुतानिति । तेषां स्वरूपमाहुः जीवा इति । ते प्रवाहस्था जीवा आसुराः, ते सर्वे भगवतैव 'प्रवृत्तिं च निवृत्तिं चे'ति वर्णिताः । आसुरेष्वपि प्रकारभेदमाहुः ते द्विधेति । द्वैविध्यमेव प्रदर्शयन्ति ह्यज्ञदुर्ज्ञविभेदत इति । यथा दैवजीवेष्वपि केचन पण्डिताः, केचन न, तद्वत् केचन आसुरेष्वपि दुर्ज्ञाः, केचन अज्ञाः । दुर्ज्ञानां लक्षणमाहुः दुर्ज्ञास्त इति । 'प्रवृत्तिं च निवृत्तिं चे'ति भगवत्प्रोक्त- लक्षणा दुर्ज्ञाः । अज्ञानाहुः तानन्विति । ये तान् अनु तदुक्तप्रकारानुवर्तिनस्ते अज्ञाः । नन्वासुरेष्वपि जीवेषु म्लेच्छादिषु कस्यचिद्भगवत्परतादर्शने को हेतुरित्याशङ्काया- मुच्यते । वस्तुतस्तु स नैवासुरजीवः, शुद्ध आसुरजीवे भगवद्भावस्यासम्भवात् । किन्तु भगवदपराधाद्भगवद्भक्तापराधाद्वा सोपि पुष्टिमार्गीयः प्रवाहे समागत्य प्रवाहस्थैः सङ्गं प्राप्यापि, तत्कुले जन्म वा प्राप्यापि, तैर्न युज्यते, आसुरभावैर्योगं न प्राप्नोति । ननु यदि स आसुरभावैर्न युज्यते, तर्हि तस्यासुरकुलोत्पत्तौ को हेतुरिति चेत्, तत्राहुः कर्मणा जायते यत इति । कर्मणा पूर्वोक्तभगवदपराधरूपेण, अथवा, तज्जनितप्रारब्धकर्मणा, जन्मनः प्रारब्धकर्माधीनत्वात् । तत्रासुरकुले जन्मान्तरमपि तद्भावसम्बन्धाभावः कथं सम्भवतीति चेत्, उच्यते । तस्य पूर्वजन्मनि पुष्टिमार्गीयत्वेन भगवदङ्गीकृतत्वात् । भगवदङ्गीकारस्य नित्यत्वात् । अत एव गीतायां भगवताऽप्युक्तम् 'स्वल्पमप्यस्य धर्मस्य त्रायते महतो भया'दिति । तस्य पूर्वजन्मनि भगवद्धर्मीचरणाख्यसंस्कारस्य बलिष्ठ- त्वात् आसुरकुले जन्मान्तरमपि नासुरभावप्रवेशः । किञ्च । गीतायां 'अयतिः श्रद्धयो- पेतो योगाच्चलितमानस' इत्यारभ्य 'त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते' इत्यन्तेन पार्थपृष्टेन भगवता 'पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति । प्राप्य पुण्यकृतान् लोकान् उषित्वा शाश्वतीः समाः । शुचीनां
पुष्टिप्रवाहमर्यादा । १७
श्रीमतां गेहे योगभ्रष्टोभिजायते । अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् । तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन । पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोपि सः । जिज्ञासुरपि योगस्य परं ब्रह्मातिवर्तते' इत्यन्तेन पार्थसंशयो निवारितः । यत्र योगभ्रष्टस्यापि पूर्वजन्मयोगधर्मा- चरणसंस्कारानिवृत्तिः, तत्र भगवदङ्गीकृतस्य पुष्टिमार्गीयस्य पूर्वजन्माचरितभगवद्धर्मस्य सर्वतोधिकप्राबल्यात् आसुरसङ्गेन तत्कुलजन्मनापि पूर्वजन्मसंस्कारानिवृत्त्यभावात्, यावज्जीवं तत्संस्कारवत्त्वेन अन्तकालेपि तत्संस्कारस्य विद्यमानत्वात् 'अन्ते या मतिः सा गति'रिति शास्त्रात् 'यं यं वापि स्मरन् भाव'मिति भगवद्वाक्याच्च तस्य भगवत्प्राप्तिरेव, न तु आसुरभावजनितः कोप्यन्तराय इति सर्वमनवद्यम् ॥ २५॥
यद्यप्यत्र ग्रन्थोपसंहारदर्शनाभावादग्रेपि ग्रन्थोस्तीति ज्ञायते, तथाप्यग्रिमग्रन्थस्या- प्रसिद्धत्वाद्यावत्प्रसिद्ध एव व्याख्यात इति नानुषपत्तिः काचित् ।
श्रीमत्कृष्णस्य वागर्थो दुर्बोधः सर्वथा स्वतः । तत्कृपात्तस्तदीयस्य बुद्धिगम्यो न चान्यथा ॥ १ ॥ नत्वा पितृपदाम्भोजं कृपामधुसुपूरितम् । तदालोडितबुद्ध्यैव श्रीमदाचार्यभाषितम् ॥ २ ॥ पुष्टिप्रवाहमर्यादाभेदकं शास्त्रमद्भुतम् । श्रीवल्लभेन व्याख्यातं तत्कृपातो यथामति ॥ ३ ॥ तेनाचार्याः प्रसीदन्तु मयि निःसाधने स्वतः । तेनैव मम नैश्चिन्त्यमैहिके पारलौकिके ॥ ४ ॥
इति श्रीपितृचरणैकतानश्रीवल्लभ विरचितं पुष्टिप्रवाहमर्यादाविवरणं समाप्तम् ।
श्रीगोपीजनवल्लभाय नमः। पुष्टिप्रवाहमर्यादा । श्रीरघुनाथकृतविवरणसमेता । नमो भक्तभयाभावभाविने भक्तिदायिने । श्रीमदग्निकुमाराय पारोवाराय सत्कृते ॥ १ ॥ इदानीं भगवत्प्राप्तिलक्षणमुख्यफलतदभावौ किंनिबन्धनाविति संशयं निवारयितुं मार्गभेदविचारमारभन्ते पुष्टिप्रवाहमर्यादा इति । पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् । जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥ वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः। पुष्टिरनुग्रहो धर्म्येकनिष्ठः, स एको मार्गः। प्रवाहो 'जायस्व म्रियस्वे'त्येवं- रूपः। मर्यादा वेदोक्तवचनोत्थो मार्गः। एतान् पृथक् पृथक् प्रत्येकं तेषामसाधारण- लक्षणैर्जीवदेहप्रवाहक्रियाफलरूपैर्विशिष्य यथा ज्ञायन्ते, तथा वक्ष्यामि, यतो यच्छ्रू- वणानन्तरं पूर्वसन्देहाः सर्वविषयका न भविष्यन्तीत्यर्थः। अत्र जीवप्रवाहयोर्विशेषण- विशेष्यभावेनैक्यं ज्ञेयम्, न भेदः। देहक्रिययोरप्येवमेव ज्ञेयम्। भेदानग्रे स्वयमेव वदिष्यन्ति ॥ १ ॥ मार्गत्रयसद्भावं प्रमाणयन्ति भक्तिमार्गस्येति । भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चयः ॥ २ ॥ 'द्वौ भूतसर्गौ'वित्युक्तेः प्रवाहोपि व्यवस्थितः । वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥ कथनादिति । श्रीभागवतगीतादौ । अत्र भक्तिरूपकार्येण कारणं पुष्टिरस्तीति निश्चीयते । इदं धर्मिनिष्ठं पुष्टिमार्गे प्रमाणमुक्तम् । 'द्वौ भूतसर्गौ लोकेस्मिन् दैव आसुर एव चे' त्याद्युक्तेः प्रवाहाख्योपि मार्गः प्रमाणसिद्धोस्तीति निश्चीयते । काण्डत्रयात्मक- वेदस्य विद्यमानत्वाच्छ्रूयमाणत्वान्मर्यादामार्गेपि सप्रमाणत्वं सिद्धम् ॥ ३ ॥ त्रयाणामसङ्कीर्णमितरेतरभेदकं लक्षणमाह कश्चिदिति । कश्चिदेव हि भक्तो हि 'यो मद्भक्त' इतीरणात् । सर्वत्रोत्कर्षंकथनात् पुष्टिरस्तीति निश्चयः ॥ ४ ॥ १. मुक्तिदायिने । २. पारः संसारस्तदुत्तारकायेत्यर्थः । ३. प्रवाहेतिनास्ति ४. अतः। ५. वेदेति नास्ति क्वचित् ।
पुष्टिप्रवाहमर्यादा । १९
न सर्वोतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः । 'यदा यस्ये'ति वचना'न्नाहं वेदै'रितीरणात् ॥ ५ ॥ 'मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रिय' इति वचनाद्भक्तिमार्गीया विरला एव भवन्ति । न हि भगवत्प्रियत्वं स्वल्पसाध्यम्, अतः प्रवाहाद्भिन्नः पृथगेव । प्रवाहस्य सर्वसाधारणत्वाद्भक्तेरनुग्रहैकलभ्यत्वान्महानेव भेदोस्तीति मन्तव्यम् । मर्यादायाप्यसङ्कीर्णत्वं वेदाच्च भेदत इत्यारभ्य निश्चय इत्यन्तेनाह । 'यदा यस्ये'ति श्रीभागवते । 'नाहं वेदैर्न तपसे'ति गीतायाम् । सर्वत्र भगवच्छास्त्रादौ भक्तिमार्गस्य कर्माद्यपेक्षयोत्तमत्वकथनात् पुष्टिमार्गो भिन्नोस्तीति निर्धारितम् । अभेदे तूत्कर्षवैयर्थ्यात् ॥ ५ ॥ मर्यादाप्रवाहयोर्भक्तावन्तर्भावमाशङ्क्य निषेधन्ति मार्गैकत्वेनेति । मार्गैकत्वेन चेदन्त्यौ तनू भक्त्यागमौ मतौ । न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥ जीवदेहकृतीनां च भिन्नत्वं नित्यतः श्रुतेः । यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥ प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः । अन्त्यौ प्रवाहमर्यादे । तनू भक्तिं प्रत्यङ्गभूते, साधने इति यावत् । एवंविधे भूत्वा भक्त्यागमौ भक्तिशास्त्ररूपौ मतौ चेत्, तन्न युक्तमिति योजना । तन्कुतो नेत्याशङ्क्याह सूत्रतो हीति । वैदिको मर्यादामार्गो भिन्नः, भक्तेः पृथगित्यर्थः । अत्र प्रमाणं ब्रह्मसू- त्राणि । द्वितीयं तदर्थानुरुद्धा युक्तयः साधकवाक्यानि । तत्र 'अथातो ब्रह्मजिज्ञासा' इत्यादिषु जीवब्रह्माभेदः प्रतिपाद्यते । भक्तौ तु तवाहमिति स्वस्वामिसम्बन्धः प्रतिपाद्यते, अतः स्फुटो भेदः । युक्तयस्तत्तर्कास्ते च शास्त्र(प्र)सिद्धा ज्ञेयाः । भक्तेरपि शाण्डिल्यसूत्रतो वैलक्षण्यं श्रूयते । तथाहि । 'अथातो भक्तिजिज्ञासा' इत्युपक्रम्य 'सा परानुरक्तिरीश्वरे' 'द्वेषप्रतिपक्षाद्रसभावाच्च राग' इति द्वितीयतृतीयसूत्राभ्यां स्नेहरूपत्वमुक्तम् । तच्च कर्मज्ञान- काण्डादिविरुद्धमेव । अतोपि मर्यादायाः पृथक्त्वम् । हिशब्द उभयत्रापि प्रसिद्ध्यर्थः । भेदकान्तरमप्याह जीवेति । आसुरजीवानां दैत्यदानवप्रभृतीनामपि वेदेधिकारप्रवृत्ती दृश्येते । भक्तिमार्गे तेषां गन्धोपि न । प्रत्युत तद्भक्तसु द्वेष एव, अतो जीवभेदः स्फुटः । वेदे स्त्रीशूद्रादीनामनधिकारः श्रूयते । भक्तौ तु ब्राह्मणादिसाधारण्येन सै दैवजीवमा- त्रस्य । 'देवोऽसुरो मनुष्यो वे'ति वचनात् । 'यो मद्भक्तः स मे प्रियः' 'मां हि पार्थ व्यपा- श्रित्य' इत्यादौ तथैवाज्ञानात् । भक्तौ स्नेहनिबन्धनकृतेरियत्ताया अभावाद्देहवत् कृति- भेदोपि स्फुटः । किञ्च । श्रुतेर्वेदस्य नित्यता । अकरणे प्रत्यवायजनकत्वात् । श्रुतिपदेन तदुक्तधर्मा उच्यन्ते । उक्तप्रकारेण वेदे अन्यमार्गापेक्षया यथा भेदः, तद्वत् तथैव पुष्टिमार्गे
१. भक्त्या त्वनन्ययेति गीतायाम् । २. अधिकारवृत्ती अधिकारप्रवृत्तिरिति, पाठद्वयम् । ३. दैवेति पाठः ।
२० श्रीरघुनाथकृतविवरणसमेता । भेद इति शेषः । कथमित्यपेक्षायां द्वयोरपीति । द्वयोर्मर्यादाप्रवाहयोर्निषेधतः तल्लक्षणो- प्रवेशादित्यर्थः । प्रमाणभेदादिति । वस्तुसाधकं प्रमाणमित्युच्यते । वेदे तु स्वतःप्रामा- ण्यम् । तद्विरोधिप्रत्यक्षादीनामप्यतथात्वम् । पुष्टौ तु धर्मितदनुग्रहभक्तानुभवातिरिक्तप्र- माणाभावात् साधकभेदादपि पुष्टिमार्गो भिन्नो भवतीत्यर्थः । अत एवैतन्मार्गीयाणां वैल- क्षणयं भगवतैवोक्तम् । तथाहि 'केवलेन हि भावेन' 'ते नाधीतश्रुतिगणा' इति । नहीदं मर्यादयोपपद्यते, कुतस्तरां तुच्छः प्रवाहः ॥ ७ ॥ प्रवाहमार्गमाह सर्गभेदमिति । सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८ ॥ इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः । वचसा वेदमार्गं हि पुष्टिं कायेन निश्चयः ॥ ९ ॥ सर्गशब्देन लौकिकः प्रवाह उच्यते । अत्रापि स्वरूपाङ्गक्रियाशब्दैर्यथाक्रमं जीवदेहकृतयो विवक्षिताः । स्वरूपं जीवः, अङ्गं देहः, क्रिया कृतिः, एतैर्युक्तं विशिष्ट- मित्यर्थः । ननु प्रवाहः सर्ग उक्तः । स च पुष्टिमर्यादयोरप्यस्तीति कथं वैलक्षण्यमितिचेत्, तत्राह इच्छामात्रेणेति । 'सोऽकामयत, बहु स्यां प्रजायेयेति, स द्वितीयमैच्छत्, स हैतावानास' इत्यादिभिर्भगवान् सङ्कल्पमात्रेण मनसैव बाह्योपादानकारणानपेक्षेण प्रवाहाख्यं सृष्टवान् । मनसः सृष्टिकर्तृत्वं सर्वस्यापि मनोजन्यत्वं श्रुतिराह 'असतोऽधि मनोऽसृजत, मनः प्रजापतिमसृजत, प्रजापतिः प्रजा असृजत, तद्वा इदं मनस्येव परमं प्रतिष्ठित' मिति, 'मनसो ह्येव खल्विमानि भूतानि जायन्ते,' 'मनसो वशे सर्वमिदं बभूव' 'कामस्तदग्रे समवर्तताधी'त्यादि ज्ञेयम् । एवं कारणभेदान्न सर्गैक्यम् । मर्यादासर्गमाह वचसेति । वाण्या मूलभूतवागिन्द्रियेण वेद एव मार्गस्तं सृष्टवान् । हिशब्दः पुराणा- दिप्रसिद्ध्यर्थः । पुष्टिसर्गमाह पुष्टिमिति । साक्षाद्व्यवहितस्वरूपेणेत्यर्थः । इतिनिश्चयः । 'फलमत उपपत्ते'रित्यादिनेश्वर एव शुभाशुभफलदातेति सिद्धम् ॥ ९ ॥ तत्र मार्गत्रये केन रूपेण कुत्र फलदानमिति संशये निश्चितमाह मूलेच्छात् इति । मूलेच्छातः फलं लोके वेदोक्तं वैदिकेऽपि च । कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकता ॥ १० ॥ 'तानहं द्विषतो' वाक्याद्भिन्ना जीवाः प्रवाहिणः । अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥ तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः । भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥ लोके प्रवाहाख्ये मार्गे, मूलेच्छा पुष्टिमर्यादातिरिक्तसाधनसाध्यफलभावनेच्छा, १. लक्षणप्रवेशादिति पाठः । २. पुष्टिमार्गीययोरिति पाठः ।
यथा ‘तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु’ इति । वैदिके मार्गे वेदोक्तं तत्तत्काण्डाभिनिविष्टस्य तत्तदनुरूपं स्वर्गादिकं फलं तत्त- त्साधनसापेक्षेच्छात इत्यर्थः । कायेन साक्षात् स्वरूपेण सच्चिदानन्दविग्रहेण । स्वरूपमात्रनिष्ठलीलाभिनिविष्टभक्तभावसापेक्षेच्छातः फलं पुष्टावित्यर्थः । भिन्ना इति । दैवाद्विना आसुरा इत्यर्थः, ‘द्वौ भूतसर्गौ’ वित्युक्तत्वात् । उक्तरीत्या पुष्टेर्धर्ममात्रनिष्ठत्वेने- तरापेक्षयाभ्यर्हितत्वं ज्ञेयम् । अत एवेति । यत उक्तरीत्यान्योन्यं लक्षणाप्रवेशाद्वैलक्षण्य- मत एव इतरौ मर्यादाप्रवाहौ पुष्टेः परस्परं च भिन्नौ । अन्तपदेन पर्यवसानमुच्यते । तेन सान्तौ अन्तसहितौ । कस्य कुत्रेत्याकाङ्क्षायां मोक्षप्रवेशातः मोक्षात् प्रवेशाच्चेत्यर्थः । प्रवेशपदेन प्राकृतो लयो विवक्षितो, न मोक्षः । तत्र वैदिकस्य मोक्षे पर्यवसानम्, प्रवा- हस्य (प्रकृतौ) लय इति विवेकः । यथा द्वयोः सान्तत्वम्, न तथा पुष्टेः, मोक्षोत्तरका- लमपि विद्यमानत्वात् । अत एवोक्तं ‘आत्मारामारच मुनयः’ इत्यादौ । यतो मुक्तानामपि अधिकारो भक्तौ । अत एव तन्मार्गीया जीवाः भिन्नाः, ब्रह्माण्डादपि बहिर्भूताश्चेत्, किं वाच्यं मर्यादाप्रवाहातिरिक्तत्वे । अत एव वाराहेप्युक्तम्, ‘भिन्नैव काचित् सा सृष्टि- र्विधातुर्व्यतिरेकिणी’ति । एवंविधपुष्टिजीवानां सर्गो भगवता स्वात्मभजनार्थमेव कृत इति सङ्गच्छते, नत्वन्यथापीत्यर्थः ॥ १२ ॥ एवंविधभक्तानां सर्वांशेन भगवत्साम्यमाह स्वरूपेणेति । स्वरूपेणावतारेण लिङ्गेन च गुणेन च । तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३ ॥ तथापि यावता कार्यं तावत्तस्य करोति हि । स्वरूपमन्तरात्मस्वरूपम् । यथा काष्ठं वह्निसाद्भवति, एवं भक्ता अपि स्वरूपै- कनिष्ठास्सतस्तदभिनिविष्टास्तदात्मत्वमेवाभिपद्यन्ते । अत एवोक्तं ‘यो यच्छ्रद्धः स एव स’ इति । यथा भगवदवतारो धर्मसंरक्षणार्थम्, तद्विरुद्धोत्सादनार्थं च, एवं भक्ताना- मपि अवतारो जीवोद्धारार्थमेवेत्यवतारेणापि साम्यम् । लिङ्गं वेषस्तच्चिह्नानि सर्वा- ण्यपि । तद्यथा । ‘तं वीक्ष्य कृष्णानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम् । पीता- म्बरं पुष्करमालिन’ मित्यादि । गुणाः पतितपावनत्वाद्वि, भगवच्चेष्टितान्यपि विज्ञेयानि । तथापीति । एवं सर्वांशेनान्यूनत्वेपि यावता न्यूनत्वादिना स्वरमणसिद्धिः, तावदेव तस्य स्वापेक्षया सेवकत्वसिद्ध्यर्थमुभयरसार्थं च तारतम्यं करोति । अत एवैदमपि सङ्गच्छते, ‘नोद्धवोण्वपि मन्न्यूनः,’ ‘मद्भक्तपूजाभ्यधिके’ति, ‘न पारयेहं निरवद्यसंयुजा’ मित्यादि । ‘ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यह’ मित्यादौ प्रसिद्धयर्थो हिशब्दः ॥ १३ ॥ ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥ प्रवाहादिविभेदेन भगवत्कार्यसिद्धये ।
२२ श्रीरघुनाथकृतविवरणसमेता । ते हीति । ते पूर्वोक्तास्त्रयोपि मार्गा द्वेधा द्विप्रकारकाः, ये मार्गान्तरसंवलि- तास्ते मिश्राः, ये पुनस्तन्मात्रास्ते शुद्धाः । मिश्रणमपि प्रत्येकं त्रिभिश्चयाणामपीत्येकै- कशस्त्रिप्रकाराः । एवं भेदानां प्रयोजनं किमित्याकाङ्क्षायां भगवत्कार्यसिद्धिखेवेति मतम् । तच्च कार्यं रमणरूपमेव । 'क्रीडाभाण्डमिदं विश्वम्,' 'एकाकी स न रमत' इत्यादौ प्रसिद्धम् ॥ १४ १/२ ॥ पुष्टेर्भेदानाह पुष्ट्येति । पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥ मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः । पुष्टिस्थास्तु पूर्वमनुगृहीता एव भवन्ति । पुनरनुग्रहान्तरं यदा तेषु प्रविशति, तदा ते पूर्वपुष्ट्यतिरिक्तपुष्टिसद्भावात् पुष्ट्या विमिश्रा भवन्ति । तल्लक्षणं सर्वज्ञा इति । एवं- विधत्वं प्रह्लादादौ प्रसिद्धम् । प्रवाहेण मिश्रिताः लोकवेदक्रियारता भवन्तीति तेषामेत- ल्लक्षणम् । मर्यादया मिश्रा गुणज्ञाः भगवन्माहात्म्ययाथातथ्यज्ञा इति लक्षणम् । प्रेम्णा स्वरूपैकनिष्ठा इति लक्षणम् । ते शुद्धपुष्टिमार्गीयास्तेयत्यन्तदुर्लभा एवेत्यर्थः ॥ १५ १/२ ॥ एवं सर्गस्तु तेषां हि फलं त्वत्र निरूप्यते ॥ १६ ॥ भगवानैव हि फलं स यथाविर्भवेद्भुवि । गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७ ॥ एवमिति । उक्तप्रकारेण तेषां त्रयाणां सर्गः सहेतुकः निरूपित इति शेषः । अत्र शुद्धमिश्रपुष्टौ फलं निरूप्यते भगवानिति । गुणाः ऐश्वर्यादयो धर्माः, स्वरूपं धर्मी । भवन्ति भावा अस्मिन्निति भूरन्तःकरणं विवक्षितम्, तदुपलक्षितहृदयदेशो वा । तेना- यमर्थः । भगवानैश्वर्यादिषड्गुणोपेतो यस्य भक्तस्यान्तःकरणे यथा येन भावेन प्रकटो भवति, तत्प्रियं कर्तुं तत्स्वरूपमेव फलमित्यर्थः । 'ये यथा मां प्रपद्यन्ते तांस्तथैव'ति प्रति- ज्ञानात् ॥ १७ ॥ आसक्तौ भगवानैव शापं दापयति क्वचित् । अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥ न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवः । महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥ भगवत्तारतम्येन तारतम्यं भजन्ति हि । लौकिकत्वं वैदिकत्वं कापट्यात्तेषु नान्यथा ॥ २० ॥ वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः । सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥
पुष्टिप्रवाहमर्यादा । २३ चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु । क्षणात् सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥ तेषां क्रियानुसारेण सर्वत्र सकलं फलम् । आसक्ताविति । पुष्टिस्थस्य अहङ्कारे तत्पूर्वककार्ये, अथवा लोके भजनविरुद्धे आसक्तौ सत्यां तद्दोषपरिहाराय, अत एव तन्मार्गस्थापनाय तत्र स्थिरीकरणाय ब्राह्मणा- दिद्वारा भगवान्नेव क्वचित्, न सर्वत्र, शापमन्तरायापादकं दापयति । पुनरेवं कदापि न कुर्यामिति यथा तस्य मनसि सततमनुवर्तेत । यथेन्द्रद्युम्नास्यागस्त्यमुखाद्गजेन्द्रत्वम् । एवं शिक्षाकरणे भक्ताः पाषण्डतां न यान्ति । नापि तज्जनितापराधैर्भोगाय रोगाद्युपद्रवस्तत्पी- डानुभवः । एवंविधाः शास्त्रोल्लङ्घनाद्भवन्ति । ये पुनर्महानुभावाः नारदादयस्ते प्रायेण बाहुल्येन, भगवदधीनत्वात् प्रायिकत्वोक्तिः, शुद्धत्वहेतवे देहान्तःकरणादिशुद्धयर्थं शास्त्रं भगवदीयं गीताभागवतादिकं भजन्ति सेवन्ते सततमवगाहन्त इत्यर्थः । किञ्च । येषु येषु भक्तेषु यथा यथा भगवदाविर्भावः, तेन तारतम्येन स्वस्मिन् तरतमभावमपि भजन्ते स्वीकु- र्वन्ति, न तु स्वस्मिन्नाधिक्यं सदप्युद्भावयन्ति । सर्वदा भगवत्सम्बन्धिषु नम्रा एव भवन्तीत्यर्थः । तेषु महानुभावेषु यल्लोकवेदकुलप्राप्ताचारदर्शनमात्रेण लौकिकत्वं वैदि- कत्वं च व्यवह्रियते, तत्कापट्यात् अज्ञानादेव । नान्यथा अन्यप्रकारेण नेत्यर्थः । वैष्ण- वत्वं तेषु सहजं नैसर्गिकम्, तल्लक्षणसद्भावात् । वैष्णवलक्षणं श्रीभागवतविष्णुपुराणादि- तोवगन्तव्यम् । ततः महानुभावेभ्यः अन्यत्र अन्येषु विपर्ययः कापट्याद्वैष्णवत्वम् । लौकिकत्वं वैदिकत्वं सहजमित्यर्थः । सम्बन्धिनस्त्विति । ये जीवाः सम्बन्धिनो भगवद्विभूत्यंशलेशसम्बन्धवन्तस्तथापरे अन्ये केवलप्रवाहस्थाश्च ये ते सर्वे चर्षणी- शब्देनोच्यन्ते, परिभ्रमणस्वभावात् । अत एव ते सर्वेपि क्षणादेव यादृशः सङ्गः, तादृशा एव सर्ववर्त्मसु प्रविष्टाः सन्तः सर्वत्वं तत्तन्मार्गानुसारित्वं यान्ति । तेषां रुचिरत्याग्रहः कुत्रापि नास्ति । अत एव तेषां क्रियानुसारेणैव सर्वत्र यत्र यदा रुचिस्तत्र वर्तमानानां फलं सकलं, कलया सह, लेशमात्रं, न पूर्णमित्यर्थः ॥ २२ १/२ ॥ प्रवाहस्थान्निरूपयन्ति प्रवाहस्थानिति । प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥ जीवास्ते चासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः । ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥ दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः । पूर्ववदेव स्वरूपं जीवात्मा, अङ्गं देहः, क्रिया कृतिः, एतैः युतान् विशिष्टा- नित्यर्थः । ते प्रवाहमात्रानुसारिणो ये जीवास्ते आसुरा ज्ञेयाः, 'प्रवृत्तिं च निवृत्तिं च जना १. भोगरोगेति पाठः ।
२४ श्रीरघुनाथकृतविवरणसमेता । न विदुरासुरा' इति वचनात् । ते च द्विप्रकाराः । एके अज्ञाः, स्वतः किमपि न जानन्ति, आसुराणां दुष्टाचारं दृष्ट्वा स्वयमाचरन्ति । एके पुनर्दुर्ज्ञाः, दुष्टमात्मपातकारणमेव कर्तुं जानन्ति, नतु भगवत्प्राप्तिसाधनमपि । ते च भगवता प्रोक्ताः 'प्रवृत्तिं च निवृत्तिं चे'त्यादिना ॥ २४½ ॥ प्रासङ्गिकमाह प्रवाहेऽपीति । प्रवाहेऽपि समागत्य पुष्टिस्थस्तेन युज्यते ॥ २५ ॥ सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५½ ॥ पुष्टिस्थो यदा दैवयोगादासुरसङ्गात्तन्मार्गे प्रविशति, तदा तेन भावेन युज्यते लिप्तो भवति । तद्वस्त्रमालिन्यवत् प्रक्षालनस्थानीयभगवद्भक्तभाविसंसर्गाच्छुद्ध्येवेति मन्त- व्यम् । अन्यथा विरोधः स्यात् । सोपि तद्धर्मैस्तेषां कुले जात उत्पन्नो भूत्वा पश्चात् स्वीयपुष्टिसंस्कारोद्बोधे सति तदर्थमेव यतिष्यत इति शेषः । जन्ममात्रं तु प्रारब्धकर्माधीन- त्वादनिवार्यम् । अत एव भगवताप्युक्तं 'पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यत' इत्या- दिना । इत ऊर्ध्वं ग्रन्थत्रुटिः ॥ २५½ ॥ पुष्टिप्रवाहमर्यादाः पृथक् पृथगुदीरिताः । कृतिना रघुनाथेन श्रीवल्लभपदेप्सुना ॥ १ ॥ इति श्रीवल्लभनन्दनचरणैकशरणश्रीरघुनाथानां कृतौ पुष्टिप्रवाह- मर्यादाविवरणं सम्पूर्णम् । १. संसर्गात् । २. उक्तं च, 'प्रवाहो लौकिको धर्मो मर्यादा वेद उच्यते । कृष्णे प्रेम च वै पुष्टिर्मार्- गभेदास्त्रयोऽत्र हि ॥ इत्यधिकम् ।
श्रीकृष्णाय नमः । पुष्टिप्रवाहमर्यादा । श्रीकल्याणरायकृतटीकासमेता । श्रीविठ्ठलेश्वरं नत्वा स्वेषां संफलसिद्धये । पुष्टिप्रवाहमर्यादाविवृतिः क्रियते मया ॥ १ ॥ लोके कति मार्गाः कीदृशाः किं च तेषां फलमिति जिज्ञासूनां स्वकीयानां ज्ञानार्थं श्रीवल्लभाचार्याः पुष्टिप्रवाहमर्यादा विशेषेण वक्तुं प्रतिजानते । पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् । जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥ पुष्टिर्नाम भगवदनुग्रहः फलप्रापकत्वात् फलार्थं सृज्यत इति स एको मार्गः । प्रवाहो नाम जन्मादिप्रवाहस्वरूपः लौकिकफलप्रापकत्वात् सोपि मार्गः । मर्यादा वेदोक्तः कर्ममार्गः । एता विशेषेण व्यावर्तकधर्मेण पृथक् पृथक् वक्ष्यामि । अत्र के व्यावर्तका धर्मा इत्याका- ङ्क्षायामाहुः । भक्तिमार्गे जीवा भगवदनुगृहीता भिन्नाः । तेषां देहाः भगवच्चरणरेण्वादि- निष्पादिता भिन्नाः । तेषां क्रिया भगवत्परा भिन्नाः । एवं प्रवाहासक्ताः संसारिणो जीवा भिन्नाः, तेषां देहा अपि संस्कारादिरहिता भिन्नाः, तेषां क्रिया लौकिक्यो भिन्नाः । मर्या- दामार्गे दैवा जीवा भिन्नाः, तेषां देहाः संस्कृता भिन्नाः, तेषां वेदोक्ताः क्रिया भिन्नाः । प्रवाहासक्तत्वेन प्रवाह एव प्रावाहिकाणां भेदकः । 'मद्भक्ता यान्ति मामपी'त्यादिवाक्याद्भ- क्तिमार्गे पुरुषोत्तमप्राप्तिः फलम् । मर्यादामार्गे वेदोक्तकर्मभिर्निःकामानां तत्त्वज्ञानद्वारा अक्षरप्राप्तिः फलम् । सकामानां क्षयिष्णु स्वर्गादिः फलम् । प्रवाहस्थानां स्वकर्मानुसारि जन्मादिः फलम् । भिन्नैरेतैर्मार्गा अपि भिन्ना भवन्तीत्यर्थः ॥ १ ॥ वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः । भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चयः ॥ २ ॥ कथनस्य प्रयोजनमाहुः । यस्योक्तस्य श्रवणात् मार्गतत्साधनफलेषु सन्देहा न भविष्यन्तीत्यर्थः । मार्गसत्त्वे प्रमाणानि वक्तुं प्रथमं पुष्टिसत्त्वे प्रमाणमाहुः । 'ते नाधीतश्रुतिगणा' इत्यादिना निःसाधनत्वेन निरूपितानां व्रजस्थितानां 'केवलेन हि भावेने'त्यादिवाक्यैः स्नेहनिरूपणात् भक्तिरूपस्य मार्गस्य कथनात् भक्तिका- रणत्वेन पुष्टिर्निश्चीयत इत्यर्थः । ननु दानव्रतादिभिः भक्तेः श्रूयमाणत्वात् कथं भक्तिकारणत्वेन पुष्टिर्निश्चीयत इति चेत्, न, अनुग्रहव्यापारत्वेनैव दानादीनां भक्तिसाध- १. स्वफलेति पाठः । सकलसिद्धय इति पाठः स्यात् । ४ पु. प्र. म.
२६ श्रीकल्याणरायकृतविवरणसमेता । करत्वात् । ननु कथमेवम् ? इत्थम् । पुष्टेर्भगवदनुग्रहरूपत्वेन भक्तेर्भगवदनुग्रहैकसा- ध्यत्वान्निःसाधनोऽनुग्रहः पुष्टिरित्युच्यते । साधनमिश्रभावात् साधनानुग्रहो भक्तिमार्गे मर्यादाद्युच्यते । अत एवोक्तमाचार्यैः श्रीभागवततत्त्वदीपे 'पुष्टिरत्र द्विरूपा हि मर्या- दापुष्टिभेदतः । विश्वरूपस्तु मर्यादा द्वितीयो वृत्र उच्यत' इति । तेन स ससाधनानुग्रह एव दानादिसाधनद्वारा भक्तिं जनयतीति नानुपपन्नं किञ्चित् । एतदेवोक्तं भक्तिहंसे श्रीमत्प्रभुचरणैः 'वरणे चास्ति प्रकारद्वयं मर्यादापुष्टिभेदेने'ति । प्रावाहिकभक्तिस्तु भक्तस्य फलार्थं भगवति सापेक्षत्वमात्रेण स्नेहाभावेन भक्तिमार्गे किञ्चिद्धर्मसाम्येन प्रावाहिकभक्तौ भक्तिपदप्रयोगात् पूजातुल्येति । तेन पुष्टिभक्तिरेव मुख्या । परमानुरागरूपत्वात् । 'सा परानुरक्तिरीश्वरे' इति शाण्डिल्यसूत्रात् । मर्यादाभक्तिस्तु भक्तिदेशीया परमानुरागाभावात् । प्रावाहिकभक्तिस्तु सापेक्षतारूपेति पूजातुल्या, परं भक्तिमार्गसम्बन्धादङ्गीकरूपेति । एत- देवोक्तं भक्तिहंसे 'भक्तिमार्गीयभक्तकृत(भक्ति)साम्प्रदायिकदीक्षापूर्वकं मोक्षसाधनत्वेन क्रियमाणः श्रवणादिः प्रावाहिकी भक्तिरुच्यत' इति । मर्यादामार्गस्थं ज्ञानमार्गस्थं वा जीवं यदि भगवाननुगृह्णाति, तदा स पुष्टिमार्गं प्राप्य तन्मार्गीयं फलं प्राप्नोति । एतदेवोक्तं सिद्धान्तमुक्तावल्यां 'उभयोस्तु क्रमेणैव पूर्वोक्तैव फलिष्यती'ति । तेनानुग्रहसाध्या भक्तिरिति सिद्धम् । अतः सुष्ठुक्तं 'भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चय' इति ॥ २ ॥ प्रवाहसत्त्वे प्रमाणमाहुः । 'द्वौ भूतसर्गा'वित्युक़्तेः प्रवाहोऽपि व्यवस्थितः । वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥ 'द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव चे'ति वाक्यात् प्रवाहोऽपि सिद्धः । मर्यादा सत्त्वे प्रमाणमाहुः । काण्डद्वयात्मकस्य वेदस्य श्रूयमाणत्वान्मर्यादामार्गोऽपि सिद्धः ॥ भक्तेः पुष्टिसाधकत्वमुक्त्वा दुर्लभत्वमाहुः । कश्चिदेव हि भक्तो हि 'यो मद्भक्त' इतीरणात् । सर्वत्रोत्कर्षकथनात् पुष्टिरस्तीति निश्चयः ॥ ४ ॥ कश्चिदेव हि भक्तो भवति, न सर्वः । अन्यथा भगवान् 'यो मद्भक्त' इति न वदेत् । भक्तेः पुष्टिसाधकत्वमुक्त्वा भक्तिभक्तयोरुत्कर्षस्यापि पुष्टिसाधकत्वमाहुः । सर्वत्र गीताश्रीभागवतादौ 'भक्त्या मामभिजानाति,' 'भक्त्या त्वनन्यया शक्य' इत्यादि 'यत्कर्मभिर्यत्तपसे'त्यारभ्य 'सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसे'त्यन्तेन । 'भक्तिं लब्धवतः साधोः किमन्यदवशिष्यते' । 'मध्यनन्ते गुणे ब्रह्मण्यानन्दानुभवात्मनि । नालं द्विजत्व'मित्युपक्रम्य 'प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बन'मित्यन्तेन । 'मय्या- वेश्य'इत्यारभ्य 'ते मे युक्ततमा मता' इत्यन्तेन, 'ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्,' 'कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति,' 'ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः,' 'ये त्यक्तलोकधर्माश्च मदर्थे तान् बिभर्म्यहम्', 'अहं भक्तपराधीन'
१. प्रवाहमार्गस्यास्थिति पाठः ।
पुष्टिप्रवाहमर्यादा । २७ इत्युपक्रम्य, 'वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथे'त्यन्तेन, 'एताः पर'मित्या- रभ्य, 'पुनाति भुवनत्रय'मिति श्लोकषट्केन च उत्कर्षंकथनात् पुष्टिस्तीति निश्चीयत इत्यर्थः । नहि भक्तिर्भक्तत्वमेतादृशोऽर्थो भगवदनुग्रहं विना प्राप्यते ॥ ४ ॥ पुष्टिमार्गीयस्य प्रवाहमर्यादामार्गस्थाभ्यां भेदमाहुः । न सर्वोतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः । 'यदा यस्ये'ति वचना'न्नाहं वेदै'रितीरणात् ॥ ५ ॥ 'यदा यस्यानुगृह्णाति भगवान्नात्मभावितः । स जहाति मतिं लोके वेदे च परिनि- ष्ठिता'मिति वाक्याद्यं भगवाननुगृह्णाति, स पुष्टिमार्गीयो भवति, न सर्वः । अतः प्रवा- हाद्भेदः । हि युक्तोयमर्थस्ततो वैलक्षण्यात् । 'नाहं वेदै'रित्यारभ्य 'परन्तपे'त्यन्तेन अन- न्यभक्त्यैव भगवान् ज्ञातुं द्रष्टुं शक्यः, नान्यसाधनैरिति भेदतः वैलक्षण्यात् वेदाच्च भिन्नः, वेदोक्तमर्यादामार्गस्थादपि पुष्टिमार्गस्थभक्तो भिन्न इत्यर्थः ॥ ५ ॥ मार्गैकत्वेपि चेदन्यौ तनू भक्त्यागमौ मतौ । न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥ कस्यचित्पूर्वपक्षं निराकुर्वन्ति । तथाहि । ननु प्रवाहमर्यादामार्गयोरपि व्यवहारशुद्धि- साधकत्वेन भक्त्युपयोगात् अङ्गाङ्गिभावेनैको भक्तिमार्ग एवास्त्विति चेत्, न । मार्गकत्वे स्वीक्रियमाणे प्रवाहमर्यादामार्गावङ्गत्वेन भक्तिफलप्रापकत्वेन तव सम्मतौ, तन्न युक्तम् । यदि प्रवाहमर्यादामार्गयोर्भक्तिफलेन फलवत्त्वं स्यात्, तदा तदङ्गत्वं स्यात्, तदेवाङ्गं भवति यत्प्रधानफलेन फलवद्भवति, न स्वतः, प्रयाजादिवत्, 'फलवत्सन्निधावफलं तदङ्ग'मित्यङ्गलक्षणात् । अत्र भक्तिमार्गे 'तन्निष्ठस्य मोक्षोपदेशा'दिति व्याससूत्रेण भगव- त्परस्य मोक्षः फलत्वेनोच्यते । तथा भक्तिमीमांसायां शाण्डिल्यसूत्रं 'तत्संस्थस्यामृतत्वोपदे- शा'दिति । अस्यार्थस्तु । तस्मिन्नीश्वरे संस्था भक्तिर्यस्य तस्यामृतत्वं फलमुपदिश्यते । 'ब्रह्म- संस्थोऽमृतत्वमेती'ति । एतद्विचारेण भगवत्प्रीतिफलकत्वात् । प्रवाहमर्यादामार्गयोः जन्मा- दिसंसारस्वर्गादिफलकत्वात् । परम्परया निमित्तकारणत्वेन देशादिवदुपयोगात्तयोर्न भक्त्य- ङ्गत्वमिति नाङ्गाङ्गिभावेन मार्गैकत्वसिद्धिः । युक्तिस्तु यदि मर्यादामार्गो भक्तिमार्गाभिन्नः स्यात्, तदा भक्तिमार्गीयमेव फलं दद्यात् । स्वर्गादिफलदातृत्वाद्दैदिको मार्गो भिन्नः । अलौकिकफलदातृत्वाभावात् प्रवाहो नोक्तः ॥ ६ ॥ पुष्टिमार्गस्य भेदज्ञानार्थं तत्रत्यानां वैलक्षण्यमाहुः । जीवदेहकृतीनां च भिन्नत्वं नित्यता श्रुतेः । यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥ यथा श्रुतेर्वेदस्य लौकिकवाक्यसमानत्वेन गृह्यमाणस्यापि नित्यता, 'स्वयम्भूरैष भगवान् देवो गीतस्त्वया पुरा । शिवाद्या ऋषिपर्यन्ताः स्मातारोऽस्य न कारकाः । १' 'वेदो नारायणः साक्षात् स्वयंभूरिति शुश्रुम' इत्यादिवाक्यैर्लौकिकवाक्यभिन्नत्वं च, तथा १. निरोधहृपा ।
२८ श्रीकल्याणरायकृतविवरणसमेता । पुष्टिमार्गे 'जयति जननिवास' इत्यादिवाक्यैर्लीलास्थानां जीवदेहकृतीनां नित्यत्वं भिन्नत्वं चेत्यर्थः । अथवा । यथा श्रुतेः 'ते ते धामान्युश्मसि गमध्यै गाव' इति वेदात् लीलास्थानां जीवदेहकृतीनां नित्यता भिन्नत्वम्, तद्वत् पुष्टिमार्गेपि लीलान्तर्गतौ जीवदेहकृतीनां नित्यता भिन्नत्वं च भवतीत्यर्थः । द्वयोरपि निषेधत इति । 'स जहाति मतिं लोके वेदे च परिनिष्ठिता'मितिवाक्येन भगवदनुग्रहानन्तरं प्रवाहमर्यादामार्गयोर्निषेधात् प्रवाह- मर्यादामार्गस्थयोर्देहादीनां भिन्नत्वं नित्यता च न भवतीत्यर्थः ॥ ७ ॥ प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः । अतः कारणात् । पुष्टिमार्गे भगवाननुग्रहेण पुष्टिमार्गस्थं यथा ज्ञापयति, यथा प्रेरयति, तथा स प्रवर्तते । अतः पुष्टिमार्गे भगवान् प्रमाणम्, भगवदनुग्रहश्च । तस्मात् प्रमाणभेदादपि पुष्टिमार्गो भिन्न इत्यर्थः ॥ ७ १/२ ॥ सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८ ॥ त्रयाणां सर्गभेदमाहुः । जीवदेहक्रियासहितं भिन्नं सर्गं प्रवक्ष्यामीत्यर्थः ॥ ८ ॥ इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः । वचसा वेदमार्गं हि पुष्टिं कायेन निश्चयः ॥ ९ ॥ त्रयाणां सर्गाणां भेदे किं निमित्तमित्याकाङ्क्षायामाहुः । इच्छामात्रेण सामान्ये- च्छया, मल्लादियुद्धवत् न तु स्वयं रन्तुम्, हरिः मनसा प्रवाहं सृष्टवान् । 'सोऽकामयत बहु स्यां प्रजायेये'तिश्रुतेः वचसा वेदवाण्या वेदमार्गं सृष्टवान् । कायेन स्वरूपेण पुष्टिमार्गस्थान् सृष्टवान् । 'स वै नैव रेमे, तस्मादेकाकी न रमते, स द्वितीयमैच्छत्, स हैतावानासे'ति श्रुतेः । अत एव वाराहपुराणे 'भिन्नेव काचित् सा सृष्टिर्विधातुर्व्यतिरेकिणी'ति । अथवा । स्वयमाविर्भूय भक्तैः स्वसेवां कारयित्वा तन्मार्गं प्रकटितवानित्यर्थः ॥ ९ ॥ त्रयाणां मार्गाणां फलभेदादपि भेदमाहुः । मूलेच्छातः फलं लोके वेदोक्तं वैदिकेपि च । कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकधा ॥ १० ॥ मूलं सृष्टिकारणं ब्रह्म, तस्य सर्गादौ अस्यानेनैवमेवं करिष्यामीतीच्छा, तत एव प्रवाहस्थानां फलमित्यर्थः । वैदिके कर्ममार्गे वेदोक्तं स्वर्गापवर्गरूपमपि फलं भवतीत्यर्थः । पुष्टौ पुष्टिमार्गे कायेन स्वरूपेण फलं भवतीत्यर्थः । तदुक्तं 'गोपीभिः स्तोभितोऽनृत्य'- दित्यादिना । पुष्टौ प्रवाहमर्यादाभ्यां भिन्नेच्छातोपि जातं फलं कौमारलीलादिरूपेणा- नेकविधं भवतीत्यर्थः ॥ १० ॥ 'तानहं द्विषतो' वाक्याद्भिन्ना जीवाः प्रवाहिनः । अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥ प्रमाणपूर्वकं प्रवाहस्थान् जीवान् भिन्नानाहुः । भूतसर्गे दैवजीवेषु भगवदनुगृहीता- १. तत्र ।