भारतकोश
संग्रह पर लौटें

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीवल्लभकृतविवृतिसमेतम् । नत्वा पितृपदाम्भोजं सर्वाभीष्टप्रदायकम् । कृष्णवाङ्‌मूलकाचार्यवचो व्याख्यातुमुद्यतः ॥ १ ॥ यद्यपीश्वरवाक्यानामभिप्रायोतिदुर्गमः । मदीयोयमिति ज्ञात्वा ज्ञापयिष्यत्युदारधीः ॥ २ ॥ अथ यदैव श्रीगोकुलस्वामी स्वमनोभिलषितप्रकारकशुद्धपुष्टिमार्गं प्रकटयितुं मनः कृतवान्, तदैव स्वमुखारविन्दरूपाचार्याणामेव तत्प्रकटनसामर्थ्यं ज्ञात्वा भुवि प्राकट्यार्थमाज्ञां दत्तवान्, तदाचार्या अपि भगवदभिप्रायं ज्ञात्वा तदाज्ञाप्रकारेणैव स्वप्राकट्यं विधाय भगवदभिमतप्रकारकं भक्तिमार्गं प्रकटितवन्तः । तत्र स्वमार्गीयभक्ति- स्वरूपं स्वमार्गसेव्यस्वरूपं स्वमार्गीयसेवाप्रकारं च मार्गान्तरीयभजनसाङ्कर्याभावार्थं वैल- क्षण्येन प्रमाणपूर्वकं निरूपितवन्तः । अन्येपि तत्तच्छास्त्रोक्ता धर्मा विवेकादयश्चतुष्टयपु- रुषार्थरूपास्त्यागादयश्च तत्तन्मार्गीयाः सन्ति । तेषां स्वप्रकटितपुष्टिमार्गविवेकादीनां च सन्देहाभावार्थं भिन्नत्वेन निरूपणं कृतवन्तः । तथापि यथा पूजामार्गे पूजार्थं तन्मार्गो- क्तप्रकारेण सम्भावितदोषनिवृत्तिपूर्वकं पूजाकरणं निरूपितम्, तथा स्वप्रकटितमार्गेपि सर्वदोषनिवृत्तिपूर्वकं सेवाप्रकारो न विचारित इति चिन्तया तद्विचारपरानाचार्यान् दृष्ट्वा स्वयं श्रीगोकुलेश आनन्दमात्रकरपादमुखोदरादिरूपेण प्रकटीभूय स्वसेवाप्रतिबन्धकदोष- निवृत्तिप्रकारकमसाधारणं कारणं तथोपदिष्टवान्, यथाग्रेपि सेवायां यावज्जीवं दोषप्रवेशो न भवति । आचार्यास्तु भगवदुपदिष्टं स्वहृद्याधाय स्वकीयानपि ज्ञापयितुं भगवदुपदिष्टं यथा सौकर्येण बोधो भवति, तदर्थं पद्यबन्धेन तत्र यस्मिन्मासे यस्मिन्पक्षे यस्यां तिथौ यस्मिन्समये तज्ज्ञापनपूर्वकं वक्तुं प्रतिजानते श्रावणस्यामले पक्ष इति । श्रावणस्यामले पक्षे एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ श्रावणस्य श्रावणमासस्य श्रवणस्य विष्णुदैवतत्वात्तदुपलक्षितमासस्यापि वैष्णवत्वा- द्भगवत्सम्बन्धित्वज्ञापनाय मासः श्रावण उक्तः । पक्षस्य शुक्लत्वं विहायामत्वकथनेन भगवत्पक्षीयाणां सर्वेषां सर्वात्मना निर्दुष्टत्वं ज्ञापितम् । अतः परं तिथेर्निर्दुष्टत्वं निरू- १ दैवत्यादिति पाठः ।

२ सिद्धान्तरहस्यम् । पयन्ति एकादश्यामिति । एकादश्यप्येकादशेन्द्रियदोषनिवर्तिका इति तिथिरपि सैवोक्ता । यथा श्रीगोकुले अन्तरङ्गभक्तसर्वपुरुषार्थसिद्ध्यर्थं तद्वारा सर्वेषामपि गोकुलवासिनां सर्व- पुरुषार्थसिद्ध्यर्थं महानिशायामेव प्रादुर्भावः । तद्वदत्राप्याचार्यार्थं प्रादुर्भूय तद्वारा तदी- यानां सर्वपुरुषार्थसाधकत्वं तत्तुल्यमिति अत्रापि महानिशायामेव प्रादुर्भाव उक्तः । महानिशीति । यथा श्रीगोकुले साक्षाद्व्यूहरहितपूर्णपुरुषोत्तमप्राकट्येनैव भक्ताभिलषितं कृतवान्, तद्वदत्रापि साक्षात्प्राकट्येनैव आचार्यानुपदिष्टवानिति ज्ञापनायोक्तं साक्षाद्भग- वता प्रोक्तमिति । यद्यपि भगवता प्रोक्तमित्येतावत्तैव चारितार्थ्येपि साक्षात्पदो- क्तेरयमाशयः । भगवदुक्तौ प्रकारविशेषा बहव एव संभवन्ति । कचिद्भगवान् स्वोक्तिं सेवकद्वारा ज्ञापयति, क्वचित्स्वप्नद्वारा, कचि'द्दिरं समाधा'विति न्यायेनाकाशवाणीद्वारापि ज्ञापयति । अत्र तूक्तसम्भावितप्रकाराभावपूर्वकं स्वयं साक्षात्पूर्णप्राकट्येनाचार्यानुपदिष्ट- वानिति ज्ञापनायोक्तं साक्षादिति । उक्तौ प्रशब्दोक्त्या अत्रोक्तिः केवलं कृपयाविर्भूय, नत्वाचार्यप्रार्थनयेति ज्ञापनाय प्रशब्दोपादानम् । साक्षाद्भगवद्वाक्यकथनं सर्वेषां सम्यक् हृदयारूढं न भवतीति तस्माद्वाक्यार्थ एव यथा यथा सम्यक् हृदयारूढो भवति, तथा पद्यबन्धेन कथनं प्रतिजानते तदक्षरश उच्यत इति । तदेव पूर्वोक्तमक्षरशः प्रत्य- क्षरार्थविचारपूर्वकं उच्यते निरूप्यत इत्यर्थः ॥ १ ॥ एवं कथनं प्रतिज्ञाय साक्षात्स्वमार्गीयसेवाप्रतिबन्धकासाधारणदोषनिवृत्तिप्रकारं भगवदुक्तं प्रथमत आहुः ब्रह्मसम्बन्धकरणादिति । ब्रह्मसम्बन्धकरणात् सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ ब्रह्मसम्बन्धकरणं नाम एतन्मार्गीयाचार्यद्वारा भगवन्निवेदनम् । तेनैव सर्वेषां देहानां सर्वेषां जीवानां च सेवाप्रतिबन्धकसर्वदोषनिवृत्तिर्भवति । ननु 'वेदान्ते च स्मृतौ ब्रह्मलिङ्गं भागवते तथा । ब्रह्मेति परमात्मेति भगवानिति शब्द्यत' इत्याचार्यवचनादुपनिष- त्स्वेव ब्रह्मपदं पुरुषोत्तमवाचकम्, नत्वन्यत्र, तथाप्यत्र ब्रह्मपदोपादानस्यायमाशयः । यथा ब्रह्मणि सर्वसमत्वं धर्मोस्ति, तद्वदत्रापि आचार्यनिवेदनानन्तरं सर्वेषामङ्गीकारे समत्वमेव, न तु वैषम्यमपीति ज्ञापनायात्र ब्रह्मपदोपादानम् । यद्वा । यथा गीतासु 'भगवद्गीतासूपनिषत्सु ब्रह्मविद्याया'मित्यादिवचनाद्भगवद्वाक्यानामेवोपनिषद्रूपत्वम्, तद्वद- त्रापि ब्रह्मसम्बन्धकरणादित्यादिवाक्यानां भगवद्वाक्यत्वेनोपनिषद्रूपत्वादत्र ब्रह्मपदस्य पुरुषोत्तमवाचकत्वमेवेति ब्रह्मपदोपादानम् । तेनास्मिन्भक्तिमार्गे भगवदीयत्वेनैव सर्वदो- षनिवृत्तिः । सेवायोग्यत्वं च । अत एव श्रुतिरप्याह 'यमेवैष वृणुते तेन लभ्य' इति । अस्मिन्मार्गे भगवद्वरणस्यैव दोषाभावहेतुत्वात् । दोषरहितस्यैव भगवत्प्राप्तिहेतुत्वात् । तस्मादस्मिन्मार्गे भगवदीयत्वमेव सर्वदोषनिवृत्तिहेतुः । ननु पूजामार्गे पूजार्थं दोषनिवृ-

श्रीवल्लभकृतविवृतिसमेतम् । ३ त्प्रकारा बहव एव उक्ताः भूतशुद्ध्यादयः, तद्व्यतिरेकेण कथमत्र भगवदीयत्वमात्रेणैव सर्वदोषनिवृत्तिरितिचेत् । उच्यते । सर्वथा निर्दुष्टपदार्थसम्बन्धेनैव सर्वदोषनिवृत्तिः । सर्वात्मना निर्दुष्टत्वं पुरुषोत्तमस्यैव, नान्यस्य, अत एवाचार्यैरुक्तं 'कृष्णात्परं नास्ति दैवं वस्तुतो दोषवर्जित' मिति । अतो भक्तिमार्गे पुरुषोत्तमस्यैव सेव्यत्वात्तत्सम्बन्धमात्रेणैव सर्वेषां सर्वदोषनिवृत्तिरिति नानुपपत्तिः काचित् । अस्यार्थस्य युक्तत्वज्ञापनायोक्तं हीति । पूजामार्गे पुरुषोत्तमसम्बन्धाभावात्तत्र ये दोषाः सम्भवन्ति, तेषां भक्तिमार्गे सम्भावनापि न सम्भवतीति तान्दोषान्निराकरणार्थमनुवदन्ति दोषाः पञ्चविधाः स्मृता इति ॥ २ ॥ पञ्चविधत्वमेव गणयन्ति सहजा इति । सहजा देशकालोत्था लोकवेदनिरूपिताः । संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ देहेन सहैव जायन्ते सहजाः । देहस्य पाञ्चभौतिकत्वात् । भूतेषु भगवत्सम्ब- न्धाभावात् दोषाः संभवन्ति, ते पूजामार्गे भूतशुद्ध्यादिना निराक्रियन्ते । तथैव पूजाप्रदेशेपि पूजार्थमासनादिशुद्धिविधानात्पूजाप्रदेशेपि दोषाः सन्ति । अन्यथा 'अप- सर्पन्तु ते भूताः पवित्रं कुरु चासन'मित्यादिना तन्निराकरणं न स्यात् । तद्व- त्कालेपि 'प्रातर्होमं च कृत्वैव कृत्वा वा ब्रह्मयज्ञकम् । यद्वा माध्याह्निकं कृत्वा पूजये- त्पुरुषोत्तम'मिति मन्त्रराजानुष्टुब्विधानवचनात् । पूजायां नियतकालविधानात्तदतिरिक्त- कालपूजाकरणे कालदोषोपि सम्भवति । अत उक्तं देशकालोत्था इति । एवं देश- कालोत्थान्निरूप्य लोकवेदोत्थानाहुः लोकवेदनिरूपिता इति । 'पूजादिना ब्रह्मलो- क'मिति वचनात्पूजाप्राप्यब्रह्मलोकेपि 'आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुनै'तिवचनात्पुन- रावृत्तिरूपो दोषस्तत्रापि निरूपितः । किञ्च, पूजायां पूजाङ्गत्वेनाग्निस्यापनपूर्वकवैदिक- मन्त्रैर्होमविधानात्तत्रापि न्यूनातिरिक्तदोषः संभवत्येव । अन्यथा 'यस्य स्मृत्या च नामो- क्त्ये'त्यादि प्रार्थनं न स्यात् । एवं लोकवेदोत्थान्निरूप्य संयोगजान्निरूपयन्ति संयोगजा इति । पूजायामभिषेकार्थं मन्त्रादिसंस्कृतशंखादिजलेष्वसंस्कृतजलादिसंयोगे संयोगजो दोषो भवति । तथैवासादितपात्रादिपदार्थानां पुष्पगन्धादीनां तेषां स्त्रीशूद्रादिस्पर्शेपि स्पर्शदोषो भवति । चकारादन्येपि नैवेद्यादिष्वप्यागन्तुका दृष्ट्यादिदोषा उक्ताः । एवं पूजामार्गीयान् दोषाननूद्य भक्तिमार्गे तेषां निराकरणमाहुः न मन्तव्याः कथञ्चनेति । ते दोषा भक्तिमार्गे न मन्तव्याः, न गण्याः । यद्यपि 'न मन्तव्या' इत्यतावतापि निरा- करणसिद्धावपि पुनः कथञ्चनेति पूजामार्गीयोक्तदोषाणां भक्तिमार्गे संभावनापि नास्ती- त्यर्थः । दोषसम्भावनाया अप्यभावे ब्रह्मसम्बन्धकरणादित्यसाधारणो हेतुः पूर्वमुक्त एव । ननु पूजामार्गे पूजार्थं दोषनिराकरणार्थं बहव एव प्रकारा उक्ताः, तान्विहाय शुद्धभ- क्तिमार्गे भगवन्निवेदनमात्रस्यैव सेवार्थं सर्वदोषनिवर्तकत्वं कथमिति चेत् ? उच्यते ।

४ सिद्धान्तरहस्यम् । 'अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षज' इति वचनात् । तथा च 'भक्तिः पुनाति मन्निष्ठा श्वपाकानपि संभवा'दित्यादिवचनतो भक्तिमार्गः स्वत एव सर्वदोषनिवर्तकः । अथ च, भक्तिमार्गे सेव्यः पुरुषोत्तम एव, न तु तदंशस्तद्विभूतिरूपं वा । स एव सर्वात्मना सर्व- दोषरहितः निर्दुष्टपूर्णगुणविग्रहः । अतस्तन्निवेदनेन तत्सम्बन्धे सति सर्वात्मना सर्वदो- षनिवृत्तौ किं वाच्यम् । अतः पञ्चमस्कन्धे भगवद्भक्तस्वरूपनिरूपणे 'भगवदीयत्वेनैव परिसमाप्तसर्वार्था' इति तेषामुत्कर्षावधिरुक्तः । यत्र भगवदीयत्वमात्रस्यैव सर्वपुरुषार्थ- तुच्छीकरणत्वम्, तत्र भक्तिमार्गीयभगवन्निवेदनस्य सर्वदोषनिवर्तकत्वं कैमुतिकन्यायेनैव सिद्धमिति किं वृथावलगनेनेति सर्वं सुस्थम् । पूजायास्तु कर्ममार्गान्तःपातित्वात्तत्र च न भक्तित्वम् । कर्ममार्गस्य भगवत्सम्बन्धाभावात्सद्दोषत्वमपि । ननु भगवत्पूजाविधाना- न्निर्दोषत्वमेवेति चेत् ? सत्यम् । पूजामार्गे पूज्यस्य विभूतिरूपत्वेन शुद्धपुरुषोत्तमत्वाभा- वान्न सर्वात्मना सर्वदोषनिवर्तकत्वम् । तत्रावाहनादिविसर्जनान्तानामुपचाराणां केवलम- न्त्राधीनत्वात्पुरुषोत्तमविभूतिरूपत्वमेव । पुरुषोत्तमस्तु 'नाहं वेदैर्न तपसे'ति 'भक्त्याहमे- कया ग्राह्य' इत्यादिवचनैः केवलमनन्यभक्त्यधीन एव । न तु तदतिरिक्तमन्राद्यधीनो- पीति महदेव वैलक्षण्यम् । किञ्च, पूजामार्गे पूज्यदेवताया मोहनोच्चाटनादिलौकिककार्य- विनियोगोपि श्रूयते । पूज्यदेवतामग्नस्यारित्वादयो धर्माः श्रूयन्ते । न हि सर्वनियामकस्य सर्वेश्वरस्य ब्रह्मादिसर्वोपास्यस्यानन्दमात्रकरपादमुखोदरादेः पुरुषोत्तमस्य सेवकेष्वरित्वादयो धर्माः सम्भवन्ति । अतो गीतास्वपि भगवतोक्तं 'समोहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यह'मिति । तथा श्रीभागवते प्रह्लाद- वाक्यं 'देवोसुरो मनुष्यो वा यक्षो गन्धर्व एव वा। भजनमुकुन्दचरणं स्वस्तिमान् स्याद्यथा वय'मिति वचनात्किमतीऽधिकं भक्तिमार्गस्य पूजामार्गस्य च तारतम्यं वाच्यमिति दिक् ३ अतो भक्तिमार्गे निवेदनेनैव सेवाप्रतिबन्धक सर्वदोषनिवृत्तिरित्यत आहुः अन्यथेति । अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ अन्यथा भक्तिमार्गे निवेदनव्यतिरेकेण सेवाप्रतिबन्धक सर्वदोषनिवृत्तिर्न भवति । कथञ्चनेति प्रकारान्तरव्युदास उक्तः । एवं सेवार्थं सोपपत्तिकां सर्वदोषनिवृत्तिमुक्त्वाग्रे तादृशस्य यावज्जीवं दोषसंक्रान्त्यभावार्थं स्थितिप्रकारमाहुः असमर्पितवस्तूनामिति । यतोस्मिन्मार्गे भगवत्सम्बन्धाभाववद्वस्तुसंसर्गस्यैव दोषत्वम्, अतः स्वार्थं भगवदसमर्पित- वस्तूनां वर्जनमाचरेत् । संसर्गमपि न कुर्यादित्यर्थः ॥ ४ ॥ एवमसमर्पितवस्तुमात्रत्यागे तादृशस्याग्रे लौकिकालौकिकव्यवहारसिद्धिः कथमिती- त्याकाङ्क्षायां तादृशस्य व्यवहारसिद्धिप्रकारमाहुः निवेदिभिरिति । १ पातादिति पाठः ।

श्रीवल्लभकृतविवृतिसमेतम् । ५ निवेदिभिः समर्प्यैव सर्वं कार्यमिति स्थितिः । न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥ निवेदिभिः स्वमार्गानुसारेण कृतात्मनिवेदिभिः, सर्वं लौकिकं वैदिकं च, लौकिकं पुत्रादिविवाहायर्थं, ब्राह्मणभोजनाद्यर्थं स्वोपभोगार्थं च कृतं वैदिकं श्राद्धयागादिकम् । श्राद्धार्थमपि निष्पादितं पाकादिकं सर्वं यागार्थं सम्पादितं घृतान्नादिकं संभारादिकं च सर्वं भगवते निवेद्यैव भगवन्निवेदनानन्तरं पश्चात्सर्वं कार्यमिति । संभाराणां तदाज्ञा- पूर्वकमेव करणं निवेदनम् । तथाच स्मर्यते श्रीभागवते सप्तमस्कन्धे 'विष्णोर्निवेदिता- न्नेन यष्टव्यं देवतन्तरम् । पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पत' इति वचनादियं भक्तिमार्गमर्यादा । मर्यादा नामानुलङ्घ्याज्ञा । यथा वेदादिमर्यादोल्लङ्घनेन कार्यकरणे कर्ता दोषभागभवति, तथात्रापि भक्तिमार्गमर्यादोल्लङ्घनेन कार्यकरणे भक्तिमार्गीयोपि दोषभागभवतीति ज्ञापनार्थं स्थितेर्मर्यादात्वमुक्तम् । स्थितिरिति । एवं वस्तुमात्रस्य निवेदनावश्यकत्वमुक्त्वा कदाचिद्भगवदर्थं सम्पादितपदार्थेषु केनचिद्गृहस्थितेन बालकेन रुचादिना वा अज्ञानात्तन्मध्ये किञ्चित्स्वार्थमन्यार्थं वा विनियुक्तं चेत्, तदा भगवदर्थं सम्पादितं वस्तु सामिभुक्तमर्धभुक्तं जातम्, तदवशिष्टमसमर्पितमिति ज्ञात्वा स्वोपभोगार्थं चेत्समर्पितुमिच्छति तत्समर्पणस्य भक्तिमार्गे निषेधमाहुः न मतमिति । देवदेवस्य देवा ब्रह्मादयः, तेषामपि देवस्याराध्यस्य पुरुषोत्तमस्य तत्समर्पणं न मतम्, सामिभुक्तस्य समर्पणं न मतं, भक्तिमार्गे न संमतं, न कर्तव्यमित्यर्थः । शुद्धपुष्टिमार्गप्रवर्तकाचार्याणां न सम्मतं, न कर्तव्यमित्यर्थः । अथवा, स्वोपयोगार्थमानीतं वस्त्रादिकं तन्मध्ये स्वोपयुक्तं भगवते समर्प्य स्वोपभोगं कृत्वा तदवशिष्टं चेद्भगवते समर्पितुमिच्छति, तदपि सामिभुक्तमिति तस्यापि समर्पणं देवदेवस्य न मतमिति ॥ ५ ॥ एवं सामिभुक्तसमर्पणनिषेधमुक्त्वा सर्वात्मना सर्वथा सदाकर्तव्यप्रकारमाहुः तस्मादिति । तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । यस्मात्पूर्वमसमर्पितवस्तुसम्बन्धो न कर्तव्य इत्युक्तम्, पश्चादर्धभुक्तसमर्पणमपि न कर्तव्यमित्युक्तम्, तस्मादादौ स्वोपभोगात्पूर्वमेव सर्ववस्तुपदेन भार्यापुत्रादीनामपि समर्पणं कर्तव्यम् । विवाहानन्तरं स्वोपयोगात्पूर्वमेव स्वोपयोगार्थमेव तन्निवेदनं कर्तव्यम् । एवमपि पुत्रोत्पत्त्यनन्तरमपि पुत्रादीनां समर्पणं कर्तव्यम् । सर्वकार्ये सर्वकार्यनिमित्तं तत्तत्कार्योपयोगिवस्तुसमर्पणं कार्यम् । समर्पणं कृत्वा पश्चात्तानि तानि कार्याणि कर्तव्यानी- त्यर्थः । अत्र कश्चित्पूर्वपक्षी शङ्कते । ननु भक्तिमार्गे भगवन्निवेदितस्यैव वस्तुनः स्वार्थं विनि- योगः कर्तव्यः, न तु अनिवेदितस्येति नियम उक्तः । तस्यैकादशस्कन्धे निषेधोपि श्रूयते । १ स्वोपयोगमिति पाठः ।

६ सिद्धान्तरहस्यम् । यथा । 'अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदित'मित्याशङ्कां मार्गभेदेन परिहर्तुमाहुः दत्तापहारवचनमिति । दत्तस्य नैवेद्यादेरपहारः पुनः स्वार्थग्रहणम् । तथा च तद्दत्त- सकलं दत्तवस्त्रादिकमपि सकलं न ग्राह्यमित्यादिवचनं स्मृत्यादिवाक्यं भिन्नमार्गपरं मतम् । भिन्नमार्गपरं द्विविधभक्तिमार्गातिरिक्तकर्ममार्गपूजादिमार्गपरम् । तत्र हेतुः । तस्मिन्मार्गे पूजामार्गे भक्तिमार्गत्वाभावान्निवेदनस्वरूपस्यैवाप्रसिद्धेः । भक्तिमार्ग एव निवेदनस्यो- क्तत्त्वात् । अत एव श्रीभागवते 'श्रवणं कीर्तन'मिति नवधोक्तभक्तौ निवेदनस्याप्युक्त- त्वाद्भक्तिमार्गे एव निवेदनम्, नान्यत्र । तथा च तत्रैवैकादशस्कन्धे 'दारान्सुतान्गृहा- न्प्राणान्यत्परस्मै निवेदनम् । एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि सञ्जायते भक्तिः कोन्योर्थोस्यावशिष्यत' इति भक्तिमार्ग एव भक्तिजनकत्वेन निवेदनप्रकार उक्तः । तस्माद्भक्तिमार्गे पुरुषोत्तमस्यैव सेव्यत्वात्स्वस्य सेवकत्वाद्वक्तिमार्गे सेवकस्य भगवदुपभु- क्तमगवदुच्छिष्टेनैव स्वनिर्वाहस्यावश्यकत्वात्, अत एव श्रीमदुद्धवैरूक्तम् । 'त्वयोपयुक्त- स्रग्गन्धवासोलंकारचर्चिताः । उच्छिष्टभोजिनो दासा' इत्युक्तत्वाद्दासानामुच्छिष्टभोजनमेव स्वधर्मः । भुक्तावशिष्टस्यैवोच्छिष्टत्वात्तत्समर्पितस्य भोजनं भक्तिमार्गे एव, न तु मार्गान्तरे । अत एव भगवताप्युक्तं 'पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्यु- पहृतमश्नामि प्रयतात्मन' इति । 'भक्त्युपहृतमश्नामी'ति वचनाद्भक्तिमार्गे एव भोजनस्या- वश्यकत्वम्, न तु तदतिरिक्तपूजामार्गेपि । अतो भक्तिमार्गातिरिक्तमार्गेषु नैवेद्यादेर्दानमेव निवेदनपदवाच्यम्, न तु भक्तिमार्गवत्समर्पितस्याङ्गीकारः । दानं नाम स्वसत्तापरित्याग- पूर्वकं परसत्तापादनम् । यथा ब्राह्मणाय गौर्दीयते, तत्र स्वसत्तापरित्यागपूर्वकं ब्राह्मणसत्ता- पादनं क्रियते । पुनः सा गौः स्वोपभोगाय न भवति । तथा च भक्तिमार्गातिरिक्तमार्गे नैवेद्यादिरपि । अतएव दत्तापहारवचनमिति दत्तापहारवचनं नैवेद्यविषयम् । तथा च सकलं नैवेद्यातिरिक्तं भगवद्दत्तवस्त्रादिकं तत्सर्वं हरेः सम्बन्धि न ग्राह्यमिति यदुक्तम्, तद्भिन्नमार्गपरम् । भक्तिमार्गातिरिक्तपूजामार्गादिपरम्, मतमिति सर्वप्रमाणसंमतमित्यर्थः । प्रमाणं तु 'त्वयोपयुक्ते'ति पूर्वमुक्तमेव ॥ ६ ॥ एवं भक्तिमार्गातिरिक्तमार्गे पूज्यनैवेद्याद्यग्रहणं सोपपत्तिकमुपपाद्य भक्तिमार्गे भग- वद्भुक्तोच्छिष्टेनैव भगवदीयानां व्यवहारः कर्तव्यो, नान्यथेति ज्ञापनायाहुः सेवकानामिति । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । सेवकानां दासानां भगवदीयानां भगवदुच्छिष्टमेव ग्राह्यम्, नान्यदित्ययं व्यव- हारः प्रकारः यथाग्रे निःशङ्कं लोके प्रसिद्धो भवति, तथा अतिप्रसिद्धतया निःशङ्कतया सेवकैः समर्प्यैव कार्यम् । सिद्धौ प्रकर्षे निःशङ्कता । ततस्तादृकप्रकारकव्यवहारकरणेनैव सर्वेषां भगवदीयानां ब्रह्मता भवति । ब्रह्मता नाम 'निर्दोषं हि समं ब्रह्मे'ति वचना- त्सर्वेषां निर्दुष्टत्वं भक्तिमार्गे निवेदनानन्तरं समत्वं च ज्ञापितं भवति । सर्वेषां सजातीयत्वं

भवति, भगवदीयत्वं भवतीत्यर्थः । यद्यपि ब्रह्मणि अनन्ता एवोपनिषन्निरूपिता धर्माः सन्ति, तथाप्यत्र सेवोपयोगिनिर्दुष्टत्वं भगवदीयत्वेन समत्वं च सर्वेषां भक्तिमार्गे भजनो- पयोगित्वेन द्वयोरेव निर्देशः कृतः ॥ ७½ ॥ ननु भक्तिमार्गप्रवेशेपि सत्त्वादिगुणभेदेन प्रकृतिवैषम्याद्भगवदीयत्वेपि कथं सर्वेषां समत्वमित्याशङ्क्य गङ्गादृष्टान्तेन परिहरन्ति गङ्गात्वमिति । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना ॥ ८ ॥ गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८½ ॥ यथा सर्वजलदोषाणां तावदेव गुणदोषादिवर्णना भवति, यावद्गङ्गाप्रवेशो न भवति । गङ्गाप्रवेशानन्तरं सर्वेषां जलानां गङ्गात्वेनैव सर्वधर्मोपयोगित्वं भवति । तद्वत् यावत्पर्यन्तं भक्तिमार्गीयाचार्यैः कृतं निवेदनं न भवति, तावदेव भगवज्जने तदीयगुणदोषादिविचारणं संभवति । भगवदीयत्वे सम्पन्ने पूर्वाशङ्कितसत्त्वादिगुणभेदकृतदोषाणां भजनबाधनं न संभवति । अतएव श्रुतावपि 'यमेवैष वृणुते तेन लभ्य' इति वरणस्यैव भगवत्प्राप्तिहेतुत्व- मुक्तम्, नतु सत्त्वादिगुणप्रकृतिदोषाणां बाधकत्वम् । तथा सर्वेषां जलानां गङ्गात्वे सति गुणदोषादिवर्णना न निरूप्या स्यात्, तद्वदत्रापि भक्तिमार्गेपि भगवदीयत्वसम्पत्त्यनन्तरं सर्वदोषनिवृत्तिः । तद्वदित्यत्र चकारस्यानुक्तसमुच्चयो ज्ञेयः । यथा भगवन्निवेदनेन सेवा- प्रतिबन्धकदोषनिवृत्तिः, तथा खोपयोगिपदार्थदोषनिवृत्तिर्भवति भगवन्निवेदनेनेति ज्ञापनाय चकारः । खोपयोगिपदार्थदोषनिवृत्तौ उपायान्तराभावायैवकारः । भगवन्निवेदनेनैव सर्वदो- षनिवृत्तिः, न तु प्रकारान्तरेणेत्यस्यार्थस्य युक्तत्वज्ञापनाय हिशब्दः । अत्रायमाशयः । भगव- चरणारविन्दैकदेशाङ्गुष्ठभिन्नब्रह्माण्डकटाहाविवरोद्गतजलस्य चरणाङ्गुष्ठसम्बन्धमाहात्म्येन यत्र लोके गङ्गासम्बद्धजलादेर्गङ्गायाः सर्वदोषनिवर्तकत्वम्, तत्र भक्तिमार्गे साक्षात्पुरुषोत्तमस्यैव सम्बन्धात्सर्वेषां चेतनाचेतनानां सर्वदोषनिवृत्तौ किं वाच्यमिति ज्ञापनाय हिशब्दः ॥ ८½ ॥ भक्तिसिद्धान्तवाक्यानां श्रुतानां भगवन्मुखात् । स्वाचार्यैः पद्यबन्धानां स्वीयानां बोधसिद्धये ॥ १ ॥ व्याख्यानं कृतमाचार्यपादपद्माभिधेन मे । स्वाचार्यास्तेन तुष्यन्तु मयि निःसाधने खतः ॥ २ ॥ इति श्रीमत्पितृचरणैकतानश्रीवल्लभचिरचिता पुरुषोत्तमसिद्धान्तविवृतिः समाप्ता ।

१ 'व्याख्या कृता मयाचार्यपादपद्माभिधेन या । तयाचार्याः प्रतुष्यन्तु मयि निःसाधने खत' इति पाठः । २. कृत्वा पद्यानि साक्षात् स्वयमनुभगवत्प्रोक्तवाक्याक्षराणाम् स्वीयानां तत्तदर्थं स्फुटतरकथनं नान्यगम्यं विदित्वा । गोत्रे श्रीवल्लभाख्यः पुनरपि किल संभूय पद्यानि तानि व्याख्यातार्थानि मन्ये स्वयमिह कृतवान् श्रीमदाचार्य एव ॥ १ ॥ श्रीगोकुलेशकृता टीका भक्तिसिद्धान्तसिद्धिका । खसाधनस्थभक्तानां पादपद्मानुवर्तिनाम् ॥२॥

श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीरघुनाथकृतविवृतिसमेतम् । दीनानुकम्पी यो भूत्वा श्रीमद्वल्लभनन्दनः । अगणिनाथ निजं मार्गं तं वन्दे नन्दनन्दनम् ॥ १ ॥ श्रावणस्यामले पक्षे एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ अमले शुक्ले, महानिशि अर्धरात्रे, साक्षाद् अव्यवधानेन भगवता यत्प्रोक्तमु- पदिष्टं तदेवाक्षरशोऽक्षरैः पद्यवाक्यादिरूपैः प्रदर्श्यत इत्यर्थः ॥ १ ॥ ब्रह्मसम्बन्धकरणात् सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ बृहत्त्वाद्व्रह्म पुरुषोत्तमः तत्सम्बन्धस्तस्मिन्देहात्मनोर्निवेदनलक्षणस्तत्करणात्सर्वेषामा- ब्रह्मस्तम्बपर्यन्तानां सर्वेषां दोषाणां वक्ष्यमाणपञ्चविधानां दोषाणां निवृत्तिर्भवतीत्यर्थः । हिशब्दः प्रसिद्धिं द्योतयति, सर्वधर्मान्परित्यज्येत्यादिषु ॥ २ ॥ तत्र के ते दोषा इत्यपेक्षायामाहुः सहजा इति । सहजा देशकालोत्था लोकवेदनिरूपिताः । संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ देहेन सहैवोत्पन्नाः कुष्ठापस्मारादयः । जीवदोषाः कामक्रोधादयः । देशोत्था मगधम्लेच्छादिदेशोत्थाः । कालो रौद्रः कल्पादिरूपस्तद्दुत्थाः । संयोगः पतितादिसंसर्गः । स्पर्शो निषिद्धेन्द्रियार्थसंयोगः । चकारात्कर्मजा अपि । ते सर्वेऽपि लोके वेदे च कथिता इत्यर्थः । तत्र केशभस्मतुषाङ्गारादिदूषितप्रदेशस्थितिः । संध्यायां चतुष्पथादि सेवनम् । म्लेच्छादिस्पर्शः । मुखरतिः । अद्वारेण प्रवेशनमित्यादयो लोकप्रसिद्धाः । तस्मादाहिताग्निः श्रद्धादेवः खकृत इरि१उषरभूमिनावस्येत् । नामावास्यायां च पौर्णमास्यां च स्त्रियमुपेयात् । तस्मान्मलवद्वाससा न संवदेत् , न सहासीत, नास्या अन्नमद्यात् , या मलवद्वाससा संभवति । तस्माद्ब्राह्मणाय नापगुरेते इत्यादयो वेदप्रसिद्धा दोषाः । ते सर्वे दुरत्यया अपि दोषा न मन्त- व्याः । कथंचन कथमपीत्यर्थः । भगवत्संबंधे संपन्ने एते दोषाः किं करिष्यन्तीति भावः ॥ अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ १ स्वकृतदरणेनावस्येदिति पाठः ।

श्रीरघुनाथकृतविवृतिसमेतम् । ९ अन्यथा यदि भगवत्संबन्धो न भवेत्तदा कथमपि कदाचिदपि सर्वदोषाणां निवृत्तिः न भवेदित्यर्थः । यस्मात्संबन्धाकरणे दोषानिवृत्तिस्तस्मादसमर्पितानां भगवत्यनिवेदितानां वस्तूनामुपभोगादिव्यवहारे वर्जनं कुर्यादित्यर्थः । स्वयं कुर्यात्सेवकैः कारयेदितिभावः ॥ ननु हट्टादिस्थितवस्तूनामसमर्पितत्वादवश्योपादेयानां कथं व्यवहारे स्वीकार इत्यत्राहुः । निवेदिभिः समर्प्यैव सर्वं कार्यमिति स्थितिः । न मतं देवदेवस्य सामिभुक्तसमर्पणम् । तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् ॥ ५ ॥ अनन्यगत्या एवंविधस्थले हट्टांश्रितवस्तुस्वीकारेपि निवेदनवद्भिः पुरुषैः समर्प्यैव पश्चात् सर्वं कार्यम् । कुर्यादिति प्रमादपाठः । इति स्थितिः एतादृशी मार्गमर्यादेत्यर्थः । अन्यमार्गीयं किंचिदुद्भाव्य तन्निषेधपूर्वकं स्वसिद्धान्तमाहुः न मतमिति । भुक्तभोजनम् । समर्पणं भगवति निवेदनम् । द्वन्द्वैकवद्भावादेकवचनम् । सामीत्येतदर्धवाचकमव्ययम् । तेनायमर्थः संपन्नः । संपादितवस्तूनामर्धं कृत्वा एकांशेन स्वोपभोगेऽनिवेदितेन पुनरन्यांशेन नैवेद्यादिरूपेण समर्पणम् । यदुपभुज्यते तदसमर्पितं तन्नोपभुज्यत इति यत्सामि द्वैविध्येन व्यवहारो बहिर्मुखानां तद्देवदेवस्य विष्णोर्मतं संमतं न भवति । मतं सिद्धान्त- मिति वा । यस्मात्सर्वांशेनासमर्पणं भगवदमतं तस्मात्सर्वस्मिन्नपि कर्तव्यत्वेन प्राप्ते कार्य- मात्रे आदौ प्रथमत एव सर्ववस्तूनां समर्पणं कुर्यादिति शेषः । 'नन्वपि दीपावलोकं मे नोपयुञ्ज्या'दित्यादिवचनैर्दत्तापहारत्वादिदोषसंभवे कथं न मतमित्यत आहुः दत्तापहारवचनमिति । दत्तापहारवचनं तथा च सकलं हरेः । न ग्राह्यमितिवाक्यं हि भिन्नमार्गपरं मतम् ॥ ६ ॥ निवेदितस्वीकारे दत्तापहारलक्षणो दोषो भवतीत्येतदर्थकं यद्वचनं, तथा च तथै- वान्यदपि यत्सकलमनिवेदितश्राद्धादिविषयकं तत्सर्वमपि हरेः हरिसंबन्धित्वेन न ग्राह्यं, न ज्ञेयम्, इति अस्मिन्नर्थे वाक्यं वाक्यानि सन्तीत्यर्थः । जात्यभिप्रायेणैकवचनम् । तानि वाक्यानि प्रसिद्धानि सन्तीति हिशब्दार्थः । तथा चोक्तं भगवता 'यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पण'मिति । ब्रह्माण्डपुराणेपि 'पत्रं पुष्पं फलं तोयं पानमन्नाद्यमौषधम् । अनिवेद्य न भुञ्जीत यदाहाराय कल्पितम् । अनिवेद्य प्रभुञ्जानः प्रायश्चित्ती भवेन्नरः । तस्मात् सर्वं निवेद्यैव विष्णोर्भुञ्जीत सर्वदा । मुकुन्दाशनशेषं तु यो हि भुङ्क्ते दिने दिने । सिक्थे सिक्थे भवेत्पुण्यं चान्द्रायणशता- धिकम् । भुक्त्वान्यदेवनैवेद्यं द्विजश्चान्द्रायणं चरेत् । भुक्त्वा केशवनैवेद्यं सर्वपापैः प्रमुच्यते । अम्बरीष नवं वस्त्रं फलमन्नाद्यमौषधम् । अनिवेद्य हरेर्भुञ्जन् सप्तजन्मानि नारकी' । श्रीभागवतेपि 'त्वयोपभुक्तस्रग्गन्धे'त्यादिनोक्तम् । 'विष्णोर्निवेदितान्नेन यष्टव्यं देवता- १ तादृशवस्तुस्वीकारे इति पाठः । सि. र. २

१० सिद्धान्तरहस्यम् । न्तरम् । पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पत' इत्याद्यपि ज्ञेयम् । तर्हि निवेदितस्वी- कारे निषेधवाक्यस्य का गतिरिति तत्राहः भिन्नमार्गेति । भिन्नः पृथक् कृतो मार्गो भक्तिमार्गो येभ्यस्ते भिन्नमार्गास्तत्परं यदधिकारकमिदं भवतीत्येतन्मतं संमतम् । ये शास्त्रा- र्थापरिज्ञानेनान्यथा कथयन्ति, ते आसुरा एव । अतः सर्वथोपेश्या इति भावः । नन्वेकवारमादावेवात्मना सह सर्वं निवेदितमेवास्ति किं पुनः पुनर्निवेदनेनेत्यत आहुः सेवकानामिति । सेवकानां यथा लोके व्यवहारः प्रसिद्ध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना ॥ ८ ॥ गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८½ ॥ येन प्रकारेण सेवकानामपि निवेदनव्यवहारः प्रकृष्टः सिद्धो भवति तदर्थं स्वयं समर्प्यैव सर्वं कार्यम् । एवं कृते सर्वेषामपि ब्रह्मता निर्दोषत्वमित्यर्थः । ननु शरीरेण सहैव निवर्त्यानां कथमेवं निवृत्तिस्तत्राहः तत इति । ततः ब्रह्मतानन्तरं स्थितानामपि दोषाणां गङ्गात्वं गङ्गातुल्यत्वमित्यर्थः । यथा गङ्गातिरिक्तापवित्रजलानां गङ्गाप्रवाहान्तःपातित्वे संपन्ने गङ्गात्वमेव, तेषां न ततः पृथग्भावः, गङ्गात्वे संपन्ने पूर्वकालीनगुणदोषादिकथा यथा जलानाममिरूप्या भवति, तद्वदेवात्रापि भगवत्सम्बन्धे जाते पञ्चविधदोषाणां स्थिताना- मप्यदोषत्वमेवेत्यर्थः । एवशब्दोऽवधारणे । हिशब्दः प्रसिद्धौ । इति श्रीरघुनाथकृतं सिद्धान्तरहस्यविवरणम् । श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीकल्याणरायकृतविवृतिसमेतम् । फलात्मा फलसंप्राप्त्यै प्रादुर्भूय स्वसेविनाम् । साधनं स्वयमेवासीत् स कृष्णोस्तु मम प्रभुः ॥ १ ॥ श्रीकृष्णोनानेकजीवोद्धारार्थमाज्ञप्तोहमैते जीवाः स्वभावतो दुष्टा धनाद्यासक्ता दुष्टपदार्थैर्व्याप्ताः कथमेतेषां दोषनिवृत्तिरुद्धारश्च भविष्यतीति चिन्ताकुलान् श्रीवल्लभाचा- र्यान् विदित्वा भगवान् एकान्तसमये चिन्तानिवर्तकमुपायमुक्तवान् । ततः श्रीवल्लभाचार्या भगवान् यस्मिन् मासे पक्षे दिवसे समये यथा यदुक्तवान् तत्सर्वनिरूपणपूर्वकं भगवदु- क्तमक्षरैः पद्यबन्धेन वक्तुं प्रतिजानते ।

श्रीकल्याणरायकृतविवृतिसमेतम् । २१ श्रावणस्यामले पक्षे एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ श्रावणे मासे शुक्लपक्षे एकादश्यामर्धरात्रे प्रत्यक्षेण भगवता यत्प्रोक्तम्, तदक्षरैः पद्यबन्धेन कथ्यत इत्यर्थः ॥ १ ॥ ब्रह्मसम्बन्धकरणात् सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ तदेवाहूः । ब्रह्मसम्बन्धो नाम स्वमार्गाचार्यद्वारा भगवति निवेदनं तत्करणात् पुनः स्वयंजीवदेहादीनां भगवत्युपयोगकरणात् सर्वेषां देहजीवादीनां सर्वदोषनिवृत्तिर्भवती- त्यर्थः । जीवस्य स्मरणादिना भगवत्युपयोगः, देहस्य सेवादिना भगवत्युपयोगः, अन्नवस्त्रा- दीनां भगवद्भोगसम्पादकत्वाद्वगवत्युपयोगः । हिशब्दः प्रमाणप्रसिद्धिद्योतकः । तत्र कानिचित् प्रमाणान्युच्यन्ते । 'मत्कथाश्रवणे श्रद्धा मदनुध्यान उद्धव' । 'सर्वलाभोपह- रणं दासेनात्मनिवेदनम्' । 'भक्तिः पुनाति मन्निष्ठा श्वपाकानपि संभवात् ।' 'अपि चेत् सुदुराचारः' । 'न तथा ह्यघवान् राजन् पूयेत तपआदिभिः । यथा कृष्णार्पितप्राणस्तत्पूरु- षनिषेवया ।' 'किरातहूणान्ध्रे'ति । 'विप्राद्विषड्गुणयुतात् ।' 'यः कश्चिद्वैष्णवो लोके मिथ्याचारोप्यनाश्रमी । पुनाति सकलान् लोकान् सहस्रांशुरिवोदितः ।' 'न हि खलु कलुषच्छविः कदाचित्तिमिरपराभवतामुपैति चन्द्रः । भगवति स हरावनन्यचेता भृशमलिनोपि विराजते मनुष्यः ।' 'धनं सर्वात्मना त्याज्यं तच्चेत्त्यक्तुं न शक्यते । कृष्णार्थं तत्प्रयुञ्जीत कृष्णोऽनर्थनिवारकः ।' 'गृहं सर्वात्मना त्याज्यं तच्चेत् त्यक्तुं न शक्यते । कृष्णार्थं तत्प्रयु- ञ्जीत कृष्णः संसारमोचकः ।' पद्मपुराणे 'अम्बरीष नवं वस्त्रं फलमन्नं रसादिकम् । कृत्वा कृष्णोपयोग्यं हि सदा सेव्यं हि वैष्णवैः' इत्यादि । के ते दोषा इत्याकाङ्क्षायामाहुः दोषाः पञ्चविधाः स्मृता इति ॥ २ ॥ सहजा देशकालोत्था लोकवेदनिरूपिताः । संयोगजाः स्पर्शाजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ सहजाः शूद्रत्वकिरातादयः । देशोत्था दुष्टदेशतजन्यान्नाद्युपभोगजन्याः । कालोत्था दुष्टकालसंसर्गजन्याः । ते लोकवेदनिरूपिता बहव एव सन्ति । संयोगजा दुष्टसहासनादिजन्याः, 'संसारावेशदुष्टानामिन्द्रियाणां हिताय वै । कृष्णस्य सर्ववस्तूनि भुञ्ज ईशस्य योजयेत्' । ते दोषत्वेन न मन्तव्याः, कथंचन लौकिकवैदिकप्रकाराभ्यामपि । प्रकारान्तरेण जीवादीनां सर्वदोषनिवृत्तिर्न भवतीत्याहुः । अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । पदार्थानां विनियोगप्रकारमाहुः । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः ।

१२ सिद्धान्तरहस्यम् । निवेदिभिः निवेदयितृभिः सर्वं समर्प्य स्वयं भगवदुपयोगादिकं कुर्यादित्यर्थः । सर्वत्रोपयोगरूपसमर्पणे प्राप्ते क्वचिन्निषेधमाहुः । न मतं देवदेवस्य सामिसुक्तसमर्पणम् ॥ ५ ॥ तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । देवा ब्रह्मादयस्तेषामपि देवस्याराध्यस्य पुरुषोत्तमस्यान्येनार्थभुक्तस्यावशिष्टस्य स्वोपभोगार्थं समर्पणम् । अथ च स्मृत्यादौ लोके च यन्निन्दितं भुक्तं भोज्यं तस्य समर्पणं भगवतो भक्तानां च न सम्मतम्, अतो न कर्तव्यमित्यर्थः । यस्मादन्यभुक्तताव- शिष्टस्य भगवति समर्पणं निषिद्धम्, तस्मात् सर्वेषु कार्येषु कर्तव्येषु आदौ स्वोपभोगात् पूर्वमेव सर्ववस्तूनां समर्पणं कर्तव्यमित्यर्थः । अत एव पुराणेषु 'विष्णोर्निविदितान्नेन यष्टव्यं देवतान्तरम् । पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पते । पितृशेषं तु यो दद्यात् हरये परमात्मने । रेतोधाः पितरस्तस्य भवन्ति क्लेदभागिन' इति । ननु भगवते निवेदितास्यान्नादेर्ग्रहणे दत्तस्यापहारो ग्रहणं स्यात्, 'अपि दीपावलोकं म' इत्यादिवाक्यैर्निषेधाच्च कथं निवेदितस्य ग्रहणमित्यत आहुः । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । दत्तापहारवचनं तथाच हरेः सम्बन्धि सकलं निवेदितं न ग्राह्यमिति वाक्यं हि भक्तिमार्गभिन्नपूजामार्गमर्यादामार्गपरम् । अत्रायमाशयः । निवेदनस्य नवविध- भक्तावुक्तत्वेन भक्तिरूपत्वात् 'दारान् सुता' निति सार्धश्लोकेन भक्त्यर्थत्वाच्च पूजामार्गे निवेदनाभावात् तत्र भगवते निवेदनं दानमेव । निवेदने स्वत्वनिवृत्तेरभावान्निवेदितस्य भगवदुपभुक्तस्योच्छिष्टस्य प्रसादत्वेन ग्रहणे बाधकाभावात् विहितत्वाच्च दानस्य स्वत्व- निवृत्तिपरस्वत्वापादनरूपत्वात् पूजामार्गे निवेदितग्रहणे दत्तापहार एव भवति । अत एवोक्तं गरुडपुराणे 'पादोदकं पिबेन्नित्यं नैवेद्यं भक्षयेद्धरेः । शेषाश्च मस्तके धार्या इति वेदानुशासनम् ॥' ब्रह्माण्डपुराणे 'मुकुन्दाशनशेषं तु यो हि भुङ्क्ते दिने दिने । सिक्थे सिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम् ॥' श्रीभागवते 'त्वयोपभुक्तै'त्यादि । अग्रे सर्वेषां दोषाभावार्थमाहुः । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । स्वकीयानां भगवदीयानां लौकिकव्यवहारो यथा प्रकर्षेण सिध्यति प्रकृष्टो भवति, तथा सेवकैः पदार्थानां भगवदुपयोगं कृत्वैव सर्वं कार्यम् । एवं कृते स्वधर्मेण स्थितौ ततस्तस्माद्व्यवहारादेव ब्रह्मता 'निर्दोषं हि समं ब्रह्मे'ति ब्रह्मतुल्यता निर्दोषत्वं वैष्णवत्वेन समत्वमपि भवतीत्यर्थः ।

श्रीव्रजोत्सवकृतविवृतिसमेतम् । १३ ननु ब्रह्मसम्बन्धकरणेपि दोषाणामनुभूयमानत्वात् कथं निर्दोषत्वं समत्वं चेत्याशङ्कां गङ्गादृष्टान्तेन परिहरन्ति । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना ॥ ८ ॥ गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८ १/२ ॥ यथा गङ्गासम्बन्धेन गङ्गारूपत्वे संपन्ने तेषां जलानां तद्दोषाणां च गङ्गात्वेनैव व्यवहारः, तथा ब्रह्मसम्बन्धे सम्पन्ने तेषां धर्माणां भगवदीयत्वेन निर्दोषत्वेनैव व्यवहारो भवतीत्यर्थः । हि युक्तोयमर्थः । यो यत्र सम्बद्धः, स तद्रूपो भवति । श्रीमत्कल्याणरायेण प्रणम्य स्वप्रभून् मुदा । श्रीमदाचार्यसिद्धान्तरहस्यविवृतिः कृता ॥ १ ॥ श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीव्रजोत्सवकृतविवृतिसमेतम् । प्रणमामि हरिं कृष्णं कृपास्निग्धेक्षणं विभुम् । यः स्वीयार्थे रहस्यं स्वं स्वाचार्येभ्यः समादिशत् ॥ १ ॥ तदेव पद्यबन्धेन कथितं तैः पुनः स्वतः । दुर्बोधं तच्च लक्ष्यं स्यात्कृपयैव तदीयया ॥ २ ॥ इति तेषामहं श्रीमदाचार्याणां निजाश्रयम् । नमामि चरणाम्भोजतलं कारुण्यारञ्जितम् ॥ ३ ॥ अथ साक्षाद्भगवान् दैवोद्धारार्थं स्वाज्ञयैव प्रादुर्भूतान् श्रीमदाचार्यानग्रे वक्ष्यमा- णप्रबलदोषैः साक्षाद्भगवद्भजनानधिकारिणां जीवानां 'शुद्धाश्च सुखिनश्चैव ब्रह्मविद्या- विशारदाः । भगवत्सेवने योग्या नान्य' इत्युक्तत्वात्तन्निवृत्तिपूर्वकं पुनर्ब्रह्मसम्पत्तिव्यतिरेकेण तदर्थमङ्गीकारायोग्यतां मत्वा तद्दोषनिवृत्तिं प्रतीक्ष्यमाणान्दृष्ट्वा स्वयमेतन्मार्गव्यवस्थां सकलमार्गेभ्यो भिन्नामेव ज्ञापयंस्तेषां फलदानविलम्बासहिष्णुः सन् श्रीमदाचार्याणां मार्गाधिष्ठातृत्वात्स्वसिद्धान्तरहस्यं यदाज्ञापयत्, तदेव श्रीमदाचार्यचरणाः प्रत्यक्षरार्थ- विचारेण निरूपयन्ति । श्रावणस्यामले पक्षे एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ यदात्मानं प्रति साक्षाद्भगवता प्रकटीभूय प्रकर्षेण स्वसिद्धान्तरहस्यत्वेनोक्तं तद-

१४ सिद्धान्तरहस्यम् । क्षरशः, यानि भगवदुक्तान्येवाक्षराणि तदक्षररचितपद्यबन्धेन प्रत्यक्षरार्थविचारेण वा मयोच्यते । तत्र कदा कस्मिन्काले वैतदुक्तमित्याशङ्कायामाहुः श्रावणस्येति । श्रावण- मासस्यामले पक्षे । श्रवणस्य विष्णुदैवतत्वात्तदुपलक्षितमासस्यापि तथात्वम् । अत एव लौकिककार्येषु शून्यत्वेन गणनायामपि वैष्णवमन्त्रोपदेशेषु प्रशस्तः । तदुक्तं 'श्रावणे सुख- सम्पत्ति'रिति । तेन यथा श्रावणमासस्य दैवतं विष्णुः, तथा देवानाम्, तत्रापि पुष्टि- मार्गीयाणां दैवतं प्रभुः साक्षाद्भगवानिति तेषां भगवदधीनत्वमेव, न कालकर्माधीनत्व- मितरमार्गीयाणामिव । अतोऽहमेवैतेषां दोषान्नाशयामि, न दानव्रततपआदिसाधनानि । ते नाङ्गीकर्त्तव्या इति ज्ञापितम् । ननु तथापि भगवता ते दोषा नाशिताश्चेत्, तदाङ्गी- कर्त्तव्या इति चेत्, तत्राहुः अमले पक्ष इति । स पक्षो यथा स्वरूपतो निर्मल एव, यथा यथा चन्द्रप्रकाशः, तथा रसानन्दपोषेणाह्लादकश्च, तथायं पुष्टिमार्गीयपक्षोपि वस्तुविचारे कृते स्वरूपतः शुद्ध एव जीवकृत्यसाध्यः ब्रह्मादीनामप्यगम्यः केवलाङ्गी- कारबलेनैव तादृशानन्दपोषकश्चेति ज्ञापनाय स एव पक्ष उक्तः । एवं सति स्वरूपतः शुद्धत्वेपि पक्षस्य तज्जीवानां तु मध्येऽविद्यान्तरायजनितभगवदानन्दतिरोभावात् दुःसं- सर्गात्संसारावेशेन दुष्टत्वाद्भगवदङ्गीकारानन्तरमेव मद्भजनाधिकारे सम्पन्ने भजनेनैव ते दोषा यथा यथा नष्टा भविष्यन्ति, तथा तथा तादृशानन्दपोषणेन तेऽतिशुद्धा भविष्यन्तीति भावः । ननु भोगं विना कथं नष्टा भविष्यन्ति, तत्राहुः एकादश्यामिति । एकादशी हरिदिनमुच्यते । एकादशेन्द्रियशोधिका च । हरिस्तु भक्तानां दुःखहर्त्ता । यदि मर्यादामार्गेऽपि दुःखं न सहते, तर्हि पुष्टिमार्गे सुतरां न सहते इति भक्तानां दोषभोगक्लेशं न कारयतीति भावः सूचितः । किञ्च । भजनाधिकारे सम्पन्ने सर्वेषां भगवत्येव विनियोगकरणे ते स्वत एव नङ्क्ष्यन्तीति कुतस्तद्भोगसम्भावनेत्यपि सूचितम् । ननु तथाप्ययं कलिकालस्तु दोषनिधिः, तत्कथं सर्वथा दोषाभावेन फलं सेत्स्यति, तत्राहुः महानिशीति । महानिशा आसुरी वेला महादोषरूपा, परन्तु पुष्टिमार्गीयाणामर्थे तस्मिन्नेव समये तान् दोषान् दूरीकृत्य प्रकटो जातः, तथात्राप्ययमेव कालः साधको भविष्यतीति तथोक्तम् । ननु कदाचित्तथा प्राकट्यं न भवेत्, तत्राहुः साक्षादिति । एतावदलौकिककरणे सामर्थ्यं किमित्याशङ्कायामुक्तं भग- वतेति । अलौकिकैश्वर्यादिना स सर्वकरणसमर्थ इति । एवं सत्येतावत्सर्वाभिप्रायज्ञाप- नायैव श्रावणस्येत्यादिपदैः समय उक्तो, नो चेत्प्रयोजनं विना किमर्थं वदेयुः । एतेनै- तदङ्गीकारे दोषनिवृत्तिप्रतीक्षा न कार्येत्युपक्रमेण तात्पर्यार्थः सूचितः ॥ १ ॥ अतः परं जीवाङ्गीकारे दोषनिवृत्तिप्रतीक्षा न कार्येत्युपकारार्थं यदुक्तं तन्निरूप्यते । ब्रह्मसम्बन्धकरणात् सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधा मताः ॥ २ ॥ १. मूलेऽयमेव शुद्धः पाठः, तथापि केनचित् न जीवकृत्यसाध्य इति कृतः । २. तदिति पाठः ।

श्रीव्रजोत्सवक़ृतविवृतिसमेतम् । १५ ब्रह्मेति । भगवान् सर्वेश्वरः सर्वान्स्वदासत्वेनानुगृह्णातीति जीवानां सहजदासत्वं सदैव वर्तते । एतदेव स्पष्टीकृतं सिद्धान्तमुक्तावल्यां भक्तिहंसे च । 'तदविद्ययान्तरायभू- तया स्वस्वरूपविस्मारणेनोन्मार्गमने सति निवृत्तं प्रभुसेवास्वरूपधर्मानधिकारसम्पादकं दुष्टत्वं च जातम् । तत्तु प्रभोरेवाङ्गीकारेण दूरीकर्तुं शक्यम्, न तु सहस्रजन्मपर्यन्तमपि कृतैः साधनै'रिति । ब्रह्मसम्बन्धकरणानन्तरं साक्षात्पुरुषोत्तमसेवाधिकारे सम्पन्ने तद्भज- नेनैव दोषनिवृत्तिर्भविष्यतीति तन्निरूपयन्ति ब्रह्मेति । ब्रह्मसम्बन्धकरणं नाम साक्षा- त्पुरुषोत्तमसम्बन्धकरणम् । तच्च श्रीमदाचार्यद्वारा शरणगमनपूर्वकम् । देहजीवयोः सर्वेषां च कोर्थः ? तत्सम्बन्धिनां दारादीनां सर्वेन्द्रियप्राणान्तःकरणादीनां च प्रभोश्चरणे सम- र्पणेन केवलतदीयत्वकरणम्, तत एव देहजीवयोः सर्वेषां च सर्वदोषनिवृत्तिर्भविष्यति । ब्रह्मसम्बन्धे जाते तद्भजनाधिकारे सम्पन्ने सर्वेषां तत्रैवोपयोगेन सर्वे दोषाः स्वयमेव नङ्क्ष्यन्तीति भावः । देहजीवयोरित्यत्र जीवस्य स्वरूपतः शुद्धत्वाद्देहसम्बन्धेनैव तस्य दुष्टत्वात्प्रथमं देहग्रहणम् । ते दोषाः के ? तत्राहूः दोषाः पञ्चविधा मता इति । एते दोषाः प्रथमस्कन्धीयसप्तमाध्यायोक्ताः । 'कृष्ण कृष्ण महावाहो भक्तानामभयंकर । त्वमेको दह्यमानानामपवर्गोसि संसृते'रिति श्लोकार्थविवरणे श्रीमदाचार्यचरणैः स्फुटीकृताः 'कर्मजाः कालजाः स्वभावजा मायोद्भवा देशोद्भवाश्चे'ति । तत्र ये स्वभावजास्तेऽत्र सहजाः प्रोक्ताः । ये कालजास्ते कालोत्थाः । ये देशोद्भवास्ते देशोत्थाः । ये मायोद्भवा अविद्यासं- योगजनिताः स्वधर्मभगवद्धर्माज्ञानादयस्ते संयोगजा उक्ताः । ये कर्मजास्ते स्पर्शजा ज्ञेयाः । तत्र यादृशं कर्म, तादृशमेव देहादिकं जीवानां जायत इति नियमस्तदधीनत्वात् । तेन तत्स्पर्शजन्यत्वात् स्पर्शजत्वं तेषामुक्तमिति भावः ॥ २ ॥ तानेव गणयन्ति सहजा इति । सहजा देशकालोत्था लोकवेदनिरूपिताः । संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ देहस्य भौतिकत्वात्प्राकृतगुणविचारेष्वेव साहजिकी प्रवृत्तिर्नाप्राकृत इति सहजा दोषाः स्वभावजा उक्ताः । किञ्च, देह इत्युपलक्षणम् । सर्वेन्द्रियाणामपि तथोक्ताः । तथैव जीवाः स्वभावतो दुष्टा इति 'अन्यत्सर्वं कर्तव्यम्, भगवद्भजनं न कर्तव्य'मित्यादयश्च जीवानां सहजास्ते । तथैव देशाः सौराष्ट्रमगधादयस्तुदुत्थाः । पूर्वं ते दुष्टा एव, पुनर्यत्र गमनमात्रेण संस्कारमर्हन्ति, तत्र जन्मस्थित्यादिना विशेषतो दुष्टाः । धर्मवासनापि तेषां नास्तीति । तथैव जीवस्यापि तद्देहाभिमानात्तथात्वम् । ननु पुण्यदेशोद्भवानां दुष्टत्वं न भविष्यति, तत्राहूः कालोत्था इति । कलिकालस्य प्रबलदोषरूपत्वात्पुण्यदेशानामपि तद्दोषकलुषितत्वादाधिदैविकतिरोधानेन सामर्थ्याभावात्तत्रोत्पन्नदेहानामपि तथात्वमेव । तदभिमानित्वाज्जीवस्य तथात्वं स्पष्टमेव । ननु केचन सन्तोपि भविष्यन्ति, तत्राहूः

संयोगजा इति । पूर्वोक्तानां सङ्गेन अविद्यासंयोगः सतामपि भवतीति । ‘तत्संसर्गी च पञ्चम’ इति वाक्यात्तत्संयोगजनिता दोषास्तेष्वपि वर्तन्त इति तेषामपि तथात्वम् । ननु तादृशानां दुष्टसङ्गः कथं भवेत्, तत्राहुः स्पर्शजा इति । परम्परासम्बन्धेनापि तद्द्रव्यान्ना- दिसंसर्गात्तद्दोषस्पर्शो भवत्येवेति तादृशकर्मस्पर्शजनितत्वात् स्पर्शजा उक्ताः । चकाराद- नुक्ता अपि ज्ञेयाः । परम्परासम्बन्धेनापि स्पर्शोऽस्मिन्मार्गे बाधक इति समर्पणानन्तरं तादृशानां परम्परासम्बन्धस्पर्शोपि न भवेत्तथा स्थेयमिति ज्ञाप्यते । यद्वा । संयोगजा इति । यद्यपि केचन समीचीना अपि भविष्यन्ति, तथापि स्वपाण्डित्याभिमानात्तत्तच्छा- स्रमतेष्वेव प्रवृत्त्या तत्संयोगजनितदोषेण भगवद्भजनधर्मेष्वेवासन्मतिस्तेषामिति संयोगजा उक्ताः । भगवद्भजने सन्मतिल्वेपि तेषां सकलविधिद्वारैव तत्तन्मार्गे प्रवृत्तिस्ते मार्गस्ता- दृशा एवेति तथात्वमेव । स्वमार्गस्तु समस्तविधिभिरस्पृष्टः । स्वमार्गीयप्रभुरपि तदस्पृष्ट एवेति तेषु तत्स्पर्शजनितदोषास्तु वर्तन्त एवेति स्पर्शजा उक्ताः । एवमपि मायोद्भवत्व- कर्मोद्भवत्वे निरूपिते । एतेन तत्स्पर्शमात्रगन्धेपि प्रभुभजनानधिकार एवेत्युक्तम् । अतः- परमेते दोषा भजनानधिकारसम्पादका इत्यत्र प्रमाणमाहुः लोकेति । लोके स्मृतिपुरा- णादिषु तत्कृतत्वात्तेषां तथात्वमुक्तम् । अलौकिके वेदे च निरूपिताः । भगवद्भजनान- धिकारसम्पादकत्वेन प्रसिद्धाः । तदुक्तम् ‘नाहं वेदैः’ ‘न रोधयती’ति ‘नायमात्मे’त्या- दिना । यद्यप्येतादृशेषु सत्सु सर्वथा साक्षात्पुरुषोत्तमभजनानधिकारादयोग्यता, तथापि पुष्टिमार्गस्य लोकवेदातीतत्वेन केवलाङ्गीकारैकलभ्यत्वेन तत्राङ्गीकारकरणे ते दोषा न मन्तव्याः । तस्य भजनाधिकारसम्पादकत्वात् । अङ्गीकारानन्तरं भजनेनैव ते नङ्क्ष्यन्तीति तच्छङ्कापि न कर्तव्येति कदाचनेत्युक्तम् ॥ ३ ॥ ननु दोषनिवृत्त्यनन्तरमेवाङ्गीकारे का क्षतिः, तत्राहुः अन्यथेति । अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४॥ मदुक्तप्रकारकाङ्गीकाराभावे त्वेतेषां दोषाणां निवृत्तिः कथञ्चन अपि न, सहस्रज- न्मपर्यन्तमपि कृतैः साधनैर्न भविष्यतीत्यर्थः । साधनानामस्वधर्मत्वात् । दासानां तु सेवैव स्वधर्म इत्यङ्गीकारेणैव तदधिकारे सम्पन्ने सर्वेन्द्रियाणां तदर्थमेव विनियोगे सति तन्नाशो भवेदिति भावः । एवमङ्गीकारेण दोषनिवृत्तिप्रकारं निरूप्य ब्रह्मसम्बन्धकरणानन्तरं सेवायां जाताधिकारस्य तस्य देहेन्द्रियादीनां सर्वेषां दुःसंसर्गदुष्टान्न सम्बन्धस्य प्रबलबाधकत्वात्, तत्त्यागकथनेनैतन्मार्गस्थितिप्रकाराभाव एव, तदभावे तु सर्वथा पूर्वोक्तदोषानिवृत्तिरिति । समर्पितात्मनो ह्यसमर्पितवस्तुसम्बन्धो बाधकः, तस्मादसमर्पितानां सम्बन्धिनां वस्तूनां असमर्पितानां च वस्तूनां वर्जनं त्यागं कुर्यात् । अत्रेदं भाति । स्वयं समर्पितात्मा प्रभुणा १ भजनाधिकारायोग्यतेति पाठः ।

श्रीगोकुलोत्सवकृतविवृतिसमेतम् । १७ साक्षादात्मसात्कृतः । तस्य देहप्राणेन्द्रियान्तःकरणादयोपि तदङ्गीकृतास्तदधीनाः साक्षात्से- वैकव्रता भगवत्स्वरूपतत्सम्वन्धिसरूपान्तर्गतस्वस्वविषयग्रहणैकधर्माः, अन्ये तु स्वव्यति- रिक्ताः सर्वे बान्धवादय उदासीनाश्च भगवदनङ्गीकृताः पूर्वोक्तसेवानधिकाररूपप्रबलदो- षदुष्टाः असमर्पितात्मानः, तेषां संसर्गश्च बाधको विजातीयत्वादस्वधर्मत्वाच्चेति तत्सङ्गनिषेध उक्तः । एवं सति स्वसमर्पितानां देहप्राणेन्द्रियादीनां तत्सम्बन्धिनां च प्रत्येकं केषामप्य- समर्पितसंसर्गो न कार्यः । तत्तदिन्द्रियविषयत्वेन तद्ग्रहणं न कर्तव्यम् । अनेन सर्वथा समर्पितेष्वेव सङ्गः कर्तव्यः । तेन च भगवत्येव सर्वेषां विनियोगो भविष्यतीति सूच्यते । तथा हि । सर्वथा समर्पितात्मानो ये ते साक्षाद्भगवत्सम्बन्धिव्यतिरिक्तं न किञ्चिद्गृह्णन्ति । तेषां नेत्राणि तत्स्वरूपमेव स्वविषयं गृह्णन्ति, नत्वन्यत्तद्व्यतिरिक्तम् । रसनेन्द्रियं तु तत्साक्षाद्भुक्तावशिष्टं स्वसमर्पिताङ्गीकारकरणेन परमसौभाग्यकारकं तद्दत्तमहाप्रसादरूपम- लौकिकरसामृतक¹श्रीमदासामृतमेवास्वादयति । घ्राणस्तु तत्स्वरूपसौरभाघ्राणमेव करोति, तदुपभुक्तपुष्पाद्याघ्राणं वा । त्वगपि स्पर्शं तदङ्गस्यैव, तत्सम्बन्धिवस्तुनो वा । श्रवणमपि तद्वचनानि तद्गुणानैव वा शृणोति । एवमेव कर्मेन्द्रियाण्यपि तत्सम्बन्धिकार्यमेव कुर्वन्ति, न तु प्राकृतविषयं किमपि गृह्णन्ति । तादृशानां भगवदीयानामैहिकमपि सर्वं भगवन्निमि- त्तकमेवेति सर्वथा प्राकृतविषयग्रहणाभाव एवेति तत्सङ्गेनास्यापि सर्वेषां तत्रैव विनियोगः सम्पत्स्यत इति तात्पर्यार्थः । अनेन समर्पणानन्तरं प्रभुसम्बन्धिव्यतिरिक्तकार्यं किमपि सर्वथा न कर्तव्यम् । तत्करणे त्वितरसम्बन्धेन तद्दोषसंक्रान्त्या बहिर्मुख्यं स्वधर्महानिश्च स्यादिति भावो ज्ञापितः । एवं सति श्रवणादिकमपि तादृशभगवदीयमुखेनैव कार्यम्, नेतरेणेत्यपि सूच्यते । तच्छ्रवणस्य साक्षात्पुरुषोत्तमसम्बन्धित्वाभावात् । किञ्च, कदाचिद्बहिःसंसर्गेपि तद्द्रव्यान्नादिकं सर्वथा न ग्राह्यमिति वस्तुपदकथनेन द्योत्यते । एवं सति लौकिकदेह- निर्वाहादिकं वैदिकमपि यावत्तावत्सर्वं समर्पितेनैव कार्यम्, न त्वसमर्पितेनेत्यपि ज्ञापितम् ॥ ४ ॥ ननु स्वस्य तु समर्पणं जातम्, परन्तु यावत्पर्यन्तं दारादीनां समर्पणं प्रत्येकं न भवेत्, तावत्पर्यन्तं तत्सम्बन्धस्य बाधकत्वमाशङ्क्य तत्र तदभावप्रकारमाहुः निवेदिभिरिति । निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः । न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥ स्वसम्बन्धि सर्वं समर्प्यैव प्रभुसेवां कुर्यात्, न तु तन्मध्ये किञ्चिदप्यर्थं स्थापयित्वेति समर्पणमर्यादा । सा पूर्वमपि निवेदिभिस्तथैव कृता, आधुनिकैरपि तथैव कर्तव्येति शेषः । एवं सति स्वात्मना सह दारादीनामपि समर्पणं जायते । तेषामनुकूलत्वे सेवोपयोगित्वेन संसर्गे न कोपि दोषप्रसङ्गः । प्रतिकूलत्वे त्याग एव कर्तव्य इत्येतत्सर्वं 'सर्वेषां प्रभुस-


१. पुष्टेति पाठः । सि. र. ३

१८ सिद्धान्तरहस्यम् । म्बन्ध' इति श्लोके नवरत्ने प्रभुचरणैरेव स्फुटीकृतम् । सेवाधिकारस्तु विशेषतः पृथगङ्गी- कारे भविष्यति । एतेन यत्र दारादीनामात्मदेहार्धभूतानामपि संसर्गस्य स्वात्मना सह समर्पितत्वेन तत्रापि सेवोपयोगित्वेनैव न बाधकत्वम्, अन्यथा तथात्वमेव, तत्रान्येषामतादृ- शानां तथात्वे किं वाच्यमिति कैमुतिकन्यायोपि सूचितः । अथवा, निवेदिभिस्तादृशैः सर्वथा प्रपन्नैः सह सा पूर्वोक्ता मर्यादा कर्तव्या, किन्तु सर्वमेव स्वकीयं समर्प्य सर्वेषां भगवत्येव विनियोगं कुर्यादिति दुष्टसङ्गो निवारितः । एतेनासमर्पितानां सङ्गं त्यक्त्वा सर्वथा प्रपन्नैः सह सङ्गः कार्य इत्युक्तम् । ननु यदि दारादीनां सेवाधिकारो विशेषतः पृथक् ब्रह्मसम्बन्धकरणेनैव भवति, तदा स्वात्मना सह समर्पणस्य किं प्रयोजनं तत्राहूः न मतमिति । अयं भावः । जीवस्यात्मदेहसम्बन्धिदारादिधनपर्यन्तं यद्वस्तु तत्सर्वं स्वस्व- रूपान्तःपात्येवास्तीति सर्वेषां प्रत्यहमन्यत्र स्वार्थं वोपयोगस्य पूर्वं जायमानत्वात्तस्मिन्स- त्येव तन्मध्ये केवलमात्मनः समर्पणं सामिभुक्तस्य तद्वद्भवति, तद्देवदेवस्य प्रभोर्मतं न । देव एव स्वयं निर्दुष्टो निर्दुष्टवस्तुन एव भोक्ता भवति । तस्याप्ययं देवः सर्वोत्कृष्टः । यः सर्वोत्कृष्टः स सर्वथा निर्दुष्टपदार्थस्यैवोपभोगं करोति । निर्दुष्टत्वं तु सर्वांशेनान्यसम्बन्ध- त्यागेन केवलं तदीयत्वकरणेनैव भवतीति तेषामन्यत्रोपयोगे विद्यमान एव तन्मध्ये केवला- त्मसमर्पणस्य सर्वांशेन स्वकीयत्वाभावात् सामिभुक्तत्वेनोपभोगार्थं न सम्मतमित्यर्थः । यत्रैतत्प्रकारकसमर्पणस्यैव सामिभुक्तत्वम्, तत्र प्रमादतः स्त्रीबालादिभुक्तावशिष्टस्य निवे- धस्तु प्रमाणसिद्ध इति तस्य सामिभुक्तत्वेनासम्मतत्वे किं वाच्यम् । किञ्च, दासस्याप्यस- म्र्पितवस्तुसम्बन्धस्य बाधकत्वात्स्वधर्महानिप्रसङ्गे स्वानुपयोगित्वेन तादृशं समर्पणं प्रभोर्न मतमित्यपि ज्ञेयम् ॥ ५ ॥ तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । तस्मादादावेव सर्ववस्तूनां दारादिधनपर्यन्तानां देहप्राणेन्द्रियादीनां समर्पणं कर्तव्यम् , अत्र प्रयोजनं सर्वकार्ये ऐहिकपारलौकिककार्ये। ऐहिकं भगवत्सेवामात्रोपयोगि- त्वात्तत्तदिन्द्रियविषयत्वेन स्त्रीपुत्रादिग्रहणं तन्निर्वाहादिकं च। पारलौकिकं तु सर्वेषां पूर्वो- क्तानां साक्षाद्भगवदर्थोपयोगरूपकार्यम्, तदर्थं यथा भगवत्येव सर्वेषां विनियोगो भवेत्, नान्यत्र, तथान्यविनियोगादिकं त्याजयित्वा तद्विनियोगार्थमेव सर्वेषां वस्तूनां देहादिदारा- न्तानां तत्तत्पदार्थानां समर्पणं कर्तव्यमित्यर्थः । एवं सति सेवोपयोगित्वेनात्मशोधकत्वेन १. संबन्धाभावेनेति पाठः ।

श्रीव्रजोत्सवकृतविवृतिसमेतम् । २९

साक्षादलौकिकरसात्मकत्वेन प्रभूपभुक्तं तदुत्तममहाप्रसादत्वेनैव तत्तत्पदार्थेन तावन्मात्रदेहा- दिनिर्वाहादिकमपि कर्तव्यम्, न तु भोगत्वेन लौकिकाद्युत्साहेन च अधिकव्ययादिकमित्य- पि ज्ञापितं भवतीति सर्वमनवद्यम् । ननु निवेदितस्य सर्ववस्तूनां समर्पणेन भगवदीयत्वे जाते तद्ग्रहणनिषेधः शास्त्रेषु श्रूयते, तत्राहुः दत्तेति । स्पष्ट एवार्थः । इदं भिन्नमार्गपरं वचनम्, न तु स्वमार्गीयम् । स्वमार्गप्रकारस्तूच्यते सेवकानामिति । सेवकानां दासानां यथा व्यवहारः लोके लौकिके प्रसिद्धो वर्तते । तथा हि । सेवकस्य दासस्य सर्वं प्रभोरेव, गृहादिकमपि प्रभोरेव, न तु स्वस्येत्यखिलं तदधीनमिति । तस्यायं धर्मः । यत्स- र्वेषां तत्रैवोपयोगकरणेनाहर्निशं तदेकपरतया यावद्भोगसामग्र्यादिकमपेक्षितम्, तत्तत्सा- मयिकं तत्सर्वं सम्पाद्य तदुपयुक्तं करोति । ततस्तदुपयोगे जाते स्वेदेहादीनां दारादीनां च सार्थंकत्वे सम्पन्ने तदुपयोगानवसरे कृपया तद्दत्तप्रसादस्य पूर्वोक्तधर्मरूपत्वात्तेनैव देहनिर्वाहादिकं तत्सम्बन्ध्येहिकं च तन्मात्रोपयोगि करोति, तथा निवेदिनापि सर्वं समप्यैव कार्यम् । यस्य यादृक्प्रकारेण हि उपयोगः सम्पन्नो भवति, तादृक्प्रकारेणैव स्वप्रभावुपयुक्तं कृत्वा तदुपयोगानवसरे तद्दत्तत्वात्पूर्वोक्तधर्मरूपेण तदुपभुक्तपदार्थेन तावन्मात्रोपयोगि देहनिर्वाहादिकमन्यदप्यैहिकं कार्यं कुर्यात्, न तु भोगादिभावेनेति स्वमार्गप्रकार उक्तः । एवं स्थितौ सर्वेषां निर्दुष्टत्वं भवेदित्याहुः सर्वेषामिति । सर्वेषां पूर्वोक्तानां देहप्राणेन्द्रियादीनां ततस्तदनन्तरं तादृक्प्रकारकास्थित्यनन्तरं ब्रह्मता भवति । सर्वेषु तदीयत्वस्फूर्त्या तदर्थमेवोपयोगकरणात्प्राकृताध्यासनिवृत्त्या सच्चिदानन्दरूपता तिरोहितानन्दस्य प्रकटतत्रितयात्मकता भवतीत्यर्थः । एतदेवोक्तं 'ततः संसारदुःखस्ये'त्यत्र 'वस्तुस्वभावाद्भवत' इति । किञ्च, तदुत्तममहाप्रसादस्यापि तथात्वेन ग्रहणाद्वाह्याभ्यन्तर- शुद्ध्या मायांशनिवृत्त्या निर्दुष्टता भवेदित्यर्थः । तदुक्तं'मुच्छिष्टभोजिन' इति । एतेन ब्रह्मणः पुरुषोत्तमाधिष्ठानत्वाद्देहप्राणेन्द्रियादिषु तद्रूपत्वे सम्पन्ने पुनः सर्वदा तत्र साक्षात्पुरुषोत्तमावेशस्तिष्ठेदित्युक्तं भवति । किञ्च, ब्रह्मणि यथा विरुद्धधर्मेष्वपि दृश्यमानेषु निर्विकारत्वम्, तथा तादृशेषु लोकसंग्रहार्थं लौकिकवैदिकधर्मादिष्वपि सत्सु निर्विकार- त्वमेव, न तु किमपि सविकारत्वमित्यपि ज्ञापितम् । पुनस्ते धर्मा दोषरूपत्वेन गणनीया न भवन्ति, कपटरूपत्वात् ॥ ७ १/२ ॥ इममेवार्थं दृष्टान्तेन प्रकटीकुर्वन्त उपसंहरन्ति गङ्गात्वमिति । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८ १/२ ॥ यथा क्षुद्रनदीनां जलेषु बहवो दोषाः सन्ति, तेषां गङ्गासम्बन्धे सति तत्तन्नदी- नाम्नामपि लुप्तत्वाद्गङ्गात्वमेव भवति, गङ्गात्वे सम्पन्ने तत्तद्गुणदोषादिवर्णनापि निरूपयितुं


१. तदुपयुक्तेति पाठः ।

२० सिद्धान्तरहस्यम् । योग्या न भवति, तज्जलानां गङ्गासम्बन्धान्ते स्वयमेव नष्टा इत्यभावादेवानिरूप्यत्वमुक्तम्, तद्वत्तथात्रापि ब्रह्मसम्बन्धानन्तरमेवं प्रकारकस्थितौ ब्रह्मतायां सम्पन्नायां ते दोषाः प्राकृतांशोद्भूताः स्वयमेव लुप्ता भवन्तीति तेषामप्यनिरूप्यत्वमुक्तम् । तादृशानां लोकसंग्रहार्थं दृश्यमानानामपि केषाञ्चित्प्राकृतरीतिर्धर्माणां कपटरूपत्वादग्दधपटन्याये- नानिरूप्यत्वमेवेति सर्वमनवद्यम् । एवं जीवस्य तिरोहितानन्दस्य साधनसहितं पुनर्ब्र- ह्मसम्पत्तिपूर्वकं साक्षात्पुरुषोत्तमप्राप्तिरूपफलयोग्यता निरूपिता ॥ ८$\frac{१}{२}$ ॥ ईश्वरवचननिरुक्तिः कर्तुं केनेह शक्यास्ति । यदिदं तदर्थरीतिः स्फुरिता मे तत्कृपैव तस्यैव ॥ १ ॥ मद्ग्राह्ये नो देया दृष्टिः किन्तु स्वकीयत्वे । मम तु तयैव भविष्यति मार्गस्थितिरन्यथा हि नो भविता ॥ २ ॥ इति निश्चयेपि शरणं प्रभो भवच्चरणपङ्कजान्येव । सततं मम तेनैव त्वत्करणाशापि भाविनी फलिता ॥ ३ ॥ इति श्रीव्रजोत्सवकृतसिद्धान्तरहस्यविवृतिः सम्पूर्णा ।


श्रीकृष्णाय नमः ।

सिद्धान्तरहस्यम् ।

श्रीगोकुलोत्सवकृतविवृतिसमेतम् ।

पिबत श्रीमदाचार्यचरणाम्बुजयोर्मधु । यद्ध्यानाद्धान्तमाधूर्य मेधा मेधार्थमादधे ॥

अथ साक्षाद्भगवान् ‘स ऐक्षते’त्यादिश्रुत्या क्रीडार्थं नानास्वभावं जगत्सृष्ट्वा, तत्र साक्षात्स्वसेवोपयोगित्वेन प्रकटितानां वक्ष्यमाणप्रबलदोषविस्मृतस्वधर्माणां दैवजीवानां तत्रापि पुष्टिमार्गीयाणां उत्तरदलानुभवार्थमेव पृथकृतानां तत्र संसर्गवशादुपचीयमानं बाहि- र्मुख्यं अवलोक्य तदुद्दिधीर्षया स्वसेवायामङ्गीकारार्थं स्वाज्ञयैव प्रादुर्भूतानां श्रीमदाचा- र्याणां ‘शुद्धाश्च सुखिनश्चैव ब्रह्मविद्याविशारदाः । भगवत्सेवने योग्या नान्य’इति वाक्यात्तन्नि- ष्ठदोषाभावस्य ब्रह्मविद्यासम्पत्तेश्च तत्राधिकारसम्पादकत्वात् । प्रतिपादकानां तत्तच्छास्त्रोक्तानां मन्त्रादीनां ‘कलौ दशसहस्राणी’त्यादिवाक्यात्तिरोहितदेवतावत्त्वादन्धिष्ठितानां तदसाधक- त्वात्कथमेतेषां दोषनिवृत्तिः, कथञ्च ब्रह्मविद्यानैपुण्यम्, कथञ्च भगवत्सेवोपदेशः कर्तव्य इति


२. कर्मणामिति पाठः ।