भारतकोश
संग्रह पर लौटें

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

સંશોધન

—————

આ ગ્રન્થની બે ટીકા—શ્રીદેવકીનંદનજીની અને શ્રીપુરુષોત્તમજીની ટીકા—શ્રીગોકુલનાથજી મહારાજ તરફથી મુદ્રિત થઈ હતી. આ મુદ્રિત પ્રતિનો પણ અમે હસ્તલિખિત પ્રતિસહ સંવાદ કરી પ્રેસકૉપીમાં ઉપયોગ કર્યો છે. પાઠભેદ જે અત્યાવશ્યક લાગ્યા તે રાખ્યા છે. શ્રી- દ્વારકેશ ચરણની ટીકા માટે અમે બહુ આયાસ કર્યો, પરંતુ પ્રભુ ઈચ્છાએ કાલાવધિ પૂર્ણ થતાં “ગુજરાતી” પ્રેસના માલિક શ્રીયુત નટવરલાલ ઇચ્છારામભાઈ દેશાઈ તરફથી અમને મળી. તે ઘણી જ શુદ્ધ, પ્રાચીન અને વાચિત છે, તેથી આ એક પ્રતિથી પણ કાર્ય સુંદર અને સરલ થયું. આ ટીકાકાર પ્રાચીન છે. આ શ્રીદ્વારકેશચરણની ટીકાનો અને શ્રીદેવકીનંદન- જીની ટીકાનો ઉલ્લેખ પોતાની ટીકામાં શ્રીપુરુષોત્તમજી કરે છે. આવા સામ્પ્રદાયિક ઘણાખરા સુંદર પ્રાચીન ગ્રન્થો શ્રીયુત નટવરલાલભાઈ પાસે છે, અને વિનાસંકોચે ગ્રન્થો છાપવા માટે આપે છે, તે તેમની વિદ્વત્પ્રિયતા સૂચવે છે. એ માટે અમે તેમનો આભાર અત્ર ઉચિત સ્થાને માનીએ છીએ. શ્રીયમુનાષ્ટકના ઉપર શ્રીદ્વારકેશજીની ટીકા માટે બહુ પ્રયાસ કરતાં કાશીમાંથી ફક્ત અમને પ્રથમ શ્લોકની જ ટીકા મળી છે. શ્રીહરિરાયચરણ અને શ્રીપુરુષોત્તમચરણની ટીકા તો મુદ્રિત થઈ ગઈ છે. પરંતુ શ્રીદ્વારકેશજીની ટીકા મળી જાય, તો આ ષોડશ ગ્રન્થનું કાર્ય અમારા શિર ઉપરનું પૂર્ણ કરી દઈએ. આપણા સમ્પ્રદાયમાં આ ષોડશ ગ્રન્થ ઉપરનું સાહિત્ય અનહદ ઉપયોગિ છે, તે હરકોઈ જાણે છે; પરંતુ શોકની વાત એ છે કે પોરબંદરસ્થ ગો૦ શ્રીજીવનલાલજી મહારાજે મુદ્રણ કરાવેલા સેવાફલાદિ અનેક ગ્રન્થો હજુ શિલિકમાં પડ્યા છે. વૈષ્ણવો તરફથી તે ખરીદી જો ઉત્તેજન ન આપવામાં આવે અને તેનો વાચનમાં ઉપયોગ ન કરવામાં આવે ત્યાં સુધી તે મુદ્રિત હો કે લિખિત હો, એ સમાન છે. આજ હેતુથી સભાસદ્નું વર્ગીકરણ શુદ્ધાદ્વૈત મહાસભાને રાખવું પડ્યું છે, કે જેથી આ સભાએ પ્રકટ કરેલા વિવેકધૈર્યાશ્રયાદિ ગ્રન્થો સીધા જ સભાસદ્ના ગૃહમાં પધરાવાય. ચતુઃશ્લોકીનો પણ ઉદ્દાહાર મારે હાથેજ લખાયો હતો. વિવેકધૈર્યાશ્રય વખતે શુદ્ધાદ્વૈત મહાસભાનું મહાધિવેશન હતું તેથી ત્વરામાં તેનું મુદ્રણ થયું હતું. પરંતુ આ ગ્રન્થ શાંતિથી થયેલ છે તેથી પ્રભુકૃપાએ શુદ્ધ મુદ્રણ થયું છે, તથાપિ જીવબલ વિચારી વિદ્વદ્વર્ગ અશુદ્ધિ પરત્વે ક્ષમા અર્પશે.

જ્યેષ્ઠ શુક્લ ૧૫ } ભવદીય સં. ૧૯૮૭ } શાસ્ત્રી ચીમનલાલ

श्रीकृष्णाय नमः । श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतः बालबोधः । नत्वा हरिं सदानन्दं सर्वसिद्धान्तसङ्ग्रहम् । बालप्रबोधनार्थाय वदामि सुनिश्चितम् ॥ १ ॥ धर्मार्थकाममोक्षाख्याश्चत्वारोऽर्था मनीषिणाम् । जीवेश्वरविचारेण द्विधा ते हि विचारिताः ॥ २ ॥ अलौकिकास्तु वेदोक्ताः साध्यसाधनसंयुताः । लौकिका ऋषिभिः प्रोक्तास्तथैवेश्वरशिक्षया ॥ ३ ॥ लौकिकांस्तु प्रवक्ष्यामि वेदाद्याद्या यतः स्थिताः । धर्मशास्त्राणि नीतिश्च कामशास्त्राणि च क्रमात् ॥ ४ ॥ त्रिवर्गसाधकानीति न तन्निर्णय उच्यते । मोक्षे चत्वारि शास्त्राणि लौकिके परतः स्वतः ॥ ५ ॥ द्विधा द्वे द्वे स्वतस्तत्र सांख्ययोगौ प्रकीर्तितौ । त्यागात्यागविभागेन सांख्ये त्यागः प्रकीर्तितः ॥ ६ ॥ अहन्ताममतानाशे सर्वथा निरहङ्कृतौ । स्वरूपस्थो यदा जीवः कृतार्थः स निगद्यते ॥ ७ ॥ तदर्थं प्रक्रिया काचित् पुराणेऽपि निरूपिता । ऋषिभिर्बहुधा प्रोक्ता फलमेकमवाह्यतः ॥ ८ ॥ अत्यागे योगमार्गो हि त्यागोऽपि मनसैव हि । यमादयस्तु कर्त्तव्याः सिद्धे योगे कृतार्थता ॥ ९ ॥ पराश्रयेण मोक्षस्तु द्विधा सोऽपि निरूप्यते । ब्रह्मा ब्राह्मणतां यातस्तद्रूपेण सुसेव्यते ॥ १० ॥ ते सर्वार्था न चाऽन्येन शास्त्रं किञ्चिदुदीरितम् । अतः शिवश्च विष्णुश्च जगतो हितकारको ॥ ११ ॥ १ "अतः" इति पाठः श्रीपुरुषोत्तमचरणानाम् ।

बालबोधः । वस्तुनः स्थितिसंहारौ कार्यों शास्त्रप्रवर्त्तकौ । ब्रह्मैव तादृशं यस्मात् सर्वात्मकतयोदितौ ॥ १२ ॥ निर्दोषपूर्णगुणता तत्तच्छास्त्रे तयोः कृता । भोगमोक्षफले दातुं शक्तौ द्वावपि यद्यपि ॥ १३ ॥ भोगः शिवेन मोक्षस्तु विष्णुनेति विनिश्चयः । लोकेऽपि यत्प्रभुर्भुङ्क्ते तन्न यच्छति कर्हिचित् ॥ १४ ॥ अंतिप्रियाय तदपि दीयते क्वचिदेव हि । नियतार्थप्रदानेन तदीयत्वं तदाश्रयः ॥ १५ ॥ प्रत्येकं साधनञ्चैतद् द्वितीयार्थे महाञ्छ्रमः । जीवाः स्वभावतो दुष्टा दोषाभावाय सर्वदा ॥ १६ ॥ श्रवणादि ततः प्रेम्णा सर्वं कार्यं हि सिद्ध्यति । मोक्षस्तु सुलभो विष्णोर्भोगश्च शिवतस्तथा ॥ १७ ॥ समर्पणेनाऽऽत्मनो हि तदीयत्वं भवेद्ध्रुवम् । अतदीयतया चाऽपि केवलञ्चेत्समाश्रितः ॥ १८ ॥ तदाश्रयतदीयत्वबुद्ध्यै किञ्चित्समाचरेत् । स्वधर्ममनुतिष्ठन् वै भारद्वैगुण्यमन्यथा ॥ १९ ॥ इत्येवं कथितं सर्वं नैतज्ज्ञाने भ्रमः पुनः ॥ १९½ ॥ इति बालबोधः समाप्तः । १ 'वस्तुस्थितौ च संहारे कार्ये' "इति क्वचित्पाठः" इत्युक्तं श्रीदेवकीनन्दनचरणैः स्वटीकायाम् । वस्तुनः स्थितिसंहारे कार्ये इत्यपिपाठः क्वचिदितिप्रोक्तं श्रीपुरुषोत्तमचरणैः । २ अतः प्रियायेति पाठः श्रीद्वारकेशचरणानाम् । ३ स दाचेरत् इतिपाठः श्रीपुरुषोत्तमचरणानां श्रीदेवकीनन्दनचरणानाञ्च ।

श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरण कमलेभ्यो नमः । श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतः बालबोधः । श्रीदेवकीनन्दनचरणकृतप्रकाशव्याख्योपेतः । यच्चमत्कृतिरेवाऽन्तर्निरस्यति तमः स्मृता । अलङ्कुर्वन्तु मद्वाचमाचार्यचरणत्विषः ॥ १ ॥ यदाश्रयवतामेव बल्लवीजनवल्लभः । प्रसीदति विनोपायैर्विट्ठलेशं तमाश्रये ॥ २ ॥ पितृपादाम्बुजयुगं भक्त्या नत्वा मुहुर्विधा । मतिं स्वामनतिक्रम्य बालबोधो विचार्यते ॥ ३ ॥ भक्तिमार्गे फलं कृष्णस्तदास्वादस्तु दुर्लभः । जीवानामत एवाऽन्यमतेषूत्पद्यते रतिः ॥ ४ ॥ तत्प्रेरितेन रुद्रेण मतान्युक्तानि वै कलौ । विशेषतः प्रवर्तन्ते स्वातन्त्र्यं न यतो नृणाम् ॥ ५ ॥ तत्तत्फलप्रशंसैव तत्र तत्र निरूप्यते । तन्मोहवशतो लोकः परिभ्रमति केवलम् ॥ ६ ॥ अतः कदाऽपि कृष्णस्य भजनं लभते न सः । फलाभावाद्दैवसृष्टिर्व्यर्था भवति सर्वथा ॥ ७ ॥ 'दैवी सम्पद्विमोक्षाये'त्युक्तिस्तर्हि विरुध्यते । अतः करुणया बालबोधमग्निश्चकार हि ॥ ८ ॥ अष्टादशानामत्र श्रीभगवद्वचसामपि । पुराणानां स्मृतीनां च प्रामाण्यज्ञापनाय हि ॥ ९ ॥ १ तद्विशेषा इति क.

तावन्तः कथिताः श्लोका आद्येनोपक्रमस्तथा । अन्तेऽर्द्धेनोपसंहारस्तेन सार्द्धोनविंशतिः ॥ १० ॥ अथ मतान्तरेषु पुरुषार्थचतुष्टयस्य फलत्वेन कथनात्तदर्थितया जीवानां प्रवृ- त्तेर्भक्तेर्गौरवमसहिष्णुवस्तन्मार्गप्रकटनायोक्तचतुष्टयस्याऽपुरुषार्थत्वं समर्थयन्तः कि- ञ्चित्स्वमतं वक्तुमादौ विघ्नाभावाय समझलं तद्दिशन्ति नत्वेति । नत्वा हरिं सदानन्दं सर्वसिद्धान्तसङ्ग्रहम् । बालप्रबोधनार्थाय वदामि सुनिश्चितम् ॥ १ ॥ हरिं सदानन्दं नत्वा सर्वसिद्धान्तसङ्ग्रहं वदामीति पदसम्बन्धः । हरिपदेन दुःखाभावसम्पादनपाटवोक्त्या समारब्धान्तरायापायः सूचितः । सदानन्दपदेन 'कृषि- र्भूवाचकः शब्द' इति निरुक्तेः सुखरूपः श्रीकृष्ण उक्तः । 'तेन दुःखाभावः सुखं चेति पुरुषार्थद्वयं' निष्प्रत्यूहं ततः सिद्ध्यतीति तं नत्वेत्युक्तम् । स्वसिद्धान्तैर्निर्गलितमर्थ- मिममेवाऽग्रे निर्णेतुमारभन्ते सर्वसिद्धान्तसङ्ग्रहं वदामीति । सर्वानपि सिद्धान्ता- न्सङ्गृह्य एकीकृत्य वदामीत्यर्थः । यद्वा, सर्वेषामपि तेषां सम्यगिदमित्थतया ग्रहो ज्ञानं येन तादृशं ग्रन्थं तथेत्यर्थः । यद्यपि तत्तच्छास्त्रैरपि तत्तन्मतपरिज्ञानं भवति, तथापि भ्रान्तिसंवलितमेव, तद्वक्तॄणां प्रतारकत्वात् । तत्र च हेतुरग्रे वक्ष्यते— 'तथैवेश्वरशिक्षये'ति । अत्र तु तन्निवृत्तिपूर्वमिति ज्ञाने सम्यक्त्वमुक्तम् । तदपि हेयत्वेन न तूपादेयत्वेनेवि ज्ञेयम्, स्वमार्गविरोधित्वात् । ननु किं तादृशप्रयासेन, प्रयोजनाभावात् , अत आहुर्बालप्रबोधनार्थायेति । बाला हि स्वतः शास्त्रतो वेष्टाऽनिष्टविचाररहिताः केनचित्प्रतारणार्थमिष्टेऽनिष्टत्वेऽनिष्टेऽपीष्टत्व उच्यमाने तत्र भ्रान्तास्तमेवाऽनुवर्तन्ते । पुनः पित्रादिना तद्गुणदोषवर्णने कृते तद्भ्रममपहाय तत्प्र- दर्शितं स्वहितवर्त्म गृह्णन्ति । न तु तेषामुभयत्र स्वाभाविकं ज्ञानं प्रयोजकमस्ति । परं वातादिकृतसहजभ्रमरहिताश्चेत्, तादृशानामप्रतीकार्यत्वादिति । तादृशा आसु- रत्वादिस्वभावदोषरहिता मोहशास्त्रैः परिभ्रामिता न भक्तिपदवीमनुसरन्ति जीवाः, ते बाला इत्युच्यन्ते । तेषां प्रकर्षेण बोधनं स्वमतज्ञानलक्षणं, तदर्थायेत्यर्थः । पुनरतथा त्वाय बोधने प्रकर्ष उक्तः । पित्रादिवत्स्वस्य तत्प्रबोधनमावश्यकमिति ज्ञापयितुमपि तेषां बालत्वमुक्तम् । अन्यथा दैवसर्गस्य फलराहित्येन वैयर्थ्यं स्यात् । उक्तं च “दैवी सृष्टिव्यर्था च भूयान्निजफलरहिते”ति । ननु किमेतदुच्यमानं प्रमाणसिद्धमुत स्वबुद्धिकल्पितमित्यत आहुः सुनिश्चितमिति । १ सुष्ठु वेदादिप्रमाणैर्विशेषेण स्वस्य वागधिपतित्वात्स्वबुद्ध्या च निश्चितं निर्णीतमित्यर्थः ॥ १ ॥ १ निष्कलितमिति क.

श्रीदेवकीनन्दनचरणकृतप्रकाशव्याख्योपेतः । ३ प्रथमं मतान्तरीयपुरुषार्थचतुष्टयस्याऽनुपादेयत्वकथनाय वैदिकचतुष्टयभिन्न- त्वमुपपत्त्या निर्द्धारयन्ति धर्मार्थकाममोक्षाख्या इति । धर्मार्थकाममोक्षाख्याश्चत्वारोऽर्था मनीषिणाम् । जीवेश्वरविचारेण द्विधा ते हि विचारिताः ॥ २ ॥ एते चत्वारो मनीषिणां विदुषामर्थाः पुरुषार्था इत्यर्थः । वस्तुतस्तु पुरुषार्थ- त्वेन भक्तिमार्गीया एव धर्मादयश्चत्वारो गण्यन्ते, न त्वितरे । 'अनिमित्ता भाग- वती भक्तिः सिद्धेर्गरीयसी'त्यादिवचनैर्भक्तेरेव सर्वतोऽधिकत्वश्रवणात् । अन्येषां धर्मादिसंज्ञामात्रमिति ज्ञापनायाऽऽख्यापदम्, अपुरुषार्थताज्ञापनाय पुरुषपदप्रयोगा- भावश्चोक्तः । मनीषिणामित्यनेन सर्वानधिकारित्वाच्च तथेति ज्ञापितम् । भक्तौ तु 'देवोऽसुरो मनुष्यो वे'ति सामान्यनिर्देशादुक्तदूषणाभावः स्फुटः । किञ्च । काला- दीनामङ्गत्वेन तदशुद्ध्या धर्मादयः पुरुषार्था इति तु वार्त्तामात्रम्, स्वरूपासिद्धेः । भक्तेस्तु भगवदनुग्रहैकजन्यत्वेन तत्स्वरूपसिद्धौ न तेषामङ्गत्वेति न तदशुद्धेर्बाधक- त्वम् , प्रत्युत तेषामनुगुणत्वमेव । तदुक्तम्, 'कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुण ' इति । 'कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिन ' इति च । तेन भक्ति- रेव परमपुरुषार्थ इति निरूपितम् । ननु वेदानामीश्वरवाक्यत्वेन तत्प्रतिपादितानां तेषां कथमतथात्वमिति चेत्, तत्राऽऽहुः जीवेश्वरविचारेणेति । ते धर्मादयो जीव- विचारेणेश्वरविचारेण च द्विधा द्विप्रकारका विचारिता भिन्ना इत्यर्थः । तेन जीव- विचारितानामेवाऽपुरुषार्थता न त्वीश्वरविचारितानामिति ध्वन्यते । ईश्वरोक्तानां तु पुरुषार्थता परं मर्यादायामिति ज्ञेयम् । पुष्टौ तेषामप्यनपेक्ष्यत्वात् । हिशब्दोऽत्र युक्तार्थतां सूचयति । न हि पूर्णज्ञानवद्विचारितस्याऽल्पज्ञानवद्विचारितस्य चैक्यं भवितुमर्हति, भिन्नविषयत्वात् ॥ २ ॥ तदग्रे स्पष्टीकुर्वन्त्यलौकिकास्त्विति । अलौकिकास्तु वेदोक्ताः साध्यसाधनसंयुताः । लौकिका ऋषिभिः प्रोक्तास्तथैवेश्वरशिक्षया ॥ ३ ॥ वेदोक्ता ईश्वरविचारिता अलौकिका न लोकविषया इत्यर्थः । अन्येषाम- लौकिकत्वव्यावृत्त्यर्थं तुशब्दः। ननु वेदे यज्ञात्मको धर्मः' तस्य च "अग्निष्टोमेन स्वर्ग- कामो यजेते"त्यादिभिः स्वर्गसाधकत्वमुच्यते । स च स्वर्गो लोक एवेति कथम- लौकिकत्वमिति चेत्, सत्यम् न हि वेदे स्वर्गशब्देन लोकं उच्यते । "यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम"ति १ उक्तामिति क. २ लौकिक इति क.

४ बालबोधः ।

लक्षणाप्रवेशात् । किन्त्वात्मसुखमेव तादृशम्, तच्चाऽलौकिकमिति नोक्तमनुपपन्नम् । एतन्निबन्धे विवृतमिति विस्तरेण ततोऽवगन्तव्यम् । नन्वेवमपि फलस्याऽलौकिकत्व- मायाति । न तु स्वरूपतो यागादेस्तत्साधनानां वा तथात्वं वक्तुं युक्तम्, स्वकृति- साध्यत्वादित्यत आहुः साध्यसाधनसंयुता इति । साध्या यागादयस्तत्साधनानि च तैः सहिता एवाऽलौकिका इत्यर्थः । “यज्ञो वै विष्णुिरिति” श्रुतेः ससाधनस्य तस्य भगवद्रूपत्वात्तथोच्यत इति भावः । तदुक्तं निबन्धेऽपि “तत्पाधनं च स हरिः प्रयाजादि सुगादि यदि”१ति । अत एवाऽर्थस्याऽपि धर्मसाधनत्वेनाऽलौकिकत्वमिति ज्ञेयम् । तदसाधकस्य नाशहेतुत्वादपुरुषार्थतैव । अर्थस्य धर्मसाधनत्वं निबन्धे निरूपितम्, “धर्मो ह्यर्थेन साधित” इति । तेन धर्मेणाऽर्थोऽर्थेन कामः कामेन मोक्ष इति क्रमोऽत्र नोररीकृतः । कामस्य तु दृष्टान्तत्वेन वैराग्यजनकत्वेन च मोक्षसाधकत्वात्तथात्वमिति विवेकः । ननु यथा धर्मसाधनत्वेनाऽर्थस्य मोक्षसाधन- त्वेन च कामस्य पुरुषार्थता, तथाऽऽत्मसुखसाधनत्वेन धर्मस्य तथात्वं न स्वतः । अतः को विशेषस्त्रयाणामिति चेद्, उच्यते । वेदे हि काण्डद्वयम् । तत्र पूर्वकाण्डे यज्ञात्मको धर्मः साक्षादात्मसुखसाधनत्वेन पुरुषार्थ इति स्तूयते । तथोत्तरकाण्डे साक्षान्मोक्ष- साधनत्वेन ज्ञानमपि । तथा परम्परयैकत्र साधनमर्थोऽपरत्र कामः । एवं साक्षा- त्परम्पराभेदकृतो विशेषो धर्मस्योभाभ्याम् । कामस्य विषयसुखात्मकत्वमाश्रित्य तथा व्याख्यातम् । वस्तुतः पुरुषार्थद्वयमात्मसुखं मोक्षश्चेति निर्णयः । तथा च तत्त्व- दीपे, “दुःखाभावः सुखं चैव पुरुषार्थद्वयं मतम्”ति । अतो मोक्षकामयोः साक्षात्पुरुषा- र्थता । तत्साधनत्वेन धर्मस्य । धर्मसाधनत्वेनाऽर्थस्य च परम्परया पुरुषार्थतेति सिद्धम् । अत्र कामशब्देनाऽऽत्मसुखमुच्यते । विषयसम्बन्धिनः साक्षात्पुरुषार्थतानुपपत्तेः । जीवविचारितानाहुलौकिका इति । ऋषिभिः प्रोक्ता लौकिका इत्यर्थः, जीवबुद्धि- विषयत्वात् । ननु तेऽपि वेदार्थविदः कथमीश्वरविचारादन्यथा कथयन्ति । किञ्च । तदुक्तस्याऽपि वेद एव मूलं भवति । अन्यथाऽप्रामाणिकत्वप्रसङ्गादित्याशङ्कयाऽऽहु- स्तथैवेश्वरशिक्षयेति । यथा ते कथयन्ति तथैवेश्वरस्य नियामकस्य प्रेरणलक्षणा शिक्षा, तया तथेत्यर्थः । एवकारेण प्रकारान्तरेण प्रेरणं कथनं वा व्यावत्र्त्यते । शिक्षा- प्रयोजनं तु “त्वं च रुद्र महाबाहो मोहशास्त्राणि कारये”त्यत्र निरूपितम् । वस्तुतो वेदतात्पर्यपरिचयो ज्ञानवतामपि दुर्लभः । “तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरय” इति वचनात् । अतस्तेषामनीश्वरविचारितत्वादनङ्गीकारः सूचितः ॥ ३ ॥


१ श्रूयत इति क. ग.

श्रीदेवकीनन्दनचरणकृतप्रकाशव्याख्योपेतः। ५ एवमीश्वरजीवविचारभेदेन धर्मादिचतुर्णां द्वैविध्यमुक्त्वा विस्तरेण लौकिकान् वक्तुमुपक्रमन्ते लौकिकानिति । लौकिकांस्तु प्रवक्ष्यामि वेदादाया यतः स्थिताः । धर्मशास्त्राणि नीतिश्च कामशास्त्राणि च क्रमात् ॥ ४ ॥ त्रिवर्गसाधकानीति न तन्निर्णय उच्यते । मोक्षे चत्वारि शास्त्राणि लौकिके परतः स्वतः ॥ ५ ॥ द्विधा द्वे द्वे स्वतस्तत्र सांख्ययोगौ प्रकीर्तितौ । त्यागात्यागविभागेन सांख्ये त्यागः प्रकीर्तितः ॥ ६ ॥ लौकिकान् प्रकर्षेण वक्ष्यामीत्यर्थः । तुशब्दस्त्वलौकिककथनापेक्षां व्यावर्त- यति । तत्रोपपत्तिमाहुर्वेदाद्या इति । यतो यस्माद्धेतोराद्या ईश्वरविचारितास्ते वेदाद्वेदस्य विद्यमानत्वात्तत एव स्थिताः प्रवर्त्तमानाः सन्त्यतस्तानविहाय लौकिकाः कथ्यन्त इति भावः । किञ्च, स्थिता इति पदेन गतिनिवृत्तिः सूच्यते । धात्वर्थस्य तथात्वात् । तथाचाऽधुना प्रवृत्त्यभावेन तत्कथनप्रयोजनाभाव उक्तः । अतो लौकि- कानामेव वक्तव्यत्वात्तन्मध्ये त्रिवर्गनिर्णयस्याऽनावश्यकत्वमाहुर्धर्मशास्त्राणीति । धर्मशास्त्राणि मन्वादीनि। नीतिः नीतिप्रतिपादकमर्थशास्त्रम् । कामशास्त्राणि वात्स्या- यनादीनि । क्रमात्प्रत्येकं त्रिवर्गस्य धर्मादित्रितयस्य साधकानि सन्ति । चकारद्वयेन तत्तन्निर्णयग्रन्था अपि सङ्गृह्यन्ते । इति हेतोस्तन्निर्णयोऽत्र नोच्यते प्रयोजनाभावादिति भावः । मोक्षनिर्णयस्याऽऽवश्यकत्वायाऽऽहुर्मोक्षे चत्वारि शास्त्राणीति । लौकिके जीवविचारिते मोक्षे चत्वारि शास्त्राणि साधकानि सन्तीत्यर्थः । यद्यपि धर्मादिशा- स्त्राणामपि बहुत्वं, तथापि देशाद्याचारभेदेन विरोधाभावात्तत्समाहितिर्भवति । मोक्षस्तु पुरुषार्थरूप इति तस्य चतुर्द्धा कथने भ्रमो भवति, स न युक्त इति तन्निरासाय निर्णीयत इति भावः । तस्य चातुर्विध्यव्यवस्थामारहुः परतः स्वतः इति । परतः स्वतश्चेति द्विधा द्विप्रकारके द्वे द्वे शास्त्रे स्त इत्यर्थः । अत्राऽयमर्थः । शास्त्रद्वयं स्वतो मोक्षसाधकम् । शास्त्रद्वयं परतश्चेति । यत्र शास्त्रोक्तरीत्या साधनाचरणे कृते जीवः कृतार्थो भवति तत्स्वतःशास्त्रमुच्यते । यत्र तदुक्तरीत्या साधनेऽकृतेऽपि कस्यचित्प्र- सादात्कृतार्थो भवति तत्परतः शास्त्रमुच्यते । उभयोर्द्वैविध्याच्चत्वारि तानि भवन्ति । यद्वा, परतः स्वतश्चेति द्विप्रकारके लौकिके मोक्षे द्वे द्वे ते स्त इति । अस्मिन्नर्थेऽयं भावः । लौकिको मोक्षो हि स्वरूपतो द्विविधः । स्वाश्रयः पराश्रयश्चेति । यत्राऽवि- १ अत इत्यारभ्य मुक्तो भवतीति भाव इत्यन्तो निबन्ध एव नास्ति सार्धद्वयस्य, कपुस्तके । २ तर्हीति ख. ३ कृतेऽपीत्यवग्रहशून्यः सर्वत्रोपलब्धः पाठः । भातीत्यवग्रहोऽपीति तथैव निवेशः ।

६ बालबोधः । विद्यानिवृत्तौ सत्यामद्वैतं ब्रह्म भासते, तत्र जीवब्रह्मणोरभेदात्प्रतिबिम्बन्यायेन जीवः स्वाश्रये ब्रह्मणि लीयते । स स्वाश्रयो मोक्ष इत्युच्यते । यत्र पुनरविद्यानिवृत्तौ शुद्धो जीवः परस्मिन्ब्रह्मणि लीयते तत्राविद्यानिवृत्तावपि भेदस्वीकारात्पराश्रय इत्युच्यते । तयोरपि प्रतिपादके द्वे द्वे ते स्त इति मोक्षे चातुर्विध्यम् । तत्र प्रथमं स्वतस्ते आहुः स्वतस्तत्रेति । तत्र तेषां मध्ये स्वतः शास्त्रभूतौ सांख्ययोगौ प्रकीर्त्तितौ प्रकर्षेण कथितावित्यर्थः । यद्यपि "यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यत" इति वाक्यादुभयोरेकमेव फलमिति न भेदो वक्तुमुचितस्तथापि जीव- विचारेणोच्यमानत्वात्तदनुसारेणोभयोर्भेदं व्यवस्थापयन्ति त्यागात्यागविभागे- नेति । साङ्ख्ये त्यागोऽपरत्राऽत्याग इति विभागेन भेद इत्यर्थः । तदेव स्पष्टयन्ति- साङ्ख्ये त्याग इति । साङ्ख्ये मुक्तिसाधनत्वेन त्यागः प्रकीर्तित इत्यर्थः । साङ्ख्ये हि नित्यानित्यवस्तुविवेकः प्रतिपाद्यते । तस्मिन्सम्पन्ने वैराग्योत्पत्तौ ततः सर्वपरि- त्यागेन मुक्तो भवतीति भावः ॥ ४ ॥ ५ ॥ ६ ॥ ननु सङ्घातस्य विद्यमानत्वात्कथं त्यागमात्रेण मुक्तिरित्याशङ्कायां तन्मुक्ति- प्रकारमाहुरहन्ताममतानाश इति । अहन्ताममतानाशे सर्वथा निरहङ्कृतौ । स्वरूपस्थो यदा जीवः कृतार्थः स निगद्यते ॥ ७ ॥ तदर्थं प्रक्रिया काचित् पुराणेऽपि निरूपिता । ऋषिभिर्बहुधा प्रोक्ता फलमेकमवाहतः ॥ ८ ॥ अहन्ताममतात्मकः संसारः, तत्राऽविद्यया जीवो बद्धस्तिष्ठति । साङ्ख्ये चाऽऽत्मानात्मविवेकेनाऽविद्यानिवृत्तिर्भवति । तस्यां निवृत्तायां तत्कार्यरूपः संसा- रोऽपि नश्यति । ततः सङ्घाताद्भिन्नतया आत्मज्ञानमुत्पद्यते । एवमपि सति यावदह- ङ्कारनिवृत्तिर्न भवति तावदपि न सर्वात्मना मुक्तिरित्याभिप्रायेणाऽऽहुः सर्वथा निरहङ्कृताविति । सर्वथा सर्वप्रकारेण "नैव किञ्चित्करोमी"त्यहङ्काराभावे सती- त्यर्थः । ततो मुक्तिस्वरूपमाहुः स्वरूपस्थ इति । यदैव जीवः सर्वं परित्यज्य स्वरूपस्थः स्वात्मज्ञानैकनिष्ठो भवति तदा तदवस्थापन्न एव स कृतार्थो मुक्त इति निगद्यते कथ्यत इत्यर्थः । वस्तुतस्तु ब्रह्मलाभस्य मोक्षपदार्थत्वेन तदभावान्न मुक्त इति भावः, पुनर्जन्मावश्यम्भावाच्च । तदुक्तं दशमस्कन्धे, "आरुह्य कृच्छ्रेण परं पदं, १ तत्र निवृत्तावपीति ग. २ सांख्येनाऽऽत्मनात्मेत्यादि क, ३ मुक्तस्वरूपमिति ख. ४ पुनर्जन्मावश्य- म्भाविवाच्चेति ग,

श्रीदेवकीनन्दनचरणकृतप्रकाशव्याख्योपेतः । ७ ततः पतन्त्यधोऽनादृतयुष्मदङ्घ्रय" इति । तथा च तच्चदीपविवृतौ, "जन्मान्तरे ज्ञानी ज्ञानी सञ्जुत्पद्यत " इति ॥ ७ ॥ नन्वेवं सति जीवविचारितस्य साङ्ख्यस्य कथं प्रामाण्यमित्यपेक्षायामाहुस्तद- र्थमिति । तदर्थमुक्तरीत्या मोक्षार्थं काचित्प्रक्रिया पुराणेऽपि निरूपिता कथिते- त्यर्थः । तेन पुराणमूलकत्वात्प्रामाण्यं तस्येति भावः। ननु "पुराणं हृदयं स्मृतमि"ति वाक्यात्तन्मूलकस्य कथं जीवविचारितत्वमित्यत आहुः, ऋषिभिरिति । ऋषिभिः सा प्रक्रिया बहुधा बहुभिः प्रकारैर्भिन्ना प्रोक्ता स्वविचारादतस्तथेत्यभि- प्रायः । तत्र हेतुः पूर्वमुपपादितः, " तथैवेश्वरशिक्षये"ति । तर्हि साधनप्रकारभे- दात्फलं भिन्नं भविष्यतीत्याशङ्क्य तथा नेत्याहुः फलमेकमिति । पुराणोक्तस्य साङ्ख्यस्य फलद्वयम् । प्रथममात्मदर्शनमेकम् । ततो ज्ञानद्वारा मोक्षो द्वितीयम् । जीवविचारितस्य तस्याऽऽत्मदर्शनमेकमेव फलं न द्वितीयमित्यर्थः । तत्रापि विशेष- माहुरबाह्यत इति । बाह्यो बहिर्मुखो निरीश्वरो विकर्मपरिपोषितश्च साङ्ख्यः । तदतिरिक्तात्पुराणमूलकात्साङ्ख्यादुक्तं फलं, न तु बाह्यादिति भावः । प्रत्युत तादृ- शान्नरकः, वेदविरोधित्वात् । तदुक्तं तत्त्वदीपे, "योगसाङ्ख्ये धर्महीने विमार्ग- परिपोषिते, नरकायैव भवत" इति ॥ ८ ॥ अत्यागे योगमार्गो हि त्यागोऽपि मनसैव हि । यमादयस्तु कर्त्तव्याः सिद्धे योगे कृतार्थता ॥ ९ ॥ एवं स्वतःशास्त्रमेकमुक्त्वा द्वितीयमाहुरत्यागे योगमार्ग इति । त्यागाभावे योगमार्गो योगप्रतिपादकं शास्त्रं मोक्षप्रतिपादकमित्यर्थः । ननु त्यागव्यतिरेकेण कथं योगः सिद्धयेदित्याशङ्कयाऽऽहुरत्यागोऽपीति । न हि सर्वात्मना त्यागो निषि- ध्यते । मनसा तु सर्वं त्यक्तव्यमेव । अन्यथा योगो न सिद्धयेदिति । मनसा सर्व- परित्यागे सम्पन्ने बहिस्त्यागो नाऽपेक्षित इत्येवकारेण तद्व्यवच्छेद उक्तः । युक्तो- ऽयमर्थ इति हिशब्द आह । ननु मनसश्चञ्चलत्वाद्वहिस्त्यागाभावे कथं तन्निरोधो भवतीत्यत आहुर्यमादयस्तु कर्त्तव्या इति । यमा द्वादशविधाः । तदुक्तमेका- दशस्कन्धे "अहिंसे"त्यारभ्य "द्वादश स्मृता" इत्यनेन । आदिपदेन तत्रोक्ताः शमदमादयो ग्राह्याः । तेषु कृतेषु मनः स्थिरीभवतीति भावः । तदुक्तं श्रीकपिलदेवेन-- "अत एव शनैश्चित्तं प्रसक्तमसतां पथि । भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् । यमादिभिर्योगपथैरि"त्यादि । भक्त्या भगवदतिरिक्तविषयविरक्त्या च


१ त्याग इति ग.

८ बालबोधः । भक्तिमार्गे तद्वशीकरणमुक्त्वा यमादिभिर्योगपथैरिति योगमार्गे तैरेव वशीकरणं भवतीत्युक्तम् । अत एवाऽवश्यकर्त्तव्यत्वाय योगपथैरिति विशेषणम् । तुशब्देना- ऽकरणपक्षो व्यावत्र्त्यते । प्रकारान्तरेण तदसिद्धेः । ततः किमित्यत आहुः सिद्धे योगे कृतार्थतेति । योगसिद्धौ कृतार्थो भवतीत्यर्थः । कथमिति चेद्, एवम् । यावज्जीवं योगाभ्यासे कृते स्वात्मज्ञानोदयो भवति । “अयं हि परमो धर्मो यद्योगेनाऽऽत्मद- र्शनमि”ति वाक्यात् । ततो योगबलेनैव देहापगमे अविद्यातो विमुच्यते । न त्वितोऽधिकं फलमित्यर्थः । अयमेव केवलयोगसाध्यो मोक्षः । तथा तत्त्वदीपेऽपि, “केवलेनाऽपि योगेन दग्धकर्ममलाशयः । योगवीर्येण जितहृक् लिङ्गं भित्त्वा तथा भवेदि”ति । अत्राऽपि ब्रह्मलाभाभावान्न कृतार्थतेति भावः ॥ ९ ॥ एवं स्वतः शास्त्रद्वयमुक्त्वा परतः शास्त्रद्वयमाहुः पराश्रयेणेति । पराश्रयेण मोक्षस्तु द्विधा सोऽपि निरूप्यते । ब्रह्मा ब्राह्मणतां यातस्तद्रूपेण सुसेव्यते ॥ १० ॥ परशब्देन विष्णुशिवावुच्येते । तयोराश्रयेण तद्भजनेन मोक्षो द्विधा तत्तच्छास्त्रभेदात् द्विप्रकारको भवति । सोऽप्यत्र निरूप्यते कथ्यत इत्यर्थः । तुशब्दः स्वाश्रयपक्षव्यावर्त्तकः । स्वाश्रयापेक्षया पराश्रयस्याऽऽधिक्यं भक्तिमार्गे भविष्यतीति तदभावायाऽपिशब्देनाऽनादरः सूचितः । ननु ब्रह्मणा किमपराद्धम् । गुणावतार- त्वेन त्रयाणामविशेषात्ततोऽपि कथं न मुक्तिरित्यत आहुर्ब्रह्मेति । ब्रह्मा ब्राह्मणतां यातः प्राप्त इत्यर्थः । यथा ब्राह्मणो निरन्तरं स्ववर्णाश्रमादिविहितं कर्म कुर्वन् स्वार्थमेव सम्पादयति, न तद्विरुद्धमन्यार्थमपि । तथा ब्रह्माऽपि भगवदाज्ञप्तं सृष्टिलक्षणं कर्म करोति । स चेत्पुरुषार्थान्प्रयच्छेत्सर्वमुक्तिरेव स्यात् । तथा सति सृष्टिरुच्छि- द्येत । अतः समर्थोऽपि न ददातीति भावः । किञ्च । तद्रूपेण सृष्टिकर्त्तृरूपेण सुसे- व्यते । परं प्रजाकामैरेव न त्वन्यैरिति विशेषः । “प्रजाकामः प्रजापतीनि”ति वाक्यात् ॥ १० ॥ अत आहुस्ते सर्वार्था न चाऽऽद्येनेति । ते सर्वार्था न चाऽऽद्येन शास्त्रं किञ्चिदुदीरितम् । अतः शिवश्च विष्णुश्च जगतो हितकारकौ ॥ ११ ॥ वस्तुनः स्थितिसंहारौ कार्यौ शास्त्रप्रवर्त्तकौ । ब्रह्मैव तादृशं यस्मात् सर्वात्मकतयोदितौ ॥ १२ ॥ निर्दोषपूर्णगुणता तत्तच्छास्त्रे तयोः कृता । भोगमोक्षफले दातुं शक्तौ द्वावपि यद्यपि ॥ १३ ॥

श्रीदेवकीनन्दनचरणकृतप्रकाशव्याख्योपेतः। ९ भोगः शिवेन मोक्षस्तु विष्णुनेति विनिश्चयः । लोकेऽपि यत्प्रभुर्भुङ्क्ते तनं यच्छति कर्हिचित् ॥ १४ ॥ आद्येन ब्रह्मणा चत्वारोऽपि ते न भवन्तीत्यर्थः । चकारेण क्वचिदर्थकामौ ततो भवतोऽपि, हिरण्यकशिपुप्रभृतीनामिव । परं न तयोः पुरुषार्थता, नाशहेतुत्वा- दिति ज्ञापितम् । मोक्षस्तु नैवेति विवेकः । ननु ब्रह्मप्रतिपादितवैखानसमतानुसारेण विष्णुभजनान्मोक्षश्चेत्कथं नैवेत्युच्यत इत्यत आहुः शास्त्रं किञ्चिदुदीरितमिति । न हि शास्त्रप्रवर्त्तकत्वेन मोक्षस्ततो वक्तुं शक्यः । तथा सत्यतिप्रसङ्गः स्यात् । एवमाद्यस्य पुरुषार्थदत्वं निषिध्येतरयोस्तत्प्रदत्वमाहुरत इति । यतो हेतोराद्यस्याऽतत्प्रदत्वमतो हेतोः शिवश्च विष्णुश्च जगतः सृष्टेः हितकारकौ पुरुषार्थप्रदावित्यर्थः । यद्यप्य- नयोरपि स्वस्वकार्यपरता, तथाऽपि विष्णोः पालनं कार्यमतः “अधिकं तत्राऽनुप्रविष्टं न तु तद्धानिरि”ति न्यायेन मोक्षदाने न काऽपि क्षतिः । शिवस्य तु कार्यं संहारः । तदविरोधात्त्रिवर्गदाने न काऽपि क्षतिः । मोक्षदाने तु नोपसंहारः कर्तुं शक्य इति कार्यविरोधात्क्षतिः । अतस्तदग्रे निराकरिष्यन्ति ‘भोगः शिवेने’त्यादिना ॥ ११ ॥ तयोर्विशेषकार्यमप्याहुर्वस्तुन इति । वस्तुमात्रस्य स्थितिः संहारश्चोभौ तयोः कार्यौ कर्त्तव्यौ भवत इत्यर्थः । ‘वस्तुस्थितौ च संहारे कार्ये’ इति क्वचित्पाठः । तदा वस्तुस्थितिलक्षणे संहारलक्षणे च कार्ये तौ नियामकाविति योजनीयम् । किञ्च । स्वस्वगुणाधिकारकशास्त्रप्रवर्त्तकौ च । ननु तच्छास्त्रेषु तयोः सर्वात्मकत्वकथनात्कथ- मेकैककार्यकर्त्तृत्वमिति चेत्तत्राऽऽहुर्ब्रह्मैवेति । यस्माद्धेतोर्ब्रह्मैव तादृशं तत्तत्कार्यार्थं तत्तद्रूपेण प्रकटं तत्तत्सञ्ज्ञया भिन्नमिव भाति । न तु वस्तुतस्तथा । अतस्तत्र तत्र सर्वात्मकतया कथितावित्यर्थः । उक्तहेतोरेव तत्र तत्र तयोर्निर्दोषपूर्णगुणता च क्लृप्ता प्रतिपादितेत्यर्थः। वस्तुतो निर्दोषपूर्णगुणत्वं सर्वात्मकत्वं च परब्रह्मणः श्रीकृष्ण- स्यैवेति दिक् । तथा चोक्तं प्रथमस्कन्धे, ‘परः पुरुष एक इहाऽस्य धत्ते स्थित्यादये हरिविरिञ्चिहरेति संज्ञा’ इति । दशमेऽपि, ‘त्वन्मायया संवृतचेतसस्त्वां पश्यन्ति नाना न विपश्चितो ये’ इति । अत एवोभयोः स्वस्वगुणानुगुणं फलदातृत्वमाहु- र्भोगमोक्षफले इति । यद्यपि भगवद्गुणावतारत्वेन द्वावपि शिवविष्णू भोगमोक्षफले दातुं शक्तौ समर्थौ, तथापि तद्गुणविचारेण शिवेन भोगः सिद्धयति विष्णुना मोक्ष इति निश्चयो युक्त इत्यर्थः। तत्राऽपि न तयोः कर्तृत्वं, किन्तु करणतैवेति तृती- यया बोध्यते । कर्तृत्वं सर्वत्र भगवत एवेति स्वसिद्धान्तः । उक्तं च मुचुकुन्दं प्रति १ उच्यते तत आहुरिति क. २ निर्दोषपूर्णगुणवत्त्वमिति क. ३ परब्रह्मत्वमिति ग. २

१० बालवोधः ।

देवैः, 'एक एवेश्वरस्तस्ये'ति । 'श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युर्'इत्यत्र श्रेयांसीति बहुवचनात्सात्त्विकान्येव तान्युच्यन्ते । मोक्षस्य बहुत्वानुपपत्तेः । तथा च यत्र विष्णोः सकाशान्मोक्ष उच्यते तत्र विष्णुपदं पुरुषोत्तमपरं क्वचिज्ज्ञेयम् । यदि तच्छास्त्ररीत्या गुणावतारपरं तदुच्यते तदा मोक्षपदार्थस्तत्रैव लयो वाच्यः, 'देवान् देवयजो यान्ती'ति भगवद्वाक्यात् । तथा निबन्धेऽपि 'आदिमूर्त्तिः कृष्ण एव सेव्यः सायुज्यकाम्यया । निर्गुणा मुक्तिरस्माद्धि सगुणा साऽन्यसेवये'ति । नन्वू- भयोः समत्वेनाऽविशेषात्कथं नोभाभ्यां मुक्तिरिति चेद्, उच्यते । 'ज्ञानान्मोक्ष' इति सर्वशास्त्रसिद्धम् । तथा च 'सत्त्वात्सञ्जायते ज्ञानमि'ति वाक्यात्तद्गुणाधिष्ठात्रा स सुलभ इत्युच्यते । भोगस्य तत्प्रतिबन्धकत्वाददानमपि । तमसो ज्ञानप्रतिबन्धकत्वात्तद्गुणाधिष्ठात्रा स दुर्लभ इत्युच्यते । भोगस्तन्मूलक एवेति सुलभत्वं युक्तमेव । ननु तत्तच्छास्त्रेषु स सुलभ एवेति चेद्, ओमिति ब्रूमः । “शक्तौ द्वावपी”ति पूर्वमुपपादितं च । न तावताऽस्माकं काऽपि क्षतिः, उभयो- रस्वीकारात् । एवं जीवविचारेण लौकिको मोक्षश्चतुर्द्धा प्रतिपादितः । तस्याऽनीश्वर- विचारितत्वादस्वीकारोऽप्यर्थादुक्तः । यद्यपि भगवदीयानां मोक्षाभिलाषराहित्यादेत- दुक्तं नोपयुज्यते । तथापि “ पाक्षिकोऽपि दोषः परिहरणीय ” इति न्यायेन यदि कस्याऽपि तत्रोपादेयबुद्धिः स्यात्प्रमाणसिद्धत्वात्साऽपि मा भूदित्याशयेन जीवभ्रान्ति- कल्पितास्ते चत्वारोऽपीत्युक्तम् । अत एतद्गृहारस्तन्न प्रपत्स्यन्त इति पर्यवसितो- ऽर्थः । ननु भक्तिमार्गे मोक्षस्याऽनीप्सितत्वेन न तद्दातुर्विष्णोर्भजनापेक्षा । किन्तु विषयाणां भगवत्सेवोपयोगित्वेन तदभावे तद्दातुः शिवस्य तदपेक्षाऽस्त्विति चेत्, तत्राऽऽहुर्लोकेऽपीति । प्रभुः सेवकानां पतिः श्रीकृष्णो यद्भक्तसम्बन्धि वस्तु भुङ्क्ते स्वयमभ्यवहरति, तद्वस्तु कर्हिचित्कदाऽपि शिवो न यच्छति न ददातीत्यर्थः । तथा सति भगवतो भक्तकामनापूरकत्वं “सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसे”ति वाक्याद्भक्तेर्वा कल्पतरुत्वं भज्येत । अतः सर्वथेतरापेक्षा भक्तिमतां नोचितेति भावः । अत एव नैरपेक्ष्यं भक्तेरङ्गमिवि भगवानप्याह । “तस्मान्निराशिषो भक्ति- र्निरपेक्षस्य मे भवेदि”ति । किञ्च, “ यस्त आशिष आशास्ते न स भृत्यः स वै वणिगि”ति । वचनाद्यत्र स्वार्थं भगवदपेक्षाऽपि दोषाय तत्राऽन्यापेक्षायास्तथात्वे किं वाच्यमिति । तस्मात्स्वीयानां सर्वं स्वयमेव हरिः सम्पादयतीति सिद्धान्तर- हस्यम्। “अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चय ” इति वचनाच्च ॥१२॥१३॥१४॥


१ तदुच्येतेति ख. ग. २ अत्र ब्रूम इति क. ३ यत इति क. ४ अनिर्वाच्यादिति ख. ग.

श्रीदेवकीनन्दनचरणकृतप्रकाशव्याख्योपेतः । ११ किञ्च । भगवदीयातिरिक्तस्याऽपि विषयसम्पत्तिर्न तेन सम्पाद्यते । येन भक्तानामपि तथोच्येत । किन्तु कस्यचिदेवेत्याहुरतिप्रियायेति । अतिप्रियाय तदपि दीयते क्वचिदेव हि । नियतार्थप्रदानेन तदीयत्वं तदाश्रयः ॥ १५ ॥ प्रत्येकं साधनञ्चैतद् द्वितीयार्थे महाञ्छ्रमः । तेन यद्दीयते तदतिप्रियाय स्वस्याऽत्यन्तभक्ताय न तु यस्मै कस्मैचिदित्यर्थः । तादृशेनाऽप्यपराधं चेत्कुप्यत्येव न तु क्षमते कदाचिदित्याशयेन तत्रापि नियमो नेत्याहुः, क्वचिदेव, न तु सर्वत्र । हि युक्तोऽयमर्थः । "ये यथा मां प्रपद्यन्ते" इति वाक्यात् । यथा नियतं फलं भक्तेभ्यो भगवान्प्रयच्छति न तथाऽन्यो दातुं शक्नुयात् । अनीश्वरत्वादिति । अत एव “अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम्"ति सार्वकामिकं भगवद्भजन- मेवोक्तम् । ननु शिवस्याऽर्थदातृत्वं नियतमनियतं वा भवतु, ततोऽत्र किमागत- मित्यत आहुः—नियतार्थप्रदानेनेति । नियतं चेदर्थप्रदानं तस्योच्येत तदा भगवदीयानामप्यर्थस्य तदीयत्वं तत्सम्पादितत्वं स्यात् । वहिर्वैलक्षण्याप्रतीतेः । नन्वर्थस्य तथात्वे को दोष इति चेत्तत्राऽऽहुः—तदाश्रय इति । तस्यैवाऽर्थ- दातृत्वनिश्चये भगवदीयानां तदपेक्षायां तस्यैवाऽऽश्रयो भवेदित्यर्थः । न चैतद्युक्तम्, निषेधश्रवणात् । "सर्वधर्मान् परित्यज्य मामेकं शरणं व्रजे"ति । "मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि" इति च । तथा च भगवदीयातिरिक्तस्य मोक्षा- पेक्षायां विष्णुभजनं, भोगापेक्षायां शिवभजनमिति व्यवस्थापितम् ॥ १५ ॥ न तूभयापेक्षायामेकेनाऽपि तत्सिद्ध्यतीत्याहुः प्रत्येकं साधनं चैतदिति । एतद्विष्णुभजनं शिवभजनं च प्रत्येकमेकं मोक्षसाधनमपरं भोगसाधनम् । न त्वेकमुभयसाधनमित्यर्थः । तेनोभयाकाङ्क्षिभिर्भगवान्नेवाऽऽश्रीयतामिति ज्ञापितम् । ननु भक्तिमार्गे "स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिन" इति वाक्यादुभयोरनपे- क्षितत्वेन किं तदाश्रयेणेत्यत आहुर्द्वितीयार्थ इति । एको लौकिको मोक्षश्चतुर्द्धा पूर्वमुक्तो, द्वितीयस्त्वलौकिको भक्तिमार्गीयः। तदर्थं यः श्रमः तन्मार्गीयसाधनाचरण- लक्षणः स महान्, पूर्वोक्तापेक्षया साधनतः फलतः स्वरूपतश्चाऽप्युत्कृष्ट इत्यर्थः । इदमत्राऽऽकूतम् । विष्णोः सात्त्विकत्वात्तत्र लयः सात्विको मोक्षः । यत्र फलस्य सदोषत्वं तत्र साधनं सुतरां तादृशमेव । भक्तिमार्गे तु निर्दोषपूर्णगुणविग्रहः श्रीकृष्णः १ भगवदीयातिरिक्तस्याऽपि जीवमात्रस्येति ख, ग. २ पूर्वोक्तमोक्षसाधनतः इति क.

१२ बालबोधः । फलम् । साधनं च तन्निष्ठं निरुपाधि प्रेम । तच्च, “मन्निष्ठं निर्गुणं स्मृतमि”ति वाक्यात्तादृशमेव । एतच्च फलदशायामेव भवतीति प्रथमाधिकारे जीवानां सहजदुष्टत्वं तन्निवृत्ति- प्रकारं चाऽऽहुर्जीवाः स्वभावतो दुष्टा इति । जीवाः स्वभावतो दुष्टा दोषाभावाय सर्वदा ॥ १६ ॥ श्रवणादि ततः प्रेम्णा सर्वं कार्यं हि सिद्ध्यति । मोक्षस्तु सुलभो विष्णोर्भोगश्च शिवतस्तथा ॥ १७ ॥ समर्पणेनाऽऽत्मनो हि तदीयत्वं भवेद्ध्रुवम् । स्वभावत एव दुष्टाः । न तु स्वरूपतः । भगवदंशत्वादित्यर्थः । “ममैवांशो जीवलोक” इति भगवद्वचनात् । “अंशो नानाव्यपदेशादि”ति वेदान्तसूत्राच्च । अथवा । ननु लौकिकमोक्षस्य जीवविचारितत्वाद- नङ्गीकरणं युक्तमेव । परं वेदोक्तस्य तस्येश्वरविचारितत्वादङ्गीकार उचित इत्यत आहुर्द्वितीयार्थे इति । द्वितीयो वैदिको मोक्षस्तदर्थं श्रम आयासो महान- धिक इत्यर्थः । तेनाऽतिकष्टसाध्यत्वात्किं तत्कथनेनेति भावः । तेन लौकिकवैदिक- भक्तिमार्गीयेषु क्रमेण शत्रुदासीनमित्रभावा उक्ता भवन्ति । तर्हि किमुद्दिश्य किं कर्त्तव्यमिति चेत्तत्राऽऽहुर्जीवा इति, स्वभावतो दुष्टा इत्यर्थः । (तथा च) जीवानां सहजभगवदंशत्वेन सहजभगवद्दासत्वेन तत्सेवालक्षणस्वधर्माकरणं स्वभावदोष उच्यते । अतस्तेषां दोषाऽभावाय श्रवणादि भगवच्छ्रवणकीर्त्तनादि सर्वदा निरन्तरं कर्त्तव्यत्वेन साधनमिति शेषः । ततः कः पुरुषार्थ इत्यत आहुस्तत इति । ततो दोषनिवृत्त्यनन्तरं श्रवणादितो वा भगवति प्रेम्णि जाते तेनैव तेषां सर्वमैहिकं पार- लौकिकं च कार्यं सिद्ध्यति । न किञ्चिदवशिष्यत इत्यर्थः । ननु पारलौकिकत्वेन मोक्षो वक्तव्यः । “कीर्त्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेदि”ति वचनात् । एवं सति कथं मोक्षस्याऽनपेक्षितत्वमात चेत् । एवम् । कीर्त्तनादेवेत्येवकारो मोक्षे कीर्त्तनातिरिक्तसाधनव्यवच्छेदको, न तु कीर्त्तनस्य मोक्षैकफलत्वसूचकः । तथा सति प्रेमरहितस्य मोक्षसाधनत्वेन कृतस्य तस्य स एव फलम् । प्रेमसहितस्याऽतथा कृतस्य न तत्फलमिति व्यवस्था । अन्यथा भगवानपि कथमेवं वदेत्, “सालोक्य- साष्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानां न गृह्णन्ति विना मत्सेवनं जना” इति । तेन भगवानपि तादृशेभ्यो भजनातिरिक्तं फलं न ददातीति सूचितम् । तथा च १ प्रियभावा इति क. २ पदमिति ख, ग.

२. पुष्टिम्रवाहप्रवाहभेदः, सिद्धान्तरहस्यम्, नवरत्नम् एवं अन्त:करणप्रबोधः

श्रीदेवकीनन्दनचरणकृतप्रकाशाख्याव्याख्योपेतः । १३ सर्वात्मभावेन तदीयत्वमेव भक्तिमार्गे मोक्षपदार्थः। तदेवेतरं¹लौकिकवैशिष्ट्यात्पार- लौकिकमित्युच्यते । अतो नाऽनुपपन्नं किञ्चित् । श्रीभागवते च, "भगवदीयत्वेनैव परिसमाप्तसर्वार्था' इति । पद्मपुराणेऽपि, 'न कर्मबन्धनं जन्म वैष्णवानां च विद्यते । विष्णोरनुचरत्वं हि मोक्षमाहुर्मनीषिण' इति । ननु तदीयत्वं भगवदनु- ग्रहैकसाध्यम् । “यमेवैष वृणुते तेन लभ्य" इति श्रुतेः । अतः कथं स्वकृतिसा- ध्यश्रवणादिना तत्सिद्ध्यतीत्यत आहुर्मोक्ष इति । यथोक्तरीत्या विष्णोः सकाशा- न्मोक्षः शिवतश्च भोगः सुलभस्तथा समर्पणेन स्वात्मप्रभृतिसर्वस्वनिवेदनेना- ऽऽत्मनो जीवस्य तदीयत्वलक्षणो मोक्षो भवेदित्यर्थः । ध्रुवं निश्चितम् । नाऽत्र काचिदसम्भावनेति भावः । हीति युक्तोऽयमर्थः । अतदीयत्व²कारणाभावात् । ननु समर्पणस्य तत्साधनत्वे श्रवणादिकथनस्य वैयर्थ्यमायाति, तस्य चाऽनुग्रहैकलभ्यत्वं न सिद्ध्यतीति चेत् । मैवम् । श्रवणमारभ्य सख्यपर्यन्तमागतस्य समर्पणं भवति । नाऽन्यथा । परस्परं हेतुहेतुमद्भावात् । अतस्तत्साधनत्वेन³ श्रवणादिकथनं साधुतमम् । किञ्च । आत्मनिवेदनं न स्वकृतिसाध्यम्, श्रवणादिजन्यत्वात् । किन्तु भगवदनु- ग्रहैकसाध्यम् । यतः श्रवणादि सर्वं तदनुग्रहरूपमेव । भक्तिहेतुनिर्णये तथा निरूपितत्वात् । अतः सर्वमनवद्यम् । ननु तदीयत्वं मोक्षत्वेन कथं स्तूयते, जन्मा- न्तरे गत्यन्तरसम्भवेन तल्लक्षणाभावादिति चेत् । एवम् । यथा मोक्षे न पुनरावृत्ति- र्भवति तथाऽत्र तदीयत्वे सिद्धे पुनरावृत्तिर्मेर्त्यपुनर्भवत्वं लक्षणमस्तीति न तथाऽव- ध्येयम् । तदुक्तं प्रभुणैव--" ये दारागारपुत्राप्तप्राणान्वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे " इति । हित्वेति समर्पणानन्तरं दारादिषु स्वीयत्वपरित्याग उक्तः, न तु ज्ञानमार्गीयः । तत्र तु वैराग्योत्पत्तौ तेष्वसद्बुद्ध्या तत्परित्यागः स्वार्थमेव, न तु भगवदर्थम् । तथा सति स्वस्य भाराभावात्⁴'कथं त्यक्तु- मुत्सह' इति तन्निर्बन्धं किमिति भगवान्वदेत् । अतो निवेदितात्मनः कदापि न त्यजति प्रभुरिति सिद्धम् । एवं भक्तिमार्गीयो मोक्षः ससाधनः प्रतिपादितः । यद्यपि मोक्षलक्षणे सिद्धेऽपि नाऽस्माकमुत्कर्षः समायातः कोऽपि । तथापि “ अधिकं तत्रा- ऽनुप्रविष्टं न तु तद्धानिरि"ति न्यायेन “ तुष्यतु दुर्जन " इति न्यायेन वा तथो- क्तम् । वस्तुतस्तु मोक्षेऽक्षरामृतपानमव्यक्तम्, अत्र तु तदधिकः परमानन्दानुभवो व्यक्तः, इति महत्तheader/तारतम्यम् ।

१ लोकेति ख ग, २ अतदीयकारणेत्यादि क, ३ तत्साधनत्वेनेति क, ४ नेत्यर्थ इति क,

१४ बालबोधः । ननु निवेदनमकृत्वाऽपि केचित्तदाश्रितास्तेषां का गतिरिति चेत्तत्राऽऽहु- रतदीयतेति । अतदीयतया चाऽपि केवलश्चेत्समाश्रितः ॥ १८ ॥ तदीयत्वव्यतिरेकेणाऽपि केवलः समाश्रितश्चेत्तदा केवलाश्रयेनाऽपि गति- र्भवत्येव । “मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिमि”ति वचनात् । न तावता तदीयत्वलक्षणो मोक्षः सिद्धयति, समर्पणाभात् । न वा गतिप्राप्तौ तदाश्रयस्तिष्ठति, तस्योभयनिष्ठधर्मत्वात् । साधनत्वेन स्वीकाराच्च । अतो नाऽयं फलरूपभक्तिमार्गः, किन्तु साधनरूप एव । “न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजःप्रपन्नाः” । स्वर्गापवर्गनरके- ष्वि”त्यादिवचनविरोधात् ॥ १८ ॥ ननु जीवानां स्वतो ज्ञानाभावात्तदाश्रयतदीयत्वे कथं सिद्ध्येतामित्याशङ्कया- ऽऽहुस्तदाश्रयेति । तदाश्रयतदीयत्वबुद्धयै किञ्चित्सदाऽऽचरेत् । स्वधर्ममनुतिष्ठन् वै भारङ्गैगुण्यमन्यथा । इत्येवं कथितं सर्वं नैतज्ज्ञाने भ्रमः पुनः ॥ १९ ॥ इति श्रीमद्वैश्वानरावतार श्रीवल्लभाचार्यचरणविरचितो बालबोधः सम्पूर्णः । तदाश्रयतदीयत्वयोर्बुद्धयै ज्ञानाय किञ्चिदाचार्योपसत्तिरूपं साधनं सदा निरन्तरमाचरेदित्यर्थः । तत एव तत्सिद्धेर्नाऽन्यथेति तस्याऽवश्यककर्त्तव्यत्व- माहुः स्वधर्ममिति । “स्वधर्ममनुतिष्ठन्वै लोकः क्षेमाय कल्पत” इति वचना- त्स्वधर्माचरणे कृते फलं तत्तन्मार्गीयं भवति, न तु तदकरण इति सिद्धम् । भक्तिमार्गे च मुख्यः स्वधर्मस्तदुपसत्तिरेवेति सैव कर्त्तव्येति भावः । “आचार्यवान् पुरुषो वेदे”ति श्रुतेः । श्रीभागवतेऽपि “आचार्य मां विजानीयान्नाऽवमन्येत कर्हिचित् । न मर्त्यबुद्धयाऽसूयेतं सर्वदेवमयो गुरुः” । अन्यच्च, “यस्य साक्षाद्भग- वति ज्ञानदीपप्रदे गुरौ । भक्तिर्न स्याच्छ्रुतं तस्य मन्ये कुञ्जरशौचवत्” । पुराणा- न्तरेऽपि, “हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । तस्मात्सर्वप्रयत्नेन गुरुमेव प्रसा- दयेत्” । अतस्तामन्तरेण कृतस्यापि साधनान्तरस्य वैफल्यमाहुर्भारङ्गैगुण्यमिति । १ आश्रम कृच्छ्रेणेति तस्योभयनिष्ठधर्मत्वादिति शोधितो ग पुस्तके पाठः । २ सेवेतेति ख, ग.

श्रीदेवकीनन्दनचरणकृतप्रकाशव्याख्योपेतः । १५ अन्यथा तदकरणे भारद्वैगुण्यं द्विगुणो भारो भवेदित्यर्थः । फलाभावात्साधनकृतः तदकरणप्रत्यवायकृतश्चेति भारद्वयम् । उक्तमुपसंहरन्तीतीति । इतीति समाप्तौ । एवमुक्तप्रकारेण यावद्वक्तव्यं तावत्सर्वं कथितमित्यर्थः । ननु ततः किमत आहु- नैतज्ज्ञान इति । एतज्ज्ञाने जाते सति पूर्वस्थितो भ्रमो गच्छति । गतः पुनः परावृत्य न भवतीत्यर्थः ॥ १९१/२ ॥ चतुर्द्धा लौकिको मोक्षः सदोषत्वान्निरकृतः । अतस्त्वलौकिको मोक्षः स्वीकार्यो भगवत्परैः ॥ १ ॥ अन्ततोऽर्थोऽयमेवास्य ग्रन्थस्य फलितोऽभवत् । एवमाचार्यकृपया बालबोधः प्रकाशितः ॥ २ ॥ विविधमतनिरूढभ्रान्तिगूढस्वमार्ग- प्रचलितजनतायाः सुस्थिरत्वाय यत्न । स्वमतमवददङ्घिर्बालबोधे तदर्थं कुरुत मतिमवश्यं सप्रकाशे तदीयाः ॥ ३ ॥ १ इतः परम्— ‘ श्रीमल्लक्ष्मणसूनुना विरचितः पुष्ट्यर्थमोक्षप्रदो भक्तानाशुभयोस्तु तन्मतिमतां सर्वस्वमस्मिन् कलौ । श्रीमद्विठ्ठलदीक्षिताङ्गिकमलोन्मत्तस्रकालिना श्रीमद्देवकि(?)नन्दनेन विवृतः श्रीबालबोधो मया ॥’ इति पद्यमधिकमुपलभामहे ख. इति श्रीदेवकीनन्दनचरणकृतौ बालबोधप्रकाशः समाप्तः । २ इतः परम्— तारापण्डितानां द्वे पद्ये “ निजोद्धरणहेतवे कपटमानुषीमाश्रित- स्तनुं सुरनरार्चितां विदितविठ्ठलेशान्वये । असूत्त रघुनाथतो यमिह जानकी नन्दनं स एष जगदीश्वरो जयति देवकीनन्दनः ॥ तस्याऽऽज्ञया तत्कृतबालबोध- प्रकाशसंज्ञो महनीयकीर्तेः । ताराभिधेनाऽयमलेखि रम्यो ग्रन्थो भवग्रन्थिविनाशिसेव्यः ॥” इति पद्यद्वितयमधिकमुपलभामहे ख.

श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतः बालबोधः । श्रीपुरुषोत्तमचरणविवृतिसमेतः । जयन्ति श्रीमदाचार्यवाचोऽर्थामृतवर्षिण्यः । पुमर्थादिगतभ्रान्तितापो याभिर्निवारितः ॥ १ ॥ नन्विहाऽनादौ संसारे केचन लोकायतिकास्त्यागभोजने प्रशंसन्ति । अन्ये पुनः स्वार्थमैश्वर्यादिकमेव बहु मन्यन्ते, वदन्ति च, "नमोऽस्तु राज्यवृक्षाय षाड्गुण्यगुरु- शाखिने । सामादिचारुपुष्पाय त्रिवर्गफलदायिने" इति । अपरे कीर्त्यर्थमेव यतन्ते, वदन्ति च, "यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते । तावद्वर्षसहस्राणि पुण्यलोके महीयते" इति । केचन पुनः कामानेव साधयन्ति, वदन्ति च, "शरीरस्थितिहेतु- त्वाहाहारसधर्माणो हि कामाः फलभूताश्च धर्मार्थयोस्सन्ति"। तथेतरे स्मार्त्ताद्याचा- रम्, वदन्ति च, "धर्मादर्थश्च कामश्च स किमर्थं न सेव्यत" इति । "आचारप्रभवो धर्म" इति । "शौचाचारविहीनानां समस्ता निःफलाः क्रियाः" इति । अन्ये तु धर्म एव प्रवर्त्तन्ते, वदन्ति च, "मोक्षार्थी न प्रवर्त्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमि- त्तिके कुर्यात्प्रत्यवायजिहासये"ति । केचन तपसि, "तपसा देवा देवतामग्र आयन्नि"- त्यादिश्रुतेः । तथाऽन्ये साङ्ख्ययोगविदः संन्याससत्यशमदमादिषु, "न्यास इत्याहु- र्मनीषिण" इति, "सत्येन वायुरावाती"ति, "शमेन शान्ताः शिवमाचरन्ती"ति, "दमे- न दान्ताः किल्बिषमवधुन्वन्ती"ति श्रुतेश्च । इतरे शिवमुपासते । अन्ये च विष्णुम् । ततस्ततश्च सफलां सिद्धिं मोक्षं चाऽऽहुः । प्रभुभिश्च भक्तिमार्ग उपदिष्ट इति किमस- ङ्ख्याताः पुमर्था, उत नियताः । यदि नियतास्तर्हि किं तुल्या उत गुणप्रधानभूताः । यदि गुणप्रधानभूतास्तर्हि गुणभूतानां साधनानां फलं प्रति समुच्चयो विकल्पो वा । व्यवस्थिर्तिवा । फलं च किमेकमुताऽनेकम् । इति सन्दिहानानां स्वानां सन्देहजनकं तत्र तत्रोपादेयताभ्रमं वारयितुं मङ्गलवाक्य एव मुख्यं फलं साधनव्यवस्थां च सूच-

श्रीपुरुषोत्तमचरणविवृतिसमेतः । १७ यन्तस्तदितरस्य हेयत्वावबोधनार्थं पुमर्थप्रतिपादकसर्वशास्त्रसिद्धान्तसङ्ग्रहनिरूपणं प्रतिजानते नत्वेत्यादि । नत्वा हरिं सदानन्दं सर्वसिद्धान्तसङ्ग्रहम् । बालप्रबोधनार्थाय वदामि सुनिश्चितम् ॥ १ ॥ अत्र हरिं सदानन्दमिति पदद्वयेन दुःखाभावार्थं भजतां फलान्तरार्थं च भजतां "फलमत उपपत्तेरि"ति न्यायसिद्धं फलदातृत्वं स्वतः पुरुषार्थत्वेन भजतां च "यो वै भूमा तत्सुखम्" "कृषिर्भूवाचकः शब्दः" " ब्रह्मविदाप्नोति पर"मित्यादि- श्रुतिभिः "जगद्व्यापारवर्जमि"त्यादिन्यायैश्च सिद्धं, परमानन्दरूपफलात्मकत्वं च बोधितम् । नत्वैत्यनेन दैन्यपूर्वकभजनस्योपलक्षणविधया साधनत्वं बोधितम् । तावता "मय्यर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः । मयाऽऽत्मना सुखं यत्तत्कुतस्तद्विष- यात्मनाम्" "भगवान् ब्रह्म कात्स्न्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत्कूटस्थो रतिरात्मन्यतो भवेदि"त्यादिनिर्णीता मुख्यफलसाधनव्यवस्था च सूचिता। एवं मङ्गलं विधाय विषयमाहुः सर्वसिद्धान्तसङ्ग्रहमिति । सर्वेषां पुमर्थप्रतिपादकानामुपादेयानां हेयानां च शास्त्राणां यः सिद्धान्तः फलसाधननिष्कर्षस्तेषां सम्यक् ग्रहो ज्ञानं येन तादृशं ग्रन्थम् । सङ्ग्रहं समासं वा । व्यासेन कथने ग्रन्थबाहुल्याद्वृथाकालक्षेपबुद्धि- क्षोभयोः सम्भवादिति द्वारकेश्वराः । यद्यपि तत्तच्छास्त्रैरपि तत्तन्मतज्ञानं भवति, तथापि, तत् भ्रान्तिसंवलितमेव तद्वक्तॄणां प्रतारकत्वात्तेषां तथात्वं च तथैवेश्वरशिक्ष- येति देवकीनन्दनाः। यद्यपि मन्वादीनां कपिलादीनां च न प्रतारकत्वं तथापि "धर्मः प्रोज्झितकैतवोऽत्र परम"इति वाक्याज्जघन्याधिकारकतन्निरूपणादिना मुख्याधिका- रिणः प्रति फलतस्तथात्वमिति तेषामाशयः । प्रयोजनमाहुर्बालप्रबोधनार्थायेति । बालाः स्वतो हिताहितानभिज्ञतया शुद्धभावेन च दयापात्राणि । तेषां प्रकर्षेण बोधन- मितरफलसाधनविषयकोपादेयताभ्रमनिरासेन यथाधिकारं भक्तौ प्रपत्तौ वा प्रवेश- मसमर्थबोधोत्पादनम् । तेन योऽर्थस्तदुद्धारस्तदर्थमित्यर्थः । प्रकारमाहुः सुनिश्चित- ममिति । सुष्ठु वेदादिप्रमाविशेषत ऐकाग्र्येण निश्चितं निर्द्धारितम् । तेन तत्तत्सिद्धा- न्तमात्रं नोच्यते, किन्तु तत्सङ्ग्रह्य तेषामुत्कृष्टमपकृष्टं वा यद्यस्य स्वरूपं वेदाद्यविरो- धेन सिद्धयति तदत्र बोध्यत इति प्रकारो दर्शितः ॥ १ ॥ एवं प्रकारं फलसम्बन्धं च बोधयित्वा प्रथमतः पुरुषार्थविषयकं सन्देहमपा- कर्तुं तन्निश्चयं सङ्ग्रहेणाऽऽहुर्धर्मेत्यादि । १ सम्यगिति क. २ कुतस्तु इति ख. ३ मुक्तेति क. ३