स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
१२ स्वप्नवासवदत्ते वासवदत्ता — (क) अय्ये ! कस्स । धात्री — (ख) वच्छराअस्स उदअणस्स । वासवदत्ता — (ग) अह कुसळी सो राआ । धात्री -- (घ) कुसळी सो आअदो । *तस्स भट्टिदारिआ पडिच्छिदा अ । वासवदत्ता -- (ङ) अच्चाहिदं १ । धात्री — (च) किं एत्थ अच्चाहिदं । वासवदत्ता — (छ) ण हु किञ्चि । तह णाम सन्त- प्पिअ उदासीणो होदि त्ति । धात्री — (ज) अय्ये ! आअमप्पहाणाणि सुळहपय्यवत्थो- २ णाणि महापुरुसहिअआणि होन्ति । (क) आर्ये ! कस्मै । (ख) वत्सराजायोदयनाय । (ग) अथ कुशली स राजा । (घ) कुशली स आगतः । तस्य भर्तृदारिका प्रतीष्टा च । (ङ) अत्याहितम् । (च) किमत्रात्याहितम् । (छ) न खलु किञ्चित् । तथा नाम सन्तप्त्योदासीनो भवतीति । (ज) आर्ये ! आगमप्रधानानि सुलभपर्यवस्थानानि महापुरुषहृदयानि भवन्ति । १. 'दं खु एदम् ' ख. पाठः. २. 'त्थावणा' ख. पाठः.
- तेनेत्यर्थः ।
द्वितीयोऽङ्कः । २३ वासवदत्ता — (क) अय्ये! सअं एव्व तेण वरिदा । धात्री — (ख) णहि णहि । अण्णप्पओअणेण इह आअ- दस्स अभिजणविण्णाणवओरूवं पेक्खिअ सअं एव्व महा- राएण दिण्णा । वासवदत्ता — (आत्मगतम्) (ग) एव्वं । अणवरद्धो दाणिं एत्थ अय्यउत्तो । (प्रविश्यापरा) चेटी — (घ) तुवरदु तुवरदु दाव अय्या । अज्ज एव्व किळ सोभणं णक्खत्तं । अज्ज एव्व कोदुअमङ्गळं कादव्वं त्ति अम्हाणं भट्टिणी भणादि । वासवदत्ता — (ङ) (आत्मगतम्) जह जह तुवरदि, तह तह अन्धीक(दा?र)इ मे हिअअं । धात्री — (च) एदु एदु भट्टिदारिआ । (निष्क्रान्ताः सर्वे) द्वितीयोऽङ्कः । (क) आर्ये ! स्वयमेव तेन वृता । (ख) नहि नहि । अन्यप्रयोजनेनेहागतस्याभिजनविज्ञानवयोरूपं दृष्ट्वा स्वयमेव महाराजेन दत्ता । (ग) एवम् । अनपराद्ध इदानीमत्रार्यपुत्रः । (घ) त्वरतां त्वरतां तावदार्या । अद्यैव किल शोभनं नक्षत्रम् । अद्यैव कौतुक- मङ्गलं कर्तव्यमिति अस्माकं भट्टिनी भणति । (ङ) यथा यथा त्वरते, तथा तथान्धीक्रियते मे हृदयम् । (च) एत्वेतु भर्तृदारिका । १. 'राघो दाणिं अय्य' क. पाठः, २. 'भट्टिदारिआ । अ' ख. पाठः, ३. 'अन्धआरेण पिहिदं विअ मे' ख. पाठः,
पञ्चम अङ्क: समुद्रगृह में स्वप्न-दर्शन व वासवदत्ता मिलन
अथ तृतीयोऽङ्कः । (ततः प्रविशति¹ विचिन्तयन्ती वासवदत्ता) वासवदत्ता — (क) विवाहामोदसङ्कुले अन्तेउरचउस्साळे परित्तजिअ पदुमावदिं इह आगदह्मि पमदवणं । जाव दाणिं भागधेयोणि(वु?व्वु)त्तं दुःखं विनोदेमि । (परिक्रम्य) अहो अच्चा- हिदं । अय्यउत्तो वि णाम परकेरओ संवृत्तो । जाव उववि- सामि । (उपविश्य) धण्णा खु चक्कवाअवधू, जा अण्णोण्णविरहिदा ण जीवइ । ण खु अहं पाणाणि परित्तजामि । अय्यउत्तं पेक्खामि त्ति एदिणा मणोरहेण जीवामि मन्दभाआ । (ततः प्रविशति पुष्पाणि गृहीत्वा चेटी) चेटी — (ख) कहिंणुखु गदा अय्या आवन्तिआ। (परिक्रम्याव- लोक्य) ³अम्मो इअं चिन्तासुण्णहिअआ णीहारपडिहदचन्दलेहा विअ अमण्डिदभद्दअं वेसं धारअन्दी पिअङ्गुसिलावट्टए उव- (क) विवाहामोदसङ्कुले अन्तःपुरचतुःशाले परित्यज्य पद्मावतीमिहागतास्मि प्रमदवनम् । यावदिदानीं भागधेयनिर्वृत्तं दुःखं विनोदयामि । अहो अत्याहितम् । आर्य- पुत्रोऽपि नाम परकीयः संवृत्तः । यावद् उपविशामि । धन्या खलु चक्रवाकवधूः, यान्यो- न्यविरहिता न जीवति । न खल्वहं प्राणान् परित्यजामि । आर्यपुत्रं पश्यामीति एतेन मनो- रथेन जीवामि मन्दभागा । (ख) क्वनुखलु गता आर्यावन्तिका । अम्मो इयं चिन्ताशून्यहृदया नीहारप्रति- हतचन्द्रलेखेवामण्डितभद्रकं वेषं धारयन्ती प्रियङ्गुशिलापट्टके उपविष्टा । यावदुप- १. 'ति वा' क. पाठः. २. 'णित्तं (?) ख. पाठः. ३. 'अह्मो इ' ख. पाठः.
तृतीयोऽङ्कः । २५ विट्ठा । जाव उवसप्पामि । (उपसृत्य) अय्ये आवन्तिए ! को काळो, तुमं अण्णेसामि । वासवदत्ता — (क) किण्णिमित्तं । चेटी — (ख) अह्माअं भट्टिणी² भणादि — महाकुळप्पसूदा सिणिद्धा णिउणा त्ति। इमं दाव कोदुअमाळिअं गुह्णदु³ अय्या । वासवदत्ता⁴ — (ग) अह कस्स किळ गुम्फिदव्वं । चेटी — (घ) अह्माअं भद्दिदारिआए । वासवदत्ता — (ङ) (आत्मगतम्) एदं वि मए कत्तव्वं आसी । अहो अकरुणा खु इस्सरा । चेटी — (च) अय्ये ! मा दाणिं अण्णं⁵ चिन्तिअ । एसो जामादुओ मणिभूमीए ल्हाअदि । सिग्घं दाव गुह्मदु अय्या । सर्पामि । आर्ये आवन्तिके ! कः कालः, त्वामन्विष्यामि । (क) किंनिमित्तम् । (ख) अस्माकं भट्टिनी भणति—महाकुलप्रसूता स्निग्धा निपुणेति । इमां तावत् कौतुकमालिकां गुम्फत्वार्या । (ग) अथ कस्मै किल गुम्फितव्यम् । (घ) अस्माकं भर्तृदारिकायै । (ङ) एतदपि मया कर्तव्यमासीत् । अहो अकरुणाः खल्वीश्वराः । (च) आर्ये ! मेदानीमन्यच्चिन्तयित्वा । एष जामाता मणिभूम्यां स्नायति । शीघ्रं तावद् गुम्फत्वार्या । १. ‘त्ता—(आत्मगतम्) किं’ क. पाठः. २. ‘णीदारिआ भ’ क. पाठः. ३. ‘गुंहदु किळ भ’ ख. पाठः. ४. ‘त्ता-कं’ ख. पाठः. ५. ‘अणुचि’ ख. पाठः.
वासवदत्ता— (आत्मगतम्) (क) ण सक्कुणोमि अण्णं चिन्तेदुं। (प्रकाशम्) हळा ! किं दिट्ठो जामादुओ । चेटी—(ख) आम दिट्ठो भट्टिदारिआए सिणेहेण अम्हाअं कोदूहलेण अ । वासवदत्ता— (ग) कीदिसो जामादुओ । चेटी —(घ) अय्ये ! भणामि दाव, ण ईरिसों दिट्ठपुरुवो । वासवदत्ता— (ङ) हळा ! भणाहि भणाहि, किं दंसणीओ । चेटी— (च) सअं खु भअवं सरचावहीणो कामदेवो त्ति । वासवदत्ता— (छ) होदु एत्तअं । चेटी — (ज) किण्णिमित्तं वारेसि । वासवदत्ता— (झ) अजुत्तं परपुरुससङ्कित्तणं सोदुं । चेटी — (ञ) तेण हि गुह्यर्दु अय्या सिग्धं ।
(क) न शक्नोम्यन्यच्चिन्तयितुम् । हला ! किं दृष्टो जामाता । (ख) आं दृष्टो भर्तृदारिकायाः स्नेहेनास्माकं कौतूहलेन च । (ग) कीदृशो जामाता । (घ) आर्ये ! भणामि तावद्, नेदृशो दृष्टपूर्वः । (ङ) हला ! भण भण, किं दर्शनीयः । (च) स्वयं खलु भगवान्शरचापहीनः कामदेव इति । (छ) भवत्वेतावत् । (ज) किंनिमित्तं वारयसि । (झ) अयुक्तं परपुरुषसङ्कीर्तनं श्रोतुम् । (ञ) तेन हि गुम्फत्वार्या शीघ्रम् ।
१. 'दि' क. पाठः. २. 'कामो त्ति' क. पाठः. ३. 'दु दार्णि ए' ख. पाठः. ४. 'दुसि' ख. पाठः.
तृतीयोऽङ्कः । २७ वासवदत्ता — (क) आणेहि । (आत्मगतम्) इमं गुह्मामि मन्दभाआ । (वर्जयित्वा* विलोक्य) इमं दाव ओसहं किं णाम । चेटी — (ख) अविहवाकरणं णाम । वासवदत्ता—(ग) (आत्मगतम्) इदं बहुसो गुह्निदव्वं मम अ पदुमावदीए अ । (प्रकाशम्) इमं दाव ओसहं किं णाम । चेटी — (घ) सवत्तिमद्दणं णाम । वासवदत्ता —(ङ) इदं ण गुह्निदव्वं । चेटी — (च) कीस । वासवदत्ता— (छ) उबरदा तस्स भय्या, तं णिप्पओ- अणं त्ति । (प्रविश्यापरा) चेटी — (ज) तुवरदुं२ तुवरदु अय्या । एसो जामादुओ अवि- हवाहि अब्भन्तरचउस्साळं पवेसीअदि । (क) आनय । इयं गुम्फामि मन्दभागा । इदं तावदौषधं किं नाम । (ख) अविधवाकरणं नाम । (ग) इदं बहुशो गुम्फितव्यं मम च पद्मावत्याश्च । इदं तावदौषधं किं नाम । (घ) सपत्नीमर्दनं नाम । (ङ) इदं न गुम्फितव्यम् । (च) कस्मात् । (छ) उपरता तस्य भार्या, तन्निष्प्रयोजनमिति । (ज) त्वरतां त्वरतामार्या । एष जामाता अविधवाभिरभ्यन्तरचतुश्शालं प्रवेश्यते । १. ‘आव’(?) ख. पाठः. २. ‘दु दाव·अय्या। जा’ क. पाठः.
- अपुष्पं किमपि गुम्फनप्रसङ्गे हस्तप्राप्तं परिहृत्येत्यर्थः ।
२८ स्वप्नवासवदत्ते वासवदत्ता-— (क) अइ ! वदामि, गह्ल एदं । चेटी — (ख) हेळा ! वासो ओणअव्वे‡ । गच्छामि दाव अहं । (उभे निष्क्रान्ते) वासवदत्ता²—(ग) गदा एसा । अहो अच्छाहिदं । अय्यउत्तो वि णाम परकेरओ संवृत्तौ³ । अविदा* सय्याए मम दुक्खं विणोदेमि, जदि णिद्दं ळभामि । (निष्क्रान्ता) तृतीयोऽङ्कः । ────── (क) अयि ! वदामि, गृहाणैतत् । (ख) हला! वास आनेतव्यम् । गच्छामि तावदहम् । (ग) गतैषा । अहो अत्याहितम् । आर्यपुत्रोऽपिनाम परकीयः संवृत्तः । अविदा शय्यायां मम दुःखं विनोदयामि, यदि निद्रां लभे । १. 'दृळा ग' क. पाठः. २. 'त्ता - अ' क. पाठः. ३. 'त्तो । (नि' क. पाठः. ‡ 'आणेअव्वे' इति स्यात्। * 'अविदा' इति निर्वेदे ।
अथ चतुर्थोऽङ्कः । (ततः प्रविशति विदूषकः) विदूषकः— (सहर्षम्) (क) दिट्ठिआ तत्तहोदो वच्छराअस्स अभिप्पेदविवाहमङ्गलारमणिज्जो काळो दिट्ठो । को णाम एदं जाणादि— तादिसे वयं अणत्थसळिळावत्ते पक्खित्ता उण उम्मज्जिस्सामो त्ति । इदाणीं पासादेसु वसीअदि, अन्तेउर- दिग्घिआसु ह्नाईअदि, पळममउरसुउमाराणि मोदअखज्जआणि खज्जीअन्ति त्ति अणच्छरसंवासो उत्तरकुरुवासो मए अणुभ- वीअदि । एक्को खु महन्तो दोसो, मम आहारो सुट्ठु ण परिणमदि । सुप्पच्छदणाए सय्याए णिद्दं ण ळभामि, जह वादसोणिदं अभिदो विअ वत्तदि त्ति पेक्खामि । भो ‡सुहं णामयपरिभूदं अकळ्ळवत्तं च । (क) दिष्ट्या तत्रभवतो वत्सराजस्याभिप्रेतविवाहमङ्गलारमणीयः कालो दृष्टः । को नामैतज्जानाति—तादृशे वयमनर्थसलिलावर्ते प्रक्षिप्ताः पुनरुन्मङ्क्ष्याम इति। इदानीं प्रासादेषु उष्यते, अन्तःपुरदीर्घिकासु स्नायते, परममधुरसुकुमाराणि मोदकखाद्यानि खाद्यन्त इति अनप्सरस्संवास उत्तरकुरुवासो मयानुभूयते । एकः खलु महान् दोषः, ममाहारः सुष्ठु न परिणमति, सुप्रच्छदनायां शय्यायां निद्रां न लभे, यथा वातशोणितमभित इव वर्तत इति प्रेक्षे। भोः सुखं नामयपरिभूतमकल्यवर्तं च । १. 'हृण्णा अविभू (?) ख. पाठः. ‡ आमयपरिभूतं कल्यवर्तशून्यं च सुखं न भवतीत्यर्थः ।
३० \t\t\t\tस्वप्नवासवदत्ते \t\t\t(ततः प्रविशति चेटी) \tचेटी - (क) कहिंणुखु गदो अय्यवसन्तओ । (परिक्रम्यै) अह्मो एसो वसन्तओ। (उपगम्य) अय्य! वसन्तअ ! को काळो, तुमं अण्णेसामि । \tविदूषकः - (दृष्ट्वा) (ख) किंणिमित्तं भद्दे ! मं अण्णेसॅसि । \tचेटी - (ग) अह्माणं भट्टिणी भणादि - अवि व्हादो जामा- दुओ त्ति । \tविदूषकः - (घ) किंणिमित्तं भोदि! पुच्छदि* । \tचेटी - (ङ) किमैण्णं । सुमणावण्णअं आणेमि त्ति । \tविदूषकः - (च) व्हादो तत्तभवं । सव्वं आणेदु भोदी वज्जिअ भोअणं । \tचेटी - (छ) किंणिमित्त
चतुर्थोऽङ्कः । ५१ विदूषकः — (क) अधण्णस्स मम कोइलाणं अक्खिपरिवट्टो विअ कुक्खिपरिवट्टो संवुत्तो। चेटी — (ख) ईदिसा एव्व होहि। विदूषकः — (ग) गच्छदु भोदी। जाव अहं वि तत्तहोदो सआसं गच्छामि। (निष्क्रान्तौ) प्रवेशकः। (ततः प्रविशति सपरिवारा पद्मावती १ आवन्तिकावेषरूपधारिणी वासवदत्ता च) चेटी — (घ) किंनिमित्तं भट्टिदारिआ पमदवणं आअदा। पद्मावती — (ङ) हल्ळा ! ताणि दाव सेहालिआगुह्मआणि २ पेक्खामि कुसुमिदाणि वा ण वेत्ति। चेटी — (च) भट्टिदारिए ! ताणि कुसुमिदाणि णाम, पवाळ न्तरिदेहिं विअ मोत्तिआलम्बएहिं आइदाणि कुसुमेहिं। पद्मावती — (छ) हल्ळा ! जदि एव्वं, किं दाणिं विळम्बेसि। (क) अधन्यस्य मम कोकिलानाम् अक्षिपरिवर्त इव कुक्षिपरिवर्तः संवृत्तः। (ख) ईदृश एव भव। (ग) गच्छतु भवती। यावदहमपि तत्रभवतः सकाशं गच्छामि। (घ) किंनिमित्तं भर्तृदारिका प्रमदवनमागता। (ङ) हला ! ते तावद् शेफालिकागुल्मकाः प्रेक्षे कुसुमिता वा नवेति। (च) भर्तृदारिके ! ते कुसुमिता नाम, प्रवालान्तरितैरिव मौक्तिकालम्बकैराचिताः कुसुमैः। (छ) हला ! यद्येवं, किमिदानीं विलम्बसे। १. ती वा क. पाठः. २. 'णि से' ख. पाठः ३. 'वा' क. पाठः
१२ स्वप्नवासवदत्ते *चेटी — (क) तेण हि इमस्सिं सिलावट्टए मुहुत्तअं उपविसदु भट्ठिदारिआ। जाव अहं वि कुसुमावचअं करेमि। पद्मावती — (ख) अय्ये ! किं एत्थ उपविसामो । वासवदत्ता — (ग) एव्वं होदु । (उभे उपविशतः) चेटी^१ — (तथा कृत्वा) (घ) पेक्खदु पेक्खदु भट्ठिदारिआ। अद्धा^२ मणसिलावट्टएहिं विअ सेहालिआकुसुमेहि पूरि^३अं मे अञ्जलिं^४। पद्मावती — (ङ) अहो विइत्तदा कुसुमाणं । पेक्खदु पेक्खदु अय्या । वासवदत्ता^५ — (च) अहो दस्सणीअदा कुसुमाणं । चेटी — (छ) भट्ठिदारिए^७! किं भूयो अवइणुस्सम्^६। पद्मावती — (ज) हळा ! मा मा भूयो^८ अवइणि^९अ । (क) तेन ह्यस्मिन् शिलापट्टके मुहूर्तकमुपविशतु भर्तृदारिका । यावदहमपि कुसु- मावचयं करोमि । (ख) आर्ये ! किमत्रोपविशावः । (ग) एवं भवतु । (घ) पश्यतु पश्यतु भर्तृदारिका । अद्धा मनश्शिलापट्टकैरिव शेफालिकाकुसुमैः पूरितो मेऽञ्जलिः । (ङ) अहो विचित्रता कुसुमानाम् । पश्यतु पश्यत्वार्या । (च) अहो दर्शनीयता कुसुमानाम् । (छ) भर्तृदारिके! किं भूयोऽवचेष्यामि । (ज) हला ! मा मा भूयोऽवचित्य । १. 'टी-पे' क. पाठः. २. 'अ(?)मण' ख. पाठः. ३. 'दा' ख. पाठः. ४. 'झळी' ख. पाठः. ५. 'त्ता- अव्वो(?) । चे' ख. पाठः ६. 'वि अ विउणिस्सं' ख. पाठः. ७. 'रु' ख.पाठः. ८. 'वि' ख. पाठः. ९. 'णु' ख. पाठः.
- 'चेटी' इत्यादि 'उपविशतः' इत्यन्तं ख, पुस्तके नास्ति।
चतुर्थोऽङ्कः। ३३ वासवदत्ता — (क) हळा! किणिमित्तं वारेसि । पद्मावती — (ख) अय्यउत्तो* इह आअच्छिअ इमं कुसुम- समिद्धिं पेक्खिअ सम्माणिदा भवेअं । वासवदत्ता — (ग) हळा! पिओ दे भत्ता । पद्मावती — (घ) अय्ये ! ण आणामि, अय्यउत्तेण विर- हिदा उक्कण्ठिदौ होमि । वासवदत्ता—(आत्मगतम्) (ङ) दुक्करं खु अहं करेमि । इअं वि णाम एव्वं मन्तेदि । चेटी — (च) अभिजॉदं खु भट्टिदारिआए मन्तिदं—पिओ मे भत्तत्ति । पद्मावती — (छ) एक्को खु मे सन्देहो । वासवदत्ता — (ज) किं किं । (क) हला! किन्निमित्तं वारयसि । (ख) आर्यपुत्र इहागत्येमां कुसुमसमृद्धिं दृष्ट्वा सम्मानिता भवेयम् । (ग) हला! प्रियस्ते भर्ता । (घ) आर्ये ! न जानामि, आर्यपुत्रेण विरहितोत्कण्ठिता भवामि । (ङ) दुष्करं खल्वहं करोमि । इयमपि नामैवं मन्त्रयते । (च) अभिजातं खलु भर्तृदारिकया मन्त्रितं । प्रियो मे भर्तेति । (छ) एकः खलु मे सन्देहः । (ज) किं किम् । १. 'हं' ख. पाठः. २. 'अ' ख. पाठः. ३. 'दा विअ हो' ख. पाठः. ४. 'जादं' ख. पाठः. ५. 'आ मं' ख. पाठः.
- 'अय्यउत्तेण' इति पाठो लेखकप्रमादाद् भ्रष्टो भवेत्।
३४ स्वप्नवासवदत्ते पद्मावती — (क) जह मम अय्यउत्तो, तह एव्व अय्याए वासवदत्ताए त्ति । वासवदत्ता — (ख) अदो वि अधिअं । पद्मावती — (ग) कहं तुवं जाणासि । वासवदत्ता — (आत्मगतम्) (घ) हं १, अय्यउत्तुपक्खवादेण अदिक्कन्दो समुदाआरो २ । एव्वं दाव भणिस्सं । (प्रकाशम्) जइ अप्पो सिणेहो, सा सँजणं ३ ण परित्तजदि ४ । पद्मावती — (ङ) होदव्वं । चेटी — (च) भट्टिदारिए ! साहु भट्तारं भणाहि—अहं पि वीणं सिक्खिस्सामि त्ति । पद्मावती — (छ) उत्तो मए अय्यउत्तो । वासवदत्ता — (ज) तदो किं भणिदं । (क) यथा ममार्यपुत्रस्तथैवार्याया वासवदत्ताया इति । (ख) अतोऽप्यधिकम् । (ग) कथं त्वं जानासि । (घ) हम्, आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः । एवं तावद् भणिष्यामि । यद्यल्पः स्नेहः, सा स्वजनं न परित्यजति । (ङ) भवितव्यम् । (च) भर्तृदारिके ! साधु भर्तारं भण—अहमपि वीणां शिक्षिष्य इति । (छ) उक्तो मयार्यपुत्रः । (ज) ततः किं भणितम् । १. ‘हा’ ख. पाठः. २. ‘रो । भोदु । ए’ ख. पाठः. ३. ‘स्सत्तणं’ ख. पाठः. ४. ‘इ’ ख. पाठः. ५. ‘त्तो’ क. पाठः.
चतुर्थोऽङ्कः। ३५ पद्मावती — (क) अभणिअ किञ्चि दिग्घं णिस्सासिअ तुह्णीओ संवृत्तो। वासवदत्ता — (ख) तदो तुवं किं३ विअ तक्केसि। पद्मावती — (ग) तक्केमि अय्याए वासवदत्ताए गुणाणि सुमरिअ दक्खिणदाए मम अग्गदो ण रोदिदित्ति। वासवदत्ता — (आत्मगतम्) (घ) धण्णा खु ह्मि, जदि एव्वं सच्चं भवे। (ततः प्रविशति राजा विदूषकश्च) विदूषकः — (ङ) ही ही। पँचिअपडिअबन्धुजीवकु- सुमविरळे५वादरमणिज्जं पमदवणं। इंदो६ दाव भवं। राजा — वयस्य वसन्तक ! अयमर्थ्यमागच्छामि। कामेनोज्जयिनीं गते मयि तदा कामप्यवस्थां गते दृष्ट्वा स्वैरमवन्तिराजतनयां पञ्चेषवः पातिताः। तैरद्यापि सशल्यमेव हृदयं भूयश्च विद्धा वयं पञ्चेषुर्मदनो यदा कथमयं षष्ठः शरः पातितः ॥ १ ॥ (क) अभणित्वा किञ्चिद् दीर्घं निःश्वस्य तूष्णीकः संवृत्तः। (ख) ततस्त्वं किमिव तर्कयसि। (ग) तर्कयाम्यर्याया वासवदत्ताया गुणान् स्मृत्वा दक्षिणतया ममाग्रतो न रोदितीति। (घ) धन्या खल्वस्मि, यद्येवं सत्यं भवेत्। (ङ) ही ही प्रचितपतितबन्धुजीवकुसुमविरलपातरमणीयं प्रमदवनम्। इतस्तावद् भवान्। १. 'ती--किं' ख. पाठः. २. 'ह्नि' ख. पाठः. ३. 'किंतित' ख. पाठः. ४. 'णवविवांहधिअब' ख.पाठः. ५. 'ळसंपातर' ख. पाठः. ६. 'दो इदो दा' ख. पाठः. ७. 'हृ' ख. पाठः.
३६ स्वप्नवासवदत्ते विदूषकः — (क) कहिंणुखु गदा तत्तहोदी पदुमावदी, ळदामण्डवं गदा भवे, उदाहो असणकुसुममञ्चिदं वग्घचम्मा- वगुण्ठिदं विअ पव्वदतिलअणामसिलापट्टअं गदा भवे, आहु अधिअकडुँअगन्धसत्तच्छदवणं पविट्ठा भवे, अहव, आळिहिद- मिअपक्खिसङ्कुळं दारुपव्वदेअं गदा भवे । (ऊर्ध्वमवलोक्य) ही ही सरअकाळणिम्मळे अन्तरिक्खे पसा(अ?इ)अबळदेवबाहुदंसणीअं३ सारसपन्ति जाव समाहिदं गच्छन्तिं पेक्खदु दाव भवं । राजा — वयस्य ! पश्याम्येनाम्, ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्तनेषु । निर्मुच्यमानभुजगोदरनिर्मलस्य सीमामिवाम्बरतलस्य विभज्यमानाम् ॥ २ ॥ चेटी — (ख) पेक्खदु पेक्खदु भट्टिदारिआ एदं कोकणद- माळापण्डररमणीअं सारसपन्ति जाव समाहिदं गच्छन्तिं । अम्मो भट्टा । (क) कुत्रनुखलु गता तत्रभवती पद्मावती, लतामण्डपं गता भवेद्, उताहो असन- कुसुमसञ्चितं व्याघ्रचर्मावगुण्ठितमिव पर्वततिलकनामशिलापट्टकं गता भवेद्, अथवा अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेद्, अथवालेखितमृगपक्षिसङ्कुलं दारु- पर्वतकं गता भवेद् । ही ही शरत्कालनिर्मलेऽन्तरिक्षे प्रसारितबलदेवबाहुदर्शनीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीं प्रेक्षतां तावद् भवान् । (ख) प्रेक्षतां प्रेक्षतां भर्तृदारिका एतां कोकनदमालापाण्डुररमणीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीम् । अम्मो भर्ता । १. 'इ' ख पाठः. २. 'दग' ख. पाठः. ३. 'आ सारसव(ती?त्ती) जाव समाहिदाग- च्छदि' ख पाठः. ४. 'णिञ्जसारसपन्ती जाव समाहिदा गच्छदि' ख. पाठः.
चतुर्थोऽङ्कः । ३७ पद्मावती — (क) हेळा ! अय्यउत्तो । अय्ये ! तव कार- णादो अय्यउत्तदंसणं परिहरामि । ता इमं दाव माहवीमण्डवं पविसामो । वासवदत्ता — (ख) एवं होदु । (तथा कुर्वन्ति) विदूषकः — (ग) तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे । राजा — कथं भवान् जानाति । विदूषकः — (घ) इमाणि अवइदॆकुसुमाणि सेफाळिआगु- च्छआणि पेक्खदु दाव भवं । राजा — अहो विचित्रता कुसुमस्य वसन्तक ! । वासवदत्ता — (आत्मगतम्) (ङ) वसन्तअसङ्कित्तणेण अहं पुण जाणामि उज्जइणीए वत्तामि त्ति । राजा — वसन्तक ! अस्मिन्नेवासीनौ शिलातले पद्मावर्ती प्रतीक्षिष्यावहे । विदूषकः — (च) भो ! तह । (उपविश्योत्थाय) सैरअकाळति- क्खो दुस्सहो आदवो । ता इमं दाव माहवीमण्डवं पविसामो । (क) हला ! आर्यपुत्रः । आर्ये ! तव कारणादार्यपुत्रदर्शनं परिहरामि । तदिमं तावन्माधवीमण्डपं प्रविशामः । (ख) एवं भवतु । (ग) तत्रभवती पद्मावतीहागत्य निर्गता भवेत् । (घ) इमानपचितकुसुमान् शेफालिकागुच्छकान् प्रेक्षतां तावद् भवान् । (ङ) वसन्तकसङ्कीर्तनेनाहं पुनर्जानामि उज्जयिन्यां वर्ते इति । (च) भोस्तथा । शरत्कालतीक्ष्णो दुःसह आतपः । तदिमं तावन्माधवीमण्डपं प्रविशावः । १. 'हा अ' ख. पाठः. २. 'दाणि सेफाळिआकुसुमाणि पे' ख. पाठः, ३. 'ही ही स' ख. पाठः.
३८ स्वप्नवासवदत्ते राजा — बाढम् । गच्छाग्रतः । विदूषकः — (क) एव्वं होदु । (उभौ परिक्रामतः) पद्मावती — (ख) सव्वं आउळं कत्तुकामो अय्यवसन्त- ओ । किं दाणिं करेह्म । चेटी — (ग) भट्टिदारिए ! एदं महुअरपरिणीलीणं ओळंबळदं ओधूय भट्ठारं वारइस्सं । पद्मावती — (घ) एव्वं करेहि । (चेटी तथा करोति) विदूषकः — (ङ) अविह अविह, चिट्ठदु चिट्ठदु दाव भवं । राजा — १किमर्थम् । विदूषकः — (च) दासीएपुत्तेहि महुअरेहि पीडिदो ह्नि । राजा — मा मा भवानेवम् । मधुकरसन्त्रासः२ परिहार्यः । पश्य, मधुमदकला मधुकरा मदनातार्ताभिः प्रियाभिरुपगूढाः । पादन्यासविषण्णा वयमिव कान्तावियुक्ताः स्युः ॥ ३ ॥ तस्मादिहैवासिष्यावहे । (क) एवं भवतु । (ख) सर्वमाकुलं कर्तुकाम आर्यवसन्तकः । किमिदानीं कुर्मः । (ग) भर्तृदारिके ! एतां मधुकरपरिनीलिनामवलम्बलतामवधूय भर्तारं वारयि- ष्यामि । (घ) एवं कुरु । (ङ) अविह अविह, तिष्ठतु तिष्ठतु तावद् भवान् । (च) दास्याःपुत्रैर्मधुकरैः पीडितोऽस्मि । १. 'अथकिम्' ख. पाठः. २. 'सं' ख. पाठः.
चतुर्थोऽङ्कः। ३९ विदूषकः - (क) एव्वं होदु । (उभावुपविशतः) पद्मावती - (ख) दिट्ठिआ उवविट्ठो अय्यउत्तो । वासवदत्ता - (आत्मगतम्) (ग) दिट्ठिआ पकिदित्थसरीरो अय्यउत्तो । चेटी - (घ) भट्टिदारिए ! रुद्धा खु ह्म वयं । भट्टिदारिए ! सस्सुपादा खु अय्याए दिट्ठी । वासवदत्ता - (ङ) एसा खु महुअराणं अविणआदो कासकुसुमरेणुणा पडिदेण सोदआ मे दिट्ठी । पद्मावती - (च) जुज्जइ । विदूषकः - (छ) भो ! सुण्णं खु इदं पमदवणं । पुच्छि- दव्वं किञ्चि अत्थि । पुच्छामि भवन्तं । राजा - छन्दतः । (क) एवं भवतु । (ख) दिष्ट्योपविष्ट आर्यपुत्रः । (ग) दिष्ट्या प्रकृतिस्थशरीर आर्यपुत्रः । (घ) भर्तृदारिके ! रुद्धा खलु स्मो वयम् । भर्तृदारिके ! साश्रुपाता खल्वार्याया दृष्टिः । (ङ) एषा खलु मधुकराणामविनयात् काशकुसुमरेणुना पतितेन सोदका मे दृष्टिः । (च) युज्यते । (छ) भोः ! शून्यं खल्विदं प्रमदवनम् । प्रष्टव्यं किञ्चिदस्ति । पृच्छामि भवन्तम् ।
४० स्वप्नवासवदत्ते विदूषकः — (क) का भवदो पिआ, तदाणिं तत्तहोदी वासवदत्ता इदाणिं पडुमावदी वा । राजा — किमिदानीं भवान् महति बहुमानसङ्कटे मां न्यस्यति । पद्मावती — (ख) हळा ! जादिसे सङ्कडे निक्खित्तो अय्यउत्तो । वासवदत्ता — (आत्मगतम्) (ग) अहं अ मन्दभाआ । विदूषकः — (घ) सेरं सेरं भणादु भवं । एक्का उबरदा, अवरा असण्णिहिदा । राजा — न खलु¹ ब्रूयाम् । भवांस्तु मुखरः । पद्मावती — (ङ) एत्तएण भणिदं अय्यउत्तेण । विदूषकः — (च) भो ! सव्वेण सवामि, कस्स वि ण आचक्खिस्सं । एसा सन्दट्ठा मे जीहा । राजा — नोत्सहे सखे ! वक्तुम् । पद्मावती — (छ) अहो इमस्स पुरोभाइदा । एत्तिएण हिअअं² ण जाणादि । (क) का भवतः प्रिया, तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा । (ख) हला ! यादृशे सङ्कटे निक्षिप्त आर्यपुत्रः । (ग) अहं च मन्दभागा । (घ) स्वैरं स्वैरं भणतु भवान् । एकोपरता, अपरा असन्निहिता । (ङ) एतावता भणितमार्यपुत्रेण । (च) भोः ! सर्वेण शपामि, कस्यापि नाख्यास्यामि । एषा सन्दष्टा मे जिह्वा । (छ) अहो अस्य पुरोभागिता । एतावता हृदयं न जानाति । १. 'छुन खलु ब्रू' ख. पाठः. २. 'अं जा' ख. पाठः.
चतुर्थोऽङ्कः । ४१ विदूषकः — (क) किं ण भणादि १ मम । अणाचक्खिअ इमादो सिळावट्टआदो ण सक्कं एक्कपदं वि गमिदुं । एसो रुद्धो अत्तभवं । राजा — किं बलात्कारेण । विदूषकः — (ख) आम, बळकारेण । राजा — तेन हि पश्यामस्तावत् । विदूषकः — (ग) पसीददु पसीददु भवं । वअस्सभावेण साविदो, यदि सच्चं ण भणासि । राजा — का गतिः । श्रूयताम् । पद्मावती बहुमता मम यद्यपि रूपशीलमाधुर्यैः । वासवदत्ताबद्धं न तु तावन्मे मनो हरति ॥ ४ ॥ वासवदत्ता — (आत्मगतम्) (घ) भोदु भोदु । दिण्णं वेदणं इमस्स परिखेदस्स । अहो अण्णादवासं पि एत्थ बहुगुणं सम्पज्जइ । चेटी — (ङ) भट्टिदारिए ! अदक्खिण्णो खु भट्टा । (क) किं न भणति मम । अनाख्यायास्माच्छिलापट्टकान्न शक्यमेकपदमपि गन्तुम् । एष रुद्धोऽत्रभवान् । (ख) आम, बलात्कारेण । (ग) प्रसीदतु प्रसीदतु भवान् । वयस्यभावेन शापितः, यदि सत्यं न भणसि । (घ) भवतु भवतु । दत्तं वेतनमस्य परिखेदस्य । अहो अज्ञातवासोऽप्यत्र बहुगुणः सम्पद्यते । (ङ) भर्तृदारिके ! अदाक्षिण्यः खलु भर्ता । १. ‘सि’ ख. पाठः. २. ‘अदिद’ ख. पाठः.