भारतकोश
संग्रह पर लौटें

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

२८ स्वप्नवासवदत्ते वासवदत्ता-— (क) अइ ! वदामि, गह्ल एदं । चेटी — (ख) हेळा ! वासो ओणअव्वे‡ । गच्छामि दाव अहं । (उभे निष्क्रान्ते) वासवदत्ता²—(ग) गदा एसा । अहो अच्छाहिदं । अय्यउत्तो वि णाम परकेरओ संवृत्तौ³ । अविदा* सय्याए मम दुक्खं विणोदेमि, जदि णिद्दं ळभामि । (निष्क्रान्ता) तृतीयोऽङ्कः । ────── (क) अयि ! वदामि, गृहाणैतत् । (ख) हला! वास आनेतव्यम् । गच्छामि तावदहम् । (ग) गतैषा । अहो अत्याहितम् । आर्यपुत्रोऽपिनाम परकीयः संवृत्तः । अविदा शय्यायां मम दुःखं विनोदयामि, यदि निद्रां लभे । १. 'दृळा ग' क. पाठः. २. 'त्ता - अ' क. पाठः. ३. 'त्तो । (नि' क. पाठः. ‡ 'आणेअव्वे' इति स्यात्। * 'अविदा' इति निर्वेदे ।

अथ चतुर्थोऽङ्कः । (ततः प्रविशति विदूषकः) विदूषकः— (सहर्षम्) (क) दिट्ठिआ तत्तहोदो वच्छराअस्स अभिप्पेदविवाहमङ्गलारमणिज्जो काळो दिट्ठो । को णाम एदं जाणादि— तादिसे वयं अणत्थसळिळावत्ते पक्खित्ता उण उम्मज्जिस्सामो त्ति । इदाणीं पासादेसु वसीअदि, अन्तेउर- दिग्घिआसु ह्नाईअदि, पळममउरसुउमाराणि मोदअखज्जआणि खज्जीअन्ति त्ति अणच्छरसंवासो उत्तरकुरुवासो मए अणुभ- वीअदि । एक्को खु महन्तो दोसो, मम आहारो सुट्ठु ण परिणमदि । सुप्पच्छदणाए सय्याए णिद्दं ण ळभामि, जह वादसोणिदं अभिदो विअ वत्तदि त्ति पेक्खामि । भो ‡सुहं णामयपरिभूदं अकळ्ळवत्तं च । (क) दिष्ट्या तत्रभवतो वत्सराजस्याभिप्रेतविवाहमङ्गलारमणीयः कालो दृष्टः । को नामैतज्जानाति—तादृशे वयमनर्थसलिलावर्ते प्रक्षिप्ताः पुनरुन्मङ्क्ष्याम इति। इदानीं प्रासादेषु उष्यते, अन्तःपुरदीर्घिकासु स्नायते, परममधुरसुकुमाराणि मोदकखाद्यानि खाद्यन्त इति अनप्सरस्संवास उत्तरकुरुवासो मयानुभूयते । एकः खलु महान् दोषः, ममाहारः सुष्ठु न परिणमति, सुप्रच्छदनायां शय्यायां निद्रां न लभे, यथा वातशोणितमभित इव वर्तत इति प्रेक्षे। भोः सुखं नामयपरिभूतमकल्यवर्तं च । १. 'हृण्णा अविभू (?) ख. पाठः. ‡ आमयपरिभूतं कल्यवर्तशून्यं च सुखं न भवतीत्यर्थः ।

३० \t\t\t\tस्वप्नवासवदत्ते \t\t\t(ततः प्रविशति चेटी) \tचेटी - (क) कहिंणुखु गदो अय्यवसन्तओ । (परिक्रम्यै) अह्मो एसो वसन्तओ। (उपगम्य) अय्य! वसन्तअ ! को काळो, तुमं अण्णेसामि । \tविदूषकः - (दृष्ट्वा) (ख) किंणिमित्तं भद्दे ! मं अण्णेसॅसि । \tचेटी - (ग) अह्माणं भट्टिणी भणादि - अवि व्हादो जामा- दुओ त्ति । \tविदूषकः - (घ) किंणिमित्तं भोदि! पुच्छदि* । \tचेटी - (ङ) किमैण्णं । सुमणावण्णअं आणेमि त्ति । \tविदूषकः - (च) व्हादो तत्तभवं । सव्वं आणेदु भोदी वज्जिअ भोअणं । \tचेटी - (छ) किंणिमित्त

चतुर्थोऽङ्कः । ५१ विदूषकः — (क) अधण्णस्स मम कोइलाणं अक्खिपरिवट्टो विअ कुक्खिपरिवट्टो संवुत्तो। चेटी — (ख) ईदिसा एव्व होहि। विदूषकः — (ग) गच्छदु भोदी। जाव अहं वि तत्तहोदो सआसं गच्छामि। (निष्क्रान्तौ) प्रवेशकः। (ततः प्रविशति सपरिवारा पद्मावती १ आवन्तिकावेषरूपधारिणी वासवदत्ता च) चेटी — (घ) किंनिमित्तं भट्टिदारिआ पमदवणं आअदा। पद्मावती — (ङ) हल्ळा ! ताणि दाव सेहालिआगुह्मआणि २ पेक्खामि कुसुमिदाणि वा ण वेत्ति। चेटी — (च) भट्टिदारिए ! ताणि कुसुमिदाणि णाम, पवाळ न्तरिदेहिं विअ मोत्तिआलम्बएहिं आइदाणि कुसुमेहिं। पद्मावती — (छ) हल्ळा ! जदि एव्वं, किं दाणिं विळम्बेसि। (क) अधन्यस्य मम कोकिलानाम् अक्षिपरिवर्त इव कुक्षिपरिवर्तः संवृत्तः। (ख) ईदृश एव भव। (ग) गच्छतु भवती। यावदहमपि तत्रभवतः सकाशं गच्छामि। (घ) किंनिमित्तं भर्तृदारिका प्रमदवनमागता। (ङ) हला ! ते तावद् शेफालिकागुल्मकाः प्रेक्षे कुसुमिता वा नवेति। (च) भर्तृदारिके ! ते कुसुमिता नाम, प्रवालान्तरितैरिव मौक्तिकालम्बकैराचिताः कुसुमैः। (छ) हला ! यद्येवं, किमिदानीं विलम्बसे। १. ती वा क. पाठः. २. 'णि से' ख. पाठः ३. 'वा' क. पाठः

१२ स्वप्नवासवदत्ते *चेटी — (क) तेण हि इमस्सिं सिलावट्टए मुहुत्तअं उपविसदु भट्ठिदारिआ। जाव अहं वि कुसुमावचअं करेमि। पद्मावती — (ख) अय्ये ! किं एत्थ उपविसामो । वासवदत्ता — (ग) एव्वं होदु । (उभे उपविशतः) चेटी^१ — (तथा कृत्वा) (घ) पेक्खदु पेक्खदु भट्ठिदारिआ। अद्धा^२ मणसिलावट्टएहिं विअ सेहालिआकुसुमेहि पूरि^३अं मे अञ्जलिं^४। पद्मावती — (ङ) अहो विइत्तदा कुसुमाणं । पेक्खदु पेक्खदु अय्या । वासवदत्ता^५ — (च) अहो दस्सणीअदा कुसुमाणं । चेटी — (छ) भट्ठिदारिए^७! किं भूयो अवइणुस्सम्^६। पद्मावती — (ज) हळा ! मा मा भूयो^८ अवइणि^९अ । (क) तेन ह्यस्मिन् शिलापट्टके मुहूर्तकमुपविशतु भर्तृदारिका । यावदहमपि कुसु- मावचयं करोमि । (ख) आर्ये ! किमत्रोपविशावः । (ग) एवं भवतु । (घ) पश्यतु पश्यतु भर्तृदारिका । अद्धा मनश्शिलापट्टकैरिव शेफालिकाकुसुमैः पूरितो मेऽञ्जलिः । (ङ) अहो विचित्रता कुसुमानाम् । पश्यतु पश्यत्वार्या । (च) अहो दर्शनीयता कुसुमानाम् । (छ) भर्तृदारिके! किं भूयोऽवचेष्यामि । (ज) हला ! मा मा भूयोऽवचित्य । १. 'टी-पे' क. पाठः. २. 'अ(?)मण' ख. पाठः. ३. 'दा' ख. पाठः. ४. 'झळी' ख. पाठः. ५. 'त्ता- अव्वो(?) । चे' ख. पाठः ६. 'वि अ विउणिस्सं' ख. पाठः. ७. 'रु' ख.पाठः. ८. 'वि' ख. पाठः. ९. 'णु' ख. पाठः.

  • 'चेटी' इत्यादि 'उपविशतः' इत्यन्तं ख, पुस्तके नास्ति।

चतुर्थोऽङ्कः। ३३ वासवदत्ता — (क) हळा! किणिमित्तं वारेसि । पद्मावती — (ख) अय्यउत्तो* इह आअच्छिअ इमं कुसुम- समिद्धिं पेक्खिअ सम्माणिदा भवेअं । वासवदत्ता — (ग) हळा! पिओ दे भत्ता । पद्मावती — (घ) अय्ये ! ण आणामि, अय्यउत्तेण विर- हिदा उक्कण्ठिदौ होमि । वासवदत्ता—(आत्मगतम्) (ङ) दुक्करं खु अहं करेमि । इअं वि णाम एव्वं मन्तेदि । चेटी — (च) अभिजॉदं खु भट्टिदारिआए मन्तिदं—पिओ मे भत्तत्ति । पद्मावती — (छ) एक्को खु मे सन्देहो । वासवदत्ता — (ज) किं किं । (क) हला! किन्निमित्तं वारयसि । (ख) आर्यपुत्र इहागत्येमां कुसुमसमृद्धिं दृष्ट्वा सम्मानिता भवेयम् । (ग) हला! प्रियस्ते भर्ता । (घ) आर्ये ! न जानामि, आर्यपुत्रेण विरहितोत्कण्ठिता भवामि । (ङ) दुष्करं खल्वहं करोमि । इयमपि नामैवं मन्त्रयते । (च) अभिजातं खलु भर्तृदारिकया मन्त्रितं । प्रियो मे भर्तेति । (छ) एकः खलु मे सन्देहः । (ज) किं किम् । १. 'हं' ख. पाठः. २. 'अ' ख. पाठः. ३. 'दा विअ हो' ख. पाठः. ४. 'जादं' ख. पाठः. ५. 'आ मं' ख. पाठः.

  • 'अय्यउत्तेण' इति पाठो लेखकप्रमादाद् भ्रष्टो भवेत्।

३४ स्वप्नवासवदत्ते पद्मावती — (क) जह मम अय्यउत्तो, तह एव्व अय्याए वासवदत्ताए त्ति । वासवदत्ता — (ख) अदो वि अधिअं । पद्मावती — (ग) कहं तुवं जाणासि । वासवदत्ता — (आत्मगतम्) (घ) हं १, अय्यउत्तुपक्खवादेण अदिक्कन्दो समुदाआरो २ । एव्वं दाव भणिस्सं । (प्रकाशम्) जइ अप्पो सिणेहो, सा सँजणं ३ ण परित्तजदि ४ । पद्मावती — (ङ) होदव्वं । चेटी — (च) भट्टिदारिए ! साहु भट्तारं भणाहि—अहं पि वीणं सिक्खिस्सामि त्ति । पद्मावती — (छ) उत्तो मए अय्यउत्तो । वासवदत्ता — (ज) तदो किं भणिदं । (क) यथा ममार्यपुत्रस्तथैवार्याया वासवदत्ताया इति । (ख) अतोऽप्यधिकम् । (ग) कथं त्वं जानासि । (घ) हम्, आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः । एवं तावद् भणिष्यामि । यद्यल्पः स्नेहः, सा स्वजनं न परित्यजति । (ङ) भवितव्यम् । (च) भर्तृदारिके ! साधु भर्तारं भण—अहमपि वीणां शिक्षिष्य इति । (छ) उक्तो मयार्यपुत्रः । (ज) ततः किं भणितम् । १. ‘हा’ ख. पाठः. २. ‘रो । भोदु । ए’ ख. पाठः. ३. ‘स्सत्तणं’ ख. पाठः. ४. ‘इ’ ख. पाठः. ५. ‘त्तो’ क. पाठः.

चतुर्थोऽङ्कः। ३५ पद्मावती — (क) अभणिअ किञ्चि दिग्घं णिस्सासिअ तुह्णीओ संवृत्तो। वासवदत्ता — (ख) तदो तुवं किं३ विअ तक्केसि। पद्मावती — (ग) तक्केमि अय्याए वासवदत्ताए गुणाणि सुमरिअ दक्खिणदाए मम अग्गदो ण रोदिदित्ति। वासवदत्ता — (आत्मगतम्) (घ) धण्णा खु ह्मि, जदि एव्वं सच्चं भवे। (ततः प्रविशति राजा विदूषकश्च) विदूषकः — (ङ) ही ही। पँचिअपडिअबन्धुजीवकु- सुमविरळे५वादरमणिज्जं पमदवणं। इंदो६ दाव भवं। राजा — वयस्य वसन्तक ! अयमर्थ्यमागच्छामि। कामेनोज्जयिनीं गते मयि तदा कामप्यवस्थां गते दृष्ट्वा स्वैरमवन्तिराजतनयां पञ्चेषवः पातिताः। तैरद्यापि सशल्यमेव हृदयं भूयश्च विद्धा वयं पञ्चेषुर्मदनो यदा कथमयं षष्ठः शरः पातितः ॥ १ ॥ (क) अभणित्वा किञ्चिद् दीर्घं निःश्वस्य तूष्णीकः संवृत्तः। (ख) ततस्त्वं किमिव तर्कयसि। (ग) तर्कयाम्यर्याया वासवदत्ताया गुणान् स्मृत्वा दक्षिणतया ममाग्रतो न रोदितीति। (घ) धन्या खल्वस्मि, यद्येवं सत्यं भवेत्। (ङ) ही ही प्रचितपतितबन्धुजीवकुसुमविरलपातरमणीयं प्रमदवनम्। इतस्तावद् भवान्। १. 'ती--किं' ख. पाठः. २. 'ह्नि' ख. पाठः. ३. 'किंतित' ख. पाठः. ४. 'णवविवांहधिअब' ख.पाठः. ५. 'ळसंपातर' ख. पाठः. ६. 'दो इदो दा' ख. पाठः. ७. 'हृ' ख. पाठः.

३६ स्वप्नवासवदत्ते विदूषकः — (क) कहिंणुखु गदा तत्तहोदी पदुमावदी, ळदामण्डवं गदा भवे, उदाहो असणकुसुममञ्चिदं वग्घचम्मा- वगुण्ठिदं विअ पव्वदतिलअणामसिलापट्टअं गदा भवे, आहु अधिअकडुँअगन्धसत्तच्छदवणं पविट्ठा भवे, अहव, आळिहिद- मिअपक्खिसङ्कुळं दारुपव्वदेअं गदा भवे । (ऊर्ध्वमवलोक्य) ही ही सरअकाळणिम्मळे अन्तरिक्खे पसा(अ?इ)अबळदेवबाहुदंसणीअं३ सारसपन्ति जाव समाहिदं गच्छन्तिं पेक्खदु दाव भवं । राजा — वयस्य ! पश्याम्येनाम्, ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्तनेषु । निर्मुच्यमानभुजगोदरनिर्मलस्य सीमामिवाम्बरतलस्य विभज्यमानाम् ॥ २ ॥ चेटी — (ख) पेक्खदु पेक्खदु भट्टिदारिआ एदं कोकणद- माळापण्डररमणीअं सारसपन्ति जाव समाहिदं गच्छन्तिं । अम्मो भट्टा । (क) कुत्रनुखलु गता तत्रभवती पद्मावती, लतामण्डपं गता भवेद्, उताहो असन- कुसुमसञ्चितं व्याघ्रचर्मावगुण्ठितमिव पर्वततिलकनामशिलापट्टकं गता भवेद्, अथवा अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेद्, अथवालेखितमृगपक्षिसङ्कुलं दारु- पर्वतकं गता भवेद् । ही ही शरत्कालनिर्मलेऽन्तरिक्षे प्रसारितबलदेवबाहुदर्शनीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीं प्रेक्षतां तावद् भवान् । (ख) प्रेक्षतां प्रेक्षतां भर्तृदारिका एतां कोकनदमालापाण्डुररमणीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीम् । अम्मो भर्ता । १. 'इ' ख पाठः. २. 'दग' ख. पाठः. ३. 'आ सारसव(ती?त्ती) जाव समाहिदाग- च्छदि' ख पाठः. ४. 'णिञ्जसारसपन्ती जाव समाहिदा गच्छदि' ख. पाठः.

चतुर्थोऽङ्कः । ३७ पद्मावती — (क) हेळा ! अय्यउत्तो । अय्ये ! तव कार- णादो अय्यउत्तदंसणं परिहरामि । ता इमं दाव माहवीमण्डवं पविसामो । वासवदत्ता — (ख) एवं होदु । (तथा कुर्वन्ति) विदूषकः — (ग) तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे । राजा — कथं भवान् जानाति । विदूषकः — (घ) इमाणि अवइदॆकुसुमाणि सेफाळिआगु- च्छआणि पेक्खदु दाव भवं । राजा — अहो विचित्रता कुसुमस्य वसन्तक ! । वासवदत्ता — (आत्मगतम्) (ङ) वसन्तअसङ्कित्तणेण अहं पुण जाणामि उज्जइणीए वत्तामि त्ति । राजा — वसन्तक ! अस्मिन्नेवासीनौ शिलातले पद्मावर्ती प्रतीक्षिष्यावहे । विदूषकः — (च) भो ! तह । (उपविश्योत्थाय) सैरअकाळति- क्खो दुस्सहो आदवो । ता इमं दाव माहवीमण्डवं पविसामो । (क) हला ! आर्यपुत्रः । आर्ये ! तव कारणादार्यपुत्रदर्शनं परिहरामि । तदिमं तावन्माधवीमण्डपं प्रविशामः । (ख) एवं भवतु । (ग) तत्रभवती पद्मावतीहागत्य निर्गता भवेत् । (घ) इमानपचितकुसुमान् शेफालिकागुच्छकान् प्रेक्षतां तावद् भवान् । (ङ) वसन्तकसङ्कीर्तनेनाहं पुनर्जानामि उज्जयिन्यां वर्ते इति । (च) भोस्तथा । शरत्कालतीक्ष्णो दुःसह आतपः । तदिमं तावन्माधवीमण्डपं प्रविशावः । १. 'हा अ' ख. पाठः. २. 'दाणि सेफाळिआकुसुमाणि पे' ख. पाठः, ३. 'ही ही स' ख. पाठः.

३८ स्वप्नवासवदत्ते राजा — बाढम् । गच्छाग्रतः । विदूषकः — (क) एव्वं होदु । (उभौ परिक्रामतः) पद्मावती — (ख) सव्वं आउळं कत्तुकामो अय्यवसन्त- ओ । किं दाणिं करेह्म । चेटी — (ग) भट्टिदारिए ! एदं महुअरपरिणीलीणं ओळंबळदं ओधूय भट्ठारं वारइस्सं । पद्मावती — (घ) एव्वं करेहि । (चेटी तथा करोति) विदूषकः — (ङ) अविह अविह, चिट्ठदु चिट्ठदु दाव भवं । राजा — १किमर्थम् । विदूषकः — (च) दासीएपुत्तेहि महुअरेहि पीडिदो ह्नि । राजा — मा मा भवानेवम् । मधुकरसन्त्रासः२ परिहार्यः । पश्य, मधुमदकला मधुकरा मदनातार्ताभिः प्रियाभिरुपगूढाः । पादन्यासविषण्णा वयमिव कान्तावियुक्ताः स्युः ॥ ३ ॥ तस्मादिहैवासिष्यावहे । (क) एवं भवतु । (ख) सर्वमाकुलं कर्तुकाम आर्यवसन्तकः । किमिदानीं कुर्मः । (ग) भर्तृदारिके ! एतां मधुकरपरिनीलिनामवलम्बलतामवधूय भर्तारं वारयि- ष्यामि । (घ) एवं कुरु । (ङ) अविह अविह, तिष्ठतु तिष्ठतु तावद् भवान् । (च) दास्याःपुत्रैर्मधुकरैः पीडितोऽस्मि । १. 'अथकिम्' ख. पाठः. २. 'सं' ख. पाठः.

चतुर्थोऽङ्कः। ३९ विदूषकः - (क) एव्वं होदु । (उभावुपविशतः) पद्मावती - (ख) दिट्ठिआ उवविट्ठो अय्यउत्तो । वासवदत्ता - (आत्मगतम्) (ग) दिट्ठिआ पकिदित्थसरीरो अय्यउत्तो । चेटी - (घ) भट्टिदारिए ! रुद्धा खु ह्म वयं । भट्टिदारिए ! सस्सुपादा खु अय्याए दिट्ठी । वासवदत्ता - (ङ) एसा खु महुअराणं अविणआदो कासकुसुमरेणुणा पडिदेण सोदआ मे दिट्ठी । पद्मावती - (च) जुज्जइ । विदूषकः - (छ) भो ! सुण्णं खु इदं पमदवणं । पुच्छि- दव्वं किञ्चि अत्थि । पुच्छामि भवन्तं । राजा - छन्दतः । (क) एवं भवतु । (ख) दिष्ट्योपविष्ट आर्यपुत्रः । (ग) दिष्ट्या प्रकृतिस्थशरीर आर्यपुत्रः । (घ) भर्तृदारिके ! रुद्धा खलु स्मो वयम् । भर्तृदारिके ! साश्रुपाता खल्वार्याया दृष्टिः । (ङ) एषा खलु मधुकराणामविनयात् काशकुसुमरेणुना पतितेन सोदका मे दृष्टिः । (च) युज्यते । (छ) भोः ! शून्यं खल्विदं प्रमदवनम् । प्रष्टव्यं किञ्चिदस्ति । पृच्छामि भवन्तम् ।

४० स्वप्नवासवदत्ते विदूषकः — (क) का भवदो पिआ, तदाणिं तत्तहोदी वासवदत्ता इदाणिं पडुमावदी वा । राजा — किमिदानीं भवान् महति बहुमानसङ्कटे मां न्यस्यति । पद्मावती — (ख) हळा ! जादिसे सङ्कडे निक्खित्तो अय्यउत्तो । वासवदत्ता — (आत्मगतम्) (ग) अहं अ मन्दभाआ । विदूषकः — (घ) सेरं सेरं भणादु भवं । एक्का उबरदा, अवरा असण्णिहिदा । राजा — न खलु¹ ब्रूयाम् । भवांस्तु मुखरः । पद्मावती — (ङ) एत्तएण भणिदं अय्यउत्तेण । विदूषकः — (च) भो ! सव्वेण सवामि, कस्स वि ण आचक्खिस्सं । एसा सन्दट्ठा मे जीहा । राजा — नोत्सहे सखे ! वक्तुम् । पद्मावती — (छ) अहो इमस्स पुरोभाइदा । एत्तिएण हिअअं² ण जाणादि । (क) का भवतः प्रिया, तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा । (ख) हला ! यादृशे सङ्कटे निक्षिप्त आर्यपुत्रः । (ग) अहं च मन्दभागा । (घ) स्वैरं स्वैरं भणतु भवान् । एकोपरता, अपरा असन्निहिता । (ङ) एतावता भणितमार्यपुत्रेण । (च) भोः ! सर्वेण शपामि, कस्यापि नाख्यास्यामि । एषा सन्दष्टा मे जिह्वा । (छ) अहो अस्य पुरोभागिता । एतावता हृदयं न जानाति । १. 'छुन खलु ब्रू' ख. पाठः. २. 'अं जा' ख. पाठः.

चतुर्थोऽङ्कः । ४१ विदूषकः — (क) किं ण भणादि १ मम । अणाचक्खिअ इमादो सिळावट्टआदो ण सक्कं एक्कपदं वि गमिदुं । एसो रुद्धो अत्तभवं । राजा — किं बलात्कारेण । विदूषकः — (ख) आम, बळकारेण । राजा — तेन हि पश्यामस्तावत् । विदूषकः — (ग) पसीददु पसीददु भवं । वअस्सभावेण साविदो, यदि सच्चं ण भणासि । राजा — का गतिः । श्रूयताम् । पद्मावती बहुमता मम यद्यपि रूपशीलमाधुर्यैः । वासवदत्ताबद्धं न तु तावन्मे मनो हरति ॥ ४ ॥ वासवदत्ता — (आत्मगतम्) (घ) भोदु भोदु । दिण्णं वेदणं इमस्स परिखेदस्स । अहो अण्णादवासं पि एत्थ बहुगुणं सम्पज्जइ । चेटी — (ङ) भट्टिदारिए ! अदक्खिण्णो खु भट्टा । (क) किं न भणति मम । अनाख्यायास्माच्छिलापट्टकान्न शक्यमेकपदमपि गन्तुम् । एष रुद्धोऽत्रभवान् । (ख) आम, बलात्कारेण । (ग) प्रसीदतु प्रसीदतु भवान् । वयस्यभावेन शापितः, यदि सत्यं न भणसि । (घ) भवतु भवतु । दत्तं वेतनमस्य परिखेदस्य । अहो अज्ञातवासोऽप्यत्र बहुगुणः सम्पद्यते । (ङ) भर्तृदारिके ! अदाक्षिण्यः खलु भर्ता । १. ‘सि’ ख. पाठः. २. ‘अदिद’ ख. पाठः.

४२ स्वप्नवासवदत्ते पद्मावती — (क) हळा ! मा मा एव्वं । सदक्खिण्णो एव्व अय्यउत्तो, जो इदाणिं वि अय्याए वासवदत्ताए गुणाणि सुमरदि । वासवदत्ता — (ख) भद्दे ! अभिजणस्स सदिसं मन्तिदं । राजा — उक्तं मया । भवानिदानीं कथयतु । का भवतः प्रिया तदा वासवदत्ता, इदानीं पद्मावती वा । पद्मावती — (ग) अय्यउत्तो^२ पि वसन्तओ संवुत्तो । विदूषकः — (घ) किं मे विप्पळविदेण । उभओ वि तत्त- होदीओ मे बहुमदाओ । राजा^३—त्रैधेय ! मामेवं बलाच्छ्रुत्वा किमिदानीं नाभिभाषसे । विदूषकः — (ङ) किं मं पि बळकारेण । राजा — अथकिम् , बलात्कारेण । विदूषकः — (च) तेण हि ण सक्कं सोढुं । राजा — प्रसीदतु प्रसीदतु महाब्राह्मणः । स्वैरं स्वैरमभि- धीयताम् । (क) हला ! मा मैवम् । सदाक्षिण्य एवार्यपुत्रः, य इदानीमप्यार्याया वासवदत्ताया गुणान् स्मरति । (ख) भद्रे ! अभिजनस्य सदृशं मन्त्रितम् । (ग) आर्यपुत्रोऽपि वसन्तकः संवृत्तः । (घ) किं मे विप्रलपितेन । उभे अपि तत्रभवत्यौ मे बहुमते । (ङ) किं मामपि बलात्कारेण । (च) तेन हि न शक्यं श्रोतुम् । १. 'न्तिदव्वं' ख. पाठः. २. 'तो व' ख. पाठः. ३. 'जा—अ' ख. पाठः.

विदूषकः — (क) इदाणिं सुणादु भवं । तत्तहोदी वासव- दत्ता मे बहुमदा । तत्तहोदी पदुमावदी तरुणी दस्सणीआ अको- वणा अणहङ्कारा महुरवाआ सदक्खिण्णा । अअं च अवरो महन्तो गुणो, सिणिद्धेण भोअणेण मं पच्चुग्गच्छइ—कहिंणु- खु गदो अय्यवसन्तओ त्ति । वासवदत्ता—(ख) भोदु भोदु, वसन्तअ ! सुमरेहि दाणिं एदं । राजा — *भवतु भवतु वसन्तक ! सर्वमेतत् कथयिष्ये देव्यै वासवदत्तायै । विदूषकः — (ग) अविहा वासवदत्ता । कहिं वासवदत्ता । चिरा खु उबरदा वासवदत्ता । राजा — (सविषादम्) एवम् । उपरता वासवदत्ता, अनेन परिहासेन व्याक्षिप्तं मे मनस्त्वया । ततो वाणी तथैवेयं पूर्वाभ्यासेन निस्सृता ॥ ५ ॥ पद्मावती — (घ) रमणीओ खु कहाजोओ । णिसंसेण विसंवादिदं । (क) इदानीं शृणोतु भवान् । तत्रभवती वासवदत्ता मे बहुमता । तत्रभवती पद्मावती तरुणी दर्शनीया अकोपना अनहङ्कारा मधुरवाक् सदाक्षिण्या । अयं चाप- रो महान् गुणः, स्निग्धेन भोजनेन मां प्रत्युद्गच्छति—कुत्रनुखलु गत आर्यवस- न्तक इति । (ख) भवतु भवतु, वसन्तक ! स्मरेदानीमेतत् । प्रेतत् । (ग) अविहा वासवदत्ता । कुत्र वासवदत्ता । चिरात् खलूंपरता वासवदत्ता । (घ) रमणीयः खलु कथायोगः । नृशंसेन विसंवादितम् ।

  • इत आरभ्य 'राजा' इत्यन्तं ख. पुस्तके नास्ति ।

[Header] ४४ : स्वप्नवासवदत्ते

वासवदत्ता — (आत्मगतम्) (क) भोदु भोदु, विस्सत्थह्मि । अहो पिअं णाम ईदिसं वअणं अप्पच्चक्खं सुणीअदि । विदूषकः — (ख) धारेदु धारेदु भवं । अणदिक्कमणीओ हि १ विही । राजा — न जानाति भवानवस्थाम् । कुतः, दुःखं त्यक्तं बद्धमूलोऽनुरागः स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् । यात्रा त्वेषा यद् विमुच्येहं बाष्पं प्राप्तानृण्या याति बुद्धिः प्रसादम् ॥ ६ ॥ विदूषकः — (ग) अस्सुपादकिल्लिण्णं खु तत्तहोदो मुहं । जाव मुहोदअं आणेमि । (निष्क्रान्तः) पद्मावती — (घ) अय्ये ! बप्फ २ पडलन्तरिदं अय्यउत्तस्स मुहं । जाव णिक्कमह्म । वासवदत्ता — (ङ) एव्वं ३ होदु । अहव चिट्ठ तुवं । उक्क- ण्ठिदं भत्तारं उज्ज्रिअ अजुत्तं णिग्गमणं ४ । अहं एव्वं ५ गमिस्सं । (क) भवतु भवतु, विश्वस्तास्मि । अहो प्रियं नामेदृशं वचनमप्रत्यक्षं श्रूयते । (ख) धारयतु धारयतु भवान् । अनतिक्रमणीयो हि विधिः । (ग) अश्रुपातक्लिन्नं खलु तत्रभवतो मुखम् । यावन्मुखोदकमानयामि । (घ) आर्ये ! बाष्पपटलान्तरितमार्यपुत्रस्य मुखम् । यावन्निष्क्रामामः । (ङ) एवं भवतु । अथवा तिष्ठ त्वम् । उत्कण्ठितं भर्तारमुज्झित्वायुक्तं निर्गम- नम् । अहमेव गमिष्यामि । १. 'त' ख. पाठः. २. 'प्फाउलपडन्तदिदं' क. पाठः. ३. 'वं' क.पाठः. ४. 'मं । अ' ख. पाठः. ५. 'वं' क. पाठः.

चतुर्थोऽङ्कः । ४५ चेटी — (क) सुट्ठु अय्या भणादि । उवसप्पदु दाव भट्टि- दारिआ । पद्मावती — (ख) किंणुखु पविशामि । वासवदत्ता — (ग) हळा ! पविसे । (इत्युक्त्वा निष्क्रान्ता) (प्रविश्य) विदूषकः — (नलिनीपत्रेण जलं गृहीत्वा) (घ) ऎसा तत्तहोदी पदुमावदी । पद्मावती — (ङ) अय्य वसन्तअ! किं एदं । विदूषकः — (च) एदं इदं । इदं एदं । पद्मावती — (छ) भणादु भणादु अय्यो भणादु । विदूषकः — (ज) भोदि ! वादणीदेण कासकुसुमरेणुणा अक्खिनिपडिदेणं सस्सुपादं खु तत्तहोदो मुहं । ता गण्हदु होदी इदं मुहोदअं । (क) सुष्ठ्वार्या भणति । उपसर्पतु तावद् भर्तृदारिका । (ख) किन्नुखलु प्रविशामि । (ग) हला ! प्रविश । (घ) एषा तत्रभवती पद्मावती । (ङ) आर्य वसन्तक ! किमेतत् । (च) एतदिदम् । इदमेतत् । (छ) भणतु भणत्वार्यो भणतु । (ज) भवति ! वातनीतेन काशकुसुमरेणुनाक्षिनिपतितेन साश्रुपातं खलु तत्रभव- तो मुखम् । तद् गृह्णातु भवतीदं मुखोदकम् । १. ‘किं प’ ख. पाठः. २. ‘स । (नि’ ख. पाठः. ३. ‘ञ्ज’ ख. पाठः. ४. ‘ऐत’ क. पाठः. ५. ‘कः–भोदि! ए’ ख. पाठः. ६. ‘ण अस्सुपादकिलिण्णं खु’ ख. पाठः. ७. ‘भो’ ख. पाठः.

४६ स्वप्नवासवदत्ते पद्मावती — (क) अहो सदक्खिण्णस्स जणस्स परिजेणो वि सदक्खिण्णो एव्व होदि । (उपेत्य) जेदु अय्यउत्तो । इदं मुहोदअं । राजा — अये पद्मावती । (अपवार्य) वसन्तक ! किमिदम् । विदूषकः —(कर्णे) (ख) एव्वं विअ । राजा — साधु वसन्तक ! साधु । (आचम्य) पद्मावति ! आस्यताम् । पद्मावती — (ग) जं अय्यउत्तो आणवेदि । (उपविशति) राजा — पद्मावति ! शैरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ! । काशपुष्पप्लवेनेदं साश्रुपातं मुखं मम ॥ ७ ॥ (आत्मगतम् ) इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् । कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ॥ ८ ॥ विदूषकः — (घ) इदं* तत्तहोदो मअधराअस्स अवरह्णकाळे


(क) अहो सदाक्षिण्यस्य जनस्य परिजनोऽपि सदाक्षिण्य एव भवति । जयत्वा- र्यपुत्रः । इदं मुखोदकम् । (ख) एवमिव । (ग) यदार्यपुत्र आज्ञापयति । (घ) इदं तत्रभवतो मगधराजस्यापराह्नकाले भवन्तमग्रतः कृत्वा सुहृज्जनद-


१. ‘अ’ ख. पाठः. २. ‘दि । विदूषकः- जेदु भवं । पद्मावती - जेदु अय्यउत्तो । रा’. ख. पाठः. ३. ‘रा(ज)च्छ’ख. पाठः. ४. ‘मधी’ क. पाठः. * इदं सन्निकृष्टमित्यर्थः.

चतुर्थोऽङ्कः । ४७ भवन्तं अग्गदो करिअ सुहिज्जणदंसणं । सक्कारो हि णाम सक्का- रेण पडिच्छिदो पीदिं उप्पादेदि । ता उट्ठेदु दाव भवं । राजा — बाढम् १। प्रथमः कल्पः । (उत्थाय) गुणानां वा विशालानां सत्काराणां च नित्यशः । कर्तारः सुलभा लोके विज्ञातारस्तु २ दुर्लभाः ॥ ९ ॥ (निष्क्रान्ताः सर्वे) चतुर्थोऽङ्कः । र्शनम् । सत्कारो हि नाम सत्कारेण प्रतीष्टः प्रीतिमुत्पादयति । तदुत्तिष्ठतु तावद् भवान् । १. 'म् उ' ख. पाठः. २. 'प्र' ख. पाठः.