भारतकोश
संग्रह पर लौटें

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

PREFACE. Following the Subhâshita of Râjasekara, this Nâtaka has been styled ‘Svapnavâsavadatta.’ It can also be termed Svapnavâsavadattâ (f) or Svapnanâtakam (n). The manuscript of Svapnavâsavadatta obtained from the Manalikkara Matham is designated क, that sent by Pandit Anantâchârya ख, while that of Krishna Tantri ग. The differences in reading between the first two are noted at the foot of the page, while those of the third are separately mentioned at the end of the book. The letters that we have inserted in the place of those that have been lost are enclosed within brackets. Wherever any letter seems inappropriate, it is followed by an interrogation mark, and the appropriate letter is inserted, the whole being enclosed in brackets, and in the absence of an appropriate letter, the inappropriate one followed by a quotation-mark is enclosed in brackets. No manuscript contains the छाया for Prakri- tam and we have supplied it with due care. Foot-notes are added, wherever necessary. The differences in reading in ग Grantha and the words which are lost in क Grantha but are obtained from ख Grantha are noted in the Appendix (at the end of the book). T. GANAPATI SASTRÎ.

The provided image appears to be a blank page (containing only scan artifacts/noise and no legible text).

॥ श्रीः ॥

स्वप्नवासवदत्तादिनाटकचक्रस्योपोद्घातः ।

—————————

एतद्राज्यान्तर्गतस्य पद्मनाभपुरस्योपकण्ठस्थिताद् मणलिकरमठात् प्रपूर्वतरेके हायने संस्कृतग्रन्थान् संगृह्णन् कतिपयनाटकशालिनं कमपि तालपत्र- अपूर्वनाटक- सम्पुटमहमुपलब्धवान् । तत्र पत्राणि १०५, प्रतिपृष्ठं १० चक्रलाभः । पङ्क्तयः, २० ग्रन्थाश्च । लिपिस्तु प्राचीनकैरली । तत्र त्रिश- ताधिकवर्षवृद्धत्वप्रतिभासेऽपि पत्रेषु न जीर्णिकृतोऽक्षरविलोपः, ऋते द्वादशभ्य आदितः पत्रैकदेशेभ्यः । अर्थोदारगम्भीरता गद्यपद्यवाक्यरचनारीतिर्वा तत्रार्षम- हाग्रन्थसाधारणी प्रसिद्धमहाकविग्रन्थापेक्षया रोचनीयतरा च मे प्रतिभाता । ततः परीक्षिते तस्मिन् ग्रन्थसम्पुटे दश रूपकाण्यधोदत्तनामान्यदृश्यन्त —

१ स्वप्ननाटकम् । ६ अविमारकम् । २ प्रतिज्ञानाटिका । ७ बालचरितम् । ३ पञ्चरात्रम् । ८ मध्यमव्यायोगः । ४ चारुदत्तम् । ९ कर्णभारम् । ५ दूतघटोत्कचम् । १० ऊरुभङ्गम् ।

एकादशमपि किञ्चिद् रूपकमुपक्रान्तं तत्रास्ति, यदीयप्रथमपत्रोत्तरपृष्ठस्यार्धपङ्क्ताव- स्थाने लिपिः परिसमापिता । अथापरस्यां यात्रायां कट्टित्तुरुत्तिसमीपवासिनः कैलासपुराभिजनस्य गोविन्दपिषारोटिनाम्नो ज्यौतिषिकस्य सकाशादभिषेक- नाटकं प्रतिमानाटकमिति द्वे नाटके पूर्वोक्तनाटकसजातीये अधिगते । एतदधि- गमानन्तरमेवैनयोरेकैकस्य प्रतिरूपस्य राजकीयग्रन्थशालायामपि सत्तावधारिता । एतेऽपि ग्रन्थसम्पुटास्तालपत्रात्मकाः केरलीयलिपयस्त्रिचतुरशतवर्षवृद्धसम्भाव्याश्च । एवं तावददृष्टचराण्यश्रुतचराणि च द्वादश (अथवा त्रयोदश) रूपकाण्युपल- ब्धानि ।

२ उपोद्घातः आदौ नान्दी प्रयुज्य ‘नान्द्यन्ते सूत्रधार’ इति कथनं नाटकेष्वौत्सर्गिकम्। एषु तु ‘नान्द्यन्ते ततः प्रविशति सूत्रधार’ इत्यादावुपक्रम्य ततो मङ्गलश्लोको लि- नाटकप्रस्थानरीतिः। ख्यत इत्येषा रीतिः ; प्रस्तावनापदस्थाने च स्थापनापदस्य प्रयोगः। शूद्रककालिदासादिप्रणीतेषु सर्वेषु नाटकेषु प्र- स्तावनायां कविकाव्ययोर्नामनिर्देशः केषुचित् स्तुतिश्च प्रस्तावनाङ्गतया वितन्येते; एतेषु पुनर्नाटकेषु कवेः काव्यस्य वा नाममात्रमपि स्थापनायां न कीर्त्यते। ‘अस्मा- कं *राजश्रेष्ठः कृत्स्नां भूमिं प्रशास्तु’ इति वा ‘अस्माकं राजा भूमिं प्रशास्तु’ इति वा काचित् प्रार्थनामुद्रा भरतवाक्ये नियमेन निवेशिता । अन्ते अमुकनाटकमव- सितमिति नाटकनामधेय सर्वत्र लिखितमस्ति । त इमे व्यतिरेका अधस्तादुदाहृ- तेभ्यः स्वप्ननाटकादीनामारम्भ-समाप्तिवाक्येभ्यः स्पष्टमवगन्तुं शक्याः । तत्र यथा स्वप्ननाटकस्य (आरम्भवाक्यम्)— “(नान्द्यन्ते ततः प्रविशति सूत्रधारः ) सूत्रधारः— उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् । पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । ( नेपथ्ये ) उस्सरह उस्सरह अय्य! उस्सरह । सूत्रधारः — भवतु विज्ञातम् । भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः । धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥ (निष्क्रान्तः) स्थापना ।”

  • ‘राजसिंहः प्रशास्तु न’ इत्यत्र राजसिंहपदं राजश्रेष्ठार्थकम्। पल्लवेषु राजसु कश्चिद् राजसिंहसंज्ञो राजा यद्यपि श्रुतः , तथापि तस्य क्रैस्तवर्षारम्भोत्तरकालिकत्वाद् नाटकचक्रकर्तुः क्रैस्तवर्षारम्भप्राक्तनतायाः साधयिष्यमाणत्वाच्च न राजसिंहशब्दस्य तत्परत्वं युक्तमित्यभिप्रायः।

उपोद्घातः ३ (समाप्तिवाक्यम्)— “(भरतवाक्यम् ) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ षष्ठोऽङ्कः । स्वप्ननाटकमवसितम् ॥” यथा प्रतिज्ञानाटिकायाः (आरम्भवाक्यम्)— “ ( नान्द्यन्ते ततः प्रविशति सूत्रधारः ) सूत्रधारः— पातु वासवदत्तायो महासेनोऽतिवीर्यवान् । वत्सराजस्तु नाम्ना सशक्तिर्यौगन्धरायणः ॥ (परिक्रम्य नेपथ्याभिमुखमवलोक्य) आर्ये! इतस्तावत् । (प्रविश्य ) नटी—अय्य! इअह्मि । सूत्रधारः—आर्ये! गीयतां तावत् किञ्चिद्वस्तु । ततस्तव गीतप्रसाधिते रङ्गे वयमपि प्रकरणमारभामहे । आर्ये! किमिदं चिन्त्यते ननु गीयते । नटी—अज्ज! मए सिविणे णादिकुळस्स असत्थं विअ दिट्ठं। ता इच्छा- मि अय्येण कुसळविण्णाणनिमित्तं कञ्चि पुरुसं पेक्खिदुं । सूत्रधारः—बाढम् । पुरुषं प्रेषयिष्यामि व्यक्तमात्माहिते क्षमम् । (नेपथ्ये) साळक! सज्जस्त्वम् ।

द्वितीय व तृतीय अङ्क: कन्दुक क्रीडा व कौतुकमाला प्रसंग

४ उपोद्घातः सूत्रधारः— पुरुषं प्रेषयत्येष यथा यौगन्धरायणः ॥ (निष्क्रान्तौ) स्थापना । ” (समाप्तिवाक्यम्)— “ ( भरतवाक्यम् ) भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ ( निष्क्रान्ताः सर्वे ) चतुर्थोऽङ्कः । प्रतिज्ञानाटिकावसिता ॥” यथा पञ्चरात्रस्य (आरम्भवाक्यम्)— “(नान्द्यन्ते ततः प्रविशति सूत्रधारः ) सूत्रधारः— द्रोणः पृथिव्यर्जुनभीमदूतो यः कर्णधारः शकुनीश्वरस्य । दुर्योधनो भीमयुधिष्ठिरः स पायाद् विराडुत्तरगोऽभिमन्युः ॥ (परिक्रम्य) एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्ये) अहो कुरुराजस्य यज्ञसमृद्धिः । सूत्रधारः—भवतु विज्ञातम् । सर्वैरन्तःपुरैः सार्धं प्रीत्या प्राप्तेषु राजसु । यज्ञो दुर्योधनस्यैष कुरुराजस्य वर्तते ॥ ( निष्क्रान्तः) स्थापना ।”

उपोद्घातः ५ (समाप्तिवाक्यम्)— “द्रोणः — इत्यर्थं वयमानीताः पञ्चरात्रोऽपि वर्तते । धर्मेणावर्जिता भिक्षा धर्मेणैव प्रदीयताम् ॥ दुर्योधनः— बाढं दत्तं मया राज्यं पाण्डवेभ्यो यथापुरम् । मृतेऽपि हि नराः सर्वे सत्ये तिष्ठन्ति तिष्ठति ॥ द्रोणः— हन्त सर्वे प्रसन्नाः स्मः प्रवृद्धकुलसङ्ग्रहाः । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ (निष्क्रान्ताः सर्वे) तृतीयोऽङ्कः । अवसितं पञ्चरात्रम् ॥”

यथा चारुदत्तनाटकस्य (आरम्भवाक्यम्)— “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः —किण्णुखु अज्ज पच्चूस एव्व णिक्खन्तस्स बुभुक्खाए पुक्खरपत्तपडिदजळबिन्दू विअ चञ्चळाअन्ति विअ मे अक्खीणि । (परिक्रम्य) जाव गेहं गच्छिअ जाणामि किण्णुहु संविधा विहिदा ण वेत्ति । एदं अम्हाणं गेहं । जाव पविसामि । (प्रविश्यावलोक्य) जह ळोहीपरिवट्टणकाळसारा भूमी णेउठभामणसुगन्धो विअ गन्धा सुणिमित्तं विअ परिब्भमन्तो वाडव- स्सअजणो । किण्णुखु संविधा विहिदा । आदु बुभुक्खाए ओदणमअं विअ जीवळोअं पेक्खामि । अय्ये ! इदो दाव । नटी — अय्य ! इअह्मि । अय्य ! दिट्ठिआ खु सि आअदो । सूत्रधारः ---- अय्ये ! किं अत्थि अम्हाणं गेहे को वि पादरासो ।

६ उपोद्घातः नटी — अत्थि । सूत्रधारः — चिरं जीव । एवं सोभणाणि दत्तिआ होहि । नटी — अय्य ! तुवं एव्व पडिवाळेन्ती चिट्ठामि । सूत्रधारः — अय्ये ! किं अब्भत्थिदं । नटी — अत्थि । सूत्रधारः — एवं देवा तुमं अस्सासन्तु । अय्ये ! किं किं । नटी — घिदं, गुळं, दहि, तण्डुला अत्थि । सूत्रधारः — एदं सव्वं अह्माणं गेहे अत्थि । नटी — णहि णहि, अन्तळावणे । सूत्रधारः — (सरोषम्) आः अणय्ये ! एवं दे आसा छिन्दीअदु । अभावं च गमिस्ससि । अहं चण्डप्पवादलण्डुओ विअ वरण्डा पच्चादादो दूरं आरो- विअ पाडिदोम्हि । नटी — मा भाआहि मा भाआहि । मुहुत्तं पडिवाळेदु अय्यो । सव्वं सज्जं भविस्सदि । ळद्धं णाम एदं । अज्ज मम उववासस्स अय्यो सहाओ होदु । सूत्रधारः — किण्णामहेओ अय्याए उववासो । नटी — अभिरूववदी णाम । सूत्रधारः — किं अण्णजादीए । नटी — आम । सूत्रधारः — सव्वं दाव चिट्ठदु । कोणु दाणि अय्याए उववासस्स उव- देसिओ । नटी — इमिणा पडिवस्सएण चुण्णगोट्ठेण । सूत्रधारः — साहु चुण्णगोट्ठ ! साहु । नटी — जइ अय्यस्स अणुग्गहो, तदो इच्छेअं अह्मारिसजणजोग्गं कञ्चि बम्हणं णिमन्तेदुं ।

उपोद्घातः ७ सूत्रधारः— धम्मिठ्ठो खु णिओओ। तेण पादरासो वि मे भविस्सदि। जइ एव्वं पविसदु अय्या। अहं वि अम्हारिसजणजोग्गं कञ्चि बह्मणं अण्णेसामि। नटी — जं अय्यो आणवेदि। (निष्क्रान्ता) सूत्रधारः— किण्णुखु दरिद्दबह्मणं लभेअं। (विलोक्य) एसो अय्यचारु- दत्तस्स वअस्सो अय्यमेत्तेओ णाम बह्मणो इदो एव्व आअच्छदि। जाव उवणिमन्तेमि। (परिक्रम्य) अय्य! णिमन्तिदो सि। आमन्तणस्स मा दरिद्दत्ति अवमण्णेहि। सम्पष्णं अहिट्ठव्वं भविस्सदि। घिदं, गुळं, दहिं, तण्डुला अ सव्वं अत्थि। अविअ दक्खिणामासआणि भविस्सन्ति। (नेपथ्ये) अण्णं अण्णं णिमन्तेदु दाव भवं। दरिद्दओ दाव अहं। सूत्रधारः— घिदगुळदहिसुसमिद्धं धूविअसूवोपदेससंभिण्णं। सकारदत्तमिदं भुञ्जीअदु भक्कमय्येण॥ (निष्क्रान्तः) स्थापना। " (समाप्तिवाक्यम्)— “गणिका — एहि इमं अळङ्कारं गह्निअ अय्यचारुदत्तं अहिसरिस्सामो। चेटी — अज्जुए! तह। एदं पुण अभिसारिआसहाअभूदं दुद्दिणं उण्णमिदं। गणिका — हदासे! मा खु वड्ढावेहि। चेटी — एदु एदु अज्जुआ। (इति निष्क्रान्ते) चतुर्थोऽङ्कः। अवसितं चारुदत्तम्॥”

८ उपोद्घातः यथा दूतघटोत्कचस्य (आरम्भवाक्यम्)— “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— नारायणस्त्रिभुवनैकपरायणो वः पायादुपायगतयुक्तिकरः सुराणाम् । लोकत्रयाविरतनाटकतन्त्रवस्तु- प्रस्तावनाप्रतिसमापनसूत्रधारः ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्ये) भो! भोः! निवेद्यतां निवेद्यतां तावत् । सूत्रधारः—भवतु विज्ञातम् । एष खलु संशप्तकानीकनिर्वाहके जनार्दन- सहाये धनञ्जये तदनन्तरमुपगतभीष्मवधामर्षितैर्धार्तराष्ट्रैः परिवार्य निहतः कुमारोऽभिमन्युः । तथाहि— यान्त्यर्जुनप्रत्यभियानभीता यतोऽर्जुनस्तां दिशमीक्षमाणाः । नराधिपाः स्वानि निवेशनानि सौभद्रबाणाङ्कितनष्टसंज्ञाः ॥ (निष्क्रान्तः ) स्थापना । ” (समाप्तिवाक्यम्)— “घटोत्कचः—पितामह! एष गच्छामि । धृतराष्ट्रः—पौत्र! गच्छ गच्छ । घटोत्कचः—भो भो राजानः! श्रूयतां जनार्दनस्य पश्चिमसन्देशः । धर्मं समाचर कुरु स्वजनव्यपेक्षां यत् काङ्क्षितं मनसि सर्वमिहानुतिष्ठ ।

जात्योपदेश इव पाण्डवरूपधारी सूर्यांशुभिः सममुपैष्यति वः कृतान्तः ॥ (इति निष्क्रान्ताः सर्वे) दूतघटोत्कचमवसितम् ॥”

यथाविमारकस्य (आरम्भवाक्यम्)— “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— उत्क्षिप्तां सानुकम्पं सलिलनिधिजलादेकदंष्ट्राग्ररूढा- माक्रान्तामाजिमध्ये निहतदितिसुतामेकपादावधूताम् । सम्भुक्तां प्रीतिपूर्वं स्वभुजवशगतामेकचक्राभिगुप्तां श्रीमान् नारायणस्ते प्रदिशतु वसुधामुच्छ्रितैकातपत्राम् ॥ (नेपथ्याभिमुखमवलोक्य) आर्ये! इतस्तावत् । (प्रविश्य) नटी — अय्य! इअह्मि । सूत्रधारः — आर्ये! तव वदनजनितकौतूहलेन स्मितेन निवेदित इवान्त- र्गतो भावः । ननु किञ्चिद् वक्तुकामासि । नटी — को एत्थ विम्हओ, अय्यो भावञ्ओ त्ति । सूत्रधारः — तेन हि स्वैरमभिधीयताम् । नटी — इच्छेमि अय्येण सह उय्याणं गन्तुं । अत्थि मे तहिं इत्थिआक- रणीअं णिअमकरयं । (नेपथ्ये) भूतिक! त्वमप्युद्यानं गच्छ कुरङ्गीरक्षणार्थं म(द)भावस्थो ह्यञ्जनगिरिः । सूत्रधारः — आर्ये! ननु भवत्या श्रुतम् उद्यानं गता राजपुत्रीति । त- स्मात् सम्प्रति सर्वतः परिगुप्तानि भवन्त्युद्यानानि । प्रतिनिवृत्तायां राजसुतायां स्वैरं गमिष्यावः !

१० उपोद्घातः नटी — जं अय्यो आणवेदि । (निष्क्रान्तौ) स्थापना । ” (समाप्तिवाक्यम्)— “ ( भरतवाक्यम् ) भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ (निष्क्रान्ताः सर्वे) षष्ठोऽङ्कः । अविमारकस्य षष्ठोऽङ्कः । एषोऽवसितश्च ॥ ” यथा बालचरितस्य (आरम्भवाक्यम् ) — “ (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— शङ्खक्षीरवपुः पुरा कृतयुगे नाम्ना तु नारायण- त्रेतायां त्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः । दूर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे नित्यं योऽञ्जनसन्निभः कलियुगे वः पातु दामोदरः ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्ये) अहं गगनसञ्चारी । सूत्रधारः — भवतु विज्ञातम् । पतत्यसौ पुष्पमयी च वृष्टिर्नदन्ति तूर्याणि च देवतानाम् । द्रष्टुं हरिं वृष्णिकुले प्रसूतम्भ्यागतो नारद एष तूर्णम् ॥ (निष्क्रान्तः)”

उपोद्घातः ११ (समाप्तिवाक्यम्)— “(भरतवाक्यम्) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ पञ्चमोऽङ्कः । अवसितं बालचरितम् ॥” यथा मध्यमव्यायोगस्य (आरम्भवाक्यम्)— “(ततः प्रविशति सूत्रधारः ) सूत्रधारः— पायात् स वोऽसुरवधूहृदयावसादः पादो हरेः कुवलयामलखङ्गनीलः । यः प्रोद्यतस्त्रिभुवनैक्रमणे रराज वैडूर्यसंक्रम इवाम्बरसागरस्य ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्ये) भोस्तात! कोनुखल्वेषः । सूत्रधारः— भवतु विज्ञातम् । भोःशब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः । त्रास्यते निर्विशङ्केन केनचित् पापचेतसा ॥ (नेपथ्ये) भोस्तात! कोनुखल्वेषः । सूत्रधारः— हन्त दृढं विज्ञातम् । एष खलु पाण्डवमध्यमस्यात्मजो हिडिम्बारणिसम्भूतो राक्षसामिरकृतवैरं ब्राह्मणजनं वित्रासयति । मोः! कष्टं

१२ उपोद्घातः कष्टं खलु पत्नीसुतपरिवृतस्य ब्राह्मणस्य वृत्तान्तः । अत्र हि— श्रान्तैः सुतैः परिवृतस्तरुणैः सदारो वृद्धो द्विजो निशिचरानुचरः स एषः । व्याघ्रानुसारचरितो वृषभः सधेनुः सन्त्रस्तवत्स इव (चा)कुलतामुपैति ॥ (निष्क्रान्तः) स्थापना ।" ──────── (समाप्तिवाक्यम्)— “भीमसेनः—हिडिम्बे! इतस्तावत् । वत्स घटोत्कच! इतस्तावत् । तत्रभवन्तं केशवदासमाश्रमपदद्वारमात्रमपि सम्भावयिष्यामः । यथा नदीनां प्रभवः समुद्रो यथाहुतीनां प्रभवो हुताशः । यथेन्द्रियाणां प्रभवं मनोऽपि तथा प्रभुनॊ भगवानुपेन्द्रः ॥ (निष्क्रान्ताः सर्वे) मध्यमव्यायोगोऽवसितः ॥” ──────── यथा कर्णभारस्य * (समाप्तिवाक्यम्)— “कर्णः—अये शब्द इव श्रूयते किन्नुखल्विदम् । शङ्खध्वनिः प्रलयसागरतुल्यघोषः कृष्णस्य वा ननु भवेत् स तु फल्गुनस्य । नूनं युधिष्ठिरपराजयकोपितात्मा पार्थः करिष्यति यथाबलमद्य युद्धम् ॥ ────────────────────────────────────

  • अस्य स्थापनाप्रकरणं न दृश्यते ।

उपोद्घातः १३ शल्यराज! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः । शल्यः—बाढम् । (निष्क्रान्तौ) कर्णभारमवसितम् ॥ " ————— यथा ऊरुभङ्गस्य (आरम्भवाक्यम्)— “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— भीष्मद्रोणतटां जयद्रथजलां गान्धारराजह्रदां कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसम् । तीर्णः शत्रुनदीं शराससिकतां येन प्लवेनार्जुनः शत्रूणां तरणेषु वः स भगवानस्तु प्लवः केशवः ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । (नेपथ्ये) एते स्मो भो! एते स्मः । सूत्रधारः — भवतु विज्ञातम् । .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... स्थापना ।” ———— (समाप्तिवाक्यम्) — “बलदेवः— याम्येष सज्जनधनानि तपोवनानि धृतराष्ट्रः— पुत्रप्रणाशविफलं हि धिगस्तु राज्यम् ।

१४ उपोद्घातः अश्वत्थामा— यातोऽद्य सौप्तिकवधोद्यतबाणपाणि- र्गां पातु नो नरपतिः शमितारिपक्षः ॥ (निष्क्रान्ताः सर्वे) ऊरुभङ्गमवसितम् ॥” यथानवगतनामकस्य नाटकस्यारम्भवाक्यानि — “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः । व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥ एवमार्यमिश्रान् विज्ञापयामि। किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रू- यते । अङ्ग! पश्यामि । (नेपथ्ये) भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति । सूत्रधारः — भवतु विज्ञातम् । उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह । पर्यैति मन्त्रशालायां भृत्यो दुर्योधनाज्ञया ॥ (निष्क्रान्तः) स्थापना । ” (ततः प्रविशति काञ्चुकीयः) भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति — अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि । तदाहूयन्तां सर्वे राजान इति । अये अयं महाराजो दुर्योधन इत एवाभिवर्तते । य एषः, श्यामो युवा सितदुकूलकृतोत्तरीयः सच्छत्रचामरवरो रचिताङ्गरागः ।

उपोद्घातः १९ श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गो नक्षत्रमध्य इव पर्वतगतः शशाङ्कः ॥ (ततः प्रविशति दुर्योधनः) दुर्योधनः — उद्भूतरोषमिव मे हृदयं सहर्षं प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य । इच्छामि पाण्डवबले वरवारणाना- मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् ॥ काञ्चुकीयः — जयतु महाराजः । महाराजशासनात् समानीतं सर्वरा- जमण्डलम् । दुर्योधनः — सम्यक् कृतम् । प्रविश त्वमवरोधनम् । काञ्चुकीयः — यथाज्ञापयति महाराजः । (निष्क्रान्तः) दुर्योधनः — आर्यौ वैकर्णवर्षदेवौ ! उच्यताम् — अस्ति ममैकादशाक्षौहि- (णी ? णि) । बलसमुदयस्यास्य कः सेनापतिर्भवितुमर्हतीति । किमाहतुर्भवन्तौ — महान् खल्वयमर्थः । मन्त्रयित्वा वक्तव्यमिति । सदृशमेतद्, आगम्यतां मन्त्र- शालामेव प्रविशामः । आचार्य ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । पितामह ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । मातुल ! अभिवादये । प्र- विशतु भवान् मन्त्रशालाम् । आर्यौ ! वैकर्णवर्षदेवौ ! प्रविशतां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरं प्रविशन्तु भवन्तः । वयस्य ! कर्ण ! प्रविशावस्तावत् । (प्रविश्य) आचार्य ! एतदासनमास्यताम् । पितामह ! एतदा(सनमा)स्यताम् । मातुल ! एतदासनमास्यताम् । आर्यौ वैकर्णवर्षदेवौ ! आसातां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरमासतां भवन्तः । किमिति किमिति महाराजो नास्त इति । अहो सेवाधर्मः । भवत्वय*” यथा अभिषेकनाटकस्य (आरम्भवाक्यम्) — “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः — यो गाधिपुत्रमखविघ्नकराभिहन्ता युद्धे विराधखरदूषणवीर्यहन्ता ।

  • एतदक्षरावधिक एव ग्रन्थ उपलब्धः ।

११ उपोद्धातः दर्पोद्यतोल्बणकबन्धनकपीन्द्रहन्ता पायात् स वो निशिचरेन्द्रकुलाभिहन्ता ॥ एवमार्यमिश्रान् विज्ञापयामि । ( परिक्रम्यावलोक्य ) अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । (नेपथ्य) सुग्रीव! इत इतः । .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... .... स्थापना ।” (समाप्तिवाक्यम् ) — “(भरतवाक्यम् ) भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः । (निष्क्रान्ताः सर्वे) सप्तमोऽङ्कः । अभिषेकनाटकं समाप्तम् ॥” यथा च प्रतिमानाटकस्य ( आरम्भवाक्यम् ) — “(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः— सीताभवः पातु सुमन्त्रतुष्टः सुग्रीवरामः सहलक्ष्मणश्च । यो रावणार्थप्रतिमश्च देव्या विभीषणात्मा भरतोऽन्यसर्गः ॥ ( नेपथ्याभिमुखमवलोक्य ) आर्ये! इतस्तावत् । (प्रविश्य) नटी — अय्य! इअम्हि ।

उपोद्घातः १७ सूत्रधारः — आर्ये! इममेवेदानीं शरत्कालमधिकृत्य गीयतां तावत् । नटी — अय्य! तह । (गायति) सूत्रधारः — अस्मिन् हि काले, चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा । (नेपथ्ये) अय्य! अय्य! सूत्रधारः — भवतु विज्ञातम् । मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षीव ॥ (निष्क्रान्तौ) स्थापना ।” (समाप्तिवाक्यम्)— “(भरतवाक्यम्) यथा रामश्च जानक्या बन्धुभिश्च समागतः । तथा लक्ष्म्या समायुक्तो राजा भूमिं प्रशास्तु नः ॥ (निष्क्रान्ताः सर्वे) सप्तमोऽङ्कः । प्रतिमानाटकं समाप्तम् ॥” एषां नाटकानामुपदर्शितेन नाटकान्तरविलक्षणेन प्रस्थानेन न केवलं, किन्तु केषुचिन्नाटकेषु वाक्यानुपूर्व्यैक्येनापि परस्परसाम्यमुदाहृतवाक्येभ्यः प्रका- नाटकानां | शते । तथाहि — “एवमार्यमिश्रान् विज्ञापयामि । अये किं- मिथः संवादः । | न्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि” इत्येषानुपूर्वी प्रतिज्ञा-चारुदत्त-अविमारक-प्रतिमा-कर्णभारनाटकान्यपहाय सर्वेष्वन्येषु दृश्यते ।

१८ उपोद्घातः

“इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥” इति भरतवाक्यानुपूर्वी स्वप्ननाटकबालचरितयोः समाना । “भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥” इत्यानुपूर्वी प्रतिज्ञा-अविमारक-अभिषेकनाटकेषु लक्ष्यते । “इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः” इत्यानुपूर्वी पञ्चरात्रेऽप्यस्ति । मङ्गलश्लोके नाटकीयप्रधानपात्रनामविन्यासः स्वप्ननाटक इव प्रतिज्ञा- पञ्चरात्रप्रतिमानाटकेषूपलभ्यते । “लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिविफलतां गता ॥” इत्ययं श्लोकश्चारुदत्तप्रथमाङ्क इव बालचरितप्रथमाङ्के दृश्यते । “किं वक्ष्यतीति हृदयं परिशङ्कितं मे” इत्ययं श्लोकपादः स्वप्नवासवदत्तषष्ठाङ्क इव अभिषे- कनाटकचतुर्थाङ्क उपलभ्यते । “धर्मस्नेहान्तरे न्यस्ता” इत्ययं श्लोकपादः प्रति- ज्ञानाटिकाद्वितीयाङ्क इवाभिषेकनाटकषष्ठाङ्केऽप्यस्ति । एवञ्जातीयका अन्ये- ऽप्युक्तिभङ्गीनां संवादा एषु नाटकेषु दृश्याः । एवं परस्परात्यन्तसंवाददर्शनाद् एतैर्नाटकैरेककविकर्तृकैर्भाव्यमिति, प्रस्ता- वनायां कविकाव्यनामानानाख्यानात् तदाख्याननियमारम्भात् प्रागेवैतान्युद्भूतानीति, [नाटककर्तृनिर्णयः ।] उदाहरिष्यमाणकवितागुणसमृद्ध्यनुरोधादेषां कर्ता सुप्रसिद्धः पुरातनः कश्चिद् महाकविर्भवितुमर्हतीति च मम बुद्धिरुत्प- न्ना । अनया वत्सराजगतवासवदत्ताविषयस्वप्नवर्णनात् स्वप्ननाटकमिदमाचार्या- भिनवगुप्तपादादिप्राचीनग्रन्थेभ्यो नाममात्रेणास्माभिर्विज्ञातं यत् स्वप्नवासवदत्तं नाम नाटकं, तदेव नामैकदेशग्रहगृहीतं स्यादिति सम्भावनया चास्मिन् स्वप्नना- टकादिनाटकचक्रे भक्तिबहुमानावसामान्यौ मे सञ्जातौ । स्वप्नवासवदत्तस्य हि अलभ्यमित्यद्ययावदवधारितस्य प्रणेता श्रीभासमहाकविरित्ययमर्थः