तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
६१८ तैत्तिरीये आरण्यके
मा नौ॑ म॒हान्त॑मु॒त मा नौ॑ अ॒र्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तं । मा नौ॑ बधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥ अनु० ५२ ॥
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मानो॑ रुद्रभामि॒तो ब॑धीर्ह॒वि- ष्म॑न्तो नम॑सा विधेम ते ॥ अनु० ५३ ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव । यत्का॑मास्ते जु॒हुमस्तन्नो॑ अस्तु व॒यᳵ स्या॑म॒- पत॑यो रयी॒णां ॥ अनु० ५४ ॥
स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी । वृषेन्द्॑रः पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयङ्क॒रः ॥ अनु० ५५ ॥
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्धन॑म् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥ अनु० ५६ ॥
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे ॥ अनु० ५७ ॥
१० प्रपाठके ६१ अनुवाकः । १९६
मृ॒त्यवे॒ स्वाहा॑ ऽमृ॒त्यवे॒ स्वाहा॑ ॥ अनु० ५८ ॥
दे॒वकृ॑तस्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑ । म॒नु॒ष्य॑कृ- त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑ । पि॒तृकृ॑तस्यैन॑सोऽव॒- यज॑नमसि॒ स्वाहा॑ । आ॒त्मकृ॑तस्यैन॑सोऽवयज॑नमसि॒ स्वाहा॑। अ॒न्यकृ॑तस्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑ । अ॒- स्मत्कृ॑त॒स्यैन॑सोऽव॒यज॑नमसि॒ स्वाहा॑। यद्दि॒वा च॒ नक्त॒ञ्चै- न॑श्चकृ॒म तस्या॑वयज॑नमसि॒ स्वाहा॑ । यत्स्व॒पन्त॑श्च॒ जा- ग्र॑तश्चैन॑श्चकृ॒म तस्या॑वयज॑नमसि॒ स्वाहा॑ । यत्सु॒षुप्त॑श्च॒ जाग्र॑तश्चैन॑श्चकृ॒म तस्या॑वयज॑नमसि॒ स्वाहा॑ । यद्विद्वाँ॒- सश्चाविद्वाँ॒सश्चैन॑श्चकृ॒म तस्या॑वयज॑नमसि॒ स्वाहा॑ । एन॑स एनसोऽवयज॑नम॑सि॒ स्वाहा॑ ॥ अनु० ५९ ॥
यदौ दे॒वाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा प्रयु॑ती दे॒वहेड॑नम् । अरा॑ वा॒यो नो॑ अ॒भिदु॑च्छुनाय ते॒ तस्मि॑- न्त्दे॒नौ वस॑वो निधै॒तन॒ स्वाहा॑ ॥ अनु० ६० ॥
कामो कार्षी॒न्नमो॒ नमः। कामो कार्षीत्कामः करो- ति नाहं करोमि कामः कर्त्ता नाहं कर्त्ता कामः कार- यिता नाहं कारयिता एष ते काम कामाय स्वाहा ॥ अनु० ६१ ॥
5 *
६२० तैत्तिरीये आरण्यके
मन्युरकार्षी॒न्नमो॒ नमः॑ । मन्युरकार्षीन्मन्युः॑ करो-
ति॒ नाहं करो॑मि मन्युः॑ कर्त्ता॒ नाहं कर्त्ता मन्युः॑ कार-
यि॒ता नाहं॑ कारयिता एष ते मन्यो॒ मन्य॑वे॒ स्वाहा॑ ॥
॥ अनु० ६२ ॥
तिला॒न् जुहो॑मि सरसाꣳ सपिष्टान् गन्धार मम चित्ते
रम॑न्तु स्वाहा॑ । गावो॒ हिर॑ण्यं धनमन्नपानꣳ सर्वेषाꣳ
श्रियै॒ स्वाहा॑ । श्रियञ्च॒ लक्ष्मीञ्च॒ पुष्टिञ्च॒ कीर्त्तिञ्चानृ॒-
ण्यतां ब्रह्म॒ण्यं बहु॑पु॒त्रतां । श्रद्धा॒मेधे प्र॒जाः सन्द॑दातु
स्वाहा॑ ॥ अनु० ६३ ॥
तिलाः कृष्णास्ति॑लाः श्वे॒तास्तिलाः सौम्या व॑शानु॒गाः ।
तिलाः पु॒नन्तु॑ मे पा॒पं यत्किञ्चिद्दुरितं म॑यि स्वाहा॑ ।
चो॒र॒स्यान्नं॑ नव॒श्राद्धं॑ ब्रह्म॒हा गु॑रुत॒ल्पगः । गोस्तेयꣳ
सु॑रा॒पानं॑ भ्रू॒णह॑त्या तिला शान्तिꣳ शमय॑न्तु स्वाहा॑ ।
श्रीश्च॒ लक्ष्मीश्च॒ पुष्टीश्च॒ कीर्त्तिञ्चानृ॒ण्यतां । ब्रह्म॒ण्यं
बहु॑पु॒त्रतां । श्रद्धा॒मेधे प्र॒ज्ञा तु जा॒तवेदः सन्द॑दातु
स्वाहा॑ ॥ अनु० ६४ ॥
१० प्रपाठके ६६ अनुवाकः। ६२१
मूलपुस्तकस्य पञ्चषष्टितमानुवाको भाष्यकारेण ५१, ५२, ५३, ५४, ६० इति पञ्चानुवाकत्वेन परिगणितः। तत्पाठक्रमोऽपि परिवर्तित्तः। अतएव स मूलपुस्तकस्य पाठक्रमेणात्र पुनर्मुद्रापितः।
प्रा॒णा॒पा॒न॒व्या॒नो॒दा॒नस॑मा॒ना मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑। वाङ्मन॑श्चक्षुः॒श्रोत्र॑जि॒ह्वाघ्रा॑ण॒रेतो॒बुध्याकू॑तिः सङ्क॒ल्पा मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑। त्वक्च॒र्ममां॒ꣳसरु॑धिर॒मेदो॑म॒ज्जास्ना॑यवो॒ऽस्थीनि॑ मे॒ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑। शिरः॑पाणिपादपा॒र्श्वपृ॒ष्ठो॒रू॒द॒रज॒ङ्घश्शि॑श्नोपस्थपायवो मे॑ शु॒ध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑। उत्ति॑ष्ठ पुरुष हरित पिङ्गललोहिताक्षि दे॒हि दे॒हि द॒दाप॑यिता मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑ ॥ अनु० ६५ ॥
मूलपुस्तकस्य षट्षष्ट्यनुवाकस्य भूय्यंशो भाष्यकारेण ५५, ५६, ५७, ५८, ५९ इति पञ्चानुवाकत्वेन परिगणितः। तत्पाठक्रमोऽपि परिवर्तित्तः। अतएव स मूलपुस्तकक्रमेणात्र पुनर्मुद्रापितो भवति।
पृ॒थि॒व्याप॒स्तेजो॑वा॒युराका॑शा मे॑ शु॒ध्यन्तां॒। ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑। श॒ब्दस्प॑र्शरू॒पर॑स- 5 s 2
६२२ तैत्तिरीये आरण्यके
ग॒न्धा मे॑ शुध्यन्तां॒ । ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ । मनोवाक्कायक॑र्माणि मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ । अव्यक्तभा॒वै॑रहङ्कारै॒र्ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ । आत्मा मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ । अन्तरात्मा मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ । परमात्मा मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ । क्षु॒धे स्वाहा॑ । क्षुत्पि॑पासा॒य स्वाहा॑ । वि॒वित्क्यै॒ स्वाहा॑ । ऋ॒त्विग्विधानाय॒ स्वाहा॑ । क॒षोत्का॑य॒ स्वाहा॑ । क्षुत्पि॒पा॒साम॑लं ज्येष्ठाम॒लक्ष्मीं ना॑शया॒म्यहं॑ । अभू॑ति॒मसंमृ॑द्धिञ्च॒ सर्वां निर्णु॑द मे पा॒प्मानग्ँ स्वाहा॑ । अन्नमयप्राणमयमनोमयविज्ञानमयमानन्दमयमात्मा* मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ँ स्वाहा॑ ॥ अनु० ६६ ॥
मूलपुस्तकस्य षट्षष्टितमानुवाकात्परम् सम्पूर्णसप्तषष्टितमोऽनुवाको भाष्यकारेण न व्याख्यातः । तद्यथा,
अ॒ग्नये॒ स्वाहा॑ । विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॑ । ध्रुवाय
* विज्ञानमयानन्दमया इति F, Q चिह्नितपुस्तकपाठः ।
१० प्रपाठके ६७ अनुवादः। १२३
भूमा॑य॒ स्वाहा॑ । ध्रु॒वक्षि॑तये॒ स्वाहा॑ । अ॒च्युत॑क्षितये॒ स्वाहा॑ । अ॒ग्नये॑ स्वि॒ष्टकृते॒ स्वाहा॑ । धर्मा॑य॒ स्वाहा॑ । अध॑र्माय॒ स्वाहा॑ । अद्भ्यः॒ स्वाहा॑ । ओष॑धिवनस्प॒तिभ्यः॒ स्वाहा॑ ॥ १ ॥
रक्षो॑देवजनेभ्यः॒ स्वाहा॑ गृ॒ह्याभ्यः॒ स्वाहा॑ । अव॑साने॑भ्यः॒ स्वाहा॑ । अव॑सानपतिभ्यः॒ स्वाहा॑ । सर्व॑भूतेभ्यः॒ स्वाहा॑ । कामा॑य॒ स्वाहा॑ । अ॒न्तरि॑क्षाय॒ स्वाहा॑ । यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ नमो॑ भा॒गे यन्नाम्ने॒ स्वाहा॑ । पृथि॒व्यै स्वाहा॑ । अ॒न्तरि॑क्षाय॒ स्वाहा॑ । दि॒वे स्वाहा॑ । सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्यः॒ स्वाहा॑ । इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑ । स्व॒धा पि॒तृभ्यः॒ स्वाहा॑ । नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑ । दे॒वेभ्यः॒ स्वाहा॑ । पि॒तृभ्यः॑ स्व॒धास्तु॑ । भू॒तेभ्यो॒ नमः॑ । म॒नु॒ष्ये॑भ्यो॒ हन्ता॑ । प्र॒जाप॑तये॒ स्वाहा॑ । प॒रमे॒ष्ठिने॒ स्वाहा॑ । यथा॒ कूपः॑ श॒तधा॑रः स॒हस्र॑धारो॒ अक्षि॑तः । ए॒वामे॑ अस्तु । धान्य॑ग्ं स॒हस्र॑धारमक्षि॒तं । धने॑धा॒न्यै स्वाहा॑ । ये भू॒ताः प्र॒चर॑न्ति॒ दिवा॒ नक्तं॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑ । तेभ्यो॑ ब॒लिं पु॑ष्टिका॒मो ह॑रामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर्दधातु॒ स्वाहा॑ ॥ अनु० ६७ ॥
९२४ | तैत्तिरीये आरण्यके
मूलपुस्तकस्याष्टषष्टितमानुवाकः पूर्णो भाष्यकारेण न व्याख्यातः। अतएव पूर्णः स मुद्रापितः। तद्यथा,
ॐ॑ तद्ब्रह्म॑ । ॐ॑ तद्वा॒युः । ॐ॑ तदा॒त्मा । ॐ॑ तत्स॒त्यं । ॐ॑ तत्सर्वं॑ । ॐ॑ तत्पु॒रोर्नमः॑ । अ॒न्तश्चर॑ति भू॒तेषु॑ गुहायां वि॒श्वमू॑र्त्तिषु । त्वं य॒ज्ञस्त्वं वषट्का॒रस्त्वमिन्द्र॒स्त्वग्ँ॑ रु॒द्रस्त्वं विष्णु॒स्त्वं ब्रह्म॒ त्वं प्र॒जाप॑तिः । त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम् ॥ अनु० ६८ ॥
मूलपुस्तकस्य एकोनसप्ततितमानुवाको भाष्यकारेण ३२, ३३, ३४, ३५ इत्यनुवाकपञ्चकरूपेण निर्दिष्टः। अत्र तस्य मूलपुस्तककस्यानुसारी पाठो मुद्रापितः। तद्यथा,
श्र॒द्धायां॑ प्रा॒णे निवि॑ष्टोऽमृतं॑ जुहोमि । श्र॒द्धायामपा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । श्र॒द्धायां व्या॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । श्र॒द्धायामुदा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । श्र॒द्धायाः॑ समा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ । अ॒मृतो॒पस्त॑रणमसि । श्र॒द्धायां॑ प्रा॒णे निवि॑ष्टोऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । प्रा॒णाय॒ स्वाहा॑ । श्र॒द्धायामपाने निवि॑ष्टोऽमृतं॑ जुहोमि । शि॒वो मा॑ वि॒शाप्र॑दाहाय । अ॒पानाय॒ स्वाहा॑ । श्र॒द्धायां व्या॒ने निवि॑ष्टोऽमृतं॑ जुहोमि ।
१० प्रपाठके ७१ अनुवाकः। ६२५
शिवो॑ मा विशाम्र॑दाहाय। व्या॒नाय॒ स्वाहा॑। श्रद्धाया॑- मुदा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि। शिवो॑ मा विशाम्र॑दा- हाय॒+ उदा॒नाय॒ स्वाहा॑। श्रद्धायाँ॒ समा॑ने॒ निवि॑ष्टो ऽमृतं॑ जुहोमि। शिवो॑ मा विशाम्र॑दाहाय। समा॒नाय॒- स्वाहा॑। ब्रह्म॑णि म॒ आत्मामृत॑त्वाय॑। अ॒मृतापि॒- धान॑मसि॥ अनु० ६९॥
मूलपुस्तकस्यैकसप्ततितमानुवाकात्परम् द्विसप्ततितम-त्रिसप्तति- तमानुवाकौ भाष्ये न धृतौ। तद्यथा,
वाङ् म॒ आसन्॑। नसोः॑ प्रा॒णः। अ॒क्ष्योश्चक्षुः॑। कर्ण॑योः श्रोत्र॑म्। बाहुवोर्बल॑म्। ऊ॒रुवो॒रोजः॑। अरि॑ष्टा विश्वा॒न्यङ्गा॑नि तनूः॑। त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु मा मा॑ हिꣳसीः॥ अनु० ७२॥
वयः॑ सु॒प॒र्णा उप॑सेदुरिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑- मानाः। अप॑ ध्वान्तमू॒र्णुहि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒- धये॑ऽवब॒द्धान्॥ अनु० ७३॥
मूलपुस्तकस्य चतुःसप्ततितमानुवाकात्परम् पञ्चसप्ततितम-षट्- सप्ततितमसप्तसप्ततितमानुवाका भाष्यकारेण न लिखिताः। तद्यथा,
नमो॑ रु॒द्राय॑ विष्ण॑वे मृ॒त्यु॑र्मे पा॒हि॥ अनु० ७५॥
९९६ तैत्तिरीये आरण्यके
त्वम॑ग्ने द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचि॑: ॥ अनु० ७६ ॥
शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व सु॒भू॒तेन॑ मे॒ सन्ति॑ष्ठस्व ब्रह्मवर्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व य॒ज्ञस्या॑र्द्धिमनु॒सन्ति॑ष्ठ॒स्वोप॑ ते य॒ज्ञ नम॒ उप॑ ते॒ नम॒ उप॑ ते॒ नम॑: ॥ अनु० ७७ ॥
अम्भ॑स्य, एक॑पञ्चाशच्च॒तं(१)। जा॒तवे॑दसे, चतु॑र्द॒श(२)। भूरन्नं॑(३), भूर॒ग्नये॑(४), भूर॒ग्नये, चैक॑मेक॒म्(५) । पाहि, पा॒हि, चत्वारि॑, चत्वा॒रि(६-७)। यश्छन्द॑साम् द्वे (८)। नमो॒ ब्रह्म॑णे(६), ऋ॒तं तप॑:(१०), यथा वृ॒क्षस्य, एक॑मेकम्(११) । अ॒णोरणी॑यान् चतु॑स्त्रिँशत्(१२) । स॒हस्रशी॑र्षँ पञ्चिँशति:(१३) । आ॒दित्यो वा ए॒ष:(१४), आ॒दित्यो वै तेज॑:, एक॑मेक॒म्(१५) । निधनपतये॒ चत॑र्विँशति:(१६)। स॒द्योजा॒तम् त्रीणि॑ (१७) । वामदे॒वाय एक॑म (१८) । अ॒घोरे॑भ्य:(१९), तत्पुरु॑षाय, द्वे, द्वे(२०)। ईशा॒न:(२१), नमो॒ हिर॑ण्यबाहवे, एक॑मेकम् (२२) । ऋ॒तँ स॒त्यं द्वे(२३) । सर्वो॑
१० प्रपाठकस्य अनुवाकसङ्ग्रहः । ६२७
वै, च॒त्वा॒रि(२४) । क॒द्रु॒द्राय॑, त्री॒णि(२५) । यस्य॑ वै- कङ्कती॒(२६), व्यु॑ष॒ पाजः(२७), अदि॑तिः(२८), आपो॒ वा इदग्ँ॑, एक॑मेकम्(२९) । आप॑: पुनन्तु, च॒त्वा॒रि(३०) । अ॒ग्निश्च॑(३१), सूर्य्य॑श्च, नव॑ न॒व(३२) । ओमि॑ति, च॒त्वा॒रि(३३) । आ॒यातु॑, पञ्च॑(३४) । ओजो॑ऽसि, दश॑(३५) । उ॒त्त॒मे, च॒त्वा॒रि(३६) । घृणिः॑, त्री॒णि(३७) । ब्रह्म॑ मे॒तु मां, यास्ते॑, ब्र॒ह्म॒ह॒त्यां, द्वाद॑श(३८) । ब्रह्म॑ मे॒धया॑, अ॒द्यान॑:, इ॒मं, भ्रू॒ण॒ह॒त्यां(३९), ब्रह्म॑ मे॒धवा॑, ब्र॒ह्मा दे॒वाना॑म्, इ॒दं, वी॒र॒ह॒त्याम्, एका॑न्नविग्ँश॒तिः, एका॑न्नविग्ँश॒तिः(४०) । मे॒धा दे॒वी(४१), मे॒धां म॒- इन्द्रः॑, च॒त्वा॒रि, च॒त्वा॒रि(४२) । आ मां॑ मे॒धा, द्वे(४३) । मयि॑ मे॒धाम्, एक॑म्(४४) । अपै॑तु(४५), परं॑(४६), वातं॑ प्रा॒णम्(४७), अ॒मुत्र॑ भू॒यात्(४८), हरि॑ग्ँ(४९), श॒ल्कैर॒ग्निं(५०), मा च्छि॑दो मृत्यो (५१), मा नो॑ म॒हान्तं॑(५२), मा न॑स्तो॒के(५३), प्र॒जा- पते॑(५४), स्व॒स्ति॒दा(५५), त्र्यम्ब॑कं(५६), ये ते॑ स॒ह- स्रं॑, द्वे, द्वे(५७) । मृ॒त्यवे॒ स्वाहा॑, एक॑म्(५८) । दे॒व- कृ॒तस्य॑, एका॑दश(५९) । यद् वो॑ दे॒वाः(६०), कामो- ऽकार्षी॒त्(६१), म॒न्युर॑कार्षी॒त्, द्वे, द्वे(६२) । ति- ला॒न् जुहो॑मि, गावः॑, श्रियं॑, प्र॒जाः, पञ्च॑(६३) । तिलाः
६२८ तैत्तिरीयारण्यकम् ।
कृष्णाः, चो॒रस्य॑, श्रीः, प्रज्ञा तु जा॒तवे॑दः(६४), स॒प्त । प्रा॒णा॒पा॒नौ, वाक्, त्वक्, शिरः, उत्ति॑ष्ठ पुरु॒ष, प॒ञ्च (६५) । पृथिवी, शब्द, मनः, अव्यक्त, आत्मा, अन्त- रात्मा, परमात्मा मे॑, क्षुधे, अन्नमय, पञ्च॑दश(६६) । अ॒ग्नये॒ स्वाहा, एकच॑त्वारि॒ꣳशत्(६७) । श्रो॑ तद्ब्रह्म, नव॑(६८) । श्रद्धायां प्रा॒णे निवि॑ष्टः, चतु॑र्विꣳशतिः(६९) । श्रद्धायां प्रा॒णे निवि॑श्या॒मृत॑ꣳ हुतं, दश(७०) । अङ्गु- ष्ठमात्रः॑ पुरु॒षः, द्वे(७१) । वाङ्मे॑ आस॒न्, अ॒ष्टौ(७२) । वयः॑ सुप॒र्णाः(७३), प्राणानां ग्रन्थिरसि, द्वे, द्वे(७४) । नमो॑ रुद्राय, एकम्(७५) । त्वम॑ग्ने द्युभिः, द्वे(७६) । शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व(७७), सत्यं(७८), प्राजापत्यः (७९), तस्यै॑वम्, एक॑मेकम्(८०) । अशी॑तिरनु- वाकाः ॥
स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवा- वहै । ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ ॥ ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ हरिः॑ ॐ ॥
इत्यारण्यकं समाप्तं ॥
The provided image is completely blank and contains no text to transcribe.
The provided image is blank and does not contain any text to transcribe.
The provided image is completely blank and contains no text to transcribe.