उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
१२ उत्तरगीतायां आकाशवन्मानसं मनो निर्मलं कृत्वा मनः संकल्पविक- ल्पात्मकं निरास्पदम् निर्विषयं कृत्वा निश्चलं निष्क्रियमी- श्वरं यो विजानीयात्, स एव समाधिस्थः । तादृशज्ञानमेव समाधिस्थस्यापि लक्षणमित्यर्थः ॥ आरूढस्य लक्षणमुक्तम् ; आरुरुक्षोरुपायमाह— योगामृतरसं पीत्वा वायुभक्षः सदा सुखी । यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत् ॥ ३४ ॥ योगामृतरसं पीत्वा यमनियमाद्यष्टाङ्गयोगामृतपानं कृ- त्वा तत्प्रतिपादकशास्त्रमभ्यस्येत्यर्थः, वायुभक्षः वायुमात्रा- हारः, उपलक्षणमेतत् , हितमितमेध्याशी, सदा सुखी सर्वदा संतुष्टः सन् , यं यमं मनोनिग्रहं नित्यमभ्यस्यते, स समा- धिरित्युच्यते । स समाधिः मृत्युनाशकृत् जननमरणसं- सारनाशकृदित्यर्थः ॥ तादृशसमाधौ स्थितस्य लक्षणमाह— ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं यदात्मकम् । ६५: ईश्वर
प्रथमोऽध्यायः । २३ सर्वशून्यं स आत्मेति समाधिस्थस्य लक्षणम् । ३५ ॥ ऊर्ध्वशून्यम् ऊर्ध्वदेशपरिच्छेदरहितम् अधःशून्यं मध्य- शून्यम् अधोमध्यदेशपरिच्छेदरहितं सर्वशून्यं देशकाला- दिपरिच्छेदरहितं यदात्मकं यत्स्वरूपम्, स आत्मेति भावना समाधिस्थस्य लक्षणमित्यर्थः ॥ एतस्यैकान्तिकदृष्टेः विधिनिषेधातीतत्वमाह— शून्यभावितभावात्मा पुण्यपापैः प्रमुच्यते । शून्यमिति सर्वपरिच्छेदरहितमिति भावितः वासितः भावः अभिप्रायो यस्यात्मनः तादृशः सन् शून्यभावित- भावात्मा योगी पुण्यपापैः विधिनिषेधप्रयुक्तैः प्रमुच्यते मुक्तो भवतीत्यर्थः ॥ एवं भगवदुपदिष्टसमाधौ विरोधमसम्भवं च आह— अर्जुन उवाच— अदृश्ये भावना नास्ति दृश्यमेतद्विनश्यति ॥ ३६ ॥
२४ उत्तरगीतायां अवर्णमस्वरं ब्रह्म कथं ध्यायन्ति योगिनः । अदृश्ये ज्ञानागोचरे वस्तुनि भावना ध्यानं नास्ति ; ननु तर्हि दृश्यं भवत्विति चेत्, दृश्यमेतत्सर्वं विनश्यति नाशं प्राप्नोति शुक्तिकारूप्यवत् । तथा च अवर्णं रूपरहितम् अस्वरं शब्दागोचरं ब्रह्म योगिनः कथं ध्यायन्ति, ध्यानस्य स्मृत्यात्मकत्वेनाननुभूते तदयोगात् इति भावः ॥ न हि सावयवमूर्त्यादिमत्त्वेन वयं ध्यानं ब्रूमः येन त्वयो- क्तं घटेत, किं तु निर्विशेषपरब्रह्मण एव निर्मलं निष्कलमित्या- दिना, वेदान्तजन्यवृत्तिगोचरत्वेन तत्संभवतीत्यभिप्रायेणाह- श्रीभगवानुवाच- ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं यदात्मकम् ॥ ३७ ॥ सर्वपूर्णं स आत्मेति समाधिस्थस्य लक्षणम् । ऊर्ध्वाधोमध्यपूर्णशब्दैः सर्वदेशतः सर्वकालतः परिच्छेदं व्यावर्तयति । यदात्मकं यत् एतादृशं वस्तु सर्वत्र परिपूर्णं च
प्रथमोऽध्यायः । २५ आत्मेति यो ध्यायति, स समाधिस्थः । तस्य लक्षणमपि तदेवेत्यर्थः ॥ नन्वयं सालम्बनयोगो निरालम्बनयोगो वेति द्वेधा वि- कल्प्य तत्र दोषमाशङ्क्याह -- अर्जुन उवाच— सालम्बस्याप्यनित्यत्वं निरालम्बस्य शून्यता ॥ ३८ ॥ उभयोरपि दुष्टत्वा- त्कथं ध्यायन्ति योगिनः । सालम्बस्य मूर्त्याधारादिसहितस्य अनित्यत्वं विनाशित्व- म् , निरालम्बस्य मूर्त्याधारादिरहितस्य शून्यता शशविषा- णायितत्वम् , एवमुभयोरपि दुष्टत्वात् दोषघटितत्वात् यो- गिनः कथं ध्यायन्तीति प्रश्नार्थः ॥ यज्ञदानादिना शुद्धान्तःकरणस्य वेदान्तजन्यनिर्विशेष- ब्रह्मगोचरवृत्तिसंभवात् न शून्येत्यभिप्रायेणाह— श्रीभगवानुवाच— हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् ॥ ३९ ॥
२६ उत्तरगीतायां अहमेव इदं सर्व- मिति पश्येत्परं सुखम् । हृदयं चित्तं निर्मलं ज्ञानविरोधिरागादिदोषरहितं कृत्वा अनामयं चिन्तयित्वा ईश्वरं ध्यात्वा परं सुखी सन् परमा- नन्दात्मकः सन् एक एवाहमिदं सर्वं जगज्जालमहमेव न मत्तो व्यतिरिक्तमन्यत् इति पश्येत् अपरोक्षानुभवं प्रा- प्नुयात् इत्यर्थः ॥ अर्थात्मकस्य जगतः शब्दनिरूप्यत्वेन शब्दस्य वर्णात्म- कत्वेन वर्णानां प्रणवात्मकत्वेन प्रणवस्य बिन्द्वात्मकत्वेन बिन्दोः नादात्मकत्वेन नादस्य ब्रह्मध्यानस्थानात्मककलात्म- कत्वेन ब्रह्मणि समन्वयेन बिन्दुनादकलातीतं ब्रह्म ध्याये- दिति भगवतोक्तम्, तद्विविच्य ज्ञातुं पृच्छति— अर्जुन उवाच— अक्षराणि समात्राणि सर्वे बिन्दुसमाश्रिताः ॥ ४० ॥ बिन्दुभिर्भिद्यते नादः स नादः केन भिद्यते । हे भगवन् समात्राणि अक्षराणि अकारादीनि सर्वे स-
२. द्वितीय अध्याय: प्रणव (ॐ) साधना, कुण्डलिनी व नादानुसन्धान
र्वाणि, लिङ्गव्यत्ययः आर्षः, बिन्दुसमाश्रिताः बिन्दुसन्मात्रा- णीत्यर्थः । बिन्दुस्तु नादेन भिद्यते नादतन्मात्रः सन् तत्र समन्वेतीत्यर्थः । स नादः कलायां समन्वेति । सा कला कुत्र समन्वेति इति प्रश्नार्थः । यद्यपि श्लोके स नादः केन भिद्यत इति नादस्यैव समन्वयः पृष्ट इति भाति, तथापि नादस्य कलासमन्वय इति प्रसिद्धत्वात् नादपदं कलोप- लक्षणम् ॥ एवं पृष्टो भगवान् ब्रह्मणि समन्वेति इति उत्तरमाह- श्रीभगवानुवाच- अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ॥ ४१ ॥ ध्वनेरन्तर्गतं ज्योति- र्ज्योतिरान्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥ ४२ ॥ अनाहतस्य शब्दस्य परावस्थापन्नप्रणवस्य यः ध्वनिः नादः तस्य नादस्य ज्योतिः अन्तर्गतम् । तेन तेजोरूप- कलायां नादस्यान्तर्भाव इति तात्पर्यम्। कलान्तर्भावमाह-
२८ उत्तरगीतायां ज्योतिरन्तर्गतं मन इति । मनसः ज्योतिष्यन्तर्भावो नाम तन्मात्रया तत्र व्याप्तिः । तथा च मनसि ज्योतिषः कला- याः समन्वय इति भावः । तत् मनः शब्दादिप्रपञ्चका- रणभूतं मनः यत्र विलयं याति, यत्र ब्रह्मणि वेदान्तजन्य- निर्विकल्पकब्रह्मगोचरमनोवृत्तिः लयं याति, तत् वृत्तिलय- स्थानं वृत्तिलयात्मकं वा विष्णोः परमम् उत्कृष्टं पदं स्वरूप- मिति । तदुक्तम्—मनः कायाग्निना हन्तीत्यादिना ॥ पुनस्तदेव विशिनष्टि— ओंकारध्वनिनादेन वायोः संहरणान्तिकम् । निरालम्बं समुद्दिश्य यत्र नादो लयं गतः ॥ ४३ ॥ ओंकारध्वनिनादेन ओंकारध्वन्यात्मकनादेन सह वायोः संहरणान्तिकं रेचकपूरकादिक्रमेण नियमितवायोरुपसंहार- पर्यन्तं निरालम्बं निर्विशेषं ब्रह्म समुद्दिश्य लक्ष्यं कृत्वा ध्यायेत् । यत्र स नादो लयं गतः नाशं प्राप्नुयात् , तत् नादनाशाधिकरणात्मकं नादनाशात्मकं वा विष्णोः परमं पदमित्यर्थः ॥
प्रथमोऽध्यायः । २९ एवं ध्यानप्रकारेण शुद्धान्तःकरणस्य आरूढस्य पुण्य- पापे विधूय ब्रह्मसायुज्येऽभिहिते, आरुरुक्षोरपरिशुद्धान्तःक- रणत्वेन ब्रह्मसायुज्यासम्भवे धर्माधर्मविधूननासम्भवेन तद्द्वारा जननमरणान्तिकमवश्यं भाव्यमिति मनसि निश्चित्य पुनरा- वृत्तिप्रकारं पृच्छति— अर्जुन उवाच— भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । प्राणैर्विमुक्ते देहे तु धर्माधर्मौ क्व गच्छतः ॥ ४४ ॥ पञ्चात्मके पञ्चभूतात्मके देहे स्थूलशरीरे भिन्ने गते सति, पञ्चसु पञ्चभूतेषु पञ्चधा तत्तत्पृथिव्याद्याकारेण स्थि- तेषु सत्सु, देहे प्राणैः प्राणादिपञ्चवायुभिः वियुक्ते सति, धर्माधर्मौ पुण्यपापे क्व गच्छतः कुत्र यास्यतः ॥ एवं पृष्टो भगवान् लिङ्गशरीराधारतया तिष्ठत इत्युत्तर- माह— श्रीभगवानुवाच— धर्माधर्मौ मनश्चैव पञ्चभूतानि यानि च । U 3.
३० उत्तरगीतायां इन्द्रियाणि च पञ्चैव याश्चान्याः पञ्च देवताः ॥ ४५ ॥ ताश्चैव मनसा सर्वे नित्यमेवाभिमानतः। जीवेन सह गच्छन्ति यावत्तत्त्वं न विन्दति ॥ ४६ ॥ धर्माधर्मौ पुण्यपापे मनश्च अन्तःकरणं यानि च पञ्चभू- तानि पृथिव्यादीनि यानि च पञ्चेन्द्रियाणि चक्षुरादीनि वागादीनि ज्ञानकर्मात्मकानि च याश्चान्याः पञ्चदेवताः प- ञ्चेन्द्रियाभिमानिन्यः दिग्वातादयः, तदुक्तम्—दिग्वातार्क- प्रचेताश्विवह्निप्राप्यप्रलीयकाः इति, ता देवताः, एते सर्व- भूतादयः मनसा अन्तरिन्द्रियेण नित्यमेव सर्वदा अभिमा- नतः ममताहंकारविषयत्वेन यावत्तत्त्वं न विन्दति अपरोक्ष- ब्रह्मानुभवं न प्राप्नोति, तावज्जीवेन सह जीवोपाधिना लिङ्गेन सह गच्छन्ति गतागतं प्राप्नुवन्तीत्यर्थः ॥ एवं स्थूलदेहप्रलयेऽपि धर्माधर्मौ लिङ्गशरीरमाश्रित्य ति- ष्ठत इत्युक्ते, लिङ्गशरीरभङ्गः कदेति पृच्छति—
प्रथमोऽध्यायः । ३१ अर्जुन उवाच— स्थावरं जङ्गमं चैव यत्किंचित्सचराचरम् । जीवा जीवेन सिध्यन्ति स जीवः केन सिध्यति ॥ ४७ ॥ स्थावरजङ्गमात्मकं सचराचरं चराचरसहितं जगज्जालं सर्वस्मिन् ये जीवाः अभिमानवन्तः स्थूलदेहाभिमानिनो विश्वात्मका जीवाः जीवेन लिङ्गशरीराभिमानिना तैज- सेन सिध्यन्ति विश्वाभिमानं त्यजन्ति । स जीवः तैजसा- भिमानी केन हेतुना सिध्यति स्वाभिमानं त्यजतीति प्रश्नार्थः ॥ एवं पृष्टे सति प्राज्ञेन तैजसः सिध्यति, प्राज्ञस्तुरीयेणे- त्येवं क्रमेण सिध्यतीत्युत्तरमाह— श्रीभगवानुवाच— मुखनासिकयोर्मध्ये प्राणः संचरते सदा । आकाशः पिबते प्राणं स जीवः केन जीवति ॥ ४८ ॥
३२ उत्तरगीतायां मुखनासिकयोर्मध्ये मुखनासिकाभ्यतः सदा सर्वदा यावदहष्टं प्राणवायुः संचरते अजपामन्त्रात्मकत्वेन एकैकस्य दिनस्य षट्शताधिकैकविंशतिसहस्रसंख्यया संचरति, तावत्प- र्यन्तमंदृष्टमहिम्ना लिङ्गमपि वर्तते । यदा तु योगमहिम्ना ब्रह्म- ज्ञानानन्तरं जीवस्यादृष्टनिवृत्तिः, तदा आकाशः जीवत्वनि- मित्तं प्राणं पिबते, तदा जीवः केन जीवति जीवत्वापादका- विद्यानिवृत्त्या निरञ्जनब्रह्मभावे जाते जीवत्वमेव नास्ती- त्यर्थः ॥ ननु ब्रह्माण्डाद्युपाधिविशिष्टस्य सर्वगतस्य ब्रह्मणः कथं निरञ्जनत्वमिति पृच्छति— अर्जुन उवाच— ब्रह्माण्डव्यापितं व्योम व्योम्ना चावेष्टितं जगत् । अन्तर्बहिश्च तद्व्योम कथं देवो निरञ्जनः ॥ ४९ ॥ हे भगवन् व्योम आकाशं ब्रह्माण्डव्यापितं ब्रह्माण्डाव- च्छिन्नमित्यर्थः । व्योम्ना च आकाशेन जगत् आवेष्टितं व्याप्तम् , तस्मात्कारणात् अन्तर्बहिश्च व्योमैव वर्तते, एवं
प्रथमोऽध्यायः । ३३ सति देवः ईश्वरः कथं निरञ्जनः अन्यप्रकाशनिरपेक्षः कथ- मित्यर्थः । निःसङ्गो वा कथमिति प्रश्नार्थः ॥ आकाशादिसर्वप्रपञ्चस्य कल्पितत्वेन सर्वं छेत्स्यतीत्यभि- प्रायेणाह— श्रीभगवानुवाच— आकाशो ह्यवकाशश्च आकाशव्यापितं च यत् । आकाशस्य गुणः शब्दो निःशब्दो ब्रह्म उच्यते ॥ ५० ॥ आकाशः महाकाशः अवकाशः परिच्छिन्नाकाशः उभ- यमप्याकाशेन आकाशतन्मात्रभूतेन शब्देन व्यापितं व्याप्तं तदुपादानकतया तदतिरिक्तं न भवतीत्यर्थः । तर्हि उपादा- नस्य शब्दस्य अतिरिक्तत्वमस्त्वित्यत आह— आकाशस्य गुणः शब्द इति, शब्दः तन्मात्रभूतः आकाशस्य मिथ्याभू- ताकाशस्य गुणः परिणाम्युपादानं यतः, अत एव स्वयमपि मिथ्याभूत इत्यर्थः । ब्रह्म तु निःशब्दः निष्प्रपञ्चः इत्युच्यते । तथा च सत्यस्याक्षरस्य ब्रह्मणः असत्येन सह संबन्धासंभ- वात् निरञ्जनत्वमुपपद्यत इत्यर्थः ॥
१४ उत्तरगीतायां एवं भगवतोक्ते, अक्षरशब्दस्य भगवदभिमतार्थं अजा- नानः सन् लोकप्रसिद्धवर्णात्मकाक्षरबुद्ध्या वर्णानामक्षरत्वं न संभवतीत्यभिप्रायेण पृच्छति— अर्जुन उवाच— दन्तोष्ठतालुजिह्वाना- मास्पदं यत्र दृश्यते । अक्षरत्वं कुतस्तेषां क्षरत्वं वर्तते सदा ॥ ५१ ॥ हे भगवन् यत्र वर्णात्मकाक्षरेषु दन्तोष्ठतालुजिह्वानाम्, उपलक्षणमेतत् कण्ठादीनामष्टानां स्थानानाम्, आस्पदम् आ- स्पदत्वं दृश्यते प्रत्यक्षमभूयते । 'अकुहविसर्जनीयानां कण्ठः' इत्यादिना श्रूयते च । तथा च तेषां वर्णानाम् अक्षरत्वं नाश- रहितत्वं कुतः, उत्पत्तिमतो नाशावश्यंभावात्? सदा सर्व- कालं क्षरत्वं नाशवत्त्वमेव वर्तते तेषाम्, नाशरहितत्वं कुत इति प्रश्नार्थः ॥ एवमभिप्रायमजानानेन अर्जुनेन पृष्टे स्वाभिप्रेतमक्षरश- ब्दार्थं स्फुटयन् भगवानुवाच— श्रीभगवानुवाच—
प्रथमोऽध्यायः । १५ अघोषमव्यञ्जनमस्वरं चा- प्यतालूकण्ठोष्ठमनासिकं च । अरेखजातं परमूष्मवर्जितं तदक्षरं न क्षरते कथंचित् ॥ ५२ ॥ अघोषं घोषाख्यवर्णगुणरहितम् अव्यञ्जनं ककारादिव्य- ञ्जनातीतम् अस्वरम् अजतीतम्, अतालुकण्ठोष्ठमपि अ- व्यञ्जनाद्युत्पत्तिस्थानताल्वोष्ठादिरहितम् अनासिकम् अनु- स्वारोत्पत्तिस्थाननासिकातीतम् अरेखजातं वर्णव्यञ्जकरे- खासमुहातीतम् ऊष्मवर्जितं शषसहातीतम्, यद्वा, ऊष्मश- ब्देन श्वासाख्यो गुणोऽभिधीयते तद्रहितम्, परं लोकप्रसि- द्धवर्णलक्षणातीतं यत् ब्रह्म कथंचित् सर्वप्रकारेण सर्व- कालेऽपि न क्षरते, तदेवाक्षरशब्देनोच्यते । न लौकिकान्य- क्षराणीत्यर्थः ॥ एतादृशं ब्रह्मज्ञानोपायम् अनुभवदार्ढ्याय पुनरपि पृ- च्छति— अर्जुन उवाच— ज्ञात्वा सर्वगतं ब्रह्म सर्वभूताधिवासितम् ।
३६ उत्तरगीतायां इन्द्रियाणां निरोधेन कथं सिध्यन्ति योगिनः ॥ ५३ ॥ सर्वभूताधिवासितं सर्वभूतेष्वप्यन्तर्यामितया स्थितं सर्व- गतम् अन्तर्बहिश्च परिपूर्णम्, ब्रह्म ज्ञात्वा सम्यग्विबुध्य योगिनः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन कथं सि- ध्यन्ति केनोपायेन मुक्ता भवन्तीत्यर्थः ॥ एवं पृष्टो भगवान् तमेव ज्ञानोपायं पुनरप्याह— श्रीभगवानुवाच— इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः । देहे नष्टे कुतो बुद्धि- र्बुद्धिनाशे कुतो ज्ञाता ॥ ५४ ॥ मानवाः मनुष्याः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन दे- हे देहे एव पश्यन्ति ज्ञास्यन्ति, तस्मात् देहदाढर्यम् इन्द्रियदार्ढ्यं च ज्ञानोपायं इति भावः । तदभावे ज्ञानमेव नास्ति इत्याह— देहे नष्टे अदृष्टे सति बुद्धिः कुतः तत्त्वज्ञानं कुतः ! बुद्धिनाशे तत्त्वज्ञानाभावे ज्ञाता अपरोक्षज्ञानिता च कुतः ! तस्माद्देहे-
[Header] प्रथमोऽध्यायः । ३७
न्द्रियादिभिः यज्ञानादिश्रवणादिकमेव तत्त्वज्ञाने कारण- मिति भावः ॥ तादृशं च कारणं यावत्पर्यन्तमनुष्ठेयमित्याशङ्क्य अव- धिमाह— तावदेव निरोधः स्या- द्यावसत्त्वं न विन्दति । विदिते तु परे तत्त्वे एकमेवानुपश्यति ॥ ५५ ॥ यावसत्त्वज्ञानं नास्ति, तावत्पर्यन्तमिन्र्दियनिरोधः स्यात् ; परे तत्त्वे अखण्डानन्दब्रह्मणि विदिते अपरोक्षभूते सति, एकमेवानुपश्यति एकमेव देहेन्द्रियसाधनानुष्ठानादिसाधन- रहितं ब्रह्मैवानुपश्यति, नान्यत् ; तदनन्तरं साधनानुष्ठानप्रया- सोऽपि मा भूदिति भावः ॥ तस्माद्यावसत्त्वज्ञानं तावत्साधनमनुष्ठेयम्, तदभावे तन्न सिध्यतीत्याह— नवच्छिद्रकृता देहाः स्रवन्ति गलिका इव ।
३८ उत्तरगीतायां नैव ब्रह्म न शुद्धं स्या- त्पुमान्ब्रह्म न विन्दति ॥ ५६ ॥ देहाः ज्ञानकारणीभूतशरीराणि नवच्छिद्रकृताः विषय- स्स्राविवृत्तिमद्भावेन्द्रियघटितानि; तत्र दृष्टान्तः गळिका इव छिद्रघटा इव सर्वदा ज्ञानं स्रवन्तीत्यर्थः । तादृशविषयप्र- णवित्तस्य ब्रह्म न शुद्धं स्यात् इति नैव ईश्वरत्वकर्तृत्वबिम्बत्वा- विघटितं न भवति । तथा च ब्रह्मणि बिम्बत्वाविघटिते पुमान् सुखदुःखाभिमानी प्रतिबिम्बो जीवः ब्रह्म न विन्दति भानन्दानुभवं न प्राप्नोतीत्यर्थः ॥ तस्मात् यावत्तत्वापरोक्षपर्यन्तं साधने यत्नः कर्तव्यः, जाते च तत्त्वावबोधे विधिनिषेधातीतत्वेन न कोऽपि यत्नः कर्तव्य इत्यभिप्रायवानाह— अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ ५७ ॥ देहः पाञ्चभौतिकः अत्यन्तमलिनः जडत्वादिति भावः ।
प्रथमोऽध्यायः । १९ देही आत्मा निष्कृष्टाहंकारः सन् अत्यन्तनिर्मलः अहंकारो- पाधिकसंसाररहितः इत्येवमुभयोर्देहात्मनोः अन्तरं कल्पित- त्वसत्यत्वे ज्ञात्वा यो वर्तते, तं प्रति कस्य शौचं विधीयते देहस्य वा आत्मनो वा ? देहस्य चेत् , जडस्य जडेन जला- दिना न शुद्धिः; आत्मनश्चेत् पूर्वमेव शुद्धस्य न शौचादिना प्रयोजनमिति भावः ॥ इति श्रीगौडपादाचार्यविरचितायां उत्तरगीताव्याख्यायां प्रथमोऽध्यायः ॥
॥ द्वितीयोऽध्यायः ॥ अरूढस्यारुरुक्षोश्च स्वरूपे परिकीर्तिते । तत्रारूढस्य बिम्बैक्यं कथं स्यादिति पृच्छति ॥ अर्जुन उवाच— ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञं परमेश्वरम् । अहं ब्रह्मेति निर्देष्टुं प्रमाणं तत्र किं भवेत् ॥ १ ॥ हे भगवन् ब्रह्म बिम्बभूतं चैतन्यं सर्वगतं सर्वत्र परिपूर्णं सर्वज्ञं सर्वसाक्षिभूतं परमेश्वरं सर्वनियामकमिति ज्ञात्वा तत्त्वमसीत्यादिवाक्यतो विबुध्य अहं ब्रह्मेति, प्रतिबिम्बात्मा जीवः ब्रह्मेति निर्देष्टुं वक्तुं तत्र तद्बिम्बैक्ये किं प्रमाणं किमुपपादकमित्यर्थः ॥ एवं पृष्टो भगवान् क्षीरजलादिदृष्टान्तेन उपाधिनिवृत्ता- वात्मैक्यं संभवतीत्याह—
द्वितीयोऽध्यायः । ४१ श्रीभगवानुवाच— यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् । अविशेषो भवेत्तद्व- ज्जीवात्मपरमात्मनोः ॥ २ ॥ जले नद्यादौ जलं तदेव पात्रादुद्धृतं पात्रोपाधितः पृथ- क्भूतं तत्रैव क्षिप्ते पात्रोपाधिनिवृत्तौ महाजलैक्यं प्राप्नोति, एवं क्षीरे क्षीरं घृते घृतं क्षिप्तं सत् तत्तदैक्यं प्राप्नोति, तद्वत् जीवात्मपरमात्मनोः अविद्याद्युपाधितो भेदेऽपि तन्नि- वृत्तावविशेषः संभवतीति भावः ॥ एवमैक्यज्ञानं गुरुमुखादेव संभावितमविद्यानिवर्तकम् , न तु स्वतन्त्रविचारसंभावितमिति वदन् तत्त्वज्ञानार्थं गुरु- मेव अभिगच्छेदिति गुरुशासनमाह— जीवे परेण तादात्म्यं सर्वगं ज्योतिरीश्वरम् । प्रमाणलक्षणैर्ज्ञेयं स्वयमेकाग्रवेदिना ॥ ३ ॥