वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
तिङन्ते भ्वादिप्रकरणम् । (२५१) र्मकेभ्यः ।३।४।६९ ॥ लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥ लस्य ।३।४।७७ ॥ अधिकारोऽयम् ॥ तिप्तस्झिसिप्थस्थमिब्वस्मस्ता- तांझाथासाथांध्वमिड्वहिमहिङ् ।३।४।७८ ॥ एतेऽष्टादश लादेशाः स्युः ॥ लः परस्मैपदम् ।१।४।९९ ॥ लादेशाः परस्मैपदसंज्ञाः स्युः ॥ तङानावात्मनेपदम् । १।४।१०० ॥ तङ् प्रत्याहारः । शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥ अनुदा- त्ङित आत्मनेपदम् ।१।३।१२ ॥ अनुदात्तेत उपदेशे यो ङित्तदन्ताच्च धातोर्लस्य स्थाने आत्मनेपदं स्यात् ॥ स्वरितञितः कर्त्रभिप्राये क्रियाफले ।१।३।७२ ॥ स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ॥ शेषात्कर्तरि परस्मै- पदम् ।१।३।७८ ॥ आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् ॥ तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः ।१।४।१०१ ॥ तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादे- तत्संज्ञाः स्युः ॥ तान्येकवचनद्विवचनबहुवचनान्येकशः ।१।४।१०२ ॥ लब्ध- प्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥ युष्मद्युप- पदे समानाधिकरणे स्थानिन्यपि मध्यमः ।१।४।१०५ ॥ तिङ्वाच्यकारकवाचिनि १ सकर्मकेभ्य इति । फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वम् ” यथा “देवदत्तो ग्रामं गच्छति ” इत्यत्र फलं ग्रामनिष्ठम्, व्यापारश्च देवदत्तनिष्ठ इति ॥ फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम् । यथा “देवदत्तः स्नाति” इत्यत्र फलव्यापारावुभावपि देवदत्तनिष्ठौ । हरिरप्याह-“ फलव्यापारयोरेक- निष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥” इति ॥ २ अधिकारोऽय- मिति । स्वदेशे वाक्यार्थशून्यत्वे सति परदेशे वाक्यार्थबोधजनकत्वमधिकारत्वम् ॥ ३ एतेष्टादश इति । धातोर्विहितस्य लस्य स्थान इत्यर्थः ॥ तेन “लुनाति” इत्यादौ न दोषः ॥ ४ लादेशा इति । सिजादीनां परस्मैपदसंज्ञा तु न भवति, सूत्रे “लः” इत्यस्य षष्ठ्यन्तत्वेन लकारस्थाने जायमानाना- मेव परस्मैपदसंज्ञाविधानेन लकारनिमित्तकानां सिजादीनामप्राप्तेरिति गुरुचरणाः ॥ ५ कृत्यकृतसंज्ञादी- नामिव संज्ञासांकर्यं परिहरन्नाह-पूर्वसंज्ञेति । प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिवि- शते' इति परिभाषया “ लः परस्मैपदम् ” इत्यस्य “ तङनेतरलमात्रावच्छिन्नोद्देशेन विहिता लादेशाः परस्मैपदसंज्ञाः स्युरित्येवार्थ इति भावः ॥ ननु संज्ञानां परस्परं बाधो न दृष्टगोचर इति चेन्न. भपदसं- ज्ञाविषये तथा दृष्टत्वात् । आकडारसूत्रबहिर्भूतानां तु न बाध्यबाधकभाव इति त्वन्यत् ॥ ६ तेन 'चुकुटि- षति' इत्यादौ 'गाङ्कुटादिभ्यः' इत्यनेन सन आतिदेशिकङित्त्वेन नात्मनेपदापत्तिरिति भावः ॥ ७ क्रिया- फल इति । क्रियायाः फलं चात्र स्वर्गाद्येव, न तु दक्षिणादि तस्यान्यथापि सिद्धत्वात् । तदुक्तं भाष्य- कृता-“नचान्तरेण यजिं यजिफलं लभन्ते । याजकाः पुनरन्तरेणापि यजिं गां लभन्ते” इति । हरिणापि-” यस्यार्थस्य प्रसिद्धयर्थमारभ्यन्ते पच्यादयः । तत्प्रधानं फलं तेषां न लाभादिप्रयोजनम्” इत्युक्तमिति पूज्यपादाः ॥ ८ युष्मद्युपपदे इति । उपोच्चारितं पदमुपपदम् ॥ “ उपपदमतिङ् ” इति कृत्रिमस्य तु नेह ग्रहणं प्रयोजनाभावात् ॥ ९ समानाधिकरण इति । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् ॥ यथा “भवसि" इत्यादौ भिन्नप्रवृत्तिनि- मित्तयोर्युष्मत्तिङोः कारकरूप एकैवास्मिन्नर्थे वृत्तिः । वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितौ प्रकारतया भासमानत्वं प्रवृत्तिनिमित्तत्वम् । इत्यादि सकलमभिप्रेत्याह-तिङ्वाच्यकारकवाचिनीति ॥
( २८२ ) सिद्धान्तकौमुद्याम्- युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः स्यात् ॥ प्रहासे च मन्योपपदे मन्यते- रुत्तम एकवच्च ।१।४।१०६ ॥ मन्यधातुरूपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् ॥ अस्म- द्युत्तमः ।१।४।१०७ ॥ तथाभूतेऽस्मद्युत्तमः स्यात् ॥ शेषे प्रथमः ।१।४।१०८ ॥ मध्यमोत्तमयोरविषये प्रथमः स्यात् ॥ भू सत्तायाम् ॥ कर्तृविवक्षायां भू ति इति स्थिते ॥ तिङ्शित्सार्वधातुकम् । ३ । ४ । ११३ ॥ तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ॥ कर्तरि शप् ।३।१।६८ ॥ कर्त्रर्थे सार्वधातुके परे धातोः शप् स्यात् ॥ शपावितौ ॥ सार्वधातुकार्धधातुकयोः ।७।३।८४ ॥ अनयोः परयोरिगन्ताङ्गस्य गुणः स्यात् ॥ अवादेशः । भव॑ति । भवतः ॥ झोऽन्तः । ७। १ । ३ ॥ प्रत्ययावयवस्य झस्यान्तादेशः १ भू सत्तायामिति । नन्वनेकधातुषु सत्सु किमपराधेन भूधातोरेव सर्वतः प्रथमं लेख इति शङ्कायां ब्रुवन्ति केचन-अशोकवनिकान्यायेन तथोपात्तमिति । भूशब्दस्य महाव्याहृतिसमानरूपतया स्वरूपतो मङ्गल- वाचकत्वात् माङ्गलिकेनाचार्येणानायासेन मङ्गलसिद्धयर्थं तदुपादानं कृतमिति तु वस्तुस्थितिः । सत्तार्थनिर्देशो- ऽप्येवमेव, सत्ताख्यस्य परब्रह्मणः स्मरणात् । "सत्तायाम्" इत्यादेः "वर्तते" इति शेषः पूरणीयः । "भू" इत्यनुकरणम् । तत्र पक्षद्वयम्, अनुकरणमनुकार्याद् भिन्नम्, अनुकरणमनुकार्यादभिन्नमिति । प्रकृते चानुकार्यानुकरणयोरभेदविवक्षायामनुकार्यनिरूपितशक्त्यैव अनुकरणेनापि बोधात् "शक्तिमत्त्वमर्थवत्त्वम्" इत्येवं लक्षणलक्षितार्थवत्त्वाभावेन प्रातिपदिकत्वाभावान्न विभक्त्युत्पत्तिः । भेदानुकरणे तु अनुकरणेन बोधाय शक्तेः स्वीकारात् शक्तिमत्त्वरूपार्थवत्त्वस्य सत्त्वेन प्रातिपदिकत्वात्स्यादेव विभक्त्युत्पत्तिः' अत एव “भुवो वुक्" इत्यादिनिर्देशसङ्गतिः । इति प्राञ्चः । 'भ्वेधस्पर्ध-' इति पाणिनीयपाठे सौत्रो विभक्तेर्लुगिति 'भूसत्तायाम्' इत्याधुनिकपाठे 'गवित्ययमाह' इति वन्न विभक्त्युत्पत्तिरिति सारम् ॥ २ निःसन्देहपुरुषव्यव- स्थाज्ञानाय कर्तृकर्मरूपकारकार्थ एव तिङो विधातव्यत्वे तत्र कर्मणः कर्त्रधीनत्वेन पूर्वं कर्तृप्रत्ययानाह-कर्त्रीति । “भू ल्" इति दशायां प्राप्तोऽपि "आर्धधातुकस्येड्वलादेः" इतीडागमो न प्रवर्तते, “नेड्वशि कृति " इति निषेधात् ॥ ३ भवतीति । नन्वत्र लकारवृत्त्यार्धधातुकत्वस्य स्थानिवत्त्वेन तिप्यतिदेशादिट् कस्मान्नेति चेन्मैवम्, “आर्धधातुकं शेषः” इत्यत्र “शेष” पदलब्धा "तिङ्" पदेन अजहत्स्वार्थलक्षणया 'काकेभ्यो दधि रक्ष्यताम्' इत्यत्रेव तिङ्-तिङ्स्थान्युभयभिन्नबोधनेन लस्यार्धधातुकसंज्ञाया अप्राप्त्या आर्धधातुकत्वस्य स्थानिन्य- वृत्तेरतिदेष्टुमशक्यत्वात्, इति केचित् ॥ अन्ये तु-“रुदादिभ्यः सार्वधातुके” इतीड्विधिसामर्थ्यात् “लकार वृत्त्यार्धधातुकत्वं नादेशानाम्” इति ज्ञापनेन न भवतीत्यादाविट्प्रसक्तिः । न च "रुदादिभ्यश्चेत् सार्वधातु- कस्यैव" इति विपरीतनियमार्थमेव तत् कुतो न स्यादिति वाच्यम्, "रुदविद-” इति सूत्रेण रुदधातोः परयोः क्तवासनोः कित्त्वविधानवैयर्थ्यप्रसङ्गात् । त्वद्रीत्या रुदधातोः क्तवासनोरिडभावेन “न क्त्वा सेट्" इति निषेधाप्रवृत्त्या क्त्वाप्रत्यये औपदेशिककित्त्वस्य सुस्थत्वात् । "हलन्ताच्च" इत्यनेन सिद्धत्वाच्च इत्याहुः ॥ इतरे तु- "लिट् च" इति सूत्रे "लङः शाकटायनस्य" इति सूत्रादेवकारानुवृत्तिसामर्थ्यात् “लकारवृत्त्यार्ध- धातुकत्व नादेशानाम्” इति कल्प्यते ॥ अन्यथा स्थानिवत्त्वेनार्धधातुकत्वादेवेडादिषु सिद्धेषु “लिट् च” इत्यारम्भसामर्थ्यादेव सार्वधातुकसंज्ञाबाधे सिद्धे “एव" कारानुवृत्तिवैयर्थ्यं स्पष्टमेव, इति वदन्ति ॥ भवतीत्यत्रान्तरङ्गमपि यणं बाधित्वा गुण एव तावद् भवति, "वर्णादाङ्गं बलीयः" इति परिभाषाप्रवृत्तेः । ज्ञापकं चात्राग्रे स्फुटीभविष्यति ॥
स्यात् ॥ अतो गुणे । भवन्ति ॥ भवसि । भवथः । भवथ ॥ अतो दीर्घो यञि । ७।३।१०१ ॥ अतोऽङ्गस्य दीर्घः स्याद् यञादौ सार्वधातुके परे ॥ भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः ॥ ऐहि मन्ये ओदनं भोक्ष्यसे इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे ॥ भोक्ष्ये । भोक्ष्यावहे । भोक्ष्यामहे ॥ मन्यसे । मन्येथे । मन्यध्वे इत्यादिरर्थः । युष्मद्युपपदे इत्याद्यनुवर्तते । तेनेह न—एतु भवान्मन्यते ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिः ॥ प्रहासे किम् ? यथार्थक- थने मा भूत्—एहि मन्यसे ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिरित्यादि ॥ परोक्षे लिट् ।३।२।११५ ॥ भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् ॥ लस्य तिवादयः ॥ लिट् च ।३।४।११५ ॥ लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः ॥ तेन शत्रा- दयो न ॥ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ।३।४।८२ ॥ लिटस्तिवादीनां नवानां णलादयो नव स्युः ॥ भू अ इति स्थिते ॥ भुवो वुग्लुङ्लिटोः ।६।४।८८ ॥ भुवो वुगागमः स्यात् लुङ्लिटोरचि ॥ नित्येत्वाद्वुग्गुणवृद्धी बाधते ॥ एकाचो द्वे प्रथ- मस्य ।६।१।१ ॥ अजादेर्द्वितीयस्य ।६।१।२ ॥ इत्यधिकृत्य ॥ लिटि धातोरन- १ स्थान्यलाश्रयविधौ स्थानिवत्त्वाप्रवृत्तेर्नेह “अतो दीर्घो यञि” इति सूत्रप्रवृत्तिरिति ध्वनयन्नाह—अतो गुणे इति । न च शबकारान्त्यकारयोः पररूपे कृते “सार्वधातुकमपित्” इति ङित्त्वेन “क्ङिति च” इति निषेधाद् गुणो न स्यादिति वाच्यम्, “अचः परस्मिन्” इति स्थानिवत्त्वेन गुणप्रवृत्तेः सुलभत्वात् । नचैवमपि “वर्णादाङ्गम्—” इति न्यायेनैकादेशात् पूर्वमेव गुणः स्यादिति वाच्यम्, वर्णाङ्गयोः समानस्था- निकत्वे एव तत्प्रवृत्त्यङ्गीकारेण प्रकृते तथात्वाभावात् ॥ २ श्वशुरगृहे गतं पुरुषं प्रति सख्युपोढेन परिहास- शीलस्यालकादेर्वाक्यमुदाहरति—एहि मन्ये इत्यादि । भो देवदत्त ! त्वमेहि, त्वं मन्यसे—‘अहमोदनं भोक्ष्ये’ इति स ओदनोऽतिथिभिर्भुक्त इत्यर्थः ॥ एतमेत वेति । भो देवदत्तौ ! युवामेतं युवां मन्येथे ‘आवामोदनं भोक्ष्यावहे' इति भुक्तः स इत्यादिपूर्ववत् । भो देवदत्ताः ! यूयमेत यूयं मन्यध्वे ‘वयमोदनं भोक्ष्यामहे' इति, भुक्त इत्यादि पूर्ववत् । इत्यर्थः । यस्य स्थाने आदेशः तं स्थानिनमेव दर्शयति—भोक्ष्ये इत्यादिना । ३ परोक्षे लिडिति । साक्षात् कृतमित्येतादृशविषयताशालिज्ञानाविषयत्वं परोक्षत्वम् । एवं च मनसोऽसां- निध्यात्प्रत्यक्षत्वाभावेनोत्तमपुरुषोपि भवतीति भाष्ये स्पष्टमिति “घटमहं चकार” इत्यादिरूपाणां नासङ्गतिरिति दिक् ॥ अतीताया रात्रेः पश्चार्धेनागामिन्याः पूर्वार्धेन च सहितः सकलो दिवसोऽद्यतनस्तद्भिन्नोऽनद्यतनः ॥ ४ ननु “भू अ” इति दशायां वुकं बाधित्वा परत्वाद् गुणवृद्धी स्यातामिति चेत्तत्राह—नित्यत्वादिति । “परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः” इति परिभाषया परापेक्षया नित्यस्य बलवत्त्वबोधनादिति भावः । गुणे वृद्धौ च ‘अचः परस्मिन्’ इति स्थानिवत्त्वेन भूशब्दत्वात् कृताकृतप्रसङ्गित्वेन वुको नित्यत्वमिति भावः ॥ न च “शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति” इति परिभाषया वुकोऽपि नित्यत्वाभाव एवेति वाच्यम्, “क्वचित्कृताकृतप्रसङ्गमात्रेणापि नित्यता” इति परिभाषाबोधितस्य कृताकृतप्रसङ्गित्त्वस्यैव लक्ष्यानुरोधेन प्रकृते आश्रयणेन वुको नित्यत्वानपायात् । नचैवमपि “द्विर्वचनेऽचि” इति निषेधाद् गुणा- देरप्राप्तौ मूलमसङ्गतमिति वाच्यम्, “सार्वधातुकार्धधातुकयोः” इति गुणस्य द्वित्वनिमित्तघटकाच्पर्याप्तनि- मित्तताकाजादेशाभावेन “द्विर्वचनेऽचि” इत्यस्याप्राप्तेः, इति केचित् ॥ अन्ये तु—“द्विर्वचनेऽचि” इति सूत्रं स्थानिरूपातिदेशविधायकमिति मतेन मूलं योजयन्ति ॥
( २५४ ) सिद्धान्तकौमुद्याम्- भ्यासस्य । ६।१।८ ॥ लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य ॥ भूव् भूव् अ इति स्थिते ॥ पूर्वोऽभ्यासः । ६।१।४ ॥ अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥ हलादिः शेषः । ७।४।६० ॥ अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते । ३इति वलोपः ॥ ह्रस्वः । ७।४।५९ ॥ अभ्यासस्याचो ह्रस्वः स्यात् ॥ भवतेरः । ७।४।७३ ॥ भवतेरभ्यासोकारस्य अः स्यात् लिटि ॥ अभ्यासे चर्च । ८।४।५४ ॥ अभ्यासे झलां चरः स्युर्जशश्च ॥ झशां जशः खरां चरः । तत्रापि प्रकृतिजशां प्रकृतिजशः, प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥ असिद्धव- दत्राभात् । ६।४।२२ ॥ इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समा
Here is the line-by-line transcription of the page into Unicode Devanagari:
तिङन्ते भ्वादिप्रकरणम् । (२५५) चपवादः ॥ आर्धधातुकं शेषः ।३।४।११४ ॥ तिङ्शित्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् ॥ इट् ॥ लुटः प्रथमस्य डारौरसः ।२।४।८५ ॥ डा रौ रस् एते क्रमात्स्युः ॥ डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ॥ पुगन्तलघूपधस्य च ।७।३।८६ ॥ पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः ॥ येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । भवित् आ । अत्रेतो गुणे प्राप्ते ॥ दीधीवेवीटाम् ।१।१।६ ॥ दीधीवेव्योरिटश्च गुणवृद्धी न स्तः ॥ भविता ॥ तासस्त्योर्लोपः ।७।४।५० ॥ तासेरस्तेश्च लोपः स्यात्सादा प्रत्य
An exact line-by-line transcription of the page into Devanagari:
स्यात् ॥ अनेकाल्त्वात्सर्वादेशः । यद्यपि 'ङिच्चेत्ययमपवादस्तथाप्यनन्यथासिद्धित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात् । भवतात् ॥ लोटो लङ्वत् । ३।४। ८५ ॥ लोटो लङ् इव कार्यं स्यात् ॥ तेन तामादयः सलोपश्च ॥ तथा हि-॥ तस्थस्थ- मिपां तान्तन्तामः । ३।४।१०१ ॥ ङितश्चतुर्णां तामादयः क्रमात्स्युः ॥ नित्यं ङितः ३।४।९९ ॥ सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः स्यात् ॥ अलोऽन्त्यस्येति सस्य लोपः । भवताम् । भवन्तु ॥ सेर्ह्यपिच्च । ३।४।८७ ॥ लोटः सेर्हिः स्यात्सोऽपिच्च ॥ अतो हेः । ६
मन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।३।३।१६१ ॥ एष्वर्थेषु द्योत्येषु वाच्येषु वा लिङ् स्यात् ॥ विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणम् । आव- श्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कार- पूर्वको व्यापारः । प्रवर्तनायां लिङ् इत्येव सुवचम् । चतुर्णां पृथगुपादानं प्रपञ्चार्थम् ॥ यासुट् परस्मैपदेषूदात्तो ङिच्च ।३।४।१०३ ॥ लिङः परस्मैपदानां यासुडागमः स्यात्स चोदात्तो ङिच्च ॥ ङित्त्वोक्तेर्ज्ञाप्यते 'क्वचिदनुबन्धकार्यमप्यनल्विधाविति प्रतिषेध' इति श्नादे- शस्य शानचः शित्त्वमपीह लिङ्गम् ॥ सुट् तिथ्योः ।३।४।१०७ ॥ लिङस्तकारथकारयोः सुँटा यासुट् न बाध्यते । लिङो यासुट्, त
जादावुसि: wait, in अवर्णादपदान्तादुसि, अवर्णाद + अपदान्तात् -> अवर्णादापदान्तात्?
Wait, why would it be जादावुसि? Could it be अजादावुसि?
No, उसि is already ajadi (उस्).
Wait, could it be पदान्तादुसि?
Look at the letter: प with tick? No, it's प द ा न ् त ा द ु स ि!
Wait, look:
Letter 1: प
Letter 2: द with ा -> दा
Letter 3: न ् त with ा -> न्ता
Letter 4: द with ु -> दु
Letter 5: स with ि -> सि
Yes! पदान्तादुसि! Wait, look at the first letter: it's प! But the left stem of प looks slightly rounded, so it resembles ज or प. But it is definitely पदान्तादुसि!
Wait, but before पदान्तादुसि, line 27 ends with अवर्णाद-.
Wait, does it mean `
तिङन्ते भ्वादिप्रकरणम् । ( २९९ )
शिषि । ३।४।१०४ ॥ आशिषि लिङो यासुट् कित्स्यात् ॥ स्कोरिति सलोपः ॥ क्ङिति च । १।१।५ ॥ गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः ॥ भूयाः । भूयास्तम् । भूयास्त ॥ भूयासम् । भूयास्व । भूयास्म ॥ लुङ् । ३।२। ११० ॥ भूतार्थवृत्तेर्धातोर्लुङ् स्यात् ॥ माङि लुङ् । ३।३।१७५ ॥ सर्वलकारापवादः ॥ स्मोत्तरे लङ् च । ३।३।१७६ ॥ स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥ च्लि लुङि । ३।१।४३ ॥ शबाद्यपवादः ॥ च्लेः सिच् । ३।१।४४ ॥ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । २।४।७७ ॥ एभ्यः सिचो लुक् स्यात् ॥ गापाविहेणादेशपिबती गृह्येते ॥ भूसुवोस्तिङि । ७।३।८८ ॥ भू सू एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ॥ अस्तिसिचोऽपृक्ते । ७।३।९६ ॥ सिच्च अस् चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः स्यात् ॥ इतीड् न, इह सिचो लुप्तत्वात् ४। अभूत् ॥ हलः किम् ? ऐधिषि ॥ अपृक्तस्य
बलीवर्दन्यायेन" इति तत्त्वबोधिनीकारप्रभृतीनामुक्तिस्तु हेयैव, निरुक्तलक्षणस्य "राजीयति" इत्यादि Wait, look at "गोबलीवर्दन्यायेन": Is it "गोबलीवर्दन्यायेन"? Yes.
Line 30: सिद्धये आवश्यकत्वात् । अन्यथा तत्र पक्षे शबेकादेशोऽपि न स्यात् । अत एव च "अग्रे अग्रे" इत्यादौ
Line 31: पदद्वित्वे संहिता अनित्यैवेत्यलं पल्लवितेन ॥ ५ ननु भूधातोः सत्तारूपस्यैकस्यैवार्थस्याङ्गीकारे "सत्तायां
Line 32: मङ्गले वृद्धौ निवासे व्याप्तिसम्पदोः । अभिव्याप्तौ च शक्तौ च प्रादुर्भावे गतौ च भूः" इत्यादीनि अभियुक्त
Line 33: वचनानि न सङ्गच्छेरन् इत्याशङ्कां परिहरन्नाह-सत्ताद्यर्थनिर्देशश्चोपलक्षणमिति । स्वबोधकत्वे सति Wait, in line 33, look at "इत्याशङ्कां परिहरन्नाह-सत्ताद्यर्थनिर्देशश्चोपलक्षणमिति ।": Wait, does it say "सत्ताद्यर्थनिर्देशश्चोपलक्षणमिति" or "सत्ताद्यर्थनिर्देशश्चोपलक्षणम् इति"? It has a hyphen after परिहरन्नाह: "परिहरन्नाह-सत्ताद्यर्थनिर्देश
तिङन्ते भ्वादिप्रकरणम् । ( २६१ ) उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति । उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगतेः । उक्तं च—‘उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ १ ॥’ इति ॥ एध वृद्धौ । कत्थन्ताः षट्त्रिंशदनुदात्तेतः ॥ टित आत्मनेपदानां टेरे । ३।४।७९ ॥ टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ॥ सार्वधातुकमपित् । १।२।४ ॥ अपित्सार्वधातुकं ङिद्वत्स्यात् ॥ आतो ङितः । ७।२।८१ ॥ अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥ थासः से । ३।४।८० ॥ टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे । एधे । एधावहे । एधामहे ॥ इजादेश्च गुरुमतोऽनृच्छः । ३।१।३६ ॥ इजादिर्यो धातु- र्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि ॥ आँमो मकारस्य नेत्त्वम् । आस्कासोराम् विधानाज्ज्ञा- पकात् ॥ आमः । २।४।८१ ॥ आमः परस्य लुक् स्यात् ॥ कृञ्चानुप्रयुज्यते लिटि । १ ननूपसर्गाणां वाचकत्वस्य “ आ ” इत्यर्वागर्थे इत्यादिना यास्काचार्येणाङ्गीकृतत्वेन तैरेव नानार्थबोधे सिद्धे किमुपलक्षणत्वेनेति शङ्कां परिहरन्नाह–उपसर्गास्त्विति ॥ द्योतका इति । यथा प्रदीपसंयोगे द्रव्यस्य गुण- विशेषोऽभिव्यज्यमानो द्रव्याश्रय एव भवति, न प्रदीपाश्रयः तथैव धातोरेवार्थविशेषः सत्युपसर्गसंयोगे व्यज्यते, न तु वाचका इति हृदयम् । उपसर्गाणां वाचकत्वाङ्गीकारे तु “ अनुभूयते ” इत्यादौ कर्मणि लकाराद्यनुपपत्तिः स्यात्, अनुभव्यरूपफलस्यानुपसर्गार्थत्वेन धातोरकर्मकत्वात् । “उपसर्गाः” इत्युक्त्या निपातानां द्योतकत्वं वाचकत्वं वाभ्युपैति ॥ २ द्योतकत्वे सम्मतिमपि दर्शयति–उपसर्गेणेति।उपसर्गेण=प्रादिना, धात्वर्थः=सत्तादिरूपः,= अबलात्=बलाभावात् निबर्लत्वादित्यर्थः, अस्वतन्त्रत्वादिति यावत् । अन्यत्र=अन्यस्मिन्नर्थे, नीयते=प्राप्यते किंवत्–प्रहाराहारसंहारविहारपरिहारवत् । हरणार्थोऽपि हरतिः तत्तदुपसर्गवशात् प्रहरणार्थः, एवमाहरणार्थः, संहरणार्थः, विहरणार्थः, परिहरणार्थश्च यथा सम्पद्यते तथेत्यर्थः । अत्र “ अबलात् ” इति च्छेदः, नतु “ बलात् ” इति । तथा सति उपसर्गाणां द्योतकत्वं व्याहन्येत । अपि तु वाचकत्वमेव स्यादिति केचित् ॥ महामहोपाध्यायोपपदाऽलङ्कृताः श्रीगुरुचरणास्तु– “ उपसर्गेण नीयते ” इति पाठे नयनकर्तृत्वस्योपसर्गे एवाङ्गी- कारे बलाभावेऽस्वतन्त्रत्वे च कर्तृत्वं नैव घटतरमिति नयनकर्मण एवास्वतन्त्रत्वस्य सर्वत्राङ्गीकाराद् धातावस्व- तन्त्रत्वमुपसर्गेषु स्वतन्त्रत्वमिति विपरीतमेव स्यात् । तस्मात् “उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते” इत्येव पाठो भवेत् । उपसर्गेण–उपसर्गसंसर्गेण, बलात्–शब्दशक्तिस्वभावात्, अन्य एव धात्वर्थः प्रतीयते” इति च तदर्थः । “अन्यत्र नीयते” इति पाठे उपसर्गेण कर्त्रा बलात्कारेण धात्वर्थोऽन्यत्र=केवलस्य प्रसिद्धा- र्थाद् भिन्नेऽर्थे नीयते=अर्थाद् विलक्षणो धात्वर्थ एव प्रत्याय्यते न स्वार्थ इत्यनेनोपसर्गाणां द्योतकत्वमेव चेति सूचितम् । अधिकरणत्वविवक्षया कर्मत्वं नेति वदन्ति ॥ द्योतकत्वं च समभिव्याहृतपदशक्त्युद्बो- धकत्वम् ॥ ३ इट् एत्वे कृते “एध ए” इति दशायाम् “आद्गुणः” इति गुणं बाधित्वा “वृद्धिरेचि” इति वृद्धौ प्राप्तायामाह–अतो गुण इति । ४ आमो मकारस्य “हलन्त्यम्” इतीत्संज्ञा कस्मान्न भवती- त्यत आह–आमो मस्य नेत्त्वमिति ॥ तत्र प्रमाणमाह–आस्कासोरिति । सति हि मित्त्वे आस्कासो- राम् भवन्नपि “मिदचोऽन्त्यात् परः” इत्यचामन्त्यात् परः स्यात् तथा च “अकः सवर्णे दीर्घः” इति सव- र्णदीर्घत्वे सत्यकिंचित्करः स्यात्, अतः “दयायासश्च” इति “कास्प्रत्ययादाममन्त्रे लिटि” इति च आस्कासो- राम्विधानं व्यर्थं सद् “हलन्त्यम्” इति प्राप्तेत्संज्ञाया अभावं ज्ञापयतीति भावः ॥ ननु आम्प्रत्ययस्यादन्त- त्वाङ्गीकारेण तस्य च “उपदेशेऽजनुनासिक इत्” इतीत्संज्ञा निवृत्तावपि उपदेशेऽन्त्य- हलोऽभावान्नेत्संज्ञाप्रवृत्तिरिति किं ज्ञापकेन ॥ नचादन्तत्वे “आमः” इति सूत्रनिर्देशानुपपत्तिरिति वाच्यम्, उत्सृष्टानुबन्धेन निर्देश इत्यङ्गीकारेणादोषात् ॥ नैवमपि “कास्प्रत्ययादाममन्त्रे लिटि” इति सूत्रघटिता- ममन्त्र इति निर्देशानुपपत्तिरेवेति वाच्यम्, “सर्वत्र लोहितादिकतन्तेभ्यः” इत्यत्र पररूपवत् शक्न्ध्वादेराकृति-
Wait,आस्कासोरामुविधानाच्चorआस्कासोराम्विधानाच्च? Look at line 10: आस्कासोरामुविधानाच्चLook at line 11:“आस्कासोरामुविधानाच्च”Yes,आमु`!
Line 12: परत्वसामर्थ्यादसंजातविरोधित्वन्यायेनात्र सवर्णदीर्घबाधोऽस्त्विति वाच्यम्, प्रधानसवर्णदीर्घबाधापेक्षया
Line 13: गुणभूतेत्संज्ञाबाधस्यैवौचित्यात् तस्मादत्र ज्ञापकेनैव निर्वाह इति भावः ॥ दाधिमथास्तु-भाष्ये तु “अथापि
Line 14:
कथंचिदित्कार्यं स्यात्” एवमपि न दोषः । क्रियते न्यास एव ‘आममन्त्रे’ इति । यद्येवम् “ आमामन्त्रे ”
Wait, is it यद्येवम् or यथेवम्?
Look at line 14: यथेवम् or यद्येवम्?
It has य, थे or द्ये? In Devanagari, द्ये has a round back, थे has a loop. It looks like यथेवम् with a small error for यद्येवम्, or `यद्य
तिङन्ते भ्वादिप्रकरणम् । ( २६३ ) संबध्यते । पूर्ववदेवात्मनेपदं नतु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् ॥ लिटस्तझयोरेशिरेच् । ३ । ४ । ८१ ॥ लिडादेशयोस्तझयोरेश् इरेच् एतौ स्तः ॥ ऐकारोच्चारणं ज्ञापकम्—'तङादेशानां टेरेत्वं नेति । तेन दारौरासां न ॥ कृ ए इति स्थिते ॥ असंयोगाल्लिट्कित् । १ । २ । ५ ॥ असंयोगात्परोऽपि ल्लिड्कित्स्यात् ॥ 'क्ङिति चेति निषेधात् 'सार्वधातुकार्धधातुकयोरिति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते-॥ द्विर्वचनेऽचि । १ । १ । ५९ ॥ द्वित्वनिमित्तेऽचि परे अच आदेशो न स्याद्वित्वे कर्तव्ये ॥ उरत् । ७।४।६६ ॥ अभ्यासऋवर्णस्य अत्स्यात्प्रत्यये परे ॥ रपरत्वम् ॥ हलादिः शेषः ॥ प्रत्यये किम् ? वव्रश्च ॥ कुहोश्चुः ।७।४।६२ ॥ अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् ॥ एधां- चक्रे । एधांचक्राते । एधांचक्रिरे ॥ एकाच उपदेशेऽनुदात्तात् ।७।२।१० ॥ उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येट् न स्यात् ॥ उपदेशे इत्युभयान्वयि ॥ एकाच इति किम् ? यङ्लुग्व्यावृत्तिर्यथा स्यात् ॥ स्मरन्ति हि—' श्तिपा शपाऽनुबन्धेन
१ ननु “लिटस्तझयोरिशिरिच्” इत्येवमेव मात्रालाघवेन पठितव्यम्, पश्चाच्च “टित आत्मनेपदानां टेरे ” इत्यनेनैत्वं भविष्यत्येवेति किमेकारोच्चारणेनेत्यत आह-एकारोच्चारणमिति ॥ ज्ञाप्यस्वरूप- माह-तङादेशानां टेरेत्वं न इतीति । तङः स्थाने ये आदेशास्तेषां टेरेत्वं न भवतीत्यर्थः ॥ ज्ञापनफलमाह-तेनेति । तङादेशानां टेरेत्वं नेत्यङ्गीकारेणेत्यर्थः ॥ दारौरासामिति । ‘एधिता, एधितारौ, एधितारः' इत्यादाविति भावः ॥ वस्तुतः “एधतास् त” इति दशायां “लुटः प्रथमस्य” इति योगापेक्षया परत्वेन-“टित आत्मनेपदानाम्-” इति टेरेत्वे “पुनःप्रसङ्गविज्ञानात्सिद्धम्” इति परिभाषया डादिषु कृतेषु पुनरेत्वस्य प्रवृत्तिरेव न, “लक्ष्ये लक्षणं सकृदेव प्रवर्तते” इति परिभाषणादिति चिन्त्यमेतत् ॥ गुरुचर- णास्तु-‘उद्वोढाम्’ इत्यादाविव स्थानिभेदेन लक्ष्यभेदाङ्गीकारेण प्राप्तं टेरेत्वं ज्ञापनेनैव वारणीयमित्याहुः ॥ २ प्रत्यये किमिति । आसप्तमसमाप्तेरङ्गाधिकारमाश्रित्याङ्गेन प्रत्ययाक्षेपः किमर्थं इति प्रश्नः ॥ उत्तरयति-वव्रश्चेति । आसप्तमसमाप्तेरङ्गाधिकारानङ्गीकारे प्रत्ययाक्षेपाभावे “उरत्” इति योगस्य पर- निमित्तत्वाभावात् स्थानिवत्त्वाभावेन “न संप्रसारणे-” इति निषेधाप्रवृत्तौ पुनरपि वकारस्य “लिट्यभ्या- सस्य” इति सम्प्रसारणं स्यादिति भावः ॥ अत एवासप्तमसमाप्तेरङ्गाधिकारोऽभ्यधायि भगवता भाष्यकारेण, “प्रागभ्यासविकारेभ्योऽङ्गाधिकारः” इति पक्षो “वव्रश्च” इत्यसिद्धया दूषितश्चेति बोध्यम् ॥ ३ उभयान्वयीति । देहलीदीपन्यायात् काकाक्षिन्यायाद्वेति भावः ॥ एकाचि तदसम्बन्धे “बिभित्सति” इति सन इण्निषेधो न स्याद् ‘सन्यङोः’ इत्यस्य षष्ठीत्वेन नैमित्तिकद्वित्वोत्तरमेकाच्त्वाभावात् । अनुदात्ते च तदसम्बन्धे “कर्तुं हर्तुम्” इति तुमुनि “ञ्नित्यादिर्नित्यम्” इत्याद्युदात्तत्वे तुमुन इडागमापत्तिरनुदात्तत्वाभावेन निषेधाप्रवृत्तेरित्युभयत्रान्वय आवश्यक इति भावः ॥ ४ ननूपदेशेऽनुदात्तस्यैकाच्त्वाव्यभिचारात् किं तेनेति पृच्छति-एकाचः किमिति । नच वधिव्यावृत्त्यर्थं तत्, तत्सामर्थ्येनोपदेशमात्रे एकाचो ग्रहणादिति वाच्यम्, आद्युदात्तनिपातनेन सिद्धेरीत्याशयात् ॥ नन्वेकाज्ग्रहणाभावे “जंघनिता” इति यङ्लुगन्ते निषेधः स्यादिति चेत् सत्यम्, कृतेप्येकाज्ग्रहणे उपदेशे एकाच्त्वस्य सत्त्वेन निषेधस्य दुर्वारत्वात्, एवं च व्यर्थमेकाज्- ग्रहणं “श्तिपा शपा” इति निषेधं ज्ञापयति स्थालीपुलाकन्यायात् । अत एव वक्ष्यति-एतच्चेति । न च “श्र्युकः किति” इति सूत्रेऽनुवृत्त्यर्थमेकाज्ग्रहणमिति वाच्यम्, लक्ष्यानुसारादेवोक्तनिषेधज्ञापनात् । यङ्लुग्व्यावृत्तिरिति । यङ्लुको निषेधनिमित्तत्वव्यावृत्तिरित्यर्थः ॥ इदमेव कथमत आह-स्मरन्तीति ।
( २६४ ) सिद्धान्तकौमुद्याम्- निर्दिष्टं यद्गुणेन च। यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ १ ॥' इति ॥ एतच्चेहैवैकाज्- ग्रहणेन ज्ञाप्यते ॥ ऐच इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादने- काच उपदेशो व्याववर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशोऽने- काच्त्वात् ॥ अनुदात्ताश्चानुपदमेव संगृहीष्यन्ते ॥ एधांचकृषे । एधांचक्राथे ॥ इणः षीध्वं- लुङ्लिटां धोऽङ्गात् । ८ । ३ । ७८ ॥ इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य मूर्धन्यः स्यात् ॥ एधांचकृढ्वे । एधांचक्रे । एधांचकृवहे। एधांचकृमहे ॥ एधांबभूव ॥ अनुप्रयोगसा- मर्यादस्तैर्भूभावो न । अन्यथा हि कृञ् चानुप्रयुज्यत इति कृम्विति
आमेतः । ३।४।९० ॥ लोट् एकारस्याम् स्यात् ॥ एधताम् ॥ एधेताम् । एधन्ताम् ॥ सवाभ्यां वामौ ।३।४।९१ ॥ सवाभ्यां परस्य लोडेतः क्रमाद् अम् एतौ स्तः ॥ एधस्व । एधेथाम् । एधध्वम् ॥ एत ऐ । ३।४।९३ ॥ लोडोत्तमस्य एत ऐ स्यात् । आमोऽपवादः ॥ एधै । एधावहै । एधामहै ॥ आडजादीनाम् । ६।४।१०२ ॥ अजादीनामाट् स्याल्लुङा- दिषु । अटोऽपवादः ॥ आटश्च ॥ ऐधत । ऐधेताम् । ऐधन्त ॥ ऐधथाः । ऐधेथाम् । ऐध- ध्वम् ॥ ऐधे । ऐधावहि । ऐधामहि ॥ लिङः सीयुट् । ३।४।१०२॥ सलोपः । एधेत । एधे- याताम् ॥ झस्य रन् । ३।४।१०५ ॥ लिङो झस्य रन् स्यात् ॥ एधेरन् ॥ एधेथाः । एधेया- थाम् । एधध्वम् ॥ इटोऽत् । ३।४।१०६ ॥ लिडादेशस्येटोऽत्स्यात् ॥ एधेय । एधेवहि । एधेमहि ॥ आशीर्लिङि आर्धधातुकत्वात् लिङः सलोपो न । सीयुट्सुटोः प्रत्ययावयवत्वात्षत्वम् । एधिषीष्ट । एधिषीयास्ताम् । एधिषीरन् ॥ एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् ॥ एधि- षीय । एधिषीवहि । एधिषीमहि ॥ ऐधिष्ट । ऐधिषाताम् ॥ आत्मनेपदेष्वनतः । ७।१।५ ॥ अनकारात्परस्यात्मनेपदेषु झस्य अत् इत्यादेशः स्यात् ॥ ऐधिषत ॥ ऐधिष्ठाः । ऐधिषाथाम् । इणः षीध्वंलुङ्लिटां धोऽङ्गात् ॥ ऐधिढ्वम् ॥ [ इङ्ङिन एव इणिह गृह्यते इति मते तुँ ऐधि- ध्वम् । ] ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडश रूपाणि । ऐधिषि । ऐधिष्वहि । ऐधि- ष्महि ॥ ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त ॥ ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् ॥ ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि ॥ उदात्तत्वाद्वलादेरिट् ॥ प्रसँङ्गादनुदात्ताः संगृह्यन्ते ॥
१ एधिषीध्वमिति । इटो ध्वंशब्दभक्ततयाङ्गस्येणन्तत्वाभावेन मूर्धन्याभावः । २ ऐधिढ्वमिति । “ऐध् इँस् ध्वम्” इत्यत्र ध्वमो लुङो वा प्रत्ययस्य एधधातोर्विहितत्वेन एधादिसमुदायः “ऐधिस्” इति ध्वमि प्रत्यये परे अङ्गसंज्ञको जात इति “धि च” इति सलोपोत्तरमेकदेशविकृतन्यायेन “ऐधि” इति भागस्याङ्गत्वं वर्तत एवेति ढत्वं भवत्येवेति बोध्यम् ॥ वेदाङ्गप्रकाशकर्त्रा (दयानन्देन) तु “सलो- पस्य स्थानिवत्त्वेनाङ्गस्येणन्तत्वव्याघातान्नात्र ढत्वप्राप्तिः”—इत्युक्तम् । तत्तु व्याकरणरहस्यानभिज्ञत्वसूचकम्, “स्थानिवत्” इति सूत्रेण स्थानिवद्भावविषये आदेशप्रयुक्तवारणे तु “नायकः” इत्यादावायाद्यादे- शानुपपत्तिरिति भूयानुपप्लवः स्यात् । तस्मादत्र स्थानिवद्भावेनापि आदेशप्रयुक्तकार्यस्यावारणाद् इणन्तत्वनि- मित्तं ढत्वं भवत्येवेति बोध्यम् ॥ इति दाधिमथाः ॥ ३ इति मते त्विति । “विभाषेटः” इत्युत्तरसूत्रे इणः परस्येटो ग्रहणेन तत्रानुवर्तमानम् “इण्” इति पदमवश्यमिडतिरिक्तपरमिति स्वीकार्यमिति “इणः षीध्वम्” इति पूर्वसूत्रेऽपि तथैव युक्तमिति तेषां भावः ॥ अत्रारुचिबीजं तु भाष्येऽस्यादर्शनम् । सूत्रान्तरस्थेन गोबलीवर्दन्यायग्रहणे च न दृढतरं मानम् । एतच्च तुना सूचितम् ॥ ४ षोडश रूपा- णीति । मतभेदेन ढत्वधत्वयोर्विकल्पाद् द्वे रूपे । उभयत्रापि “अनचि च” इति ढकारधकारयोर्द्वित्वे च- त्वारि रूपाणि । चतुर्ष्वपि “मय इति पञ्चमी यण इति षष्ठी” इति पक्षे “यणो मयो द्वे वाच्ये” इति वार्तिकेन वकारस्य द्वित्वे अष्टौ रूपाणि । अष्टास्वपि “अनचि च” इति मकारस्य द्वित्वे उक्ता संख्येति भावः॥ ५ प्रसङ्गादिति । प्रसङ्गत्वं चाऽनन्तराभिधानप्रयोजकशिष्यजिज्ञासाजनकज्ञानविषयत्वम् ॥ संगृह्यन्ते इति । मयेति शेषः । संग्रहत्वं नाम भिन्नस्थलीयवस्तुजातानामेकत्र करणम् ॥
( २६६ ) सिद्धान्तकौमुद्याम्- ऊद्दृदन्तैर्यौति-रु-क्ष्णु,-शीङ्-स्नु-नु-क्षु-श्वि-डीङ्-श्रिभिः ॥ वृङ्-वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥ १ ॥ शक्लृ-पच्-मुच्-रिच्-वच्-विच्-सिच्-प्रच्छि-त्यज्-णिजिर्-भजः ॥ भञ्ज्-भुज्-भ्रस्ज्-मस्जि-यज्-युज्-रुज्,-रुञ्ज्-विजिर्-स्वञ्जि-सञ्ज्-सृजः ॥ २ ॥ अद्-क्षुद्-खिद्-छिद्-तुदि-नुदः, पद्य-भिद्-विद्यति-र्विन्दद् ॥ शद्-सदी स्विद्यति स्कन्दि-हर्दी, क्रुध् क्षुधि-बुध्यती ॥ ३ ॥ बन्धि-र्युधि-रुधीराधि,-व्यध्-शुधः साधि--सिध्यती ॥ मन्य-हन्नाप्-क्षिप-छुपि-तप्,-तिप-स्तृप्यति-दृप्यती ॥ ४ ॥ लिप्-लुप्-वप्-शप्-स्वप्-सृपि-यम्-रम्-लभ् गम्-नम्-यमो रमिः ॥ कृशि-दंशि-दिशी दृश-मृश,-रिशू-रुश-लिश-विशू-स्पृशः कृषिः ॥ ५ ॥ विषू-तुष्-द्विष्-दुष्-पुष्य-पिष्-विषू,-शिष्-शुष्-श्लिष्यतयो घसिः ॥ वसति-र्दह्-दिहि-दुहो, नह्-मिह्-रुह्-लिह् वहिस्तथा ॥ ६ ॥ अनुदात्ता हलन्तेषु धातवो द्व्यधिकं शतम् ॥ तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु ॥ ७ ॥ तृप्-दृपी तौ वारयितुं श्यना निर्देश आदृतः ॥ किं च ॥ स्विद्यपद्यौ सिध्यबुध्यौ मन्यपुष्यश्लिषः श्यना ॥ ८ ॥ वसिः शपा लुका यौतिर्निर्दिष्टोऽन्यनिवृत्तये ॥ णिजिर् विजिर् शक्ल इति, सानुबन्धा अमी तथा ॥ ९ ॥ १ ऊद्दृदन्तैरिति। अजन्तेषु = अच् अन्ते=अवसाने, येषान्ते अजन्तास्तेषु, एकाचो धातवः, एकोऽच् येषु तादृशा धातवः, निहताः=अनुदात्ताः, स्मृताः = कथिताः । नन्वेवं भूतप्रभृतीनामप्यनुदात्तत्वापत्तिरित्यत आह-ऊद्दृदन्तैरिति ॥ युप्रभृतीनामनुदात्तत्वनिरासायाह-यौतीत्यादि । यौत्यादिभिर्विनेत्यर्थः ॥ वृङ्-वृञो- स्तर्ह्यनुदात्तत्वापत्तिरत आह-वृङ्-वृञ्भ्याञ्च विनेति । कारिकोक्ताः सर्वे सेट्:, अन्ये एकाचोऽनुदात्ता इति भावः ॥ २ एवमजन्तेषु व्यवस्थां विधाय हलन्तेषु व्यवस्थां चिकीर्षुः कादिक्रमेण हलन्तान् धातून् निर्दिशति- “शक्लृ” इत्यादिना “वहिस्तथा” इत्यन्तेन ॥ ३ उपसंहरति-अनुदात्ता इति । हलन्तेषु धातुषु अनुदात्ता धातवो द्व्यधिकं शतम्, बोध्या इति शेषः ॥ ४ ननु यान्तेषु “तृप्यतिदृप्यती” इति श्यना निर्दे- शेन किम्, इतरव्यावर्त्याभावादिति शङ्कायामाह-तुदादाविति । यौ तृप्दृपी तुदादौ चुरादिषु च मतभेदेन स्थितौ, तौ = तृप्दृपी, वारयितुम् = निषेधयितुम्, श्यना निर्देश आदृत इत्यन्वयः ॥ तृप्दृपी मतभेदेन स्थितौ, चुरादौ तु दृपिर्मतभेदेन स्थित इति विवेकः ॥ ५ अन्येषामपि तत्तद्विकरणनिर्देशस्य प्रयोजनं निर्दिशन्नाह- किं च-स्विद्यपद्याविति । स्विद्यपद्यौ श्यना निर्दिष्टौ, “अन्यनिवृत्तये” इत्यस्य प्रत्येकं सम्बन्धः । सिध्यबुध्यौ श्यना निर्दिष्टौ, मन्यपुष्यश्लिषः श्यना निर्दिष्टाः, वसिः शपा निर्दिष्टः, यौतिर्लुका निर्दिष्टः ॥ कस्यै सिद्धये ? अन्यनिवृत्तये । अन्येषां व्यावृत्तये ॥ “णिजिर् विजिर् शक्लृ” अमी त्रयः सानुबन्धा अनुबन्धयुक्ताः पठिताः, किमर्थं तत्राह-तथेति । अन्यनिवृत्तये इत्यर्थः ॥
तिङन्ते भ्वादिप्रकरणम् । ( २६७ ) विन्दतिंश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते । व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥ १० ॥ रञ्जि-मस्जी अदि-पदी, तुद् श्रुञ् शुषि--पुषी शिषिः ॥ भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसंमतेः ॥ ११ ॥ स्पर्ध संघर्षे । संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसंग्रहादकर्मकः । स्पर्धते ॥ शर्पूर्वाः खयः । ७।४।६१ ॥ अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । हलादिः शेष इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पर्धिष्यते । स्पर्धताम् । अस्पर्धत । स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत ॥ ३ ॥ गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च । गाधते । जगाधे ॥ ४ ॥ बाधृ लोडने । लोडनं प्रतिघातः । बाधते ॥ ५ ॥ र्नाथृ नाथृ याच्ञोपतापैश्वर्याशीःषु ॥ आशिषि नाथ इति वाच्यम् * ॥ अंश्याशिष्येवात्मनेपदं स्यात् ॥ नाथते । अन्यत्र नाथति ॥ ६ ॥ नाधते ॥ ७ ॥ दध धारणे । दधते ॥ अत एकहल्मध्येऽनादेशादेर्लिटि । ६।४।१२० ॥ लिङ्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्य एकारः स्यादभ्या- सलोपश्च किति लिटि ॥ थलि च सेटि । ६।४।१२१ ॥ प्रागुक्तं स्यात् ॥ आंदेशश्चेह वैरू- १ विन्दतिरिति । चान्द्रदौर्गादेः ( मते इति शेषः ) विन्दतिः = विद्लृ लाभे इति धातुः, इष्टः=अभीष्टः, अनिट्त्वेनेति शेषः ॥ भाष्येऽपि दृश्यते = अवलोक्यते ॥ कोऽन्यथा ब्रवीति येनैवमुच्यते 'चान्द्रदौर्गादे- रीति, तत्राह-व्याघ्रभूत्यादयस्त्विति । तुशब्दः पूर्वपक्षव्यावर्तकोऽरुचौ वा । व्याघ्रभूत्यादयस्तु एनम् = विन्दतिधातुम्, इह = अनिट्कारिकायाम्, न पेठुः = न पठितवन्तः ॥ इति स्थितम्, तेषां ग्रन्थे इति शेषः॥ २ “रञ्जि” इत्यादि । रञ्जिप्रभृतयो नव धातवो भाष्यानुक्ताः = भाष्ये न कथिताः ॥ ननु भाष्यानु- कस्य साधुताया नियामकत्वाभावात् कथमहि त्वया ते नव पठिता इति चेत्, तत्राह-इहेति । व्याघ्रभूत्या- दिसम्मतेः, इह = अनिट्कारिकायाम्, उक्ताः = कथिताः, मयेति शेषः ॥ ३ अकर्मक इति । “देवदत्तो यज्ञदत्तं स्पर्धते” इत्यत्र स्पर्धापूर्वके शब्देने वृत्तिर्बोद्ध्या ॥ ४ शर्पूर्वा इति । अत्र “आदिः” इत्यनुवर्तते । “शेषः” इति च, शर् चात्र धातवादिभूत एव गृह्यते । तेन “वव्रश्च” इत्यत्र चस्य न शेषः ॥ ५ गाधृ इति । ऋकारः “अजगाधत्” इत्यत्र “नाग्लोपि” इति निषेधार्थः ॥ एवं सर्वत्रोन्नेयम् । स्थापना तत्स्थापनं वा प्रतिष्ठा । लब्धुमिच्छा लिप्सा । एकत्र स्थापनं सन्दर्भो वा ग्रन्थः । तत्राद्येऽक- र्मकः । इतरयोः सकर्मकः ॥ ६ "नाथू नाधू" इति । “उपतापो रोगः” इति वृत्तौ । “उपघात” इति तरङ्गिण्याम् । थान्तस्य नाथतेर्धान्तकाण्डे पाठोऽर्थसाम्यात् ॥ ७ अनुदात्तेत्त्वादेव सिद्धे नियमार्थं वार्तिक- मित्याह-आशिष्येवेति ॥ ८ एकशब्दोऽसहायवाची, द्विवचनान्तेन समासः । द्वयोरेव मध्यसंभवादि- त्याह-असंयुक्तोत्यादि । ‘नेमिथ’ सेहे, चकणतुरित्यत्रानुपपत्त्यापत्तिपरिहाराय “लिटि” इत्यावर्तते । तत्रै- कमादेशविशेषणम्, एकदेशान्वयेऽपि सौत्रत्वाद् वृत्तिस्तदाह-लिङ्निमित्तेति । ‘तन्निमित्तादेशादिभिन्नम्’ इत्यर्थः । द्वितीये ‘गमहन्-’ इत्यतोऽनुवृत्ते ‘क्तिति’ इत्यन्वितेपि लिटः कित्त्वमेव संभवतीत्याशयेनाह- किति लिटीति ॥ ९ ननु “देधे” इत्यादौ अभ्यासादेर्दकारस्य जश्त्वेन “प्रकृतिजशां प्रकृतिजशः” इत्युक्तत्वाद् दत्वेऽनादेशादित्वाभावेनैत्त्वाभ्यासलोपौ न स्याताम् ॥ नच “पूर्वत्रासिद्धम्” इत्यनेन “अभ्यासे चर्च” इत्यस्य “अत एकहल्मध्ये” इति सूत्रं प्रत्यसिद्धत्वप्रतिपादनेनैत्त्वाभ्यासलोपौ स्त एवेति वाच्यम्, “तृफलभजत्रपश्च” इत्यत्र फलभजग्रहणेन एत्त्वविधिं प्रति तत्सूत्रस्य सिद्धत्वज्ञापनात्, इति शङ्कायामाह- आदेशश्चेहेति ॥ तत्र ज्ञापकमाह-शसिदयोरिति । यद्यत्र सामान्यतो ग्रहणं पाणिनेरभिमतम
प्यसंपादक एवाश्रीयते । शसिदद्योः प्रतिषेधवचनाज्ज्ञापकात् । तेन प्रकृतिजश्वरां तेषु सत्स्वपि एत्वाभ्यासलोपौ स्त एव । देथे । देथाते । देथिरे ॥ अतः किम् ? दिदिवतुः ॥ तपरः किम् ? ररासे ॥ एकेत्यादि किम् ? तत्सरतुः ॥ अनादेशादेः किम् ? चकणतुः ॥ लिटा आदेशविशे- षणादिह स्यादेव । नेमिथ । सेहे ॥ ८ ॥ स्कुदि आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च ॥ इदितो नुम् धातोः । ७ । १ । ५८ ॥ स्कुन्दते । चुस्कुन्दे ॥ ९ ॥ श्विदि श्वैत्ये । अकर्मकः । श्विन्दते । शिश्विन्दे ॥ १० ॥ वदि अभिवादनस्तुत्योः । वन्दते । ववन्दे ॥ ११ ॥ भदि कल्याणे सुखे च । भन्दते । बभन्दे ॥ १२ ॥ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । मन्दते । ममन्दे ॥ १३ ॥ स्पदि किंचिच्चलने । स्पन्दते । पस्पन्दे ॥ १४ ॥ क्लिदि परिदेवने । शोक इत्यर्थः । सकर्मकः । क्लिन्दते चैत्रम् । चिक्किन्दे ॥ १५ ॥ मुद हर्षे । मोदते ॥ १६ ॥ दद दाने । ददते ॥ न शसददवादिगुणानाम् । ६ । ४ । १२६ ॥ शसेर्ददेर्वकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्य एत्वाभ्यासलोपौ न ॥ दददे । दददाते । दद- दिरे ॥ १७ ॥ ष्वद स्वर्द आस्वादने । अयमनुभवे सकर्मकः । रुचावकर्मकः ॥ धा- -तदा शसिदद्योरपि “अभ्यासे चर्च” इति चर्त्वेनादेशादित्वादेवैत्वाभ्यासलोपौ नैव भविष्यत इति शसिद- द्योर्ग्रहणं नाकरिष्यदिति भावः ॥ तथा च वार्तिकम्- "प्रथमतृतीयादीनामादेशादित्वादेत्त्वाभावः" इति शङ्कायाम् “नवा शसिदद्योः प्रतिषेधो ज्ञापको रूपाभेदे एत्वविज्ञानस्य" इति । शसि दद्योः' इति द्विवचनेन "अभ्यासे चर्च" इत्यत्र "झशां जशः खरां चरः" इत्येव पाठो युक्तः, अत एव “प्रकृतिचरां प्रकृतिचरः" इत्येवं भाष्योक्तमत्राप्यग्रे वक्ष्यमाणं स्थानिषु चर्दोषोपादानं सङ्गच्छते । "खयां चरः" इति पाठे तु शस्धातोर्ज्ञापकत्वकथनमसङ्गतं स्यादिति विभावयन्तु सुधियः ॥ १ एकेत्यादि किमिति । "आतः" इत्यादौ "हल्मध्ये" इत्येतावतापि वारणसम्भवादिति प्रश्नः ॥ २ अनादेशादेः किमिति । ननु तद्ग्रहणाभावे “फेलुः-भेजुः” इत्यादावप्यनेनैवैत्वाभ्यासलोपयोः सिद्धयोः "तृफलभजत्रपश्च"इति सूत्रे फलभजग्रहणस्य 'आदेशादेर्यद्येत्वाभ्यासलोपौ तर्हि फलिभज्योरेव' इति नियमेन "चकणतुः" इत्यादौ दोषाभावात् तद्ग्रहणं निष्फलमेवेति चेन्न, सति तथा नियमे "नेमिथ, सेहे" इत्यादावप्येत्वाभ्यासलोपानुत्पत्तेः ॥ ३ उत्प्लवनम्-उत्प्लुत्य गमनम्॥ ४ इदित इति । इदित इति कर्मधारयेण धातोर्विशेषणम्, तेन "इदिदन्तस्य धातोर्नुम् स्यात्" इति सूत्रार्थान्न चक्षिङ्गादौ न दोषः ॥ ५ अकर्मक इति । श्विन्दते इत्यस्य "श्वेतो भवति" इति विवरणात् ॥ ६ अभिवादनम् = नतिः, तत्पूर्वकमाशिषां वाचनं च ॥ ७ कल्याणम् = मङ्गलम् ॥ सुखम् = आत्मगुणः ॥ ८ मोदः = हर्षः मदः = गर्वः । स्वप्नः = आलस्यम् । गतिः-गमनम् । यत्रानेकेऽर्था निर्दिष्टास्तत्र गतिशब्देन गमनरूपस्यैकस्यैवा- र्थस्य बोधः "वेणू गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु" इत्यत्र गतेः पृथक् ज्ञानग्रहणात् । यत्र । त्वेक एव गतिशब्द उपात्तो यथा 'षिध गत्याम्' इति, तत्र ज्ञानगमनप्राप्तिरूपाणां त्रयाणां बोध इति बोध्यम् ॥ स्तुति- गतिभ्यामन्यत्राकर्मकः ॥ ९ स्पदि इति । चलनम् = कम्पनम् । अकर्मकः ॥ १० दद दाने इति । स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वोत्पादनं दानम् ॥ ११ "न शस" इति । गुणशब्दोऽत्र नादेङ्मात्रपरः, शसिददिग्रहणवैयर्थ्यापत्तेः ॥ व्यपदेशिवद्भावेन गुणावयवत्वसंभवात् । अतो गुणशब्देन भावितपरः स इति व्याचष्टे-गुणशब्देनेति ॥ १२ आस्वादनम् = अनुभवः, रुचिश्च । सकर्मक इति । 'खदन्ति देवा उपानि हव्येति दर्शनात् । छान्दसं परस्मैपदम् ॥ अकर्मक इति । 'अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारः" इति श्रीहर्षप्रयोगे तथादर्शनात् । "अयम्" इति प्रत्येकाभिप्रायेणैकवचनम् । अन्यथा "इमौ" इति वक्तव्यं स्यात् ॥
(de)? Wait, look at the characters: "चुकूर्दे" -> wait, there is no space between चु and कू. After 'कू', what is that glyph? It looks like 'र्दे'! But wait, is there a danda after it, or is it just "॥ २१ ॥"? Wait, look: "चुकूर्दे ॥ २१ ॥" Wait, why did I see "चुकू । २१ ॥" earlier? Ah, look at the double danda: It has two vertical bars: "॥ २१ ॥". Before the double danda, is there a letter? Wait, look at: "कूर्दते । चुकू" Wait! Let me zoom in to 500% on line 5: "कूर्दते । चुकू" Wait, after 'कू': There is: a letter? No! Wait! Look: कूर्दते (kūrdate) । (danda) चुकू (chukū) - wait, is it चुकू or चुकूदे or चुकू ? Wait! There is a 'र्' over 'कू'? Yes, 'कूर्'! But it's 'चुकू' with a repha: 'चुकूर्'? Wait, look at 'कूर्दते' right before it: क, ू, र्, द, त, े = कूर्दते Then: । Then: च, ु = चु
( २७० ) सिद्धान्तकौमुद्याम्- ।७।२।३ ॥वदेर्व्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु ॥ इति प्राप्ते-॥ नेटि ।७।२।४ ॥ इडादौ सिचि प्रागुक्तं न स्यात्॥ मा भवानतीत् । अतिष्टाम् । अतिषुः ॥ १ ॥ चिती संज्ञाने । चेतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः ॥ २ ॥ च्युतिर् आसेचने । आसेचनमार्द्रीकरणम् । आदीषदर्थेभिव्याप्तौ च । इरँ इत्संज्ञा वाच्या * ॥ च्योतति । चुच्योत ॥ इरितो वा । ३।१।५७ ॥ इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत् । अच्योतीत् ॥ ३ श्च्युतिर् क्षरणे । श्च्योतति । चुश्च्योत । अश्च्युतत् । अश्च्योतीत् ॥ ४ ॥ यकाररहितोऽप्ययम् । श्चोतति ॥ ५ ॥ मन्थ विलोडने । विलोडनं प्रतिघातः । मन्थति । ममन्थ । यासुटः 'किदाशिषीति कित्त्वाद् 'अनिदितामिति न- लोपः-मथ्यात् ॥ ६ ॥ कुथि पुथि लुथि मथि हिंसासंक्लेशनयोः । इदित्त्वान्नलोपो न । कुन्ध्यात् । मन्ध्यात् ॥ १० ॥ षिधु गत्याम् । सेधति । सिषेध । सेधिता । असे- धीत् । सात्पदाद्योरिति निषेधे प्राप्ते-॥ उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभ- तिस्थासेनयसेधसिचसञ्जस्वञ्जाम् । ८।३।६५ ॥ उपसर्गात्स्थानिमित्तादेषां सस्य षः स्यात् ॥ सदिरप्रतेः।८।३।६६ ॥ प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ॥ स्तन्भेः । ८।३।६७ ॥ स्तन्भेः सौत्रस्य सस्य षः स्यात् ॥ योगविभाग उत्तरार्थः ॥ किंच-अप्रतेरिति नानुवर्तते । 'बाहुप्रतिष्टम्भविवृद्धमन्युः' ॥ अवाच्चालम्बनाविदूर्ययोः ।८।३।६८ ॥ अवात्स्तन्भेरेतयोरर्थयोः षत्वं स्यात् ॥ वेश्च स्वनो भोजने ।८।३।६९ ॥ व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने ॥ परिनिविभ्यः सेवसितसयसिधुसहसुटुस्तुस्व- ञ्जाम् ।८।३।७० ॥ परिनिविभ्यः परेषांमेषां सस्य षः स्यात् । निषेधति ॥ प्राक्सिता- दड्व्यवायेऽपि ।८।३।६३ ॥ सेवसितेत्यत्र सितशब्दात्प्राग् ये सुनोत्यादयस्तेषामड्व्यवा- येऽपि षत्वं स्यात् ॥ न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् ॥ स्थादिष्वभ्यासेन चाभ्यासस्य । ८।३।६४ ॥ प्राक् सितात् स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् ॥ एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् ॥ निषिषेध । निषिषिधतुः ॥ सेधतेर्गतौ ।८।३। ११३ ॥ गत्यर्थस्य सेधतेः षत्वं न स्यात् ॥ गङ्गाँ विसेधति ॥ ११ ॥ षिधू शास्त्रे १ चिती इति । संज्ञानं चैतन्यम् ॥ २ इकारस्य "उपदेशेऽजनुनासिकः" इतीत्त्वे, रेफस्य "हलन्त्यम्" इतीत्त्वे च "इदितः" इति नुमापत्तिरित्यभिमानेन वार्तिककृदाह-इर इति । इदिदन्तस्य धातोरेरित्संज्ञेत्यर्थस्य पूर्वमुक्तत्वेन नुमोऽप्राप्तौ विफल एव वार्तिककृतः प्रयास इत्यभिमानपदेन सूचितम् ॥ ३ इति निषेधे प्राप्ते इति । उपलक्षणमिदम्, "अवष्टभ्नाति" इत्यादावप्राप्तस्यैव विधानात् । ४ उत्तरार्थः इति । उत्तरसूत्रे सदेरनुवृत्तिर्माभूत्, 'स्तन्भे