वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
१०० श्रीमद्वैपायनमुनिप्रणीतम्— [अ०३०श्लो०२८०-३०५] (दक्षशापवर्णनम्)
पञ्चपञ्चसुभूतेषु दिशासु विदिशासु च । चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ २८० रसातलगता ये च ये च तस्मात्परंगताः । नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः ॥ २८१ सूक्ष्माः स्थूलाः कृशा ह्रस्वा नमस्तेभ्यस्तु नित्यशः ॥ २८२ सर्वस्त्वं सर्वगो देव सर्वभूतपतिर्भवान् । सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ २८३ त्वमेव चेज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः । त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ २८४ अथ वा मायया देव मोहितः सूक्ष्मया त्वया । एतस्मात्कारणाद्वाऽपि तेन त्वं न निमन्त्रितः ॥ २८५ प्रसीद मम देवेश त्वमेव शरणं मम । त्वं गतिस्त्वं प्रतिष्ठा च न चान्याऽस्ति न मे गतिः ॥ २८६ स्तुत्वैवं स महादेवं विरराम प्रजापतिः । भगवानपि सुप्रीतः पुनर्दाक्षमभाषत ॥ २८७ परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत । बहुनाऽत्र किमुक्तेन मत्समीपं गमिष्यसि ॥ २८८ अथैनमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः । कृत्वाऽऽश्वासकरं वाक्यं वाक्यज्ञो वाक्यमाहृतम् ॥ २८९ दक्ष दक्ष न कर्तव्यो मन्युर्विघ्नमिमं प्रति । अहं यज्ञहा न त्वन्या दृश्यते तत्पुरा त्वया ॥ २९० भूयश्च त्वं वरमिमं मत्तो गृहीष्व सुव्रत प्रसन्नवदनो भूत्वा त्वमेकाग्रमनाः शृणु ॥ २९१ अश्वमेधसहस्रस्य वाजपेयशतस्य च । प्रजापते मत्प्रसादात्फलभागी भविष्यसि ॥ २९२ वेदान्षडङ्गानुद्धृत्य सांख्यान्योगांश्च कृत्स्नशः । तपश्च विपुलं तप्त्वा दुःश्वरं देवदानवैः ॥ २९३ अर्थैर्दशार्धसंयुक्तैर्गूढमप्राज्ञनिर्मितम् । वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ॥ २९४ श्रुत्यर्थैरध्यवासितं पशुपाशविमोक्षणम् । सर्वेषामाश्रमाणां तु मया पाशुपतं व्रतम् ॥ उत्पादितं शुभं दक्ष सर्वपापविमोक्षणम् ॥ २९५ अस्य चीर्णस्य यत्सम्यक्फलं भवति पुष्कलम् । तदस्तु ते महाभाग मानसस्त्यज्यतां ज्वरः ॥ २९६ एवमुक्त्वा महादेवः सपत्नीकः सहानुगः । अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ॥ २९७ अवाप्य च तदा भागं यथोक्तं ब्रह्मणो भवः । ज्वरं च सर्वधर्मज्ञो बहुधा व्यभजत्तदा ॥ शान्त्यर्थं सर्वभूतानां शृणुध्वं तत्र वै द्विजाः ॥ २९८ शीर्षाभितापो नागानां पर्वतानां शिलारुजः । अपां तु नीलिकां विद्यान्निर्मोकं भुजगेष्वपि ॥ २९९ खोरकः सौरभेयाणामूषरः पृथिवीतले । इभानामपि धर्मज्ञ दृष्टिप्रात्यवरोधनम् ॥ ३०० रन्ध्रोद्भूतं तथाऽश्वानां शिखोद्भेदश्च बर्हिणाम् । नेत्ररागः कोकिलांनां ज्वरः प्रोक्तो महात्मभिः ॥ अजानां पित्तभेदश्च सर्वेषामिति नः श्रुतम् । शुकानामपि सर्वेषां हिमिका प्रोच्यते ज्वरः ॥ शार्दूलेष्वपि वै विपाः श्रमो ज्वर इहोच्यते ॥ ३०२ मानुषेषु तु सर्वज्ञ ज्वरो नामैष कीर्तितः । मरणे जन्मनि तथा मध्ये च विशते सदा ॥ ३०३ एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः । नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ ३०४ इमां ज्वरोत्पत्तिमुदीनमानसः पठेत्सदा यः सुसमाहितो नरः ॥ विमुक्तरोगः स नरो मुदा युतो । लभेत कामान्स यथा मनीषितान् ॥ ३०५
[अ०३०-३१श्लो०३०६-३२१।१-६] वायुपुराणम् । १०१
(देववंशवर्णनम्)
दक्षप्रोक्तं स्तवं चापि कीर्तयेद्यः शृणोति वा । नाशुभं प्राप्नुयात्किंचिद्दीर्घं चाऽयुरवाप्नुयात् ॥३०६ यथा सर्वेषु देवेषु वरिष्ठो योगवान्हरः । तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मनिर्मितः ॥ ३०७ यशोराज्यसुखैश्वर्यवित्तायुर्धनकाङ्क्षिभिः । स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ ३०८ व्याधितो दुःखितो दीनश्चौरत्रस्तो भयार्दितः । राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ ३०९ अनेन चैव देहेन गणानां स गणाधिपः । इह लोके सुखं प्राप्य गण एवोपपद्यते ॥ ३१० न च यक्षाः पिशाचा वा न नागा न विनायकाः । कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ ३११ शृणुयाद्वा इदं नारी सुभक्ता ब्रह्मचारिणी । पितृभिर्भर्तृपक्षाभ्यां पूज्या भवति देववत् ॥ ३१२ शृणुया द्याइदं सर्वं कीर्तयेद्वाऽप्यभीक्ष्णशः । तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥३१३ मनसा चिन्तितं यच्च यच्च वाचाऽप्युदाहृतम् । सर्वं संपद्यते तस्य स्तवनस्यानुकीर्तनात् ॥ ३१४ देवस्य सगृहस्थस्य देव्या नन्दीश्वरस्य तु । बलिं विभवतः कृत्वा दमेन नियमेन च ॥ ३१५ ततः स शुल्को गृह्णीयान्नामान्यशु यथाक्रमम् । ईप्सिताँल्लभतेऽत्यर्थं कामान्भोगांश्च मानवः ॥ ३१६ मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रपरीवृतः ॥ सर्वकर्मसु युक्तो वा युक्तो वा सर्वपातकैः । पठन्दक्षकथं स्तोत्रं सर्वपापैः प्रमुच्यते ॥ ३१७ मृतश्च गणसालोक्यं पूज्यमानः सुरासुरैः ॥ ३१८ वृषेण विधियुक्तेन विमानेन विराजते । आभूतसंप्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ ३१९ इत्याह भगवान्व्यासः पराशरसुतः प्रभुः । नैतद्वेदयते कश्चिन्नेदं श्राव्यं तु कस्यचित् ॥ ३२० श्रुत्वैतत्परमं गुह्यं येऽपि स्युः पापकारिणः । वैश्या स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥ ३२१ श्रावयेद्यस्तु विप्रेभ्यः सदा पर्वसु पर्वसु । रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥ ३२१
इति श्रीमहापुराणे वायुप्रोक्ते दक्षप्रोक्तस्त्वो नाम त्रिंशोऽध्यायः ॥ ३० ॥ आदितः श्लोकानां समष्ट्यङ्काः- २४४७
अथैकत्रिंशोऽध्यायः ।
देववंशवर्णनम् ।
सूत उवाच--
इत्येषा समुदगुद्गाता कथा पापप्रणाशिनी । दक्षमधिकृत्येदं कथा शर्वाद्दुहागता ॥ १ पितृवंशप्रसङ्गेन कथा ह्येषा प्रकीर्तिता । पितॄणामानुपूर्व्येण देवान्वक्ष्याम्यतः परम् ॥ २ त्रेतायुगमुखे पूर्वमासन्स्वायंभुवेऽन्तरे । देवा यामा इति ख्याताः पूर्वं ये यज्ञसूनवः ॥ ३ अजिता ब्रह्मणः पुत्रा जिता जिदाजिताश्च ये । पुत्राः स्वायंभुवस्यैते शुक्रनाम्ना तु मानसाः ॥ ४ तृप्तिमन्तो गणा ह्येते देवानां तु त्रयः स्मृताः । छन्दोगास्तु त्रयस्त्रिंशत्सर्वे स्वायंभुवस्य ह ॥ ५ यद्यैर्ययातिर्दी देवौ दीधयः सवसा मतिः । विभासश्च क्रतुश्चैव प्रजातिर्विशतो द्युतिः ॥ ६
१०२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ३१ श्लो० ७-२९] (देववंशवर्णनम्)
वायसो मङ्गलश्चैव यामा द्वादश कीर्तिताः। [*अभिमन्युरुग्रदृष्टिः समयोऽथ शुचिश्रवाः॥
केवलो विध्ररूपश्च सुपक्षो मधुपस्तथा॥ ७
तुरीयो निर्हयुश्चैव युक्तो यावाजिनस्तु ते। यमिनो विश्वदेवाद्यं यविष्ठोऽमृतवानपि॥ ८
अजिरो विभावभावश्च म्लिकिष्ठोऽथ दिदेहकः। श्रुतिश्रोणो बृहच्छुक्रो देवा द्वादश कीर्तिताः]॥ ९
आसन्स्वायंभुवस्यैते अन्तरे सोमपायिनः। त्विषिमन्तो गणा ह्येते वीर्यवन्तो महाबलाः॥ १०
तेषामिन्द्रः सदा ह्यासीद्विश्वभुक्प्रथमो विभुः। असुरा ये तदा तेषामासन्दाय दाद्वान्धवाः॥ ११
सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः। अष्टौ ते पितृभिः सार्धं नासत्या देवयोनयः॥ १२
स्वायंभुवेऽन्तरेऽतीताः प्रजास्तासां सहस्रशः। प्रभाव रूपसंपन्ना आयुषा च बलेन च॥ १३
विस्तरादिह नोच्यन्ते मा प्रसङ्गो भवत्विह। स्वायंभुवो निसर्गश्च विज्ञेयः सांप्रतं मनुः॥ १४
अतीते वर्तमाने न दृष्टो वैवस्वतेन सः। प्रजाभिर्देवताभिश्च ऋषिभिः पितृभिः सह॥ १५
तेषां सप्तर्षयः पूर्वमासन्ये तान्निबोधत। भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः॥ १६
अत्रिश्चैव वसिष्ठश्च सप्त स्वायंभुवेऽन्तरे। अग्नीध्रश्चातिबाहुश्च मेधा मेधातिथिश्चसुः॥ १७
ज्योतिष्मान्द्युतिमान्हव्यः सवनः पुत्र एव च। मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः॥ १८
वायुप्रोक्ता महासत्त्वा राजानः प्रथमेऽन्तरे। सासुरं तत्सगन्धर्वं सयक्षोरगराक्षसम्॥
सपिशाचमनुष्यं च सुपर्णाप्सरसां गणम्॥ १९
नो शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि। बहुत्वान्नामधेयानां संख्या तेषां कुले तथा॥ २०
या वै वज्रकुलाख्यास्तु आसन्स्वायंभुवेऽन्तरे। कालेन बहुनाऽतीता अयनाब्दयुगक्रमैः॥ २१
ऋषय ऊचुः--
क एष भगवान्कालः सर्वभूतोपहारकः। कस्य योनिः किमादिश्च किं तत्त्वं स किमात्मजः॥ २२
किमस्य चक्षुः का मूर्तिः के चास्यावयवाः स्मृताः। किंनामधेयः कोऽस्यात्मा एतत्प्रब्रूहि पृच्छताम्॥
सूत उवाच--
श्रूयतां कालसद्भावः श्रुत्वा चैवावधार्यताम्। सूर्ययोनिर्निमेषादिः संख्याचक्षुः स उच्यते॥ २४
मूर्तिरस्य त्वहोरात्रे निमेषावयवश्च सः। संवत्सरशतं त्वस्य नाम चास्य कलात्मकम्॥
सांप्रतानागतातीतकालात्मा स प्रजापतिः॥ २५
पञ्चानां प्रविभक्तानां कालावस्थां निबोधत। दिनार्धमासमासैस्तु ऋतुभिस्त्वयनैस्तथा॥ २६
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः। इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः॥ २७
वत्सरः पञ्चमस्तेषां कालः स युगसंज्ञितः। तेषां तु तत्त्वं वक्ष्यामि कीर्त्यमानं निबोधत॥ २८
ऋतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः। आदित्येयस्त्वण्डसौ सारः कालाग्निः परिवत्सरः॥२९
* धनुश्चिह्नान्तर्गतग्रन्थः ख. ग. घ. पुस्तकेषु नास्ति।
[अ० ३१-श्लो० ३०-५५] वायुपुराणम्। १०३ ( देववंशवर्णनम् )
शुक्लकृष्णा गतिश्चापि अपां सारमयः खगः । स इदावत्सरः सोमः पुराणे निश्चयो मतः ॥ ३० यश्चायं तपते लोकांस्तनुभिः सप्तसप्तभिः । आशु कर्ता च लोकस्य स वायुरिति वत्सरः ॥ ३१ अहंकारादुदत्तुन्दः सङ्गूतो ब्रह्मणस्रयः । स रुद्रो वत्सरस्तेषां विज्ञे नीललोहितः ॥ ३२ तेषां हि तत्त्वं वक्ष्यामि कीर्त्यमानं निबोधत ॥ अङ्गप्रत्यङ्गसंयोगात्कालात्म पतितामहः । ऋक्सामयजुषां योनिः पञ्चानां पतिरीश्वरः ॥ ३३ सोऽग्निर्यजुश्च सोमश्च स भूतः स प्रजापतिः । प्रोक्तः संवत्सरश्चेति सूर्यो योनिर्मनीषिभिः ॥ ३४ यस्मात्कालविभागानां मासत्वंर्यनयोरपि । ग्रहनक्षत्रशीतोष्णवर्षांयुःकर्मणां तथा ॥ योजितः प्रविभागानां दिवसानां च भास्करः ॥ ३५ वकारिकः प्रसन्नात्मा ब्रह्मपुत्रः प्रजापतिः । एकेनैकोऽथ दिवसो मासोऽथर्तुः पितामहः ॥ ३६ आदित्यः सविता भानुर्जविनो ब्रह्मसत्कृतः । प्रभवश्चाव्ययश्चैव भूतानां तेन भास्करः ॥ ३७ ताराभिमानी विज्ञेयस्तृतीयः परिवत्सरः । सोमः सर्वौषधिपतिर्यस्मात्स प्रपितामहः ॥ ३८ आजीवः सर्वभूतानां योगक्षेमकद्गेश्वरः । अवेक्षमाणः सततं बिभर्ति जगदंशुभिः ॥ ३९ तिथीनां पर्वसंधीनां पूर्णिमादर्शयोरपि । योनिर्निशाकरो यश्च योऽमृतात्मा प्रजापतिः ॥ ४० तस्मात्स पितृमान्सोम ऋग्यजुश्छन्दसात्मवः । प्राणापानसमानानाद्यैर्व्यांनोदानात्मकैरपि ॥ ४१ कर्मभिः प्राणिनां लोके सर्वचेष्टाप्रवर्तकः । प्राणापानसमानानां वायूनां च प्रवर्तकः ॥ ४२ पञ्चानां चेन्द्रियमनोबुद्धिस्मृतिजलात्मनाम् । समानकालकरणः क्रियाः संपादयन्निव ॥ ४३ सर्वात्मा सर्वलोकानामावहः प्रवाहादिभिः । विधाता सर्वभूतानां क्षमी नित्यं प्रभञ्जनः ॥ ४४ योनिरग्नेरपां भूमेरवेश्वन्द्रसमश्च यः । वायुः प्रजापतिर्भूतं लोकात्मा प्रपितामहः ॥ ४५ प्रजापतिमुखैर्देवैः सम्यगिष्टफलार्थिभिः । त्रिभिरेव कपालैस्तु अम्बकैरौषधिक्षये ॥ इज्यते भगवान्यस्मात्तस्मात्त्र्यम्बक उच्यते ॥ ४६ गायत्री चैव त्रिष्टुप् च जगती चैव या स्मृता । त्र्यम्बका नामतः प्रोक्ता योनयः सवनस्य ताः ॥ ४७ ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः । त्रिसाधनपुरोडाशास्त्रिकपालः स वै स्मृतः ॥ ४८ इत्येतत्पञ्चवर्षं हि युगं प्रोक्तं मनीषिभिः । यच्चैव पञ्चधात्मा वै प्रोक्तः संवत्सरो द्विजैः ॥ सैक षट्कं विजज्ञेऽथ मध्वादीनृतपः किल ॥ ४९ ऋतुपुत्रातंवः पञ्च इति सर्गः समासन् । इत्येष पवमानो वै प्राणिनां जीवितानि तु ॥ ५० नदविगसमायुक्तं कालो धावति संहरन् । अहोरात्रकरस्तस्मात्स वायुरभवत्पुनः ॥ ५१ ऐते प्रजानां पतयः प्रधानाः सर्वदेहिनाम् । पितरः सर्वलोकानां लोकात्मानः प्रकीर्तिताः ॥ ५२ ध्यायतो ब्रह्मणो वक्त्रादुदन्समभवद्भवः । ऋषिर्विप्रो महादेवो भूतात्मा प्रपितामहः ॥ ५३ ईश्वरः सर्वभूतानां प्रणवायोपपद्यते । आत्मवेशन भूतानामङ्गप्रत्यङ्गसंभवः ॥ ५४ अग्निः संवत्सरः सूर्यश्चन्द्रमा वायुरेव च । युगाभिमानी कालात्मा नित्यं संक्षेपऋद्धिभुः ॥ उन्मादकोऽनुग्रहकृत्स इद्वत्सर उच्यंत ॥ ५५
१०४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ३१-३२ श्लो० ५६-६१। १-१५] ( युगधर्माः )
रुद्राविष्टो भगवता जगत्यस्मिन्स्वतेजसा । आश्रयाश्रयसंयोगात्तनुभिर्नामभिस्तथा ॥ ५६
ततस्तस्य तु वीर्येण लोकानुग्रहकारकम् । द्वितीयं भद्रसंयोगं गतं तस्यैककारकम् ॥ ५७
देवत्वं च पितृत्वं च कालत्वं चास्य यत्परम् । तस्माद्वै सर्वथा भद्रस्तद्वद्भिर्ह्यभिपूर्ज्यते ॥ ५८
पतिः पतीनां भगवान्प्रजेशानां प्रजापतिः । भवनः सर्वभूतानां सर्वेषां नीललोहितः ॥
ओषधीः प्रतिसंधत्ते रुद्रः क्षीणाः पुनः पुनः । ॥ ५९
इत्येषां यदपत्यं वै न तच्छक्यं प्रमाणतः । बहुत्वत्पारिसंख्यातुं पुत्रपौत्रमनन्तकम् ॥ ६०
इमं वंशं प्रजेशानां महतां पुण्यकर्मणाम् । कीर्तयन्स्थिरकीर्तीनां महतीं सिद्धिमप्नुयात् ॥ ६१
इति श्रीमहापुराणे वायुप्रोक्ते देववंशवर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
आदितः श्लोकानां समष्ट्यङ्काः-२५०८
अथ द्वात्रिंशोऽध्यायः ।
युगधर्माः ।
वायुरुवाच-
अत ऊर्ध्वं प्रवक्ष्यामि प्रणवस्य विनिश्चयम् । ओंकारमक्षरं ब्रह्म त्रिवर्णं चाऽऽदितः स्मृतम् ॥ १
यो यो यस्य यथा वर्णो विहितो देवतास्तथा । ऋचो यजूंषि सामानि वायुराभिस्तथाऽऽ*लम् ॥ २
तस्मात्तु अक्षरादेव पुनरन्ये प्रजज्ञिरे । चतुर्दश महात्मानो देवानां ये तु देवताः ॥ ३
तेषु सर्वगतश्चैव सर्वगः सर्वयोगवित् । अनुग्रहाय लोकानामादिमध्यान्त उच्यते ॥ ४
सप्तर्षयस्तथेन्द्रा ये देवाश्च पितृभिः सह । अक्षरान्निःसृताः सर्वे देवदेवान्महेश्वरात् ॥ ५
इहामुत्र हितार्थाय वदन्ति परमं परम् । पूर्वमेव मयोक्तस्ते कालस्तु युगसंज्ञितः ॥ ६
कृतं त्रेता द्वापरं च युगादिः कालिना सह । परिवर्तमानैस्तैरेव भ्रममाणेषु चक्रवत् ॥ ७
देवतास्तु तदोद्विग्नाः कालस्य वशमागताः । न शक्नुवन्ति तन्मानं संस्थापयितुमात्मना ॥ ८
तदा ते वाग्यता भूत्वा आदौ मन्वन्तरस्य वै । ऋषयश्चैव देवाश्च इन्द्रश्चैव महातपाः ॥ ९
समाधाय मनस्तीव्रं सहस्रं परिवत्सरान् । प्रपन्नास्ते महादेवं भीताः कालस्य वै तदा ॥ १०
अयं हि कालो देवेशश्चतुर्मूत्तिश्चतुर्मुखः । कोऽस्य विद्यान्महादेव अगाधस्य महेश्वर ॥ ११
अथ दृष्ट्वा महादेवस्तंतु कालं चतुर्मुखम् । न भेतव्यमिति प्राह को वः कामः प्रदीयताम् ॥ १२
तत्करिष्याम्यहं सर्वं न वृथाऽयं परिश्रमः । उवाच देवो भगवान्स्वयं कालः सुदुर्जयः ॥ १३
यदेतस्य मुखं श्वेतं चतुर्जिह्वं हि लक्ष्यते । एतत्कृतयुगं नाम तस्य कालस्य वै मुखम् ॥
असौ देवः सुरश्रेष्ठो ब्रह्मा वैवस्वतो मुखः ॥ १४
यदेतद्रक्तवर्णाभं तृतीयं वः स्मृतं मया । त्रिजिव्हं लेलिहानं तु एतत्रेता युगं द्विजाः ॥ १५
* नात्राध्यायपरिसमाप्तिः ख. पुस्तके । ÷ जलमित्यन्तेऽध्यायपरिसमाप्तिर्दृश्यते ख. पुस्तके ।
[अ०३२श्लो०१६--४०] वायुराणम् । १०५ ( युगधर्माः ) अत्र यज्ञप्रवृत्तिस्तु जायते हि महेश्वरात् । ततोऽत्र इज्यते यज्ञस्तिस्रो जिह्वास्त्रयोऽग्नयः ॥ इष्ट्वा चैवाग्नयो विप्राः कालजिह्वा प्रवर्तते ॥ १६ यदेतद्वै मुखं भीमं द्विजह्वं रक्तपिङ्गलम् । द्विपादोऽत्र भविष्यामि द्वापरं नाम तद्युगम् ॥ १७ यदेतत्कृष्णवर्णामं तुरीयं रक्तलोचनम् । एकजिह्वं पृथु श्यामं लेलिहानं पुनः पुनः ॥ १८ ततः कलियुगं घोरं सर्वलोकभयंकरम् । कल्पस्य तु मुखं ह्येतच्चतुर्थं नाम भीषणम् ॥ १९ न सुखं नापि निर्वाणं तस्मिन्भवति वै युगे । कालग्रस्ता प्रजा चापि युगे तस्मिन्भविष्यति ॥ २० ब्रह्मा कृतयुगं पूज्यस्त्रेतायां यज्ञ उच्यते । द्वापरे पूज्यते विष्णुरहं पूज्यश्चतुर्ष्वपि ॥ २१ ब्रह्मा विष्णुश्च यज्ञश्च कालस्यैव कलास्त्रयः । सर्वेष्वेव हि कालेषु चतुर्मूर्तिर्महेश्वरः ॥ २२ अहं जनो जनयिता वः कालः कालप्रवर्तकः । युगकर्ता तथा चैव परं परपरायणः ॥ २३ तस्मात्कलियुगं प्राप्य लोकानां हितकारणात् । अभयार्थं च देवामानुभयोर्लोकयोरपि ॥ २४ तदा भवश्च पूज्यश्च भविष्यामि सुरोत्तमाः । तस्माद्भयं न कार्यं च कालिं प्राप्य महौजसः ॥ २५ एवमुक्तास्ततः सर्वा देवता ऋषिभिः सह । प्रणम्य शिरसा देवं पुनरूचुर्जगत्पतिम् ॥ २६ देवर्षय ऊचुः-- महातेजा महाकायो महावीर्यो महाद्युतिः । भीषणः सर्वभूतानां कथं कालश्चतुर्मुखः ॥ २७ महादेवं उवाच-- 'एष कालश्चतुर्मूर्तिश्चतुर्दंष्ट्रश्चतुर्मुखः । लोकसंरक्षणार्थाय अतिक्रामति सर्वशः ॥ २८ नासाध्यं विद्यते चास्य सर्वस्मिन्सचराचरे । कालः सृजति भूतानि पुनः संहरति क्रमात् ॥ २९ सर्वे कालस्य वशगा न कालः कस्यचिद्वशे । तस्मात्तु सर्वभूतानि कालः कलयते सदा ॥ ३० विक्रमस्य पदान्यस्य पूर्वोक्तान्येकसप्ततिः । तानि मन्वन्तराणिह परिवृत्तयुगक्रमात् ॥ ३१ एकं पदं परिक्रम्य पदानामेकसप्ततिः । यदा कालः प्रक्रमते तदा मन्वन्तरक्षयः ॥ ३२ एवमुक्त्वा तु भगवान्देवर्षिपितृदानवान् । नमस्कृतश्च तैः सर्वैस्तत्रैवान्तरधीयत ॥ ३३ एवं स कालो भगवान्देवर्षिपितृदानवान् । पुनः पुनः संहरते सृजते च पुनः पुनः ॥ ३४ अतो मन्वन्तरे चैव देवर्षिपितृदानवैः । पूज्यते भगवानीशो भयात्कालस्य तस्य वै ॥ ३५ तस्मात्सर्वप्रयत्नेन कलौ कुर्यात्तपो द्विजाः । प्रपन्नस्य महादेवं तस्य पुण्यफलं महत् ॥ तस्माद्देवा दिवं गत्वा अवतीर्य च भूतले ॥ ३६ ऋषयश्चैव देवाश्च कलिं प्राप्य सुदारुणम् । तप इच्छन्ति भूयिष्ठं कर्तुं धर्मपरायणाः ॥ ३७ अवतारान्कालिं प्राप्य करोति च पुनः पुनः ॥ एवं कालान्तरे सर्वे येऽतीता वै सहस्रशः । वैवस्वतेऽन्तरे तस्मिन्देवान्देवराजर्षयस्तथा ॥ ३८ देवापिः पौरवो राजा मनुश्चैक्ष्वाकुवंशजाः । महायोगबलोपेताः कालान्तरमुपासते ॥ ३९ क्षीणे कलियुगे तस्मिंस्तिष्ये त्रेतायुगे कृते । सप्तर्षिभिश्चैव सार्धं भाव्ये त्रेतायुगे पुनः ॥ गोत्राणां क्षत्रियाणां च भविष्यास्ते प्रकीर्तिताः ॥ ४० १४
१०६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०३२श्लो०४१-६६] ( युगधर्माः )
द्वापरान्ते प्रतिष्ठन्ते क्षत्रिया ऋषिभिः सह । कृते त्रेतायुगे चैव तथा क्षीणे च द्वापरे ॥ ४१ [*ब्रह्मक्षत्रस्य चोच्छेदा द्विजाथार्य कलौ स्मृताः । एवमेतेषु सर्वेषु युगेषु क्रमशस्तथा ॥ ४२ सप्तर्षिभिस्तथा सार्धं संतानार्थं युगे युगे । एवं क्षत्रस्य चोच्छेदाः संबन्धाद्वै द्विजैः स्मृताः ] +नराः पातकिनो ये वै वर्तन्ते ते कलौ स्मृताः ॥ ४३ मन्वन्तराणां सप्तानां सान्तानार्था श्रुतिः स्मृतिः । एवमेतेषु सर्वेषु युगक्षयक्रमस्तथा ॥ ४४ परस्परं युगानां च ब्रह्मक्षत्रस्य चोद्भवः । यथा वै प्रकृतिस्तेभ्यः प्रवृत्तानां यथाक्षयम् ॥ ४५ जामदग्न्येन रामेण क्षत्रे निरवशेषिते । क्रियन्ते कुलटाः सर्वाः क्षत्रियैर्वसुधाधिपैः ॥ दिवंगतानहं तुभ्यं कीर्तयिष्ये निबोधत ॥ ४६ ऐडमैक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते । राजानः श्रोणिवन्धास्तु तथाऽन्ये क्षत्रिया भुवि ॥ ४७ ऐडवंशेऽथ संभूतास्तथा चैक्ष्वाकवो नृपाः । तेभ्य एव शतं पूर्णं कुलानाामभिषेचितम् ॥ ४८ तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः । भोजं तु त्रिशतं क्षत्रं चतुर्था तद्यथादिशम् ॥ ४९ तेष्वतीतास्तु राजानो ब्रुवतस्तान्निबोधत । शतं वै प्रतिविन्ध्यानां हैहयानां तथा शतम् ॥ ५० धार्तराष्ट्रास्त्वेकशतमशीतिर्जनमेजयाः । शतं वै ब्रह्मदत्तानां कुलानां वीर्यिणां शतम् ॥ ५१ ततः शतं तु पौलानां शतं काशिकुशादयः । तथाऽपरं सहस्रं तु येऽतीताः शशबिन्दवः ॥ ईजानास्तेऽश्वमेधैस्तु सर्वे नियुतदक्षिणैः ॥ ५२ [×एवं राजर्षयोऽतीताः शतशोऽथ सहस्रशः । मनोर्वैवस्वतस्येह वर्तमानेऽन्तरे शुभे ॥ ५३ पुनरुक्तबहुत्वाच्च न शक्यं विस्तरेण तु । ]÷एवं संक्षेपतः प्रोक्ता न शक्या विस्तरेण तु ॥ वक्तुं राजर्षयः कृत्स्ना येऽतीतास्तैर्युगैः सह ॥ ५४ एते ययातिवंशस्य बभूवुर्वंशवर्धनाः । कीर्तिता द्युतिमन्तस्ते ये लोकान्धारयन्ति वै ॥ ५५ लभन्ते च वरान्पञ्च दुर्लभान्ब्रह्मलौकिकान् । आयुः पुत्रा धनं कीर्तिमैश्वर्यं भूतिरेव च ॥ ५६ धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य धीमताम् । यथोक्ता लौकिकाश्चैव ब्रह्मलोकं व्रजन्ति वै ॥ ५७ चत्वार्याहुः सहस्राणि वर्षाणां च कृतं युगम् । तस्य तावच्छती संध्या संध्यांशश्च तथाविधः ॥ ५८ कृते वै प्रक्रियापादश्चतुःसाहस्र उच्यते । तस्माच्चतुःशतं संध्या संध्यांशश्च तथाविधः ॥ ५९ त्रेता त्रीणि सहस्राणि संख्यया मुनिभिः सह । तस्यापि त्रिशती संध्या संध्यांशस्त्रिशतः स्मृतः अनुषङ्गपादस्त्रेतायांस्त्रिसाहस्रस्तु संख्यया । द्वापरे द्वे सहस्रे तु वर्षाणां संप्रकीर्तितम् ॥ ६१ तस्यापि द्विशती संध्या संध्यांशो द्विशतस्तथा । उपोद्घातस्तृतीयस्तु द्वापरे पाद उच्यते ॥ ६२ कलिं वर्षसहस्रं तु प्राऽऽहुः संख्याविदो जनाः । तस्यापि शतिका संध्या संध्यांशः शतेमेव च संहारपादः संख्यातश्चतुर्थो वै कलौ युगे । ससंध्यानि सहस्राणि चत्वारि तु युगानि वै ॥ ६४ एतद्द्वादशसाहस्रं चतुर्युगमिति स्मृतम् । एवं पादैः सहस्राणि श्लोकानां पञ्च पञ्च च ॥ ६५ संध्यासन्ध्यांशकैरेव द्वे सहस्रे तथाऽपरे । एवं द्वादशसाहस्रं पुराणं कवयो विदुः ॥ ६६
- धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति । + इदमर्धं ख. ग. घ. ङ. पुस्तकेषु नास्ति ।
× धनुश्चिह्नान्तर्गतग्रन्थ. क. पुस्तके नास्ति । ÷ इदमर्धं नास्ति क. ग. घ. ङ. पुस्तकेषु ।
[अ० ३२-३३ श्लो० ६७ १-१८] वायुपुराणम् । १०७ ( स्वायंभुववंशवर्णनम् ) यथा वेदश्चतुष्पादश्चतुष्पादं तथा युगम् । यथा युगं चतुष्पादं विधात्रा विहितं स्वयम् ॥ चतुष्पादं पुराणं तु ब्रह्मणा विहितं पुरा ॥ इति श्रीमहापुराणे वायुप्रोक्ते युगधर्मनिरूपणं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ आदितः श्लोकानां समष्ट्यङ्काः--२५७५
अथ त्रयस्त्रिंशोऽध्यायः ।
स्वायंभुववंशवर्णनम् ।
सूतउवाच-- मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह । तुल्याभिमानिनः सर्वे जायन्ते नामरूपतः ॥ १ देवाश्च विविधा ये च तस्मिन्वन्तरेऽधिपाः । ऋषयो मनवश्चैव सर्वे तुल्याभिमानिनः ॥ २ महर्षिसर्गः प्रोक्तो वै वंशं स्वायंभुवस्य तु । विस्तरेणानुपूर्व्या च कीर्त्यमानं निबोधत ॥ ३ मनोः स्वायंभुवस्याऽऽसन्दश पौत्रास्तु तत्समाः । यैरियं पृथिवी सर्वा सप्तद्वीपसमन्विता ॥ ४ ससमुद्रा करवती प्रतिवर्षं निवेशिता । स्वायंभुवेऽन्तरे पूर्वमाद्ये त्रेतायुगे तदा ॥ ५ प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायंभुवस्य तु । प्रजासर्गतपोयोगैस्तैरियं विनिवेशिता ॥ ६ प्रियव्रतात्मजावन्तौ वीरात्कन्या व्यजायत । कन्या सा तु महाभागा कर्दमस्य प्रजापतेः ॥ ७ कन्ये द्वे शतपुत्राश्च सम्राट्कुक्षिश्च ते उभे । तयोर्वै भ्रातरः शूराः प्रजापतिसमा दश ॥ ८ अग्नीध्रश्च वपुष्मांश्च मेधा मेधातिथिर्विभुः । ज्योतिष्मान्द्युतिमान्हव्यः सवनः सर्व एव च ॥ ९ प्रियव्रतोऽभिषिच्यैतान्सप्तसप्तसु पार्थिवान् । द्वीपेषु तेषु धर्मेण दीप्तांस्तांश्च निबोधत ॥ १० जम्बूद्विपेश्वरं चक्रे अग्नीध्रं तु महाबलम् । प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥ ११ शाल्मलौ तु वपुष्मन्तं राजानमभिषिक्तवान् । ज्योतिष्मन्तं कुशद्वीपेश्वरं राजानं कृतवान्प्रभुः ॥ १२ द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् । शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः ॥ १३ पुष्कराधिपतिं चापि सधिनं कृतवान्प्रभुः । पुष्करे सवनस्यापि महावीतः सुतोऽभवत् ॥ धातकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ ॥ १४ महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः । नाम्ना तु धातकेश्चापि धातकीखण्ड उच्यते ॥ १५ हव्यो व्यजनयत्पुत्राञ्छाकद्वीपेश्वरान्प्रभुः । जलदं च कुमारं च सुकुमारं मणीचकम् ॥ वसुमोदं सुमोदाकं सप्तमं च महाद्रुमम् ॥ १६ जलदं जलदस्याथ वर्षं प्रथममुच्यते । कुमारस्य च कौमारं द्वितीयं परिकीर्तितम् ॥ १७ सुकुमारं तृतीयं तु सुकुमारस्य कीर्तितम् । मणीचकस्य चतुर्थं मणीचकमिहोच्यते । १८
१०८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०३३श्लो०१९-४०]
( स्वायंभुववंशवर्णनम )
वसुमोदस्य वै वर्षं पञ्चमं वसुमोदकम् । मोदकस्य तु मोदाकं वर्षं षष्ठं प्रकीर्तितम् ॥ १९
महाद्रुमस्य नाम्ना तु सप्तमं तु महाद्रुमम् । एषां तु नामभिस्तानि सप्तवर्षाणि तत्र वै ॥ २०
क्रौञ्चद्वीपेश्वरस्यापि पुत्रा द्युतिमतस्तु वै । [*कुशला मनुगश्चोष्णः पीवरश्चान्धकारकः ॥
मुनिश्च दुन्दुभिश्चैव सुता द्युतिममस्तु वै । ] २१
तेषां स्वनामभिर्देशाः क्रौञ्चपीपाश्च याः शुभाः । उष्णस्योष्णः स्मृतो देशः पीवरस्यापि पीवरः॥ २२
अन्धकारकदेशस्तु अन्धकारश्च कीर्त्यते । मुनेस्तु मुनिदेशो वै दुन्दुभेर्दुन्दुभिः स्मृतः ॥
एते जनपदाः सप्त क्रौञ्चद्वीपे तु भास्वराः ॥ २३
ज्योतिष्मतः कुशद्वीपे सप्तैते सुमहौजसः । उद्भिदो वेणुमांश्चैव स्वैरथो लवणो धृतिः ॥
षष्ठः प्रभाकरश्चैव सप्तमः कपिलः स्मृतः ॥ २४
उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् । तृतीयं स्वैरथाकारं चतुर्थं लवणं स्मृतम् ॥ २५
पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम् । सप्तमं कपिलं नाम कपिलस्य प्रकीर्तितम् ॥ २६
तेषां द्वीपाः कुशद्वीपे तत्सनामान एव तु । आश्रमाचारयुक्ताभिः प्रजाभिः समलंकृताः ॥ २७
शाल्मल्येश्वराः सप्त पुत्रास्ते तु वपुष्मतः । श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ॥
वैद्युतो मानसश्चैव सुप्रभः सप्तमस्तथा ॥ २८
श्वेतस्य श्वेतदेशस्तु रोहितस्य च रोहितः । जीमूतस्य च जीमूतो हरितस्य च हारितः ॥ २९
वैद्युतो वैद्युतस्यापि मानसस्यापि मानसः । सुप्रभः सुप्रभस्यापि सप्तैते देशपालकाः ॥ ३०
सप्तद्वीपे तु वक्ष्यामि जम्बुद्वीपादनन्तरम् । सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरा नृपाः ॥ ३१
ज्येष्ठः शान्तभयस्तेषां सप्तवर्षाणि तानि वै । तस्माच्छान्तभयाच्चैव शिशिरस्तु सुखोदयः ॥
आनन्दश्च ध्रुवश्चैव क्षेमकश्च शिवस्तथा ॥ ३२
तानि तेषां सनामानि सप्तवर्षाणि भागशः । निवेशितानि तैस्तानि पूर्वे स्वायंभुवेऽन्तरे ॥ ३३
मेधातिथेस्तु पुत्रैस्तैः सप्तद्वीपनिवासिभिः । वर्णाश्रमाचारयुक्ताः प्लक्षद्वीपे प्रजाः कृताः ॥ ३४
प्लक्षद्वीपादिकेष्वेव शाकद्वीपान्तरेषु वै । ज्ञेयः पञ्चसु धर्मो वै वर्णाश्रमविभागशः ॥ ३५
सुखमायुश्च रूपं च बलं धर्मश्च नित्यशः । पञ्चस्वेतेषु द्वीपेषु सर्वं साधारणं स्मृतम् ॥ ३६
सप्तद्वीपपरिक्रान्तं जम्बुद्वीपं निबोधत । अग्नीध्रं ज्येष्ठदायादं कन्यापुत्रं महाबलम् ॥
प्रियव्रतोऽभ्यषिञ्चत्तं जम्बुद्वीपेश्वरं नृपम् ॥ ३७
तस्य पुत्रा बभूवुर्हि प्रजापतिसमौजसः । ज्येष्ठो नाभिरितिख्यातस्तस्य किम्पुरुषोऽनुजः ॥ ३८
हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः । रम्यः स्यात्पञ्चमः पुत्रो हरिण्मन्षष्ठ उच्यते ॥ ३९
कुरुस्तु सप्तमस्तेषां भद्राश्वो ह्यष्टमः स्मृतः । नवमः केतुमालस्तु तेषां देशान्निबोधत ॥ ४०
* धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति ।
गन्धमादनवर्षं तु केतुमाले न्यवेदयत् । इत्येतानि महान्तीह नव वर्षाणि भागशः ॥ ४५
[अ० ३३ श्लो० ४१-६३] वायुपुराणम् । १०९
( स्वायंभुववंशवर्णनम् )
नाभेस्तु दक्षिणं वर्षं हिमाह्वं तु पिता ददौ । हेमकूटं तु यद्वर्षं ददौ किं पुरुषाय तत् ॥ ४१ नैषधं यत्स्मृतं वर्षं हरिवर्षाय तद्ददौ । मध्यमं यत्सुमेरोस्तु स ददौ तदिलावृते ॥ ४२ नीलं तु यत्स्मृतं वर्षं रम्यायैऽत्पिता ददौ । श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हरिण्मते ॥ ४३ यदुत्तरं शृङ्गवतो वर्षं तत्कुरवे ददौ । वर्षं माल्यवतं चापि भद्राश्वाय न्यवेदयत् ॥ ४४ गन्धमादनवर्षं तु केतुमाले न्यवेदयत् । इत्येतानि महान्तीह नव वर्षाणि भागशः ॥ ४५ अग्नीध्रस्तेषु सर्वेषु पुत्रांस्तानभ्यषिञ्चत । यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः ॥ ४६ इत्येतैः सप्तभिः कृत्स्नाः सप्तद्वीपा निवेशिताः । प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायंभुवस्य तु ॥ ४७ यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ शुभानि तु । तेषां स्वभावतः सिद्धिः सुखप्राया ह्ययत्नतः ॥ ४८ विपर्ययो न तेष्वस्ति जरामृत्युभयं न च । धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥ न तेष्वस्ति युगावस्था क्षेत्रेष्वेव तु सर्वशः ॥ ४९ नाभेर्हि सर्गं वक्ष्यामि हिमाह्वे तान्निबोधत । नाभिस्त्वजनयत्पुत्रं मरुदेव्यां महाद्युतिः ॥ ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् ॥ ५० ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः । सोऽभिषिच्याथ भरतः पुत्रं प्राव्राज्यमास्थितः ॥ ५१ हिमाह्वं दक्षिणं वर्षं भरताय न्यवेदयत् । तस्मात्तद्भारतं वर्षं तस्य नाम्ना विदुबुर्धाः ॥ ५२ भरतस्याऽऽत्मजो विद्वान्सुमतिर्नाम धार्मिकः । बभूव तस्मिंस्तद्राज्यं भरतः संन्ययोजयत् ॥ पुत्रसंक्रामितश्रीको वनं राजा विवेश सः ॥ ५३ तैजसस्तत्सुतश्चापि प्रजापतिरमित्राजित् । तैजसस्याऽऽत्मजो विद्वानिन्द्रद्युम्न इति श्रुतः ॥ ५४ परमेष्ठी सुतस्याथ निधने तस्य शोभनः । प्रतीहारः तस्य कुले तस्य नाम्ना जज्ञे तदन्वयात् । प्रतिहर्तेति विख्यातो जज्ञे तस्यापि धीमतः ॥ ५५ उन्नेता प्रतिहर्तुस्तु भुवस्तस्य सुतः स्मृतः । उद्गीथस्तस्य पुत्रोऽभूत्प्रताविश्चापि तत्सुतः ॥ ५६ प्रतावेस्तु विभुः पुत्रः पृथुस्तस्य सुतो मतः । पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः स्मृतः ॥ ५७ गयस्य तु नरः पुत्रो नरस्यापि सुतो विराट् । विराट्सुतो महावीर्यो धीमांस्तस्य सुतोऽभवत् ॥ ५८ धीमतश्च महान्पुत्रो महतश्चापि भौवनः । भौवनस्य सुतस्त्वष्टा अरिजस्तस्य चाऽऽत्मजः ॥ ५९ अरीजस्य रजः पुत्रः शतजिद्रजसो मतः । तस्य पुत्रशतं त्वासद्विप्राजानः सर्व एव ते ॥ ६० विश्वज्योतिष्प्रधाना यैस्तैरिमा वर्धिताः प्रजाः । तैरियं भारतं वर्षं (*सप्तखण्डं कृतं पुरा ॥ ६१ तेषां वंशप्रसूतैस्तु भुक्तेयं भारती धरा । कृतत्रेतादियुक्तानि युगाख्यानेकसंप्लुतिः ॥ ६२ येऽतीतास्तैर्युगैः सार्धं राजानस्ते तदन्वयाः । स्वायंभुवेऽन्तरे पूर्वं ) शतशोऽथ सहस्रशः ॥ ६३
* धनुश्चिह्नान्तर्गतग्रन्थः ङ. पुस्तके नास्ति ।
११० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ३३-३४ श्लो० ६४-६५-१-१६] (जम्बूद्वीपवर्णनम्)
एष स्वायंभुवः सर्गो येनेदं पूरितं जगत् । ऋषिभिर्दैवतैश्चापि पितृगन्धर्वराक्षसैः ॥ ६४ यक्षभूतपिशाचैश्च मनुष्यमृगपक्षिभिः । तेषां सृष्टिरियं लोके युगैः सह विवर्तते ॥ ६५ इति महापुराणे वायुप्रोक्ते स्वायंभुववंशानुकीर्तनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ आदितः श्लोकानां समष्ट्यङ्काः- २६४०
अथ चतुस्त्रिंशोऽध्यायः । जम्बूद्वीपवर्णनम् ।
ऋषय ऊचुः- एवं प्रजासंनिवेशं श्रुत्वा च ऋषिपूंगवः । पप्रच्छ निपुणः सूतं पृथिव्यायामविस्तरौ ॥ १ कति द्वीपाः समुद्रा वा पर्वताश्च कति प्रभो । कियन्ति चैव वर्षाणि तेषु नद्यश्च का स्मृताः ॥ २ महाभूतप्रमाणं च लोकालोकौ तथैव च । पर्यायपारिमाण्यं च गतिश्चन्द्राकयोस्तथा ॥ [*एतत्प्रब्रूहि नः सर्वं विस्तरेण यथा तथा ॥ ३
सूत उवाच- अत ऊर्ध्वं प्रवक्ष्यापि पृथिव्यायामविस्तरम् । संख्यां चैव समुद्राणां द्वीपानां चैव विस्तरम् ॥ ४ यावन्ति चैव वर्षाणि तेषु नद्यश्च याः स्मृताः । महाभूतप्रमाणं च लोकालोकौ तथैव च ॥ पर्यायपारिमाण्यं च गतिश्चन्द्राकयोस्तथा ] ॥ ५ द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि वै । न शक्यन्ते प्रमाणेन वक्तुं वर्षशतैरपि ॥ ६ सप्तद्वीपं तु वक्ष्यामि चन्द्रादित्यग्रहैः सह । येषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ ७ अचिन्त्याः खलु ये भावा न तांस्तर्केण भावयेत् । प्रकृतिभ्यः परं यच्च तन्नित्यं च प्रचक्ष्य(क्ष)ते नववर्षं प्रवक्ष्यामि जम्बूद्वीपं यथा तथा । विस्तरान्मडलाच्चैव योजनैस्तन्निबोधत ॥ ९ शतमेकं सहस्राणां योजनानां प्रमाणतः । नानाजनपदाकीर्णैः पुरैश्च विविधैः शुभैः ॥ १० सिद्धचारणगन्धर्वपर्वतैश्चोपशोभितम् । सर्वधातुनिबद्धैश्च शिलाजालसमुद्भवैः ॥ पर्वतप्रभवाभिश्च नदीभिः पर्वतैस्तथा ॥ ११ जम्बूद्वीपः पृथुः श्रीमान्सर्वतः परिवारितः । नवाभिश्चाऽऽवृतः सर्वैर्भुवनैर्भूतभावनैः ॥ (+लावणेन समुद्रेण सर्वतः परिवारितः ॥ ) १२ जम्बूद्वीपस्य विस्तारात्समेन तु समंततः । प्रागायताः सुपर्वाणः षडिमे वर्षपर्वताः ॥ अवगाढा उभयतः समुद्रौ पूर्वपश्चिमौ ॥ १३ हिमप्रायश्च हिमवान्हेमकूटश्च हेमवान् । तरुणादित्यवर्णाभो हैरण्यो निषधः स्मृतः ॥ १४ चातुर्वर्णस्तु सौवर्णो मेरुश्चोच्चतमः स्मृतः । प्लुताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः ॥ १५ नानावर्णस्तु पार्श्वेषु प्रजापतिगुणान्वितः । नाभिबन्धनसंभूतो ब्रह्मणोऽव्यक्तजन्मनः ॥ १६
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । +इदमर्धं नास्ति ख. घ. पुस्तकयोः ।
[अ० ३४ श्लो० १७-३७] वायुपुराणम् । १११
( जम्बूद्वीपवर्णनम् )
पूर्व्वतः श्वेतवर्णोऽसौ ब्राह्मण्यं तस्य तेन तत् । पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ॥ १७ भृङ्गपत्रनिभश्चासौ पश्चिमेन महाबलः । तेनास्य शूद्रता दृष्टा मेरोनानार्थकारणात् ॥ १८ पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः । तेनास्य क्षत्रता च स्यादिति वर्णाः प्रकीर्तिताः ॥ व्यक्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ॥ १९ नीलश्च वैदूर्यमयः श्वेतशृङ्गो हिरण्मयः । मयूरबर्हवर्णस्तु शातकौम्भस्तु शृङ्गवान् ॥ २० एते पर्वतराजानः सिद्धचारणसेविताः । तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ॥ २१ मध्ये त्विलावृतं यस्तु महामेरोः समन्ततः । नवैव तु सहस्राणि विस्तीर्णः पर्वतस्तु सः ॥ मध्ये तस्य महामेरोर्निर्धूम इव पावकः ॥ २२ वेद्यर्धं दक्षिणं मेरोरुत्तरार्धं तथोत्तरम् । वर्षाणि यानि सप्तात्र तेषां ये वर्षपर्वताः ॥ २३ द्वे द्वे सहस्रे विस्तीर्णा योजनानि समुच्छ्रवात् ॥ २४ जम्बूद्वीपस्य विस्तारात्तेषामायाम उच्यते । योजनानां सहस्राणि शते द्वे मध्यमौ गिरी ॥ २५ नीलश्च निषधश्चैव ताभ्यां हीनास्तु येऽपरे । श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांश्च यः ॥ २६ नवतिर्द्धावशीतिद्वौ सहस्राण्यायतास्तु ये । तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै ॥ संपातविषमैस्तैस्तु पर्वतैरावृतानि च । संततानि नदीभेदैरगम्यानि परस्परम् ॥ २७ वसन्ति तेषु सत्त्वानि नानाजातीनि भागशः ॥ २८ इदं हैमवतं वर्षं भारतं नाम विश्रुतम् । हेमकूटं परं तस्मान्नाम्ना किंपुरुषं स्मृतम् ॥ २९ नैषधं हेमकूटं तु हरिवर्षं तदुच्यते । हरिवर्षात्परं चैव मेरोश्च तदिलावृतम् ॥ इलावृतप(तात्प)रं नीलं रम्यकं नाम विश्रुतम् । रम्यात्परतरं श्वेतं विश्रुतं तद्धिरण्मयम् ॥ ३० हिरण्मयात्परं चापि शृङ्गवांस्तु कुरु स्मृतम् ॥ ३१ धनुःसंस्थे च विज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृतम् ॥ अर्वाक्च निषधस्याथ वेद्यर्धं दक्षिणं स्मृतम् । परं नीलवतो यच्च वेद्यर्धं तु तदुत्तरम् ॥ ३२ वेद्यर्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ॥ ३३ तयोर्मध्ये तु विज्ञेयं मेरुमध्यमिलावृतम् । दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥ उदगायतो महाशैलो माल्यवान्नाम पर्वतः । योजनानां सहस्रोरुरानीलनिषधा यतः ॥ ३४ [*आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः ॥ तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः । आयामादथ विस्तारान्माल्यवानिति विश्रुतः ] ॥ ३५ परिमण्डलयोर्मध्ये मेरुस्तनपर्वतः । चतुर्वर्णः सुसौवर्णश्चतुरस्रः समुच्छ्रितः ॥ ३६ अव्यक्ता धातवः सर्वे समुत्पन्ना जलादयः ॥ अव्यक्तात्पृथिवीपद्मं मेरुर्वैपर्वतकर्णिकम् । चतुष्पथं समुत्पन्नं व्यक्तं पञ्चगुणं महत् ॥ ३७
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
११२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ३४ श्लो० ३८–६३] (जम्बूद्वीपवर्णनम्)
ततः सर्वाः समुत्पन्ना वृत्तयो द्विजसत्तमाः । नैककल्पार्जितैः पुण्यैर्विविधैः प्रागुपार्जितैः ॥ ३८ कृतात्मभिर्विनीतात्मा महात्मा पुरुषोत्तमः । महादेवो महायोगी जगज्ज्येष्ठो महेश्वरः ॥ सर्वलोकगतोऽनन्तो ह्यमूर्तित्वादजायत ॥ ३९ न तस्य प्राकृता मूर्तिमंसमेदोऽस्थिसंभवा । योगाच्चैवेश्वरत्वाच्च सर्वात्मा(त्म)गत एव सः ॥ ४० तन्निमित्तं समुत्पन्नं लोकपद्मं सनातनम् । कल्पशेषस्य तस्याऽऽदौ कालस्य गतिरीदृशी ॥ ४१ तस्मिन्पद्मे समुत्पन्नो देवदेवश्चतुर्मुखः । प्रजापतिपतिर्ब्रह्मा ईशानो जगतः प्रभुः ॥ ४२ तस्य बीजनिसर्गो हि पुष्करस्य यथार्थवत् । कृत्स्नः प्रजानिसर्गेण विस्तरेणेह कथ्यते ॥ ४३ यदब्जं वैष्णवं कार्यं ततस्तन्नाभितोऽभवत् । पद्माकारा समुत्पन्ना पृथिवी सवनद्रुमा ॥ ४४ तदस्य लोकपद्मस्य विस्तरेण प्रकाशितम् । वर्णमानं विभागेन क्रमशः शृणुत द्विजाः ॥ ४५ महाद्वीपास्तु विख्याताश्चत्वारः पत्रसंस्थिताः । ततः कर्णिकसंस्थानो मेरुर्नाम महाबलः ॥ ४६ नानावर्णेषु पार्श्वेषु पूर्वतः श्वेत उच्यते । पीतं तु दक्षिणं तस्य शृङ्गं कृष्णं तथाऽपरम् ॥ ४७ उत्तरं तस्य रक्तं वै शोभिवर्णसमन्वितम् । मेरुस्तु शोभते शुभ्रो राजवत्स तु धिष्ठितः ॥ ४८ तरुणादित्यवर्णाभो विधूम इव पावकः । चतुरशीतिसाहस्र उत्सेधेन प्रकीर्तितः ॥ ४९ प्रविष्टः षोडशाधस्ताद्विस्तृतस्तावदेव तु । स शरावास्थितः पूर्वं द्वात्रिंशन्मूर्धिन विस्तृतः ॥ ५० विस्तारात्रिगुणश्चास्य परिणाहः समन्ततः । [*मण्डलेन प्रमाणेन त्र्यस्रेऽर्धं तु तदिष्यते ॥ ५१ चत्वारिंशलसहस्राणि योजनानां+] समन्ततः । अष्टाभिरधिकानि स्युःस्त्र्यस्रे मानं प्रकीर्तितम् ॥ ५२ चतुरस्रेण मानेन परिणाहः समन्ततः । ] चतुःषष्टिः सहस्राणि योजनानां ] विधीयते ॥ ५३ स पर्वतो महान्दिव्यो दिव्योपधिसमन्वितः । नैवभुरावृतः सर्वो जातरूपमयैः शुभैः ॥ ५४ तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः । शैलराजे प्रदश्यन्ते शुभाश्चाप्सरसां गणाः ॥ ५५ स तु मेरुः परिवृतो भुवनैर्भूतभावनैः । चत्वारो यस्य देशा वै नानापार्श्वेष्वधिष्ठिताः ॥ ५६ भद्राश्वो भारतश्चैव केतुमालश्च पश्चिमः । उत्तरा कुरवश्चैव कृतपुण्यप्रतिश्रयाः ॥ ५७ कर्णिका तस्य पद्मस्य समन्तात्परिमण्डला । योजनानां सहस्राणि नवतिः षट्प्रकीर्तिताः ॥ चत्वारश्चाप्यशीतिश्च अन्तरा(र)न्तरधिष्ठिताः ॥ ५८ त्रिशतं च सहस्राणि योजनानां प्रमाणतः । तस्य केशरजालानि विस्तीर्णानि समन्ततः ॥ ५९ शतसाहस्रिकामाया साशीतिपृथुलायता । चत्वारि तस्य पत्राणि योजनानां चतुर्दिशम् ॥ ६० तत्र याऽसौ मया पूर्वं कर्णिकेत्यभिशब्दिता । तां वर्ण्यमानामेकाग्राः समासेन निबोधत ॥ ६१ शताश्रिमेनं मेनेऽत्रिः सहस्राश्रिमृषिर्भृगुः । अष्टाश्रिमेनं सावर्णिश्चतुरस्रं तु भागुरिः ॥ ६२ व(वा)र्ष्याणिस्तु सामुद्रं शरावं चैव गालवः । ऊर्ध्वणीकृतं गार्ग्यः कोष्ठाकिः परिमण्डलम् ॥ ६३
* धनुश्चिह्नान्तर्गतग्रन्थो ड. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
[अ० ३४ श्लो० ६४-९१] वायुपुराणम् । ११३
( जम्बूद्वीपवर्णनम )
यद्यद्यस्य हि यत्पार्श्वं पर्वताधिपतेर्ऋषिः । तत्तद्देवस्य वेदासौ ब्रह्मैवं वेद कृत्स्नशः ॥ ६४
मणिरत्नमयं चित्रं नानावर्णप्रभायुतम् । अनेकवर्णनिचयं सौवर्णमरुणप्रभम् ॥ ६५
कान्तं सहस्रपर्वाणं सहस्रोदककन्दरम् । सहस्रशतपत्रं तं विद्धि मेरुं नगोत्तमम् ॥ ६६
मणिरत्नार्पितस्तम्भैर्मणिचित्रितवेदिकैः । सुवर्णमणिचित्राङ्गं तथा विद्रुमतोरणैः ॥ ६७
विमानयनैः श्रीमाद्भिः शतसंख्यैर्दिवौकसाम् । प्रभादीपितपर्यन्तं मेरुं पर्वणि पर्वणि ॥ ६८
तस्य पर्वप्रहस्रेऽस्मिन्नानाश्रयविभूषिते । सर्वदेवनिकायानि सांनिविष्टान्यनेककः ॥ ६९
तमावसद्धोर्ध्वतले देवदेवश्चतुर्मुखः । ब्रह्मा ब्रह्मविदां श्रेष्ठो वरिष्ठस्त्रिदिवौकसाम् ॥ ७०
महाभुवनसम्पूर्णैः सर्वैः कामफलप्रदैः । महापुरसहस्रैस्तं दिक्ष्वनेकसमाकुलम् ॥ ७१
तत्र ब्रह्मसभा रम्या ब्रह्मर्षिगणसेविता । नाम्ना मनोवती नाम सर्वलोकेषु विश्रुता ॥ ७२
तत्रेशानस्य देवस्य सहस्रादित्यवर्चसम् । महाविमानसंस्थस्य महिम्ना वर्तते सदा ॥ ७३
तत्र सार्षिगणा देवाश्चतुर्वक्त्रस्य ते तदा । तदेव तेजसां राशिर्देवानां तत्र कीर्त्यते ॥ ७४
तत्राऽऽस्ते श्रीपतिः श्रीमान्स साक्षः पुरंदरः । उपास्थानस्त्रिदशैर्महायोगैः सुरर्षिभिः ॥ ७५
तत्र लोकपतेः स्थानमादित्यसमवर्चसः । महेन्द्रस्य महाराजः सर्वसिद्धैर्नमस्कृतम् ॥ ७६
तामिन्द्रलोकं लोकस्य ऋद्ध्या परमया युतम् । दीप्यते त्वमरश्रेष्ठैस्त्रिदशैर्नित्यसेवितम् ॥ ७७
द्वितीयेऽप्यन्तरतटे वैदिश्ये पूर्वदक्षिणे । नानाधातुशतैश्चित्रैः सुरम्यमतितेजसम् ॥ ७८
नैकरत्नार्चिततलमनेकस्तम्भसंयुतम् । जाम्बूनदकृतोद्यानं नानारत्नसुवेदिकम् ॥ ७९
कूटागारैर्विनिक्षिप्तमनेकैरभ्रनोच्चमैः । महाविमानं प्राथितं भास्वरं जातवेदसम् ॥ ८०
सा हि तेजोवती नाम हुताशस्य महासभा । साक्षात्तत्र सुरश्रेष्ठः सर्वदेवमुखोऽनलः ॥ ८१
शिखाशतसहस्राढ्यो ज्वालामाली विभावसुः । स्तूयते हूयते चैव तत्र सार्षिगणैः सुरैः ॥ ८२
अधिदैवकृतं विप्रैर्विशेषः स तु उच्यते । सविभागं च तेजश्च सर्व ए(मे)व न संशयः ॥ ८३
भोगान्तरमनुप्राप्त एकत्रतेजोविभुः स्मृतः । पृथक्त्वं च हि युक्त्या तु कार्यकारणमिश्रितम् ॥ ८४
तमाभं लोकलोकज्ञैस्तद्गीयैस्ततपराक्रमैः । महात्मभिर्महासिद्धैर्महाभागैर्नमस्कृतम् ॥ ८५
तृतीयेऽप्यन्तरतट एवमेव महासभा । वैवस्वतस्य विज्ञेया लोके ख्याता सुसंयमा ॥ ८६
तथा चतुर्थदिग्देशे नैर्ऋत्याधिपतेः सभा । नाम्ना कृष्णाञ्जना नाम विरूपाक्षस्य धीमतः ॥ ८७
पञ्चमेऽप्यन्तरतटे एवमेव महासभा । वैवस्वतस्य विज्ञेया नाम्ना शुभवती सती ॥
उदकाधिपतेः ख्याता वरुणस्य महात्मनः ॥ ८८
परोत्तरे तथा देशे षष्ठेऽन्तरतटे शिवे । वायौर्गन्धवती नाम सभा सर्वगुणोत्तरा ॥ ८९
सप्तमेप्यन्तरतटे नक्षत्राधिपतेः सभा । नाम्ना महोदया नाम शुद्धवैदूर्यवेदिका ॥ ९०
तथाऽष्टमेऽन्तरतट ईशानस्य महात्मनः । यशोवती नाम सभा सप्तकाञ्चनसुप्रभा ॥ ९१
१५
ऋषिभिर्देवगन्धवैरप्सरोभिर्महोरगैः । सेवितानि महाभागैरुपस्थानगतैः सदा ॥ ९३
११४ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ३४-३५श्लो० ९२ ९६-१-१४] (जम्बूद्वीपवर्णनम् )
महाविमानान्चेतानि दिक्ष्वष्टासु शुभानि हि । अष्टानां देवमुख्यानामिन्द्रादीनां महात्मनाम् ॥ ९२
ऋषिभिर्देवगन्धवैरप्सरोभिर्महोरगैः । सेवितानि महाभागैरुपस्थानगतैः सदा ॥ ९३
नाकपृष्ठं दिवं स्वर्गमिति यैः परिपठ्यते । वेदवेदाङ्गविद्भिर्हि शब्दैः पर्यायवाचकैः ॥ ९४
तदेतत्सर्वदेवानामधिवासे कृतात्मनाम् । देवलोको गिरौ तस्मिन्सर्वश्रुतिषु गीयते ॥ ९५
नियमैर्विविधैर्यज्ञैर्बहुभिर्नियतात्मभिः । पुण्यैरन्यैश्च विविधैर्नैकजातिशताजितैः ॥
प्राप्नोति देवलोकं तं स स्वर्ग इति चोच्यते ॥ ९६
इति श्रीमहापुराणे वायुप्रोक्ते जम्बूद्वीपवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
आदितः श्लोकानां समष्ट्यङ्काः—२७३६
अथ पञ्चत्रिंशोऽध्यायः ।
जम्बूद्वीपवर्णनम् ।
सूत उवाच—
यत्तद्वै कर्णिकामूलमिति वै संप्रकीर्तितम् । तद्योजनसहस्राणां सप्ततीनामधः स्मृतम् ॥ १
चत्वारिंशत्तथाऽष्टौ च सहस्राण्यत्र मण्डलम् । शैलराजवृतं रम्यं मेरुमूलमिति श्रुतिः ॥ २
तेषां गिरिसहस्राणामनेकेषु महोच्छ्रिताः । दिक्षु सर्वासु पर्यन्तैर्मर्यादाः पर्वताः स्मृताः ॥ ३
निकुञ्जकन्दरनदीगुहानिर्झरशोभिताः । बहुप्रासादकटकैस्तटैश्च कुसु्मोज्ज्वलैः ॥ ४
नितम्बपुष्पमालौघैः सानुभिर्धातुमण्डितैः । शिखरैर्हेमकपिलैर्नैकप्रस्रवणावृतैः ॥
शोभिता गिरयः सर्वे पृष्टे रत्नसमर्पितैः ॥ ५
विहंगशतसंघुष्टैः कुञ्जरैरुपमौरपि । सिंहशार्दूलशरभैर्नैकैश्चामरवारणैः ॥
नानावर्णाकृतिधरैः सेविता विविधैर्मृगैः ॥ ६
सप्ताधहारिकृष्णाङ्गमौकैकं दशपर्वतम् । बाह्यमाभ्यन्तरा ये तु त्रिवाहास्तु समाः स्मृतः ॥ ७
जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ । तौ दक्षिणोत्तरायामावानीलानिषधायतौ ॥ ८
कैलासो हिमवांश्चैव दक्षिणोत्तरपर्वतौ । पूर्वपश्चायतावेतावर्णावान्तव्यवस्थितौ ॥ ९
येऽसौ मेरुर्द्विजश्रेष्ठाः प्रांशुः कनकपर्वतः । विष्कम्भं तस्य वक्ष्यामि तन्मे निगदतः शृणु ॥ १०
महापादास्तु चत्वारो मेरोरथ चतुर्दिशम् । यैर्धृतत्वान्न चलति सप्तद्वीपवती मही ॥ ११
दशयोजनसाहस्र आयामस्तेषु पठ्यते । देवगन्धर्वयक्षाणां नानारत्नोपशोभिताः ॥
नैकनिर्झरवप्राढ्या रम्यकन्दरनिर्मिताः ॥ १२
नितम्बपुष्पकादम्बैः शोभिताश्चित्रसानवः । मनःशिलादरीभिश्च हरितालतलैस्तथा ॥ १३
सुवर्णमणिचित्राभिर्गुहाभिश्च समन्ततः । शुद्धहिङ्गुलकप्रख्यैः काञ्चनेर्धातुमाण्डितैः ॥ १४
[अ० ३५ श्लो० १५-४२] वायुपुराणम् । ११५ (जम्बूद्वीपवर्णनम् ) वरकाञ्चनचितैश्च प्रवालैः समलंकृताः । रुचिराः शतपर्वाणः सिद्धवासा मुदान्विताः ॥ महाविमानैः श्रीमद्भिः समन्तात्परिदीपिताः ॥ १५ पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ॥ १६ तेषां सहस्रशृङ्गेषु वज्रवैदूर्यवेदिकाः । शाखासहस्रकलिताः सुमूलाः सुप्रतिष्ठिता ॥ १७ स्निग्धैर्नीलैर्घनैः पर्णैः संच्छन्नविविधाश्रयाः । अनेकयोजनोत्सेधाः सदा पुष्पफलोपगाः ॥ १८ यक्षगन्धर्वसेवाश्च सेविताः सिद्धचारणैः । महावृक्षाः समुत्पन्नाश्चत्वारो द्वीपकेतवः ॥ १९ मन्दरस्य गिरेः शृङ्गे महावृक्षः स केतुराट् । आलम्बशाखाशिखरः कन्दरश्चैव पादपः ॥ २० महाकुम्भप्रमाणैस्तु पुष्पैर्विकचक्रेसरैः । महागन्धैर्मनोज्ञैश्च शोभितः सर्वकालजैः ॥ २१ सहस्रमधिकं सोऽथ गन्धेनाऽऽपूरयन्दिशः । योजनानां समन्ताद्वै मन्दमारुतवीजितः ॥ २२ वरकेतुरेष प्रथितो भद्राश्वो नाम यो द्विजाः । यत्र साक्षाद्धृषीकेशः सिद्धसंघैर्महीयते ॥ २३ तस्य रुद्रकदम्बस्य तदा श्वेतहरो हरिः । प्राप्तवानमरश्रेष्ठः स तत्र सहितः पुरा ॥ २४ तेन चाऽऽलोकितं सर्वं द्वीपं द्विपदनायकाः । यस्य नाम्ना समाख्यातो भद्राश्वो नाम नामतः ॥ २५ दक्षिणस्यापि शैलस्य शिखरे देवसेविता । जम्बूः सदा पुष्पफला सदा माल्योपशोभिता ॥ २६ महामूलैर्महास्कन्धैः स्निग्धवर्णैर्विभूषिता । नवैः सदापुष्पफलैः शाखाभिश्चोपशोभिता ॥ २७ तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च । फलान्यमृतकल्पानि पतन्ति गिरिमूर्धनि ॥ २८ तस्माद्गिरिवरप्रस्थात्पुनः प्रस्यन्दवाहिनी । नदी जम्बूनादी नाम प्रवृत्ता मधुवाहिनी ॥ २९ तत्र जम्बूनदं नाम सुवर्णं ज्वलनप्रभम् । देवालंकारमतुलं जायते पापनाशनम् ॥ ३० देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । तत्पिबन्त्यमृतप्रख्यं मधु जम्बूरसस्रवम् ॥ ३१ स केतुर्दक्षिणे द्वीपे जम्बूलोकेषु विश्रुता । यस्या नाम्ना स विख्यातो जम्बूद्वीपः सनातनः ॥ ३२ विपुलस्यापि शैलस्य पश्चिमस्य महात्मनः । जातः शृङ्गेऽतिसुमहानश्वत्थश्चैव पादपः ॥ ३३ विलाम्बिवरमालाढ्यः सुवर्णमणिवेदिकः । महोच्चस्कन्धविटपो नैकसत्त्वगुणालयः ॥ ३४ कुम्भप्रमाणैः सुस्वादैः फलैः सर्वर्तुकैः शुभैः । सकेतुः केतुमालानां देवगन्धर्वसेवितः ॥ ३५ केतुमालेति च यथा तस्या नाम प्रकीर्तितम् । तन्निबोधत विप्रेन्द्रा निरुक्तं नाम कर्मतः ॥ ३६ क्षीरोदमथने वृत्ते दैत्यपक्षे पराजिते । महासमरसंमर्दवृक्षक्षोभाविमर्दिता ॥ ३७ सहस्राक्षेण विहिता माला तस्य सुतानता । तस्य स्कन्धे समासक्त्या ह्यश्वत्थस्य वनस्पतेः ॥ ३८ सा तथैव महागन्धा ह्यम्लाना सर्वकामिकी । इज्यते सुमहाभागा विविधैः सिद्धचारणैः ॥ ३९ तस्य केतोः सदा माला देवदत्ता विराजते । पवनेनेरिता दिव्यं वाति गन्धं मनोरमम् ॥ ४० ताभ्यां नामाङ्कितो द्वीपः पश्चिमे बहुविस्तरः । केतुमाल इति ख्यातो दिवि चेह च सर्वशः ॥ ४१ स्वपार्श्वस्योत्तरे चापि शृङ्गे जातो महाद्रुमः । न्यग्रोधो विपुलस्कन्धोऽनेकयोजनमण्डलः ॥ ४२
सनत्कुमारा वरजा मानसा ब्रह्मणः सुताः । सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ॥ ४५
११६ श्रीमहैपायनमुनिप्रणीतम्- [अ०३५-३६श्लो०४३-४७-१-१७] (भुवनविन्यासः)
माल्यदामकलापैश्च विविधैर्गन्धशालिभिः । शाखाविलम्बी शुशुभे सिद्धचारणसेवितः ॥ ४३ प्रवालकुम्भसदृशैर्मधुपूर्णैः फलैः सदा । स ह्युत्तरकुरूणां तु केतुवृक्षः प्रकाशते ॥ ४४ सनत्कुमारा वरजा मानसा ब्रह्मणः सुताः । सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ॥ ४५ तत्र तैरागतज्ञानैः सत्त्वस्थैः पुण्यकीर्तिभिः । अक्षयं हेममपरं लोकं प्राप्तं सनातनम् ॥ ४६ तेषां नामाङ्कितो द्वीपः सप्तानां वै महात्मनाम् । दिवि चेह च विख्याता उत्तराः कुरवः सदा ॥४७
इति महापुराणे वायुप्रोक्ते जम्बूद्वीपवर्णनं नामपञ्चविंशोऽध्यायः । आदितः श्लोकानां समष्ट्यङ्काः-२७८३
अथ षट्त्रिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच-- तेषां चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम् । अनुबन्धानि रम्याणि सर्वकालर्तुकानि च ॥ १ सारिकाभिर्मयूरैश्च चकोरैश्च मदोत्कटैः । शुकैश्च भृङ्गराजैश्च चित्रकैश्च समन्ततः ॥ २ जीवञ्जीवकनादैश्च हेमकानां च नादितैः । मत्तकोकिलनादैश्च वल्गूनां च निनादितैः ॥ ३ सुग्रीवकाञ्चनरवैः कलविङ्करुतैस्तथा । कूजितान्तरशब्दैश्च सुरम्याणि च सर्वशः ॥ ४ मदोत्कटैर्मधुकरैर्भ्रमरैश्च महालसैः । उपगीतवनान्तानि किन्नरैश्च क्वचित्क्वचित् ॥ ५ पुष्पवृष्टिं विमुञ्चन्ति मन्दमारुतकम्पिताः । तरवो यत्र दृश्यन्ते चारुपल्लवशोभिताः ॥ ६ स्तबकैर्मञ्जरीभिश्च ताम्रैः किशलयैस्तथा । मन्दवातवशाल्लोलैर्दोल्यायद्भिर्युतानि च ॥ ७ नानाधातुविचित्रैश्च कान्तरूपैः शिलाशतैः । शैलैः क्वचिद्विजश्रेष्ठा विन्यस्तैः शोभितानि च ॥ ८ देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । सिद्धाप्सरोगणैश्चैव सेवितानि ततस्ततः ॥ ९ मनोहराणि चत्वारि देवाक्रीडनकान्यथ । चतुर्दिशमुदाराणि नाम्ना शृणुत तानि मे ॥ १० पूर्वं चैत्ररथं नाम दक्षिणं नन्दनं वनम् । वैभ्राजं पश्चिमं विद्यादुत्तरं सवितुर्व॑नम् ॥ ११ महावनेषु चैतेषु निविष्टानि यथाक्रमम् । अनुबन्धानि रम्याणि विहङ्गैः कूजितानि च ॥ १२ वनैर्विस्तीर्णतीर्थानि महापुण्यवनानि च । महानागाधिवासानि सेवितानि महात्मभिः ॥ १३ सुरसामलतोयानि शिवानि सुसुखानि च । सिद्धे देवासुरवरैरुपस्पृष्टजलानि च ॥ १४ छत्रप्रमाणैर्विकचैर्महागन्धैर्मनोहरैः । पुण्डरीकैर्महापत्रैरुत्पलैः शोभितानि च ॥ महासरांसि चत्वारि तानि वक्ष्यामि नामतः ॥ १५ अरुणोदं सरः पूर्वं दक्षिणं मानसं स्मृतम् । शीतोदं पश्चिमसरो महाभद्रं तथोत्तरम् ॥ १६ अरुणोदं च पूर्वेण ये च शैलास्ततः स्मृताः । तान्कीर्त्यमानांस्तत्त्वेन शृणुध्वं विस्तरान्मम ॥ १७
[अ० ३६-३७श्लो० १८-३३-१-५] वायुपुराणम् । ११७ ( भुवनविन्यासः ) शीतान्तश्च कुमुञ्जश्च सुवीरश्चाचलोत्तमः । विकङ्को मणिशीलश्च वृषभश्चाचलोत्तमः ॥ १८ मRole... महानीलोऽथ रुचकः सविन्दुर्मन्दरस्तथा । वेणुमांश्च सुमेधश्च निषधो देवपर्वतः ॥ १९ इत्येते पर्वतवरा अन्ये च गिरयस्तथा । पूर्वेण मन्दरस्यैते सिद्धवासा उदाहृताः ॥ २० सरसो मानसस्येह दक्षिणा ये महाचलाः । ये कीर्तिता मया ते वै नामतस्तान्निबोधत ॥ २१ शैलस्त्रिशिखरश्चापि शिशिरश्चाचलोत्तमः । कालिञ्जश्च पतङ्गश्च रुचकश्चैव सानुमान् ॥ २२ ताम्राभश्च विशाखश्च तथा श्वेतोदरो गिरिः । समूलो विषधारश्च रत्नधारश्च पर्वतः ॥ २३ एकशृङ्गो महामूलो गजशैलः पिशाचकः । पञ्चशैलोऽथ कैलासो हिमवांश्चाचलोत्तमः ॥ २४ इत्येते देवचरिता ह्युत्कृष्टाः पर्वतोत्तमाः । दिग्भागे दक्षिणे प्रोक्ता मेरोरमरवर्चसः ॥ २५ अपरेण सितोदस्य सरसो द्विजसत्तमाः । उत्तमा ये महाशैलास्तान्प्रवक्ष्ये यथाक्रमम् ॥ २६ सुवक्षाः शिखिशैलश्च कालो वैदूर्यपर्वतः । कपिलः पिङ्गलो रुद्रः सुरसश्च महाचलः ॥ २७ कुमुदो मधुमांश्चैव अञ्जनो मुकुटस्तथा । कृष्णश्च पाण्डरश्चैव सहस्रशिखरश्च ह ॥ २८ पारिजातश्च शैलेन्द्रास्त्रिशृङ्गश्चाचलोत्तमः । इत्येते पर्वतवरा दिग्भागे पश्चिमे स्मृताः ॥ २९ महाभद्रस्य सरस उत्तरपाणि श्रीमतः । ये मया पर्वताः प्रोक्तास्तान्वादिष्ये यथाक्रमम् ॥ ३० शङ्कुकूटो महाशैलो वृषभो हंसपर्वतः । नागश्च कपिलश्चैव इन्द्रशैलश्च सानुमान् ॥ ३१ नीलः कनकशुङ्गश्च शतशृङ्गश्च पर्वतः । पुष्पको मेघशैलश्च विराजश्चाचलोत्तमः ॥ जाराधिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ॥ ३२ एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् । स्थाल्योऽभ्यन्तरद्रोणश्च सरांसि च निबोधत ॥ ३३ इति श्रीमद्महापुराणे वायुप्रोक्ते भुवनविन्यासो नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥ आदितः श्लोकानां समष्ट्यङ्काः—२८१६
अथ सप्तत्रिंशोऽध्यायः । भुवनविन्यासः ।
सूत उवाच— शीतान्तस्याचलेन्द्रस्य कुमुञ्जस्यान्तरेण तु । द्रोण्यो विहङ्गसङ्घृष्टा नानासत्त्वनिषेविताः ॥ १ (* त्रियोजनशतायामा विस्तीर्णाः शतयोजनाः । सुरसामलपानीयैरम्यं तत्र सरोवरम् ॥ २ द्रोणायामप्रमाणैस्तु पुण्डरीकैः सुगन्धिभिः ।) सहस्रशतपत्रैर्हि महापद्मैर्लङ्कृतम् ॥ ३ महोरगैरध्युषितं + महाभोगैर्दुरासदैः । देवदानवगन्धर्वैरुपस्पृष्टं जलं शुभम् ॥ ४ पुण्यं तच्छीसरो नाम प्रकाशं दिवि चेह च । प्रसन्नजलसम्पूर्णं शरण्यं सर्वदेहिनाम् ॥ ५
* धनुश्चिह्नान्तर्गतग्रन्थो ड. पुस्तके नास्ति । + महाभोगैरित्यारभ्य सप्तचत्वारिंशाध्यायस्य- षोडशश्लोकस्थब्रह्मपातो निवसतीत्यन्तग्रन्थः ख. पुस्तके नास्ति ।
शाखासहस्रकलितैर्महास्कन्धैः समाकुलम् । फलैः सुवर्णसंकाशैर्हरितैः पाण्डुरैस्तथा ॥ ११
११८ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ३७ श्लो० ६-३०] (भुवनविन्यासः)
तत्र त्वेकं महापद्मं मध्ये पद्मवनस्य ह । कोटिपत्रप्रचारं तत्तरुणादित्यवर्चसम् ॥ ६ नित्यं व्याकोशमजरं चाञ्चल्याच्चातंमण्डलम् । चारुकेशरजालार्ढचं मत्तषट्पदनादितम् ॥ ७ तस्मिन्पद्मे भगवती साक्षाच्छ्रौर्नित्यमेव हि । लक्ष्म्याः पद्मं तदावासं मूर्तिमत्या न संशयः ॥ ८ सरसस्तस्य पूर्वस्मिंस्तरे सिद्धनिषेविते । सदा पुष्पफलं रम्यं तत्र विल्ववनं महत् ॥ ९ शतयोजनविस्तीर्णं त्रियोजनशतायतम् । अर्धक्रोशोच्चशिखरैर्महावृक्षैः सहस्रशः ॥ १० शाखासहस्रकलितैर्महास्कन्धैः समाकुलम् । फलैः सुवर्णसंकाशैर्हरितैः पाण्डुरैस्तथा ॥ ११ अमृतस्वादुसद्दृशैर्भेरीमात्रैः सुगन्धिभिः । शीर्यमाणैः पतद्भिश्च कीर्णा भूमिरिनरन्तरा ॥ १२ नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम् । गन्धर्वैः किन्नरैर्यक्षैर्महानागैश्च सेवितम् ॥ १३ सिद्धैश्चैव समाकीर्णं नित्यं विल्वफलाशिभिः । विविधैर्भूतसंघैश्च नित्यमेव निषेवितम् ॥ १४ तस्मिन्वने भगवती साक्षाच्छ्रौर्नित्यमेव हि । देवी संनिहिता तत्र सिद्धसंघैर्नमस्कृता ॥ १५ विकङ्कस्याचलेन्द्रस्य मणिशैलस्य चान्तरे । शतयोजनविस्तीर्णं द्वियोजनशतायतम् ॥ १६ विपुलं चम्पकवनं सिद्धचारणसेवितम् । पुष्पल्क्ष्म्यावृतं भाति ज्वलन्तामिव नित्यदा ॥ १७ अर्धक्रोशोच्चशिखरैर्महास्कन्धैः पलाशिनिः । प्रफुल्लशाखाशिखरैः पिञ्जरं भाति तद्वनम् ॥ १८ द्विबाहुपरिणाहैस्तैस्सिंहस्तायामविस्तरैः । मनःशिलाचूर्णनिभैः पाण्डुकेशरशालिभिः ॥ १९ पुष्पैर्मनोहरैर्व्याप्तं व्याकोशैर्गन्धशालिभिः । विराजते वनं सर्वं मत्तभ्रमरनादितम् ॥ २० तद्वनं दानवैर्देवैर्गन्धर्वैर्यक्षराक्षसैः । किन्नरैरप्सरोभिश्च महानागैश्च सेवितम् ॥ २१ तत्राऽऽश्रमं भगवतः कश्यपस्य प्रजापतेः । सिद्धसाध्यगणाकीर्णं नानाश्रुतिविभूषितम् ॥ २२ महानीलकुमुञ्जाभ्यामन्तरेऽप्यचलावथ ॥ महानद्याः सुखायास्तु तीरे सिद्धानिषेविते । पञ्चाशद्योजनायामं त्रिंशद्योजनविस्तरम् ॥ २३ रम्यं तालवनं तद्धि अर्धक्रोशोच्चमस्तकम् ॥ महामूलैर्महासारैः स्थिरैराविरलैः शुभैः । कुमुदाञ्जनसंस्थानैः परिवृत्तैर्महाफलैः ॥ २४ मृष्टगन्धरसोपेतंरुपेत्तं सिद्धसेवितम् ॥ माहेन्द्रस्य द्विपेन्द्रस्य तत्र वास उदाहृतः । ऐरावतस्य भद्रस्य सर्वलोकेषु विश्रुतम् ॥ २५ वेणुमन्तस्य शैलस्य सुमेधस्योत्तरेण च । सहस्रयोजनायामं विस्तीर्णं शतयोजनम् ॥ २६ वृक्षगुल्मलतागुच्छैः सर्ववीरुद्विवर्जितम् । दूर्वाप्रस्तारमेवाथ सर्वसत्त्वविवर्जितम् ॥ २७ तथा निषधशैलस्य देवशैलस्य चोत्तरे । सहस्रयोजनायामा शतयोजनविस्तृता ॥ २८ सर्वा ह्येकाशिला भूमिवृक्षवीरुद्विवर्जिता । आप्लुता पादमात्रेण ह्युदकेन समंततः ॥ २९ इत्येता ह्यन्तरद्रोण्यो नानाकाराः प्रकीर्तिताः । मेरोः पूर्वेण विपेन्द्रा यथावदनुपूर्वशः ॥ ३० इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ आदितः श्लोकानां समष्ट्यङ्काः--२८४६
[अ० ३८-श्लो० १-२८] वायुपुराणम्। ११९ ( भुवनविन्यासः )
अथाष्टत्रिंशोऽध्यायः। भुवनविन्यासः।
सूत उवाच-- अतः परं प्रवक्ष्यामि दक्षिणां दिशमाश्रिताः। या द्रोण्यः सिद्धचरिताः शृणु ता ह्यनुपूर्वशः॥ १ शिशिरस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च। श्लक्ष्णभूमिःश्रिया युक्तं लतालङ्गितपादपम्॥ २ पृथुक्षेपोच्चशिखरैः पादपैरुपशोभितम्। उदुम्बरवनं रम्यं पक्षिसंघनिषेवितम्॥ ३ पक्वविद्रुमसंकाशैर्मधुपूर्णैर्मनोरमैः। ज्वलितं तद्वनं भाति महाकुम्भोपमैः फलैः॥ ४ तत्सिद्धयक्षगन्धर्वाः किंनरा उरगास्तथा। विद्याधराश्च मुदिता उपजीवन्ति नित्यशः॥ ५ प्रसन्नस्वादुसलिलास्तत्र नद्यो बहूदकाः। सुरसामलतोयास्ताः सरांसि च समन्ततः॥ ६ समन्ताद्योजनशतं तद्वनं परिमण्डलम्॥ ७ ताम्रवर्णस्य शैलस्य पतङ्गस्यान्तरेण तु। शतयोजनविस्तीर्णं द्वियोजनशतायतम्॥ ८ तरुणादित्यसंकाशैः पुण्डरीकैः समन्ततः। सहस्रपत्रैर्विकचैर्महापद्मौरलंकृतम्॥ ९ तथा भ्रमरसंलीनैः शतपत्रैः सुगन्धिभिः। प्रफुल्लैः शोभितजलं रक्तनीलैर्महोत्पलैः॥ १० सरोवरं महापुण्यं देवदानवसेवितम्। महोरगैरध्युषितं नीलजालाविभूषितम्॥ ११ तस्य मध्ये जनपदो ह्यायतः शतयोजनः। त्रिंशद्योजनविस्तीर्णो रक्तधातुविभूषितः॥ १२ तस्योपरि महारथ्या प्रांशुप्राकारतोरणा। नरनारीगणाकीर्णा स्फीता विभवविस्तरैः॥ १३ वलभीकूटनिर्यूहैर्मणिभक्तिविचित्रितैः। रत्नाचित्रार्पिततलैः श्लक्ष्णचित्रोत्तरच्छदैः॥ १४ महाभवनमालाभिर्महापांशुभिरुत्तमैः। विद्याधरपुरं तत्र शोभते भ्राजयच्छुभम्॥ १५ विद्याधरपतिस्तत्र पुलोमा तत्र विश्रुतः। चित्रवेषधरः स्रग्वी महेन्द्रसदृशद्युतिः॥ १६ दीप्तानां चित्रवेषाणां सूर्यप्रतिमतेजसाम्। विद्याधरसहस्राणामनेकेषां स राजराट्॥ १७ विशाखस्याचलेन्द्रस्य पतङ्गस्यान्तरेण च। सरस्ताम्रवर्णस्य पूर्वे तीरे परिश्रुतम्॥ १८ पञ्चवृक्षेपर्णैर्विद्धं सुशाखं वर्णशोभितम्। सर्वकालफलं तत्र स्फीतं चऽऽम्रवनं महत्॥ १९ फलैः कनकसंकाशैर्महास्वादैः सुगन्धिभिः। महाकुम्भप्रमाणैश्चतनुशार्वैः समन्ततः॥ २० गन्धर्वाकिंनरा यक्षा नागा विद्याधरास्तथा। पिबन्त्याम्ररसं तत्र सुस्वादु ह्यमृतोपमम्॥ २१ तत्राऽऽम्ररसपीतानां मुदितानां महात्मनाम्। श्रूयन्ते हृष्टतुष्टानां नादास्तास्मिन्महावने॥ २२ समूलस्याचलेन्द्रस्य वसुधारस्य चान्तरे। समासुरभिपूर्णाढ्या विहङ्गैरुपशोभिता॥ २३ त्रिंशद्योजनविस्तीर्णा पञ्चाशद्योजनायता। तत्र बिल्वस्थली विप्राः शुद्धा निम्नफलद्रुमाः॥ २४ सुस्वादुर्विद्रुमनिभैः फलैर्बिल्वैर्महोपमैः। शीर्यमाणैर्विशीर्णैश्च पक्विन्नतलमृत्तिकाः॥ २५ तां स्थलीमुपजीवन्ति यक्षगन्धर्वकिंनराः। सिद्धा नागाश्च बहुशं नित्यं बिल्वफलाशिनः॥ २६ अन्तरे वसुधारस्य रत्नधारस्य चान्तरे। त्रिंशद्योजनविस्तीर्णमायतं शतयोजनम्॥ २७ सुगन्धं किंशुकवनं नित्यं पुष्पितपादपम्। पुष्पपक्ष्मावृतं भाति प्रदीप्तमिव सर्वतः॥ २८