वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
२ श्रीमद्वैपायनमुनिप्रणीतम्- [ अ ० १ श्लो ० १८-४६] ( अनुक्रमणिका )
पुराणवेदो ह्यखिलस्तस्मिन्सम्पक्प्रतिष्ठितः । ( * भारती चैव विपुला महाभारतवर्धिनी ॥ १८ धर्मार्थकाममोक्षार्थाः कथा यस्मिन्प्रतिष्ठिताः । ) सूक्ताः सुपरिभाषाश्च भूमावोषधयो यथा ॥ १९ स तान्नयायेन सुधियो न्यायविन्मुनिपुंगवान् । अभिगम्योपसंसृत्य नमस्कृत्य कृताञ्जलिः ॥ २० तोषमायास्स मेधावी प्रणिपातेन तानृषीन् । ते चापि सत्रिणः प्रीताः ससदस्या महौजसः ॥ २१ तस्मै साम च पूजां च यथावत्प्रतिपेदिरे । अथ तेषां पुराणस्य शुश्रूषा समपद्यत ॥ २२ दृष्ट्वा तमतिविश्वस्तं विद्वांसं लोमहर्षणम् । तस्मिन्सत्रे गृहपतिः सर्वशास्त्रविशारदः ॥ २३ इङ्गितेर्भावमालक्ष्य तेषां सूतमचोदयत् । त्वया सूत महाबुद्धिर्भगवान्ब्रह्मवित्तमः ॥ २४ इतिहासपुराणार्थं व्यासः सम्यगुपासितः । दुदोह वै मतिं तस्य त्वं पुराणाश्रयां कथाम् ॥ २५ एषां च ऋषिमुख्यानां ( णां ) पुराणं प्रति धीमताम् । शुश्रूषाऽस्ति महाबुद्धे तच्छ्रावयितुमर्हसि ॥ २६ सर्वे हीमे महात्मानो नानागोत्राः समागताः । स्वान्स्वान्वंशान्पुराणैस्तु शृणुयुर्ब्रह्मवादिनः ॥ २७ सपुत्रान्दीर्घसत्रेऽस्मिञ्श्रावयेथा मुनीनथ । दीक्षिष्यमाणैरस्माभिस्तेन प्रागासि संस्मृतः ॥ २८ इति संनोदितः सूतः प्रत्युवाच शुभां गिराम् । श्लक्ष्णां च न्यायसंयुक्तां यां ब्रूयाल्लोमहर्षणः ॥ २९
सूत उवाच--
पूतोऽस्म्यनुगृहीतश्च भवद्भिर्ह्यभिनोदितः । पुराणार्थं पुराणज्ञैः सत्यव्रतपरायणैः ॥ ३० स्वधर्म एष सूतस्य सन्दिष्टष्टः पुरातनैः । देवतानामृषीणां च राज्ञां चामिततेजसाम् ॥ ३१ वंशानां धारणं कार्यं श्रुतानां च महात्मनाम् । इतिहासपुराणेषु दिष्टा ये ब्रह्मवादिभिः ॥ ३२ न हि वेदेष्वधिकारः कश्चित्सूतस्य दृश्यते । वैन्यस्य हि पृथोर्यज्ञे वर्तमाने महात्मनः ॥ ३३ सुत्यायामभवत्सूतः प्रथमं वर्णवैकृतः । ऐन्द्रेण हविषा तत्र हविः पृक्तं बृहस्पतेः ॥ ३४ जुहावेन्द्राय देवाय ततः सूतो व्यजायत । प्रमादात्तत्र संजज्ञ प्रायश्चित्तं च कर्मसु ॥ ३५ शिष्यहस्त्येन यत्पृक्तमभिभूतं गुरोर्हविः । अधरोत्तरचारेण ( ÷ जज्ञे तद्वर्णवैकृतः ॥ ३६ यच्च क्षत्रात्समवद्व्रह्मण्यवरयोनितः । ततः पूर्वेण साधर्म्यात्तुल्यधर्मा प्रकीर्तितः ॥ ३७ मध्यमो ह्येष सूतस्य धर्मः क्षत्रोपजीवनम् । रथनागाश्वचरितं जघन्यं च चिकित्सितम् ॥ ३८ तत्स्वधर्ममहं पृष्टो भवद्भिर्ब्रह्मवादिभिः । कस्मात्सम्ब्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥ ३९ पितॄणां मानसी कन्या वासवी समपद्यत । अपध्याता च पितृभिर्मत्स्ययोनौ बभूव सा ॥ ४० अरणीव हुताशस्य निमित्तं यस्य जन्मनः । तस्यां जातो महायोगी व्यासो वेदविदां वरः ॥ ४१ तस्मै भगवते कृत्वा नमो व्यासाय वेधसे । पुरुषाय पुराणाय भृगुवाक्यप्रवर्तिने ॥ ४२ मानुषच्छद्मरूपाय विष्णवे प्रभविष्णवे । जातमात्रं च यं वेद उपतस्थे ससंग्रहः ॥ ४३ धर्ममेव पुरस्कृत्य जातूकण्यादवाप तम् । मतिं मन्थानमाविध्य येनासौ श्रुतिसागरात् ॥ ४४ प्रकाशं जनितो लोके महाभारतचन्द्रमाः । वेदद्रुमश्च यं प्राप्य सशाखः समपद्यत ॥ ४५ भूमिकालगुणान्प्राप्य बहुशाखो यथा द्रुमः । तस्मादहमुपश्रुत्य पुराणं ब्रह्मवादिनः ॥ ४६
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
[अ० १ श्लो० ४७-७४] वायुपुराणम् । ३
( अनुक्रमणिका )
सर्वज्ञात्सर्ववेदेषु पूजिताद्दीपितेजसः । पुराणं संप्रवक्ष्यामि यदुक्तं मातरिश्वना ॥ ४७ पृष्टेन मुनिभिः पूर्वे नैमिषीयैर्महात्मभिः । महेश्वरः परोऽव्यक्तश्चतुर्बाहुश्चतुर्मुखः ॥ ४८ अचिन्त्यश्चाप्रमेयश्च स्वयंभूर्हेतुरीश्वरः । अव्यक्तं कारणं यद्यन्नित्यं सदसदात्मकम् ॥ ४९ महदादिविशेषान्तं सृजतीति विनिश्चयः । अण्डं हिरण्मयं चैव बभूवापातिभं ततः ५० अण्डस्याऽऽवरणं चाद्भिरपामपि च तेजसा । वायुना तत्स नभसा नभो भूतादिनाऽऽवृतम् ५१ भूतादिर्महता चैव ) अव्यक्तेनाऽऽवृतो महान् । अतोऽत्र विश्वेदेवानाम्ऋषीणां चोपवर्णितम् ॥ ५२ नदीनां पर्वतानां च प्रादुर्भावोऽत्र शस्यते । मन्वन्तराणां सर्वेषां कल्पानां चोपवर्णनम् ॥ ५३ कीर्तनं ब्रह्मक्षत्रस्य ब्रह्मजन्म च कीर्त्यते । अतो ब्रह्माणि सृष्ट्वैवं प्रजासर्गोपवर्णनम् ॥ ५४ अवस्थाश्चात्र कीर्त्यन्ते ब्रह्मणोऽव्यक्तजन्मनः । कल्पानां वत्सरं चैव जगतः स्थापनं तथा ॥ ५५ शयनं च हरेरत्र पृथिव्युद्धरणं तथा । संनिवेशः पुरादीनां वर्णाश्रमविभागशः ॥ ५६ वृक्षाणां गृहसंस्थानां सिद्धीनां च विनाशनम् । योजनानां पथां चैव संचरं बहुविस्तरम् ॥ ५७ स्वर्गे स्थानविभागं च मर्त्यानां शुभचारिणाम् । वृक्षाणामोषधीनां च वीरुधां च प्रकीर्तनम् ॥ ५८ वृक्षनारकिकीटत्वं मर्त्यानां परिकीर्तनम् । *देवतानामृषीणां च द्वे सृती परिकीर्तिते ॥ ५९ अन्नादीनां तनूनां च सृजनं त्यजनं तथा । प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ६० अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः । अङ्गानि धर्मशास्त्रं च व्रतानि नियमास्तथा ६१ पशूनां पुरुषाणां च संभवः परिकीर्तितः । तथा निर्वचनं प्रोक्तं कल्पस्य च परिग्रहः ॥ ६२ नव सर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः । त्रयोऽन्ये बुद्धिपूर्वास्तु ततो लोकानकल्पयत् ६३ ब्रह्मणोऽवयवेभ्यश्च धर्मादीनां समुद्भवः । य द्वादशः प्रसूयन्ते प्रजाकल्पे पुनः पुनः ॥ ६४ कल्पयोरन्तरं प्रोक्तं प्रतिसंधिश्च यस्तयोः । तमोमात्रामृतत्वाच्च ब्रह्मणोऽधर्मसंभवः ॥ ६५ तथैव शतरूपायाः संभवश्च ततः परम् । प्रियव्रतोत्तानपादौ प्रसूत्याकृतयश्च ताः ॥ ६६ कीर्त्यन्ते धुतपाप्मानो येषु लोकाः प्रतिष्ठिताः । रुचेः प्रजापतेश्चोर्ध्वमाकृत्यां मिथुनोद्भवः ॥ ६७ प्रसूत्यामपि दक्षस्य कन्यानां प्रभवस्ततः । दाक्षायणीषु चाप्यूर्ध्वं श्रद्धाद्यासु महात्मनाम् ॥ ६८ धर्मस्य कीर्त्यते सर्गः सात्विकस्य सुखोदयः । तथाऽधर्मस्य हिंसायां तामसोऽशुभलक्षणः ॥ ६९ महेश्वरस्य सत्यां च प्रजासर्गः प्रकीर्तितः । निरामयं च ब्रह्माणं तादृशं कीर्तितं पुनः ॥ ७० योगं योगनिधिः प्राह द्विजानां मुक्तिकाङ्क्षिणाम् । अवतारश्च रुद्रस्य महाभाग्यं तथैव च ॥ ७१ त्रैवेदिका कथा चापि संवादः परमो महान् । ब्रह्मनारायणाभ्यां च यत्र स्तोत्रं प्रकीर्तितम् ॥ ७२ स्तुतस्ताभ्यां स देवेशस्तुतोष भगवान्शिवः । प्रादुर्भावोऽथ रुद्रस्य ब्रह्मणोऽङ्गे महात्मनः ॥ ७३ कीर्त्यते नामहेतुश्च यथाऽरोदीन्महामनाः । रुद्रादीनि यथा सृष्टौ नामान्याप्नोत्स्वयंभुवः ॥ ७४
* इदमर्धं नास्ति घ. पुस्तके ।
४ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० १श्लो० ७५–१०४]
( अनुक्रमणिका )
यथा च तैर्व्याप्तमिदं त्रैलोक्यं सचराचरम् । भृग्वादीनामृषीणां च प्रजासर्गोपवर्णनम् ॥ ७५
*वाशिष्ठस्य च ब्रह्मर्षेर्यत्र गोत्रानुकीर्तनम् । अग्नेः प्रजायाः संभूतिः स्वाहायां यत्र कीर्तिता ॥
पितॄणां द्विपकाराणां स्वधायास्तदनन्तरम् । पितृवंशप्रसङ्गेन कीर्त्यते च महेश्वरात् ॥ ७७
दक्षस्य शापः सत्यर्थे भृग्वादीनां च धीमताम् । प्रतिशापश्च रुद्रस्य दक्षादद्भुतकर्मणः ॥ ७८
प्रतिषेधश्च वैरस्य कीर्त्यते (+दोषदर्शनात् । मन्वन्तरप्रङ्गेन कालज्ञानं च कीर्त्यते ॥ ७९
प्रजापतेः कर्दमस्य कन्या या शुभलक्षणा । प्रियव्रतस्य पुत्राणां कीर्त्यते ) यत्र विस्तरः ॥ ८०
तेषां नियोगो द्वीपेषु देशेषु च पृथक्पृथक् । स्वायंभुवस्य सर्गस्य ततश्चाप्यनुकीर्तनम् ॥ ८१
उक्तो नाभेर्निसर्गश्च रजसश्च महात्मनः । द्वीपानां ससमुद्राणां पर्वतानां च कीर्तनम् ॥ ८२
वर्षाणां च नदीनां च तद्भेदानां च सर्वशः । द्वीपभेदसहस्राणामन्तर्भेदश्च सप्तसु ॥ ८३
विस्तरान्मण्डलांश्चैव जम्बुद्वीपसमुद्रयोः । प्रमाणं योजनाग्रेण कीर्त्यते पर्वतैः सह ॥ ८४
हिमवान्हेमकूटस्तु निषधो मेरुरेव च । नीलः श्वेतः शृङ्गवांश्च कीर्त्यन्ते वर्षपर्वताः ॥ ८५
तेषामन्तरविष्कम्भा उच्छ्रायायामविस्तराः । कीर्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः ॥ ८६
भारतादीनि वर्षाणि नदीभिः पर्वतैस्तथा । भूतैश्चोपनिविष्टानि गतिमन्द्धिर्ध्रुवैस्तथा ॥ ८७
जम्बुद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः । ततश्चाप्यमयी भूमिलोंकालोकश्च कीर्त्यते ॥ ८८
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी । भूरादयश्च कीर्त्यन्ते वरणैः प्राकृतैः सह ॥ ८९
सर्वं च तत्प्रधानस्य परिमाणैकदेशिकम् । सव्यासपरिमाणं च संक्षेपेणैव कीर्त्यते ॥ ९०
सूर्याचन्द्रमसोश्चैव पृथिव्याश्चाप्यशेषतः । प्रमाणं योजनाग्रेण सांप्रतैराभिमानिभिः ॥ ९१
महेन्द्राद्याः सभाः पुण्या मानसोत्तरमूर्धनि । अत ऊर्ध्वं गतिश्वोक्ता स्वर्गस्यालातचक्रवत् ॥ ९२
नागवीथ्यजवीथ्योश्च लक्षणं परिकीर्त्यते । काष्ठयोर्लेखयोश्चैव मण्डलानां च योजनैः ॥ ९३
लोकालोकस्य संध्याया अह्नो विषुवतस्तथा । लोकपालाः स्थिताश्चोर्ध्वं कीर्त्यन्ते ये चतुर्दिशम् ॥
पितॄणां देवतानां च पन्थानौ दक्षिणोत्तरौ । गृहिणां न्यासिनां चोक्तौ रजःसत्त्वसमाश्रयात् ॥ ९५
कीर्त्यते च पदं विष्णोर्धर्माद्या यत्र धिष्ठिताः । सूर्यचन्द्रमसोश्चारो ग्रहाणां ज्योतिषां तथा ॥ ९६
कीर्त्यते ध्रुवसामर्थ्यात्प्रजानां च शुभाशुभम् । ब्रह्मणा निर्मितः सौरः स्यन्दनोऽश्वंवास्तात्स्वयम्
कीर्त्यते भगवान्येन प्रसर्पति दिवि स्वयम् । स रथोऽधिष्ठितो देवैरादित्यैर्ऋषिभिस्तथा ॥ ९८
( +गन्धवैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः । अपां सारमयश्चन्दोः कीर्त्यते च रथस्तथा ) ॥ ९९
वृद्धिक्षयौ च सोमस्य कीर्त्येते सूर्यकरितौ । सूर्यादीनां स्यन्दनानां ध्रुवादेव प्रकीर्तनम् ॥ १००
कीर्त्यते शिशुमारश्च यस्य पुच्छे ध्रुवः स्थितः । तारारूपाणि सर्वाणि नक्षत्राणि ग्रहैः सह ॥ १०१
निवासा यत्र कीर्त्यन्ते देवानां पुण्यकारिणाम् । सूर्यरश्मिसहस्रे च वर्षशीतोष्णनिःस्रवः ॥ १०२
प्रविभागश्च रश्मीनां नामतः कर्मतोऽर्थतः । परिणामगतौ चोक्तं ग्रहाणां सूर्यसंश्रयात् ॥ १०३
यथा चाऽऽशु विषात्मासा शंभोः कण्ठस्य नीलता । ब्रह्मप्रसादितस्याऽऽशु विषादः शूलपाणिनः
* इदधमं नास्ति घ. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति ।
विध्वरूपात्मधानस्य परिणामोऽयमद्भुतः । पुरूरवस ऐलस्य माहात्म्यानुप्रकीर्तनम् ॥ १०६
[अ० १ श्लो० १०५-१३३] वायुपुराणम् । ५
( अनुक्रमणिका )
स्तूयमानः सुरैर्विष्णुः स्तौति देवं महेश्वरम् । लिङ्गोद्भवकथां पुण्यां सर्वपापप्रणाशिनीम् ॥ १०५ विध्वरूपात्मधानस्य परिणामोऽयमद्भुतः । पुरूरवस ऐलस्य माहात्म्यानुप्रकीर्तनम् ॥ १०६ पितॄणां द्विमकाराणां तर्पणं चामृतस्य वै । ततः पर्वाणि कीर्त्यन्ते पर्वाणां चैव संधयः ॥ १०७ स्वर्गलोकगतानां च प्राप्तानां चाप्यधोगतिम् । पितॄणां द्विमकाराणां श्राद्धेनानुग्रहो महान् ॥ १०८ युगसंख्या प्रमाणं च कीर्त्यते च कृतं युगम् । त्रेतायुगे चापकर्षाद्वार्तायाः संप्रवर्तनम् ॥ १०९ * वर्णानामाश्रमाणां च संख्यानां च प्रवर्तनम् । वर्णानामाश्रमाणां च संस्थितिर्धर्मतस्तथा ॥ ११० यज्ञप्रवर्तनं चैव संवादो यत्र कीर्त्यते । ऋषीणां वसुना सार्धं वसोश्चाधः पुनर्गतिः ॥ १११ प्रश्नानां दुर्वचस्त्वं च स्वायंभुवमृते मनुम् । प्रशंसा तपसश्चोक्ता युगावस्थाश्च कृत्स्नशः ॥ ११२ द्वापरस्य कलेश्चात्र संक्षेपेण प्रकीर्तनम् । देवतिर्यङ्मनुष्याणां प्रमाणानि युगे युगे ॥ ११३ कीर्त्यन्ते युगसामर्थ्यात्परिणाहोच्छ्रयायुषः । शिष्टादीनां च निर्देशः प्रादुर्भावश्च कीर्त्यते ॥ ११४ ( +मन्त्राणां ब्राह्मणानां च लक्षणं परिकीर्तितम् । ईश्वराणामृषीणां च मनोः पितृगणस्य च ॥) ११५ ( ×वेदस्य तद्विजातानां मन्त्राणां च प्रकीर्तनम् । शाखानां परिमाणं च वेदव्यासा दिशब्ददनम्॥ ११६ मन्वन्तराणां संहारः संहारान्ते च संभवः । देवातानामृषीणां च मनोः पितृगणस्य च ॥ ११७ न शक्यं विस्तराद्वक्तुमित्युक्तं च समासतः । मन्वन्तरस्य संख्या च मानुषेण प्रकीर्तिता ॥ ११८ मन्वन्तराणां सर्वेषामेतदेव च लक्षणम् । अतीतानागतानां च वर्तमानेन कीर्त्यते ॥ ११९ तथा मन्वन्तराणां च प्रतिसंधानलक्षणम् । अतीतानागतानां च मोक्तं स्वायंभुवेऽन्तरे ॥ १२० मन्वन्तरत्रयं चैव कालज्ञानं च कीर्त्यते । मन्वन्तरेषु देवानां प्रजेशानां च कीर्तनम् ॥ १२१ दक्षस्य चापि दौहित्राः प्रियाया दुहितुः सुता । ब्रह्मादिभिस्ते जनिता दक्षेणैव च धीमता ॥ १२२ साववर्ण्याद्याश्च कीर्त्यन्ते मनवो मेरुताश्रिताः । ध्रुवस्योत्तानपादस्य प्रजासर्गोपवर्णनम् ॥ १२३ पृथुना वाऽपि वैन्येन भूमेर्दोहप्रवर्तनम् । पात्राणां पयसां चैव वंशानां च विशेषणम् ॥ १२४ ब्रह्मादिभिः पूर्वमेव दुग्धा चयं वसुंधरा । दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतेः ॥ १२५ दक्षस्य कीर्त्यते जन्म सोमस्यांशेन धीमतः । भूतभव्यभवेशत्वं महेन्द्राणां च कीर्त्यते ॥ १२६ मन्वादिका भविष्यन्ति आख्यानैर्बहुभिर्वृताः । वैवस्वतस्य च मनोः कीर्त्यते सर्वविस्तरः १२७ देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् । ब्रह्मशुक्रात्समुत्पत्तिर्भृग्वादीनां च कीर्त्यते ॥ १२८ विनिवृत्ते प्रजासर्गे चाक्षुषस्य मनोः शुभे । दक्षस्य कीर्त्यते सर्गो ध्यानाद्वैवस्वतेऽन्तरे ॥ १२९ नारदः प्रियसंवादो दक्षपुत्रान्महाबलान् । नाशयामास शापाय आत्मनो ब्रह्मणः सुतः ॥ १३० ततो दक्षोऽसृजत्कन्या वीरिण्यामेव विश्रुताः । कीर्त्यते धर्मसर्गश्च कश्यपस्य च धीमतः ॥ १३१ अत ऊर्ध्वं ब्रह्मणश्च विष्णोश्चैव भवस्य च । एकत्वं च पृथक्त्वं च विशेषत्वं च कीर्त्यते ॥ १३२ ईशत्वाच्च यथा शप्ता जाता देवाः स्वयंभुवा । मरुत्प्रसादो मरुतां दित्या देवाश्च संभवाः ॥ १३३
* इदमर्धं नास्ति ख. घ. ङ. पुस्तकेषु । + धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।
× धनुश्चिह्नान्तर्गतं नास्ति घ. पुस्तके ।
६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०श्लो० १३४-१६१]
( अनुक्रमणिका )
कीर्त्यन्ते मरुतां चाथ गणास्ते सप्तसप्तकाः। देवत्वं पितृवाक्येन(ण) वायुस्कन्धेन चाऽऽश्रयः ॥१३४
दैत्यानां दानवानां च गन्धर्वोरगरक्षसाम् । सर्वभूतपिशाचानां पशूनां पक्षिवीरुधाम् ॥ १३५
उत्पत्तयश्चाप्सरसां कीर्त्यन्ते बहुविस्तराः । समुद्रसंयोगकृतं जन्मैरावतहस्तिनः ॥ १३६
वैनतेयसमुत्पत्तिस्तथा चास्याभिषेचनम् । भृगूणां विस्तरचोक्तस्तथा चाऽङ्गिरसामपि ॥ १३७
कश्यपस्य पुलस्त्यस्य तथैवात्रेर्महात्मनः । पराशरस्य च मुनेः प्रजानां यत्र विस्तरः ॥ १३८
देवतानामृषीणां च प्रजोत्पत्तिस्ततः परम् । तिस्रः कन्याः प्रकीर्त्यन्ते यासु लोकाः प्रतिष्ठिताः ॥
पितृदौहित्रनिर्देशो देवानां जन्म चोच्यते । विस्तरते भगवतः पञ्चानां सुमहात्मनाम् ॥ १४०
इलाया विस्तरश्चोक्त आदित्यस्य ततः परम् । विकुक्षिचरितं चोक्तं धुन्धोश्चैव निबर्हणम् ॥ १४१
बृहद्बलबलान्तसंक्षेपादिक्ष्वाकाद्याः प्रकीर्तिताः । निम्यादीनां क्षितीशानां यावज्जह्नुगुणादिति ॥ १४२
कीर्त्यते विस्तरो यश्च ययातेरपि भूपतेः । यदुवंशसमुद्देशो हैहयस्य च विस्तरः ॥ १४३
क्रोष्टोरनन्तरं चोक्तस्तथा वंशस्य विस्तरः । ज्यामघस्य च माहात्म्यं प्रजासर्गश्च कीर्त्यते ॥ १४४
देवावृधस्य त्वर्कस्य वृष्णेचैव महात्मनः । (* अनमित्रान्वयश्चैव विष्णो[+ र्दिव्याभिशंसनम् ॥ १४५
विवस्वतोऽथ संपाप्तिर्मणिरत्नस्य धीमतः । युधाजितः प्रजासर्गः कीर्त्यते च महात्मनः ) ॥ १४६
कीर्त्यते चान्वयः श्रीमान्राजर्षेर्देवमीढुषः । पुनश्च जन्म चाप्युक्तं चरितं च महात्मनः ॥ ] १४७
कंसस्य चापि दौरात्म्यमेकान्तेन समुद्भवः । वासुदेवस्य देवक्यां विष्णोर्जन्म प्रजापतेः ॥ १४८
विष्णोरनन्तरं चापि प्रजासर्गोपवर्णनम् । देवासुरे समुत्पन्ने विष्णुना स्त्रीवधे कृते ॥ १४९
संरक्षता शक्रवधं शापः प्राप्तः पुरा भृगोः । भृगोश्चोत्थापयामास दिव्यां शुक्रस्य मातरम् ॥ १५०
देवानामसुरारणां च सङ्ग्रामा द्वादशाद्भुताः । नारसिंहप्रभृतयः कीर्त्यन्ते प्राणनाशनाः ॥ १५१
शुक्रेणाऽऽराधनं स्थाणोर्धीरेण तपसा कृतम् । वरदानप्रलुब्धेन यत्र शर्वस्तवः कृतः ॥ १५२
अनन्तरं विनिर्दिष्टं देवासुरविचेष्टितम् । जयन्त्या सह सक्ते तु यत्र शुक्रे महात्मनि ॥ १५३
आसुरान्मोहयामास शुकरूपेण बुद्धिमान् । बृहस्पतिस्तु तान्द्रुब्धः शशाप समहाद्युतिः ॥ १५४
उक्तं च विष्णुमाहात्म्यं विष्णोर्जन्मादिशब्दनम् । तुर्वसुः शुक्रदौहित्रो देवयांन्यां यदोरभूत् ॥१५५
अनुर्द्रुह्युस्तथा पूरुर्ययातेतनया नृपाः । अत्र वंश्या महात्मानस्तेषां पार्थिवसत्तमाः ॥ १५६
कीर्त्यन्ते यत्र कार्त्स्न्येन भूरिद्रविणतेजसः । कुशिकस्य च विप्रर्षेः सम्यग्ग्यो धर्मसंश्रयः ॥ १५७
बार्हस्पत्यं तु सुरभिर्यत्र शापमिहानुदत् । कीर्तनं जह्नुवंशस्य शांतनोर्वीर्यशब्दनम् ॥ १५८
भविष्यतां तथा राज्ञामुपसंहारशब्दनम् । अनागतानां सप्तानां मनूनां चोपवर्णनम् ॥ १५९
भौमस्यान्ते कलियुगे क्षीणे संहारवर्णनम् । परार्ध्यपर्ययोश्चैव लक्षणं परिकीर्त्यते ॥ १६०
ब्रह्मणो योजनायेण पारिमाणविनिर्णयः । नैमित्तिकः प्राकृतिकस्तथैवाऽऽत्यन्तिकः स्मृत ॥ १६१
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
[ अ०१श्लो० १६२-१९० ] वायुपुराणम् ७
( अनुक्रमणिका )
त्रिविधः सर्वभूतानां कीर्त्यते प्रतिसंचरः । अनावृष्टिर्भास्कराच्च घोरः संवर्तकोऽनलः ॥ १६२ मेवो ह्येकार्णवं वायुस्तथा रात्रिर्महात्मनः । संख्यालक्षणमुद्दिष्टं ततो ब्राह्मं विशेषतः ॥ १६३ भूरादीनां च लोकानां समानामुपवर्णनम् । कीर्त्यन्ते चात्र निरयाः पापानां रौरवादयः ॥ १६४ ब्रह्मलोकोपरिष्ठात्तु शिवस्य स्थानमुत्तमम् । यत्र संहारमायान्ति सर्वभूतानि संक्षये ॥ १६५ सर्वेषां चैव सत्त्वानां परिणामविनिर्णयः । ब्रह्मणः प्रतिसंसर्गे सर्वसंहारवर्णनम् ॥ १६६ अष्टरूप्यमतः प्रोक्तं प्राणस्याष्टकमेव च । गतिश्चोर्ध्वमधश्चोक्ता धर्माधर्मसमाश्रयात् ॥ १६७ कल्पे कल्पे च भूतानां महतामपि संक्षयः । प्रसंख्याय च दुःखानि ब्रह्मणश्चाप्यनित्यता ॥ १६८ दौरात्म्यं चैव भोगानां परिणामविनिर्णयः । दुर्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनम् ॥ १६९ व्यक्ताव्यक्तं परित्यज्य सत्त्वं ब्रह्मणि संस्थितम् । नानात्वदर्शनाच्छुद्धं ततस्तदभिवर्तते ॥ १७० ततस्तापत्रयातीतो नीरूपारूख्यो निरञ्जनः । आनन्दो ब्रह्मणः प्रोक्तो न बिभेति कुतश्चन ॥ १७१ कीर्त्यते च पुनः सर्गो ब्रह्मणोऽन्यस्य पूर्ववत् । कीर्त्यते ऋषिवंशश्च सर्वपापप्रणाशनः ॥ १७२ इतिकृत्यसमुद्देशः पुराणस्योपवर्णितः । कीर्त्यन्ते जगतो ह्यत्र सर्वप्रलयविक्रियाः ॥ १७३ प्रवृत्तयश्च भूतानां निवृत्तीनां फलानि च । प्रादुर्भावो वशिष्ठस्य शक्तेर्जन्म तथैव च ॥ १७४ सौदासान्निग्रहस्तस्य विश्वामित्रकृतेन च । पराशरस्य चोत्पत्तिरदृश्यत्वं यथा विभोः ॥ १७५ जज्ञे पितॄणां कन्यायां व्यासश्चापि यथा मुनिः। शुकस्य च तथा जन्म सह पुत्रस्य धीमत. ॥ १७६ पराशरस्य मद्द्वेषो विश्वामित्रकृतो यथा । वशिष्ठसंभृतश्चाग्निर्विश्वामित्रजिघांसया ॥ १७७ संतानहेतोर्विभुना चोर्णिः स्कन्देन धीमता । दैवेन विधिना विप्र विश्वामित्रहितैषिणा ॥ १७८ एकं वेदं चतुष्पादं चतुर्धा पुनरीश्वरः । यथा बिभेद भगवान्व्यासः सर्वान्स्वबुद्धितः ॥ १७९ तस्य शिष्यैः प्रशिष्यैश्च शाखाभेदाः पुनः कृताः । प्रयोगैः षड्गुणैश्च यथा पृष्टः स्वयंभुवा ॥ पृष्टेन चानुपृष्टास्ते मुनयो धर्मकाङ्क्षिणः । देशं पुण्यमभीप्सन्तो विभुना तद्धितेषिणा ॥ १८१ सुनाभं दिव्यरूपारख्यं सत्याङ्गं शुभविक्रमम् । अनौपम्यमिदं चक्रं वर्तमानमतन्द्रिताः ॥ १८२ पृष्ठतो यात नियतास्ततः प्राप्स्यथ यद्धितम् । गच्छतो धर्मचक्रस्य यत्र नेमिर्विशीर्यते ॥ १८३ पुण्यः स देशो मन्तव्य इत्युवाच तदा प्रभुः । उक्त्वा चैवमृषीन्ब्रह्मा ह्यदृश्यत्वमगात्पुनः ॥ २८४ गङ्गागर्भसमाहारं नैमिषेयत्वमेव च । ईजिरे चैव सत्रेण मुनयो नैमिषे तदा ॥ १८५ मृते शरद्वति तथा तस्य चोत्थापनं कृतम् । ऋषयो नैमिषेयास्तु श्रद्धया परया पुनः ॥ १८६ निःसीमा गामिमां कृत्स्नां कृत्वा राजानमाहरन् । यथाविधि यथाशास्त्रं तमातिथ्यैरपूजयन् ॥ १८७ पीतं चैव कृतातिथ्यं राजानं विधिवत्तदा । अन्तर्धानगतः क्रूरः स्वर्भानुरसुरोऽहरत् ॥ १८८ अनुसङ्ग्रह्वंतं चापि नृपमैडं यथा पुरा । गन्धर्वसहितं दृष्ट्वा कलापग्रामवासिनम् ॥ १८९ संनिपातः पुनस्तस्य यथा यज्ञे महर्षिभिः । दृष्ट्वा हिरण्मयं सर्वं यज्ञे वस्तु महात्मनाम् ॥ १९०
| ८ | श्रीमद्वैपायनमुनिप्रणीतम्- | [अ० १ श्लो० २-९] |
|---|---|---|
| {: align="center"} | ||
| ( द्वादशवार्षिकसत्रनिरूपणम् ) |
तदा वै नैमिषेयाणां सत्रे द्वादशवार्षिके । यथा विवदमानास्तु ऐडेः संस्थापितस्तु तैः ॥ १९१
जनयित्वा त्वरण्यान्त ऐलपुत्रं यथायुषम् । समापयित्वा तत्सत्रमायुषं पर्युपासते ॥ १९२
एतत्सर्वं यथावृत्तं व्याख्यातं द्विजसत्तमाः । ऋषीणां परमं चात्र लोकतत्त्वमनुत्तमम् ॥ १९३
ब्रह्मणा यत्पुरा प्रोक्तं पुराणं ज्ञानमुत्तमम् । अवतारश्च रुद्रस्य द्विजानुग्रहकारणात् ॥ १९४
तथा पाशुपता योगाः स्थानानां चैव कीर्तनम् । लिङ्गोद्भवस्य देवस्य नीलकण्ठत्वमेव च ॥ १९५
कथ्यते यत्र विप्राणां वायुना ब्रह्मवादिना । धन्यं यशस्यमायुष्यं सर्वपापप्रणाशनम् ॥ १९६
कीर्तनं श्रवणं चास्य धारणं च विशेषतः । अनेन हि क्रमेणेदं पुराणं संप्रचक्ष्यते ॥ १९७
सुखभर्थः समासेन महानप्युपलभ्यते । तस्मात्किंचित्समुद्दिश्य पश्चाद्वक्ष्यामि विस्तरम् ॥ १९८
पादमाद्यमिदं सम्यग्योऽधीयीत जितेन्द्रियः । तेनाधीतं पुराणं तत्सर्वं नास्त्यत्र संशयः ॥ १९९
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः । न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ २००
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ २०१
अभ्यसन्निममध्यायं साक्षात्प्रोक्तं स्वयंभुवा । आपदं प्राप्य मुच्येत यथेष्टां प्राप्नुयाद्गतिम् ॥ २०२
यस्मात्पुरा ह्यनतीदं पुराणं तेन तत्स्मृतम् । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ २०३
नारायणः यर्वमिदं विश्वं व्याप्य प्रवर्तते । तस्यापि जगतः स्रष्टुः स्रष्टा देवो महेश्वरः ॥ २०४
अतश्च संक्षेपमिमं शृणुध्वं महेश्वरः सर्वमिदं पुराणम् ।
स सर्वकाले च करोति सर्गं सहारकाले पुनराददीत ॥ २०५
इति श्रीमहापुराणे वायुप्रोक्ते प्रक्रियापादेऽनुक्रमणिका नाम प्रथमोऽध्यायः ॥ १ ॥
अथ द्वितीयोऽध्यायः ।
द्वादशवार्षिकसत्रनिरूपणम् ।
प्रत्यब्रुवन्पुनः सूतमृषयस्ते तपोधनाः । कुत्र सत्रं समभवत्तेषामद्भुतकर्मणाम् ॥ १
कियन्तं चैव तत्कालं कथं च समवर्तत । आचचक्ष पुराणं च कथं तेभ्यः प्रभञ्जनः ॥ २
आचक्ष्व विस्तरेणेदं परं कौतूहलं हि नः । इति संनोदितः सूतः प्रत्युवाच शुभं वचः ॥ ३
शृणुध्वं यत्र ते धीरा ईजिरे सत्रमुत्तमम् । यावन्तं चाभवत्कालं यथा च समवर्तत ॥ ४
सिसृक्षमाणा विश्वं हि यत्र विश्वसृजः पुरा । सत्रं हि ईजिरे पुण्यं सहस्रं परिवत्सरान् ॥ ५
तपोगृहपतिर्यत्र ब्रह्मा ब्रह्माऽभवत्स्वयम् । इलाया यत्र पत्नीत्वं शामित्रं यत्र बुद्धिमान् ॥ ६
मृत्युश्चक्रे महातेजास्तन्मिन्सत्रे महात्मनाम् । विबुधा ईजिरे तत्र सहस्रं प्रतिवत्सरान् ॥ ७
भ्रमतो धर्मचक्रस्य यत्र नेमिरशीर्यत । कर्मणा तेन विख्यातं नैमिषं मुनिपूजितम् ॥ ८
यत्र सा गोमती पुण्या सिद्धचारणसेविता । रोहिणी सुषुवे तत्र ततः सौम्योऽभवत्सुतः ॥ ९
[ अ० २ श्लो० १०-३७ ] वायुपुराणम् ६
( द्वादशवार्षिकसत्रनिरूपणम् ) शक्तिज्येष्ठाः समभवन्वशिष्ठस्य महात्मनः । अरुन्धत्याः सुता यत्र शतमुत्तमतेजसः ॥ १० कल्माषपादो नृपतिर्यत्र शप्तश्च शक्तिना । यत्र वैरं समभवद्विश्वामित्रवशिष्ठयोः ॥ ११ अदृश्यन्त्यां समभवन्मुनिर्यत्र पराशरः । पराभवो वशिष्ठस्य यस्मिञ्जातऽप्यवर्तत ॥ १२ तत्र त ईजिरे सत्रं नैमिषे ब्रह्मवादिनः । नेमिष ईजिरे यत्र नैमिषेयास्ततः स्मृताः ॥ १३ तत्सत्रमभवत्तेषां समा द्वादश धीमताम् । पुरूरवसि विक्रान्ते प्रशासति वसुंधराम् ॥ १४ अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः । तुतोष नैव रत्नानां लोभादिति हि नः श्रुतम् ॥ १५ उर्वशी चकमे यं च देवहूतिप्रणोदिता । आजहार च तत्सत्रं स्वर्वैश्यासहसंगतः ॥ १६ तस्मिन्नरपतौ सत्रं नैमिषेयाः प्रचक्रिरे । यं गर्भं सुषुवे गङ्गा पावकाद्दीप्ततेजसम् ॥ १७ तदुल्बं पर्वते न्यस्तं हिरण्यं पत्यपद्यत । हिरण्मयं ततश्चक्रे यज्ञवाटं महात्मनाम् ॥ १८ विश्वकर्मा स्वयं देवो भावयँल्लोकभावनाम् । बृहस्पतिस्ततस्तत्र तेषाममिततेजसाम् ॥ १९ ऐडः पुरूरवा भेजे तं देशं मृगयां चरन् । तं दृष्ट्वा महदाश्चर्यं यज्ञवाटं हिरण्मयम् ॥ २० लोभेन हतविज्ञानस्तदादातुं प्रचक्रमे । नैमिषेयास्ततस्तस्य चुक्रुधुर्नृपतेर्भृशम् ॥ २१ निजघ्नुश्चापि संक्रुद्धाः कुशवज्रैर्मनीषिणः । ततो निशान्ते राजानं मुनयो दैवनोदिताः ॥ २२ कुशवज्रैर्विनिष्पिष्टः स राजा व्यजहात्तनूम् । और्वशेयं ततस्तस्य पुत्रं चक्रुर्नृपं भुवि ॥ २३ नहुषस्य महात्मानं पितरं यं प्रचक्षते । स तेषु वर्तते सम्यग्धर्मशीलो महीपतिः ॥ २४ आयुरायोग्यमत्युग्रं तस्मिन्स नरसत्तमः । सान्त्वयित्वा च राजानं ततो ब्रह्मविदां वराः ॥ २५ सत्रमारेभिरे कर्तुं यथावद्धर्मभूतये । बभूव सत्रं तन्तेषां बह्वाश्चर्यं महात्मनाम् ॥ २६ विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव । वैखानसैः प्रियसखैर्वालखिल्यैर्मरीचिकैः ॥ २७ अन्यैश्च मुनिभिर्जुष्टं सूर्यवैश्वानरप्रभैः । पितृदेवाप्सरःसिद्धैर्गन्धर्वोरगचारणैः ॥ २८ संभारैस्तु शुभैर्जुष्टं तैरेवेन्द्रसदो यथा । स्तोत्रसत्रग्रहैर्देवान्पितॄन्पित्र्यैश्च कर्मभिः ॥ २९ आनर्चुश्च यथाजाति गन्धर्वादीन्यथाविधि । आराधयितुमिच्छन्तस्ततः कर्मान्तरेष्वथ ॥ ३० जगुः सामानि गन्धर्वा ननृतुश्चाप्सरोगणाः । व्याजह्रुर्मुुनयो वाचं चित्राक्षरपदां शुभाम् ॥ ३१ मन्त्रादितत्त्वविद्वांसो जगदुश्च परस्परम् । वितण्डावचनाश्चैके निजघ्नुः प्रतिवादिनः ॥ ३२ ऋषयस्तत्र विद्वांसः सांख्यार्थन्यायकोविदाः । न तत्र दुरितं किंचिद्दिदृक्षुर्बलराक्षसाः ॥ ३३ न च यज्ञहनो दैत्या न च यज्ञमुषोऽसुराः । प्रायश्चित्तं दुरिष्टं वा न तत्र समजायत ॥ ३४ शक्तिप्रज्ञाक्रियायोगैर्विधिरासीत्स्वनुष्ठितः । एवं वितेनिरे सत्रं द्वादशाब्दं मनीषिणः ॥ ३५ भृग्वाद्या ऋषयो धीरा ज्योतिष्टोमान्पृथक्पृथक् । चक्रिरे पृष्ठगमनान्सर्वानयुतदक्षिणान् ॥ ३६ समापयज्ञास्ते सर्वे वायुमेव महाधिपम् । पप्रच्छुरमितात्मानं भवद्भिर्र्यदहं द्विजाः ॥ ३७
२
सप्तस्कन्धादिकं शश्वत्प्लवते योजनाद्दरः । विषये नियता यस्य संस्थिताः सप्तका गणाः ॥ ४०
१० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ३ श्लो० १-८]
(प्रजापतिसृष्टिकथनम्)
प्रणोदितश्च वंशार्थं स च तानब्रवीत्प्रभुः । शिष्यः स्वयंभुवो देवः सर्वप्रत्यक्षदृग्वशी ॥ ३८
अणिमादिभिरष्टाभिरैश्वर्यैः समन्वितः । तिर्यग्योन्यादिभिर्धर्मैः सर्वलोकान्बिभर्ति यः ॥ ३९
सप्तस्कन्धादिकं शश्वत्प्लवते योजनाद्दरः । विषये नियता यस्य संस्थिताः सप्तका गणाः ॥ ४०
व्यूहांस्त्रयाणां भूतानां कुर्वंश्चैव महाबलः । तेजसश्चाप्युपध्यानं दधातीमं शरीरिणम् ॥ ४१
प्राणाद्या वृत्तयः पञ्च करणानां च वृत्तिभिः । प्रेर्यमाणाः शरीराणां कुर्वते यास्तु धारणम् ॥ ४२
आकाशयोनिर्द्विगुणः शब्दस्पर्शसमन्वितः । तैजसप्रकृतिश्चोक्तोऽप्ययं भावो मनीषिभिः ॥ ४३
तत्राभिमानी भगवान्वायुश्चाशिक्रयात्मकः । वाताराणिः समाख्यातः शब्दशास्त्रार्थविशारदः ॥ ४४
भारत्या श्लक्ष्णया सर्वान्मुनीन्प्रह्लादयन्निव । पुराणज्ञः सुमनसः पुराणाश्रययुक्तया ॥ ४५
इति श्रीमहापुराणे वायुप्रोक्ते द्वादशवार्षिकसत्रनिरूपणं नाम द्वितीयोऽध्यायः ॥ २ ॥
आदितः श्लोकानां समष्ट्यङ्काः—२४९
अथ तृतीयोऽध्यायः ।
प्रजापतिसृष्टिकथनम् ।
सूत उवाच—
महेश्वरायोत्तमवीर्यकर्मणे सुरर्षभायामितबुद्धितेजसे ।
सहस्रसूर्यानलवर्चसे नमस्त्रिलोकसंहाराविसृष्टये नमः ॥ १
प्रजापतीँल्लोकनमसकृतांस्तथा स्वयंभुरुद्रप्रभृतीन्महेश्वरान् ।
भृगुं मरीचिं परमेष्ठिनं मनुं रजस्तमोधर्ममथापि कश्यपम् ॥ २
वशिष्ठदक्षात्रिपुलस्त्यकर्दमान्रुचिं विवस्वन्तमथापि च क्रतुम् ।
मुनिं तथैवाङ्गिरसं प्रजापतिं प्रणम्य मूर्ध्ना पुलहं च भावतः ॥ ३
तथैव चु( च ? )क्रोधनमेकविंशतिं प्रजाविवृद्ध्याऽर्पितकार्यशासनम् ।
पुरातनानप्यपरांश्च शाश्वतांस्तथैव चान्यान्सगणानवस्थितान् ॥ ४
(*मनूंश्च सर्वानखिलानवस्थितां) स्तथैव चान्यानपि धैर्यशोभिनः ।
मुनीन्बृहस्पत्युशनःपुरोगमांस्तपःशुभाचारऋषीन्दयान्वितान् ॥ ५
प्रणम्य वक्ष्ये कलिपापनाशिनीं प्रजापतेः सृष्टिमिमामनुत्तमाम् ।
सुरेशदेवर्षिगणैरलंकृतां शुभामतुल्याममदामृषिप्रियाम् ॥ ६
प्रजापतीनामपि चोल्बणार्चिषां ( +विशुद्धवाग्बुद्धिशरीरतेजसाम् ।
तपोभृतां ब्रह्मदिनादिकालिकीं प्रभूंतमाविष्कृतपौरुषश्रियम् ॥ ) ७
श्रुतौ स्मृतौ च प्रसुतामुदाहृतां परां पुराणामनिलप्रकीर्तिताम् ।
समासबन्धैर्नियतैर्यथातथं विशब्देनेनापि मनःप्रहर्षिणीम् ॥ ८
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतं नास्ति क. पुस्तके ।
〔अ० २ श्लो० ९-२३〕 वायुपुराणम् । ११
( प्रजापतिसृष्टिकथनम् )
यस्यां च बद्धा प्रथमा प्रवृत्तिः प्राधानिकी चेश्वरकारिता च । यतस्तमृतं कारणमप्रमेयं ब्रह्म प्रधानं प्रकृतिप्रसूतिः ॥ ९ आत्मा गुहा योनिरथापि चक्षुः क्षेत्रं तथैवामृतमक्षरं च । शुकं तपः सत्त्वमभिमकाशं तद्व्यष्टि नित्यं पुरुषं द्वितीयम् ॥ १० तमप्रमेयं पुरुषेण युक्तं स्वयंभुवा लोकपितामहेन । उत्पादकत्वादजसोऽतिरेकात्कालस्य योगान्नियमावधेश्च ॥ ११ क्षेत्रज्ञयुक्तानियतान्विकाराँल्लोकस्य संतानविवृद्धिहेतून् । प्रकृत्यवस्था सुषुवे तथाऽष्टौ संकल्पमात्रेण महेश्वरस्य ॥ १२ देवासुराद्रिद्रुमसागराणां (*गन्धर्वयक्षोरगमानुषाणाम् । ) मनुप्रजेशर्षिपितृद्विजानां पिशाचयक्षोरगराक्षसानाम् ॥ १३ तारामहार्क्षन्निशाचराणां मासर्तुसंवत्सररात्र्यहानाम् । दिक्कालयोगादियगायनानां वनौषधीनामपि वीरुधां च ॥ १४ जलौकसामप्सरसां पशूनां विद्युत्सरिन्मेघविहङ्गमानाम् । यत्सूक्ष्मगं यद्द्भुवि यद्वियत्स्थं यत्स्थावरं यत्र यदस्ति किंचित् ॥ १५ सर्वस्य तस्यास्ति गतिर्विभक्तिराब्रह्मणो यावदियं प्रसूतिः । छन्दांसि वेदाः सकृचो यजूंषि सामानि सोमश्च तथैव यज्ञः ॥ १६ आजीव्यमेषां यदभीप्सितं च देवस्य तस्यैव च वै प्रजानाम् । वैवस्वतस्यास्य मनोः पुरस्तात्संभूतिरुक्ता प्रसवश्च तेषाम् ॥ १७ येषामिदं पुण्यकृतां प्रसृत्या लोकत्रयं लोकनमस्कृतानाम् । सुरेशवर्षमनुप्रधानमापूरितं चोपरिभूषितं च ॥ १८ रुद्रस्य शापात्पुनरुद्भवश्च दक्षस्य चाप्यत्र मनुष्यलोके । वासः क्षितौ वा नियमाद्भवस्य दक्षस्य चाप्यत्र मनुष्यलोके ॥ १९ मन्वन्तराणां परिवर्तनानि युगेषु संभूतिविकल्पनं च । ऋषित्वमार्षस्य च संभवृद्धिर्यथा युगादिष्वपि चेत्तदत्र ॥ २० ये द्वापरेषु प्रथयन्ति वेदान्व्यासाश्च तेऽत्र क्रमशो निबद्धाः । कल्पस्य संख्या भुवनस्य संख्या ब्राह्मस्य चाप्यत्र दिनस्य संख्या ॥ २१ ÷अण्डोद्भिज्जस्वेदजरायुजानां धर्मात्मनां स्वर्गनिवासिनां वा । ये यातनास्थानगताश्च जीवास्तत्केण तेषामपि च प्रमाणम् ॥ २२ आत्यन्तिकः प्राकृतिकाश्च योऽयं नैमित्तिकश्च प्रतिसर्गहेतुः । बन्धश्च मोक्षश्च विशिष्य तत्र प्रोक्ता च संसारगतिः परा च ॥ २३
* धनुश्चिह्नान्तर्गतं नास्ति क. पुस्तके । ÷ 'अण्डोड्डिज' इत्यार्षः प्रयोगः ।
इति श्रीमहापुराणे वायुप्रोक्ते प्रक्रियापादे सृष्टिप्रकरणं नाम तृतीयोऽध्यायः॥ ३॥
| १२ | श्रीमद्वैपायनमुनिप्रणीतम्— | [अ०४ श्लो० १-२२] |
|---|---|---|
| (सृष्टिप्रकरणम्) |
प्रकृत्यवस्थेषु च कारणेषु या च स्थितिर्या च पुनः प्रवृत्तिः।
तच्छास्त्रयुक्त्या स्वमतिमयत्नात्समस्तमाविष्कृतधीधृतिभ्यः॥
विप्रा ऋषिभ्यः समुदाहृतं यद्यथातथं तच्छृणुतोच्यमानम्॥ २४
इति श्रीमहापुराणे वायुप्रोक्ते प्रक्रियापादे सृष्टिप्रकरणं नाम तृतीयोऽध्यायः॥ ३॥
आदितः श्लोकानां समष्ट्यङ्काः—२७३
अथ चतुर्थोऽध्यायः।
सृष्टिप्रकरणम्।
ऋषयस्तु ततः श्रुत्वा नैमिषारण्यवासिनः। प्रत्यूचुस्ते ततः सर्वे सूतं पर्याकुलेक्षणाः॥ १
भवान्वै वंशकुशलो व्यासात्प्रत्यक्षदर्शीवान्। तस्मात्त्वं भवनं कृत्स्नं लोकस्यामुष्य वर्णय॥ २
यस्य यस्यान्वया ये ये तांस्तानीच्छाम वेदितुम्। तेषां पूर्वर्षिसृष्टिं च विचित्रां तां प्रजापतेः। ३
असकृत्परिपृष्टस्तैर्महात्मा लोमहर्षणः। विस्तरेणाऽनुपूर्व्या च कथयामास सत्तमः॥ ४
लोमहर्षण उवाच—
पृष्टां चैतां कथां दिव्यां श्लक्ष्णां पापप्रणाशिनीम्। कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमताम् ५
यश्चेमां धारयेन्नित्यं शृणुयाद्वाऽप्यभीक्ष्णशः श्रावयेच्चापि विप्रेभ्यो यतिभ्यश्च विशेषतः॥ ६
शुचिः पर्वसु युक्तात्मा तीर्थेष्वायतनेषु च। दीर्घमायुरवाप्नोति स पुराणानुकीर्तनात्॥ ७
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते। विस्तारावयवं तेषां यथाशब्दं यथाश्रुतम्॥ ८
कीर्त्यमानं निबोधध्वं सर्वेषां कीर्तिवर्धनम्। धन्यं यशस्यं शत्रुघ्नं स्वर्ग्यमायुर्विवर्धनम्॥ ९
कीर्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकारिणाम्। सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च॥ १०
वंशानुचरितं चेति पुराणं पञ्चलक्षणम्। कल्पेभ्योऽपि हि यः कल्पः शुचिभ्यो नियतः शुचिः। ११
पुराणं संप्रवक्ष्यामि मारुतं वेदसंमितम्। प्रबोधः प्रलयश्चैव स्थितिरुत्पत्तिरेव च॥ १२
प्रक्रिया प्रथमः पादः कथावस्तुपरिग्रहः। उपोद्घातोऽनुषङ्गश्च उपसंहार एव च॥ १३
धर्म्यं यशस्यमायुष्यं सर्वपापप्रणाशनम्। एवं हि पादाश्चत्वारः समासात्कीर्तिता मया॥ १४
वक्ष्याम्येतान्पुनस्तांस्तु विस्तरेण यथाक्रमम्। तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च॥ १५
अजाय प्रथमायैव विशिष्टाय प्रजात्मने। ब्रह्मणे लोकतन्त्राय नमस्कृत्य स्वयंभुवे॥ १६
महदाद्यं विशेषान्तं सर्वरूप्यं सुलक्षणम्। पञ्चप्रमाणं षट्त्वेतं पुरुषाधिष्ठितं नुत्तम्॥ १७
असंशयात्मवक्ष्यामि भूतसर्गमनुत्तमम्। अव्यक्तं कारणं यत्तु नित्यं सदसदात्मकम्॥ १८
प्रधानं प्रकृतिं चैव यमाहुस्तत्त्वचिन्तकाः। गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्जितम्॥ १९
अजातं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम्। जगद्योनिं महद्भूतं परं ब्रह्म सनातनम्॥ २०
विग्रहं सर्वभूतानामव्यक्रमभवत्किल। अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम्॥ २१
असांप्रतमविज्ञेयं ब्रह्माये समवर्तत। तस्याऽऽत्मना सर्वमिदं व्याप्यमासीत्तमोमयम्॥ २२
[अ० ४ श्लो० २३-५०] वायुपुराणम् । १३
( सृष्टिप्रकरणम् )
गुणसाम्ये तदा तस्मिन्गुणभावे तमोमये । सर्वकाले प्रधानस्य क्षेत्रज्ञाधिष्ठितस्य वै ॥ २३
गुणभावाद्वाच्यमानो महांन्प्रादुर्बभूव ह । सूक्ष्मेण महता सोऽथ अव्यक्तेन समावृतः ॥ २४
सत्त्वोद्रिक्तो महानग्रे सत्त्वमात्रं प्रकाशकम् । मनो महांश्च विज्ञेयो मनस्तत्कारणं स्मृतम् ॥ २५
लिङ्गमात्रसमुत्पन्नः क्षेत्रज्ञाधिष्ठितस्तु सः । धर्मादीनां तु रूपाणि लोकतत्त्वार्थहेतवः ॥ २६
महांस्तु सृष्टिं कुरुते नोद्यमानः सिसृक्षया । मनो महान्मतिर्ब्रह्मा भूबुद्धिः ख्यातिरीश्वरः ॥ २७
प्रज्ञा चितिः स्मृतिः संविद्विपुरं चोच्यते बुधैः । मनुते सर्वभूतानां यस्माच्चेष्टाफलं विभुः ॥ २८
सौ(सू)क्ष्मत्वेन विवृद्धानां तेन तन्मन उच्यते । तत्त्वानामाग्रजो यस्मान्महांश्च परिमाणतः ॥ २९
शेषेभ्योऽपि गुणेभ्योऽसौ महानीति ततः स्मृतः । बिभर्ति मानं मनुते विभागं मन्यतेऽपि च ॥ ३०
पुरुषोपभोगसंबन्धात्तेन चासौ मतिः स्मृतः । बृहत्त्वाद्बृंहणत्वाच्च भावानां सलिलाश्रयात् ॥ ३१
यस्माद्बृंहयते भावान्ब्रह्मा तेन निरुच्यते । आपूरयित्वा यस्माच्च कृत्स्नान्द्देहाननुग्रहैः ॥ ३२
तत्त्वभावांश्च नियतांस्तेन भूरिति चोच्यते । बुध्यते पुरुषश्चात्र सर्वभावान्हिताहितानन् ॥ ३३
यस्माद्बोधयते चैव तेन बुद्धिर्निरुच्यते । ख्यातिः प्रत्युपभोगश्च यस्मात्संवर्तते ततः ॥ ३४
भोगस्य ज्ञाननिष्ठत्वात्तेन ख्यातिरिति स्मृतः । ख्यायते तद्गुणैर्वाऽपि नामादिभिरनेकशः ॥ ३५
तस्माच्च महतः संज्ञा ख्यातिरित्सभिधीयते । साक्षात्सर्वं विजानाति महात्मा तेन चेश्वरः ॥ ३६
तस्माज्जाता ग्रहाश्चैव प्रज्ञा तेन स उच्यते । ज्ञानादीनि च रूपाणि क्रतुकर्मफलानि च ॥ ३७
चिनोति यस्माद्भोगाथं तेनासौ चितिरुच्यते । वर्तमानान्यतीतानि तथा चानागतान्यपि ॥ ३८
स्मरते सर्वकार्याणि तेनासौ स्मृतिरुच्यते । कृत्स्नं च विन्दते ज्ञानं तस्मान्माहात्म्यमुच्यते ॥ ३९
तस्माद्विन्देर्विदंश्चैव संविदित्सभिधीयते । विद्यते स च सर्वस्मिन्सर्वं तस्मिंश्च विद्यते ॥ ४०
तस्मात्संविदिति प्रोक्तो महान्वै बुद्धिमत्तरैः । ज्ञानात्तु ज्ञानमित्याह भगवान्ज्ञानसंनिधिः ॥ ४१
द्वंद्वानां विपुरीभावाद्द्विपुरं प्रोच्यते बुधैः । सर्वेशत्वाच्च लोकानामवश्यं च तथेश्वरः ॥ ४२
बृहत्त्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भव उच्यते । क्षेत्रक्षेत्रज्ञविज्ञानादेकत्वाच्च स कः स्मृतः ॥ ४३
यस्मात्पुर्य्यनुशेते च तस्मात्पुरुष उच्यते । नोत्पादितत्वात्पूर्वंत्वात्स्वयंभूरिति चोच्यते ॥ ४४
पर्यायवाचकैः शब्दैस्तत्त्वमाद्यमनुत्तमम् । व्याख्यातं तत्त्वभावज्ञैरेवं सद्भावचिन्तकैः ॥ ४५
महासृष्टिं विकुरुते चोद्यमानः सिसृक्षया । संकल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम् ॥ ४६
धर्मादीनि च रूपाणि लोकतत्त्वार्थहेतवः । त्रिगुणस्तु स विज्ञेयः सत्त्वरजस्ततामसः ॥ ४७
त्रिगुणाद्रजसोद्रिक्तादहंकारस्ततोऽभवत् । महता चाऽऽवृतः सर्गो भूतादिर्विकृतस्तु सः ॥ ४८
तस्माच्च तमसोद्रिक्तादहंकारादजायत । भूततन्मात्रसर्गस्तु भूतादिस्तामसस्तु सः ॥ ४९
भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह । (÷आकाशं शुषिरं तस्मादुद्रिक्तं शब्दलक्षणम् ॥ ५०
÷ धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
१४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ४ श्लो० ५१-८०] ( सृष्टिप्रकरणम् )
आकाशं शब्दमात्रं तु भूतादिश्चाऽऽवृणोत्पुनः । शब्दमात्रं तदाकाशं स्पर्शमात्रं ससर्ज ह ॥ ५१ *बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः । आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ॥ ५२ वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ ५३ स्पर्शमात्रं तु वै वायो रूपमात्रं समावृणोत् । ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ॥ ५४ संभवन्ति ततो ह्यापः पश्चात्तापै रसात्मिकाः । रसमात्रस्तु ता ह्यापो रूपमात्राभिरावृणोत् ॥ ५५ आपो रसान्विकुर्वत्यो गन्धमात्रं ससर्जिरे । संवातो जायते तस्मात्तस्य गन्धो गुणः स्मृतः ॥ ५६ रसमात्रं तु तन्तोयं गन्धमात्रं समावृणोत् । तस्मिंस्तस्मिंस्तु तन्मात्रा तेन तन्मात्रता स्मृता ॥ ५७ अविशेषवाचकत्वादविशेषास्ततः स्मृताः । अशान्तघोरमूढत्वादविशेषास्ततः पुनः ॥ ५८ भूततन्मात्रसर्गोऽयं विज्ञेयस्तु परस्परात् । वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकात् ॥ ५९ वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते । बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाण्यपि ॥ ६० साधकानीन्द्रियाणि स्युर्देवा वैकारिका दश । एकादशं मनस्तत्र देवा वैकारिकाः स्मृताः ॥ ६१ श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी । शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वक्ष्यते (?)॥ ६२ पादौ पायुरुपस्थश्च हस्तौ वाग्दशमी भवेत् । गतिर्विसर्गो ह्यानन्दः शिल्पं वाक्यं च कर्म च ॥ ६३ आकाशं शब्दमात्रं च स्पर्शमात्रं समाविशत् । द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत् ॥ ६४ रूपं तथैव विशतः शब्दस्पर्शगुणावुभौ । त्रिगुणस्तु ततश्चाग्निः स शब्दस्पर्शरूपवान् ॥ ६५ स शब्दस्पर्शरूपश्च रसमात्रं समाविशत् । तस्माच्चतुर्गुणा ह्यापो विज्ञेयास्ता रसात्मिकाः ॥ ६६ स शब्दस्पर्शरूपेषु गन्धस्तेषु समाविशत् । संयुक्ता गन्धमात्रेण आचिन्वन्तो महीमिमाम् ॥ ६७ तस्मात्पञ्चगुणा भूमिः स्थूलभूतेषु दृश्यते । शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥ ६८ परस्परानुप्रवेशाद्धारयन्ति परस्परम् । भूमेरन्तस्तिवदं सर्वं लोकालोकघनावृतम् ॥ ६९ विशेषा इन्द्रियग्राह्या नियतत्त्वाच्च ते स्मृताः । गुणं पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् ॥ ७० तेषां यावच्च यद्यच्च तत्तत्तावद्गुणं स्मृतम् । उपलभ्य शुचेर्गन्धं केचिद्वायोर्नैपुणात् ॥ ७१ पृथिव्यामेव तद्विद्यादेषां वायोश्च संश्रयात् । (÷एते सप्त महावीर्या नानाभूताः पृथक्पृथक् ॥ ७२ नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य कृत्स्नशः । ते समेत्य महात्मानो ह्यन्योन्यस्यैव संश्रयात् ) ॥ ७३ पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च । महदादयो विशेषान्ता अण्डमुत्पादयन्ति ते ॥ ७४ ( +एककालं समुत्पन्नं जलवुद्बुदवच्च तत् । विशेषेभ्योऽण्डमभवद्बृहत्तदुदकं च यत् ॥ ७५ तत्तस्मिन्कार्यकरणं संसिद्धं ब्रह्मणस्तदा । प्राकृतेऽण्डे विबुद्धे संक्षेत्रज्ञो ब्रह्मसंहितः ॥ ७६ [ = स वै शरीरी प्रथमः स वै पुरुष उच्यते ) । आदिकर्ता च भूतानां ब्रह्माऽग्रे समवर्तत ॥ ७७ हिरण्यगर्भः सोऽग्रेऽस्मिन्प्रादुर्भूतश्चतुर्मुखः । सर्गे च प्रतिसर्गे च क्षेत्रज्ञो ब्रह्मसंज्ञितः ] ॥ ७८ करणैः सह सृज्यन्ते प्रत्याहारे त्यजन्ति च । भजन्ते च पुनर्देहान्समाहारसंधिषु ॥ ७९ हिरण्मयस्तु यो मेरुस्तस्योल्बं तन्महात्मनः । गर्भोदकं समुद्राश्च जरायुस्थीनि पर्वताः ॥ ८०
* इदमर्धं ङ. पुस्तके नास्ति । ÷ धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । = एताश्चिह्नान्तर्गतग्रन्थः ख. घ. पुस्तकयोर्नास्ति ।
[अ० ५ श्लो० १-११] वायुपुराणम् १५
(सृष्टिप्रकरणम्) तस्मिन्नण्डे त्विमे लोका अन्तर्भूतास्तु सप्त वै । सप्तदीपा च पृथिवी समुद्रैः सह सप्तभिः ॥ ८१ पर्वतैः सुमहाद्भिश्च नदीभिश्च सहस्रशः । अन्तस्तस्मिंस्त्विमे लोका अन्तर्विश्वमिदं जगत् ॥ ८२ चन्द्रादित्यौ सनक्षत्रौ सहग्रहौ सह वायुना । लोकालोकं च यत्किंचिच्चाण्डे तस्मिन्समापिर्तम् ॥ ८३ अद्भिर्दशगुणाभिस्तु बाह्यतोऽण्डं समावृतम् । आपो दशगुणा ह्येवं तेजसा बाह्यतो वृताः ॥ ८४ तेजो दशगुणेनैव बाह्यतो वायुनाऽवृतम् । *वायुर्दशगुणेनैव बाह्यतो नभसाऽऽवृतः ॥ ८५ आकाशेन वृतो वायुः खं च भूतादिनाऽऽवृतम् । भूतादिर्महता चापि अव्यक्तेन वृतो महान् ॥ ८६ एतैरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् । एताश्चाऽऽवृत्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ॥ ८७ प्रसर्गकाले स्थित्वा च ग्रसन्त्येताः परस्परम् । एवं परस्परोत्पन्ना धारयन्ति परस्परम् ॥ ८८ आधाराधेयभावेन विकारश्च विकारिषु । अव्यक्तं क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ८९ इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु स । अबुद्धिपूर्वं प्रागासीत्प्रादुर्भूता तडिद्यथा ॥ ९० एतद्धिरण्मगर्भस्य जन्म यो वेद तत्त्वतः । आयुष्मान्कीर्तिमान्धन्यः प्रजावांश्च भवत्युत ॥ ९१ निवृत्तिकामोऽपि नरः शुद्धात्मा लभते गतिम् । पुराणश्रवणान्नित्यं सुखं च क्षेममाप्नुयात् ॥ ९२ इति महापुराणे वायुप्रोक्ते प्रक्रियापादे सृष्टिप्रकरणकथनं नाम चतुर्थोऽध्यायः ॥ ४ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३६५
अथ पञ्चमोऽध्यायः । सृष्टिप्रकरणम् । ÷लोमहर्षण उवाच- यदि सृष्टेस्तु संख्यातं मया कालान्तरं द्विजाः । एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ॥ १ रात्रिश्चैतावती ज्ञेया परमेशस्य कृत्स्नशः । अहस्तस्य तु या सृष्टिः प्रलयो रात्रिरुच्यते ॥ २ अहश्च विद्यते तस्य न रात्रिरिति धारणा । उपचारः प्रक्रियते लोकानां हितकाम्यया ॥ ३ (+प्रजाः प्रजानां पतय ऋषयो मुनिभिः सह । ऋषीन्सन्तकुमाराख्यान्ब्रह्मसायुज्यगैः सह ॥ ४ इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च । ) तन्मात्रा इन्द्रियगणो बुद्धिश्च मनसा सह ॥ ५ अहस्तिष्ठन्ति ते सर्वे परमेशस्य धीमतः । अहरन्ते प्रलीयन्ते राज्यन्ते विश्वसंभवः ॥ ६ स्वात्मन्यवस्थिते सत्त्वे विकारे प्रतिसंहते । साधर्मे(र्म्ये)णावतिष्ठेते प्रधानपुरुषावुभौ ॥ ७ तमःसत्त्वगुणावेतौ समत्वेन व्यवस्थितौ । अत्रोद्रिक्तौ प्रसूतौ च तौ तथा च परस्परम् ॥ ८ गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते । तिलेषु वा यथा तैलं घृतं पयसि वा स्थितम् ॥ ९ तथा तमसि सत्त्वे च रजोऽव्यक्ताश्रितं स्थितम् । उपास्य रजनीं कृत्स्नां परां माहेश्वरीं तदा ॥ १० अहर्मुखे प्रवृत्ते च परः प्रकृतिसंभवः । क्षोभयामास योगेन परेण परमेश्वरः ॥ ११
* इदमर्धं नास्ति घ. पुस्तके । ÷ सूत उवाचेति घ. पुस्तके । + धनुश्चिह्नान्तर्गतं नास्ति ङ पुस्तके ।
१६ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०५श्लो०१२–३८] (सृष्टिप्रकरणम्)
प्रधानं पुरुषं चैव प्रविश्याण्डं महेश्वरः । प्रधानात्क्षोभ्यमाणात्तु रजो वै समवर्तत ॥ १२ रजः प्रवर्तकं तत्र बीजेष्वपि यथा जलम् । गुणवैषम्यमासाद्य प्रसूयन्ते ह्यधिष्ठिताः ॥ १३ गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो देवा विजज्ञिरे । आश्रिताः परमा गुह्याः सर्वात्मानः शरीरिणः ॥ १४ रजो ब्रह्मा तमो ह्यग्निः सत्त्वं विष्णुर्जायत । रजःप्रकाशको ब्रह्मा स्रष्टृत्वेन व्यवस्थितः ॥ १५ *तमःप्रकाशकोऽग्निस्तु कालत्वेन व्यवस्थितः । सत्त्वप्रकाशको विष्णुर्ौदासीन्ये व्यवस्थितः ॥ १६ +एत एव त्रयो लोका एत एव त्रयो गुणाः । एत एव त्रयो वेदा एत एव त्रयोऽग्नयः ॥ १७ परस्पराश्रिता ह्येते परस्परमनुव्रताः । परस्परेण वर्तन्ते धारयन्ति परस्परम् ॥ १८ अन्योन्यमिथुना ह्येते ह्यन्योन्यमुपजीविनः । क्षणं वियोगो न ह्येषां न त्यजन्ति परस्परम् ॥ १९ ईश्वरो हि परो देवो विष्णुस्तु महतः परः । ब्रह्मा तु रजसोद्रिक्तः सर्गायेह प्रवर्तते ॥ २० परश्च पुरुषो ज्ञेयः प्रकृतिश्च परा स्मृता ॥ आधिष्ठितोऽसौ हि महेश्वरेण प्रवर्तते चोद्यमानः समन्तात् । अनुप्रवर्तन्ति महान्तमेव चिरास्थिताः स्वे विषये प्रियत्वात् ॥ २१ प्रधानं गुणवैषम्यात्सर्गकाले प्रवर्तते । ईश्वराधिष्ठितात्पूर्वं तस्मात्सदसदत्मकात् ॥ २२ ब्रह्मा बुद्धिश्च मिथुनं युगपत्संबभूवतुः । तस्मान्मोव्यक्तमयः क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ २३ (÷संसिद्धः कार्यकारणैर्ब्रह्माऽग्रे समवर्तत । तेजसा प्रथमो धीमानव्यक्तः संप्रकाशते ॥ २४ स वै शरीरी प्रथमः कारणत्वे व्यवस्थितः । ) =अप्रतिघेन ज्ञानेन ऐश्वर्येण च सोऽन्वितः २५ धर्मेण चाप्रतिघेन वैराग्येण समन्वितः तस्येश्वरस्याप्रतिघं ज्ञानं वैराग्यलक्षणम् ॥ २६ धर्मैश्वर्यकृता बुद्धिर्ब्राह्मी जज्ञेऽभिमानिनः । अव्यक्ताज्जायते चास्य मनसा च यदिच्छति ॥ २७ वशीकृतत्वाद्द्वैगुण्यात्सुरेशत्वात्स्वभावतः । चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकोऽभवत् ॥ २८ सहस्रमूर्धा पुरुषस्तिस्रोऽवस्थाः स्वयंभुवः । ×सत्त्वं रजश्च ब्रह्मत्वे कालत्वे च रजस्तमः ॥ २९ सात्त्विकं पुरुषत्वे च गुणवृत्तिः स्वयंभुवः ] । लोकान्सृजति ब्रह्मत्वे कालत्वे संक्षिपत्यपि ॥ ३० पुरुषत्वे ह्युदासीनस्तिस्रोऽवस्थाः प्रजापतेः । ब्रह्मा कमलगर्भाभः कालो जात्याऽञ्जनप्रभः ॥ ३१ पुरुषः पुण्डरीकाक्षो रूपं तत्परमात्मनः । योगेश्वरः शरीराणि करोति विकरोति च ॥ ३२ नानाकृतिक्रियारूपनामवृत्तिः स्वलीलया । त्रिधा यद्वर्तते लोके तस्मात्त्रिगुण उच्यते ॥ ३३ चतुर्धा प्रविभक्तत्वाच्चतुर्व्यूहः प्रकीर्तितः । यदाप्नोति यदादत्ते यच्चास्ति(त्ति)विषयं प्रति ॥ ३४ त(य)च्चास्य सततं भावस्तस्मादात्मा निरूच्यते । ऋषिः सर्वगतत्वाच्च शरीराद्यात्स्वयं प्रभुः ३५ स्वामित्वमस्य तत्सर्वं विष्णुः सर्वप्रवेशनात् । भगवान्भगसद्भावाद्भागो रागस्य शासनात् ॥ ३६ परश्च तु प्रकृष्टत्वादवनादोमिति स्मृतः । सर्वज्ञः सर्वविज्ञानात्सर्वः सर्वं यतस्ततः ॥ ३७ नराणामयनं यस्मात्तेन नारायणः स्मृतः । त्रिधा विभज्य स्वात्मानं त्रैलोक्यं संप्रवर्तते ॥ ३८
* अयं श्लोको नास्ति ड. पुस्तके । + इदमर्धं नास्ति क. पुस्तके । ÷ धनुश्चिह्नान्तर्गतग्रन्थो म. पुस्तके नास्ति । = इदमर्धं नास्ति घ. पुस्तके । × एतच्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. घ. पुस्तकयोः ।
[अ० ६ श्लो० १-९] वायुपुराणम् । १७ (( सृष्टिप्रकरणम् ))
सृजते ग्रसते चैव वीक्षते च त्रिभिस्तु यत् । अग्रे हिरण्यगर्भः स प्रादुर्भूतश्चतुर्मुखः ॥ ३९ आदित्वाच्चाऽऽदिदेवोऽसावजातत्वादजः स्मृतः । पाति यस्मात्प्रजाः सर्वाः प्रजापतिरतः स्मृतः॥ ४० देवेषु च महान्देवो महादेवस्ततः स्मृतः । सर्वेशत्वाच्च लोकानामवश्यत्वात्तथेश्वरः ॥ ४१ बृहत्त्वाच्च स्मृतो ब्रह्मा भूतत्वाद्भूत उच्यते । ( *क्षेत्रज्ञः क्षेत्रविज्ञानाद्विभुः सर्वगतो यतः ॥ ४२ यस्मात्पुर्यनुशेते च तस्मात्पुरुष उच्यते । नोत्पादितत्वात्पूर्वत्वात्स्वयंभूरिति स स्मृतः) ॥ ४३ इज्यत्वादुच्यते यज्ञः कविर्वििक्रान्तदर्शनात् । क्रमणः क्रमणीयत्वाद्धर्णकस्याभिपालनात् ॥ ४४ आदित्यसंज्ञः कपिलस्त्वग्रजोऽग्निरिति स्मृतः । हिरण्यमस्य गर्भोऽभूद्धिरण्यस्यापि गर्भजः ॥ ४५ तस्माद्धिरण्यगर्भः स पुराणेऽस्मिन्निरुच्यते । स्वयंभुवो निवृत्तस्य कालो वर्षाग्रजस्तु यः ॥ ४६ न शक्यः परिसंख्यातुमपि वर्षशतैरपि । कल्पसंख्यानिवृत्तस्तु पराख्यो ब्रह्मणः स्मृतः ॥ ४७ तावच्छेषोऽस्य कालोऽन्यस्तस्यान्ते मतिसृज्यते । कोटिकोटिसहस्राणि अन्तर्भूतानि यानि वै ॥ ४८ समतीतानि कल्पानां तावच्छेषाः परास्तु ये । यस्त्वयं वर्तते कल्पो वाराहं तं निबोधत ॥ ४९ प्रथमः सांप्रतस्तेषां कल्पोऽयं वर्तते द्विजाः । तस्मिन्त्स्वायंभुवाद्यास्तु मनवः स्युश्चतुर्दश ॥ ५० अतीता वर्तमानाश्च भविष्या ये च वै पुनः । तैरियं पृथिवी सर्वा सप्तद्वीपा समन्ततः ॥ ५१ पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः । प्रजाभिस्तपसा चैव तेषां शृणुत विस्तरम् ॥ ५२ मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । भविष्याणि भविष्यैश्च कल्पः कल्पेन चैव ह ॥ ५३ अतीतानि च कल्पानि सोदर्कानि सहान्वयैः । अनागतेषु तद्वच्च तर्कः कार्यो विजानता ॥ ५४
इति श्रीमहापुराणे वायुप्रोक्ते प्रक्रियापादे प्रकृतिशोभणो नाम पञ्चमोऽध्यायः ॥ ५ ॥
आदितः श्लोकानां समष्ट्यङ्काः--४१९
अथ षष्ठोऽध्यायः ।
सृष्टिप्रकरणम् ।
सूत उवाच-- आपो ह्यग्रे समभवन्नष्टेऽस्मिन् पृथिवीतले । सान्तरालैकलीनेऽस्मिन्नष्टे स्थावरजङ्गमे ॥ १ एकार्णवे तदा तस्मिन्न प्राज्ञायत किंचन । तदा स भगवान्ब्रह्मा सहस्राक्षः सहस्रपात् ॥ २ सहस्रशीर्षा पुरुषो रुक्मवर्णोऽह्यतीन्द्रियः । ब्रह्मा नारायणाख्यः स सुष्वाप सलिले तदा ॥ ३ सत्त्वोद्रेकात्प्रबुद्धस्तु शून्यं लोकमुदीक्ष्य सः । इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ॥ ४ आपो नारा वै तनव इत्यपां नाम शुश्रुम । अप्सु शेते च यत्तस्मात्तेन नारायणः स्मृतः ॥ ५ तुल्यं युगसहस्रस्य नैशं कालमुपास्य सः । शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ॥ ६ ब्रह्मा तु सलिले तस्मिन्विज्ञायान्तर्गतां महीम् । अनुमानादसम्मूढो भूमेरुद्धरणं प्रति ॥ ७ अकरोत्स तनुं ह्यन्यां कल्पादिषु यथा पुरा । ततो महात्मा मनसा दिव्यं रूपमचिन्तयत् ॥ ८
* धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।
३
पीनवृत्तायतस्कन्धं सिंहविक्रान्तगामिनम् । पीनोन्नतकटिदेशं सुलक्षणं शुभलक्षणम् ॥ १४
१८ श्रीमद्वैपायनमुनिप्रणीतम्– [ अ०१ श्लो०१०-३८ ] ( सृष्टिप्रकरणम् )
सलिलेनाऽऽप्लुतां भूमिं दृष्ट्वा स तु समन्ततः । किं नु रूपं महत्कृत्वा उद्धरेयमहं महीम् ॥ १०
जलक्रीडासु रुचिरं वाराहं रूपमस्मरत् । अवृष्यं सर्वभूतानां वाङ्मयं धर्मसंज्ञितम् ॥ ११
दशयोजनविस्तीर्णं शतयोजनमुच्छ्रितम् । नीलमेघप्रतीकाशं मेघस्तनितनिस्वनम् ॥ १२
महापर्वतवप्माणं श्वेतं तीक्ष्णायदंष्ट्रिणम् । विद्युदग्निप्रकाशाक्षमादित्यसमतेजसम् ॥ १३
पीनवृत्तायतस्कन्धं सिंहविक्रान्तगामिनम् । पीनोन्नतकटिदेशं सुलक्षणं शुभलक्षणम् ॥ १४
रूपमास्थाय विपुलं वाराहममितं हरिः । पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ १५
स वेदपाद्यूपदंष्ट्रः क्रतुवक्षास्थितीमुखः । अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो(र्षा) महातपाः ॥ १६
अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः । आज्यनाशः(सः) सुवतुण्डः सामघोषस्वनो महान् ॥ १७
सत्यधर्ममयः श्रीमान्धर्मविक्रमसंस्थितः । प्रायश्चित्तरथो घोरः पशुजानुर्महाकृतिः ॥ १८
उद्गात्रन्त्रो होमलिङ्गः स्थानबीजी महौषधिः । वेद्यन्तरात्मा मन्त्रस्फिगाज्यस्पृक्सोमशोणितः ॥ १९
वेदस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् । प्राग्वंशकायो द्युतिमानानादीक्षाभिरन्वितः ॥ २०
दक्षिणाहृदयो योगी महासत्रमयो विभुः । उपाकर्मेष्ठिरुचिरः प्रवर्गीवित्तभूषणः । २१
नानाछन्दोगतिपथो गुह्योपनिषदासनः । छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः ॥ २२
भूत्वा यज्ञवराहो वै अपः स प्राविशत्प्रभुः । ( *अद्भिः संछादितामुर्वी स तामभ्यन्प्रजापतिः ॥ २३
उपगम्योज्जहाराऽऽशु अपस्ताश्च स विन्यसन् । सामुद्रीर्वै समुद्रेषु नादेयीश्च नदीष्वथ ॥ २४
रसातलतले ) मग्नां रसातलतले गताम् । प्रभूर्लोकहितार्थाय दंष्ट्रयाऽभ्युज्जहार गाम् ॥ २५
ततः स्वस्थानमानीय पृथिवीं पृथिवीकरः । मुमोच पूर्वं मनसा धारयित्वा धराधरः । २६
तस्योपरि जलौघस्य महती नौरिव स्थिता । चारित्वाच्च देहस्य न मही याति विप्लवम् ॥ २७
ततोद्धृत्य क्षितिं देवो जगतः स्थापनेच्छया । पृथिव्याः पविभागाय मनश्चक्रेऽम्बुजेक्षणः ॥ २८
पृथिवीं तु समीकृत्य पृथिव्यां सोऽचिनोद्गिरीन् । प्राक्सर्गे दह्यमानास्तु तदा संवर्तकाग्निना ॥ २९
तेनाग्निना विशीर्णास्ते पर्वता भुवि सर्वशः । शैत्यादेकार्णवे तस्मिन्वायुनाऽऽपस्तु संहताः ॥ ३०
निष्पिक्ता यत्र यत्राऽऽसंस्तत्र तत्राचलोऽभवत् । स्कन्नाचलत्वादचलः पर्वाभिः पर्वतः स्मृतः ॥ ३१
गिरयोऽन्तर्निगीर्णत्वाच्च्यनाच्च शिलोच्चयाः । ततस्तेषु विशीर्णेषु लोकोदधिगिरिष्वथ ॥ ३२
विश्वकर्मा विभजते कल्पादिषु पुनः पुनः । ससमुद्रामिमां पृथिवीं सप्तद्वीपां सपर्वताम् ॥ ३३
भूराद्यांश्चतुरो लोकान्पुनः सोऽथ प्रकल्पयत् । लोकान्प्रकल्पयित्वा च प्रजासर्गं ससर्ज ह ॥ ३४
ब्रह्मा स्वयंभूर्भगवान्सिसृक्षुर्विविधाः प्रजाः । ससर्ज सृष्टिं तद्रूपां कल्पादिषु यथा पुरा ॥ ३५
तस्याभिध्यायतः सर्गं सदा वै बुद्धिपूर्वकम् । प्रधानसमकालं वै प्रादुर्भूतस्तमोमयः ॥ ३६
तमोमोहो महामोहस्तामिस्रो अ(ह्य)न्धसंज्ञिताः । अविद्या पञ्चपर्वेषा प्रादुर्भूता महात्मनः ॥ ३७
पञ्चधा चाऽऽश्रितः सर्गो ध्यायतः सोऽभिमानिनः । सर्वतस्तमसा चैव दीपः कुम्भपदावृतः ॥ ३८
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
[अ० ६ श्लो० ३९-६७] वायुपुराणम् । १९
( सृष्टिप्रकरणम् )
बहिरन्तःप्रकाशश्च शुद्धो निःसंज्ञ एव च । तस्मात्तैः संवृत्ता बुद्धिर्मुख्यानि करणानि च ॥ ३९
तस्मान्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः । मुख्यसर्गं तथाभूतं ब्रह्मा दृष्ट्वा ह्यसाधकम् ४०
अप्रसन्नमनाः सोऽथ ततो न्यासोऽभ्यमन्यत । तस्याभिध्यायदस्तत्र तिर्यक्स्रोतोऽभ्यवर्तत ॥ ४१
तस्मात्तिर्यग्व्यवर्तन्त तिर्यक्स्रोतस्ततः स्मृतम् । तमोबहुत्वाने सर्वे ह्यज्ञानबहुलाः स्मृताः ॥ ४२
उत्पथग्राहिणश्चापि ते ध्यानाच्चानमानिनः । तिर्यक्स्रोतस्तु दृष्ट्वा वै द्वितीयं विश्वमीश्वरः ॥ ४३
(*अहंकृता अहमाना अष्टाविंशद्विद्यात्मकाः । एकादशेन्द्रियविधा नवधा चोद्यस्तथा ॥ ४४
अष्टौ च तारकाद्याश्च तेषां शक्तिविधाः स्मृताः । अन्तःप्रकाशास्ते सर्व आवृताश्च बहिः पुनः ॥ ४५
यस्मात्तिर्यक्प्रवर्तेत तिर्यक्स्रोताः स उच्यते । (+तिर्यक्स्रोतश्च दृष्ट्वा वै द्वितीयं मिश्रमीश्वरः ॥ ४६
अभिप्रायमथोऽद्भूतं दृष्ट्वा सर्वं तथाविधम् । तस्याभिध्यायतो नित्यं सात्त्विकः समवर्तत ) ॥ ४७
ऊर्ध्वस्रोतास्तृतीयस्तु स चैवोर्ध्वं व्यवस्थितः । यस्माद्वृत्तवर्ततोर्ध्वं तु ऊर्ध्वस्रोतास्ततः स्मृतः ॥ ४८
ते सुखप्रीतिबहुला बहिरन्तश्च संवृताः । प्रकाशा बहिरन्तश्च ऊर्ध्वस्रोतोद्भवाः स्मृताः ॥ ४९
तेन वातादयो ज्ञेयाः सृष्टात्मानो व्यवस्थिताः । ऊर्ध्वस्रोतास्तृतीयो वै तेन सर्गस्तु स स्मृतः ॥ ५०
ऊर्ध्वस्रोतःसु सृष्टेषु देवेषु स तदा प्रभुः । प्रीतिमानभवद्ब्रह्मा ततोऽन्यं सोऽभ्यमन्यत ॥ ५१
ससर्ज सर्गमन्यं स साधकं प्रभुरीश्वरः । अथाभिध्यायदस्तस्य सत्याभिध्यायिनस्तदा ॥ ५२
प्रादुर्बभूव चाव्यक्तादर्वाक्स्रोतः सुसाधकम् । यस्मादर्वाग्व्यवर्तेत (?) ततोऽर्वाक्स्रोत उच्यते ॥ ५३
ते च प्रकाशबहुलास्तमःसत्त्वरजोधिकाः । तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः ॥ ५४
प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते । लक्षणैस्तारकाद्यैस्ते अष्टधा च व्यवस्थिताः ॥ ५५
सिद्धात्मानो मनुष्यास्ते गन्धर्वसहधर्मिणः । इत्येष तैजसः सर्गो ह्यर्वाक्स्रोताः प्रकीर्तितः ॥ ५६
पञ्चमोऽनुग्रहः सर्गश्चतुर्धा स व्यवस्थितः । विपर्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च ॥ ५७
विवृत्तं वर्तमानं च तेऽर्थं जानन्ति तत्त्वतः । भूतादिकानां सत्त्वानां षष्ठः सर्गः स उच्यते ॥ ५८
(×ते परिग्रहिणः सर्व संविभागरताः पुनः । खादनाश्चप्यशीलाश्च ज्ञेया भूतादिकास्तु ते ) ॥ ५९
विपर्ययेण भूतादिरशक्त्या च व्यवस्थितः । प्रथमो महतः सर्गो विज्ञेयो महतस्तु सः ॥ ६०
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते । वैकारिकस्तृतीयस्तु सर्व ऐन्द्रियकः स्मृतः ॥ ६१
इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः । मुख्यसर्गश्चातुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ ६२
तिर्यक्स्रोताश्च यः सर्गस्तिर्यग्योनिः स पञ्चमः । तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ॥ ६३
(÷तथाऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः । अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसस्तु सः॥ ६४
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः । प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ॥ ६५
प्राकृतास्तु त्रयः सर्गाः कृतास्ते बुद्धिपूर्वकाः) । बुद्धिपूर्वं प्रवर्तन्ते षट्सर्गा ब्रह्मणस्तु ते ॥ ६६
विस्तारानुग्रहं सर्गं कीर्त्यमानं निबोधत । चतुर्धाऽवस्थितः सोऽथ सर्वभूतेषु कृत्स्नशः ॥ ६७
* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
+ धनुश्चिह्नान्तर्गतग्रन्थो ड. पुस्तके नास्ति ।
× धनुश्चिह्नान्तर्गतं नास्ति क. पुस्तके ।
÷ धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
२० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ७ श्लो० १-६] (प्रतिसंधिकीर्तनम्)
विपर्ययेण शक्त्या च तुष्ट्या सिद्ध्या तथैव च। स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तिता॥ ६८
सिद्ध्यात्मानो मनुष्यास्तु तुष्टिर्देवेषु कृत्स्नशः। इत्येते प्राकृताश्चैव वैकृताश्च नव स्मृताः॥ ६९
सर्गाः परस्परस्याथ प्रकारा बहवः स्मृताः। अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान्॥ ७०
सनन्दनं च सनकं विद्वांसं च सनातनम्। विज्ञानेन निवृत्तास्ते वैवर्तेन महौजसः॥ ७१
संबुद्धाश्चैव नानात्वादपविद्धाश्रयोऽपि ते। असृष्ट्वैव प्रजासर्गं प्रतिसर्गं गताः पुनः॥ ७२
तदा तेषु व्यतीतेषु तदान्यान्साधकांश्च तान्। मानसानसृजद्ब्रह्मा पुनः स्थानाभिमानिनः॥ ७३
अभूतसंप्लवावस्थानाम्रतस्तान्निबोधत। आपोऽग्निः पृथिवी वायुरन्तरिक्षं दिशस्तथा॥ ७४
स्वर्गं दिवः समुद्रांश्च नादञ्शैलान्व्रनस्पतीन्। औषधीनां तथाऽऽत्मानो ह्यात्मानो वृक्षवीरुधाम्॥ ७५
लवाः काष्ठाः कलाश्चैव मुहूर्त्ताः संविरात्र्यहाः। अर्धमासाश्च मासाश्च अयनाब्दयुगानि च॥
स्थानाभिमानिनः सर्वे स्थानाख्याश्चैव ते स्मृताः॥ ७६
वक्त्राद्यस्य ब्राह्मणाः संप्रसूतास्तद्वक्षस्तः क्षत्रियाः पूर्वभागे।
वैश्याश्चोर्वोर्यस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः॥ ७७
नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम्। अण्डाज्जज्ञे पुनर्ब्रह्मा लोकास्तेन कृताः स्वयम्॥ ७८
एष वः कथितः पादः समासान्न तु विस्तरात्। अनेनाऽऽद्येन पादेन पुराणं संप्रकीर्तितम्॥ ७९
इति महापुराणे वायुप्रोक्ते प्रक्रियापादे सृष्टिप्रकरणं नाम षष्ठोऽध्यायः॥ ६॥
आदितः श्लोकानां समष्ट्यङ्काः--४९८
समाप्तः प्रक्रियापादः।
अथ सप्तमोऽध्यायः।
प्रतिसंधिकीर्तनम्।
+ सूत उवाच--
इत्येष प्रथमः पादः प्रक्रियार्थः प्रकीर्तितः। श्रुत्वा तु संहृष्टमनाः काश्यपेयः सनातनः॥ १
संबोध्य सूतं वचसा पप्रच्छाथोत्तरां कथाम्। अतः प्रभृति कल्पज्ञ प्रतिसंधिं प्रचक्ष्व नः॥ २
समतीतस्य कल्पस्य वर्तमानस्य चोभयोः। कल्पयोरन्तरं यच्च प्रतिसंधिर्यतस्तयोः॥
एतद्वेदितुमिच्छाम अ(मो ह्य)त्यन्तकुशलोऽह्यसि॥ ३
लोमहर्षण उवाच--
अत्र वोऽहं प्रवक्ष्यामि प्रतिसंधिश्च यस्तयोः। समतीतस्य कल्पस्य वर्तमानस्य चोभयोः॥ ४
मन्वन्तराणि कल्पेषु येषु यानि च सुव्रताः। यथायं वर्तते कल्पो वाराहः सांप्रतः शुभः॥ ५
अस्मात्कल्पाच्च यः कल्पः पूर्वोऽतीतः सनातनः। तस्य चास्य च कल्पस्य मध्यावस्थां निबोधत॥ ६
+ इदं नास्ति क. पुस्तके।
[अ० ७ श्लो० ७-३६] वायुपुराणम् । २१
( प्रतिसंधिकीर्तनम् ) प्रत्याहृते पूर्वकल्पे प्रतिसंधिं च तत्र वै । अन्यः प्रवर्तते कल्पो जनालोकात्पुनः पुनः ॥ ७ व्युच्छिन्नात्प्रतिसंधेस्तु कल्पाकल्पः परस्परम् । व्युच्छिद्यन्ते क्रियाः सर्वाः कल्पान्ते सर्वशस्तदा॥ ८ तस्मात्कल्पात्तु कल्पस्य प्रतिसंधिर्निगद्यते । मन्वन्तरयुगाख्यानामव्युच्छिन्नाश्च संधयः ॥ ९ परस्पराः प्रवर्तन्ते मन्वन्तरयुगैः सह । उक्ता ये प्रक्रियार्थेन पूर्वकल्पाः समासतः ॥ १० तेषां परार्धकल्पानां पूर्वो ह्यस्मात्तु यः परः । आसीत्कल्पो व्यतीतो वै परार्धं न परस्तु सः ॥ ११ अन्ये भविष्या ये कल्पा अपरार्धाद्गणीकृताः । प्रथमः सांप्रतस्तेषां कल्पोऽयं वर्तते द्विजाः ॥ १२ यस्मिन्पूर्वः परार्धे तु द्वितीय पर उच्यते । एतावान्स्थितिकालस्य प्रत्याहारस्ततः स्मृतः ॥ १३ अस्मात्कल्पात्तु यः पूर्वं कल्पोऽतीतः सनातनः । चतुर्युगसहस्रान्ते अहो मन्वन्तरैः परा ॥ १४ क्षीणे कल्पे तदा तस्मिन्दाहकाले ह्युपस्थिते । तस्मिन्कल्पे तदा देवा आसन्वैमानिकास्तु ये ॥ १५ नक्षत्रग्रहतारास्तु चन्द्रसूर्यग्रहाश्च ये । अष्टाविंशतिरेवैताः कोट्यस्तु सुकृतात्मनाम् ॥ १६ मन्वन्तरे तथैकस्मिंश्चतुर्दशसु वै तथा । त्रीणि कोटिशतान्यासन्कोट्यो द्विनवतिस्तथा ॥ १७ अष्टादिकाः सप्तशताः सहस्राणां स्मृताः पुरा । वैमानिकानां देवानां कल्पेऽतीते तु येऽभवन् ॥ १८ एकैकस्मिंस्तु कल्पे वै देवा वैमानिकाः स्मृताः । अथ मन्वन्तरेष्वासंश्चतुर्दशसु वै दिवि ॥ १९ देवाश्च पितरश्चैव मुनयो मनवस्तथा । तेषामनुचरा ये च मनुपुत्रास्तथैव च ॥ २० वर्णाश्रमिभिर्डीशाश्च तस्मिन्काले तु ये सुराः । मन्वन्तरेषु ये ह्यासन्देवेलोके दिवौकसः ॥ २१ ते तैः संयोजकैः सार्धं प्राप्ते संकालने तथा । तुल्यनिष्ठास्तु ते सर्वे प्राप्ते ह्याभूतसंप्लवे ॥ २२ ततस्तेऽवश्यभाविद्वादुबुद्ध्वा पर्यायमात्मनः । त्रैलोक्यवासिनो देवा (* इहस्थानाभिमानिनः ॥ २३ स्थितिकाले तदा पूर्णे ह्यासन्ने पश्चिमेऽन्तरे । कल्पवासानिका देवा ) तस्मिन्प्राप्ते ह्युपप्लवे ॥ २४ तेनौत्सुक्यविषादेन त्यक्त्वा स्थानानि भावतः । महर्लोकाय संविग्नास्ततस्ते दधिरे मतिम् ॥ २५ ते यक्ता उपपद्यन्ते महसि स्थैः शरीरकैः । विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः ॥ २६ कः कल्पवासिभिः सार्धं महानासादितस्तु यैः । ब्राह्मणैः क्षत्रियैर्वैश्यैस्तद्कैश्चापरैर्जनैः ॥ २७ मत्वा तु ते महर्लोकं देवसंघाश्चतुर्दश । ततस्ते जनलोकाय सोद्वेगा दधिरे मतिम् ॥ २८ विशुद्धिबहुला सर्वे मानसीं सिद्धिमास्थिताः । तैः कल्पवासिभिः सार्धं महानासादितस्तु यैः ॥ २९ दशकृत्व इवाऽऽवृत्य तस्माद्गच्छन्ति स्वस्तपः । तत्र कल्पान्दश स्थित्वा सत्यं गच्छन्ति वै पुनः ॥३० एतेन क्रमयोगेन( ण ) यान्ति कल्पानिवासिनः । एवं देवयुगानां तु सहस्राणि परस्परात् ॥ ३१ गतानि ब्रह्मलोकं वै अपरावार्तिनीं गतिम् । आधिपत्यं विना ते वै ऐश्वर्येण तु तत्समाः ॥ ३२ भवन्ति ब्रह्मणस्तुल्या रूपेण विषयेण च । तत्र ते ह्यवतिष्ठन्ति( न्ते ) प्रीतियुक्ताः प्रसङ्गात् ॥ ३३ आनन्दं ब्रह्मणः प्राप्य मुच्यन्ते ब्रह्मणा सह । अवश्यंभाविनाऽर्थेन प्राकृतेनैव ते स्वयम् ॥ ३४ नानात्वेनाभिसंबद्धास्तदा तत्कालभाविनः । स्वपतो बुद्धिपूर्वं हि यथा भवति जाग्रतः ॥ ३५ तत्कालभावि तेषां तु तथा ज्ञानं प्रवर्तते । प्रत्याहारे तु भेदानां येषां भिन्नाभिसूक्ष्मणाम् ( ? ) ॥ ३६
* धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।