भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( ४६६ ) अन्वयः उन्माद्यन्मधुपेन पुष्पमधुना केलीभुवः पङ्किलाः (जाताः) सर्वे पादपाः कुसुमप्राग्भारतः भङ्गभयं दिशन्ति । संप्रति चैत्रेण लक्ष्येषु अलक्ष्येषु च बाणमोक्षरसिकः कामः अस्त्रपरम्पराव्ययविधौ दैन्यं परित्याजितः । - व्याख्या उन्माद्यन्तो मदं प्रापिता मधुपा भ्रमरा येन स तेन पुष्पाणां कुसुमानां मधु रसस्तेन मकरन्देन केलीभुवः क्रीडास्थानानि पङ्किलाः कर्दमसंयुक्ता जाताः । सर्वे पादपा वृक्षाः कुसुमानां पुष्पाणां प्राग्भारतो बाहुल्यात्.भारात् भङ्गस्य पतनस्य त्रुटनस्येत्यर्थः भयं भीति दिशन्ति प्रकटयन्ति । संप्रत्यधुना चैत्रेण वसन्तेन लक्ष्येष्वलक्ष्येषु च लक्ष्येष्वलक्षेषु च निर्विचारमित्यर्थः । बाणमोक्षे शरसन्धाने रसिकः समासक्तः कामोऽस्त्राणां शस्त्राणां परम्परा समूहस्तस्या व्ययविधौ समुत्सर्जनोऽविचार्य प्रयोगकरणे इत्यर्थः । दैन्यं दीनतां निरुत्साहमिति- भावः । परित्याजित. परिहापितः । अगणितपुष्पास्त्राणां समर्पणादस्त्रविषयकं कामस्य दैन्यं दूरीकृतमिति भावः । शार्दूलविक्रीडितच्छन्दः । भाषा भौरो को मदोन्मत्त करने वाले मकरन्द से क्रीडास्थलो में कीचड हो गया है । अर्थात् क्रीडास्थलो मे अत्यधिक मकरन्द चूआ है । सभी वृक्ष अत्यधिक फूलो के बोझ से टूट जाने का भय सूचित करते है । इस समय निशाने का विचार न कर यथेच्छ बाण छोडने में आसक्त कामदेव की बाणो के अधिक खर्च अर्थात् समाप्त हो जाने की दोनता को वसन्त ने दूर कर दिया है । अर्थात् वसन्त मे अत्यधिक फूलो के होने से, पुष्पसायक कामदेव को, बिना विचारे पुष्पबाणो का प्रयोग करने की कोई कमी नही है । नीता नूतनयौवनप्रणयिना चैत्रेण चित्रां लिपिं हृर्षाद्दर्पति का न काननमही पुष्पैः कटाक्षैरिव । दोलारूढपुरन्ध्रिपोनजघनप्राग्भारमाधुन्वतः किं मानद्रुमभञ्जनाय गहनं लङ्गानिलस्याधुना ॥७४॥ अन्वयः नूतनयौवनप्रणयिना चैत्रेण चित्रां लिपि नीता का काननमही कटाक्षैः

( ४६७ ) इव पुष्पैः हर्षात् न वर्षति। अधुना दोलारूढपुरन्ध्रीपीनजघनप्राग्भारम् आधुन्वन्तः लङ्कानिलस्य मानद्रुमभञ्जनाय कि गहनम् । व्याख्या नूत्ने नवीने यौवने युवावस्थायां प्रणयः स्नेहो यस्य स तेन चैत्रेण वसन्तेन चित्रां विचित्रां विविधवर्णयुक्तां लिपिम्अक्षरविन्यासं शोभामित्यर्थः । नीता प्रापिता का काननमही का क्रीडोद्यानभूमिः शुक्लारुणरक्तत्वनोल्लत्वात् कटाक्षैरिवाऽ- पाङ्गदर्शनैरिव 'कटाक्षोऽपाङ्गदर्शने' इत्यमरः । पुष्पैः कुसुमैर्हर्षादानन्दातिरेकान्न वर्षति वृष्टिं न करोति । उद्यानभूमिः पुष्पैराच्छादितेति भावः । अधुनाऽ- स्मिन्समये दोलासु प्रेङ्खासु आरूढा उपविष्टाः पुरन्ध्रयो युवतयस्तासां पीनं स्थूलं जघन स्त्रीकट्याः पुरोभागः 'पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः' इत्यमरः । तस्य प्राग्भारो विस्तारस्तमाधुन्वतः कम्पयतो लङ्कानिलस्य दक्षिण- पवनस्य मानिनीनां मानरूपस्य द्रुमस्य वृक्षस्य भञ्जनाय पातनाव विनाशाथे- र्त्यथः । किं गहनं किं कठिनं, न दुष्करमित्यर्थः । सम्प्रत्यनायासेनेव मानिनीना मानभङ्गो भवतीति भावः । शार्दूलविक्रीडितच्छन्दः । भाषा नई जवानी में प्रेम रखने वाले वसन्त के कारण, रंग विरंगी विचित्र शोभा को प्राप्त, कौन सी उद्यान की भूमि हर्षपूर्वक, कटाक्ष के समान फूलों की वृष्टि नही करती है अर्थात् सर्वत्र पुष्पवृष्टि हो रही है। ऐसे समय में हिंडोलो पर झूलती हुई कामिनियो के तने हुए विस्तृत जघनस्थल को कपाने वाले दक्षिण पवन के लिये मान रूपी वृक्ष को तोड कर गिरा देना अर्थात् नष्ट कर देना क्या मुश्किल है ? अर्थात् वसन्त ऋतु में रंग बिरंगी फूलों को देखने से, झूला झूलने से जघनस्थल में कंप कंपी पैदा होने से और दक्षिणानिल के स्पर्श से, मानिनियों का मान अनायास ही छूट जाता है। पौलस्त्योद्यानलीलाविटपितलमिलन्मैथिलीपादमुद्राः कर्पूरद्वीपवेलाचलविपिनतटीपांसुकेलीरसज्ञाः । क्रीडाताम्बूलचूर्णीगलपितमुखहृतक्लान्तयः केरलीना- मामोदन्ते समीराः स्मरसुभटजयाकाङ्क्षिणो दाक्षिणात्याः ॥७५॥

( ४६८ ) अन्वयः पौलस्त्योद्यानलीलाविटपितलमिलन्मैथिलीपादमुद्राः कर्पूरद्वीपवेला- चलविपिनतटीपांसुकेलीरसज्ञाः केरलीनां क्रीडाताम्बूलचूर्णाग्लपितमुखहृत- क्लान्तयः स्मरसुभटजयाकाङ्क्षिणः दाक्षिणात्याः समीराः आमोदन्ते । व्याख्या पौलस्त्यस्य रावणस्योद्यानमुपवनमशोकवाटिका तस्य लीलाविटपी क्रीडावृक्षो- ऽशोकतरुस्तस्य तलेऽधो मीलन्त्यो विघटन्त्यो चिरकालादस्पष्टीकृता इत्यर्थः । मैथिल्या सीताया पादमुद्राश्चरणचिह्नानि यैस्ते, कर्पूरद्वीपस्याऽन्तरौपविशेषस्य वेलाचल समुद्रतटस्थपर्वतस्तस्य विपिनतटी वनतटी तस्याः पांसवो धूलयस्तासु केली क्रीडा तस्या रसज्ञा रसिका, केरलीना केरलदेशजकामिनीना क्रीडाभी रत्यादिक्रीडाभिस्ताम्बूलेन चूर्णेन कर्पूरेण च ग्लपितानि खिन्नानि श्रान्तानीत्यर्थः । मुखान्याननानि तेषा हृता दूरीकृता क्लान्तिर्म्लानता यैस्ते, स्मर एव काम एव सुभटो सुयोद्धा राजा तस्य जयस्य विजयस्याऽकाङ्क्षिण इच्छुका दक्षिणे भवा दाक्षिणात्या समीरा वायवो दक्षिणानिला इत्यथ । आमोदन्ते आमोद सुगन्ध हर्षं वा 'आमोद सोऽतिनिर्हारी' इत्यमरः । परितो विस्तारयन्ति । स्रग्धराच्छन्दः । भाषा रावण की बाग में विद्यमान, लीलावृक्ष अशोक के नीचे थी सीता जी के चरणचिह्नों को अधघटा करन वाले, कर्पूर द्वीप में समुद्र तट के पर्वत के प्रान्तभाग में विद्यमान जगल की धूलि में खलवाड करने के रसिक, केरलदेश की अङ्गनाओ के रत्यादिक्रीडाओ में पान और कपूर के खाने से थान्त बत एव खिन्न मुखो की ग्लानि को दूर करने वाले और वीर राजा कामदेव का विजय प्राप्त होने की अभिलाषा रखने वाले दक्षिणानिल, चारो ओर सुगन्ध या हर्ष फैला रहे हैं । यश्चूताङ्कुरकन्दलीकवलनात्कर्णामृतग्रामणी- श्लाघामात्रपरिग्रहेऽपि जगृहे पञ्चेषुजैत्रेषुताम् । ताम्यत्तालुपिटङ्कमङ्कटतटीसञ्चारतः पञ्चमः सोऽयं कोकिलकामिनीगलविलादामूलमुन्मूलति ॥७६॥

( ४७० ) विरहविधुरकामिनीसहस्र-प्रहितमनोभवलेखसूक्तिमिश्रैः । सुरभिसमयवर्णनैश्कुर्वन्निति नृपतेरथ वन्दिनः प्रमोदम् ॥७७॥ अन्वयः अथ वन्दिनः इति विरहविधुरकामिनीसहस्रप्रहितमनोभवलेखसूक्ति- मिश्रैः सुरभिसमयवर्णनैः नृपतेः प्रमोदम् अकुर्वन् । व्याख्या अथाऽनन्तर वन्दिन स्तुतिपाठका इति पूर्वोक्तप्रकारेण विरहेण कान्तवियो- गेन तज्जनितक्लेशेनेत्यर्थ । विधुरा विह्वला कामिन्यस्तासा सहस्र तेन प्रहिता. प्रेषिता मनोभवलेखा कामसम्बन्धिलिखितपत्राणि तेषु सूक्तयस्सुभाषितानि ताभिर्मिश्रानि मिलितानि तै सुरभिसमयस्य वसन्तौ 'वसन्ते पुष्पसमयस्सुरभि' इत्यमर' । वर्णनानि तैर्नृपते राज्ञो विक्रमाङ्कदेवस्य प्रमोदमानन्द मनोविनोदमि- त्यर्थ । अकुर्वन् चक्रु । पुष्पिताग्रावृत्तम् । भाषा इस प्रकार स्तुतिपाठक लोगो ने, विरह से व्याकुल भई हुई हजारो कामिनिंजी के द्वारा भेजे जाने वाले प्रेमपत्रा की सूक्तियो से मिश्रित, वसन्त ऋतु के वर्णनों से, राजा विक्रमाङ्कदेव को आनन्दित किया । इति श्री त्रिभुवनमल्लदेव विद्यापति-काश्मीरकभट्ट श्री विल्हण विरचिते विक्रमाङ्कदेवचरिते महाकाव्ये सप्तम सर्ग । नेत्रान्जाश्वयुगाङ्कविक्रमशरत्कालेऽथ दामोदरात् भारद्वाजसुघोत्तमार्तसमुदितः श्री विश्वनाथः सुधीः । चक्रे रामकुबेरपण्डितघरात्सम्प्राप्तसाहाय्यक— ष्टीकायुग्ममिदं रमाकरुणया स्वर्गे नये सप्तमे ॥ ॐ शान्ति शान्ति शान्ति । ॥ धीसङ्कटनाशिन्यै नम ॥ ❧ हरि ॐ ❧

॥ श्री गणेशाय नम ॥ ॥ श्री सङ्कटनाशिन्यै नम ॥ परिशिष्टम् क. विक्रमाङ्कदेवचरितमहाकाव्यस्य सप्तसर्गान्तर्गताः सूक्तयः । प्रथमसर्गे— श्लोकाः अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रमजन्मभूमिः । वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ॥ ६ ॥ साहित्यपाथोनिधिमन्थनोत्थं कथामृतं रक्षत हे कवीन्द्राः । यदस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ॥ ११ ॥ गृह्णन्तु सर्वे यदि वा यथेष्टं नास्ति क्षतिः कापि कवीश्वराणाम् । रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥ १२ ॥ कुण्ठत्वमायाति गुणः कवीनां साहित्यविद्याश्रमवर्जितेषु । कुर्यादनाद्रेषु किमङ्गनानां केशेषु कृष्णागुरुधूपवासः ॥ १४ ॥ व्युत्पत्तिरावर्जितकोविदाऽपि न रञ्जनाय क्रमते जडानाम् । न मौक्तिकच्छिद्रकरी शलाका प्रगल्भते कर्मणि टङ्किकायाः ॥ १६ ॥ कथासु ये लब्धरसाः कवीनां ते नानुरज्यन्ति कथान्तरेषु । न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ॥ १७ ॥

( २ ) श्लोकाः लङ्कापतेः सङ्कुचितं यशो यद् यत्कीर्तिपात्रं रघुराजपुत्रः । स सर्व एवाऽऽदिकवेः प्रभावो न कोपनीयाः कवयः क्षितीन्द्रैः ॥२७॥ द्वितीयसर्गे— फलं हि पात्रप्रतिपादनं श्रियः ॥ ॥२६॥ प्रियप्रसादेन विलाससम्पदा तथा न भूषाविभवेन गेहिनी । सुतेन निर्व्याजमलीकहासिना यथाङ्कपर्य्यङ्कगतेन शोभते ॥३२॥ किमश्वमेधप्रभृतिक्रियाक्रमैः सुतोऽस्ति चेन्नोभयलोकबान्धवः । ऋणं पितॄणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् ॥३४॥ तृतीयसर्गे— परां प्रतिष्ठां लिपिषु क्रमेण जगाम सर्वासु नरेन्द्रसूनुः । पुण्यात्मनामत्र तथाविधानां निमित्तमात्रं गुरवो भवन्ति ॥१७॥ इयं हि लक्ष्मीर्धुरि पांसुलानां केषां न चेतः कलुषीकरोति ॥४२॥ चतुर्थसर्गे— शुभाशुभानि वस्तूनि सम्मुखानि शरीरिणाम् । प्रतिबिम्बमिवायान्ति पूर्वमेवान्तरात्मनि ॥३४॥ न कैश्चिदपि लभ्यन्ते निष्कम्पाः सुखसम्पदः ॥४६॥ उचिताचरणे केषां नोत्साहचतुरं मनः ॥६१॥ न कृच्छ्रेऽपि महाभागास्त्यागव्रतपराङ्मुखाः ॥६७॥

( ३ ) श्लोकः महात्मनाममार्गेण न भवन्ति प्रवृत्तयः ॥६५॥ एषा भगवती केन भज्यते भवितव्यता ॥६७॥ त्यागो हि नाम भूपानां विश्वसंवननौषधम् ॥११०॥ किं लक्ष्मीसुखमुग्धानामसम्भाव्यं दुरात्मनाम् ॥१११॥ राज्यग्रहगृहीतानां को मन्त्रः किं च भेषजम् ॥११५॥ पञ्चमसर्गे— किं न सम्भवति चर्मचक्षुषां कर्म लुब्धमनसाममात्रिकम् ॥५॥ अप्रतर्क्यभुजवोर्यशालिनः सङ्कटेप्यगहनास्तथाविधाः ॥६॥ वारणः प्रतिगजं विलोकयंस्तद्विमर्दरसमांसलस्पृहः । आददे न विशदं नदीजलं शीलमीदृशममर्षशालिनाम् ॥१२॥ दूषणं हि मुखरत्वमर्थिनाम् ॥१३॥ यत्र तत्र भुजदण्डचण्डिमा चित्रमप्रतिहतो मनोभुवः ॥१४॥ आलुपेन्द्रमददातिक्रमस्त्यक्तचापल मसाधु गर्वयत् । दीपयत्यरिनियाग्रदूतिका कोपमप्रणयिरेव तादृशाम् ॥२६॥ प्लावनाय जगतः प्रगल्भते नो युगान्तसमयं विनाम्बुधिः ॥३६॥ केसरी वसति यत्र भूधरे तत्र याति मृगराजतामसौ ॥३८॥ तेन तस्य वचनेन चारुणा प्राप कुन्तलपतिः प्रसन्नताम् । तीवरोपविषवेगशान्तये भेषजं विनय एव तादृशाम् ॥४७॥

( ४ ) श्लोका कार्मुकेषु मिषमात्रमीक्ष्यते नित्यकुण्डलितकार्मुकः स्मरः ॥४८॥ दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः । क्षारभावमपनीय गृह्णते वारिधेः सलिलमेव वारिदाः ॥५१॥ वेत्ति कश्चरितमुन्नतात्मनाम् ॥५२॥ कार्यजातमसमाप्य धीमतां निद्रया परिचयोऽपि कीदृशः ॥७३॥ अधर्जातमपि मूर्ध्नि धार्यते किं न रत्नममलं वयोधिकैः ॥८३॥ षष्ठसर्गे— यशसि रसिकतामुपागतानां तृणगणना सुखरागिणां धनेषु ॥२॥ कुसुममृदूनि मनांसि निर्मलानामू ॥३॥ प्रणयिषु शुभचेतसां प्रसादः प्रसरति सन्ततिमप्यनुग्रहीतुम् ॥६॥ मरणमपि तृणं समर्थयन्ते मनसिजपौरुषवासितास्तरुण्यः ॥१३॥ अवतरति मृगीदृशां तृतीयं मनसिजचक्षुरुपायदर्शनेषु ॥१४॥ अपि नयनिपुणेषु नो भरेण क्षिपति पदं किमुत प्रमादिषु श्रीः ॥२८॥ अवतरति मतिः कुपार्थिवानां सुकृतविपर्ययतः कुतोऽपि तादृक् । झटिति विघटते यया नृपश्रीस्तटगिरिसंघटितेव नौः पयोधौ ॥२६॥ व्रतमिदमिह शस्त्रदेवतानां दृढमधुनापि कलौ निरङ्कुशेऽपि । अविनयपथवर्तिनं यदेताः प्रचलमपि प्रधनेषु वञ्चयन्ति ॥३०॥

( ५ ) श्लोकाः सकलमपि विदन्ति हन्त शून्यं क्षितिपतयः प्रतिहारवारणामिः । क्षणमपि परलोकचिन्तनाय प्रकृतिजडा यदमी न संरभन्ते ॥३२॥ गुणिनमगुणिनं वितर्कयन्ती स्वजनममित्रमनाप्तमाप्तवर्गम् । वितरति मतिविप्लवं नृपाणामियमुपसर्पणमात्रकेण लक्ष्मीः ॥३६॥ मलिनधियां धिगनाऽर्जवं चरित्रम् ॥६१॥ इह हि विहितभूरिदुष्कृतानां विगलति पुण्यचयः पुरातनोऽपि ॥६४॥ यशसि रतिर्महतां न देहपिण्डे ॥७७॥ विमलविजयलालसाः खलानामवसरमल्पमपि प्रतिक्षिपन्ति ॥७८॥ त्रिभुवनमहनीयबाहुवीर्यद्रविणविभूतिमतां किमस्त्यसाध्यम् ॥६१॥ दासी यद्भवनेषु विक्रमधनक्रीता ननु श्रीरियम् तेषामाश्रितपोषखाय गहनं कि नाम पृथ्वोभुजाम् ॥६६॥ सप्तमसर्गे— गुणो हि काले गुणिनां गुणाय ॥३२॥ —श्रीरस्तु—

परिशिष्टम् ख. विक्रमाङ्कदेवचरितमहाकाव्यस्य सप्तसर्गान्तर्गतानां श्लोकानां अकारादिवर्णानुक्रमेणाऽनुक्रमणिका । पृष्ठ पृष्ठ "अ" अथ सुरपयवत्याद्विव्य ... ४०८ अकथयदवनीन्दो ... १४८ अदत्त चापरिच्छिन्न ... २४६ अकाण्डे विधिचाण्डाल ... २३४ अदर्दिरीकृता भूमि ... २३७ अकार्येऽपि कुमारस्य ... २७३ अदर्शयत्कामपि ... १९४ अक्षर्वंगर्वस्मितदन्तुरेण ... ३९ अदृश्यं नैश्चिदागत्य ... २२६ अगणितसुनिधि ... १७० अधरहसितकिंशुका ... ३५० अगाधपानीयनिमग्न ... ६९ अधीतवेदोऽस्मि कुत ... ११५ अग्रजे तृणवदर्पित ... ३०६ अध्युवासद्रवद्वासमण्डल ... २१६ अग्रे रणागतेनाऽथ ... २६१ अनन्यसामान्यगुणद ... १८ अङ्गुष्ठवितमशङ्कुमा ... १८२ अनन्यसामान्यतनूज ... १२८ अङ्गानि चन्दनरसादपि ... ३३९ अनभ्रवृष्टि श्रवणामृतस्य ... ८ अचिन्तयच्च किं वार्यं ... २७६ अनर्थवार्तापिहन ... २३१ अतिदूर समुत्प्लुत्य ... २४५ अनियतविजयश्रियो ... ३९७ अतिविशदतया दिशा ... ४०७ अनुवृत्तसमवर्तिपान ... २९९ अधि शिशिरतपा मरुत्सु ... ४०६ अनुचितममुना ... ३६८ अत्यजतप्रतिगज ... २९० अनुत्तरदस्रिवातपत्र ... ३७० अत्र द्राविडभूमि ... २०४ अन्तक प्रतिभटक्षमा ... २८५ अत्रान्तरेभूज्जयसिंह ... १६८ अन्तर्दाहिमिवालोच्य ... २३६ अत्रान्तरे मन्मथबाल ... ४१२ अन्यपौरुषगुणे ... १११ अथ कतिपु चिदेव ... ३६० अन्यायनेक ऋतवान् ... ७६ अथ चालमला ... २४९ अन्योन्यकण्ठाश्लेषेण ... २६२ अथ नृपतनये कृतप्रयाणे ... ३६९ अग्निव्यन्सरजोषाय ... २१५ अथ समुचिते कर्मण्या ... १४९ अपर्यान्तसन्ताप ... २३४

( २ ) पृष्ठ ... पृष्ठ अवसरसमितं परोमि ... ३८२ अशेषविघ्नप्रति ... ७ अपारवीरप्रन पारगम्य ... ६४ अश्निनदिलसितेन ... ३७७ अपाराङ्गनालो ... २६६ अंशुभिरपि विधायुभि ... ३९४ अपि स्वयं पङ्कज ... ४२ अश्मरदिरदक्षा ... २९१ अपूर्वं कोपि दुर्मेधा ... २५५ अहमहमियया ... ३८९ अप्रयाणरहितं ... ११० अहह महदनर्थं ... १८० अप्रियावेदने जिह्वा ... २२९ अहो नु चित्रं प्रति ... ४१५ अब्रवीच्च भृश ... ३१४ अहो शौर्यमहो धैर्यं ... २५५ अभजत मणिमण्डल ... ३५४ अभज्यन्त गजेन्द्रस्य ... २०७ "आ" अभिसरणपरा ... ३६६ आवर्ण्य कर्णाटपते ... १७३ अभ्यागतेनो द्विपन ... १६३ आक्रान्तरिपुचक्रेण ... २२५ अमुष्य लोकत्रितया ... १०६ आग्न्यायिवारीभिनि षथाद्भूतेषु ... ६६ अम्भोधि धीर्भुजङ्गमस्य ... २१२ आत्मानमुन्मद्दद्वा स्थ ... २४० अर्धासनप्रणयपूर्ण ... ३३८ आपाण्डुपाण्ड्यमालोल ... २३३ अलं छुटयशीति ... १२२ आरक्तमर्य्याणंतत्वराणा ... २७ अल विषादेन ... ११४ आर्येण गोकुमार्येव ... २५८ अलक्षणं बालमृगाक्षि ... १०९ आलम्ब्य हारं करपल्लवेन ... १५२ अलङ्कारो यद्भुव ... १६९ आलुप्तेन्द्रमवदातचित्रम ... २९८ अलसहसा दुष्यसहेन ... १३६ आसन्नरत्नगृहभित्तिषु ... १४७ अलभ्यत प्राफन ... १४५ आतीतस्य समुत्सुख ... २०२ अलौकिकोल्लेख ... ९९ आस्ते पदेरावणवारणस्य ... ३१ अवगाहितनि शेष ... २२७ आज्ञापयामास च ... १९१ अवनरति मति ... ३६२ आशा शिरश्मुम्चति ... १७१ अवन्ध्यपातानि ... ५८ "इ" अपागुर नेत्र ... १०५ अविरततरुणीसहस्र ... ३६६ इति क्षितीन्द्राश्चिरमिन्दु ... १२१ अविस्मृतश्र्यम्बव ... १०२ इति गिरमभिधाय निश्चलङ्का ... ३८३ अवेक्षमाणा सदृश ... ११० इति धर्मत्सौरभमासलेन ... ४२० अधाक्स्तरस्यास्ति ... १८७ इति मुषितधिय ... ३६३

( ३ ) पृष्ठ पृष्ठ इति मे कृतकृत्यस्य ... २३९ उद्भ्रम्य दूरं मुहु ... ४२६ इति स मनसा ... २७८ उद्भिद्रपंक्तिस्थित ... ४४६ इति स्फुरच्चारु ... १४० उन्माद्यन्मधुपेन ... ४६५ इत्थं वियोगज्वर ... ४५३ उपरि निपतितः ... ३९६ इत्यादिभिश्चित्रतरैर्वचोभि ... १८४ उपरि प्रतिबन्धेन ... २७१ इत्युक्त्वा विरते ... २४७ उपविश्य शनैः ... २३२ इत्युदीरितवता ... ३३७ उभयनरपतिप्रताप ... ४०३ इयं त्वदीया दयिता ... १२२ उरसि मनसिजा ... ३५३ इह निहतनय. ... ३८१ उल्लेखलीला घटना ... १५ इहैव सङ्ग- फलवान् ... ४५२ उवाच कण्ठायत ... १०८ उवाह भीता क्षिति ... १३० “ई” ईदृशी सुजनतामजानता ... ३१५ “ए” “उ” एकस्तनस्तुङ्गतरः ... ४ उच्चचाल पुरतः ... २९७ एकत्रप्रासादयसानभाज. ... ७९ उच्छ्र्षं स्थित तस्य ... १६७ एकस्य सेवातिशयेन ... २५ उज्ज्वलधरानेव रणाङ्गणेषु ... १९७ एवातपत्रोजितराज्य ... २०० उत्खातविश्वोत्कट ... ४७ एतद्दु षागमभिशेभ्यो ... २४९ उत्तम्भयामास पथो ... ८३ एतानि निर्यान्ति वचांसि ... १८१ उत्सर्जनीकेन मुहु ... ३८ एनमेत्य जयकेशिपार्थिव. ... २९७ उत्प्रतापदहन ... ३०९ एवंविधदुराचार ... २४८ उत्सङ्गमारुह्य ... १५७ एवं विनिश्चित्य कृत˙ ... १७१ उत्सङ्गे तुङ्गभद्राया ... २४२ एवमादिभिरनेन ... ३२१ उदञ्चदानन्द जल ... १२५ एष स प्रियतमः श्रिय. ... ३३५ उदञ्चयन्न्रंशुभि ... ४४७ एषास्तु चालुक्य ... २४ उदञ्चितभ्रूमुखयणि ... १३१ उदरालोडनोद्भ्रान्त ... २१७ “औ” उद्दण्डा तेन डिण्डीर ... २४४ उद्भूतवामरोद्दाम ... २७० और्वाग्नितप्तापायोधौ ... २०९

( ५ ) पृष्ठ पृष्ठ "ख" चालुक्यरामे हरिवाहिनीभि १९२ खड्गवारि भवत विमुच्यते ३०३ चालुक्य वंशामल मौक्तिव... ५६ "ग" चालुक्यवंशोऽपि यदि ... १७५ चिन्तया दुर्बल देह ... २२२ गगनमुपगतेन शोभते ... ३५८ चिन्तामणियंस्य पुरो वराक ७३ गजोन्मूलितनिक्षिप्त ... २११ चुचुम्ब वक्त्राणि चकर्थ ... ४२८ गम्भीरता चाटुपरा ... ४५४ चूतद्रुमाली भुजपञ्जरेण ... ४४५ गते समाप्तिं नरनायचक्रे ... ४१२ चेतसोऽपि दधतीरल ... ३२८ गते हिमतौ ध्रुवमुष्णलिङ्ग ४४० चोलकेलिसलिलावगाहन ... ३३३ गतोऽपि यत्र प्रतिविम्व ... ९२ चोलभूमिपतिरप्यनन्तर ... ३२२ गलितोत्तुङ्गशृङ्गत्वत् ... २२० चोलभूमिपतिरुज्ज्वलंगुणैं ... ३११ गायन्ति स्म गृहीतगौड ... २०१ चोलस्य यद्भीतिपलायितस्य ८६ गाहतेऽत्र धृतकार्मुके ... ३२० चोलान्त पुरगृह ... २२१ गिर निपीय श्रुति ... १२४ गिरमिति स निशम्य ... ३८७ "ज" गिरा प्रवृत्तिमंम नीरसाऽपि २२ जगत्त्रयीकार्म्मणकर्मणि ... ९८ गीतेषु याता किमु ... ४२९ जगत्यनर्थेषु समस्तवस्तुषु ... १०७ गुणिनमगुणिम वितर्कयन्ती ३६७ जगाद देवोऽथ मदीप्सितस्य ... १७२ गुप्तभूषणरवेण सर्वत ... २८२ जगाम याज्ञेषु रथाङ्गनाना ... ३० गृहशिखरमगम्यमप्यदूरो ... ३५१ जडेषु जातप्रतिभाभिमाना ... १४ गृहोदरस्थे जरतीपरिग्रहे ... १४४ जनेषु दोलातरला ... ४२२ गृह्णन्तु सर्वे यदि वा ... १० जयन्ति ते गन्धमनादमिन्द्र ... ८ ग्रहकलितनिवाप्रज ... ३८० जयंकरागी विजयोद्यमेषु ... ८४ जलाशया यत्र हसन्ति ... ९३ "च" जवसमुचितधावनानुल्पा ... ३७६ चकार कल्यापमिति ... ८९ जात पापरत कँश्चित् ... २६४ चक्रु स्तम्बेरमा पृष्ठे ... २६७ जानामि वरिवर्णान्त ... २४१ चचार चूतद्रुममञ्जरीषु ... ४४३ जानामि मार्गं भवतो ... १८३ चञ्चच्चामरदीयमान ... १४९ जिगीषव केऽपि विजित्य ... ४९ चन्दनस्यन्दि डिण्डीर ... २०८ जैववाजिपुतना ... ३२८

( ६ ) पृष्ठ पृष्ठ ज्येष्ठो गुणेर्गरिष्ठोऽपि ... २६३ तस्मिन्निरूढे गिरि ... १९५ ज्येष्ठ परिम्लानमुरा ... १७६ तस्मिन्नाकर्णयति ... १९५ ज्येष्ठे कृतेऽपि प्रतिपत्ति ... १८९ तस्य भूरिगुणरत्न ... ३१७ तस्य मन्मथमती ... २८३ "त" तस्य वाहगमेकैकं ... २१४ त बालचन्द्रपरि ... १६४ तस्य सज्जधनुष ... ३०० तं विभाव्य रमणा ... २९९ तस्यारिलक्ष्मी ... २०० तञ्चमूरजसि दूरमुद्गते ... ३२५ तां विधाय धृतिविह्निता ... २९३ तटद्रुमाणां प्रति ... ९५ तातश्चिरं राज्यमभूद् ... १७७ तत कतिपयैरेव ... २४३ तुङ्गभद्रा नरेन्द्रेण ... २४४ तत प्रदीपेण्वपि ... १४३ तेजस्विनामग्रति ... १६७ ततश्चिन्ताविवहा ... २८८ तेजोनिधीनां रत्नानां ... २७० तत्कुम्भिकुम्भस्थल ... १९२ तेन केरळभूपात्न ... २१६ तत्प्रतापमबोचन्त ... २२० तेन तस्य भजनेन ... ३१३ तत्र दक्षिणतटे कृत ... ३३३ तेन सैन्यधनुषां ... ३२९ तत्रावतीर्णं घोरेण ... २४६ तेनानास्पदमात्मीय ... २२४ तथाविधाया रावृशं ... १२१ तेनैव युवराजत्व ... २३९ तथेति देव्या कृत ... ११८ त्यक्त्वोपविष्टाऽन्यदसौ ... १५४ तथेति वचनं राज्ञ ... २४१ त्यजन्ति हंसाः सरसी ... १०४ तदुद्भूतैर्भूषतिभि ... ५० त्यागमेव प्रशंसन्ति ... २७७ तदेव तापसपते ... ११९ त्वं चैत्रमित्रं यदि ... ४५० तदेव विधातव्यतु ... १७८ त्वं दृष्टदोषोऽपि पुनः ... ४५३ तद्गणितसप्तट्ट ... २१४ त्वयिप्रया गिरिकुहाश्रये ... ३०८ तद्वाहवण्डपिक्षेपे ... २५३ त्वद्भुजप्रनविशाप ... ३०४ तद्भूयात्सिंहलदीप ... २१८ त्वयिहि महति यत्न ... ३८५ तन्ने प्रमाणीकुरु ... १८५ त्वरोपवातप्रिय ... ४३१ तमः स्वहस्ताहूत ... ११८ स्याद्वानेन विजिगीषुणा ... ३०५ तवादिकूर्मं मर्माणि ... २५० तस्मादभूदाहवमल्ल ... ६५ "द" तस्मिन्प्रविष्टे मलया ... १९३ दन्तप्रवालोष्ठताम्रपंणाव ... ४३७

( ७ ) पृष्ठ पृष्ठ दक्षिणार्णवतटादुपागतं ... ३३१ “ध” दधिरे तद्गजा पाद ... २१३ धत्ते जगद्रक्षणयामिकत्व ... १७२ दर्शयन्तममृतद्रवो ... ३१७ धर्मद्रुहामत्र निवारणाय ... ३५ दहत्यशेषं प्रतिमोषि ... ८७ धात्रेयिका स्मित ... १५५ दिग्गजश्रवणमङ्ग ... ३३३ धुनानेन धनुश्श्रिय ... २१८ दिग्गजास्त्यजतस्वैर ... २५१ धृतसुभटकरङ्कमङ्कवर्ति ... ४०२ दिग्गजव्यसनिना पुन ... ३१६ धैर्येण तस्मिन्नवधीर्य ... १६५ दिग्भित्तय शरश्रेणि ... २३७ धैर्यस्य धाम विधि ... ३४० दीपप्रतापानलसन्निधानात् ... ६८ ध्रुव रणे यस्य ... ७२ दुराग्रहश्चन्दनमारुतस्य ... ४१८ ध्रुवमरिषु पद व्यधत्त ... ३९८ दृप्तारिदेहो समरोपमदं ... ५१ दृश्यन्तेऽद्यापि तद्भीति ... २२२ “न” देया शिलापट्टकपादमुद्रा ... ४१६ न दुर्जनानामभिह ... १६ देवस्य चालुक्यविभो ... १५२ नन्दनद्रुमनिकुञ्ज ... ३२६ देवोपदेशाद्गुण ... १९० न भोजराज कविरञ्जनाय ... १९९ दोर्दण्डदर्पादद्रविड ... ८४ नयनगतिमरातिवीरचूडा ... ३९३ दोलाधिरूढस्य वपू ... ४२१ नरपतितनय कयापि ... ३५५ दोलाविनोदेन विलास ... ४२२ नरेन्द्रकान्ता कुचहेम ... १३१ दोलासु यहोलननङ्गनाना ... ४२५ नरेन्द्रपुत्रस्य कृते ... १३२ दोषजातमवधीर्य • ... ३१६ नवप्रतापाङ्कुरचञ्चकान्त्या ... १४६ द्रविडनरपतिप्रताप ... ३५७ नवीनदन्तोद्गमसुन्दरेण ... ४३४ द्रविडनरपतेरदत्त ... ३४४ न शशाक निराकर्तु ... २७५ द्रविडनृपतिपुत्रिका ... ३४६ नायमाबदवलोकिता ... ३२१ द्रविडपतिकयाद्भूत ... ३४५ नारिकेलफलखण्ड ... २९५ द्रविडबलभरे क्रमा ... ३७९ निःशेषनिर्वासितराज ... ७० द्रविडविगपराज्य ... ३४८ निष्ठातरक्षौघदिगेह ... १४४ द्राविडोऽपि नृपति ... ३३४ निजतनुभरगौरवाद् ... ३७२ द्विरदपतिरमुख्य ... ४०१ निजदशनयुगेन बद्धवारा ... ३७१ द्वीपक्षमापाल ... ५१ निजासु राजपाणीषु ... २५२ द्वीपेषु कर्पूरपरागपाण्डुषु ... ५१ निधि प्रतापस्य पद ... १२३

( ८ ) पृष्ठ पृष्ठ निपीडयच्चन्द्र पयसे ... ११० पुरन्धिगण्डूपसुरा ... ४४४ निरस्तरावाससमर्थमथिता ... ११३ पुराज्जनापन्नसहस्र ... ९४ निराकृते यन्न रुपा ... १०० पुण्यैर्भाजिष्णुभस्त्राकरणि ... ४६० निरादरश्चन्द्रशिखा ... ४८ पृथ्वीपते सन्ति न यस्य ... २१ निर्मदत्वमुपयान्ति हृन्त ... ३०५ पृथ्वीभुजङ्ग परिरम्भिता ... ८५ निर्वन्दूरतिमात्रोष्णं ... २३० पौलस्त्योथानलीला ... ४६७ निर्वतिवाशग्दंनलेप ... ९० प्रकटितपटुमौक्तिकायतरा ... ३९० निवारण पल्लवबीज ... ४३२ प्रकर्षवत्या नपिशीर्ष ... ९३ निवेदितश्चारजनेन ... ३५ प्रनोष्ठपृष्ठस्फुरदिन्द्रनील ... ३७ निशम्य देव्यस्य ... ११३ प्रणयप्रवणंवासीत् ... २७४ निषासु यन्नोन्नतसोम ... १०४ प्रतापभानौ भजति ... ६२ नीता नूतनयौवनप्रणयिना ... ४६६ प्रतापसूर्यादिगुणं ... ११२ नून महापातकिन ... ४५० प्रतिक्षण कुन्तलपार्थिवस्य ... १५९ नृपं कठोरव्रतचर्यया ... १११ प्रतिक्षण क्षालितमन्युना ... ९६ नृपप्रिया स्थापयितु ... १३८ प्रतिदिशमधिरोहिताश्व ... ३७७ नैष दुर्मतिरिम् सहिष्यते ... २८१ प्रतिफलननिभात् ... ३७५ प्रत्यक्ता मपुनेव ... ३७९ “प” प्रभात्तसम्भूतानेक ... २५७ पददलितबृहत्कपाल ... १९८ प्रविश्य शुण्डद्मनेऽप ... २४७ पदातिसंवर्गशराणेन ... ४४२ प्रविश्य गङ्गेश्मसु ... १०० पथे पद्मावरानेव ... २५३ प्रसरदुभयतः प्रहार ... ३८८ परा प्रतिष्ठा लिपिषु ... १६२ प्रमाथ्य तं रावणमध्यु ... ४९ परिकल्पितचुलुकस्य ... ३५४ प्रमायं पादो विहित ... ४२५ पादयो प्रणतये ... ३३६ प्रमुननाराचपर ... ४४८ पानीय नालिकेरी ... ४६१ प्रस्थाप्य शक्रे धुनिमाम् ... ४४ पार्श्वस्थपृथ्वीधरराज ... ५ प्रहृतिनिवहम्छ्छ्डो ... ३९२ पितुरपि परिपन्थिनी ... ३८१ प्राज्ञ बोधण्डपाण्डित्य ... २३८ पिशाच इव सर्वेषां ... २७२ प्राज्ञमय्यनपपङ्क ... २८४ पुनाद्वश्च श्रोत्रपवित्र ... १७९ प्राज्ञस्तन श्रोत्रपतिंह ... ६० पुरन्दरेण प्रनिशाय ... ३६ प्राप्तोदयः पादनगरेश ... १६१

( ९ ) पृष्ठ पृष्ठ प्रियप्रसादेन विलाससम्पदा <sup>...</sup> ११० भोगाय वैपुल्यविशेष <sup>...</sup> ३८ प्रेषितैरथ तयो परस्पर <sup>...</sup> ३३५ भोजक्ष्मापालविमुक्त <sup>...</sup> ७१ प्रौढिप्रकर्षेणपुराणरीति <sup>...</sup> १२ भ्रमयनङ्कुश दर्पात् <sup>...</sup> २७४ “फ” “म” फलेन शून्यं सुतरा <sup>...</sup> १०८ मदकरटिनमुत्कटप्रताप <sup>...</sup> ३८८ फालिन्दिव्यमियागृङ्कन् <sup>...</sup> २६८ मदस्तम्बेरमैस्तस्य <sup>...</sup> २०७ मदिरेव नरेन्ध्री <sup>...</sup> २६४ “ब” मनस्वितीना मनसो <sup>...</sup> ४४१ मन्युपङ्कलुष समु <sup>...</sup> २८७ बले समुल्लासमपाचकार <sup>...</sup> १३४ मम शुद्धे कुले जन्म <sup>...</sup> २४० बहुना किं प्रलापेन <sup>...</sup> २७५ मया निपीड्यमानास्ते <sup>...</sup> २७७ बहुभिरभिहिते किमद्भुतं <sup>...</sup> ३७९ मलयगिरिसमीरा <sup>...</sup> ४६२ बाणेन हत्वा मृगमस्य <sup>...</sup> ४१७ मलयेन तदीयस्त्री <sup>...</sup> २१० बाधिर्यमिव मङ्गल्य <sup>...</sup> २६५ मर्मव्यथाविस्मय <sup>...</sup> ४४६ बाहुरहवमल्लस्य <sup>...</sup> २५१ महति समरसङ्कटे <sup>...</sup> ३१३ ब्रह्मर्षिभिर्ब्रह्ममयी <sup>...</sup> २६ मातुस्तनोत्सङ्गविलास <sup>...</sup> १५३ ब्रूमस्त्वत्किमस्त्रकौशल <sup>...</sup> ८७ मानग्रन्थिकदर्थनाय <sup>...</sup> ४५५ मौलिल्लिासालिनपल्लवा <sup>...</sup> ४६ “भ” मुखपरिचितराजहंस <sup>...</sup> ४०५ मुखमसितपताकया <sup>...</sup> ३८९ भयभुवनमहोत्सवे <sup>...</sup> ३८६ मुखेन्दुसञ्जारकृताभिलाष <sup>...</sup> १५९ भाग्यभूमिरियं भारतादिषु <sup>...</sup> ३०९ मुदितमनसि जातमानखिदो <sup>...</sup> ३४४ भाग्यै प्रसूतेर्भगवान् <sup>...</sup> १८० मुष्टिप्रविष्टान्तरत्नदीप <sup>...</sup> १५४ भिद्यन्निरापादितसर्व <sup>...</sup> १४२ मुहु प्रकोपादुपरीस्थितासु <sup>...</sup> १३८ भुजप्रभादण्ड द्ववोर्ध्वगामी <sup>...</sup> १ मृगाङ्कचूडस्य किरीट <sup>...</sup> १२० भूपेषु कूपेष्विवरिक्त <sup>...</sup> ६७ मृगीदृश श्यामलचूचुक <sup>...</sup> १३२ भूभृत्सहस्त्रापितदेहरन्धै <sup>...</sup> ५८ मृणालसूत्र निजवल्लभामा <sup>...</sup> २६ भृङ्गालीभिरधिज्यमन्मथ <sup>...</sup> ४६४ मृदुहृदयतया गुणानुरागा <sup>...</sup> ३४७ भृङ्गेविश्ववियोगिवर्गं <sup>...</sup> ४५७ मौलिचुम्बितवसुन्धरा <sup>...</sup> ३०१

( १० ) पृष्ठ पृष्ठ “य” “र” य वारिधिः प्रज्वलदस्य ... ८० रञ्जित परिजनोज्स्य ... ३३१ य वीक्ष्य पाथोधिरधिज्य ... ८१ रणजलधिविलोड़न ... ३७३ यः कोटिहोमानलधूमजालैः ... ७१ रण रभसनिकास ... ३४७ यत्पार्थिवे शत्रुकठोरकण्ठ ... ४७ रत्नोत्करग्राहिषु ... ८१ यत्पूरयामास विलासदोला ... ४२७ रथस्थितानां परिवर्त्तं ... ४१४ यत्र तिष्ठति विरोध ... २९४ रसध्वनेरध्वनि ये ... १७ यत्र मारुतविधूत ... २९५ राजहंसमिव बाहु ... २८६ यथाविधि विधायोप ... २५९ राज्ञा प्रणामाञ्जलि ... १५८ यदातपत्रं मम नेत्र ... ३२ रामस्य पित्रा भरतो ... १७८ यदि प्रहस्तस्य न राज्य ... १८६ राशीकृतं विश्वमिनावलोक्य ... ८२ यदीयलीलास्फटिक ... ९५ राशीकृता पुष्पपरागपुञ्जा ... ४३८ यदीयसोधध्वजपट्ट ... १०१ रुद्धवर्त्मसु गजेषु वाजिनः ... २९० यदुत्थितं सोऽङ्गुलिसंग्रहेण... १५६ रुधिरपटल कर्दमेन दूर ... ३९१ यद्वा मृषा विष्ठतु दैन्य ... ४१८ रुधिरभृतकपालपवित्र ... ३९५ यद्वैरिसामन्तितम्बिनीना ... ७९ यन्नन्दने कल्पमही ... ३३ “ल” यदा कूर्चिफया चित्र ... २१९ यशोवतंस नगर ... ६५ लक्ष्मीरिवप्रदानेन ... २६१ यश्चूताङ्कुर कन्दली ... ४६८ लक्ष्म्या कर ग्राहयितु ... १७६ यस्य प्रतापेन यदर्थ्यं ... ६१ लग्नद्विरेफध्वनिपूर्यमाण ... ४३९ यस्याः कृते भूमिभुजा ... १८१ लङ्कापते सङ्कुचित ... २२ यस्याञ्जनश्यामलम ... ५४ लङ्कारामीपाग्बुधिनिर्गतेय ... १८२ यस्यासिरत्युच्छलता ... ७८ लब्ध्वा यदन्त पुरसुन्दरी ... ८३ यस्यैषव सयुग ... ५७ लावण्यलक्ष्मीतुलधाम्नि ... १६६ याति पुण्यफलवान ... ३०७ लावण्यलुप्त्याभिरलभ्य ... १६४ यातोऽवमुपकाराय ... २४२ लीलामुदा कोकिलकूजितानां ... ४३२ यात्रामु दिक्पालपुरी ... ६३ लीलान्नानविधित्सम ... ४५५ यात्रामु यस्य ध्वजिनी ... ६२ लोकेषु सप्तस्वपि विश्रुतो ... २४

( ११ ) पृष्ठ पृष्ठ “व” विलासिनामादिगुरु ... ४४३ वक्ष स्थली रक्षतु सा ... ३ विवेश सुभ्रूरथ ... १४२ वचांसि वाचस्पति ... १ विश्वम्भराकण्टकराष्ट्र ... ५२ वरकरिपु गभीरदुन्दुभीना ... ४०७ विदीर्णकर्णा कलहेन यस्य ... ७६ वर्णयामि विमलत्वमम्भस ... ३०२ विहितसमरवेवता ... ४०४ वशमयनिपतिद्वय ... ४०० वीक्ष्य पुष्पमधु पांसु ... ३२७ वहन्ति हिंसा पशव ... १११ वेत्सि मे पतिमवञ्चक ... ३१९ वाचालता पुरत ... १७४ व्यजनचटुलवालधि ... ३७४ वारण प्रतिगज ... २८८ व्यरज्यत समस्तोऽपि ... २७२ विघटनमटवीश्वनुर्धराणा ... ३५९ व्याजावतीर्णेन जनार्दनेन ... १९८ विघटितकवच ... ३९५ व्यामृतरविरत शिलीमुखै ... २९९ विघटितपरिपन्थि ... ३५८ व्युत्पत्तिरावाजितकोविदा ... १३ विचारचातुर्यमपा ... १७४ व्रतमिदमिह शस्त्रदेवताना ... ३६३ विजित्य सर्वाः ककुभ ... १०६ वितरितुमिवमप्रजस्य ... ४०५ “श” विदधति कुधियोऽत्र ... ३६५ शतक्रतोर्मध्यमचक्रवर्ती ... ७३ विद्रुमेषु समुद्रस्य ... २१६ शनैर्विधाय प्रतपारणा ... १२६ विधाय रूप मशक ... ७४ शिलाभि करटिक्षुण्ण ... २१२ विधाय शान्त्यै कङ्कण ... ११७ शीतर्तुभीत्या विविशु ... ४१३ विधाय सैन्यं युधि ... ५६ शुभाशुभानि वस्तूनि ... २२७ विधास्यति कथ ... २५७ शून्या श्रीखण्डवाते ... ४६१ विधिलिखितमिद ... ३६८ शृङ्गारिणीमार्जितदन्त ... ४४९ विधेहि दृढमात्मान ... २३२ शौर्योष्मणा स्विन्नकरस्य ... ५३ विपक्षवीराद्भुतकीर्ति ... ४५ श्रवणमधुरजिस्फुरद्ध्वनीना ... ३७२ वियोगिनीना रिपु ... ४१९ श्रीचालुक्यनरेन्द्रसूनुरगुज ... ४०९ वियोगिनीनामवशालु ... ४४१ श्रीतैलोपो नाम नृप ... ५२ विरहविधुरकामिनी ... ४७० श्रीपाग्नि दुग्धोदधि ... २ विरूक्षणीय सति दाक्षि ... ४१६ श्रुत्वेति वाक्यं पितुरादरेण ... १८६ विलासदोलाफलके ... ४२३ श्रुत्वेव वृत्तावसर तुषार ... ४३३ विलासदोलायितदन्त ... ९१ श्लाघ्य शेषफणाचक्र ... २५४

( १२ ) पृष्ठ पृष्ठ “ष” स विक्रमेणाद्भुत ... १५१ षट्पदध्वनिभिराकुलीकृत ... २८९ स व्यसर्जयदथ ... २८४ स शङ्कातङ्कमासाथ ... २२६ “स” सशब्दवाञ्चीमणि ... १३५ सत्रान्तभृङ्गोपदपक्ति ... ४३५ स सर्वमावर्ज्य रिपुप्रमाथी ... ४११ सन्नद्ध माधवीना मधु ... ४५९ स सोमवक्त्रेन्नवकोर ... १२७ सबलमपि विदन्ति हन्त ... ३६४ स सौकुमार्यैवपने ... ११९ सतीव निखिलैस्तस्य ... २१० सस्नेहमङ्के विनिवेश्य ... १७९ सङ्क्रादजल वनदेवताना ... ४३० सह विभवभरेण तत्र ... ३४३ स जातु जातुषी मेने ... २६९ सहस्रश शम्भु विशारदाना ... ११ स तत्क्षणात्परिम्लान ... २२९ स हेमवृष्टि महती ... १२९ स तु शपथशतै प्रपद्य सर्व ... ३८४ सहोदरा कुङ्कुमकेसराणा ... १७ स दिग्बलममालोड्य ... २६३ सान्द्रन्दमिति चान्यच्च ... २५९ स धीरमुर्व्वीन्दुरधीरलोचना ... ११४ सान्द्रचन्दननिस्यन्द ... २०९ सन्धिवन्धमवलोक्य ... ३२२ सान्द्रा मुद यच्छतु ... ५ सन्ध्यासमाधौ भगवास्थितो ... ३१ साम्राज्यलक्ष्मीदयित ... १८४ सपदि न शुभमस्ति ... ३८६ साहित्यपायोनिधि ... ९ सुपीडयन्नायसपञ्जर ... १६१ सिन्धुतीरनिलया ... १३२ समजति भस्मनेखला ... ३५० सुगन्धिभि स्वाम ... ४३४ समर्प्यमाणाद्भुतकौसुमा ... ४४८ सुतद्वय ते निज ... १२४ समारूढोहोपरि पादपाना ... ४३६ सुधाकर यार्धन्त ... २८ स मालवेन्दु चरण ... १९६ सुभटशतनिशात ... ३६१ समुच्छलन्मौक्तिक ... ९७ सुरप्रसूनान्यपतन् ... १४६ समुद्रवेला रतिरत्न ... १०३ सुवर्णनिर्माणमभेद्य ... ४० स यौवराज्यश्रियमश्रितस्व ... १९० सौन्दर्यनिन्दीवर ... ४२४ सरोजिनीव हंसेन ... २६० स्थितस्य गर्भे प्रभयेव ... १२८ सर्वत श्रवणभैरव ... ३२४ स्नानसक्तपरिवार ... २९२ सर्वस्वदानमालोक्य ... २२८ स्फूर्जद्यशोहंसविलास ... ५५ सर्वांसु नियासु किमप्य ... १६९ स्मरप्रशस्तिप्रति ... ९९ सलीलमङ्गीकृत ... ४३८ स्मरस्य यन्नाद्भुत ... १०२