वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
स्वामिना स्वत्वे विभाविते निधिः परावर्त्यः । २६९ विष्णुः, अनिवेदितविज्ञातस्य सर्वमपहरेदिति । अनुलोमजानां मूर्द्धावसिक्तादीनां क्षत्रियादिवन्निर्णयो मातृसमानधर्मत्वात् । प्रतिलोमजानां तु शूद्रवत् शूद्रसमानधर्म- त्वादिति । यदा निधेः स्वामी आगत्य रूपसङ्ख्यादिभिः स्वत्वं विभावयति तदा तस्मै निधिं दद्यात्, षष्ठं द्वादशं वांशं राजा गृह्णीयात् । यथाऽऽह— मनुः, ममायमिति यो ब्रूयान्निधिं सत्येन मानवः तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ इति । षष्ठं द्वादशं वा इति विकल्पस्तु धनस्वामिनः सगुणत्वनि- र्गुणत्वापेक्षया कालापेक्षया वा द्रष्टव्यः । इदं च भागग्रहणं ब्राह्मणभिन्नादेव । यथाऽऽह— विष्णुः, स्वनिहितात् ब्राह्मणवर्जं द्वादशमंशं दद्युरिति । केचित्तु विष्णुवाक्यात् क्षत्रियादयो द्वादशं, ब्राह्मणः षष्ठं दद्यादित्याहुः । तच्चिन्त्यम् । यदा राजा निधिस्वामिन्यागते निधिं परावृत्य दद्यात्तदा ब्राह्मणाय दत्तं निध्यर्द्धं परावृत्य गृह्णीयात् । यथाऽऽह— बृहस्पतिः, अस्वामिविक्रयं दानमाधिं च विनिवर्तयेदिति। परकीयं निधिं स्वीयमिति वदन् राज्ञा तन्निधिसमं दण्डनी- य इत्युक्तम्— विष्णुना, परनिहितमिति ब्रुवंस्तत्समं दण्डमावहेदिति । ब्रुवन्, स्वनिहितमिति ब्रुवन् इत्यर्थः । आकरेषु विशेषमाह— विष्णुः, आकरेभ्यः सर्वमादद्यात् । इति । आकराः, सुवर्णरत्नाद्युत्पत्तिस्थानानि । विष्णुधर्मोत्तरे,
२७० वीरमित्रोदयस्य राजनीतिप्रकाशे धात्वाकराणां सर्वेषां प्रभुरुक्तो महीपतिः । निधिं पुराणं सम्प्राप्य कोशेऽर्द्धं तु प्रवेशयेत् ॥ अर्द्धं ब्रह्मणसात्कुर्याद्धर्मकामो महीपतिः । इति । नदीतीरसमुद्रयोः शुल्कग्रहणमाह — मनुः, पणं यानतरे दाप्यः पौरुषेऽर्द्धपणं तरे । पादं पशुश्च योषिच्च पादार्द्धं रिक्तकः पुमान् ॥ इति । “भाण्डपूर्णानि”इति अग्रे वक्ष्यति, तद्भिन्नविषयतास्य श्लो- कस्य। तेन रिक्तशकटादियानविषये तरणे पणं दाप्यः। एवं पु- रुषवाह्यो भारोऽर्द्धपणं दाप्यः । पशोः, गवादेः, योषितश्च पणचतुर्थांशः । भाररहितो मनुष्यः पणाष्टमभागं दाप्यः । तथा, भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः । रिक्तभाण्डानि यत्किञ्चित्पुमांश्चापरिच्छदाः ॥ इति । भाण्डपूर्णानि, पण्यद्रव्यपूर्णानि शकटादीनि, द्रव्यगतमू- ल्योत्कर्षापकर्षेण तार्यं दाप्यानि । रिक्तभाण्डानि, अपरिच्छदा दरिद्राश्च, पणपादार्धदानेऽप्यक्षमा यत्किञ्चिद्दाप्याः । एतच्च पारावारगमने । नदीमार्गेण तु दूरदेशगमने देशकालापेक्षया कल्पनीयम् । तदुक्तम्— तेनैव, दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥ इति । समुद्रे इदं लक्षणम्, इयं पणादिदानव्यवस्था नास्ति, किन्तु तत्र यथाव्यवस्थमेव देयमित्यर्थः । राज्ञा कर्षकवाणिगादिभ्यः किमिति करो ग्राह्य इत्यपेक्षित आह—
करग्रहणस्यावश्यकत्वम् । २७१ कात्यायनः, भूस्वामी तु स्मृतो राजा नान्यद्रव्यस्य सर्वदा । तत्फलस्य हि षड्भागं प्राप्नुयान्नान्यथैव तु ॥ भूतानां तन्निवासित्वात्स्वामित्वं तेन कीर्त्तितम् । तत्क्रियाबलिषड्भागं शुभाशुभनिमित्तजम् ॥ इति । अस्यार्थः। राजा, भुवः स्वामी स्मृतः । अन्यद्रव्यस्य, भू- मिसम्बद्धद्रव्यस्य, न स्वामी । अन्यथा, भूमिसाम्याभावे । भूता- नां, प्राणिनाम् । तन्निवासित्वात्, भूनिवासित्वात्। स्वामित्वं, राज्ञ इति शेषः । इत्यतः तत्क्रियाबलिषड्भागं प्राप्नुयात् । विष्णुरपि, राजा च प्रजाभ्यः सुकृतदुष्कृतेभ्यः षष्ठांशभाक् । इति । तथा च मनुः, पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन् । अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥ इति । यत्तु— अरक्ष्यमाणाः कुर्वन्ति यत्किञ्चित्किल्बिषं प्रजाः । तस्मात्तु नृपतेरर्धं यस्माद्गृह्णात्यसौ करान् ॥ इति याज्ञवल्क्यस्मरणं, तदत्यन्तारक्षणविषयम् । तस्मात्क- रादानं दृष्टादृष्टार्थत्वेनावश्यकम् । तेनैव च राज्ञो वृत्तिः । तथाच- गौतमः, राज्ञोऽधिकं रक्षणं सर्वभूतानाम् । सर्वग्रहणादश्वत्थच्छेदाद्यपि परिहार्यम् । अधिकेन वृत्तिः । अधिकं रक्षणमित्युक्तं, तद्वारेण यदधिगतं करादिद्रव्यं तदधिकं, तेन वृत्तिः, पोष्यवर्गस्य हस्त्यश्वादीनां च पोषणम् । अनेन आपदोऽन्यत्र पूर्वसञ्चितेन न जीवेदित्युक्तम् । तथा च-
व्याघ्रः, कुटुम्बपोषणं कुर्यान्नित्यं कोशं च वर्द्धयेत् । आपदोऽन्यत्रे तं कोशं न गृह्णीयात्कदाचन ॥ इति । कचित्करग्रहणस्यापवादमाह— विष्णुः, ब्राह्मणेभ्यः करादानं न कुर्यात्, ते हि राज्ञो धर्मकराः । इति । ब्राह्मणेभ्यः, कर्षकेभ्यो व्यवहर्तृभ्यः श्रोत्रियेभ्यश्च। तथा च- मनुः, म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् । न च क्षुधाऽस्य संसीदेच्छ्रोत्रियो विषये वसन् ॥ इति । ते हि राज्ञो धर्मकराः, ते पूर्वोक्ता ब्राह्मणाः सम्यग्र- क्षिताः स्वधर्मषष्ठांशं ददतीत्यर्थः । मनुरपि, स रक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् । तेनायुर्वर्धते तस्य द्रविणं राष्ट्रमेव च ॥ इति । विष्णुधर्मोत्तरेऽपि, न गृह्णीयादित्युपक्रम्य । ब्राह्मणेभ्यस्तथा करम् । तेभ्यस्तद्धर्मलाभेन राज्ञो लाभः परं भवेत् ॥ इति । विशेषान्तरमाह— मनुः, अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः । श्रोत्रियेषूपकुर्वंश्च न दाप्यः केन चित्करम् ॥ पीठसर्पी पङ्गुः । श्रोत्रियेषूपकुर्वन्, श्रोत्रियाणां धनधा- न्यादिदानेनोपकारकः । तथा, श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिञ्चनम् ।
अकराग्राह्यातार्यादयः । २७३ महाकुलीनमार्यं च राजा सम्पूजयेत्सदा ॥ इति सम्पूजयेत्, स्वयंदानादिना पूजयेत् । अनेन तेभ्योऽपि न किञ्चिद्गृह्णीयादिति । आपस्तम्बः, अकरः श्रोत्रियः सर्ववर्णानां, स्त्रियः कुमारश्च प्राग्व्यञ्जनेभ्यो, ये च विद्यार्था वसन्ति, तपस्विनश्च ये धर्मपराः, शूद्रश्च पादावनेक्ता, अन्धबधिरमूका रोगाविष्टाश्च, ये वृथा द्रव्य- परिग्रहे । इति । व्यञ्जनानि, श्मश्रुप्रभृतीनि । वृथा द्रव्यपरिग्रहे, अर्थसङ्ग्रहे विगतप्रयोजनाः । विष्णुधर्मोत्तरे तरविषये विशेष उक्तः— दूतानां ब्राह्मणानां च राजाज्ञागामिनां तथा । स्त्रीणां प्रव्रजितानां च तरशुल्कं विवर्जयेत् ॥ गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः । ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥ इति । लिङ्गिनो ब्रह्मचारिणः । वणिजां तु विशेषमाह- गौतमः, पण्यं वणिग्भिरर्घापचयेन देयमिति । इदं शुल्कादधिकं मासिकं पण्यम् । तदुक्तम्- बृहस्पतिना, शुल्कं दद्युस्ततो मास एकैकं पण्यमेव च । अर्घावरं च मूल्येन वाणिजस्ते पृथक् पृथक् ॥ इति । शुल्कस्थानान्युक्तानि— विष्णुधर्मोत्तरे, दिशि दिश्येकमेव स्याच्छुल्कस्थानं नृपस्य तु । तदतिक्रमे दोष उक्तः- तत्रैव, ३५
तदतिक्रामतो द्रव्यं राजगामि विधीयते । इति । तत्, शुल्कस्थानं हट्टघट्टादि । विष्णुनापि, शुल्कस्थानादपाक्रामन् सर्वापहारमाप्नुयात् । इति । इदं राजयोग्यबहुमूल्यहस्त्यश्वादिविषयम् । राजप्रतिषि- द्धम्-'दुर्भिक्षे ऽन्नं देशान्तरे न नेयम्'इत्येतद्विषयं वा । यथोक्तम्- मनुना, राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । तानि निर्हरतो लोभात्सर्वहारं हरेन्नृपः ॥ इति । तथाऽन्यत्र, शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी । मिथ्यावादी च सङ्ख्याने दाप्योऽष्टगुणमत्ययम् ॥ इति । शिल्प्यादिविषये मासिककरमाह- विष्णुः, शिल्पिनः कर्मोपजीविनश्च मासेनैकं कर्म कुर्युः । शिल्पिनो, लोहकारादयः । कर्मोपजीविनः, कारवो बर्द्ध- क्यादयः । चकारादन्योपजीविनः । मनुरपि, कारुकाञ्छिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः । एकैकं कारयेत्कर्म प्रतिमासं महीपतिः ॥ इति । एतेनैतेभ्योऽन्यत् न ग्राह्यम्, एष एवैषां शुल्कः । विशेषा- न्तरमाह- वसिष्ठः, नदीकक्षवनदाहशैलोपभोगा निष्कराः स्युस्तदुपजीविनो वा दद्युः प्रतिमासम् । इति । वनदाहो. दग्धं वनं तदुपजीविनः । तानेव ये उपजीवन्ति
शिल्प्यादिकरः, करादेरग्रहणेऽन्यायेन ग्रहणे च दोषः।२७५ सैव तेषां वृत्तिः । विशेषान्तरमाह-- गौतमः, एतेनात्मोपजीविनो व्याख्याता, नौचक्रिव- न्तश्च, भक्तं तेभ्योऽपि दद्यात् । इति । एतेन, प्रतिमासमेकाहकर्मकरणेन । आत्मोपजीविनः, भा- रवाहनटनर्त्तकादयः । नौचक्रिवन्तो, नौशकटव्यवहारिणः । भक्तं, दिवाभोजनपर्याप्तमन्नं शिल्प्यादिभ्यो देयम् । विष्णुधर्मोत्तरेऽपि, कर्म कुर्युर्नरेन्द्रस्य मासेनैकेन शिल्पिनः । भक्तमात्रेण ये चान्ये स्वशरीरोपजीविनः ॥ इति । करस्याग्रहणे दोषमाह- मनुः, नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया । उच्छिन्दन्नात्मनो मूलमात्मानं तांश्च नाशयेत् ॥ इति । करशुल्कादेरग्रहणमात्ममूलोच्छेदः । यथोचितादधिकग्र- हणं परमूलोच्छेदः । तथा, अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ अनादेयस्य चादानादादेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह विनश्यति ॥ स्वादानाद्वर्णसंसर्गाद्दुर्बलानां च रक्षणात् । बलं सञ्जायते राज्ञः स प्रेत्येह विवर्द्धते ॥ इति । स्वादानात्, स्वस्य न्यायागतस्य करादेरादानात् । वर्णसं- सर्गात्, वर्णानां ब्राह्मणादीनां स्वस्वजातीयैर्वर्णैः सह संस- र्गात् विवाहादिसम्बन्धात्, न तु वर्णान्तरेण संसर्गो येन
२७६ वीरमित्रोदयस्य राजनीतिप्रकाशे सङ्करादिदोषः स्यात् । अन्यायेन करग्रहणे दोषमाह- याज्ञवल्क्यः, अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्द्धयेत् । सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥ प्रजापीडनसन्तापात्समुद्भूतो हुताशनः । राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ इति । कात्यायनोऽपि, अन्यायेन हि यो राष्ट्रात्करं दण्डं च पार्थिवः । सस्यभागं च शुल्कं चाप्याददीत स पापभाक् ॥ इति । धर्म्यकरग्रहणे फलमुक्तम्— महाभारते, धर्मार्जितो महाकोशो यस्य स्यात्पृथिवीपतेः । सोऽत्यल्पप्रवरोऽप्यत्र पृथिवीमधितिष्ठति ॥ इति । कात्यायनोऽप्याह, एवं प्रवर्तते यस्तु लोभं त्यक्त्वा नराधिपः । तस्य पुत्राः प्रजायन्ते राष्ट्रं कोशश्च वर्द्धते ॥ इति । इति कोशः । अथ दण्डः । दण्ड्यन्ते अशिष्टा अनेनेति व्युत्पत्त्या दण्डशब्दो बलव- चनः । तत्र- महाभारते, प्रकाशश्चाप्रकाशश्च दण्डोऽत्र परिकल्पितः । प्रकाशोऽष्टविधस्तत्र गुह्यश्च बलवत्तरः ॥ रथा नागा हयाश्चैव पादाताश्चैव भारत । विष्टिर्नाविचराश्चैव दैशिका इति चाष्टमः ॥ अनुरक्तेन हृष्टेन पुष्टेन च महीपते ।
सप्ताङ्गेषु दण्डमित्रे । २७७ स्वल्पेनापि हि सैन्येन महीं जयति पार्थिवः ॥ इति । विष्टिः, बलात्कारेणाकृष्टः कर्मकरः । दैशिका, देशे भवाः पुरुषाः । इति दण्डः । अथ मित्रम् । याज्ञवल्क्यः, हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः ॥ इति । मनुः, हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते । यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिकषमम् ॥ धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं लघु मित्रं प्रशस्यते ॥ इति । अस्य त्रैविध्यमुक्तम्- मत्स्यपुराणे, पितृपैतामहं मित्रं सामन्ताश्च तथा रिपोः । कृत्रिमं च महाभाग त्रिविधं मित्रमुच्यते ॥ तत्रापि च गुरुः पूर्वं भवेत्तत्रापि चाहृतः । सामन्तास्तु तस्य पीडया शत्रुत्वमापन्नाः । अत एव विष्णु- धर्मोत्तरे-“अमित्रं च तथा रिपोः” इति पाठः । आहृतः, कृ- त्रिमः । इममेव प्रशंसति- व्यासः, न कश्चित्कस्य चिन्मित्रं न कश्चित्कस्य चिद्रिपुः । सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ इति । महाभारते,
२७८ वीरमित्रोदयस्य राजनीतिप्रकाशे वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः । एतत्सुसूक्ष्मं लोकेऽस्मिन् दृश्यते प्राज्ञसम्मतम् ॥ यो यस्मिन् जीवितस्यार्थे पश्यन् पीडां न जीवति । स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः ॥ नास्ति मैत्री स्थिरा नाम न च चक्रमसौहृदम् । अर्थयुक्त्याभिजायन्ते मित्राणि रिपवस्तथा ॥ मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये । शत्रुश्च मित्रतामेति स्वार्थस्तु बलवत्तरः ॥ इति । याज्ञवल्क्यः, स्वाम्यमात्यजना दुर्गं कोशो दण्डस्तथैव च । मित्राण्येताः प्रकृतयः सप्ताङ्गं राज्यमुच्यते ॥ इति । मनुः, स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा । सप्त प्रकृतयो ह्येताः समस्ता राष्ट्रमुच्यते ॥ सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् । पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं नृपः ॥ व्यसनं, व्यसनकारणम् । दोषवदिति शेषः । सप्ताङ्गस्यास्य राज्यस्य विष्टब्धस्य त्रिदण्डवत् ॥ अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते । तेषु तेषु हि कृत्येषु तत्तदङ्गं विशिष्यते ॥ येन यत्साध्यते कार्यं तत्तस्मिन् श्रेष्ठमुच्यते । इति । इति मित्रम् । अथोपायाः । तत्र याज्ञवल्क्यः, उपायाः साम दानं च भेदो दण्डस्तथैव च ।
उपायेषु साम । २७९ सम्यक्प्रयुक्ताः सिद्ध्येयुर्दण्डस्त्वगतिका गतिः ॥ इति । तत्र द्वयोर्मुख्यत्वमाह- मनुः, सामादीनामुपायानां चतुर्णामपि पण्डिताः । सामदण्डौ प्रशंसन्ति नित्यं राज्याभिवृद्धये ॥ इति । तत्र साम । तच्च शत्रोस्तदीयानाममात्यादीनां च गुणवर्णनम् उपकारा- दिस्मरणं च विधाय स्वस्य कृतज्ञताख्यापनपुरःसरं स्वा- पराधक्षमापणम् । तदुक्तम्- मत्स्यपुराणे, मनुरुवाच । उपायांस्त्वं समाचक्ष्व सामपूर्वान्महाद्युते । लक्षणं च तथा तेषां प्रयोगं च सुरोत्तम ॥ मत्स्य उवाच । साम भेदस्तथा दानं दण्डश्च मनुजेश्वर । उपेक्षा च तथा माया इन्द्रजालं च पार्थिव ॥ प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु । द्विविधं कथितं साम तथ्यं चातथ्यमेव च ॥ तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते । तत्र साधुः प्रयत्नेन सामसाध्यो मरोत्तम ॥ महाकुलीना ऋजवो धर्मनित्या जितेन्द्रियाः । सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत् ॥ तथ्यं साम च कर्त्तव्यं कुलशीलादिवर्णनम् । तथा तदुपकाराणां कृतानां चैव वर्णनम् ॥ अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम् ।
२८० वीरमित्रोदयस्य राजनीतिप्रकाशे एवं सान्त्वेन कर्त्तव्या वशगा धर्मतत्पराः ॥ साम्ना यद्यपि रक्षांसि गृह्णन्तीति परा श्रुतिः । तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ॥ गृह्णन्ति, वशीकुर्वन्ति । अतिशङ्कमित्येवं पुरुषं सामवादिनम् । असाधवोऽवजानन्ति तस्मान्नत्तेषु वर्जयेत् ॥ अतिशङ्कम्, अतिशयिता शङ्का यस्मिन् तादृशम् । सा- मवादिनं, सामप्रयोक्तारम् । ये शुद्धवंशा ऋजवः प्रणीता धर्मे स्थिताः सत्यपरा विनीताः। ते सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततं च राजन् ॥इति। अग्निपुराणे, चतुर्विधं स्मृतं साम उपकारानुकीर्त्तनम् । मिथःसम्बन्धकथनं मृदुपूर्वं च भाषणम् ॥ आयतेर्दर्शनं वाचा तत्राहमिति चार्पणम् । इति । इति साम । अथ भेदः । स च शत्रुवर्गे परस्परं वैमत्योत्पादनम् । तदुक्तम्— मत्स्यपुराणे, मत्स्य उवाच । परस्परं तु ये द्विष्टाः क्रुद्धा भीतावमानिताः । तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ॥ ये तु येनैव दोषेण परस्मात्नाम बिभ्यति । ते तु तद्दोषपातेन भेदनीया भृशं ततः ॥ आत्मीयां दर्शयेदाशां परस्माद्दर्शयेद्भयम् । १ आत्मीयं दर्शयेद्दोषम् इति मात्स्ये पाठः ।
उपायेषु भेदः । २८१ एवं हि भेदयेद्भिन्नान् यथावद्वशमानयेत् ॥ संहता हि विना भेदं शक्रेणापि सुदुःसहाः । भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ॥ स्वमुखेनाश्रयेद्भेदं भेदं परमुखेन च । परीक्ष्य साधुं मन्येत भेदं परमुखाच्छ्रुतम् ॥ सद्यः स्वकार्यमुद्दिश्य कुशलैर्ये हि भेदिताः । भेदितास्ते विनिर्दिष्टा नैव राजार्थवादिभिः ॥ अन्तःकोपोबहिःकोपौ यत्र स्यातां महीक्षिताम् । अन्तःकोपो महांस्तत्र नाशकः पृथिवीक्षिताम् ॥ सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो महीभृतः । महिषीयुवराजाभ्यां तथा सेनापतेर्नृप ॥ अमात्यमन्त्रिणां चैव राजपुत्रे तथैव च । अन्तःकोपो विनिर्दिष्टो दारुणः पृथिवीक्षिताम् ॥ बाह्यकोपे समुत्पन्ने सुमहत्यपि पार्थिवः । शुद्धान्तस्तु महाभाग शीघ्रमेव जयी भवेत् ॥ शुद्धान्तः, अन्तःप्रकोपरहितः । अपि शक्रसमो राजा अन्तःकोपेन नश्यति । सोऽन्तःकोपः प्रयत्नेन तस्माद्रक्ष्यो महीक्षिता ॥ परान्तःकोपमुत्पाद्य भेदेन विजिगीषुणा । ज्ञातीनां भेदनं कार्यं परेषां विजिगीषुणा ॥ रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथाऽऽत्मनः । ज्ञातयः परितप्यन्ते सततं परितापिताः ॥ तथापि तेषां कर्त्तव्यं सुगम्भीरेण चेतसा । ग्रहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः ॥ न ज्ञातिमनुगृह्णन्ति नाज्ञातिं विश्वसन्ति च । ३६
२८२ वीरमित्रोदयस्य राजनीतिप्रकाशे ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः । भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सैन्येन निहन्तुमाजौ। सुसंहतैश्चापि ततस्तु भेदः कार्यो रिपूणां नयशास्त्रविद्भिः॥इति। स्वपक्षभेदनिषेधस्तूक्तो— ब्रह्मपुराणे, स्वपक्षभेदो यत्नेन न कर्तव्यः कदाचन । दुर्गं कोशश्च दण्डश्च परराष्ट्रभयं विना ॥ स्वभेदेनैव नश्यन्ति बद्धमूला अपि प्रजाः । स्वभेदेन, स्वपक्षभेदेन, परराष्ट्रभयं विनापि दुर्गादिकं नश्यतीत्यर्थः । इति भेदः । अथ दानम् । तच्च स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पादनानुकूलो व्यापा- रः। तस्य दानस्य पञ्चविधत्वमुक्तम्— . अग्निपुराणे, यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः । प्रतिदानं तदा तस्य गृहीतस्यानुमोदनम् ॥ द्रव्यदानमपूर्वं च तथैवेष्टप्रवर्तनम् । देयं च प्रतिमोक्षश्च दानं पञ्चविधं स्मृतम् ॥ इति । तस्य प्रशंसा चोक्ता— मत्स्यपुराणे, मत्स्य उवाच । सर्वेषामप्युपायानां दानं श्रेष्ठतमं मतम् । सुदृत्तेनेह भवति दानेनोभयलोकजित् ॥ न सोऽस्ति राजन् दानेन वशगो यो न जायते ।
उपायेषु दानम् । .. २८३ दानेन वशगा देवां भवन्तीह सदा, नृणाम् ॥ दानमेवोपजीवन्ति प्रजाः सर्वा नृपोत्तम । प्रियो हि दानवांल्लोके सर्वस्यैवोपजायते ॥ दानवानचिरेणैव तथा राजा परान् जयेत् । दानवानेव शक्नोति संहतान् भेदितुं परान् ॥ यद्यप्यलुब्धगम्भीराः पुरुषाः सागरोपमाः । न गृह्णन्ति तथाऽप्येते जायन्ते पक्षपातिनः ॥ अन्यत्रापि कृतं दानं करोत्यन्यान् यथा वशे । उपायेभ्यः प्रशंसन्ति दानं श्रेष्ठतमं जनाः ॥ दानं श्रेयस्करं पुंसां दानं श्रेष्ठतमं परम् । दानवानेव लोकेषु पुत्रत्वे ध्रियते सदा ॥ न केवलं दानपरा जयन्ति भूलोकमेकं पुरुषप्रवीराः । जयन्ति ते राजसुरेन्द्रलोकं सुदुर्जयो यो विबुधाधिवासः ॥ इति । तैत्तिरीयश्रुतिरपि, दानं यज्ञानां वरूथं दक्षिणा, लोके दातारं सर्वभूतान्यु- पजीवन्ति, दानेनारातीरपानुदन्त, दानेन द्विषन्तो मित्रा भव- न्ति, दाने सर्वं प्रतिष्ठितं, तस्माद्दानं परमं वदन्तीति । इति दानम् । अथ दण्डः । स च वित्तस्य शरीरस्य वा पीडनम् । दमयतीति दण्ड इति व्युत्पत्तेः । तत्र— मनुः, तदर्थं सर्वभूतां गोप्तारं धर्ममात्मजम् । ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ॥
२८४ वीरमित्रोदयस्य राजनीतिप्रकाशे तदर्थं, राज्ञः प्रयोजनसिद्धये । प्रजानां रक्षणं राजधर्मः स च दण्डं विना कर्तुमशक्य इति दण्ड एव रक्षक इत्युच्यते । तस्य स्तुतिर्धर्ममिति । तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥ तस्य, दण्डस्य। ननु दण्डस्य भयहेतुत्वात् “भीत्रार्थानां भय- हेतुः” इति पञ्चमी युक्ता? उच्यते । सम्बन्धमात्रविवक्षाया भय- हेतुत्वं नास्तीति षष्ठी । तस्य चरमोपायत्वमुक्तम्— मत्स्यपुराणे, मत्स्य उवाच । न शक्या ये वशे कर्त्तुमुपायत्रितयेन तु । दण्डेन तान् वशीकुर्याद्दण्डो हि वशकृन्नृणाम् ॥ सम्यक्प्रणयनं तस्य तथा कार्यं महीक्षिता । धर्मशास्त्रानुसारेण सुसहायेन धीमता ॥ तस्यासम्यक्प्रणयनं त्रिदशानपि पीडयेत् । इति । तत्र विशेषमाह मनुः, तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः । यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्त्तिषु ॥ शक्तिं, सहनशक्तिम् । समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥ यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः । शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ इति । यथा शूले मत्स्यान् पक्त्वा भक्षयन्ति, तथा बलिनोऽल्प-
उपायेषु दण्डः । २८५ बलान् हिंसित्वा तद्धनादिकं भक्षयेयुरित्यर्थः । मात्स्येऽपि, वानप्रस्थांश्च धर्मज्ञान्निर्ममान्निष्परिग्रहान् ॥ स्वदेशे परदेशे वा धर्मशास्त्रविशारदान् । समीक्ष्य प्रणयेद्दण्डं सर्वं दण्डे प्रतिष्ठितम् ॥ आश्रमी यदि वा वर्णी पूज्यो वाऽथ गुरुर्महान् । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चाप्यदण्डयन् । इह राज्यात्परिभ्रष्टो नरकं च प्रपद्यते ॥ तस्माद्राज्ञा विनीतेन धर्मशास्त्रानुसारतः । दण्डप्रणयनं कार्यं लोकानुग्रहकाम्यया ॥ यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ बालवृद्धातुरयतिद्विजस्त्रीविधवाबलाः । अबलाः, बलरहिताः । मात्स्यन्यायेन भक्षयेरन् यदि दण्डं न पातयेत् ॥ देवदैत्योरगनराः सर्वे भूतपतत्रिणः ॥ उत्क्रामेयुश्च मर्यादां यदि दण्डो न पालयेत् । एष ब्रह्माभिशापेषु सर्वप्रहरणेषु च ॥ सर्वविक्रमकोषेषु व्यवसाये च तिष्ठति । पूज्यन्ते दण्डिनो देवा न पूज्यन्ते त्वदण्डिनः ॥ न ब्राह्मणं विधातारं न पूषार्यमणावपि । यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ॥ रुद्रमग्निं च शक्रं च सूर्याचन्द्रमसौ तथा । विष्णुं देवगणांश्चान्यान् दण्डिनः पूजयन्ति च ॥ इति ।
२८६ वीरमित्रोदयस्य राजनीतिप्रकाशे मनुरपि, सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥ स्वभावाच्छुचिर्नरो दुर्लभः, किन्तु दण्डेनैव जितः पथि स्थाप्यते। देवदानवगन्धर्वाः पिशाचोरगराक्षसाः । तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ भोगाय कल्पन्ते, स्वपथप्रवृत्ता भवन्ति । तथा च- श्रुतिः, भयात्सूर्यः प्रतपति भयात्तपति चन्द्रमाः । भयादग्निश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ इति । मनुः, दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः । सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ इति । दुष्येयुरिति । नीचवर्णा उत्तमवर्णस्त्रीगमनेन सङ्करं प्रा- प्नुयुरित्यर्थः । अत एव शास्त्रोक्तमर्यादा भिद्येरन् । मत्स्यपुराणे, दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ राजदण्डभयादेव पापाः पापं न कुर्वते ॥ यमदण्डभयादेके परस्परभयादपि । एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥ अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् । यस्माद्दण्डो दमयति अदण्ड्यान् दण्डयत्यपि ॥ दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः । दण्डस्य भीतैस्त्रिदशैस्समेतै —
उपायेषु दण्डः । २८७ भागो धृतः शूलधरस्य यज्ञे । चक्रुः कुमारं ध्वजिनीपतिं च वरं शिशूनां च भयाद्वलस्थम् ॥ इति । शिशूनां वरं,श्रेष्ठम्,अतिशिशुमित्यर्थः। तं कुमारं कार्त्तिकेयं बलस्थं सैन्यमध्यस्थं सन्तं ध्वजिनीपतिं सेनापतिं चक्रुरित्यर्थः । महाभारते अर्जुनवाक्यम्- धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप । कामं च रक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ॥ दण्डेन रक्ष्यते धान्यं धनं दण्डोऽभिरक्षति । तथा, वाचा दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् । दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते ॥ असम्मोहाय मर्त्यानामर्थसंरक्षणाय च । मर्यादा स्थापिता लोके दण्डसंज्ञा विशाम्पते ॥ यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः । प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः । दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ॥ नाभीतो यजते राजन् नाभीतो दातुमिच्छति । नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम् ॥ नाहत्वा मत्स्यघाती च प्राप्नोति महतीं श्रियम् । नाघ्नतः कीर्त्तिरस्तीह न वित्तं न पुनः प्रजाः ॥ इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत । य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम् ॥ हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्व्वरुणो यमः ।
२८८ वीरमित्रोदयस्य राजनीतिप्रकाशे हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः ॥ वसवो मरुतः साध्या विश्वेदेवाश्च भारत । एतान् देवान्नमस्यन्ति प्रतापप्रणता जनाः ॥ न ब्रह्माणं न धातारं न पूषाणं कथञ्चन । मध्यस्थान् सर्वभूतेषु दान्तान् श्रमपरायणान् ॥ यजन्ते मानवाः केचित्प्रशस्ताः सर्वकर्मसु । न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया ॥ सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः । नकुलो मूषकानत्ति बिडालो नकुलं तथा ॥ बिडालमत्ति श्वा राजन् श्वानं व्यालमृगस्तथा । व्यालमृगो, व्याघ्रः । तानत्ति पुरुषः सर्वान् पश्य धर्मो यथागतः ॥ प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् । विधानं वेदविहितं तत्र विद्वान्न मुह्यति ॥ यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि । नावधेन हि कुर्वन्ति तापसाः प्राणयापनम् ॥ उदके बहवः प्राणाः पृथिव्यां पर्वतेषु च । न च कश्चिन्न तान् हन्ति किमन्यत्प्राणयापनात् ॥ सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानि चित् । पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ॥ ग्रामान्निष्क्रम्य मुनयो विनीतक्रोधमत्सराः । वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ॥ भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान् पशून् । मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ॥ १ देहविपर्ययः ।