भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

२४ वीरमित्रोदयस्य राजनीतिप्रकाशे धर्मव्यवस्थायै वर्णाश्रमिणां राजा प्रभवति स्मृत्यन्तरविरोधप्र- सङ्गात् । अविरोधे चास्मिन् विषये वचनस्यार्थवत्त्वात् । बृहस्पतिः, बलेन चतुरङ्गेण यतो रञ्जयति प्रजाः । दीप्यमानः स वपुषा तेन राजाऽभिधीयते ॥ बलने सेनया । चतुरङ्गेण हस्त्यश्वरथपादातेन । अङ्गिराः, गुरुवद्येन भूपाळः पापं दण्डेन भूयसा । संस्करोत्यवनाच्चैव तेनासौ गुरुरुच्यते ॥ पापं पापकारिणम् । संस्करोति शुद्धं करोति । शुद्धं कृत्वा- ऽवति च । बृहत्पाराशरे, अथातो नृपतेर्धर्मम्-इत्युपक्रम्य । भूभृत् भूम्यां परो देवः पूज्योऽसौ परदेववत् । स विधाता च सर्वस्य रक्षिता शासिताऽपि सः ॥ परो देवः स्वाराध्यदेवः । महाभारते, अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते । परस्परं च खादन्ति सर्वथा धिगराजकम् ॥ इन्द्रमेव प्रवृणुते यद्राजानमिति श्रुतिः । यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता ॥ नाराजकेषु राष्ट्रेषु वस्तव्यमिति रोचये । नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहेत्युत । अथ चेदभिवर्तेत राज्यार्थं बलवत्तरः ॥ अराजकानि राष्ट्राणि हतवीर्याणि वा पुनः ॥

राजप्रशंसा । २५ न हि पापातपरतरमस्ति किञ्चिदराजकात् । स चेत्समनुपश्येत समग्रं कुशलं भवेत् ॥ श्रीरामायणे, नाराजके जनपदे योगः क्षेमं प्रवर्त्तते । न चाप्यराजके सेना शत्रून् विषहते परान् ॥ अराजके राजरहिते । अलब्धलाभो योगः । लब्धस्य र- क्षणं क्षेमम् । विषहते तन्निवारणक्षमा भवति । विपालाश्च यथा गावो यथा चातृणकं वनम् । विपाला रक्षकरहिताः । अजलाश्च यथा नद्यस्तथा राष्ट्रमराजकम् ॥ अन्धं तम इवेदं स्यान्नेह ज्ञायेत किञ्चन । राजा चेन्न भवेल्लोके विभजन् साध्वसाधुनी । गरुडपुराणे, धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ श्रीमहाभारते, राजा प्रगल्भं पुरुषं करोति राजा कृशं बृंहयते मनुष्यम् । राजाभिपन्नस्य कुतः सुखानि राजाऽभ्युपेतं सुखिनं करोति ॥ राजा प्रजानां हृदयं गरीयो गतिः प्रतिष्ठा सुखमुत्तमं च । यमाश्रिता लोकमिमं परं च जयन्ति सम्यक् पुरुषा नरेन्द्र ॥ राजाभिपन्नस्य राज्ञा अभिपन्नस्य कृताभियोगस्य । राजधर्मे, बृहस्पतिरुवाच । राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते । प्रजा राजभयादेव न खादन्ति परस्परम् ॥ ४

राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् । समुदीर्णम् सम्यक्कृतोदीरणं, समीचीनप्रकारेण स्वस्वदुः खाद्याख्यायकम् । समुत्सुकम् दुःखवशेन देशग्रामादि परित्य- क्तुमुत्कण्ठावन्तम् । प्रसादयति धर्मेण प्रसाधयंति राजते ॥ यथा ह्यनुदये राजन् भूतानि शशिसूर्ययोः । अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ॥ यथा ह्यनुदके मत्स्या निराक्रन्दे विहङ्गमाः । निराक्रन्दे आक्रन्दतीत्याक्रन्दो निषेधस्तदभावे । विहरेयुर्यथाकामं विहिंसन्तः पुनः पुनः ॥ न मिथ्यातिक्रमेरंश्च विषह्यापि परस्परम् । नेति काकुः । विमध्यातिक्रमेरन् इति पाठस्तु सुगम एव । अभावमचिरेणैव गच्छेयुर्नात्र संशयः ॥ एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः । अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ॥ हरेयुर्बलवन्तोऽपि दुर्बलानां परिग्रहान् । हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ॥ व्यायच्छमानान् कृतप्रयत्नान् । ममेदमिति लोकेऽस्मिन्न भवेत्सम्परिग्रहः । विष्वग्लोपः प्रवर्त्तेत यदि राजा न पालयेत् ॥ यानं वस्त्रमलङ्कारान् रत्नानि विविधानि च । हरेयुः सहसा पापा यदि राजा न पालयेत् ॥ पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु । अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ॥ १ प्रसाध च विराजते इति मुद्रितभारतपुस्तके पाठः ।

राजप्रशंसा । २७ मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् । क्लिश्नीयुर्वापि हिंस्युर्वा यदि राजा न पालयेत् ॥ वन्यबन्धपरिक्लेशो नित्यमर्थवतां भवेत् । ममत्वं च न विन्देयुर्यदि राजा न पालयेत् ॥ अन्ताश्चाकाल एव स्युर्लोकोऽयं दस्युसाद्भवेत् । पतेयुर्नरकं घोरं यदि राजा न पालयेत् ॥ न योनिदोषो वर्त्तेत न कृषिर्न वणिक्पथः । योनिदोषः योनिदोषकृताऽव्यवहार्यता, दण्डादिश्च । मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् ॥ न यज्ञाः सम्प्रवर्त्तेयुर्विधिवत्स्वाप्तदक्षिणाः । न विवाहाः समाजो वा यदि राजा न पालयेत् ॥ न वृषाः सम्प्रवर्त्तेरन्नुन्मथ्येरंश्च गह्वराः । गह्वराः साहसिकाः । घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् ॥ त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम् । क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् ॥ न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः । तिष्ठेयुः अनुतिष्ठेयुः । विधिवद्दक्षिणावन्ति यदि राजा न पालयेत् ॥ ब्राह्मणाश्चतुरो वेदान्नाधीयीरंस्तपस्विनः । विद्यास्नाता व्रतस्नाता यदि राजा न पालयेत् ॥ न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः । हतः धर्महीनैरविप्रैर्हतः अनुपदिष्टधर्मः । यद्वा इतः कि- श्चित्पीडितो, विप्रहतो विशेषेण प्रहतः प्रपीडितः । धर्मसंश्लेषं धर्मसम्बन्धम् ।

३० वीरमित्रोदयस्य राजनीतिप्रकाशे राजाऽस्य जगतां हेतुर्वृद्धेर्दृष्टाभिसम्मतः । नयनानन्दजननः शशाङ्क इव तोयधेः ॥ यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा । अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥ कात्यायनः, श्रोत्रिया विधवा बाला दुर्बलाश्च कुटुम्बिनः । एते राजवला राज्ञा रक्षितव्याः प्रयत्नतः ॥ अनाथस्य नृपो नाथस्त्वगृहस्य नृपो गृहम् । अपुत्रस्य नृपः पुत्रो ह्यपितुः पार्थिवः पिता ॥ कालिकापुराणे, अपुत्रस्य नृपः पुत्रो निर्द्धनस्य धनं नृपः । अमातुर्जननी राजा ह्यतातस्य पिता नृपः ॥ अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः । अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा ॥ गरुडपुराणे, अनायके न वस्तव्यं तथा च बहुनायके । स्त्रीनायके न वस्तव्यं तथा च शिशुनायके ॥ तथा, अबलस्य बलं राजा वालस्य रुदितं वलम् । वलं मूर्खस्य मौनं तु तस्करस्यानृतं बलम् ॥ मार्कण्डेयपुराणेऽपि राज्ञःपञ्चरूपत्वमुक्तम्— मदालसोपाख्याने । शक्रार्कयमसोमानां तद्वद्वायोर्महीपतिः ॥ रूपाणि पञ्च कुर्वीत महीपालनकर्मणि । यथेन्द्रश्चतुरो मासान् वार्योघेणैव भूत लम् ॥

राजप्रशंसा । ३१ आप्याययेत्तथा लोकान् परिहारैर्महीपतिः । परिहारैः दानैः । मासानष्टौ यथा सूर्य्यस्तोयं हरति रश्मिभिः । सूक्ष्मेणैवाभ्युपायेन तथा शुल्कादि भूपतिः ॥ शुल्कं करः । यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति । तथा प्रियाप्रिये राजा दुष्टादुष्टे समो भवेत् ॥ पूर्णेन्दुमालोक्य यथा प्रीतिमान् जायते नरः । एवं यत्र प्रजाः सर्वा निर्वृतास्तच्छशित्रतम् ॥ मारुतः सर्वभूतेषु निगूढश्चरते यथा । एवं नृपश्चरैश्चारैः पौरामात्यादिबन्धुषु ॥ न लोभार्थेन कामार्थैर्नार्थार्थैर्यस्य मानसम् । पदार्थैः क्षुभ्यते धर्मात्स राजा स्वर्गमृच्छति ॥ उत्पथग्राहिणो मूढान् स्वधर्माच्चलतो नरान् । यः करोति निजे धर्मे स राजा स्वर्गमृच्छ

३२ वीरमित्रोदयस्य राजनीतिप्रकाशे अथ क्षत्रियस्य राज्याभिषेकानन्तरमेव प्रजापालनस्य क- र्त्तव्यत्वेन राजाभिषेके कालो निरूप्यते । तत्राभिषेकस्य निषिद्धकालेऽकर्त्तव्यत्वेन प्रथमं निषिद्धका- लाः प्रदर्श्यन्ते । तत्र — काठकगृह्ये, राजाऽभिषेकं काम्यं च न कुर्याद्भानुलाङ्गिते । भानुलाङ्गिते असङ्क्रान्तमासे । तथा, मलमासे विवर्जयेत् । इत्युपक्रम्य— राज्ञोऽभिषेकः प्रथमश्चूडाकरणमेखलाः ॥ अन्नप्राशनमारम्भो गृहाणां च प्रवेशनम् । विष्णुधर्मोत्तरे, नाभिषेच्यो नृपश्चैत्रे नाधिमासे च भार्गव । न प्रसुप्ते तथा विष्णौ विशेषात्प्रावृषि द्विज ॥ न च भौमदिने राम चतुर्थ्यां च तथैव च । नवम्यां नाभिषेक्तव्यश्चतुर्दश्यां च भार्गव ॥ तथा, नागं चतुष्पदं विष्टिं किंस्तुघ्नं शकुनिं तथा । करणानि न शस्यन्ते व्यतीपातादिनं तथा ॥ नक्षत्रमुल्काभिहतमुत्पाताभिहतं तु यत् । सोमसूर्यकुजाक्रान्तं परिदृष्टं च भार्गव ॥ तथा, कुजहोरास्तथा नेष्टाः सर्वत्र कुलिकोऽस्य च । इति निषिद्धकालः ।

राजाभिषेके विहितकालाः । ३३ अथ राजाभिषेके विहितकाला निरूप्यन्ते । विष्णुधर्मोत्तरे, इति सम्भृतसम्भारो राज्ञः सांवत्सरस्ततः । कालेऽभिषेचनं कुर्यात्तं कालं कथयामि ते ॥ इत्युपक्रम्य- ध्रुवाणि वैष्णवं शाक्रं हस्तपुष्यौ तथैव च । नक्षत्राणि प्रशस्यन्ते भूमिपालाभिषेचने ॥ इतीति वक्ष्यमाणसम्पादितसामग्रीकः । सांवत्सरो ज्यो- तिषिकः । सांवत्सरो ज्योतिषिको दैवज्ञगणकावपि । इत्यमरात् । ध्रुवाणि रोहिणी उत्तरात्रयं च । वैष्णवं श्रवणः। शाक्रं ज्येष्ठा। गरुडपुराणे, रोहिण्यार्द्रा तथा पुष्यो धनिष्ठा चोत्तरात्रयम् । वारुणं श्रवणं चैव एते चोर्ध्वमुखाः स्मृताः ॥ एषु राज्याभिषेकं च पट्टबन्धं च कारयेत् । वारुणं शतभिषा । पट्टबन्धं वक्ष्यमाणलक्षणोपेतम् । विष्णुधर्मोत्तरे, वृषोऽथ कीटसिंहौ च कुम्भो लग्ने प्रशस्यते । एतेषां जन्मलग्नाभ्यां यस्मादुपचयोऽस्त्यतः ॥ तारा द्वितीया षष्ठी तु चतुर्थी चाष्टमी तथा । नवमी च तथा शस्ता अनुकूलश्च चन्द्रमाः ॥ सौम्याः केन्द्रगता लग्नात् शुभाश्चैव त्रिकोणयोः । पापाश्चोपचयस्थाने शस्तो लग्ने दिवाकरः ॥ लग्ने नवांशे स्थितिरस्य वर्गे वर्गस्तथा तस्य महानुभाव । सूर्यस्य वर्गः सकलःप्रशस्तो राज्ञोऽभिषेके स नृपो ग्रहाणाम् ॥ ५

२४ वीरमित्रोदयस्य राजनीतिप्रकाशे स सूर्यो ग्रहाणां नृपः स्वामी । वृत्तशते, जन्मेशलग्नेशदशेशसूर्ये भौमे बलिष्ठे क्षितिपाभिषेकः । ज्येष्ठाश्रवःक्षिप्रमृदुध्रुवेषु सौम्यग्रहस्याह्नि तिथावरिक्ते ॥ लग्ने चरे चोपचयस्थिते च शीर्षोदये च क्षितिपाभिषेकः शस्तस्त्रिषष्ठायगतैश्च पापैः सौम्यैः षडन्त्यायविवर्जितैश्च । कश्यपः, अथातः सम्प्रवक्ष्यामि भूपानामभिषेचनम् । सौम्यायने क्षते जीवे नास्तगे न च वृद्धके ॥ स्वलग्नराशिगे लग्ने तदंशे वा बलान्विते । पट्टबन्धनलग्नेशे तदंशेशे च नास्तगे ॥ सुहृत्त्रिकोणस्वक्षेत्रतुङ्गसंस्था ग्रहा यदि । यस्याभिषेके कुर्वन्ति स्थिरां कीर्तिं श्रियं सुखम् ॥ ब्रह्मपुराणे, सुतिथौ च सुनक्षत्रे स्नानं नक्षत्रनामकम् । मुहूर्त्ते सुगुणोपेते सर्वोत्पातविवर्जिते ॥ स्थिरे राशौ शुभयुते केन्द्रे चोपचयान्विते । सुतिथौ चतुर्थीनवमीचतुर्दशीभिन्नतिथौ । सुनक्षत्रे “ध्रुवाणि वैष्णवं शाक्रम्” इत्यादिना विहितनक्षत्रे । नक्षत्रनामकं स्ना- नम्, विधायेतिशेषः । तच्च विष्णुधर्मोत्तरे जन्मनक्षत्रे विहितम- ग्रेऽभिधास्यते । पुष्यस्नानं वा विधाय । मुहूर्ते सुगुणोपेत इत्य- नेन गुरुशुक्रास्तादिरहितशुद्धमासादिरूपः काल उपलक्ष्यते । स्थिरे राशौ वृषसिंहवृश्चिककुम्भेषु । शुभयुते शुभग्रहयुते । के- न्द्रे प्रथमचतुर्थसप्तमदशमभवने ।

राज्याधिकारिनिर्णयः । ३५ काश्मीरायां तु पार्वत्यां शङ्करात्मा महीपतिः । सर्वलक्षणसंयुक्तस्त्वभिषेच्यो नवस्तदा ॥ तदा पूर्वोक्ते काले, नवो महीपतिः, पार्वत्यां पर्वतभवायां, काश्मीरायां श्रीपर्णी, तन्निर्मिते भद्रपीठे उपवेश्येत्यर्थः । अत एवाग्रे अभिषेकसम्भारमध्ये श्रीपर्णीपीठमाहृतमस्ति । इति राजाभिषेके विहितकालाः । अथ राज्याधिकारिनिर्णयः । तत्रौरसो ज्येष्ठ एवाधिकारी । तदुक्तम्— कालिकापुराणे, राजेत्युपक्रम्य— औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च । गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे ॥ कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । स्वयंदत्तश्च दासश्च षडिमे पुत्रपांसनाः ॥ दासः स्वोत्पन्नो दासीपुत्रः । रागादिना द्विजातीनामपि दास्यामुत्पन्नस्य पुत्रस्य सम्भवात् । अभावे पूर्वपूर्वेषां परान् समभिषेचयेत् । इति । मनुः, ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥ इति । आपस्तम्बोऽपि, ज्येष्ठो दायाद इति । इदं राज्ये विभागाभावस्य वक्ष्यमाणत्वात् राज्याविषय- मिति बहुभिर्व्याख्यातम् । मनुरपि, ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।

३६ वीरमित्रोदयस्य राजनीतिप्रकाशे पितृणामनृणश्चैव स तस्मात्सर्वमर्हति ॥ इति । कालिकापुराणे तु ज्येष्ठौरसस्य राज्यं स्पष्टमेवाभिहितम्- अथोपरिचरं राजा यौवराज्येऽभ्यषेचयत् । ज्यायांसमौरसं पुत्रं सर्वराजगुणैर्युतम् ॥ इति । रामायणेऽपि, मन्थरां प्रति कैकयीवाक्यम्- धर्मज्ञो गुणवान् दान्तः कृतज्ञः सत्यवाक् शुचिः । रामो राजसुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥ राजसुत इत्यौरसत्वज्ञापनार्थम् । तथा, रामं प्रति दशरथवाक्यम्— आदिष्टो ह्यसि मे ज्येष्ठः प्रसूतः सदृशो गुणैः । ज्येष्ठायामपि मे पत्न्यां सदृश्यां सदृशः सुतः ॥ तन्मत्तस्त्वं गुणज्येष्ठो रामनामाऽत्मजः प्रियः । त्वया तात प्रजा ह्येताः स्वगुणैरनुरञ्जिताः ॥ तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्स्यसि । इति । प्रसूत औरसः । अस्मादपि ज्येष्ठस्यौरसस्यैव राज्यमिति गम्यते । ज्येष्ठायामिति । यदा एकदोत्पन्नयोर्ज्येष्ठ्यं न निर्णेतुं शक्यते तदा ज्येष्ठापुत्रस्य प्राप्त्यर्थं, न तु महिष्या अन्यस्या वा ज्येष्ठायाः पुत्रस्य कनीयसोऽपि प्राप्त्यर्थम् । यदा ज्येष्ठा- या अनभिषिक्ताया वा पुत्रो ज्येष्ठस्तदा तस्यैव राज्यमित्या- चारदर्शनात्, सदृशस्त्रीषु जातानां पुत्राणामविशेषतः । न मातृतो ज्यैष्ठ्यमस्ति जन्मतौ ज्यैष्ठ्यमुच्यते ॥ इति मनुना स्पष्टमभिधानाच्च ।

राज्याधिकारिनिर्णये ज्यैष्ठ्यनिर्णयः । ३७ रामायणेऽपि, जन्मज्येष्ठं प्रियं पुत्रं यौवराज्ये यदिप्सथ । इति ज्यैष्ठ्यस्य जन्मनैवोक्तत्वाच्च । एवं यमयोराप जन्मनैव ज्यैष्ठ्यं न निषेकेण । निषेकज्यैष्ठ्ये तु अनेकपत्नीकस्यैकस्यां पूर्वं निषेकः पश्चात्पुत्रजन्म, यस्यां पश्चान्निषेकः पूर्वं पुत्रजन्म, तत्पुत्रयोर्मध्ये पूर्वपुत्रस्यैव राज्यं स्यात् । न चेष्टापत्तिः । आ- चारविरोधात्, उक्तवचनविरोधाच्च । मनुरपि जन्मनैव ज्यैष्ठ्यमाह— जन्मज्यैष्ठ्येन चाह्वानं सुब्रह्मण्यायामपि स्मृतम् । यमयोश्चैव गर्भेषु जन्मना ज्यैष्ठ्यमुच्यते ॥ सुब्रह्मण्याख्यो मन्त्रो ज्योतिष्टोम इन्द्रस्याह्वानार्थं प्रयुज्य- ते । तत्र प्रथमं प्रथमपुत्रेण पितरमुद्दिश्याह्वानं क्रियते-“अमुक- स्य पिता यजते” इति, तत्र जन्मज्येष्ठतामाहृत्यैवाहानम् । यस्य च यजमानस्य यमजौ पुत्रौ तत्र गर्भे एककालनिषिक्तयोरपि यमयोर्जन्मना ज्यैष्ठ्यमुच्यते, जन्मज्यैष्ठ्येन पुत्रस्य ज्येष्ठतामा- हृत्याह्वानं क्रियते इति वाक्यार्थः । गर्भेष्विति बहुवचनं तु लोके स्त्रीबहुत्वमपेक्ष्योक्तं द्रष्टव्यम् । तथा च— स्मृत्यर्थतत्त्वे देवलः, यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् । सन्तानः पितरश्चैव तस्मिन् ज्यैष्ठ्यं प्रतिष्ठितम् ॥ इति । सन्तानो वंशः । ननु पूर्वं निषिक्तस्य पश्चादुत्पन्नस्य हिरण्यकशिपोः कथं पूर्वं नामकरणम् । तथा च— श्रीभागवते, प्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत ।

३८ वीरमित्रोदयस्य राजनीतिप्रकाशे तं वै हिरण्यकशिपुं विदुर्बुधा यं तं हिरण्याक्षमसूत साग्रतः ॥ स्वदेहात् पितृदेहात् । प्राक् गर्भनिषेककाले । सा अदितिः । गर्भाधानकाले यथा प्राक्पश्चाद्भावस्तथोक्तः— पिण्डसिद्धौ, यदा विशेत् द्विधाभूतं वीजं पुष्पं परिक्षरत् । द्वौ तदा भवतो गर्भौ सूतिर्वेशविपर्ययात् ॥ सूतिः प्रसवः । वेशविपर्ययात् वेशो वीजप्रवेशः, तद्विपर्ययात् तद्वैपरीत्येन । यस्य पूर्वं निषेकः तस्य पश्चादुत्पत्तिः यस्य च पश्चान्निषेकस्तस्य पूर्वमुत्पत्तिरिति चेत्, उच्यते । “जन्मना ज्यैष्ठ्यमुच्यते” इति “तस्मिन् ज्यैष्ठ्यं प्रतिष्ठितम्” इति मनु- देवलवचनाभ्यां विरोधे “प्रजापतिर्नाम तयोरकार्षीत्” इति भाग- वतवचनस्य सिद्धार्थमात्रबोधकस्य ज्यैष्ठ्यविधायकत्वमिति व- क्तुमशक्यत्वात्, “सूतिर्वेशविपर्ययात्” इत्यस्यापि एकदा निषि- क्तयोरुपरिभागानिषिक्तस्य पश्चान्निर्गम इति देशिक एव विपर्य- योऽर्थः, न तु गर्भे पूर्वमुत्पन्नस्येत्येतावत्पर्यन्तमर्थः । एकस्यापि सङ्कीर्णवीथीस्थितस्य गजादेः पराङ्मुखतयैव परावृत्तौ विप- रीतो निर्गत इति प्रयोगात् । न च मनुवाक्ये गर्भेषु जन्मनेत्य- न्वयो युक्तः, गर्भसम्भूतावपत्यजन्माभूदित्यप्रयोगात् । निर्गमे च तादृशप्रयोगाद्देवलवाक्यैकवाक्यत्वाच्च पूर्वोक्तमेधातिथ्यादि- कृतव्याख्यानस्यैवोचितत्वात् । इतरथा निषेकक्रमेण ज्येष्ठत्वे- ऽनेकपत्नीकस्यैकस्यां पूर्वं निषिक्तो गर्भः शल्यीभूतोऽन्यस्यां चानन्तरनिषिक्तः स्वकाले उत्पन्नस्तदपेक्षया शल्यवृद्ध्या विं- शतिवर्षानन्तरोत्पन्नस्य ज्येष्ठत्वव्यवहारप्रसङ्गः । यदि चैकगर्भ एव निषेकक्रमेण ज्यैष्ठ्यं न पृथग्गर्भे, भागवतवचनानुरोधादि- त्युच्यते, तत्रोक्त एव मनुदेवलवचनाविरोधः । अस्तु वा तथा '

क्षेत्रजादे राज्यानधिकारः । ३९ तथापि को हि अयोगी तद्वेद यदुपर्यधो वा पूर्वं निषेक एकदैवो- भयत्र वेति त्रितयस्यापि वक्तुं शक्यत्वात्। योगी हि प्रजापतिः क्रमं विदित्वा नाम चकारेत्यस्यापि सुवचत्वात् । अत एव यः प्राक्स्वदेहादित्येवोक्तम्, न तूपरिस्थितत्वादेराद्यसम्भूतौ हेतुत्वेनोक्तिः, तस्माज्जन्मनैव ज्यैष्ठ्यमिति दिक् । अथौरसे कनीयस्यपि सति क्षेत्रजादीनां राज्यदाननिषे- धः कालीपुराणे दर्शितः- न क्षेत्रजादींस्तनयाञ्राजा राज्येऽभिषेचयेत् । पितॄणां शोधयन्नित्यमौरसे तनये सति ॥ शोधयन्, ऋणमिति शेषः । औरसे तनये सतीति तत्स- न्तेतेरप्युपलक्षणम्। पुत्रेभ्यो राज्यं विभज्य न देयम्। तथा च- रामायणे, कैकयीं प्रति वाक्यम्- न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि । स्थाप्यमानेषु सर्वेषु महानविनयो भवेत् ॥ तस्माज्ज्येष्ठेषु पुत्रेषु राज्यतन्त्राणि पार्थिवाः । आसञ्जन्त्यनवद्याङ्गि गुणवत्स्वितरेषु च ॥ तेषु ज्येष्ठेषु पुत्रेषु ज्येष्ठेष्वेव न संशयः । आसञ्जन्त्यखिलं राज्यं न भ्रातृषु कथंचन ॥ इति । गुणवत्स्वितरेष्विति ज्यायसि दोषसद्भावे कनीयसां मध्ये एकस्य कस्यचित् राज्यदाने गुणवत्त्वं हेतुत्वेनोपन्यस्तम् । ज्ये- ष्ठस्यान्धत्वादिदोषसद्भावे न राज्यभाक्त्वम् । तदुक्तम्- महाभारते, नान्धः कुरूणां नृपतिरनुरूपस्तपोधन । तथा,

४२ वीरमित्रोदयस्य राजनीतिप्रकाशे भीष्म उवाच । राज्यं तावत्पूर्वमेव यथा त्यक्तं नराधिपाः । अपत्यहेतोरपि च करिष्येऽप्यविनिश्चयम् ॥ अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति । इति । सति पुत्रे स राज्याधिकारी स्यादतो ब्रह्मचर्यमङ्गी- कृतं भीष्मेण । असत्यौरसे पुत्रे तत्सन्ततौ च क्षेत्रजादीनां क्षत्रियाजातानामुदाहृतकालीपुराणवचनेनोक्त एवाभिषेकः । ते- षामपि मातृसमानजातीयत्वेन व्यासोत्पन्नपाण्डोरिव “राजा- नमभिषेचयेत्” इति विधिप्राप्तेः । तेष्वपि केषां चिन्नाधिकार इत्युक्तम्— तत्रैव, पौनर्भवं स्वयंदत्तं दासं राज्ये न योजयेत् । इति । गौणस्यापि पुत्रस्याभावे भ्रात्रादीनामधिकारस्य दायक्र- मलभ्यत्वात्तत्क्रमविचारो नेह विविच्यते । इति राज्याधिकारिनिर्णयः । अथाभिषेकः । तत्र आथर्वणगोपथब्राह्मणे, अथ राज्ञोऽभिषेकविधिं व्याख्यास्यामो बिल्वप्रभृतीन् सम्भारान् सम्भृत्य षोडश क- लशान् षोडश बिल्वानि वल्मीकस्य च मृत्तिकां सर्वान्नं सर्वर- सान् सर्वबीजानि । तत्र चत्वारः सौवर्णाश्चत्वारो राजताश्च- त्वारस्ताम्राश्चत्वारो मृन्मयाः । तान् हृदे सरसि वोर्ध्वस्रुतो नामै- नाम इत्युदकेन पूरयित्वा वेदिपृष्ठे संस्थाप्य कुम्भेषु बिल्वमेकैकं दद्यात् । सर्वान्नं सर्वरसान् सर्वबीजानि च प्रक्षिप्याभयैरपरा- जितैरायुष्यैः स्वस्त्ययनैः सौवर्णेषु सम्पातान्, संस्राव्यैः संसि- क्तीयैश्च राजतेषु, भैषज्यैरैहोमुचैस्ताम्रेषु, संवेशसंवर्गाभ्यां शा-

आथर्वण-ब्रह्मपुराणोक्तराजाभिषेकः । ४३ न्तातीयैः प्राणसूक्तेन च मृन्मयेषु । ततस्तान् कलशान् गृहीत्वा स्तोत्रियैः पवित्रियै राजानमभिषिञ्चेत् । भूमिमिन्द्रियं च वर्द्धयित्वा क्षत्रियं म इति सिंहासनमारूढमभिमन्त्रयेत् । एवमभिषिक्तस्तु रसान् प्राश्नीयाद्विप्रेभ्यश्च दद्याद्गोसहस्रं सदस्येभ्यः, कर्त्रे ग्राम- वरं, विपुलं यशः प्राप्नोति भुङ्क्ते धरां जितशत्रुः सदा भवेदिति । अन्नं यदुप्तं न प्ररोहति । बीजं प्ररोहार्हं व्रीह्यादि । ऊर्ध्व- स्तुत ऊर्ध्वमुखान् । नामेत्यादयो मन्त्राः । तत्र कपिञ्जलाधिकर- णन्यायेन बहुवचनेन त्रयाणां त्रयाणामुपादानम् । संवेशसंवर्ग- प्राणसूक्तेष्वेकैकस्य । भूम्यादिर्मन्त्रः । ब्रह्मपुराणेऽपि, नगरं तत्र कर्तव्यं पताकाध्वजसङ्कुलम् । नीरजस्कास्तथा कार्या राजमार्गाः शुभैर्जलैः ॥ पौरैः स्नातैः सुवस्त्रैश्च भाव्यं मङ्गलपाणिभिः । गन्तव्यं वारमुख्याभिस्तथा राजनिवेशनम् ॥ पौरमुख्यैस्तथा बाह्यैर्गणमुख्यैस्तथैव च । शोभनीयं च नगरं सविलासैश्च नर्तकैः ॥ स्नानकाले च कर्तव्यो महाकोलाहलस्तथा । वादित्रशङ्खपुण्याहैः सूतमागधवन्दिभिः ॥ सामन्तैर्मन्त्रिभिर्भाव्यं छत्रचामरपाणिभिः । आदौ कृत्वा महाशान्तिं पुण्यां वैनायिकीं शुभाम् ॥ ग्रहशान्तिं तथा श्रेष्ठां तृतीयामाहुतिं तथा । पुरोधाः सोपवासश्च श्रुतिस्मृतिसमन्वितः ॥ त्रयोदश महामन्त्रान् तर्पयेज्जातवेदसि । गणं चैवाप्रतिरथं सत्याधर्मगणौ तथा ॥ १ पू०मी० अ० ११ । पा० १ । अधि० ८ ।

४४ वीरमित्रोदयस्य राजनीतिप्रकाशे आयुष्यमभयं चैव तथा स्वस्त्ययनं परम् । वैष्णवानथ मन्त्रांश्च तथा पौरन्दरानपि ॥ सावित्रब्राह्मारौद्रांश्च वारुणानथ सर्वदा । ऋताषाडितित्रयोदश महामन्त्राः। गण इडगत्यामहंत्यादयः। अप्रतिरथः आशुः शिशान इति। सत्यगणः आगात्सत्यमिति । अधर्मगणः यास्ते अग्ने घोरास्तनुव इति । आयुष्यं आयुष्यमिति सूक्तम् । अभयं यत इन्द्रभयामहे इति । स्वस्त्ययनं स्व- स्तिदा इति । राजा स्नातः पुनः स्नाप्यः पञ्चगव्येन देववत् ॥ मृत्ताम्रहेमरौप्योत्थैर्जलपूर्णैस्ततो घटैः । तोयेन शूद्रैः स्नाप्यश्च पश्चिमां दिशमास्थितैः ॥ ततः क्षीरेण वैश्यैश्च दक्षिणस्यां दिशि स्थितैः । क्षत्रियैश्च ततो दध्ना पूर्वस्यां दिश्यवस्थितैः ॥ अमृतेन ततो विप्रैर्घृतेनोत्तरतः स्थितैः । पर्वतोत्थमृदा पश्चाद्राज्ञः शोध्यं शिरो द्विजैः ॥ वल्मीकमृदया कर्णौ शोधितव्यौ प्रयत्नतः । शक्रस्थानाच्च मृदया ग्रीवा शोध्या च भूभृतः ॥ राजवेश्मगृहद्वारमृदया हृदयं तथा । देवालयमृदा पृष्ठं शोध्यं तस्याथ राजभिः ॥ गजदन्तोद्धृतमृदा दक्षिणस्तु तथा भुजः । शोधनीया सव्येनासौ वृषशृङ्गविलग्नया ॥ कटीदेशस्ततो वैश्यैर्वेश्याद्वारमृदा तथा । नदीकूलमृदा पार्श्वे शोधितव्ये यथाक्रमम् ॥ अश्वशालामृदा शूद्रैः शोध्ये तस्याथ जानुनी । गोकुलान्मृदया जङ्घे पादौ च सरसो मृदा ॥

ब्रह्मपुराणोक्तराजाभिषेकः । ४५ सर्वौषधैः सर्वबीजैर्गन्धैरन्नैश्च सर्वदा । सर्वपुष्पैः सर्वफलैः स्नाप्यो रोचनया तथा ॥ अथ भद्रासनगतः सर्वतोयैः शुभाम्बरैः । यथाशक्त्या समानीतैः पुरस्कृत्य पुरोहितैः । नृपतिस्त्वभिषेक्तव्यो दैवज्ञवचनान्नरैः ॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रमुख्यैस्तथैव च । पतिव्रताभिर्नारीभिः पुत्रिणीभिश्च पुत्रवत् ॥ ततः स्नातो विलिप्ताङ्गः कृतदेवाग्नितर्पणः । आबद्धमुकुटः स्रग्वी बद्धपट्टो विभूषितः ॥ मङ्गलानां शतं पश्येत्पुण्यमष्टोत्तरं शतम् । शान्त्यै प्राधानिके स्थाने सर्वमेतद्यथाक्रमम् ॥ कृत्वा शेषं ततो हुत्वा दद्यात्पूर्णाहुतिं ततः । अभिषिक्तस्ततो राजा साम्राज्यादौ विनायकम् ॥ ततः क्रमेण देवांश्च ब्रह्मविष्णुमहेश्वरान् । ग्रहान्नीलं च नागेन्द्रमग्निं विप्रान् पुरोहितम् ॥ देवान् पितॄन् समुद्दिश्य दद्याद्विप्रेषु दक्षिणाम् । अभयं सर्वभूतेषु सम्यक्तत्र ददाति च ॥ आघातस्थानगान् सर्वान् पशूनपि विमोचयन् । आघातस्थानं हननस्थानम् । बन्धनस्थानसंस्थांश्च प्रमोचयति शास्त्रवत् । गोब्राह्मणादिहन्तॄंश्च पापिष्ठान् दारुणानपि ॥ जहाति हस्तिहन्तॄंश्च क्रूरांश्चापि सुशिक्षितान् । व्याघ्रचर्मोत्तरे रम्ये तथा सिंहासने शुभे ॥ उपवेश्यो भवेद्राजा स्वयमेव पुरोधसा । सिंहासनस्थः सम्पश्येत्प्रकृतीश्च समासतः ।

४६ वीरमित्रोदयस्य राजनीतिप्रकाशे छत्रायुधानि सम्पूज्य गणमुख्यांस्तुरङ्गमान् ॥ आरुह्यालङ्कृतं नागं विसृजन् धनसञ्चयम् । प्रदक्षिणीकृत्य पुरं प्रविश्य च पुरं गृहम् ॥ समस्तान् पौरमुख्यांश्च कृत्वा पूजां विसर्जयेत् । गतेषु तेषु च धनैस्तर्पयेद्भटनर्त्तकान् ॥ ब्राह्मणान् भोजयेत्सर्वान् दीनानाथांश्च बान्धवान् । ततो महाजनैः सार्द्धं पूर्वराजक्रमादिभिः ॥ आहारं कुरुते राजा राजभृत्यान् विसृज्य च । आचम्य ताम्बूलमुखो विहरेत ततः क्षणम् ॥ ततः कतिपयैः सार्द्धमन्तःपुरनिवासिभिः । रक्षेत्सपवादात्मानं भूयो भुङ्क्ते यथासुखम् ॥ इति । श्रीरामायणेऽपि सम्भारसम्पादनपूर्वकमभिषेक उक्तः— शनैस्तस्मिन् प्रशान्ते तु जनघोषे नराधिपः । प्रणम्य गुरुमासीनमित्युवाच पुरोहितम् ॥ अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् । तदस्य भगवन् सर्वमाज्ञापयितुमर्हसि ॥ तच्छ्रुत्वा भूमिपालस्य वासिष्ठो द्विजसत्तमः । आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ॥ युक्तान् नियोगिपुरुषान् । सुवर्णादीनि रत्नानि मणीन् सर्वौषधीरपि । शुक्लं च माल्यं लाजांश्च पृथक्च मधुसर्पिषी ॥ अहतानि च वासांसि रथं सर्वायुधानि च । सितवर्णं च तुरगं गजं च शुभलक्षणम् ॥ चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम् । शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ॥

रामायणोक्तराजाभिषेकः । ४७ ०ण्यशृङ्गं वृषभं समग्रं व्याघ्रचर्म च । यच्चान्यत्किञ्चिदेष्टव्यं यच्च किञ्चिन्मनोऽनुगम् ॥ उपास्थापयत प्रातरग्न्यगारे महीपतेः । अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ॥ चन्दनैः स्रग्भिरर्च्यन्तां सुमनोदामभिस्तथा । प्रशस्तवस्तु गुणवद्दधिक्षीरोपसेचनम् ॥ द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत् । सिद्धमन्नाद्य सम्भारं प्रत्यूषस्येव कल्प्यताम् ॥ सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् । ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥ आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् । सर्वे च नागराश्चैव गणिकाश्च स्वलङ्कृताः ॥ कक्ष्यां द्वितीयामासाद्य तिष्ठेयुर्नृपवेश्मनि । कक्ष्यां प्रकोष्ठम् । देवायतनचैत्येषु जलभक्ष्याः सदक्षिणाः ॥ उपस्थापयितव्याश्च माल्ययोगाः पृथक्पृथक् । बद्धदीर्घासयो योधाः सन्नद्धा धृष्टवाससः ॥ महाराजस्य भवनं प्रविशन्तु महोदयम् । एवमाज्ञाप्य तत्सर्वं कृतमित्यभ्यवेदयत् ॥ सुप्रीतमनसे राज्ञे वसिष्ठो हर्षयन् पुनः । तथा, आभिषेचनिकं द्रव्यं सर्वमेवोपकल्पितम् । गङ्गायमुनयोश्चैव सङ्गमादाहृतं जलम् ॥ १ तत्सर्वमुपकल्प्यताम्-इत्यपि पाठः