भारतकोश
संग्रह पर लौटें

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

( १९० ) पञ्चतन्त्रम् ।

( १९० ) पञ्चतन्त्रम् । मक्खनकी समानः वाणी और निर्दय चित्त करके शत्रुको इस प्रकार समझावे जिससे वंशसहित शत्रु मरजाय ॥ ४४० ॥ आह च,–“माम ! यदि एवं तत् मत्स्यमांसखण्डानि नकुलस्य बिलद्वारात् सर्पकोटरं यावत् प्रक्षिप यथा नकुलस्तन्मार्गेण गत्वा तं दुष्टसर्पं विनाशयति” । अथ तथा अनुष्ठिते मत्स्यमांसानुसारिणा नकुलेन तं कृष्ण- सर्पं निहत्य तेऽपि तद्वृक्षाश्रयाः सर्वे बकाश्च शनैः शनैर्भक्षिताः । अतो वयं ब्रूमः “उपायं चिन्तयेदिति” । बोलाभी–“मामा ! यदि ऐसा है तो मत्स्योंके मांसखण्ड नकुलके बिलके द्वारसे सांपकी खखोडलपर्यन्त डालो जो नौला उसमार्गसे जाकर उस दुष्ट सर्पको मारेगा” वैसा अनुष्ठान करनेपर मछलियोंके मांसानुसारी नौलेने उस काले सर्पको मारकर और वेभी उस वृक्षपर रहनेवाले सब बगले भी शनैः २ भक्षण कर लिये । इससे हम कहते हैं “उपाय विचारे इत्यादि” । तदनेन पापबुद्धिना उपायश्चिन्तितो नापायः । ततस्त- त्फलं प्राप्तम् । सो इस पापबुद्धिने उपाय विचारा अपाय नहीं सो इसका यह फल है । धर्मबुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम । पुत्रेण व्यर्थपाण्डित्यात्पिता धूमेन घातितः ॥ ४४१ ॥ धर्मबुद्धि और कुबुद्धि यह दोनों मैने जाने, वृथा पाण्डित्यसे पिताको धूमसे पुत्रने मारडाला ॥ ४४१ ॥ एवं मूढ ! त्वयापि उपायश्चिन्तितो नापायः पापबुद्धिवत् । तन् न भवसि त्वं सज्जनः, केवलं पापबुद्धिरसि, ज्ञातो मया स्वामिनः प्राणसन्देहानयनात् । प्रकटीकृतं त्वया स्वयमे- वात्मनो दुष्टत्वं कौटिल्यञ्च । अथवा साधु चेदमुच्यते- सो हे मूढ ! तैनेभी उपायकी चिन्ता करी अपायकी नहीं । सो तू सज्जन नहीं केवल पापबुद्धि है जाना मैने स्वामीके प्राणसन्देहकी अनयसे प्रगट की या तुमने स्वयंही अपनी दुष्टता और कुटिलता । अथवा अच्छा कहा है-

भाषाटीकासमेतम् । ( १९१ ) यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गम् । यदि जलदध्वनिमुदितास्त एव मूढा न नृत्येयुः ॥ ४४२ ॥ यत्नसेभी मोरोंके भोजनके ( घीट ) निकलनेके मार्गको कौन देख सक्ता है यदि मेघकी ध्वनिसे प्रसन्नहुए वेही मूढ न नृत्य करें ॥ ४४२ ॥ यदि त्वं स्वामिनं एनां दशां नयसि तदस्मद्विधस्य का गणना । तस्मात् मम आसन्नेन भवता न भाव्यम् । उक्तञ्च- जो तू स्वामीको इस दशामें प्राप्त करता है सो फिर हम सरीकोंकी क्या गणना है ! इस कारण मेरे समीपमें तुमको रहना उचित नहीं है । कहा है- तुलां लोहसहस्रस्य यत्र खादन्ति मूषिकाः । राजँस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥ ४४३ ॥” जहा सहस्रलोहकी तुलाको चूहे खाजाते हैं हे राजन् ! वहीं बालकको श्येन लेजाता है इसमें सन्देह नहीं ॥ ४४३ ॥ ” दमनक आह,-“कथमेतत् ?” सोऽब्रवीत- दमनक बोला,-“यह कैसी कथा है ?” वह बोला- कथा २१. अस्ति कस्मिंश्चिदधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः । स च विभवक्षयात् देशान्तरगमनमना व्यचिन्तयत् । किसी स्थानमें एक जीर्णधन नामवाला वणिक्पुत्र रहताथा वह धनके क्षयसे देशान्तरमें जानेकी इच्छासे विचारने लगा । कि, “यत्र देशेऽथवा स्थाने भोगान्भुक्त्वा स्ववीर्यतः । तस्मिन्विभवहीनो यो वसेत्स पुरुषाधमः ॥ ४४४ ॥ जिस देश वा जिस स्थानमें अनेक भोगोंको अपने पराक्रमसे भोगे उस स्थानमें जो ऐश्वर्यहीन होकर वसे वह पुरुष नीच है ॥ ४४४ ॥ तथाच- तैसेही- येनाहङ्कारयुक्तेन चिरं विलसितं पुरा । दीनं वदति तत्रैव यः परेषां स निन्दितः ॥ ४४५ ॥”

( १९२ ) पञ्चतन्त्रम् ।

( १९२ ) पञ्चतन्त्रम् । जिस अहंकारयुक्तने प्रथम बहुत समयतक विलास किया है और जो उसी स्थानमें दीन वचन कहे वह निन्दित होता है ॥ ४४५ ॥” तस्य च गृहे लोहभारघटिता पूर्वपुरुषोपार्जिता तुला- आसीत् । ताञ्च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठिनमुवाच,-“भोः श्रेष्ठिन् ! दीयतां मे सा निक्षेपतुला” । स आह-“भो ! नास्ति सा त्वदीया तुला मूषिकैर्भक्षिता” । जीर्णधन आह-“भोः श्रेष्ठिन् ! नास्ति दोषस्ते यदि मूषिकैः भक्षितेति । ईदृक्- एवायं संसारः । न किञ्चिदत्र शाश्वतमस्ति, परमहं नद्यां स्नानार्थं गमिष्यामि, तत् त्वमात्मीयं शिशुमेनं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय” इति । सोऽपि चौर्य्यभया- त्तस्य शङ्कितः स्वपुत्रमुवाच-“वत्स ! पितृव्योऽयं तव स्नानार्थं नद्यां यास्यति तद्गम्यतामनेन सार्द्धं स्नानोपकरणमादाय ” इति । अहो ! साधु इदमुच्यते- उस घरमें लोहभार वाली वृद्ध पुरुषोंकी उपार्जित एक तराजू थी उसको किसी सेठके घरमें धरोहर रखकर देशन्तरको गया । और बहुतकालतक देशा- न्तरमें यथेच्छ भ्रमण कर फिर अपने पुरमें आकर श्रेष्ठीसे वह बोला,-“भो सेठ ! हमारी निक्षेपतुला (धरोहरकी तराजू) दो” वह बोला,-“भो वह तुम्हारी तराजू नहीं है चूहोंने खाली” । जीर्णधन बोला,-“सेठजी ! इसमें आपका दोष क्या यदि चूहोंने खाली, इसी प्रकारका यह संसार है कोई यहां निरन्तर रहनेवाला नहीं है । परन्तु मैं नदीमें स्नान करने जाऊंगा । सो तुम अपने इस बालकधन- देवको मेरे साथ स्नानीय द्रव्यके सहित भेज दीजिये,” वहभी चोरीके भयसे शंकित हो अपने पुत्रसे बोला--“वत्स ! यह तुम्हारे चचा स्नानके निमित्त नदीको जायंगे सो इनके साथ स्नानीय पदार्थ लेकर जाओ” इति । अहो ! यह अच्छा कहा है- न भक्त्या कस्यचित्कोऽपि प्रियं प्रकुरुते नरः । मुक्त्वा भयं प्रलोभं वा कार्य्यकारणमेव वा ॥ ४४६ ॥

भाषाटीकासमेतम् । (१९३) भक्तिसे कोई मनुष्य किसीका कुछ प्रिय नहीं करता है, भय, लोभ वा कार्य- कारणको छोडकर (अन्य कारण नही है) ॥ ४४६ ॥ तथाच- तैसेही- अत्यादरो भवेद्यत्र कार्यकारणवर्जितः । तत्र शङ्का प्रकर्त्तव्या परिणामेऽसुखावहा ॥ ४४७ ॥ जहा कार्यकारणको छोडकर बहुत आदर होता है उस स्थानमे अवश्य शंका करनी चाहिये परिणाममें बुरा है ॥ ४४७ ॥ अथ असौ वणिक्शिशुः स्नानोपकरणमादाय प्रहृष्टमना- स्तेन अभ्यागतेन सह प्रस्थितः । तथानुष्ठिते वणिक् स्नात्वा तं शिशुं नदीगुहायां प्रक्षिप्य तद्द्वारं बृहच्छिलया आच्छाद्य सत्वरं गृहमागतः पृष्टश्च तेन वणिजा,-"भो अभ्यागत ! कथ्यतां कुत्र मे शिशुर्यः त्वया सह नदीं गतः"। इति स आ- ह,-"नदीतटात् स श्येनेन हतः" इति । श्रेष्ठ्याह,-"मिथ्या- वादिन् ! किं कचित् श्येनो बालं हर्तुं शक्नोति ? तत् समर्पय मे सुतमन्यथा राजकुले निवेदयिष्यामिः” इति । स आह,- “भोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिका अपि लोहभारघटितां तुलां न भक्षयन्ति, तत अर्पय मे तुलां, यदि दारकेण प्रयोजनम्" । एवं तौ विवदमानौ द्वा- वपि राजकुलं गतौ । तत्र श्रेष्ठी तारस्वरेण प्रोवाच-"भोः ! अब्रह्मण्यमब्रह्मण्यम् !! मम शिशुः अनेन चौरेण अपहृतः” । अथ धर्माधिकारिणः तमूचुः,-"भोः! समर्प्यतां श्रेष्ठिसुतः"। स आह,-"किं करोमि, पश्यतो मे नदीतटात् श्येनेन अप- हृतः शिशुः” । तच्छ्रुत्वा ते प्रोचुः,-"भो ! न सत्यमभिहितं भवता, किं श्येनः शिशुं हर्तुं समर्थो भवति ?” स आह,- भो भोः ! श्रूयतां मद्वचः- १३

(१९४) पञ्चतन्त्रम् ।

(१९४) पञ्चतन्त्रम् । तब यह वणिक्शिशु स्नानकी सामग्री लेकर प्रसन्नहो उस अभ्यागतके साथ चला । तब यह वणिक् ऐसा करनेपर स्नान कर उस बालकको नदीगुहामें रख उसके द्वारको एक बडी शिलासे ढककर बहुत शीघ्र घर आया तब उस वैश्यने पूछा-“भो अभ्यागत ! कहो कहां है वह मेरा बालक जो तेरे साथ नदीस्ना- नको गयाथा” वह बोला-“नदीके किनारेसे उसको गिद्ध लेगया” । सेठ बोला,-“मिथ्या वादिन् ! क्या कोई गिद्धभी बालकको हरण कर सकता है । सो मेरे पुत्रको दे नहीं तो राजकुलमें निवेदन करूंगा,” वह बोला,-“भो सत्यवादिन् ! जैसे गिद्ध बालकको नहीं लेजा सकता इसी प्रकार मूषकभी लोहसे बनी तराजूको नहीं खा सकते हैं । मेरी तराजू दे यदि बालकसे प्रयोजन है तो” । इस प्रकार दोनोंही विवाद करते राजकुलमें गये । वहां सेठ ऊंचे स्वरसे बोला “भो ! बडा अनुचित है ! बडा अनुचित है ! मेरा बालक इस चोरने हरण कर लिया,” तब धर्माधिकारी उससे बोले,-“श्रेष्ठिका पुत्र समर्पण करो” । वह बोला,-“मैं क्या करूं मेरे देखते नदीतटसे गृध्रने बालक हरण किया,” यह सुनकर वह बोले,-“भो ! तुमने सत्य नहीं कहा क्या गिद्ध बालक हरण करनेको समर्थ हो सकता है ?” वह बोला,-“भो ! भो ! ! हमारे वचन सुनो- तुलां लोहसहस्रस्य यत्र खादन्ति मूषिकाः । राजन् तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥ ४४८ ॥” जहां सहस्र लोहकी तराजूको मूषे खा जाते हैं वहां बालककोभी श्येन हर लेता है इसमें सन्देह नहीं ॥ ४४८ ॥” ते प्रोचुः-“कथमेतत् ?” ततः श्रेष्ठी सभ्यानामग्रे आदितः सर्वं वृत्तान्तं निवेदयामास । ततः तैर्विहस्य द्वावपि तौ परस्परं संबोध्य तुला शिशुप्रदानेन सन्तोषिताौ । अतोऽहं ब्रवीमि, “तुलां लोहसहस्रस्य” इति । वह बोले,-“यह कैसे ?” तब श्रेष्ठी सभ्योंके आगे आदिसे सब वृत्तान्त निवेदन करता भया, तब उन्होंने हँसकर उन दोनोंहीको तराजू और बालक दिलवाकर सन्तुष्ट किया, इससे मैं कहताहूं “तुला लोहसहस्रकी इत्यादि” ॥ तन्मूर्ख ! सञ्जीवकप्रसादमसहमानेन त्वया एतत् कृतम् । अहो साधु चेदमुच्यते-

भाषाटीकासमेतम् । (१९५) सो मूर्ख ! सजीवककी प्रसन्नता न सहनेवाले तैने यह किया । अहो अच्छा कहा है कि- प्रायेणात्र कुलान्वितं कुकुलजाः श्रीवल्लभं दुर्भगा दातारं कृपणा ऋजूननृजवो वित्ते स्थितं निर्धनाः । वैरूप्योपहताश्च कान्तवपुषं धर्माश्रयं पापिनो नानाशास्त्रविचक्षणञ्च पुरुषं निन्दन्ति मूर्खाः सदा॥४४९॥ बहुधा इस जगत्में खोटे कुलमें उत्पन्न हुए कुलीनोंकी, दुर्भागी भाग्यवान् पुरुषोंकी, कंजूस दाताओंकी, कुटिल सीधोंकी, निर्धनी धनियोंकी, विरूप सुन्द- रोंकी, पापी धर्मात्माओंकी, मूर्ख नाना शास्त्रमें चतुर पुरुषोंकी सदा निन्दा करते हैं ॥ ४४९ ॥ तथाच- तैसेही- मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः । व्रतिनः पापशीलानामसतीनां कुलस्त्रियः ॥ ४५० ॥ मूर्ख पंडितोंसे सदा द्वेष करते हैं, निर्धन धनवानोंसे, पापात्मा व्रतवालोंसे, असती कुलस्त्रियोंसे सदा द्वेष करती हैं ॥ ४५० ॥ तन्मूर्ख ! त्वया हितमपि अहितं कृतम् । उक्तञ्च- सो हे मूर्ख ! तने हितभी अहित किया. कहा है- पण्डितोऽपि वरं शत्रुर्न मूर्खो हितकारकः । वानरेण हतो राजा विप्राश्चौरेण रक्षिताः ॥ ४५१ ॥ पंडित शत्रुभी अच्छा, हितकारी मूर्ख भला नहीं वानरने राजाको मारा और ब्राह्मणोंकी चौरने रक्षा की ॥ ४५१ ॥ दमनक आह-"कथमेतत् ?" सोऽब्रवीत्- दमनक बोला-"यह कैस ?" वह बोला- कथा २२. कस्यचित् राज्ञो नित्यं वानरोऽतिभक्तिपरोऽङ्गसेवकोऽ- न्तःपुरेऽपि अप्रतिषिद्धप्रसरोऽतिविश्वासस्थानमभूत् । एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति

( १९६ ) पञ्चतन्त्रम् ।

( १९६ ) पञ्चतन्त्रम् ।

राज्ञो वक्षःस्थलोपरि मक्षिका उपविष्टा । व्यजनेन मुहुर्मुहु- र्निषिध्यमानापि पुनः पुनस्तत्रैव उपविशति । तत- स्तेन स्वभावचपलेन मूर्खेन वानरेण क्रुद्धेन सता तीक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिका उड्डीय गता तेन शितधारेण असिना राज्ञो वक्षो द्विधा जातं राजा मृतश्च । तस्मात् चिरायुरिच्छता नृपेण मूर्खोऽ- नुचरो न रक्षणीयः । अपरमेकस्मिन्नगरे कोऽपि विप्रो महा- विद्वान् परं पूर्वजन्मयोगेन चौरो वर्त्तते । स तस्मिन् पुरेऽन्य- देशादागतान् चतुरो विप्रान् बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवान्, "अहो ! केन उपायेन एषां धनं लभे" ! । इति विचिन्त्य तेषां पुरोऽनेकानि शास्त्रोक्तानि सुभाषि- तानि च अतिप्रियाणि मधुराणि वचनानि जल्पता तेषां मनसि विश्वासमुत्पाद्य सेवा कर्तुमारब्धा । अथ वा साधु चेदमुच्यते-

किसी एक राजाका नित्य अत्यन्त भक्त एक वानर अंगरक्षक अन्तःपुर- मेंभी अनिवारित प्रवेशवाला अति विश्वासपात्र था, एक समय निद्रित हुए राजाके वानरके पंखा लेकर हवा करनेमें राजाकी छातीपर मक्खी बैठ गई पंखेसे वारंवार निषेध की हुईभी वहीं बैठती । तब उस स्वभावसे चपल मूर्ख वानरने क्रोध कर तीक्ष्ण खड्ग ले उसपर प्रहार दिया । तब मक्खी तो उड़गई उस तीक्ष्ण धारवाली तल्वारसे राजाकी छाती दो खण्ड हुई जिससे वह मरगया, इससे चिरायुकी रक्षा करनेवाले राजाको मूर्ख अनुचर करना उचित नहीं । दूसरी बात यह कि, एक नगरमें कोई ब्राह्मण महाविद्वान् था, परन्तु पूर्वजन्मके योगसे चोर होगया, वह उस पुरमें और देशोंसे आये हुए चार ब्राह्मणोंको बहुतसी चीजे बेचता देखकर विचारने लगा, "अहो किस उपायसे इनका धन लूं"। ऐसा विचार कर उनके सम्मुख अनेक शास्त्रोक्त सुभाषित अतिप्रिय मधुर वचनोंको कहकर उनके मनमें विश्वास उत्पन्न कर सेवा करनी प्रारम्भ की। अथवा यह अच्छा कहा है-

असती भवति सलज्जा क्षारं नीरञ्च शीतलं भवति । दम्भी भवति विवेकी प्रियवक्ता भवति धूर्त्तजनः ॥४५२॥ असती लजावती होती है, खारी पानी ठंढा होता है, ज्ञानी पाखण्डी होता है और धूर्त्तमनुष्य प्रियवक्ता होता है ॥ ४५२ ॥ अथ तस्मिन् सेवां कुर्वति तैः विप्रैः सर्ववस्तूनि विक्रीय बहुमूल्यानि रत्नानि क्रीतानि । ततः तानि जंघामध्ये त- त्समक्षं प्रक्षिप्य स्वदेशं प्रति गन्तुमुद्यमो विहितः । ततः स धूर्त्तविप्रस्तान् विप्रान् गन्तुमुद्यतान् प्रेक्ष्य चिन्ताव्याकुलित- मनाः सञ्जातः । “अहो ! धनमेतत् न किञ्चित् मम घटि- तम् । अथ एभिः सह यामि, पथि क्वापि विषं दत्त्वा एता- न्निहत्य सर्वरत्नानि गृह्णामि” । इति विचिन्त्य तेषामग्रे सकरुणं विलप्य इदमाह, - "भोः मित्राणि ! यूयं मामेका- किनं मुक्त्वा गन्तुमुद्यताः । तन्मे मनो भवद्भिः सह स्नेहपाशेन बद्धं भवद्विरहनाम्नैव आकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते । यूयमनुग्रहं विधाय सहायभूतं मामपि सहैव नयत । तद्वचः श्रुत्वा ते करुणाईचित्ताः तेन सममेव स्वदेशं प्रति प्रस्थिताः । अथ अध्वनि तेषां पञ्चानामपि पल्लीपुरमध्ये व्रजतां ध्वांक्षाः कथयितुमारब्धाः,- "रे रे किराताः ! धावत धावत । सपादलक्षधनिनो यान्ति । एतान् निहत्य धनं नयत” । ततः किरातैः ध्वाक्षवचनमाकर्ण्य सत्वरं गत्वा ते विप्रा लगुडप्रहारैः जर्जरीकृत्य वस्त्राणि मोचयित्वा वि- लोकिताः, परं धनं किञ्चिन्न लब्धम् । तदा तैः किरातैरभि- हितम्-“भोः पान्थाः ! पुरा कदापि ध्वाक्षवचनमनृतं न आसीत् । ततो भवतां सन्निधौ क्वापि धनं विद्यते । तद्- र्पयत । अन्यथा सर्वेषामपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः” । तदा तेषामीदृशं वचनमाकर्ण्य चौर- विप्रेण मनसि चिन्तितम्, यदा एषां विप्राणां वधं विधाय अंगं विलोक्य रत्नानि नेष्यन्ति तदा अपि मां वधिष्यन्ति

( १९८ ) पञ्चतन्त्रम् ।

( १९८ ) पञ्चतन्त्रम् ।

ततोऽहं पूर्वमेवात्मानमरत्नं समर्प्य एतान् मुञ्चामि । उक्तञ्च- उसके सेवा करनेपर उन ब्राह्मणोंने सब वस्तु बेचकर बहु मूल्य रत्न खरीदे । और उनको जंघामें उनके सम्मुखही डालकर अपने देश जानेको तयार हुए । तब वह ब्राह्मण उनको जाता देख मनमें व्याकुल हुआ, "अहो यह धन कुछभी हमको न दिया सो मैं इनके साथ जाऊं मार्गमे कहीं विष दे इनको मारकर सब रत्न ग्रहण करलूं" । ऐसा विचार कर उनके आगे करुणासे विलाप कर यह बोला,-"भो मित्रो ! तुम मुझ इकलेको छोड़कर जानेको तयार हुए, सो मेरा मन आपके साथ स्नेहपाशमें बंधा है आपके वियोगसेही मैं व्याकुल हूं बुद्धि धीरज धारण नहीं करती है । तुम अनुग्रह कर सहायभूत मुझेभी साथ ले चलो" । उसकेवचन सुन वे करुणासे आर्द्रचित्त हो उसके साथ ही अपने देशको चले । तब मार्गमें उन पांचोंके पल्लीपुरमें जाते हुए काक कहने लगे,-"रेरे किरातो ! दौडो दौडो सत्रा लाख रुपयेके धनी जाते है इनको मारकर धन लेलो" । तब किरातोंने ध्वांक्षवचन सुनकर शीघ्र जाकर उन ब्राह्मणोंको लगुडप्रहारसे जर्जर करके वस्त्र उतारकर देखा, परन्तु धन कुछभी न पाया । तब उन किरातोंने कहा,-"भो मुसाफिरो ! पहिले कभी का- कोंका वचन असत्य नहीं हुआथा । सो तुम्हारे पास कहीं धन है सो दो नहीं तो सबका वधकर चर्म विदीर्ण कर प्रत्यंग देखकर धन लेलेगे" । तब उनके ऐसे वचन सुनकर चोर विप्रने मनमें विचारा "जो यह इन ब्राह्मणोंका वध कर अंगको देख रत्न लेंगे तो मुझकोभी मारेंगे सो पहले मैं अरत्न अपनेको सम- र्पण कर इनको छुडाऊं । कहा है- मृत्योर्बिभेषि किं बाल न स भीतं विमुञ्चति । अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ ४५३ ॥ मूर्ख ! मृत्युसे क्यों डरता है यह डरे हुएको नहीं छोडेगी आज वा सौ वर्षमें प्राणियोंको मृत्यु अवश्य होगी ॥ ४५३ ॥ तथाच- तैसेही- गवार्थे ब्राह्मणार्थे च प्राणत्यागं करोति यः । सूर्य्यस्ये मण्डलं भित्वा स याति परमां गतिम् ॥४५४॥

भाषाटीकासमेतम् । ( १९९ ) जो गौ और ब्राह्मणके निमित्त प्राणत्यागन करता है वह सूर्यमडलको भेदकर परमगतिको जाता है ॥ ४१४ ॥” इति निश्चित्य अभिहितम्,—“भोः किराताः ! यदि एवं ततो मां पूर्वं निहत्य विलोकयत । ततः तैस्तथानुष्ठिते तं धनरहितमवलोक्य अपरे चत्वारोऽपि मुक्ताः । अतोऽहं ब्रवीमि, “पण्डितोऽपि वरं शत्रुः” इति । अथ एवं संवदतो- स्तयोः सञ्जीवकः क्षणमेकं पिंगलकेन सह युद्धं कृत्वा तस्य खरनखरप्रहाराभिहतो गतासुः वसुन्धरापीठे निपपात । अथ तं गतासुमवलोक्य पिंगलकस्तद्गुणस्मरणाद्र्द्रहृदयः प्रोवाच- “भोः ! अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता, यतो विश्वासघातादन्यत् नास्ति पापतरं कर्म । उक्तञ्च- ऐसा निश्चय कर उसने कहा,—“हे किरातो ! जो ऐसा है तो पहले मुझे मारकर देखो तब उन्होंने वैसा करके उसको धनरहित देख शेष चारों छोड़- दिये । इससे मैं कहताहू “पंडितभी शत्रु अच्छा है इत्यादि” । ऐसा उन दोनोंके कहतेमें सजीवक एकक्षण पिंगलकके साथ युद्ध करके उसके तीक्ष्ण नखप्रहारसे हत हुआ प्राणरहित हो पृथ्वीपर गिरा । तब उसको प्राणरहित देख पिंगलक उसके गुण स्मरणसे आर्द्रहृदय हो बोला,—“भो ! सजीवकको मारकर मैंने अयुक्त पाप किया, कारण कि,विश्वासघातसे अधिक और कोई पापकर्म नही है। कहाहै- मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः । ते नरा नरकं यान्ति यावच्चन्द्रादिवाकरौ ॥ ४५५ ॥ मित्रद्रोही, कृतघ्नी और जो विश्वासघाती है वे मनुष्य जबतक सूर्य चन्द्र हैं तब तक नरकको जाते हैं ॥ ४१९ ॥ ' भूमिक्षये राजविनाश एव भृत्यस्य वा बुद्धिमतो विनाशे । नो युक्तमुक्तं ह्यनयोःसमत्वं नष्टापि भूमिःसुलभा न भृत्याः॥ भूमिक्षय राजनाश वा बुद्धिमान् भृत्यके नाशमें इनका समत्व कहना युक्त नहीं हो सक्ता नष्टहुई भूमि सुलभ है पर भृत्य नहीं मिलते ॥ ४१६ ॥ तथा मया सभामध्ये स सदैव प्रशंसितः । तत् किं कथ- यिष्यामि तेषामग्रतः । उक्तञ्च-

(२००) पञ्चतन्त्रम् ।

(२००) पञ्चतन्त्रम् ।

और मैंने उसकी सभामे सदा प्रशंसा की अब उन सबके आगे क्या कहूंगा। कहाहै- उक्तो भवति यः पूर्वं गुणवानिति संसदि । न तस्य दोषो वक्तव्यः प्रतिज्ञाभङ्गभीरुणा ॥ ४५७ ॥” जिसको पहले सभामें यह गुणवान् है ऐसा कहा है प्रतिज्ञाभंगभीरुओंको फिर उनके दोष कहने उचित नहीं हैं ॥ ४५७ ॥” एवंविधं प्रलपन्तं दमनकः समेत्य सहर्षमिदमाह-“ देव कातरतमस्तव एष न्यायो यद्द्रोहकारिणं शष्पभुजं हत्वा इत्थं शोचसि । तन्न एतदुपपन्नं भूभुजाम् । उक्तञ्च- इस प्रकारसे प्रलाप करते हुएके निकट दमनक आकर प्रसन्नतासे यह बोला- “देव ! आपका यह न्याय अत्यन्त कातरतम है जो इस द्रोहकारी घासभोजीको मारकर इस प्रकार शोच करते हो राजाओंको यह उचित नहीं है । कहा है- पिता वा यदि वा भ्राता पुत्रो भार्याथवा सुहृत् । प्राणद्रोहं यदा गच्छेद्धन्तव्यो नास्ति पातकम् ॥ ४५८ ॥ पिता, भ्राता, पुत्र, स्त्री वा सुहृत् जो यह अपने प्राणोंका द्रोह करें तो इनके मारनेमें पातक नहीं है ॥ ४५८ ॥ तथाच- और देखो- राजा घृणी ब्राह्मणः सर्वभक्षी स्त्री चात्रपा दुष्टमतिःसहायः। प्रेष्यःप्रतीपोऽधिकृतः प्रमादी त्याज्या अमी यश्च कृतं न वेत्ति॥ अति दयालु राजा, सर्वभक्षी ब्राह्मण, निर्लज्ज स्त्री, दुष्टमति सहायकारी, प्रतिकूल भृत्य, असावधान अधिकारी और जो कार्यको नहीं जानता इनको त्यागना चाहिये ॥ ४५९ ॥ अपिच- औरभी- सत्यानृता च पुरुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या ।

भाषाटीकासमेतम् । (२०१) भूरिव्यया प्रचुरवित्तसमागमा च वेश्याङ्गनेव नृपनीतिरनेकरूपा ॥ ४६० ॥ सत्य, झूठ, कठोर, प्रियवादिनी, हिंसायुक्त, दया, भय, कभी स्वा- र्थयुक्त, पुरस्कारवाली, बहुत व्यय, बहुत धनकी प्राप्तिवाली राजाओंकी नीति वेश्याकी समान अनेकरूपवाली होतीहै ॥ ४६० ॥ अपिच- और भी- अकुर्वन्नोपद्रवः कश्चिन्महानपि न पूज्यते । पूजयन्ति नरा नागान्न तार्क्ष्यं नागघातिनम् ॥ ४६१ ॥ विना उपद्रवकरे कोई महान्भी पूजित नहीं होता है मनुष्य सर्पोंको पूजते हैं सर्पघाती गरुडको नहीं पूजते हैं ॥ ४६१ ॥ तथाच- तैसेही- अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ४६२ ॥ नहीं शोचवालोंका सोच करतेहो, बुद्धिमानोंके वचनोंको बोलते हो पंडितलोग जीते मरे किसीकाभी शोच नहीं करते ॥ ४६२ ॥ एवं तेन सम्बोधितः पिंगलकः सञ्जीवकशोकं त्यक्त्वा दमनकसाचिव्येन राज्यमकरोत् ॥ इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रे मित्रभेदो नाम प्रथमं तन्त्रं समाप्तम् । इस प्रकार उससे समझाया हुआ पिंगलक सञ्जीवकके शोकको त्यागनकर दमनकको मन्त्री बनाय राज्य करता रहा ॥ इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रे कामेश्वरपक्षकृतपाठशालायाः मुख्याध्यापकपंडित- ज्वालाप्रसादमिश्रकृतभाषाटीकायां मित्रभेदोनाम प्रथमं तन्त्रं समाप्तम्। शुभमस्तु ।

मित्रसम्प्राप्तिर्नाम द्वितीयं तन्त्रम् ।

अथ मित्रसम्प्राप्तिर्नाम द्वितीयं तन्त्रम् । अथ इदमारभ्यते मित्रसम्प्राप्तिर्नाम द्वितीयं तन्त्रं तस्य अयमाद्यः श्लोकः- अब यह आरंभ किया जाता है मित्रसम्प्राप्ति नामवाले दूसरे तंत्रके जिसका- यह पहिला श्लोक है- असाधना अपि प्राज्ञा बुद्धिमन्तो बहुश्रुताः । साधयन्त्याशु कार्याणि काकाखूमृगकूर्मवत् ॥ १ ॥ निरुपायभी विद्वान् बुद्धिमान् बहुत शास्त्रदर्शी शीघ्र अपने कार्यको काक चूहे मृग कच्छपकी समान सिद्ध करते हैं ॥ १ ॥ तद्यथा अनुश्रूयते- सो यों सुना है- अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नग- रम् । तस्य न अतिदूरस्थो महोच्छ्रायवान् नानाविहं- गोपभुक्तफलः कीटैरावृतकोटरः छायाश्वासितपथिक- जनसमूहो न्यग्रोधपादपो महान् । अथवा युक्तम्- कि, दक्षिणके देशमें महिलारोप्य नाम नगर है, उसके निकटही बडी छाया- वाला अनेक पक्षियोंसे फल खाया हुआ, कीटोंसे भरीखोडळवाला छायामें पथिक जनोंको आश्वासन देनेवाला एक बडा न्यग्रोध (वट) का पेड है । अथवा कहा है-

  • छायासुप्तमृगः शकुन्तनिवहैर्विष्वग् विलुप्तच्छदः कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एव द्रुमः । सर्वाङ्गैर्बहुसत्त्वसङ्गसुखदो भूभारभूतोऽपरः ॥ २ ॥

जिसकी छायामे मृग सोते हैं, पक्षिसमूहोसे जो चारों ओरसे ढके पत्ते- वाला, कीटोसे ढकी खखोडवाला, स्कन्धमें वानरोंसे युक्त, भौरोंसे बेडर पिये फूलरसवाला, सम्पूर्ण अगोंसे बहुत जीवोके सगका सुख देनेवाला, वहही वृक्ष श्लाघनीय है इसके अतिरिक्त वृक्ष पृथ्वीके भारभूत हैं ॥ २ ॥ तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म। स कदाचित् प्राणयात्रार्थं पुरमुद्दिश्य प्रचलितो यावत् पश्यति तावत् जालहस्तोऽतिकृष्णतनुः स्फुटितचरण ऊर्द्धकेशो यम- किंकराकारो नरः सम्मुखो बभूव। अथ तं दृष्ट्वा शंकितमना व्यचिन्तयत् । "यदयं दुरात्मा अद्य मम आश्रयवटपादपस- म्मुखोऽभ्येति। तन्न ज्ञायते किमद्य वटवासिनां विहङ्गमानां सङ्क्षयो भविष्यति न वा"। एवं बहुविधं विचिन्त्य तत्क्ष- णान्नितृत्य तमेव वटपादपं गत्वा सर्वान् विहङ्गमान् प्रोवाच- "भो ! अयं दुरात्मा लुब्धको जालतण्डुलहस्तः समभ्येति । तत् सर्वथा तस्य न विश्वसनीयम्। एष जालं प्रसार्य तंडु- लान् प्रक्षेप्स्यति। ते तण्डुला भवद्भिः सर्वैरपि कालकूटस- दृशा द्रष्टव्याः" । एवं वदतस्तस्य स लुब्धकस्तत्र वटतले चागत्य जालं प्रसार्य्य सिन्दुवारसदृशान् तण्डुलान् प्रक्षिप्य न अतिदूरं गत्वा निभृतः स्थितः । अथ ये पक्षिणस्तत्र स्थि- तास्ते लघुपतनकवाक्यार्गलया निवारितास्तान् तण्डुलान् हालाहलांकुरानिव वीक्षमाणा निभृताः तस्थुः । अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्रपरिवारः प्राणयात्रार्थं परिभ्रमन् तान् तण्डुलान् दूरतोऽपि पश्यन् लघुपतनकेन निवार्यमाणोऽपि जिह्वालौल्यात् भक्षणार्थमपतत् सपरि- वारो निबद्धश्च। साधु इदमुच्यते- वहा लघुपतनक नाम काक रहता था, वह कभी प्राणयात्राके निमित्त पुरकी ओरको ज्योंही चला, तबतक जाल हाथमे लिये काला शरीर फटे पैर ऊर्ध्व- केश यमदूतकी समान एक मनुष्य सन्मुख हुआ । उसको देख शकित मनसे यह विचार करने लगा । "जो यह दुरात्मा आज मेरे आश्रित वटके सन्मुख

(२०४) पञ्चतन्त्रम् ।

(२०४) पञ्चतन्त्रम् ।

आता है, सो नहीं जानते कि, आज क्या वटनिवासी पक्षियोंका संक्षय होगा या नहीं" । इस प्रकार बहुत प्रकार विचार कर उसी क्षणमें लौटकर उस वटवृक्षपर जाकर सब पक्षियोसे बोला- "भो ! यह दुरात्मा लुब्धक जाल और चावल हाथमें लिये आता है, सो सब प्रकार इसका विश्वास मत करना यह जाल फैलाकर चावल बिखेरेगा । वे चावल तुम सब कालकूट विषकी समान जानना"। उसके ऐसा कहनेपर वह लुब्धक वटके तले आय जाल फैलाकर सिन्धुवारकी समान चावलोको बिखेरकर थोड़ी दूर जाकर एकान्तमें स्थित हुआ, तब वहां स्थित हुये वे पक्षी लघुपतनकके वाक्यरूपी अर्गलासे निवारित हुए उन चाव- लोको हलाहल विषके अंकुरोंकी समान देखते हुए एकान्तमें स्थित भये । इसी समय चित्रग्रीव नाम कपोतराजा सहस्रकुटुम्बके सहित प्राणयात्राके निमित्त घूमता हुआ उन चावलोंको दूरसेभी देखता हुआ लघुपतनकसे निवारित होकर भी जिह्वाके चंचलतासे भक्षणके लिये प्राप्त होकर परिवार सहित बन्धनमें पडा । अच्छा कहाभी है- जिह्वालौल्यप्रसक्तानां जलमध्यनिवासिनाम् । अचिन्तितो वधोऽज्ञानां मीनानामिव जायते ॥ ३ ॥ जिह्वाके लालचमें प्रसक्त हुए जलके मध्यमें रहनेवालों मच्छियोंकी समान अज्ञानियोंका अचिन्तित वध होता है ॥ ३ ॥ अथवा दैवप्रतिकूलतया भवति एवं, न तस्य दोषोऽस्ति । उक्तञ्च- अथवा दैवकी प्रतिकूलतासे ऐसा होता है उसका दोष नहीं है । कहा है- पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवान् रामेणापि कथं न हेमहरिणस्यासम्भवो लक्षितः । अक्षैश्चापि युधिष्ठिरेण सहस प्राप्तो ह्यनर्थः कथं प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥ ४ ॥ रावणने दूसरेकी स्त्रीके हरनेका दोष क्यों न जाना, रामचन्द्रने सुवर्णके हरिणकी असंभवता क्यों न जानी, युधिष्ठिरने अक्षोंके खेलनेसे एक साथ अनर्थ क्यों न जाना, प्रायः विपत्ति आनेसे मूढमन होजाने वालोंकी बुद्धि क्षीण होजाती है ॥ ४ ॥

भाषाटीकासमेतम् । (२०५) तथाच- और देखो- कृतान्तपाशबद्धानां दैवोपहतचेतसाम् । बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ॥ ५ ॥ कृतान्त पाशमे बंधे हुए, दैवसे हतचित्त, महत्पुरुषोकी बुद्धिभी कुटिलगा- मिनी होजाती है ॥ ५ ॥ अत्रान्तरे लुब्धकस्तान् बद्धान् विज्ञाय प्रहृष्टमनाः प्रोद्यत- यष्टिः तद्वधार्थं प्रधावितः । चित्रग्रीवोऽपि आत्मानं सपरि- वारं बद्धं मत्वा लुब्धकमायान्तं दृष्ट्वा तान् कपोतानूचे- "अहो ! न भेतव्यम् । उक्तञ्च- इस अवसरमें वह लुब्धक उनको बँधा हुआ जानकर प्रसन्न मन लकडी उठाये हुए उनके वधके निमित्त धावमान हुआ, चित्रग्रीवभी अपनेको बँधा हुआ और लुब्धकको आया हुआ देखकर उन कबूतरोंसे बोला,-"भो ! डरना न चाहिये। कहा है- व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते । स तेषां पारमभ्येति तत्प्रभावादसंशयम् ॥ ६ ॥ सब प्रकारके व्यसन प्राप्त होनेमें जिसकी बुद्धि हीन नहीं होती है उसके प्रभावसे वह निःसन्देह उसके पार होजाता है ॥ ६ ॥ सम्पत्तौ च विपत्तौ च महतामेकरूपता । उदये सविता रक्तो रक्तश्चास्तमये तथा ॥ ७ ॥ सम्पत्ति और विपत्तिमें महात्मा एकरूप रहते हैं सूर्य उदय और अस्तमेंभी लाल रहता है ॥ ७ ॥ तत्सर्वे वयं हेलया उड्डीय सपाशजाला अस्य अदर्शनं गत्वा मुक्तिं प्राप्नुमः, नो चेद्भयविक्लवाः सन्तो हेलया समु- त्पातं न करिष्यथ, ततो मृत्युमवाप्स्यथ । उक्तञ्च- सो हम सब लीलासेही उडकर पाशजाल सहित इसके अदर्शनको प्राप्त होकर छूटें । और नहीं तो भयसे व्याकुल हो लीलासेही न उडोगे तो मृत्युको प्राप्त होगे। कहाहै-

( २०६ ) पश्चतन्त्रम् ।

( २०६ ) पश्चतन्त्रम् । तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः । बहून्बहुत्वादायासात्सहन्तीत्युपमा सताम् ॥ ८ ॥” तन्तुभी नित्य विस्तीर्ण हैं और बहुतसे तुल्यरूप तन्तु बहुतसे परिश्रमोंको सहन कर लेते हैं, यही महात्माओंकी उपमा है ॥ ८ ॥” तथानुष्ठिते लुब्धको जालमादाय आकाशे गच्छतां तेषां पृष्ठतो भूमिस्थोऽपि पर्य्यधावत । तत ऊर्द्धाननः श्लोक- मेनमपठत्– वैसा करने पर वह लुब्धक जालको लेकर आकाशमें जाते हुए उनके पीछे पृथ्वीमें स्थित हुआभी धावमान हुआ। और ऊपरको मुखकर यह श्लोक पढ़ने लगा- जालमादाय गच्छन्ति संहताः पक्षिणोऽप्यमी । यावच्च विवदिष्यन्ते पतिष्यन्ति न संशयः ॥ ९ ॥ मिले हुए यह पक्षी मेरे जालको लेकर उड़ते हैं और जब पतित होंगे तब सब मेरे वशमें हो जांयगे ॥ ९ ॥ लघुपतनकोऽपि प्राणयात्राक्रियां त्यक्त्वा किमत्र भविष्य- तीति कुतूहलात् तत्पृष्ठलग्नोऽनुसरति । अथ दृष्टेरगोचरतां गतान् विज्ञाय लुब्धको निराशः श्लोकमपठन् निवृत्तश्च । लघुपतनकभी आजीविकाको छोड़कर इसमें क्या होगा इस कुतूहलसे उसके पीछे लगा चला । तब उनके दृष्टिपथसे अतीत होनेपर उन्हें गया जानकर लुब्धक यह श्लोक पढता हुआ। निवृत्त हुआ– न हि भवति यन्न भाव्यं भवति च भाव्यं प्रयत्नेन । करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति १०॥ “जो नहीं होनहार है वह नहीं होती जो होनहार है वह यत्नसे होतीही है जिसकी भावी ( होनहार ) नहीं है हाथमें स्थित हुआ भी वह पदार्थ नष्ट हो जाता है ॥ १० ॥ तथाच– तैसेही पराङ्मुखे विधौ चेत्स्यात्कथञ्चिद्द्रविणोदयः । तत्ततोऽन्यदपि संगृह्य याति शंखनिधिर्यथा ॥ ११ ॥

तत्सर्वैरपि स्वस्थैर्गम्यतां महिलारोप्यस्य प्रागुत्तरदिग्भागे

भाषाटीकासमेतम् । (२०७) विधिके पराङ्मुख होनेमें किस प्रकार धनका उदय हो सकता है वह औरकोभी ग्रहण कर शंखनिधि ( न छिपाई ) की समान नष्ट हो जातीहै ॥११॥ तदास्तां तावत् विहङ्गामिषलोभो यावत् कुटुम्बवर्त्तनो- पायभूतं जालमपि मे नष्टम्” । चित्रग्रीवोऽपि लुब्धकमदर्श- नीभूतं ज्ञात्वा तानुवाच-“भो ! निवृत्तः स दुरात्मा लुब्धकः । तत्सर्वैरपि स्वस्थैर्गम्यतां महिलारोप्यस्य प्रागुत्तरदिग्भागे तत्र मम सुहृत् हिरण्यको नाम मूषकः सर्वेषां पाशच्छेदं करिष्यति । उक्तञ्च- पक्षियोंके मासका लोभ तो अलग रहा कुटुम्बकी आजीविकाका उपायभूत मेरा जालभी नष्ट हुआ” । चित्रग्रीवभी लुब्धकको नेत्रोंसे अलक्षित देखकर उनसे बोला,-“भो ! वह दुरात्मा लुब्धक निवृत्त हुआ । सो सब स्वस्थ होकर महिलारोप्यके उत्तर दिशाकी ओर चलो वहा, मेरा सुहृत् हिरण्यक नाम मूष- कराज सबके पाश छेदन करेगा । कहाहै- सर्वेषामेव मर्त्यानां व्यसने समुपस्थिते । वाङ्मात्रेणापि साहाय्यं मित्रादन्यो न सन्दधे ॥ १२ ॥” सम्पूर्ण मनुष्योंको व्यसन उपस्थित होनेमे वाणीमात्रकीभी सहायताको मित्रके विना कौन कर सकता है ॥ १२ ॥” एवं ते कपोताः चित्रग्रीवेण सम्बोधिताः महिलारोप्ये नगरे हिरण्यकबिलदुर्गं प्रापुः । हिरण्यकोऽपि सहस्रमुख- बिलदुर्गं प्रविष्टः सन् अकुतोभयः सुखेन आस्ते, अथवा साधु इदमुच्यते । इस प्रकार चित्रग्रीवसे कहे हुए वे कबूतर महिलारोप्य नगरमें हिरण्यकके बिलदुर्गको प्राप्त हुए । हिरण्यक भी सहस्र मुखके बिलदुर्गमें प्रविष्ट हुआ निर्भय सुखसे रहताथा । अथवा अच्छा कहाहै कि- अनागतं भयं दृष्ट्वा नीतिशास्त्रविशारदः । अवसन्मूषकस्तत्र कृत्वा शतमुखं बिलम् ॥ १३ ॥ वे आये हुए भयका देखनेवाला नीतिशास्त्रमें पंडित मूषिक सौ मुखका बिल बनाकर आनन्दसे रहताथा ॥ ३ ॥

( २०८ ) पञ्चतन्त्रम् ।

( २०८ ) पञ्चतन्त्रम् ।

दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस्तथा नृपः ॥ १४ ॥ डाढसे रहित जैसे सर्प, मदसे हीन जैसे हाथी, इसी प्रकार दुर्गहीन राजा सबके वशीभूत हो जाताहै ॥ १४ ॥ तथाच- तैसेही- न गजानां सहस्रेण न च लक्षेण वाजिनाम् । तत्कर्म सिध्यते राज्ञां दुर्गेणैकेन यद्रणे ॥ १५ ॥ न सहस्र हाथियोंसे न लाख घोड़ोंसे वह कार्य सिद्ध होता है जो युद्धमें एक किलेसे सिद्ध होताहै ॥ १५ ॥ शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्धरः । तस्माद्दुर्गं प्रशंसन्ति नीतिशास्त्रविदो जनाः ॥ १६ ॥” किलेमें स्थित धनुषधारी एकही सौसे युद्धकर सकता है इस कारण नीति- शास्त्रके ज्ञाता दुर्गकी प्रशंसा करते हैं ॥ १६ ॥” अथ चित्रग्रीवो बिलमासाद्य तारस्वरेण प्रोवाच-“भो भो मित्र हिरण्यक ! सत्वरमागच्छ । महती मे व्यसनावस्था वर्त्तते”। तच्छ्रुत्वा हिरण्यकोऽपि बिलदुर्गान्तर्गतः सन् प्रोवा- च,-“भोः ! को भवान् ? किमर्थमायातः ? किं कारणम् ? कीदृक् ते व्यसनावस्थानम् ? तत् कथ्यताम्”इति । तच्छ्रुत्वा चित्रग्रीव आह.-“भोः ! चित्रग्रीवो नाम कपोतराजोऽहं ते सुहृत् । तत् सत्वरमागच्छ गुरुतरं प्रयोजनमस्ति” । तत् आकर्ण्य पुलकिततनुः प्रहृष्टात्मा स्थिरमनाः त्वरमाणो नि- ष्क्रान्तः । अथवा साधु इदमुच्यते- तब चित्रग्रीव बिलके निकट जाय ऊंचे स्वरसे बोला,-“भो भो मित्र हिरण्यक ! शीघ्रआओ मुझे बड़ी कष्टकी अवस्था वर्तमान है” । यह सुनकर हिरण्यक भी बिलदुर्गमें प्राप्त हुआ ही बोला,-“भो आप कौन हो ? क्यों आये हो ? क्या कारण है ? कैसी तुमको विपत्ति है सो कहो”। यह सुनकर

भाषाटीकासमेतम् । (२०९) चित्रग्रीव बोला,-"भो ! चित्रग्रीव नामवाला कपोतोका राजा मैं तेरा सुहृद हू । सो शीघ्र आओ । मेरा बहुत बडा कार्य है"। यह सुनकर पुलका- यमान शरीर प्रसन्नात्मा स्थिर मन शीघ्रता करता हुआ निकला । अथवा यह अच्छा कहा है- सुहृदः स्नेहसम्पन्ना लोचनानन्ददायिनः । गृहे गृहवतां नित्यं नागच्छन्ति महात्मनाम् ॥ १७ ॥ सुहृत् (मित्र) स्नेहसे सम्पन्न नेत्रोके आनन्द देनेवाले महात्मा गृहस्थियोंके घरोमे नित्य नहीं आते हैं ॥ १७ ॥ आदित्यस्योदयं तात ताम्बूलं भारती कथा । इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ॥ १८ ॥ हे तात ! सूर्यका उदय, ताम्बूल, महाभारतकी कथा, इष्ट स्त्री, सुन्दर मित्र यह दिन दिन अपूर्वही होते हैं ॥ १८ ॥ सुहृदो भवने यस्य समागच्छन्ति नित्यशः । चित्ते च तस्य सौख्यस्य न किञ्चित्प्रतिमं सुखम् ॥ १९ ॥ जिसके घरमें नित्यही सुहृद् आते है उसके चित्तमे उसके बराबर और कुछ सुख नहीं है ॥ १९ ॥ अथ चित्रग्रीवं सपरिवारं पाशबद्धमालोक्य हिरण्यकः सविषादमिदमाह-“भोः किमेतत् ?” स आह-“भो ! जानन्नपि किं पृच्छसि ? उक्तञ्च यतः- तब चित्रग्रीवको परिवारसहित पाशमे बन्धा हुआ देखकर हिरण्यक विषाद- पूर्वक यह वचन बोला,-“भो ! यह क्या है ?” वह बोला,-“भो ! जानकर भी क्या पूछता है ? कहा है कि- यस्माच्च येन च यदा च यथा च यच्च यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तदा च तथा च तच्च तावच्च तत्र च कृतान्तवशादुपैति ॥ २० ॥ १४