पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
पण्डित विष्णु शर्मा द्वारा
स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)
( ४२४ ) पञ्चतन्त्रम् ।
( ४२४ ) पञ्चतन्त्रम् । कथा ५. कस्मिंश्चिद्देशे सिंहदम्पती प्रतिवसतः स्म, अथ सिंही पुत्रद्वयमजीजनत् । सिंहोऽपि नित्यमेव मृगान् व्यापाद्य सिंह्यै ददाति, अथ अन्यस्मिन्नहनि तेन किमपि न आसा- दितम् । वने भ्रमतोऽपि तस्य रविरस्तं गतः। अथ तेन स्वगृहं आगच्छता शृगालशिशुः प्राप्तः। तं च बालकोऽय- मिति अवधार्य यत्नेन दंष्ट्रामध्यगतं कृत्वा सिंह्या जीवन्त- मेव समर्पितवान् । ततः सिंह्या अभिहितं-“भोः कान्त ! त्वयानीतं किञ्चित् अस्माकं भोजनम्?”।सिंह आह-“प्रिये! मया अद्य एनं शृगालशिशुं परित्यज्य न किञ्चित् सत्वमा- सादितम् । स च बालोऽयमिति मत्वा न व्यापादितो विशे- षात् स्वजातीयश्च । उक्तञ्च-- किसी स्थानमें एक शेर शेरनी रहतीथी । उस समय सिंहिके दो पुत्र उत्पन्न हुए, सिंहभी नित्यही मृगोंको मारकर सिंहिको देता । तब एक दिन उसने कुछ नहीं पाया । तब उसको अपने घर आते गीदडका बच्चा मिला । यह बालक है यह निश्चय करके यत्नसे दाढोंके भीतर धारण करके सिंहिको जीताही देता हुआ । तब सिंही बोली--“भो स्वामिन् ! तुम कुछ हमारा भोजन लाये?”। सिंह बोला-“प्रिये ! आज इस शृगाल शिशुके सिवाय मुझे ओर कुछ नहीं मिला है । इसे भी बालक समझकर न मारा कारण कि सजातीय है। कहा है-- स्त्रीविप्रलिङ्गिवालेषु प्रहर्त्तव्यं न कर्हिचित् । प्राणत्यागेऽपि सञ्जाते विश्वस्तेषु विशेषतः ॥ ४१ ॥ स्त्री, ब्राह्मण और बालक इनपर कभी प्रहार नहीं करना चाहिये प्राणत्या- गभी हो तो भी विशेष कर विश्वासीपर तो प्रहार करेही नहीं ॥ ४१ ॥ इदानीं त्वं एनं भक्षयित्वा पथ्यं कुरु । प्रभातेऽन्यत किञ्चित् उपार्जयिष्यामि”। सा प्राह--“भो कान्त ! त्वया बालकोऽयं विचिन्त्य न हतः । तत् कथमेनमहं स्वोदरार्थे विनाशयामि । उक्तञ्च--
[Page Header] भाषाटीकासमेतम् । ( ४२५
तो इस समय तू इसको भक्षण करके पथ्य कर प्रातःसमय और कुछ उपार्जन करूंगा”। वह बोली- “भो स्वामिन् ! जब आपने इसे बालक जान- कर न मारा तो कैसे इसको मैं अपने उदरके निमित्त विनाश करू। कहाहै कि- अकृत्यं नैव कर्त्तव्यं प्राणत्यागेऽपि संस्थिते । न च कृत्यं परित्याज्यं धर्म एष सनातनः ॥ ४२ ॥ प्राणत्याग होनेपरभी अकृत्य नहीं करना चाहिये और कृत्यको छोड़ना नहीं चाहिये यह सनातन धर्म है ॥ ४२ ॥ तस्मात् मम अयं तृतीयः पुत्रो भविष्यति”। इत्येवमुक्त्वा तमपि स्वस्तनक्षीरेण परां पुष्टिम नयत् । एवं ते त्रयोऽपि शिशवः परस्परमज्ञातजातिविशेषा एकाचारविहारा बाल्य- समयं निर्वाहयन्ति । अथ कदाचित् तत्र वने भ्रमन् अरण्यगजः समायातः । तं दृष्ट्वा तौ सिंहसुतौ द्वौ अपि कुपिताननौ तं प्रति प्रचलितौ यावत् तावत् तेन शृगालसुतेन अभिहितम्,-“अहो ! गजोऽयं युष्मत् कुलशत्रुः, तन्न गन्तव्यमेतस्य अभिमुखम्” । एवमुक्त्वा गृहं प्रधावितः । तौ अपि ज्येष्ठबान्धवभङ्गान्निरुत्साहतां गतौ अथवा साधु इदमुच्यते- इससे मेरा यह तीसरा पुत्र होगा”। ऐसा कह उसको भी स्तनके दूधसे पुष्ट करनेलगी । इस प्रकार वे तीनो बालक परस्पर अपनी जातिको न जाननेवाले एक आचरण और विहारसे बाल समयको बिताते हुए । एक समय उस वनमें घूमता हुआ वनचारी हाथी आया । उसे देख वे दोनोंही सिंहपुत्र क्रोधितमुख हो उसकी ओर ज्योंही चले तबतक उस शृगालपुत्रने कहा-“अहो ! यह हाथी तुम्हारे कुलके शत्रु हैं । सो इसके सन्मुख मत जाओ” ऐसा कह घरको भागा व दोनों भी बड़े भाईके पलायन करनेसे निरुत्साह होकर गये। अथवा यह अच्छा कहाहै- एकेनापि सुधीरेण सोत्साहेन रणं प्रति । सोत्साहं जायते सैन्यं भग्ने भङ्गमवाप्नुयात् ॥ ४३ ॥
( ४२६ ) पञ्चतन्त्रम् ।
( ४२६ ) पञ्चतन्त्रम् । एकभी धैर्यवान् उत्साहवालेके रणमें स्थित होनेसे सेना उत्साहवाली होती है और भय होनेसे भङ्ग होजाती है ॥ ४३ ॥ तथाच- और देखो- अत एव हि वाञ्छन्ति भूपा योधाम्महाबलान् । शूराम्वीरान्कृतोत्साहान्वर्जयन्ति च कातरान् ॥ ४४ ॥” इसी कारण राजा महाबली योद्धाओंकी इच्छा करते हैं शूर, वीर, उत्साह- संपन्नका संग्रह करना । कायरोका नहीं ॥ ४४ ॥” अथ तौ द्वौ अपि गृहं प्राप्य पित्रोरग्रतो विहसन्तौ ज्येष्ठ- भ्रातृचेष्टितमूचतुः। “यथा गजं दृष्ट्वा दूरतोऽपि नष्टः” । सोऽपि तदाकर्ण्य कोपाविष्टमनाः प्रस्फुरिताधरपल्लवः ताम्रलोचनः त्रिशिखां भृकुटिं कृत्वा तौ निर्भर्त्सयन् परुषतरवचनानि उवाच । ततः सिंह्या एकान्ते नीत्वा प्रबोधितोऽसौ-“वत्स ! मैवं कदाचित् जल्प । भवदीयलघुभ्रातरौ एतौ” । अथ असौ प्रभूतकोपाविष्टः तामुवाच-“किमहं एताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनः । येन मां उपहसतः । तन्मया अवश्यं एतौ व्यापादनीयौ” । तदाकर्ण्य सिंही तस्य जीवितमिच्छन्ती अन्तर्विहस्य प्राह- तब वे दोनोंही घरको प्राप्त होकर माता पिताके आगे हँसकर बडे भाईकी चेष्टाको कहते हुए । “जैसे वह हाथीको देख दूरसेही भाग गया”। वहभी यह सुन क्रोधाविष्ट मनसे होठरूपी पल्लव फडकाता लाल नेत्र तीन शिखावाली भृकुटी- को कर उन दोनोको घुडकता हुआ अधिक कठोर वचन बोला । तब सिंहीने एकान्तमें लेजाकर उसे समझाया । “पुत्र ! ऐसा कभी न कहना । यह दोनो तेरे छोटे भ्राता हैं”। तब यह अत्यन्त क्रोधितहो उस ( सिंही ) से बोला, “क्या मैं इनसे शूरता, रूप, विद्या अभ्यास, चतुराईमें कम हूं ? जिससे मेरा हास्य करते हैं इससे अवश्यही मैं इन, दोनोंको मार डालूंगा” । यह सुन सिंही उसके जीनेकी इच्छा करती मनमें हँसकर बोली-
भाषाटीकासमेतम् । ( ४२७ ) "शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक । यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥ ४५ ॥ हे पुत्र ! तू शूर विद्यावान् और रूपवान्भी है परन्तु जिस कुलमें तू उत्पन्न हुआ है उस कुलमें हाथीको कोई मार नहीं सक्ता ॥ ४५ ॥ तत् सम्यक् शृणु वत्स । त्वं शृगालीसुतः कृपया मया स्व- स्तनक्षीरेण पुष्टिं नीतः । तद् यावत् एतौ मत्पुत्रौ शिशुत्वात् त्वां शृगालं न जानीतः, तावत् द्रुततरं गत्वा स्वजातीयानां मध्ये भव, नो चेत् आभ्यां हतो मृत्युपथं समेष्यसि" । सोऽपि तद्वचनं श्रुत्वा भयव्याकुलमनाः शनैः शनैः अपसृत्य स्वजात्या मिलितः । तस्मात् त्वमपि यावत् एते राजपुत्राः त्वां कुलालं न जानन्ति तावत् द्रुततरमपसर । नो चेत् एतेषां सकाशात् विडम्बनां प्राप्य मरिष्यसि"। कुलालोऽपि तदाकर्ण्य सत्वरं प्रनष्टः । अतोऽहं ब्रवीमि- सो पुत्र ! भली प्रकारसे सुन तू गीदडीकापुत्र है मैने कृपा कर अपने स्तनके दुग्धसे पुष्ट किया है । सो जबतक यह दोनों पुत्र बालक होनेके कारण तुझे शृगाल न जाने तबतक शीघ्र जाकर स्वजातियोके मध्यमे हो । नहीं तो इन दोनोसे हत होकर मृत्युमार्गको प्राप्त होगा"। वहभी उसके वचन सुन भयव्याकुल मनसे शनैः २ चल कर अपनी जातीमें मिलगया । इससे तू भी जबतक यह राजपुत्र तुझको कुम्भार न जाने तबतक शीघ्र जा । नहीं तो इनसे तिरस्कारको प्राप्त होकर मरेगा" । कुम्भारभी यह सुनकर शीघ्र चलागया । इससे मै कहता हू कि- स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्दधीः । स स्वार्थाद् भ्रश्यते नूनं युधिष्ठिर इवापरः ॥ ४६ ॥ जो दम्भी अपना स्वार्थ त्यागन कर सत्य बोलता है वह दूसरे युधिष्ठिरकी समान अवश्यही अपने स्वार्थसे भ्रष्ट होता है ॥ ४६ ॥ धिक् मूर्ख यत् त्वया स्त्रियोऽर्थे एतत् कार्य्यमनुष्ठातुं आरब्धं न हि स्त्रीणां कथञ्चिद्विश्वासमुपगच्छेत् । उक्तञ्च-
( ४२८ ) पञ्चतन्त्रम् ।
( ४२८ ) पञ्चतन्त्रम् । सो धिक् मूर्ख ! जो तैने स्त्रीके निमित्त इस कार्यके अनुष्ठानका आरम्भ किया । किसी प्रकार स्त्रियोंका विश्वास न करे । कहा है- यदर्थे स्वकुलं त्यक्तं जीविताद्धंश्च हारितम् । सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन्नरः । ४७॥ जिसके निमित्त कुल त्यागन किया आधा जीवन नष्ट किया वह स्नेह- रहित होकर मुझको त्यागन करती है कौन मनुष्य स्त्रीका विश्वास करे ॥४७॥ मकर आह-"कथमेतत् ?'' वानर आह- मकर बोला-"यह कैसी कथा ?'' वानर बोला- कथा ६. अस्ति कस्मिंश्चित् अधिष्ठाने कोऽपि ब्राह्मणः । तस्य च भार्य्या प्राणेभ्योऽपि अतिप्रिया आसीत् । सापि प्रतिदिनं कुटुम्बेन सह कलहं कुर्वाणा न विश्राम्यति । सोऽपि ब्राह्मणः कलहमसहमानो भार्य्यावात्सल्यात् स्वकुटुम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशान्तरं गतः । अथ महाटवीमध्ये ब्राह्मण्या अभिहितः,-"आर्य्यपुत्र ! तृष्णा मां बाधते । तदु- दकं क्वापि अन्वेषय" । अथ असौ तद्वचनानन्तरं यावत् उदकं गृहीत्वा समागच्छति तावत् तां मृतामपश्यत् । अति- वल्लभतया विषादं कुर्वन् यावत् विलपति तावत् आकाशे वाचं शृणोति । तथा हि "यदि ब्राह्मण त्वं स्वकीयजीवित- स्यार्द्धं ददासि, ततः ते जीवति ब्राह्मणी" । तत् श्रुत्वा ब्राह्म- णेन शुचीभूय तिसृभिर्वाचाभिः स्वजीविताद्धं दत्तम् । वाक्- सममेव च ब्राह्मणी जीविता सा । अथ तौ जलं पीत्वा वनफलानि भक्षयित्वा गन्तुमारब्धौ । ततः क्रमेण कस्यचित नगरस्य प्रदेशे पुष्पवाटिकां प्रविश्य ब्राह्मणो भार्याम् अभिहितवान्-"भद्रे ! यावत् अहं भोजनं गृहीत्वा समाग- च्छामि तावत् अत्र त्वया स्थातव्यम्" इत्यभिधाय ब्राह्मणो नगरमध्ये जगाम । अथ तस्यां पुष्पवाटिकायां पंगुः अर-
भाषाटीकासमेतम् । (४२९) घट्टं खेलयन् दिव्यगिरा गीतमुद्गिरति । तच्च श्रुत्वा कुसुमे- षुणा अर्दितया ब्राह्मण्या तत्सकाशं गत्वा अभिहितम्-“भद्र! यदि मां न कामयसे, तत् मत्सक्ता स्त्रीहत्या तव भविष्यति" पंगुरब्रवीत्,-“किं व्याधिग्रस्तेन मया करिष्यसि ?” सा अब्रवीत्,-“किमनेन उक्तेन अवश्यं त्वया सह मया संगमः कर्त्तव्यः”। तत् श्रुत्वा तथा कृतवान् । सुरतानन्तरं सा अब्र- वीत्-“इतः प्रभृति यावज्जीवं मया आत्मा भवते दत्तः। इति ज्ञात्वा भवानपि अस्माभिः सह आगच्छतु”। सोऽब्र- वीत्-“एवमस्तु,” अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सह भोक्तुम् आरब्धः। सा अब्रवीत्-“एष पंगुः बुभुक्षि- तः तदेतस्यापि कियन्तमपि ग्रासं देहि” इति । तथा अनुष्ठिते ब्राह्मण्या अभिहितम्-“ब्राह्मण ! सहायहीनः त्वं यदा ग्रामान्तरं गच्छसि, तदा मम वचनसहायोऽपि नास्ति तत् एनं पंगुं गृहीत्वा गच्छावः ?”। सोऽब्रवीत्-“न शक्नोमि आत्मानमपि आत्मना वोढुं किं पुनः एनं पंगुम् ?” सा अब्र- वीत्-“पेटाभ्यन्तरस्थं एनमहं नेष्यामि”। अथ तत्कृतकवच- नव्यामोहितचित्तेन तेन प्रतिपन्नं, तथा अनुष्ठिते अन्यस्मिन् दिने कूपोपकण्ठे विश्रान्तो ब्राह्मणः तया च पंगुपुरुषासक्तया सम्प्रेर्य्य कूपान्तः पातितः। सापि पंगुं गृहीत्वा कस्मिंश्चित् नगरे प्रविष्टा । तत्र शुल्कचौर्य्यरक्षानिमित्तं राजपुरुषैरित- स्ततो भ्रमद्भिः तन्मस्तकस्था पेटा दृष्ट्वा, बलात् आच्छिद्य राजाग्रे नीता । राजा च यावत् तां उद्घाटयति, तावत् तं पंगुं ददर्श । ततः सा ब्राह्मणी विलापं कुर्वती राजपुरुषानुपदं एव तत्र आगता। राज्ञा पृष्टा “को वृत्तान्तः” इति । सा अब्रवीत्,-“मम एष भर्त्ता व्याधिबाधितो दायादसमूहैः उद्वेजितो मया स्नेहव्याकुलितमानतया शिरसि कृत्वा भव- दीयनगरे आनीतः " तत् श्रुत्वा राजा अब्रवीत्-“ब्राह्मणि ! त्वं मे भगिनी, ग्रामद्वयं गृहीत्वा भर्त्रा सह भोगान् भुञ्जाना
( ४३० ) पञ्चतन्त्रम् ।
( ४३० ) पञ्चतन्त्रम् ।
सुखेन तिष्ठ" । अथ स ब्राह्मणो दैववशात् केनापि साधुना कूपादुत्तारितः परिभ्रमन् तदेव नगरं आयातः । तया दुष्ट- भार्य्यया दृष्टो राज्ञे निवेदितः । “ राजन् ! अयं मम भर्तुः वैरी समायातः ” । राज्ञा अपि वधः आदिष्टः । सोऽब्रवीत्- “देव ! अनया मम सक्तं किञ्चिद् गृहीतमास्ति यदि त्वं धर्म- वत्सलः तद्दापय” । राजा अब्रवीत्-“भद्रे ! यत् त्वया अस्य सक्तं किञ्चिद्गृहीतमास्ति तत् समर्पय” । सा प्राह-“देव ! मया न किञ्चित् गृहीतम्” । ब्राह्मण आह-“यन्मया त्रिवा- चिकं स्वजीवितार्द्धं दत्तं तद्देहि” । अथ सा राजभयात् तत्र एव त्रिवाचिकं एव जीवितमनेन दत्तमिति जल्पन्ती प्राणैः विमुक्ता । ततः सविस्मयं राजा अब्रवीत्-“किमेतत्” इति। ब्राह्मणेनापि पूर्ववृत्तान्तः सकलोऽपि तस्मै निवेदितः। अतोऽहं ब्रवीमि- किसी स्थानमें कोई ब्राह्मण था । उसको अपनी स्त्री प्राणोंसेभी अधिक प्यारी थी । वह प्रतिदिन कुटुम्बके साथ क्लेश करती नहीं उपरामको प्राप्त होती थी । वह ब्राह्मणभी क्लेशको न सहकर भार्याके प्रेमसे अपने कुटुम्बको छोड ब्राह्मणीके संग बहुत दूर देशको चला गया । तब महाजंगलके मध्यमें ब्राह्मणीने कहा-“आर्य्यपुत्र ! मुझे बडी प्यास लगी है । सो कहीं जलकी खोज करो” । तब यह उसके वचन कहनेपर जबतक जल लेकर आता है तबतक उसे मरा देखता हुआ । अति प्यारके कारण दुःखसे जब विलाप करने लगा । तब आकाशवाणी सुनाई दी । “हे ब्राह्मण ! यदि तू इसे अपने जीवनके आधे दिन देगा तो यह ब्राह्मणी जिये”। यह सुन ब्राह्मणने पवित्र होकर तीन बार उच्चा- रण कर अपने जीवनका अर्ध दिया । बोलनेके साथही वह ब्राह्मणी जी उठी । तब वे दोनों जल पान कर वनके फल भक्षण करते चलने लगे । तब क्रमसे किसी नगरके देशमें पुष्पवाटिका में प्रवेश कर ब्राह्मणने अपनी भार्यासे कहा- “भद्रे ! जबतक मैं भोजन ग्रहण कर आऊं । तबतक तुम यहीं रहो”। ऐसा कह ब्राह्मण नगरके बीचमें गया । तब उस पुष्पवाटिका में एक लंगडा कुएकी सींडी पर खेलता हुआ मनोहर वाणीसे गीत गा रहा था । उसको सुन कामबाणसे
भाषाटीकासमेतम् । (४३१)
अर्दित हो ब्राह्मणी उसके पास जाकर बोली,—"भद्र ! यदि मेरी इच्छा नहीं करो तो मुझ आसक्तकी स्त्रीहत्या तुमको लगेगी"। लगडा बोला—"व्याधीसे ग्रस्त मुझसे तू क्या करेगी ?” वह बोली इस कहनेसे क्या है । अवश्य तेरे संगमे संगम करूंगी"। यह सुनकर उसने वैसाही किया, सुरतके अंतमें वह बोली— "अबसे लेकर जीवन पर्यन्त अपना आत्मा मैंने तुम्हें दिया। ऐसा जानकर तुमभी हमारे साथ आओ"। वह बोला—"ऐसाही हो" तब ब्राह्मण भोजन लिये आकर उसके साथ खाने लगा। वह बोली—"यह लगडा भूखा है सो इसकोभी कुछ ग्रास प्रदान करो"। वैसा करनेपर फिर ब्राह्मणीने कहा—"हे ब्राह्मण! तुम सहायहीन होकर ग्रामान्तरको जाते हो। सो मेरा कोई बचनसहायक भी नहीं सो इस पंगुको लेचलें?" वह बोला—"मैं स्वयं अपनेसे अपने लेजानेको तौ समर्थ हूही नहीं। फिर इस पंगुको कैसे लेचलूगा ?” वह बोली—"गठरीके भीतर कर इसको मैं ले जाऊ- गी"। तब उसके बनावटी वचनोंसे मोहित चित्त होकर उसने वह सब अंगी- कार किया । वैसा करनेपर एक दिन कूपके समीप विश्राम करते हुए ब्राह्मणको उस पंगुमें आसक्त चित्तवाली स्त्रीने कूपमें गिरा दिया । वहभी पंगुको ग्रहण कर किसी नगरमें प्रविष्ट हुई। वहा करके चुराजानेकी खोज रक्षाके निमित्त इधर उधर घूमते हुए राजपुरुषोंने उसके मस्तकपर वह गठरी देखी । और बलसे छीनकर राजाके आगे लेगये। राजानेभी जब उसे खोला तौ उसमें लंगडेको देखा । तब वह ब्राह्मणी विलाप करती हुई राजपुरुषोंके पीछे २ वहा आई राजाने पूछा—"तेरा क्या वृत्तान्त है” वह बोली—"मेरा यह स्वामी रोग- ग्रस्त गोतियोंसे उद्वेजित हुआ है मैंने स्नेहसे व्याकुल मनसे शिरपर धारण कर आपके नगरमें प्राप्त किया है"। यह सुनकर राजा बोला—"ब्राह्मणि ! तू मेरी बहन दो ग्राम ग्रहण कर भर्ताके संग भोगोंको भोगती सुखसे रह" । उधर वह ब्राह्मण दैववशसे किसी साधुद्वारा कुएंसे निकाला हुआ, घूमता हुआ उसी नगरमें आया । और दुष्ट उस भार्याने देखकर राजासे कहा—"राजन् ! यह मेरे स्वामीका वैरी आया है" । राजाने उसके वधकी आज्ञा दी । वह बोला—"देव! इसने मेरा सक्त ( सक्रान्त वस्तु ) कुछ ग्रहण कर लिया है । जो तुम धर्मवत्सल हो तो दिलादो" । राजा बोला—"भद्रे ! जो तुमने इसका सक्त ( सक्रान्त ) कुछ लिया हो तो देना"। वह बोली—"देव! मैंने कुछ ग्रहण नहीं किया"। ब्राह्मण
( ४३२ ) पञ्चतन्त्रम् ।
( ४३२ ) पञ्चतन्त्रम् । बोला—“जो मैंने तीन वाचा देकर अपने जीवनका आधा दिया है वह दे”। तब वह राजाके भयसे “त्रिवाचित जीवित जो इसने दिया सो मैंने दिया” ऐसा कहती हुई प्राणरहित हुई । तब विस्मयसे राजा बोला—“यह क्या है”। ब्राह्मणने सम्पूर्ण पहला वृत्तान्त उससे निवेदन किया । इससे मैं कहता हूं- यदर्थे स्वकुलं त्यक्तं जीविताद्र्धञ्च हारितम् । सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन्नरः ॥४७॥” जिसके निमित्त कुल त्यागा, आधा जीवन दिया, उसने स्नेहरहित हो मुझे त्यागन करदिया, कौन मनुष्य स्त्रियोंका विश्वास करे ॥ ४७ ॥” वानरः पुनराह-“साधु च इदमुपाख्यानकं श्रूयते । फिर वानरने कहा-“यह अच्छा उपाख्यान सुना जाता है । न किं दद्यान्न किं कुर्यात्स्त्रीभिरभ्यर्थितो नरः । अनश्वा यत्र हेषन्ते शिरः पर्व्वणि मुण्डितम् ॥ ४८ ॥” स्त्रीसे प्राप्त हुआ मनुष्य क्या न दे और क्या नहीं करता है, अर्थात् सबही कुछ देता और करता है, जिस अवस्थामें घोडे न होकरभी हींसते है और और पर्व्व दिन चौदश अष्टमी आदि निषेधके दिनोंमेंभी शिरका मुण्डन होता है । स्त्रीके वशीभूत होकर कार्य अकार्यको नहीं जानता है ॥ ४८ ॥” मकर आह-“कथमेतत् ?” वानरः कथयति- मकर बोला—“वह कैसे ?” वानर कहने लगा— कथा ७. अस्ति प्रख्यातबलपौरुषोऽनेकनरेन्द्रमुकुटमरीचिजाल- जटिलीकृतपादपीठः शरच्छशांककिरणनिर्मलयशाः समुद्र- पर्य्यन्तायाः पृथिव्या भर्त्ता नन्दो नाम राजा, तस्य सर्वशा- स्त्राधिगतसमस्ततत्त्वः सचिवो वररुचिर्नाम तस्य च प्रणय- कलहेन जाया कुपिता । सा च अतीववल्लभा अनेकप्रकारं परितोष्यमाणापि न प्रसीदति ब्रवीति च भर्त्ता,—“भद्रे ! येन प्रकारेण तुष्यसि तं वद । निश्चितं करोमि” । ततः कथ- ञ्चित् तया' उक्तं,-“यदि शिरो मुण्डयित्वा मम पादयोः निपतसि, तदा प्रसादाभिमुखी भवामि” । तथा अनुष्ठिते
भाषाटीकासमेतम् । ( ४३३ ) प्रसन्ना आसीत् । अथ नन्दस्य भार्यापि तथा एव रुष्टा प्रसाद्यमानापि न तुष्यति। तेन उक्तं,—“भद्रे ! त्वया विना मुहूर्त्तमपि न जीवामि, पादयोः पतित्वा त्वां प्रसादयामि”। सा अब्रवीत्—“यदि खलीनं मुखे प्रक्षिप्य अहं तव पृष्ठे समा- रुह्य त्वां धावयामि । धावितस्तु यदि अश्ववत हेषेसे, तदा प्रसन्ना भवामि” । राज्ञापि तथा एव अनुष्ठितम् । अथ प्र- भातसमये सभायां उपविष्टस्य राज्ञः समीपे वररुचिः आयातः । तञ्च दृष्ट्वा राजा पप्रच्छ,—“भो वररुचे ! किं पर्वणि मुण्डितं शिरस्त्वया ?” सोऽब्रवीत्- विख्यात बल पुरुषार्थवाला अनेक राजोंके मुकुटोंके किरणजालसे सेवित चरणपीठवाला, शरद्कालके चन्द्रमाकी समान निर्मल यशवाला, सागर पर्यन्त पृथ्वीका स्वामी, नन्द नाम राजा था । उसके सम्पूर्ण शास्त्रके तत्व जाननेवाला वररुचि नाम मन्त्री था । उसकी स्त्री प्रेमके कलहमें क्रोधित हुई । वह बहुत प्यारी थी इस कारण अनेक प्रकार सन्तुष्ट करने परभी प्रसन्न न हुई । उसका भर्त्ता बोला—“भद्रे ! तुम किस कारणसे प्रसन्न होती हो ? सो कहो । अवश्य उसको मैं करू” तब किसी प्रकार उसने कहा—“यदि शिर मुँडाकर मेरे चरणोंमें गिरो तो मैं प्रसन्न होजाऊगी” । वैसा करनेपर वह प्रसन्न हुई । तब नन्दकी भार्याभी उसी प्रकार रूठकर किसी प्रकार सन्तुष्ट नहीं होती । उसने कहा—“भद्रे ! तेरे विना मैं मुहूर्त मात्रभी नहीं जी सकता । चरणमें पडकर तुझे प्रसन्न करता हूँ” । वह बोली—“यदि मुखमें लगाम डालो और मैं तुम्हारे ऊपर चढ कर शीघ्रतासे तुम्हे चलाऊ । और दौडते हुए तुम घोड़ेकी समान शब्द करो तो मैं प्रसन्नहूँ” । राजानेभी वैसा किया । तब प्रातःकाल सभामें बैठे राजाके समीप वररुचि आया उसे देखकर राजाने पूछा—“अहो वररुचि ! किस पर्वमें तुमने शिर मुँडाया ?” वह बोला- न किं दद्यान्न किं कुर्यात्स्त्रीभिरभ्यर्थितो नरः । अनश्वा यत्र हेषन्ते शिरः पर्वणि मुण्डितम् ॥ ४९ ॥ स्त्रीसे प्रार्थित हुआ मनुष्य क्या नहीं देता और क्या नहीं करता जहा घोड़े न होकरभी मनुष्य हींसते हैं उसी पर्वमेंभी शिर मुंडित हुआ है ॥ ४९ ॥ २८
( ४३४ ) पञ्चतन्त्रम् ।
( ४३४ ) पञ्चतन्त्रम् । तत् भो दुष्टमकर ! त्वमपि नन्दवररुचिवत् स्त्रीवश्यः ततो भद्र ! आगतेन त्वया मां प्रति वधोपायप्रयासः प्रारब्धः परं स्ववाग्दोषेण एव प्रकटीभूतः । अथवा साधु इदमुच्यते- सो हे दुष्टजलचर ! तूभी नन्द और वररुचिकी समान स्त्रीके वशीभूत है । सो भद्र ! आतेही तुमने मेरे निमित्त वधके उपायका श्रम प्रारम्भ किया परन्तु तुम्हारी वाणीके दोषसेही वह प्रगट होगया है । अथवा यह अच्छा कहा है- आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः । बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥ ५० ॥ तोते और मैना अपने मुख ( वाणी ) के दोषसे ही बन्धनमें पड़ते हैं और बगले नहीं बंधते मौनही सब अर्थका साधक है ॥ ५० ॥ तथाच- और देखो- सुगुप्तं रक्ष्यमाणोऽपि दर्शयन्दारुणं वपुः । व्याघ्रचर्मप्रतिच्छन्नो वाक्कृते रासभो हतः ॥ ५१ ॥” गुप्त रक्षित हुआभी अपना दारुण शरीर दिखाता हुआ व्याघ्रके चर्मसे ढका गधा अपनी वाणीके दोषसे मारा गया ॥ ५१ ॥” मकर आह-“कथमेतत् ?” वानरः कथयति- मकर बोला-“यह कैसे ?” वानर कहने लगा- कथा ८. कस्मिंश्चित् अधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म । तस्य च गर्दभः एकोऽस्ति, सोऽपि घासाभावात् अति दुर्बलतां गतः । अथ तेन रजकेन अटव्यां परिभ्रमता मृत- व्याघ्रो दृष्टः । चिन्तितञ्च, “अहो ! शोभनमापतितम् । अनेन व्याघ्रचर्मणा प्रतिच्छाद्य रासभं रात्रौ यवक्षेत्रेषु उत्स्र- क्ष्यामि, येन व्याघ्रं मत्वा समीपवर्तिनः क्षेत्रपाला एनं न निष्कासयिष्यन्ति” । तथा अनुष्ठिते रासभो यथेच्छया यव- भक्षणं करोति प्रत्यूषे भूयोऽपि रजकः स्वाश्रयं नयति । एवं गच्छता कालेन स रासभः पीवरतनुर्जातः । कृच्छ्राद् बन्ध-
भाषाटीकासमेतम् । ( ४३५ ) नस्थानमपि नीयते । अथ अन्यस्मिन् अहनि स मदोद्धतो दूरात रासभीशब्दमशृणोत् । ततश्रवणमात्रेण एव स्वयं शब्दयितुमारब्धः । अथ ते क्षेत्रपाला रासभोऽयं व्याघ्रचर्म- प्रतिच्छन्न इति ज्ञात्वा लगुडशरपाषाणप्रहारैः तं व्यापादित- वन्तः । अतोऽहं ब्रवीमि- किसी एक स्थानमें शुद्धपट नाम धोबी रहता था । उसका एक गधा था वह घासके विना अतिदुर्बलताको प्राप्त हुआ । तब उस धोबीने वनमें घूमते हुए एक मरा व्याघ्र देखा विचारामी, “अहो ! बहुत अच्छा हुआ । इस व्याघ्र (चीते) के चमड़ेसे ढककर रात्रिमें गधेको जौके क्षेत्रमें छोड़ दूंगा । जिससे इसको व्याघ्र मानकर समीपवर्ती क्षेत्रपाल इसको न निकालेंगे”। ऐसा करनेपर गधा यथेच्छ धान्य खेत भक्षण करने लगा सवेरे धोबी उसे अपने स्थानमें लाता। इस प्रकार समय बीतनेपर गधा पुष्ट शरीर होगया । कठिनतासे बंधन स्थानमें ले जाया जाता । तब और दिन उस मदोद्धतने दूरसे गधैयाका शब्द सुना उसके सुनतेही वह स्वयं शब्द करने लगा । तब वे क्षेत्रपाल यह तो गधा है व्याघ्रचर्मसे ढका है ऐसा जानकर लठिया बाण तथा पत्थरके प्रहारोंसे उसे मारते हुए । इससे मैं कहता हूं- सुगुप्तं रक्ष्यमाणोऽपि दर्शयन्दारुणं वपुः । व्याघ्रचर्मप्रतिच्छन्नो वाक्कृते रासभो हतः ॥ ५२ ॥” अच्छी प्रकार रक्षा होकर भी अपना दारुण शरीर दिखाता हुआ व्याघ्रचर्मसे प्रच्छन्न हुआ गधा वाणीके दोषसे मारा गया ॥ ५२ ॥” अथ एवं तेन सह वदतो मकरस्य जलचरेण एकेन आगत्य अभिहितं-“भो मकर ! त्वदीया भार्या अनशनो- पविष्टा त्वयि चिरयति प्रणयाभिभवाद्दिपन्ना”। एवं तद्वज्र- पातसदृशवचनमाकर्ण्य अतीव व्याकुलितहृदयः प्रलपितमेवं चकार । “अहो ! किमिदं सञ्जातं मे मन्दभाग्यस्य । उक्तञ्च- तब ऐसे उसके साथ कहते मकरके एक जलचरने आकर उससे कहा-“भो मकर ! तुम्हारी स्त्री अनशन व्रतमें बैठी हुई तुम्हारे चिरकालतक न आनेसे प्रेमकी अवमाननाके कारण मर गई”। इस प्रकार उसके वज्रपातकी समान
( ४३६ ) पञ्चतन्त्रम् ।
( ४३६ ) पञ्चतन्त्रम् । वचन सुनकर हृदयसे. अति व्याकुल होकर वह इस प्रकार विलाप करने लगा । “यह मुझ मन्द भाग्यका क्या हुआ । कहा है- माता यस्य गृहे नास्ति भार्य्या च प्रियवादिनी । अरण्यं तेन गन्तव्यं यथा रण्यं तथा गृहम् ॥ ५३ ॥ जिसके घरमें माता नहीं तथा प्रियवादिनी स्त्री नहीं उसको वनमें जाना उचित है कारण कि घर वनकाही समान है ॥ ५३ ॥ तत् मित्र ! क्षम्यतां, मया तेऽपराधः कृतः सम्प्रति अहं तु स्त्रीवियोगात् वैश्वानरप्रवेशं करिष्यामि” । तत् श्रुत्वा वानरः प्रहसन् प्रोवाच,-“भो ज्ञातः मया प्रथममेव यत् त्वं स्त्रीवश्यः स्त्रीजितश्च । साम्प्रतञ्च प्रत्ययः सञ्जातः । तत् मूढ ! आनन्देऽपि जाते त्वं विषादं गतः तादृग् भार्य्यायां मृतायां उत्सवः कर्त्तुं युज्यते, उक्तञ्च यतः- सो मित्र ! क्षमा करना जो मैने आपका अपराध किया हे मैं अब स्त्रीवियोगसे अग्निमें प्रवेश करूंगा” । यह सुन वानर हँसता हुआ बोला-“भो ! यह मैने पहिलेही जाना था कि तू स्त्रीके वशीभूत और स्त्रीसे जीता गया है । अब विश्वास होगया । सो मूर्ख ! आनन्दके समयभी तू विषादको प्राप्त हुआ ऐसी स्त्रीके मरनेमें तो उत्सव करना चाहिये । कहा है कि- या भार्य्या दुष्टचारित्रा सततं कलहप्रिया । भार्य्यारूपेण सा ज्ञेया विदग्धैर्दारुणा जरा ॥ ५४ ॥ जो भार्या दुष्ट चरित्र सदा क्लेश करनेवाली हो पंडितोंको वह स्त्रीरूप दारुण बुढापा जानना ॥ ५४ ॥ तस्मात्सर्वप्रयत्नेन नामापि परिवर्जयेत् । स्त्रीणामिह हि सर्वासां य इच्छेत्सुखमात्मनः ॥ ५५ ॥ इस करण जो अपने सुखकी इच्छा करे वह स्त्रियोंके नामको भी त्याग- न करे ॥ ५५ ॥ यदन्तस्तन्न जिह्वायां यज्जिह्वायां न तद्बहिः । यद्धितं तन्न कुर्व्वन्ति विचित्रचरिताः स्त्रियः ॥ ५६ ॥
भाषाटीकासमेतम् । ( ४३७ ) जो मनमें है वह जिह्वा ( वचन )'मे नहीं, जो जिह्वामें वह बाहर नहीं, जो हित है उसके करनेकी इच्छा नहीं करती, स्त्रियें अद्भुत चरित्रवाली है ॥ ५६ ॥ के नाम न विनश्यन्ति मिथ्याज्ञानान्नितम्बिनीम् । रम्यां य उपसर्पन्ति दीपाभां शलभा यथा ॥ ५७ ॥ अज्ञानसे मनोहर नितम्बवाली स्त्रीके निकट जाकर कौन नष्ट नहीं होते हैं दीपकी ज्योतिको प्राप्त होकर पतंग जैसे नहीं बचते ॥ ५७ ॥ अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः । गुञ्जाफलसमाकाराः स्वभावादेव योषितः ॥ ५८ ॥ यह स्त्री भीतर विषरूप बाहरसे मनोहर हैं स्वभावसेही स्त्री चौंटलीके फलके आकारवाली हैं ॥ ५८ ॥ ताडिता अपि दण्डेन शस्त्रैरपि विखण्डिताः । न वशं योषितो यान्ति न दानैर्न च संस्तवैः ॥ ५९ ॥ दण्डसे ताडित और शस्त्रसे विखण्डित होकर तथा दान और स्तुतिसेभी स्त्री वशीभूत नहीं होती हैं ॥ ५९ ॥ आस्तां तावत्किमन्येन दौरात्म्येनेह योषिताम् । विधृतं स्वोदरेणापि घ्नन्ति पुत्रं स्वकं रुषा ॥ ६० ॥ स्त्रियोंकी और दुरात्मता इस संसारमे रहो अर्थात् अधिक क्या कहें यह क्रोधसे अपने उदरमें स्थित पुत्रकोभी मार देती हैं ॥ ६० ॥ रूक्षायां स्नेहसद्भावं कठोरायां सुमार्दवम् । नीरसायां रसं बालो बालिकायां विकल्पयेत् ॥ ६१ ॥” मूर्ख ( पुरुष ) रूखीमें प्रेम सद्भाव, कठोरमें मृदुता, नीरसमे रस इन बाला- ओंमें कल्पना करता है ॥ ६१ ॥ मकर आह,-“भो मित्र ! अस्तु एतत्, परं किं करोमि, मम अनर्थद्वयमेतत् सञ्जातम् । एकस्तावत् गृहभंगः, अपर- स्त्वद्विधेन मित्रेण सह चित्तविश्लेषः, अथवा भवति एवं दैवयोगात्, उक्तञ्च यतः- मकरने कहा,-“भो मित्र ! है तो ऐसाही परन्तु मैं क्या करू मुझको यह दो अनर्थ हुए । एक तो घरका नाश दूसरे तुम्हारी समान मित्रका वियोग । अथवा दैव योगसे ऐसा होता ही है । कहा है-
( ४३८ ) पञ्चतन्त्रम् ।
( ४३८ ) पञ्चतन्त्रम् । यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव । नाभूज्जारो न भर्त्ता च किं निरीक्षसि नग्निके ॥६२॥” जैसे मेरी पंडिताई है उससे दूनी तुम्हारी है केवल जार ( उपपति ) ही नहीं परंतु भर्ता भी नहीं हे वसनरहिते क्या देखती है ॥ ६२ ॥ ” वानर आह,-“कथमेतत् ?” मकरोऽब्रवीत्- वानर बोला,-“यह कैसी कथा ?” मकर बोला- कथा ९. कस्मिंश्चिदधिष्ठाने हालिकदम्पती प्रतिवसतः स्म । सा च हालिकभार्या पत्युर्वृद्धभावात् सदैव अन्यचित्ता न कथञ्चिद् गृहे स्थैर्यमालम्बते, केवलं परपुरुषान् अन्वेषमाणा परिभ्रमति । अथ केनचित् परवित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च,-“सुभगे ! मृतभार्योऽहम् । त्व- दर्शनेन स्मरपीडितश्च । तद्दीयतां मे रतिदक्षिणा,” ततः तयाभिहितं,-“भो सुभग ! यदि एवं तदस्ति मे पत्युः प्रभूतं धनं स च वृद्धत्वात् प्रचलितुमपि असमर्थः तत् । तद्धनमा- दाय अहमागच्छामि । येन त्वया सह अन्यत्र गत्वा यथे- च्छया रतिसुखमनुभविष्यामि” । सोऽब्रवीत्,-“रोचते मह्यमपि एतत् । प्रत्यूषेऽत्र स्थाने शीघ्रमेव समागन्तव्यं येन शुभतरं किञ्चित् नगरं गत्वा त्वया सह जीवलोकः सफली- क्रियते” । सापि तथेति प्रतिज्ञाय प्रहसितवदना स्वगृहं गत्वा रात्रौ प्रसुप्ते भर्त्तरि सर्वं वित्तमादाय प्रत्यूषसमये तत कथितस्थानमुपाद्रवत् । धूर्त्तोऽपि तामग्रे विधाय दक्षिणां दिशमाश्रित्य सत्वरगतिः प्रस्थितः । एवं तयोः व्रजतोः योजनद्वयमात्रेण अग्रतः काचित् नदी समुपस्थिता । तां दृष्ट्वा धूर्त्तः चिन्तयामास, “किं अहमनया यौवनप्रान्ते वर्त्त- मानया करिष्यामि । किंच कदापि अस्याः पृष्ठतः कोऽपि समेष्यति, तन्मे महान् अनर्थः स्यात् ! तत् केवलमस्या वित्तं आदाय गच्छामि” इति निश्चित्य तामुवाच,-“प्रिये !
भाषाटीकासमेतम्। (४३९) सुदुस्तरा इयं महानदी। तदहं द्रव्यमात्रं पारे धृत्वा समा- गच्छामि। ततः त्वां एकाकिनीं स्वपृष्ठमारोप्य सुखेन उत्ता- रयिष्यामि”। सा प्राह-“सुभग! एवं क्रियताम्” इत्युक्तवा अशेषं वित्तं तस्मै समर्पयामास। अथ तेन अभिहितं,-“भद्रे! परिधानाच्छादनवस्त्रमपि समर्पय, येन जलमध्ये निःशंका व्रजसि”। तथा अनुष्ठिते धूर्त्तो वित्तं वस्त्रयुगलंञ्च आदाय यथाचिन्तितविषयं गतः। सापि कण्ठनिवेशितहस्तयुगला सोद्वेगा नदीपुलिनदेशे उपविष्टा यावत् तिष्ठति, तावत् एत- स्मिन्नन्तरे काचित् शृगालिका मांसपिण्डगृहीतवदना तत्र आजगाम। आगत्य च यावत् पश्यति, तावत् नदीतीरे महान् मत्स्यः सलिलात् निष्क्रम्य बहिःस्थित आस्ते। एतञ्च दृष्ट्वा सा मांसपिण्डं समुत्सृज्य तं मत्स्यं प्रति उपाद्रवत्। अत्रा- न्तरे आकाशात् अवतीर्य्य कोऽपि गृध्रस्तं मांसपिण्डमादाय पुनः खमुत्पपात। मत्स्योऽपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश। सा शृगालिका व्यर्थश्रमा गृध्रं अवलोकयन्ती तया नग्नि- कया सस्मितं अभिहिता- किसी स्थानमें हालिक स्त्री पुरुष रहते थे। वह हालिककी स्त्री पतिके वृद्ध होनेसे सदा औरकी चिन्ता करती किसी प्रकारभी घरमें स्थिरताको प्राप्त न होती। केवल परपुरुषको खोज कर स्थित थी। तब किसी पराया धन हरने- वाले धूर्तने उसे देख कर एकान्तमें कहा-“सुभगे! मेरी स्त्री मरगई है। तेरे दर्शनसे मै कामसे पीडित हुआ हू। सो मुझे रति दक्षिणा दो”। तब उसने कहा-“भो सुभग! जो ऐसा है तो मेरे पतिके बहुत धन है वृद्ध होनेसे वह चलनेको समर्थ नहीं है। सो उसका धन लेकर मै आती हू। जो तुम्हारे साथ और स्थानमें जाकर रतिका सुख अनुभव करू”। उसने कहा-“यह बात मुझेभी भली लगती है। प्रातःकाल इस स्थानमें तुम शीघ्र आना जिससे अच्छे किसी नगरमें जाकर तुम्हारे सग जीवन सफल करू”। वहभी बहुत अच्छा ऐसी प्रतिज्ञा कर हँसकर अपने घर जाय रात्रिमें पतिके सोजा नेपर सब धनको लेकर कथित स्थानमें आई। धूर्तभी उसे आगे लेकर दक्षिण दिशाको आश्रय
( ४४० ) पञ्चतन्त्रम् ।
( ४४० ) पञ्चतन्त्रम् । कर शीघ्रगतिसे चला । इस प्रकार उन दोनोंके जानेपर दो योजन चलकर कोई नदी आई । उसे देखकर धूर्त विचारने लगा “यौवनके नष्ट होनेसे इसे लेकर मैं क्या करूंगा । और कदाचित इसके पीछे कोई आवेगा । तो मेरा महान् अनर्थ होगा । सो केवल इसका धनही लेकर जाऊं” ऐसा विचार निश्चय कर उससे बोला,-“प्रिये ! यह महानदी दुस्तर है । सो पहले पार धन रखकर पीछे लोटूं । फिर मैं तुझे इकलीको पीठपर चढाकर सुखसे पार उतार दूंगा” । वह बोली-“सुभग ! ऐसाही करो” । ऐसा कह सम्पूर्ण धन उसको अर्पण करती हुई । तब उसने कहा-“भद्रे ! पहननेके वस्त्रभी अर्पण करो जिससे जलके बीचमें निश्शंक चलेगी” । ऐसा कह वह धूर्त धन और दोनों वस्त्र ( लहंगा दुपट्टा ) लेकर यथाभिलषित स्थानको गया । वहभी अपने कंठमें दोनों हाथ डाले उद्वेगसे नदीके किनारे जबतक बैठी रही । तबतक उसी समय कोई गीदडी मुखमें मांसपिण्ड ग्रहण किये वहां आई । आकर जबतक देखने लगी तबतक नदीके किनारे महामच्छ जलसे निकलकर बाहर स्थित था । यह देख वह मांसपिंडको छोड़ उस मत्स्यके प्रति धावमान हुई इसी समय आकाशसे उतर कर कोई गिद्ध उस मांसपिंडको लेकर फिर आकाशको धावमान हुआ । मत्स्य भी शृगालिकाको देखकर जलमें प्रवेशकर गया तब वह शृगाली व्यर्थश्रम होकर गृध्रको देखने लगी इस समय नग्निकाने हँसकर कहा- गृध्रेणापहृतं मांसं मत्स्योऽपि सलिलं गतः । मत्स्यमांसपरिभ्रष्टे किं निरीक्षसि जम्बुके ॥ ६३ ॥ गृध्रने मांस हरण किया मत्स्य भी जलमें गया हे जम्बुके ! मत्स्य और मांससे भ्रष्ट होकर अब क्या देखती है ॥ ६३ ॥ तच्छ्रुत्वा शृगालिका तामपि पतिधनजारपरिभ्रष्टां दृष्ट्वा सोपहासमाह- यह सुनकर शृगालिकाने उस पति, धन और जारसे भ्रष्ट हुईको देखकर उपहाससे कहा- “यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव । माभूज्जारो न भर्त्ता च किं निरीक्षसि नग्निके ॥ ६४ ॥”
भाषाटीकासमेतम् । ( ४४१ ) जितना मेरा पांडित्य हे तेरा उससे दूना हे, हा जारभी गया और भर्ताभी नहीं हे नाग्निके ! क्या देखती है ? ॥ ६४ ॥” एवं तस्य कथयतः पुनरन्येन जलचरेण आगत्य निवे- दितम्-“यदहो ! त्वदीयं गृहमपि अपरेण महामकरेण गृही- तम्” । तत् श्रुत्वा असौ अतिदुःखितमनाः तं गृहात् निःसा- रयितुं उपायं चिन्तयन् उवाच,-“अहो ! पश्यतां मे दैवोप- हतत्वम् । इस प्रकार उसके कहनेपर फिर दूसरे जलचरने आकर कहा-“अहो ! तुम्हारा घरभी दूसरे महामकरने ग्रहण कर लिया”। उसे सुन यह दुःखीमनसे उसे घरसे निकालनेको उपाय विचारता हुआ बोला । मेरे प्रारब्धका घात तो देखो- मित्रं ह्यमित्रतां यातमपरं मे प्रिया मृता । गृहमन्येन च व्याप्तं किमद्यापि भविष्यति ॥ ६५ ॥ मित्र अमित्र हुआ और प्रिया मेरी मरगई घर दूसरेको प्राप्त हुआ अब क्या होगा ! ॥ ६५ ॥ अथवा युक्तमिदमुच्यते- अथवा यह युक्तही कहा है- क्षते प्रहारा निपतन्त्यभीक्ष्ण- मन्नक्षये वर्द्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति वामे विधौ सर्वमिदं नराणाम् ॥ ६६ ॥ घावके ऊपर वारवार प्रहार पडते हैं, अन्नके क्षयमें भूख बढती है आपदामें वैरी वढते हैं, विधाताके वाम होनेमें मनुष्योंको यह सब कुछ होता है ॥ ६६ ॥ तत् किं करोमि ! किमनेन सह युद्धं करोमि ? किंवा साम्ना एव सम्बोध्य गृहात् निःसारयामि । किंवा भेदं दानं वा करोमि ? अथवा अमुमेव वानरमित्रं पृच्छामि ? उक्तञ्च- सो क्या करूं ! क्या उसके साथ युद्ध करूं ? या साम उपायसे समझाकर घरसे निकालू ?। अथवा भेद वा धनसे सन्तुष्ट करूं ?। अथवा इस वानर मित्रसे ही पूछूं ? कहा है-
पृच्छत्,–“भो मित्र ! पश्य मे मन्दभाग्यताम् । यत् सम्प्रति
यः पृष्ट्वा कुरुते कार्य्यं प्रष्टव्यानस्वहितान्गुरून् । न तस्य जायते विघ्नः कस्मिंश्चिदपि कर्मणि ॥ ६७ ॥ जो अपने पूछनेमें योग्य हितकारी गुरुओंसे पूछकर कार्य करता है उसको किसी काममें विघ्न नहीं होता है ॥ ६७ ॥” एवं सम्प्रधार्य्य भूयोऽपि तमेव जम्बुवृक्षमारूढं कपिम- पृच्छत्,–“भो मित्र ! पश्य मे मन्दभाग्यताम् । यत् सम्प्रति गृहमपि मे बलवत्तरेण मकरेण रुद्धम् । तदहं त्वां प्रष्टुमभ्या- गतः । कथय किं करोमि ? । सामादीनाम् उपायानां मध्ये कस्य अत्र विषयः”। स आह–“भोः कृतघ्न ! पापचारिन् ! मया निषिद्धोऽपि किं भूयो मामनुसरसि, नाहं तव मूर्खस्य उपदेशमपि दास्यामि”। तच्छ्रुत्वा मकरः प्राह–“भो मित्र ! सापराधस्य मे पूर्वस्नेहमनुस्मृत्य हितोपदेशं देहि,” वानर आह–“न अहं ते कथयिष्यामि । यत् भार्य्यावाक्येन भवता अहं समुद्रे प्रक्षेप्तुं नीतः, तदेवं न युक्तं यद्यपि भार्य्या सर्व- लोकादपि वल्लभा भवति तथापि न मित्राणि बान्धवाश्च भार्य्यावाक्येन समुद्रे प्रक्षिप्यन्ते । तन्मूर्ख ! मूढत्वेन नाशः तव मया प्रागेव निवेदित आसीत् । यतः– ऐसा विचार फिर भी उस जामुनके वृक्षपर चढ़े वानरसे पूछने लगा--“भो मित्र ! मेरी मन्दभाग्यता तो देखो कि, इस समय घर भी मेरा बलवान् मकरने ग्रहण करलिया । सो मैं तुझसे पूछनेको आया हूं कह क्या करूं ? सामादि उपायोंमें इस समय कौन उचित है”। वह बोला,--“भो कृतघ्न पापिष्ठ ! मुझसे निषेधको प्राप्त हुआ भी फिर मुझसे क्यों पूछता है । मैं तुझ मूर्खको उपदेशभी नहीं दूंगा”। यह सुनकर मकर बोला,–“भो मित्र ! मैं अपराधीहूं पर मेरा पूर्वस्नेह स्मरण कर हितोपदेश दे”। वानरने कहा,–“मैं तुझसे नहीं कहूंगा । जो भार्यावाक्यसे तुम मुझे समुद्रमें डालनेको लेगये थे सो युक्त नहीं किया । यद्यपि भार्या सर्व लोकसे भी प्यारी होती है तथापि मित्र और बन्धु भार्याके वाक्यसे सागरमें नहीं डाले जाते हैं सो मूर्ख ! मूढ होनेसे तेरा नाश मैंने प्रथमही कह दियाथा। क्यों कि-
[page-header] भाषाटीकासमेतम्। (४४३) [/page-header]
सतां वचनमादिष्टं मदेन न करोति यः । स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥ ६८ ॥” जो मदसे सत्पुरुषोंके कहे वचन नहीं करता है वह घण्टा बन्धे ऊँटकी समान शीघ्र नाशको प्राप्त होता है ॥ ६८ ॥” मकर आह,-“कथमेतत् ?” सोऽब्रवीत्- मकर बोला,-“यह कैसे ?” वह बोला- कथा १०. कस्मिंश्चिदधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिव- सति स्म । स च अतीव दारिद्र्योपहतः चिन्तितवान्- “अहो ! धिक् इयं दरिद्रता अस्मद्गृहे । यतः सर्वोऽपि जनः स्वकर्मणि एव रतः तिष्ठति । अस्मदीयः पुनर्व्यापारो न अत्र अधिष्ठाने अर्हति । यतः सर्वलोकानां चिरन्तनाः चतु- र्भूमिका गृहाः सन्ति । मम च नात्र, तत् किं मदीयेन रथ- कारत्वेन प्रयोजनम्” इति चिन्तयित्वा देशात् निष्क्रान्तः । यावत् किञ्चित् वनं गच्छति तावत् गहराकारवनगहनमध्ये सूर्य्यास्तमनवेलायां स्वयूथाद् भ्रष्टां प्रसववेदनया पीड्यमा- नां उष्ट्रीमपश्यत, स च दासेरकयुक्तामुष्ट्रीं गृहीत्वा स्वस्था- नाभिमुखः प्रस्थितः । गृहमासाद्य रज्जुं गृहीत्वा तामुष्ट्रिकां बबन्ध । ततश्च तीक्ष्णं परशुमादाय तस्याः कृते पल्लवानय- नार्थं पर्वतैकदेशे गतः । तत्र च नूतनानि कोमलानि बहूनि पल्लवानि छित्वा शिरसि समारोप्य तस्या अग्रे निचिक्षेप । तया च तानि शनैः शनैः भक्षितानि । पश्चात् पल्लवभक्षण- प्रभावादहर्निशं पीवरतनुः उष्ट्री सञ्जाता । सोऽपि दासे- रको महान् उष्ट्रः सञ्जातः । ततः स नित्यमेव दुग्धं गृहीत्वा स्वकुटुम्बं परिपालयति । अथ रथकारेण वल्लभत्वात् दासे- रकग्रीवायां महती घण्टा प्रतिबद्धा । पश्चात् रथकारो व्य- चिन्तयत,-“अहो ! किमन्यैः दुष्कृतकर्मभिः यावत् मम