रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
एकादशः सर्गः ३६३
एकादशः सर्गः ३६३
अन्वयः—इत्यपास्तमखविघ्नयोः तयोः सायुगीनं विक्रमं अभिनन्द्य ऋत्विजः वाग्यतस्य कुलपतेः क्रियाः यथाक्रमं निरवर्तयन् ।
इतीति । इत्यपास्तमखविघ्नयोस्तयो राघवयोः संयुगे रणे साधुः सांयुगीनस्तम् । “प्रतिजनादिभ्यः खञ्” इति खञ्प्रत्ययः । 'सांयुगीनो रणे साधुः इत्यमरः । विक्रमं पौरुषमभिनन्द्य ऋत्विजो याजकाः । वाचि यतो वाग्यतो मौनी तस्य कुलपतेर्मुनिकुलेश्वरस्य क्रियाः क्रतुक्रिया यथाक्रमं निरवर्तयन्निष्पादितवन्तः ।
भाषार्थ—इस प्रकार यज्ञ के विघ्नों को दूर करनेवाले उन दोनों राम और लक्ष्मण की युद्धनिपुणता एवं पराक्रम को अभिनन्दित करके यज्ञकर्ताओं ने मौनी विश्वामित्र की क्रियाओं को क्रमशः पूर्ण किया ॥ ३० ॥
तौ प्रणामचलकाकपक्षकौ भ्रातराववभृथाप्लुतो मुनिः ।
आशिषामनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना ॥ ३१ ॥
अन्वयः—अवभृथाप्लुतः मुनिः प्रणामचलकाकपक्षको तौ भ्रातरौ आशिषां अनुपदं दर्भपाटिततलेन पाणिना समस्पृशत् ।
ताविति । अवभृथे दीक्षान्तः आप्लुतः स्नातो मुनिः । 'दीक्षान्तोऽवभृथो यज्ञे' इत्यमरः । प्रणामेन चलकाकपक्षको चञ्चलचूडौ तौ भ्रातरावाशिषामनुपदमन्वग्दर्भपाटितलेन कुशक्षतान्तःप्रदेशेन । पवित्रेणेत्यर्थः । पाणिना समस्पृशत्संस्पृष्टवान् । संतोषादिति भावः ।
भाषार्थ—यज्ञ के समाप्त हो जाने पर अवभृथ स्नान करके विश्वामित्र मुनि ने उन राम और लक्ष्मण को बड़ा आशीर्वाद दिया, जिनकी लटें प्रणाम करते समय लटक रही थीं । वे कुशाग्र से विद्ध अपनी हथेली को उनके सिर पर रखकर उन पर अपना बड़ा स्नेह कर रहे थे ॥ ३१ ॥
तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिथिलां व्रजन्वशी ।
राघवावपि निनाय बिभ्रतो तद्धनुःश्रवणजं कुतूहलम् ॥ ३२ ॥
अन्वयः—संभृतक्रतुः मैथिलः तं न्यमन्त्रयत वशी स मिथिलां व्रजन् तद्धनुःश्रवणजं कुतूहलं बिभ्रतौ राघवो अपि निनाय ।
तमिति । संभृतक्रतुः संकलितसंभारो मिथिलायां भवो मैथिलो जनकस्तं विश्वामित्रं न्यमन्त्रयताहूतवान् । वशी स मुनिर्मिथिलां जनकनगरीं व्रजंस्तस्य जनकस्य यद्धनुस्तच्छ्रवणजं कुतूहलं बिभ्रतौ राघवावपि निनाय नीतवान् ।
भाषार्थ—विवाह के लिए स्वयम्बर की तैयारी करके मिथिला नरेश जनक ने विश्वामित्रजी को भी निमन्त्रित किया, इसलिए मिथिला जाते हुए जितेन्द्रिय
३६४ , रघुवंशमहाकाव्ये
विश्वामित्रजी धनुषयज्ञ की बात सुनकर कौतूहलपूर्ण हृदयवाले उन दोनों रघुकुल बालकों को भी अपने साथ लेते गये ॥ ३२ ॥
तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत । येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥ ३३ ॥
अन्वयः— गताध्वभिः तैः सायं शिवेषु आश्रमतरुषु वसतिः अगृह्यत । येषु दीर्घतपसः परिग्रहः वासवक्षणकलत्रतां ययौ ।
तैरिति । गताध्वभिस्तैस्त्रिभिः सायं शिवेषु रम्येष्वाश्रमतरुषु वसतिः स्थानमगृह्यत । येष्वाश्रमतरुषु दीर्घतपसो गौतमस्य परिग्रहः । पत्नी । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । अहल्याेति यावत् । वासवस्येन्द्रस्य क्षणकलत्रतां ययौ ।
भाषार्थ-- कुछ दूर जाने पर सन्ध्या हो गई, इसलिए वे उस आश्रम के सुंदर वृक्षों के नीचे टिक गये, जहाँ महातपस्वी गौतम ऋषि की स्त्री अहल्या थोड़ी देर के लिए इन्द्र की पत्नी बन गई थी ॥ ३३ ॥
प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शिलामयी । स्वं वपुः स किल किल्बिषच्छिदां रामपादरजसामनुग्रहः ॥ ३४ ॥
अन्वयः— शिलामयी गौतमवधूः चारु स्वं वपुः चिराय पुनः प्रत्यपद्यत यत् स किल्बिषच्छिदां रामपादरजसां अनुग्रहः किल ।
प्रत्यपद्यतेति । शिलामयी भर्तृशापाच्छिलात्वं प्राप्ता गौतमवधूरहल्या चारु स्वं वपुश्चिराय पुनः प्रत्यपद्यत प्राप्तवती । यत् स किल्बषच्छिदां पापहारिणाम् । 'पापं किल्विषकल्मषम्' इत्यमरः । रामपादरजसामनुग्रहः किल । प्रसाद किलेति श्रूयते ।
भाषार्थ— अपने पति के शाप से पत्थर बनी हुई गौतम मुनि की स्त्री अहल्या ने इतने दिनों के बाद अपना सुन्दर शरीर पा लिया, वह पापों के नाशक राम के चरण की धूलि का प्रभाव था ॥ ३४ ॥
राघवान्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वरः । अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् ॥ ३५ ॥
अन्वयः— राघवान्वितं उपस्थितं तं मुनिं जनेश्वरः जनकः निशम्य अर्थ काम सहितं देहबद्धं धर्म इव सपर्यया अभ्यगात् ।
राघवेति । राघवाभ्यामन्वितं युक्तमुपस्थितमागतं तं मुनिं जनको जनेश्वरो निशम्य । अर्थकामाभ्यां सहितं देहबद्धं बद्धदेहं मूर्तिमन्तमित्यर्थः । वाहिताग्न्यादित्वात्साधुः । धर्ममिव सपर्ययाऽभ्यगात् प्रत्युद्गतवान् ।
भाषार्थ— राम ओर लक्ष्मण के साथ आये हुए विश्वामित्र जी को सुन कर
एकादशः सर्गः [३६५]
राजा जनक पूजा की सामग्री लेकर उनकी अगवानी करने के लिए चले। जनक जी को वे ऐसे मालूम पड़ते थे, मानों अर्थ और काम के साथ स्वयं धर्म ही आ गया है ॥ ३५ ॥
तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू ।
मन्यते स्म पिबतां विलोचनैः पक्षमपातमपि वञ्चनां मनः ॥ ३६ ॥
अन्वयः—दिवः गां गतौ पुनर्वसू इव तौ विलोचनैः पिवतां विदेहनगरी-निवासिनां मनः पक्षपातं अपि वंचनां मन्यते स्म ।
ताविति । दिवः सुरवर्त्मन आकाशात् । 'द्योः स्वर्गसुरवर्त्मनोः' इति विश्वः । गां भुवं गतौ 'स्वर्गेषु पशुवाग्वज्रदिङ्नेत्रघृणिभूर्जले । 'लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः' इत्यमरः । पुनर्वसू इव तन्नामकनक्षत्राधिदेवते इव स्थितौ । तौ राघवौ विलोचनैः पिबताम् । अतृप्त्यतया पश्यतामित्यर्थः । विदेहनगरी मिथिला तन्निवासिनां मनः कर्तृ पक्षमपातं निमेषमपि तद्दर्शनप्रतिबन्धकत्वा-द्वञ्चनां विडम्बनां मन्यते स्म मेने । "लट् स्मे" इति भूतार्थे लट् ।
भाषार्थ—वे दोनों राजकुमार ऐसे सुन्दर लग रहे थे, मानों दो पुनर्वसु नक्षत्र स्वर्ग से पृथ्वी पर उतर आये हों । जनकपुर के निवासी ऐसे आनन्दमग्न होकर उन्हें अपनी आँखों से देख रहे थे कि पलकों का गिरना भी उन्हें बड़ा अखरता था । अर्थात् उनकी यह धारणा हो गई थी कि यदि हम लोगों की आँखों की पलकें नहीं गिरतीं, तो हम लोग निर्निमेष नेत्र से इन्हें देखने रहते ॥ ३६ ॥
यूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्धनः ।
राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयाम्बभूव सः ॥ ३७ ॥
अन्वयः—यूपवति क्रियाविधौ अवसिते ( सति ) कालविद् कुशिकनन्दनः सः मुनिः रामं इष्वसनदर्शनोत्सुकं मैथिलाय कथयाम्बभूव ।
यूपेति । यूपवति क्रियाविधौ कर्मानुष्ठाने । क्रतावित्यर्थः । अवसिते समाप्ते सति कालविदवसरज्ञः कुशिकवंशवर्धनः स मुनी रामम् । अस्यतेऽनेनेत्यसनम् इषूणामसनमिष्वसनं चापं । तस्य दर्शन उत्सुकं मैथिलाय जनकाय कथयाम्बभूव कथितवान् ।
भाषार्थ—जब धनुष यज्ञ की सारी क्रियायें पूरी हो गईं तब ठीक समय समझ कर कुशिक मुनि के वंश की वृद्धि करनेवाले विश्वामित्र जी ने राजा जनकजी से कहा कि राम भी वह धनुष देखना चाहते हैं ॥ ३७ ॥
तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।
स्वं विचिन्त्य च धनुर्दुरामनं पीडितो दुहितृशुल्कसंस्थया ॥ ३८ ॥
३६६ रघुवंशमहाकाव्ये
अन्वयः — पार्थिवः प्रथितवंशजन्मनः शिशोः तस्य वपुः वीक्ष्य स्वं दुरानमम् धनुः विचिन्त्य च दुहितृशुल्कसंस्थया पीडितः ( अभूत् ) ।
तस्येति । पार्थिवो जनकः प्रथितवंशे जन्म यस्य तस्य तथोक्तस्य । एतेन वरसंपत्तिरुक्ता । शिशोस्तस्य रामस्य ललितं कोमलं वपुर्वीक्ष्य स्वं स्वकीयं दुरानममानमयितुमशक्यं नमेर्ण्यन्तात्खल् । धनुर्विचिन्त्य च दुहितृशुल्कं कन्यामूल्यं जामातृदेयम् । ‘शुल्कं घट्टादिदेये स्याज्जामातुर्बन्धकेऽपि च’ इति विश्वः । तस्य धनुर्भङ्गरूपस्य संस्थया स्थित्या । संस्था स्थितौ शरे नाशे’ इति विश्वः । पीडितो बाधितः शिशुना रामेण दुष्करमिति दुःखित इति भावः ।
भाषार्थ—जब जनकजी ने एक ओर प्रसिद्ध इक्ष्वाकु वंश में उत्पन्न हुए उस बालक रामचन्द्र के कोमल शरीर को देखा और दूसरी ओर अपने उस कठोर धनुष पर ध्यान दिया, जिसे बड़े-बड़े वीर भी नहीं नवा सके थे, तब उन्हें बड़ा पश्चात्ताप हुआ कि मैंने धनुष को तोड़ने वाले वीर के लिए सीता को देने की प्रतिज्ञा क्यों की ॥ ३८ ॥
अब्रवीच्च भगवन्मतङ्गजैर्यद्वृहद्भिरपि कर्म दुष्करम् ।
तन्न नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥ ३९ ॥
अन्वयः—(मुनिं) अब्रवीत् च हे भगवन् ! बृहद्भिः मतङ्गजैः अपि दुष्करं यत् कर्म तन्न कलभस्य मोघवृत्ति चेष्टितं अनुमन्तुं अहं न उत्सहे ।
अब्रवीदिति । अब्रवीच्च । मुनिमिति शेषः । किमिति ? हे भगवन्मुने ! बृहद्भिर्मतङ्गजैर्महागजैरपि दुष्करं यत्कर्म तन्न कर्मणि कलभस्य बालगजस्य । ‘कलभः करिशावकः’ इत्यमरः । मोघवृत्ति व्यर्थव्यापारं चेष्टितं साहगमनुमन्तुमहं नोत्सहे ।
भाषार्थ—राजा जनक विश्वामित्र से बोले कि हे भगवन् ! जो कार्य बड़े-बड़े मतवाले हाथी नहीं कर सकते हैं, उस कार्य को हाथी के बच्चे से कराना व्यर्थ का खिलवाड़ है, इसलिए मेरा मन नहीं चाहता कि इनसे धनुष उठवाया जाय ॥ ३९ ॥
ह्रेपिता हि बहवो नरेश्वरास्तेन तात ! धनुषा धनुर्भृतः ।
ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे ॥ ४० ॥
अन्वयः—हे तात ! तेन धनुषा बहवः नरेश्वराः ह्रेपिताः (ते) ज्याघातकठिनत्वचः स्वान् भुजान् धिक् इति विधूय प्रतस्थिरे ।
ह्रेपिता इति । हे तात ! तेन धनुषा बहवो धनुर्भृतो नरेश्वरा ह्रेपिता ह्रियं प्रापिता हि । जिह्रेतेर्धातोर्ण्यन्तात्कर्मणि क्तः । “अर्तिह्रीव्लिरीक्नूयीक्ष्माय्यांता
एकादशः सर्गः ३६७
एकादशः सर्गः ३६७
'पुङ्णो" इत्यनेन पुगागमः । ते नरेश्वरा ज्यानिघातैः कठिनत्वचः स्वान्भु- जान्धिगिति विधूयवमत्या प्रतस्थिरे प्रस्थिताः ।
भाषार्थ—हे महाराज ! इस धनुष ने अनेकों धनुर्धारी राजाओं को लज्जित कर दिया है और वे अपनी उन भुजाओं को धिक्कारते हुए चले गये, जिन पर धनुष की डोरी के निरन्तर आघात से बड़े-बड़े गट्टे पड़ गये हैं ॥ ४० ॥
प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथवा गिरा कृतम् ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥ ४१ ॥
अन्वयः—ऋषिः तं प्रत्युवाच अयं सारतः निशम्यतां अथवा गिरा कृतम् अशनिः गिरौ इव चापे एव भवतः व्यक्तशक्तिः भविष्यति ।
प्रतीति। ऋषिस्तं नृपं प्रत्युवाच । किमिति ? अयं रामः सारतो बलेन निशम्यतां श्रूयताम् । अथवा गिरा सारवर्णनया कृतमलम् । गीर्न वक्तव्येत्यर्थः । 'युगपर्याप्तयोः कृतम्' इत्यमरः । अव्ययं चैतत् । 'कृतं निवारणनिषेधयोः' इति गणव्याख्याने । गिरेति करणे तृतीया । निषेधक्रियां प्रति करणत्वात् । किंत्व- शनिर्वज्रो गिराविव चापे धनुष्येव भवतस्तव व्यक्तशक्तिर्दृष्टसारो भविष्यति ।
भाषार्थ—यह सुनकर विश्वामित्रजी राजा जनक से बोले कि हे राजन् ! इनकी शक्ति मैं आपको बतलाता हूँ, सुनिये, अथवा कहना व्यर्थ है, जिस प्रकार वज्र की शक्ति की परीक्षा पर्वत पर होती है, उसी प्रकार इनकी शक्ति की परीक्षा धनुष पर आपको स्पष्ट हो जायेगी ॥ ४१ ॥
एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे ।
श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥ ४२ ॥
अन्वयः—एवं आप्तवचनात् स काकपक्षकधरे अपि राघवे पौरुषं त्रिदशगोप- मात्रके कृष्णवर्त्मनि दाहशक्तिं इव श्रद्दधे ।
एवमिति। एवमाप्तस्य मुनेर्वचनात्स जनकः काकपक्षकधरे बालेऽपि राघवे पुरुषस्य कर्म पौरुषं पराक्रमम् । "हायनान्तयुवादिभ्योऽण्" इति युवादिवादण् । 'पौरुषं पुरुषस्योक्तंभावे कर्मणि तेजसि' इति विश्वः । त्रिदशगोप इन्द्रगोपकीटः प्रमाणमस्य त्रिदशगोपमात्रः । "प्रमाणे द्वयसज्दघ्नञ्मात्रचः" इत्यनेन मात्र- च्प्रत्ययः । ततः स्वार्थे कप्रत्ययः । तस्मिन्कृष्णवर्त्मनि वह्नौ दाहशक्तिमिव श्रद्दधे विश्वस्तवान् ।
भाषार्थ—इस प्रकार यथार्थ कहनेवाले विश्वामित्रजी के वचन से राजा जनक को कुछ-कुछ विश्वास होने लगा कि जिस प्रकार नन्हें से वीरबहूटी नामक बरसाती कीड़े के बराबर अग्नि में भी जलाने की शक्ति छिपी रहती है,
| ३६८ | रघुवंशमहाकाव्ये |
|---|
उसी प्रकार काकपक्षकधारी राम में भी धनुष उठाने की शक्ति अवश्य होगी । अर्थात् अत्यन्त थोड़ी आग में दाह शक्ति के समान राम में भी धनुष तोड़ने की शक्ति अवश्य होगी ॥ ४२ ॥
व्यादिदेश गणशोऽथ पार्श्वगान्कार्मुकाभिहरणाय मैथिलः ।
तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ॥ ४३ ॥
अन्वयः—अथ मैथिलः पार्श्वगान् कार्मुकाभिहरणाय सहस्रलोचनः तैजसस्य धनुषः प्रवृत्तये तोयदान् इव गणशः व्यादिदेश ।
व्यादिदेशेति। अथ मैथिलः पार्श्वगान्पुरुषान्कार्मुकाभिहरणाय कार्मुकमानेतुम् । "तुमर्थाच्च भाववचनात्" इति चतुर्थी । सहस्रलोचन इन्द्रस्तैजसस्य तेजोमयस्य धनुषः प्रवृत्तय अविर्भावाय तोयदान्मेघानिव गणशः गणान् । "संख्यैकवचनाच्च वीप्सायाम्" इति शस्प्रत्ययः । व्यादिदेश प्रजिघाय ।
भाषार्थ—इसके बाद मिथिला नरेश जनकजी ने पार्श्ववर्ती पुरुषों को धनुष को लाने के लिए उसी प्रकार भेजा, जिस प्रकार इन्द्र तेजोमय धनुष को प्रकट करने के लिए झुण्ड के झुण्ड मेघों को भेजते हैं ॥ ४३ ॥
तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः ।
विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजद्वृषध्वजः ॥ ४४ ॥
अन्वयः—दाशरथिः प्रसुप्तभुजगेन्द्रभीषणं तत् धनुः वीक्ष्य आददे । वृषध्वजः येन विद्रुतक्रतुमृगानुसारिणं बाणं असृजत् ।
तदिति । दाशरथी रामः प्रसुप्तभुजगेन्द्र इव भीषणं भयङ्करं तद्धनुर्वीक्ष्याददे जग्राह। वृषो ध्वजश्चिह्नं यस्य स शिवो येन धनुषा ऋतुरेव मृगः विद्रुतं पलायितं क्रतुमृगमनुसरति । ताच्छील्ये णिनिः । तं विद्रुतक्रतुमृगानुसारिणं बाणमसृजन्मुमोच ।
भाषार्थ—धनुष वहाँ लाया गया, वह ऐसा जान पड़ता था कि मानो कोई बड़ा भारी अजगर सोया हुआ हो । राम ने देखते-देखते शिवजी के उस धनुष को अनायास ही उठा लिया जिससे शिवजी ने मृगरूपधारी यज्ञ देवता के पीछे-पीछे दौड़ने वाले बाण को छोड़ा था ॥ ४४ ॥
आततज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षितः ।
शैलसारमपि नातियत्नतः पुष्पचापमिव पेशलं स्मरः ॥ ४५ ॥
अन्वयः—स संसदा विस्मयस्तिमितनेत्रम् ईक्षितः ( सन् ) शैलसारमपि स्मरः पेशलं पुष्पचापं नातियत्नतः आततज्यं अकरोत् ।
आततेति । स रामः संसदा सभया विस्मयेन स्तिमित नेत्रे यस्मिन्कर्मणि तद्यथा स्यात्तथेक्षितः सन् शैलस्येव सारो यस्य तच्छैलसारमपि धनुः स्मरः पेशलं कोमलं
एकादशः सर्गः ३६९
एकादशः सर्गः ३६९
पुष्पचापमिव नातियत्नतो नातियत्नात् । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । आततज्यमधिज्यम् । अकरोत् ।
भाषार्थ— सभा में स्थित समस्त सभासदों के द्वारा आश्चर्यपूर्वक निर्निमेष दृष्टि से देखे जाते हुए राम ने पर्वत के समान भारी उस धनुष पर वैसी ही सरलता से डोरी चढ़ा दी जैसे कामदेव अपने पुष्पों के कोमल धनुष पर अनायास डोरी चढ़ा देता है ॥ ४५ ॥
भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः।
भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत् ॥ ४६ ॥
अन्वयः— तेन अतिमात्रकर्षणात् भज्यमानं ( अत एव ) वज्रपरुषस्वनं धनुः दृढमन्यवे भार्गवाय क्षत्रं पुनः उद्यतं न्यवेदयत् ।
भज्यमानमिति । तेन रामेणातिमात्रकर्षणाद्भूज्यमानमत एव वज्रपरुषस्वनं वज्रमिव परुषः स्वनो यस्य तत् धनुः कर्तृ दृढमन्यवे दृढक्रोधाय । 'मन्युः क्रोधे क्रतौ दैन्ये' इति विश्वः । भार्गवाय क्षत्रं क्षत्रकुलं पुनरुद्यतमिति न्यवेदयदिव ज्ञापयामासेव ।
भाषार्थ— राम ने उस धनुष को इतना तान दिया कि वह वज्र के समान भयंकर शब्द करते हुए कड़कड़ाकर टूट गया, मानों उसने महाक्रोधी परशुराम को सूचना दे दी कि क्षत्रियों ने अब पुनः शिर उठाना आरम्भ कर दिया है ॥ ४६ ॥
दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिलः।
राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् ॥ ४७ ॥
अन्वयः— अथ मैथिलः रुद्रकार्मुके दृष्टसारं वीर्यशुल्कं अभिनन्द्य राघवाय अयोनिजां तनयां रूपिणीं श्रियं इव न्यवेदयत् ।
दृष्टेति । अथ मैथिलो जनको रुद्रकार्मुके शङ्करधनुषि दृष्टः सारः स्थिरांशो यस्य तद्दृष्टसारं विलोकितविक्रमम् । 'सारो बले स्थिरांशे च' इति विश्वः । वीर्यमेव शुल्कं धनुर्भङ्गरूपमित्यर्थः । अभिनन्द्य राघवाय रामायायोनिजां देवयजनसम्भवां तनयां सीतां रूपिणीं श्रियमिव साक्षाल्लक्ष्मीमिव न्यवेदयदर्पितवान् । वाचेति शेषः ।
भाषार्थ— इसके बाद जब मिथिला नरेश जनक जी ने देखा कि राम ने शिव-धनुष को तोड़कर अपना पराक्रम दिखला दिया, तब उन्होंने धनुर्भंग रूप पराक्रम मूल्य का अभिनन्दन करके पृथ्वी से उत्पन्न अपनी पुत्री सीताजी को इस प्रकार राम को सौंप दिया मानों साक्षात् अपनी लक्ष्मी उन्हें दे डाली हो ॥ ४७ ॥
२४ र० सम्प्र०
३७० | रघुवंशमहाकाव्ये
उक्तमेवार्थं सोपस्कारमाह— मैथिलः सपदि सत्यसंगरो राघवाय तनयामयोनिजाम् । संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् ॥ ४८ ॥
अन्वयः—सत्यसंगरः मैथिलः राघवाय अयोनिजां तनयां द्युतिमतः तपोनिधेः सन्निधौ अग्निसाक्षिकः सपदि अतिसृष्टवान् ।
मैथिल इति । सत्यसङ्गरः सत्यप्रतिज्ञः । ‘अथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः’ इत्यमरः । राघवायायोनिजां तनयां द्युतिमतस्तेजस्विनस्तपोनिधेः कौशिकस्य संनिधौ । अग्निः साक्षी यस्य सोऽग्निसाक्षिकः । “शेषाद्विभाषा” इति कप्प्रत्ययः । स इव सपद्यतिसृष्टवान्दत्तवान् ।
भाषार्थ—सत्यप्रतिज्ञा करनेवाले राजा जनक ने महातेजस्वी विश्वामित्र जी को ही विवाह का साक्षी अग्नि समझकर तत्काल उनके सम्मुख राम को सीता समर्पित कर दी ॥ ४८ ॥
प्राहिणोच्च महितं महाद्युतिः कोसलाधिपतये पुरोधसम् । भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलमिदं निमेरिति ॥ ४९ ॥
अन्वयः—महाद्युतिः महितं पुरोधसम् कोसलाधिपतये प्राहिणोत् इदं निमेः कुलं दुहितुः परिग्रहात् भृत्यभावि दिश्यताम् ।
प्राहिणोदिति । महाद्युतिर्जनको महितं पूजितं पुरोहितं कोसलाधिपतये दशरथाय प्राहिणोत्प्रहितवांश्च । किमिति निमिर्नाम जनकानां पूर्वजः कश्चित् इदं निमेः कुलं दुहितुः सीतायाः परिग्रहात्स्नुषात्वेन स्वीकाराद्धेतोः भृत्यस्य भावो भृत्यत्वं सोऽस्यास्तीति भृत्यभावि दिश्यतामनुमन्यतामिति त्वयेति शेषः ।
भाषार्थ—महातेजस्वी राजा जनक अपने पूज्य पुरोहित शतानंदजी से कोसलाधिपति राजा दशरथ के पास कहला भेजा कि मेरी पुत्री सीता को स्वीकार करके इस निमि कुल पर वैसी ही कृपा कीजिए जैसी आप अपने सेवकों पर करते हैं ॥ ४९ ॥
अन्विषेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः । सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्म काङ्क्षितम् ॥ ५० ॥
अन्वयः—सः च सदृशीं स्नुषां अन्विषेष अनुकूलवाक् द्विजः च एनं प्राप, हि कल्पवृक्षफलधर्मिसुकृतां काक्षितं सद्य एव पच्यते ।
अन्विषेषेति । स दशरथश्च सदृशीमनुरूपां स्नुषामन्विषेष । रामविवाहमाचकाङ्क्षेत्यर्थः । अनुकूलवाक्स्नुषासिद्धिरूपानुकूलार्थवादी द्विजो जनकपुरोधाः
एकादशः सर्गः ३७१
शतानन्दश्चैनं दशरथं प्राप । तथाहि कल्पवृक्षफलस्य यो धर्मः सद्यःपाकरूपः सोऽस्यास्तीति कल्पवृक्षफलधर्मा अतः सुकृतां पुण्यकारिणां कांक्षितं मनोरथः सद्य एव पच्यते हि । कर्मकर्तरि लट् । स्वयमेव पक्वं भवतीत्यर्थः । "कर्मवत्कर्मणा तुल्यक्रियः" इति कर्मवद्भावात् "भावकर्मणोः" इत्यात्मनेपदम् ।
भाषार्थ—उधर दशरथ जी यह विचार ही कर रहे थे कि योग्य पुत्रवधू हमारे घर में आवे, इतने में ही राजा जनक के पुरोहित शतानन्दजी इच्छानुकूल सन्देश लेकर उनके पास पहुँच गये । ठीक ही है पुण्यात्माओं की अभिलाषा कल्पवृक्ष के समान तत्काल फल देने वाली होती है ॥ ५० ॥
तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनमग्रजन्मनः ।
उच्चचाल बलभित्सखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥ ५१ ॥
अन्वयः—बलभित्सखः वशी कल्पितपुरस्क्रियाविधेः तस्य अग्रजन्मनः वचनं शुश्रुवान् सैन्यरेणुमुषितार्कदीधितिः ( सन् ) उच्चचाल ।
तस्येति । बलभित्सख इन्द्रसहचरो वशी स्वाधीनतावान् । 'वश आयत्ततायां च' इति विश्वः । कल्पितपुरस्क्रियाविधेः कृतपूजाविधेस्तस्याग्रजन्मनो द्विजस्य वचनं जनकेन संदिष्टं शुश्रुवान् श्रुतवान् । शृणोतेः क्वसुः । सैन्यरेणुमुषितार्कदीधितिः सन्नुच्चचाल प्रतस्थे ।
भाषार्थ—इन्द्र के मित्र जितेन्द्रिय राजा दशरथ ने राजा जनक के पुरोहित शतानन्दजी का बड़ा सत्कार किया और उस ब्राह्मण की बात सुन कर इतनी बड़ी सेना लेकर चल पड़े कि उसकी धूलि से सूर्य भी ढंक गये ॥ ५१ ॥
आससाद मिथिलां स वेष्टयन्पीडितोपवनपादपां बलैः ।
प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥ ५२ ॥
अन्वयः—सः बलैः पीडितोपवनपादपां मिथिलां वेष्टयन् आससाद सा पुरी स्त्री आयतं कान्तपरिभोगं इव प्रीतिरोधं असहिए ।
आससादेति । स दशरथो बलैः सैन्यैः पीडितोपवनपादपां मिथिलां वेष्टयन्परिधीकुर्वन् आससाद । सा पुरी स्त्री युवतिरायतमतिप्रसक्तं कान्तपरिभोगं प्रियसंभोगमिव प्रीत्या रोधं प्रीतिरोधमसहिष्ट सोढवती । द्वेषरोधं तु न सहति इति भावः ।
भाषार्थ—वे राजा दशरथ इस प्रकार मिथिला में पहुंच गये । मिथिला के उपवनों के वृक्षों को रौंदती हुई उनकी सेना ने चारो ओर से घेर लिया किन्तु इस प्रेम के घेरे को उस नगरी ने उसी प्रकार सहन किया जिस प्रकार कोई स्त्री अपने प्रियतम के कठोर सम्भोगको प्रेम पूर्वक सहन करती है ॥५२॥
३७२ रघुवंशमहाकाव्ये
तौ समेत्य समये स्थितावुभौ भूपती वरुणवासवोपमौ । कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥ ५३ ॥
अन्वयः—समये स्थितौ वरुणवासवोपमौ तौ उभौ भूपती समेत्य स्वप्रभाव- सदृशीं कन्यकातनयकौतुकक्रियां वितेनतुः ।
ताविति । समये शिष्टाचारे स्थितावाचारनिष्ठौ । 'समयाः शपथाचारकाल- सिद्धान्तसम्विदः' इत्यमरः । वरुणवासवावुपमोपमानं ययोस्तौ तथोक्तौ तावुभौ भूपती जनकदशरथौ समेत्य स्वप्रभावसदृशीमात्ममहिमानुरूपां कन्यकानां सीतादीनां तनयानां रामादीनां च कौतुकक्रियां विवाहोत्सवं वितेनतुर्विस्तृतवन्तौ । तनोतेर्लिट् ।
भाषार्थ—इन्द्र और वरुण के समान प्रतापी मर्यादापालक उन दोनों राजाओं ने परस्पर मिल कर शास्त्र की विधि से अपने ऐश्वर्य के अनुकूल अपने पुत्र और पुत्रियों का विवाह-संस्कार सम्पन्न किया ॥ ५३ ॥
पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् । यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥ ५४ ॥
अन्वयः—रघूद्वहः पार्थिवीं उदवहत् अथ लक्ष्मणः तदनुजां ऊर्मिलां (उद्वहत्) यौ वरौजसौ तयोः अवरजौ तौ कुशध्वजसुते (उदवहताम्) ।
पार्थिवीमिति । उद्वहतीत्युद्वहः । पचाद्यच् । रघूणामुद्वहो रघूद्वहो रामः पृथिव्या अपत्यं स्त्री पार्थिवी । “तस्यापत्यम्” इत्यणि “टिड्ढाणञ्०” इति ङीप् । तां सीतामुदवहत्परिणीतवान् । अथ लक्ष्मणस्तस्याः सीताया अनुजां जनकस्यौरसीमूर्गिलामुदवहत् । यौ वरौजसौ तयो रामलक्ष्मणयोरवरजावनुजातौ भरतशत्रुघ्नौ तौ सुमध्यमे कुशध्वजस्य जनकानुजस्य सुते कन्यके माण्डवीं श्रुत- कीर्ति चोदवहताम् । नात्र व्युत्क्रमविवाहदोषो भिन्नोदरत्वात् । तदुक्तम्— 'पितृव्यपुत्रे सापत्न्ये परनारीसुतेषु च । विवाहधानयज्ञादौ परिवेत्ताद्यदूषणम्' इति ।
भाषार्थ—रघुकुलतिलक श्रीराम का सीता के साथ और लक्ष्मण का सीता की छोटी बहन उर्मिला के साथ विवाह हुआ । उनके छोटे भाई भरत और शत्रुघ्न का विवाह क्रमशः जनकजी के छोटे भाई कुशध्वज की पुत्री माण्डवी और श्रुतकीर्ति के साथ हुआ ॥ ५४ ॥
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः । सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥ ५५ ॥
अन्वयः—ते चतुर्थसहिताः त्रयः सूनवः नववधूपरिग्रहः सिद्धिमन्तः तस्य भूपते. सामदानविधिभेदनिग्रहाः इव बभुः ।
एकादशः सर्गः ३७३
त इति । ते चतुर्थसहितास्त्रयः चत्वार इत्यर्थः । वृत्तानुसारादेवमुक्तम् । सूनवो नववधूपरिग्रहाः सिद्धिमन्तः फलसिद्धियुक्तास्तस्य भूपतेर्दशरथस्य सामदानविधिभेदनिग्रहाश्चत्वार उपाया इव वभुः । विधीयत इति विधिः दानमेव विधिः निग्रहो दण्डः सूनूनामुपायैर्वधूनां सिद्धिभिश्चौपम्यमित्यनुसन्धेयम् ।
भाषार्थ--वे चारो भाई उन नव-वधुओं को पाकर ऐसे सुशोभित हुए मानों उस राजा दशरथ के साम, दाम, दण्ड और भेद इन चारों उपायों को चार सिद्धियां मिल गई हों ॥ ५५ ॥
ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् ।
सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंन्निभः ॥ ५६ ॥
अन्वयः—ताः नराधिपसुताः नृपात्मजैः कृतार्थतां ते च ताभिः कृतार्थतां अगमन् सः वरवधूसमागमः प्रकृतिप्रत्ययोगसन्निभः अभवत् ।
ता इति । ता नराधिपसुता जनककन्यका नृपात्मजैर्दशरथपुत्रैः कृतार्थतां कुलशीलवयोरूपादिसाफल्यमगमन् । ते राघवाद्याश्च ताभिः सीताद्याभिस्तथा । किंच स वराणां वधूनां च समागमः प्रत्ययानां प्रकृतीनां च योग इव सन्निभातीति सन्निभः अभवत् पचाद्यच् । प्रत्ययाः सनादयो येभ्यो विधीयन्ते ताः प्रकृतयः । यथा प्रकृतिप्रत्यययोः सहैकार्थसाधनत्वं तद्वदत्रापीति भावः ।
भाषार्थ--उन चारों राजकुमारों को पाकर वे चारों राजकुमारियां और उन चार राजकुमारियों को पाकर वे चारों राजकुमार कृतकृत्य हो गये । उन वर और वधुओं का वह मिलन ऐसा हुआ जैसे शब्दों के मूल रूप में प्रत्यय अलग-अलग रहने पर किसी वाच्यार्थ को कहने में असमर्थ होने के कारण निरर्थक से जान पड़ते हैं और वे ही दोनों मिल कर पाठक शब्द बन कर पढ़ाने वाला इस अर्थ के वाचक होकर सार्थक हो जाते हैं उसी प्रकार उन वधूवरों का मिलन भी सार्थक हो गया ॥ ५६ ॥
एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः ।
अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥ ५७ ॥
अन्वयः—एवं आत्तरतिः सः दशरथः आत्मसंभवान् तत्र निवेश्य त्रिषु अध्वसु विसृष्ट मैथिलः ( सन् ) स्वां पुरीं न्यवर्तत ।
एवमिति । एवमात्तरतिरनुरागवान्स दशरथस्तांश्चतुरोऽप्यात्मसम्भवान्पुत्रांस्तत्र मिथिलायां निवेश्य विवाह्य । 'निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्तितः'
| ३०४ | रघुवंशमहाकाव्ये |
|---|
इति विश्वः । त्रिष्वह्वसु प्रयाणेषु सत्सु विसृष्टमैथिलः सन् स्वां पुरीं न्यवर्तत । उद्देशक्रियापेक्षया कर्मत्वं पुर्याः ।
**भावार्थ—**इस प्रकार प्रेमपूर्वक राजा दशरथ मिथिला में चारों पुत्रों का विवाह कर मार्ग में तीन दिन पड़ाव पड़ने के बाद राजा जनक को लौटा दिया और स्वयं बड़े प्रसन्न मन से अपनी नगरी अयोध्या की ओर बढ़े ॥५७॥
तस्य जातु मरुतः प्रतीपगा वर्त्मसु ध्वजतरुप्रमाथिनः ।
चिक्लेशुभृंशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥ ५८ ॥
**अन्वयः—**जातु वर्त्मसु ध्वजतरुप्रमाथिनः प्रतीपगा मरुतः उत्तटा नदीरयाः स्थलीं इव तस्य वरूथिनीं भृशतया चिक्लेशुः ।
तस्येति । जातु कदाचिद्वर्त्मसु ध्वजा एव तरवस्तान्प्रमथ्नन्ति ये ते ध्वजतरुप्रमाथिनः । प्रतीपगाः प्रतिकुलगामिनो मरुतः उत्तटा नदीरयाः स्थलीमकृत्रिमभूमिमिव । “जानपदकुण्ड०” इत्यादिना ङीप् । तस्य वरूथिनीं सेनां भृशतया भृशं चिक्लेशुः क्लिश्यन्ति स्म ।
**भावार्थ—**जिस प्रकार तट के ऊपर बहने वाली नदी की धारा आस-पास की भूमि को आप्लावित कर देती है उसी प्रकार मार्ग में सेना के ध्वजारूपी वृक्ष को झकझोरने वाले वायु ने एक दिन दशरथ की सेना को व्याकुल कर दिया ॥ ५८ ॥
लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डलः ।
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥ ५६ ॥
**अन्वयः—**तदनन्तरं बद्धभीमपरिवेषमण्डलः रविः वैनतेयशमितस्य भोगिन भोगवेष्टितः च्युतः मणिः इव लक्ष्यते स्म ।
लक्ष्यत इति । तदनन्तरं प्रतीपपवनान्तरं बद्धं भीमं बिभेत्यस्मादिति भीमं भयङ्करं परिवेषस्य परिधेर्मण्डलं यस्य सः । ‘परिवेषस्तु परिधिरुपसूर्यकमण्डले’ इत्यमरः । रविः वैनतेयशमितस्य गरुडहतस्य भोगिनः सर्पस्य भोगेन कायेन । ‘भोगः सुखं स्त्र्यादिभृतावहेश्च फणकाययोः’ इत्यमरः । वेष्टितश्च्युतः शिरोभ्रष्टो मणिरिव लक्ष्यते स्म ।
**भावार्थ—**इसके बाद सूर्य के चारों ओर एक बड़ा भारी मण्डल बन गया, वह ऐसा मालूम पड़ने लगा कि जैसे गरुड के द्वारा मारा गया कोई सांप अपने मस्तक से गिरे हुए मणि के चारों ओर कुण्डली मार कर पड़ा हुआ हो ॥५९॥
श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः ।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥ ६० ॥
एकादशः सर्गः ३७५
अन्वयः—श्येनपक्षपरिधूसरालकाः सान्ध्यमेघरुधिरार्द्रवाससः दिशः रजस्वला अङ्गनाः इव भव अवलोकनक्षमा नो।
श्येनेति। श्येनपक्षा एव परिधूसरा अलका यासां तास्तथोक्ताः सांध्यमेघा एव रुधिरार्द्राणि वासांसि यासां तास्तथोक्ताः। रजो धूलिरासामस्तीति रजस्वलाः। “रजःकृष्यासुतिपरिषदो वलच्” इति वलच्प्रत्ययः। दिशः रजस्वला ऋतुमत्योऽङ्गना इव। 'स्याद्रजः पुष्पमार्तवम् इत्यमरः। अवलोकनक्षमा दर्शनार्हा नो बभूवुः। एकत्र दृष्टिदोषात्परत्र शास्त्रदोषादिति विज्ञेयम्। अत्र रजोवृष्टिरुत्पातं उक्तः।
भाषार्थ—बाज पक्षी पंख रूपी धूसरकेशवाली और सन्ध्याकालीन लाल मेघ रूप से भींगे हुये वस्त्रवाली दिशाएँ उस रजस्वला स्त्री के समान देखने में अशक्य हो गई जिसके शस्र बाज के पंख के समान धूसर और सायंकाल के मेघ के समान रक्त से भींगे हुए हों। धर्मशास्त्रों में रजस्वला स्त्री को देखने का निषेध किया गया है॥ ६०॥
भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववांसिरे।
क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः॥ ६१॥
अन्वयः—भास्करः यां दिशं अध्युवास तां श्रिताः शिवाः क्षत्रशोणितपितृक्रियोचितं भार्गवं चोदयन्त्य इव प्रतिभयं ववांसिरे।
भास्कर इति। भास्करो यां दिशमध्युवास च यस्यां दिश्युषितः। “उपान्वध्याङ्वसः” इति कर्मत्वम्। तां दिशं श्रिताः शिवा गोमायवः। 'स्त्रियां शिवा भूरिमायुगोमायुमृगधूर्तकाः' इत्यमरः। क्षत्रशोणितेन या पितृक्रिया पितृतर्पणं तत्रोचितं परिचितं भार्गवं चोदयन्त्य इव प्रतिभयं भयङ्करं ववांसिरे रुरुवुः 'वासृ शब्दे' इति धातोर्लिट्। 'तिरश्चां वासितं रुतम्' इत्यमरः।
भाषार्थ—जिस दिशा में सूर्य वर्तमान थे उस दिशा में सियारिन भयानक रूप से रोने लगी मानों क्षत्रियां रुधिर से अपने पिता का तर्पण करने वाले परशुराम को पुकार रही हों॥ ६१॥
तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित्।
अन्वयुङ्क्त गुरुमीश्वरः क्षितेः स्वान्तमित्यलघयत्त तद्व्यथाम्॥ ६२॥
अन्वयः——तत्प्रतीपपवनादि कृतम् प्रेक्ष्य कृत्यवित् क्षितेः ईश्वरः शान्ति अधिकृत्य गुरुं अन्वयुंक्त सः स्वान्तं तद्व्यथां अलघयत्।
तदिति। तत्प्रतीपपवनादि वैकृतं दुनिमित्तं प्रेक्ष्य कृत्यवित्कार्यज्ञः क्षितेरीश्वरः शान्तिममर्थनिवृत्तिमधिकृत्योद्दिश्य गुरुं वसिष्ठमन्वयुङ्क्ताऽपृच्छत्। 'प्रश्नो-
३७६ रघुवंशमहाकाव्ये
ऽनुयोगः पृच्छा च' इत्यमरः। स गुरुः स्वान्तं शुभोदर्कं भावीति तस्य राज्ञो व्यथामलघयल्लघूकृतवान्।
भाषार्थ—उस प्रतिकूल हवा आदि से अपशकुन होते देखकर कार्यज्ञ राजा दशरथजी ने उसकी शान्ति के लिए अपने गुरु वसिष्ठजी से पूछा, उसपर उन्होंने कहा कि चिन्ता की कोई बात नहीं, इसका फल अच्छा होगा, यह सुनकर दशरथजी का कष्ट कुछ हलका हुआ ॥ ६२ ॥
तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे।
यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात् ॥ ६३ ॥
अन्वयः—सपदि उत्थितः तेजसः राशिः वाहिनीमुखे प्रादुरास किल यः सैनिकैः नयनानि प्रमृज्य चिरात् लक्षणीयपुरुषाकृतिः।
तेजस इति। सपद्युत्थितस्तेजसो राशिर्वाहिनीमुखे सेनाग्रे प्रादुरास किल खलु। यः सैनिकैर्नयनानि प्रमृज्य चिराल्लक्षणीया भावनीया पुरुषाकृतिर्यस्य स तथोक्तः। अभूदिति शेषः।
भाषार्थ—तत्काल सेना के सामने एक ऐसा प्रकाशमान पुञ्ज दिखाई पड़ा जिससे सैनिकों की आंखे चौंधिया गईं, जब उन्होंने आँखें मलकर देखा तब वह प्रकाशपुञ्ज एक पुरुष के रूप में दिखाई दिया ॥ ६३ ॥
पित्र्यमंशमुपवीतलक्षणं मातृकं धनुरूर्जितं दधत्।
यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥ ६४ ॥
अन्वयः—उपवीतलक्षणं पित्र्यं अंशं धनुरूर्जितं मातृकं अंशं च दधत् यः ससोम घर्मदीधितिः इव सद्विजिह्वः चन्दनद्रुमं इव स्थितः।
पित्र्यमिति। उपवीतं लक्षणं चिह्नं यस्य तम्। पितुरयं पित्र्यः। "वाय्वृतु-पितृषसो यत्" 'पितुर्यञ्च' इति यत्प्रत्ययः। तमंशं धनुषोर्जितं धनुरूर्जितं मातुरयं मातृकः। 'ऋतष्ठञ्" इति ठञ्प्रत्ययः। तमंशं च दधद्यो भार्गवः ससोमश्चन्द्रयुक्तो घर्मदीधितिः सूर्य इव सद्विजिह्वः ससर्पश्चन्दनद्रुम इव स्थितः।
भाषार्थ—उस तेजस्वी पुरुष के शरीर पर ब्राह्मण पिता के अंश का सूचक यज्ञोपवीत शोभा दे रहा था और कन्धे पर क्षत्रिय माता का अंश सूचित करने वाला धनुष लटक रहा था। इस वेश में वे ऐसे जान पड़ते थे मानो सूर्य के साथ चन्द्रमा हो अथवा चन्दन के वृक्ष में सांप लिपटे हों ॥ ६४ ॥
येन रोषपरुषात्मनः पितुः शासने स्थितिविदोऽपि तस्थुषा।
वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही ॥ ६५ ॥
एकादशः सर्गः ३७७
एकादशः सर्गः ३७७
अन्वयः—रोषपरुषात्मनः स्थितिभिदः अपि पितुः शासने तस्थुषा वेपमान-जननी शिरश्छिदा येन प्राक् घृणा अजीयत ।
येनेति। रोषपरुषः रोषेण क्रोधेन परुषः निष्ठुरः आत्मा बुद्धिर्यस्य सः । ‘आत्मा जीवो धृतिर्बुद्धिः’ इत्यमरः। तस्य रोषपरुषात्मनः स्थितिभिदोऽपि मर्यादालङ्घिनोऽपि पितुः शासने तस्थुषा स्थितेन वेपमानजननीशिरश्छिदा येन प्राग्घृणाऽजीयत ततोऽन्तरं मह्यजीयत। मातृहन्तुः क्षत्रवधात्कुतो जुगुप्सेति भावः ।
भाषार्थ—जिन्होंने क्रोध से कठोरहृदय एवं उचित अनुचित का विचार छोड़ देनेवाले अपने पिता जमदग्नि की आज्ञा मानकर कांपती हुई अपनी माता रेणुका का सिर जिस समय काट लिया उस समय उन्होंने पहले घृणा का त्याग किया था, बाद में पृथ्वी का त्याग किया ॥ ६५ ॥
अक्षबीजवलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः ।
क्षत्रियान्तकरणैकविंशतेर्व्याजपूर्वगणनामिबोद्वहन् ॥ ६६ ॥
अन्वयः--यः दक्षिणश्रवणसंस्थितेन अक्षबीजवलयेन क्षत्रियान्तकरणैकविंशतेः व्याजपूर्व गणनाम् उद्वहन् इव निर्बभौ।
अक्षेति। यो भार्गवो दक्षिणश्रवणे अपसव्यकर्णे संस्थितेन निक्षिप्तेनाक्षबीजवलयेनाक्षमालया क्षत्रियान्तरकरणानां क्षत्रियवधानामेकविंशतेरेकविंशतिसंख्याया व्याजोऽक्षमालारूपः पूर्वो यस्यास्तां गणनामुद्वहन्निव निर्बभौ।
भाषार्थ—उनके दाहिने कान पर २१ दाने वाली रुद्राक्ष की माला लटक रही थी मानों वह २१ बार क्षत्रियों के नाश करने की गिनती करनं लिए ही उन्होने पहन रखी हो ॥ ६६ ॥
तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् ।
बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ॥ ६७ ॥
अन्वयः--पितुः वधभवेन मन्युना राजवंशनिधनाय दीक्षितं तं भार्गवं स्वां दशां च अवलोक्य बालसूनुः पार्थिवः विषसाद ।
तमिति। पितुर्जमदग्नेर्वधभवेन क्षत्रियकर्तृकवधोद्भूवेन मन्युना कोपेन राजवंशानों क्षत्रियवंशानां निधनाय नाशार्थम् । ‘निधनं स्यात्कुले नाशे’ इति विश्वः। दीक्षितं प्रवृत्तमित्यर्थः । तं भार्गवं स्वां दशां चावलोक्य बालाः सूनवो तस्य स पार्थिवो विषसाद । स्वस्यातिदौर्बल्याच्छत्रोश्चातिक्रोधात्कान्दिशीकोभयद्रुतोऽभवदित्यर्थः ।
भाषार्थ—जब दशरथ जी ने उन परशुराम जी को देखा जिन्होंने अपने पिता जमदग्नि के वध से उत्पन्न क्रोध से क्षत्रियों का नाश करने की प्रतिज्ञा
३७८ | रघुवंशमहाकाव्ये
कर ली थी तब राजा दशरथ को अपनी दशा देखकर बड़ी चिन्ता हुई, क्योंकि उनके पुत्र अभी बच्चे थे ॥ ६७ ॥
नाम राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे ।
हृद्यमस्य भयदायि चाभवद्रत्नजातमिव हारसर्पयोः ॥ ६८ ॥
अन्वयः—आत्मजे दारुणे अहिते च तुल्यं राम इति नाम हारसर्पयोः रत्नजातं इव अस्य हृद्यं भयदायि च अभवत् ।
नामेति । आत्मजे पुत्रे दारुणे घोरेऽहिते शत्रौ च तुल्यमविशेषेण वर्तमानं राम इति नाम हारसर्पयोर्वर्तमानं रत्नजातं रत्नजातिरिव । 'जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता' इत्यमरः । अस्य दशरथस्य हृद्यं हृदयङ्गमं भयदायि भयङ्करं चाऽभवत् ।
भाषार्थ—राजा दशरथ के पुत्र और परशुराम दोनों में रामनाम था इस लिए जिस प्रकार गले के हार एवं सर्प दोनों में वर्तमान मणि आनन्द भी देता है और भय भी उपस्थित करता है उसी प्रकार अपने पुत्र राम और शत्रु परशुराम दोनों में आये रामनाम से उन्हें भय भी हुआ और आनन्द भी ॥ ६८ ॥
अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः ।
क्षत्रकोपदहनाऽर्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥ ६९ ॥
अन्वयः—सः अर्घ्यं अर्घ्यं इति वादिनं नृपं अनवेक्ष्य यतः भरताग्रजः ततः क्षत्रकोपदहनाऽर्चिषं उदग्रतारकां दृशं सन्दधे ।
अर्घ्यमिति । स भार्गवः अर्घ्यमर्घ्यमिति वादिनं नृपमनवेक्ष्य यतो यत्र भरताग्रजस्ततस्तत्र । “इतराभ्योऽपि दृश्यन्ते” इति सार्वविभक्तिकस्तसिः । क्षत्रे क्षत्रकुले विषये यः कोपदहनो रोषाग्निस्तस्यार्चिषं ज्वालामिव स्थिताम् । 'ज्वालाभासोर्नपुंस्यर्चिः' इत्यमरः । उदग्रा तारका कनीनिका यस्यास्ताम् । 'तारकाक्षणः कनीनिका' इत्यमरः । दृशं संदधे ।
भाषार्थ—परशुरामजी के भय के कारण शीघ्रता से अर्घ्य ग्रहण कीजिए अर्घ्य ग्रहण कीजिए इस प्रकार कहनेवाले राजा दशरथ की ओर ध्यान न देकर जिधर रामजी थे उधर ही दृष्टि देकर क्रोध से चिनगारी के समान लाल हुई टेढ़ी आंखों से राम को देखने लगे ॥ ६९ ॥
तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः ।
अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥ ७० ॥
अन्वयः—कार्मुकनिषक्तमुष्टिना शरं अंगुलीविवरचारिणं कुर्वता युयुत्सुना तेन विगतभीः पुरोगतः राघवः निजगदे ।
एकादशः सर्ग | ३७६
तेनेति। कार्मुकनिषक्तमुष्टिना शरमङ्गुलीविवरचारिणं कुर्वता युयुत्सुना योद्धुमिच्छता तेन भार्गवेण कर्त्रा विगतभीर्निर्भीकः सन् पुरोगतोऽग्रतो राघवो निजगद उक्तः। कर्मणि लिट्।
**भाषार्थ—**मुट्ठी में धनुष को पकड़कर अंगुलियों में बाण चढ़ाते हुए युद्धाभिलाषी परशुराम ने अपने आगे निर्भय होकर खड़े हुए राम से कहा॥ ७०॥
क्षत्रजातमपकारवैरि मे तन्निहत्य बहुशः शमं गतः।
सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवात्॥ ७१॥
**अन्वयः—**क्षत्रजातम् अपकारवैरि तत् बहुशः निहत्य समं गतः सुप्तसर्पः दण्डघट्टनात् इव तव विक्रमश्रवात् रोषितः अस्ति।
क्षत्रेति। क्षत्रजातं क्षत्रजातिर्मेऽपकारेण पितृवधरूपेण वैरि द्वेषि। तत्क्षत्रजातं बहुश एकविंशतिवारान्निहत्य शमं गतोऽस्मि। तथापि सुप्तसर्पो दण्डघट्टनात् यष्टिप्रहरणादिव तव विक्रमस्य श्रवादाकर्णनाद्रोषितो रोषं प्रापितोऽस्मि।
**भाषार्थ—**मेरे पिता के वध करने के कारण क्षत्रिय जाति मेरा शत्रु है। इसलिए २१ बार उसको मारकर मुझे कुछ शांति मिली थी, किन्तु जिस प्रकार डण्डे से छेड़ देने से सांप फुफकार उठता है उसी प्रकार तुम्हारा पराक्रम सुनकर मैं क्रोधित हो गया हूँ॥ ७१॥
मैथिलस्य धनुरन्यपार्थिवैस्त्वं किल़ानमितपूर्वमक्ष्णोः।
तन्निशम्य भवता समर्थये वीर्यशृङ्गमिव भग्नमात्मनः॥ ७२॥
**अन्वयः—**पार्थिवैः अनमितपूर्वं मैथिलस्य धनुः त्वं अक्ष्णोः किल तत् भग्नं निशम्य भवता आत्मनः वीर्यं (भग्नं) समर्थये।
मैथिलस्येति। अन्यैः पार्थिवैः अनमितपूर्वं पूर्वमनमितं सुप्सुपेति समासः। अस्य मैथिलस्य धनुस्त्वमक्ष्णोः क्षतवान्। किलेति वार्तायाम्। 'वार्तासंभाव्ययोः किल' इत्यमरः। तद्धनुर्भग्नं निशम्याकर्ण्य भवतात्मनो मम वीर्यमेव शृङ्गं भग्नमिव समर्थये मन्ये।
**भाषार्थ—**मिथिला नरेश जनक के जिस धनुष को कोई भी वीर नहीं नवा सका उसी को तूने तोड़ दिया है। यह सुनकर मैं समझता हूँ कि मेरे पराक्रम रूप सींग को तुमने तोड़ा है॥ ७२॥
अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मामगात्।
व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि॥ ७३॥
३८० रघुवंशमहाकाव्ये
**अन्वयः—**अन्यदा जगति राम इति अयं शब्दः उच्चरितः (सन्) माम् एव अगात् सम्प्रति त्वयि उदयोन्मुखे व्यस्तवृत्तिः सः मे व्रीडं आवहति ।
अन्यदेति । अन्यदाऽन्यस्मिन्काले जगति राम इत्ययं शब्द उच्चरितः सन्मामेवागात् अगमत् । संप्रति त्वय्युदयोन्मुखे सति व्यस्तवृत्तिर्विपरीतवृत्तिः अन्यगामीति यावत् । स शब्दो मे व्रीडमावहति लज्जां करोति ।
**भाषार्थ—**पहले संसार में 'राम कहने से लोग मुझे ही समझते थे, परन्तु तुम ज्यों-ज्यों आगे बढ़ते चले जा रहे हो त्यों-त्यों वह अर्थ तुम्हारे नाम के साथ लगता जा रहा है। यह देखकर मुझे लज्जा लग रही है ॥ ७३ ॥
बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ ।
धेनुवत्सहरणाच्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतः ॥ ७४ ॥
**अन्वयः—**अचले अपि अकुण्ठितं शस्त्रं बिभ्रतः मम द्वौ समागसौ रिपू मतौ धेनुवत्सहरणात् हैहयः च कीर्तिमपहर्तुं उद्यतः त्वं च ।
बिभ्रत इति । अचले क्रौञ्चादावप्यकुण्ठितमस्त्रं बिभ्रतो मम द्वौ समागसौ तुल्यापराधौ रिपू मतौ । 'आगोऽपराधो मन्तुश्च' इत्यमरः । धेनोः पितुर्होमधेनोर्वत्सस्य हरणाद्धेतोर्हैहयः कार्तवीर्य कीर्तिमपहर्तुमुद्यत उद्युक्तस्त्वं च । वत्सहरणे भारतश्लोकः— 'प्रमत्तश्चाश्व मात्तस्य होमधेन्वास्ततो बलात् । जहार वत्सं क्रोशन्त्या वभञ्ज च महाद्रुमाम् ॥ इति' ॥
**भाषार्थ—**क्रौंच पर्वत पर टकराकर भी कुण्ठित नहीं होनेवाले परशु को धारण करने वाले मेरे समान अपराध करनेवाले आज तक दो ही शत्रु हुए हैं उनमें पहला था सहस्रार्जुन जो मेरे पिता से कामधेनु गौ और बछड़ा छीनकर ले गया था और दूसरे हो तुम जो मेरी कीर्ति हरण करने के लिए कमर कसे बैठे हो ॥ ७४ ॥
क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि ।
पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः ॥ ७५ ॥
**अन्वयः—**तेन क्षत्रियान्तकरणः अपि विक्रमः त्वयि अजिते माम् न अवति पावकस्य महिमा सः गण्यते यः कक्षवत् सागरे अपि ज्वलति ।
क्षत्रियेति । तेन कारणेन क्रियते येनासौ करणः क्षत्रियान्तस्य करणोऽपि विक्रमः त्वय्यजिते मां नावति न प्रीणाति । तथाहि पावकस्याग्नेर्महिमा स गण्यते यः कक्षवत्कक्ष इव । "तत्र तस्येव" इति सप्तम्यर्थे वतिः सागरेऽपि ज्वलति ।
**भाषार्थ—**इसलिए २१ बार क्षत्रियों का अन्त करनेवाला भी मेरा पराक्रम
एकादशः सर्गः ३८१
तब तक मुझे अच्छा नहीं लगता जब तक तुझे मैं जीत न लूँ। क्योंकि अग्नि का प्रताप तभी प्रशंसनीय है जब वह समुद्र में भी वैसे ही भड़ककर जले जैसे सूखी घास के ढेर में जलता है ॥ ७५ ॥
विद्धि चात्तबलमोजसा हरेरैश्वरं धनुरभाजि यत्त्वया ।
खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् ॥ ७६ ॥
**अन्वयः—**ऐश्वरं धनुं हरेः ओजसा आत्तबलं च विद्धि तत् त्वया अभाजि नदीरयैः खातमूलं तटद्रुमं मृदुः अपि अनिलः पातयति ।
विद्धीति । किंच ऐश्वरं धनुर्हरेर्विष्णोरोजसा बलेनात्तबलं हृतसारं च विद्धि यद्धनुस्त्वयाऽभाज्यभंक्षि । "भञ्जेश्च ण्विचि" इति विभाषया नलोपः । तथाहि नदीरयैः खातमूलमवदारितपादं तटद्रुमं मृदुरप्यनिलः पातयति । ततः शिशुरपि रौद्रं धनुरभाङ्क्षमिति मा गर्वीरिति भावः ।
**भाषार्थ—**शिवजी के जिस धनुष को तोड़कर तुम ऐंठ रहे हो उसकी शक्ति तो विष्णु ने पहले ही हर ली है। इसलिए उसे तोड़कर तुमने कोई वीरता का काम नहीं किया है, क्योंकि जिस वृक्ष की जड़ को नदी की प्रचण्ड धारा ने पहले ही खोखली कर दी हो उसे वायु के झोंके से ढहजाने में क्या देर लगती है ॥ ७६ ॥
तन्मदीयमिदमायुधं ज्यया सङ्गमय्य सशरं विकृष्यताम् ।
तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥ ७७ ॥
**अन्वयः—**तत् मदीयं इदं आयुधं ज्यया संगमय्य सशरं विकृष्यतां प्रधनं तिष्ठतु एवमपि अहं तुल्यबाहुः तरसा त्वया जितः ।
तदिति । तत्तस्मान्मदीयमिदमायुधं कार्मुकं ज्यया सङ्गमय्य संयोज्य "ल्यपि लघुपूर्वात्" इति णेरयादेशः । सशरं यथा तथा त्वया विकृष्यताम् । प्रधनं रणस्तिष्ठतु । प्रधनं तावदास्तामित्यर्थः । 'प्रधनं मारणे रणे' इति विश्वः । एवमपि मद्धनुःकर्षणेऽप्यहं तुल्यबाहुतरसा समबाहुबलेन । 'रंहस्तरसी तु रयः स्यदः' इत्यमरः । त्वया जितः ।
**भाषार्थ—**देखो राम ! युद्ध तो पीछे होगा, पहले तुम मेरे इस धनुष पर डोरी चढ़ाकर इसे बाण के साथ खींचो तो सही, यदि तुम इतना भी कर लोगे तो मैं समझूंगा कि तुम मेरे ही समान बलवान् हो और मैं इतने से ही अपनी हार मानकर लौट जाऊंगा ॥ ७७ ॥
कातरोऽसि यदि वोद्गताचिषा तर्जिताः परशुधारया मम ।
ज्यानिघातकठिनाङ्गुलिवृत्तया बध्यतामभययाचनाञ्जलिः ॥ ७८ ॥
३८२ रघुवंशमहाकाव्ये
अन्वयः—यदि वा उद्गतार्चिषा मम परशुधारया तर्जितः कातरः असि वृथा ज्यानिघातकठिनांगुलिः अभययाचनाञ्जलिः बध्यताम् ।
कातर इति । यदि वोद्गतार्चिषोद्गतत्विषा मम परशुधारया तर्जितः कातरोऽसि भीतोऽसि । वृथा ज्यानिघातेन मौर्वीसङ्घट्टनेन कठिना अङ्गुलयो यस्य स तथोक्तोऽभययाचनाञ्जलिरभयप्रार्थनाञ्जलिवर्द्धयताम् । 'तौ युतावञ्जलिः पुमान्' इत्यमरः ।
भावार्थ—यदि तुम मेरे फरसे की चमकती हुई धार को देखकर डर गये हो तो अपने उन हाथों को जोड़कर अभय की भिक्षा मांग लो जिनकी अङ्गुलियों में धनुष की डोरी की फटकार से व्यर्थ के घट्टे पड़ गये हैं ॥ ७८ ॥
एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः ।
तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥ ७९ ॥
अन्वयः—भीमदर्शने भार्गवे एवं उक्तवति (सति) राघवः स्मितविकम्पिताधरः (सन्) तद्धनुर्ग्रहणं एवं समर्थं उत्तरं प्रत्यपद्यत ।
एवमिति । भीमदर्शने भार्गवे एवमुक्तवति सति राघवः स्मितेन हासेन विकम्पिताधरः सन् तद्धनुर्ग्रहणमेव समर्थमुचितमुत्तरं प्रत्यपद्यताङ्गीचकार ।
भावार्थ—भयंकर वेशधारी परशुरामजी ने जब ऐसा कहा तब रामने मुस्कराते हुए इस प्रकार वह धनुष हाथ में ले लिया मानो परशुरामजी के वचनों का वही ठीक उत्तर हो ॥ ७९ ॥
पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवत् ।
केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः ॥ ८० ॥
अन्वयः—पूर्वजन्मधनुषा समागतः अतिमात्रलघुदर्शनः अभवत् नवाम्बुदः केवलोऽपि सुभगस्त्रिदशचापलाञ्छितः किं पुनः ।
पूर्वेति । पूर्वजन्मनि नारायणावतारे यद्धनुस्तेन समागतः संगतः स रामोऽतिमात्रमत्यन्तं लघुदर्शनः प्रियदर्शनोऽभवत् । तथाहि नवाम्बुदः केवलो रिक्तोऽपि सुभगः शोभावान् त्रिदशचापेनेन्द्रधनुषा लाञ्छितश्चिह्नितः किं पुनः । सुभग एवेति भावः ।
भावार्थ—ज्योंही उन्होंने अपने पिछले जन्मवाला वह धनुष हाथ में लिया त्योंही उनकी शोभा और भी बढ़ गई क्योंकि एक तो नया बादल योंही सुन्दर लगता है फिर उसमें यदि इन्द्रधनुष भी बन जाय तो उसकी शोभा का कहना ही क्या है ॥ ८० ॥
तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाऽधिरोपितम् ।
निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः ॥ ८१ ॥