भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (सन्दर्भदीपिका टीका व हिन्दी अनुवाद सहित)

Abhijnanashakuntalam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Abhijnanashakuntalam with Sandarbhadipika Tika & Hindi Translation (उद्गम)

DevanagariHindipublished262 पृष्ठ

162 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

अनुसूया–सहि, केण उण आचक्खिदो तादकण्वस्स अअं वृत्तन्तो। (सखि, केन पुनः आख्यात: तातकण्वस्यायं वृत्तान्तः।)

प्रियंवदा–अग्गिसरणं पविट्ठस्स किल सरीरं विणा छन्दोवदीए वाआए। (अग्निशरणं प्रविष्टस्य किल शरीरं विना छन्दोवत्या वाचा।)

अनुसूया–(सविस्मयम्) कथं विअ। (कथं इव।)

प्रियंवदा–सुण। (शृणु।) (संस्कृतमाश्रित्य)

दुःषन्तेनाहितं तेजो दधानां भूतये भुवः।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव॥4-6॥

अनुसूया–(प्रियंवदामाश्लिष्य) सहि, पिअं मे पिअं। किं तु अज्ज ज्जेव सउन्तला णीअदि त्ति उक्कण्ठासाहारणं दाणिं परिदोसं अणुभवामि। (सखि, प्रियं मे प्रियम्। किंतु अद्यैव शकुन्तला नीयतेति उत्कण्ठासाधारणमिदानीं परितोषमनुभवामि।)

प्रियंवदा–अम्हे कथं पि उक्कण्ठं विणोदइस्सामो। सा दाणिं तवस्सिणी णिव्वुदा भोदु। (आवां कथमपि उत्कण्ठां विनोदयिष्यावः। सा इदानीं तपस्विनी निवृता भवतु।)

अनुसूया–तेण हि एदस्सिं चूदसाहावलम्बिदे णारिएलसमुग्गए एदंणिमित्तं जेव मए कालहरणक्खमा केसरगुण्डा णिक्खित्ता चिट्ठन्ति। ते तुमं णलिणीवत्तसंगदे करेहि जाव से अहं पि गोरोअणं तित्थपट्टिअं दुव्वाकिसलआइं च मङ्गलसमालहणत्थं विरअआमि। (तेन हि एतस्मिन् चूतशाखावलम्बिते नारिकेलसमुद्गके एतन्निमित्तमेव मया कालहरणक्षमाः केसरगुण्डाः निक्षिप्ताः तिष्ठन्ति। तान् त्वं नलिनीपत्रसङ्गतान् कुरु, यावदस्याः अहमपि गोरोचनां तीर्थमृत्तिकां दूर्वाकिसलयानि च मङ्गलसमालम्भनार्थं विरचयामि।) (प्रियंवदा तथा करोति। अनुसूया निष्क्रान्ता)


सखि, केन पुनराख्यातस्तातकण्वस्यायं वृत्तान्तः। अग्निशरणमग्न्यागारं प्रविष्टस्य किल तस्य च्छन्दोवत्या वाचा। आख्यात इत्यनुषङ्गः। च्छन्दोवत्या स्वच्छन्दयाकाशवाण्येत्यर्थः। कथमिव शृणु।

संस्कृतमिति०।। (4-6) अनुवादेत्यौचित्यम्। विदग्धयार्थं⁵⁴ प्रयोक्तव्यं संस्कृतञ्चान्तरान्तरेति नियमात्। सिद्धान्तयत्यन्यस्तनु भद्रं।। पुष्प (दुःषन्तेन)०।। (4-6) आहितमर्पितं तेजः शुक्रम्।

सखि, प्रियं मे प्रियं। किन्त्वद्यैव शकुन्तला नीयत इति इत्युत्कण्ठासाधारणं परितोषमनुभवामि। वयन्तावत् कथमप्युत्कण्ठां विनोदयिष्यामः। सा तावन्तपस्विनी निर्वृता भवतु। तेन हि एतस्मिन् चूतशाखावलम्बिते नारिकेलसमुद्(द्ग)के एतन्निमित्तमेव मया निक्षिप्ताः कालहरणक्षमाः केशरगुणा बकुलमालाः सन्ति, तांस्त्वं नलिनीपत्रसङ्गतान् कुरु। अहमपि यावदस्या गौरोचनां तीर्थमृत्तिकां दूर्वाकिसलयानि च मङ्गलसमालम्भनार्थं विरचयामि। समालम्भनं वर्द्धनमित्यर्थः।


⁵⁴. वैदग्धार्थ इति 4117 इति पठ्यते।

अभिज्ञानशकुन्तलम् चतुर्थोऽङ्कः 163

(नेपथ्ये)

गौतमि, आदिश्यतां शार्ङ्गरव-शारद्वतमिश्राः, वत्सां शकुन्तलां नेतुं सज्जीभवतेति।

प्रियंवदा-(कर्णं दत्त्वा) अनुसूये, तुवर तुवर। एदे क्खु हत्थिणाउरगामिणो इसीओ सद्दावीअन्ति। (अनुसूये, त्वरस्व त्वरस्व। एते खलु हस्तिनापुरगामिनः ऋषयः शब्दायन्ते।)

प्रविश्य समालभनहस्ता अनुसूया-सहि, एहि गच्छम्ह। (सखि, एहि गच्छावः।)

(इति परिक्रामतः)

प्रियंवदा-(विलोक्य) एसा सुज्जोदए ज्जेव किदमज्जणा पडिच्छिदणीवारवाअणाहिं तावसीहिं अहिणन्दीअमाणा सउन्तला चिट्ठदि। ता उवसप्पम्ह णं। (एषा सूर्योदये एव कृतमज्जना प्रतीष्टनीवारवाचनाभिः तापसीभिः अभिनन्द्यमाना शकुन्तला तिष्ठति तदुपसर्पावः।) (इति तथा कुरुतः)

(ततः प्रविशति यथानिर्दिष्टपरिवारा शकुन्तला गौतमी च)

शकुन्तला-भअवदीओ वन्दामि। (भगवति वन्दे।)

गौतमी-जाद, भत्तुणो बहुमाणसुहइत्तअं देवीसद्दं अधिगच्छ। (जात, भर्तुः बहुमानसुखयितारं देवीशब्दमधिगच्छ।)

तापस्यः-वच्छे, वीरप्पसविणी होहि। (वत्से, वीरप्रसविनी भव।)

(इति गौतमीवर्जं निष्क्रान्ताः)

सख्यौ-(उपगम्य) सहि, सुमज्जणं दे भूदं। (सखि, सुमज्जनं ते भूतम्।)

शकुन्तला-साअदं पिअसहीणं। इदो णिसीदध। (स्वागतं प्रियसखीभ्याम्। इतः निषीदतम्।)

सख्यौ-(उपविश्य) हला, उज्जुआ दाव होहि जाव दे मङ्गलसमालहणं करेमो। (सखि, ऋज्वी तावद्भव यावद् ते मङ्गलसमालभनं कुर्वः।)


शार्ङ्गेति। शार्ङ्गरव-शारद्वत⁵⁵-प्रधाना इत्यर्थः। शार्ङ्गेति त्रयः शिष्या इति शङ्करः। त्वरय त्वरय एते खलु हस्तिनापुरगामिनो मुनयः शब्दाय्यन्ते आहूयन्ते।

सखि, एहि गच्छावः, एषा सूर्योदय एव कृतमज्जना प्रती[ष्ट]नीवार-वाचनाभिर्वाचनं भोज्यम्। प्रहेलकं वाचनकमिति त्रिकाण्डशेषः। भोजनाभि⁵⁶रिति शङ्करधृतः पाठो मन्दः।

तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति। तदेनामुपसर्पावः। हे भगवत्यो वन्दामि। जाते भर्तुर्बहुमानयुक्तं देवीशब्दमभिगच्छ। वीरप्रसविणी(नी) भव। सखि, सुमज्जनं ते भूतम्।


  1. सावद्धत इति 4117 इत्यत्र पठ्यते।
  2. मिथिलातः प्रकाशितायां शङ्करटीकायां-प्रतीष्टनीवारभाजनाभिः इति पाठो दृश्यते।
164चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

शकुन्तला—उइदं पि एदं अज्ज बहुमण्णिदव्वं। जदो दुल्लहं दाव पुणो मे सहीमण्डणं भविस्सदि। (उचितम् अपि एतद् अद्य बहुमन्तव्यम्, यतः दुर्लभं तावत् पुनः मे सखीमण्डनं भविष्यति।) (इति बाष्पं विसृजति।)

सख्यौ—सहि, ण जुत्तं मङ्गलआले रोदिदुं। (सखि, न युक्तं मङ्गलकाले रोदितुम्।)

(अश्रूणि परिमृज्य नाट्येन प्रसाधयतः)

प्रियंवदा—अहो, आहरणारिहं दे रूवं अस्समसुलहेहिं पसाहणेणिं विप्पआरीअदि। (अहो, आभरणार्हं ते रूपमाश्रमसुलभैः प्रसाधनैः विप्रकार्यते।)

प्रविश्य आभरणहस्तो मुनिकुमारकः—इदमलङ्कारजातम् अलङ्क्रियतामायुष्मती।

(सर्वा विलोक्य विस्मिताः)

गौतमी—वच्छ हारीद, कुदो एदं। (वत्स हारीत, कुतः एतत्।)

हारीतः—तातकण्वप्रभावात्।

गौतमी—किं माणसी सिद्धी। (किं मानसी सिद्धिः।)

हारीतः—न खलु। श्रूयताम्। तत्रभवता कण्वेन वयमाज्ञापिताः शकुन्तलाहेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति। ततः—

क्षौमं केन चिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित्।
अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै-
र्दत्तान्याभरणानि नः किसलयच्छायाप्रतिस्पर्धिभिः ॥ 4-7॥

प्रियंवदा—(शकुन्तलां विलोक्य) कोडरसंभवा वि महुअरी पोक्खरमहुं जेव अहिलसदि। (कोटरसम्भवापि मधुकरी पुष्करमध्वेवाभिलषति।)


स्वागतं प्रियसखीभ्यामितो निषीदतुम्। सखि, ऋज्वी तावद्भव, यावत्ते मङ्गलसमालभनं कुर्व्वः। उचितम् अप्येतदद्य बहुमन्तव्यं यतो दुर्लभं तावत् पुनर्मे सखीमण्डनं भविष्यति। सखि न युक्तं मङ्गलकाले रोदितुम्। हद्धी खेदे। अहो इति शङ्करः। कष्टमिति व्याचष्टे च।

आभरणान्तेऽस्य वा रूपमाश्रमसुलभैः प्रसाधनैर्विप्रक्रियते पीड्यते। विप्रलभ्यत इति शङ्करः पठति। जातं समूहः वत्स हारीत, कुत इदम्? किं मानसीसिद्धिः?।

क्षौमं०॥(4-7) क्षौमं वाल्कलवस्त्रभेदः पट इति ख्यातः। सोमवन्मनपत्यषे⁵⁷ (?)। क्षु-धातोः क्षौमेति साधुः। स्वार्थिकेऽणि क्षौममिति। निष्कृत उद्गीर्णः प्रकाशित इत्यर्थः। चरणानुरागसदृश-श्चरणरञ्जनयोग्यः, चरणोपभोगसुलभ इति वा पाठः। लाक्षेत्यलक्तकद्रवः। आपर्वेति, पर्वभागपर्यन्तम् उद्गतैर्नोऽस्मभ्यम्। सखि, कोटर-सम्भवापि मधुकरी पुष्परसं मध्वेवाभिलषति।


⁵⁷. सोमवन्मनद्यये इति 4।18 इत्यत्र पठ्यते।

अभिज्ञानशकुन्तलम् चतुर्थोऽङ्कः 165

गौतमी—इमाए अब्भुववत्तीए सूइदा भत्तुणो गेहे अणुभविदव्वा राअलच्छी। (अनयाभ्युपपत्या सूचिता भर्तुः गेहे अनुभवितव्या राजलक्ष्मीः।)

(शकुन्तला लज्जां नाटयति)

हारीतः—यावदिमां वनस्पतिसेवामभिषेकार्थं मालिनीतीरमवतीर्णाय भगवते कण्वाय निवेदयामि। (इति निष्क्रान्तः)

अनुसूया—सहि, अणणुभूदभूसणो अअं जणो कधं तुमं अलंकरेदु। (चिन्तयित्वा विलोक्य च) चित्तपरिचएण दाणिं दे अङ्गेसुं आहरणविणिओअं करेम्ह। (सखि, अननुभूत-भूषणः अयं जनः कथं त्वामलङ्करोतु। चित्रपरिचयेन इदानीं ते अङ्गेषु आभरणविनियोगं कुर्वहे।)

शकुन्तला—जाणामि वो णिउणत्तणं। (जानामि वां निपुणत्वम्।)

(सख्यौ नाट्येनालङ्कारमायुञ्जाते।)
(ततः प्रविशति स्नानोत्तीर्णः कण्वः)

कण्वः

यास्यत्यद्य शकुन्तलेति हृदयं स्पृष्टं समुत्कण्ठया
अन्तर्बाष्पभरौपरोधि गदितं चिन्ताजडं दर्शनम्।
वैक्लव्यं मम तावदीदृशमहो स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः॥४-८॥

(इति परिक्रामति)

सख्यौ—हला सउन्तले, अवसिदमण्डणा दाणिं सि तुमं। संपदं परिधेहि एदं विचित्तं खोमजुअलं। (सखि शकुन्तले, अवसितमण्डना इदानीमसि त्वम्। साम्प्रतं परिधेहि एतद् विचित्रं क्षौमयुगलम्।) (शकुन्तला उत्थाय नाटयेन परिधत्ते)

गौतमी—जाद, एसो दे आणन्दबाहपरिवाहिणा लोअणेण परिस्सअन्तो विअ गुरू उवत्थिदो। ता समुदाआरं पडिवज्जसु।


अनयाप्यु(भ्यु)पपत्या वृक्षानुग्रहेण सूचिता भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीः। सखि, अननुभूत भूषणोऽयं जनः, कथं त्वामलंकरोतु। चित्रकर्मपरिचयेन, चित्रे यथा दृष्टव्यं तथेत्यर्थः। इदानीं भवाङ्गेष्वाभरणविनियोगं कुर्ववः। चित्तेति शङ्करः पठति, मनोविकल्पमयेत्यर्थ इति व्याचष्टे च। जानामि युवयोर्निपुणत्वम्।।

यास्य०।। (4-8) अन्तर्वती यो बाष्पोऽश्रु तस्यातिशयेनापरुद्धम्। दर्शनं ज्ञानं चिन्तया कर्तुर्व्यापविच्छेदकम्। यद्वा दर्शनं नयनं चिन्तया [जडं] विषयाग्राहकमू। तावद् वाक्यालंकारे। नु प्रश्ने। सखि शकुन्तले, अवसितमण्डना निष्पन्नभूषणा इदानीं त्वमसि। साम्प्रतं परिधेहि एतद्विचित्रं क्षौमयुगलम्। जाते, एष ते आनन्दपरिवाहिना लोचनेन परिष्वजमान इव गुरुरुपस्थितः। तत् समुदाचारमभ्युत्थानादिकं प्रतिपद्यस्व।।

166 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

(जात, एषः ते आनन्दबाष्पपरिवाहिणा लोचनेन परिष्वजमानः इव गुरुः उपस्थितः। तत् समुदाचारं प्रतिपद्यस्व।) (शकुन्तला सव्रीडा वन्दनां करोति।)

कण्वः-वत्से,

ययातिरेव शर्मिष्ठा पत्युर्बहुमता भव।
पुत्रं त्वमपि सम्राजं सेव पूरुमवाप्नुहि॥४-९॥

गौतमी-जाद, वरो क्खु एसो, ण उण आसिसा। (जात, वरः खल्वेषः, न पुनः आशीः।)

कण्वः-वत्से, इतः सद्यो हुताग्नीन् प्रदक्षिणीकुरुष्व। (सर्वे परिक्रामन्ति)

कण्वः-वत्से,

अमी वेदीं परितः क्लृप्तधिष्ण्याः
समिद्धन्तः प्रान्तविस्तीर्णदर्भाः।
अपघ्नन्तो दुरितं हव्यगन्धै-
र्वैतानास्त्वां वह्नयः पालयन्तु॥४-१०॥

(शकुन्तला प्रदक्षिणं करोति)

कण्वः-वत्से, प्रतिष्ठस्वेदानीम्। (सदृष्टिविक्षेपम्) क्व नु ते शार्ङ्गरव-शारद्वतमिश्राः।

शिष्यौ-(प्रविश्य) भगवन् इमौ स्वः।

कण्वः-वत्स शार्ङ्गरव, भगिन्याः पन्थानमादेशय।

शिष्यः-इत इतो भवती। (सर्वे परिक्रामन्ति)

कण्वः-भो भोः सन्निहितवनदेवतास्तपोवनतरवः।

पातुं न प्रथमं व्यवस्यति जलं युष्मास्वसिक्तेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम्।


ययातेः०।। (4-9) येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः। शास्ति यश्चाज्ञया राज्ञः स सम्राडित्यमरः। आशीरलङ्कारः। हे जात, वरः खल्वेष, नाशीः। सन्तुष्टदेवानामवश्यंभाविवाचनं वरः। आशीस्तु कदाचित् फलदायिनी वाक्।

अमी०।। (4-10) वेदीं परितः वेद्याः समीपे षष्ठ्यर्थे द्वितीया। धिष्ण्यं स्थानं, हव्यं हवनीयं, वैताना यज्ञसम्बन्धिनः। वितानो यज्ञ उल्लोच इति मेदिनी। भगवन्निति।

देवाश्च मुनयश्चैव लिङ्गिनः साधकाश्च ये।
भगवन्निति ते वाच्याः सर्वैर्वैः स्त्रीपुंनपुंसकैः।। इति भरतः⁵⁸।


  1. नाट्यशास्त्रम् (21-4), सं. बलदेव उपाध्याय, चौखम्बा प्रकाशन, वाराणसी, वि.सं. 2037 इत्यत्र किंचिद्भिन्नं पठ्यते।

अभिज्ञानशकुन्तलम् चतुर्थोऽङ्कः 167

आद्ये वः कुसुमप्रवृत्तिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ।। 4-11 ।।

शार्ङ्गरवः- (कोकिलशब्दं सूचयित्वा) भगवन्,
अनुमतगमना शकुन्तला सा तरुभिरियं वनवासबन्धुभिः।
परभृतविरुतं कलं यदासीत्प्रतिवचनीकृतमेभिरात्मनः ।। 4-12 ।।

(नेपथ्ये)
रम्यान्तरः कमलिनीहरितैः सरोभि-
श्छायाद्रुमैर्नियमितार्कमरीचितपः ।
भूयात् कुशेशयरजोमृदुरेणुरस्याः
शान्तानुकूलपवनश्च शिवश्च पन्थाः ।। 4-13 ।।

(सर्वे सविस्मयमाकर्णयन्ति)

गौतमी- जाद, णादिकुलसिणिद्धं अब्भणुण्णादा सि तवोवणदेवदाहिं। ता पणम भअवदीणं। (जात, ज्ञातिकुलस्निग्धमभ्यनुज्ञातासि तपोवनदेवताभिः। तत्प्रणम भगवतीभ्यः।)

शकुन्तला- (सप्रणामं परिक्रम्य, जनान्तिकम्) पिअंवदे, अज्जउत्तदंसणुस्सुआए वि अस्समपदं परिच्चअन्तीए दुक्खदुक्खेण चलणा मे पुरोमुहा णिवडन्ति। (प्रियंवदे, आर्यपुत्र-दर्शनोत्सुकायाः अपि आश्रमपदं परित्यजन्त्याः दुःखदुःखेन चरणौ मे पुरोमुखौ निपततः।)

प्रियंवदा- ण केवलं तुमं जेव तवोवणविरहकादरा। तए उवत्थिदविओअस्स तवोवणस्स वि अवत्थं पेक्ख दाव। (न केवलं त्वमेव तपोवनविरहकातरा। त्वया उपस्थित-वियोगस्य तपोवनस्याप्यवस्थां प्रेक्षस्व तावत्।)


पातुं० ।। (4-11) पल्लवं किसलयं, कोकिलं पिकध्वनिम्।
अनु० ।। (4-12) इयं शकुन्तला तरुभिः स्वीकृतप्रस्तावा यद्यत इदानीं यात्रायां कोकिलध्वनिः शुभाय ।।
रम्या० ।। (4-13) रम्येति पद्मिनी हरिद्वर्णैः⁵⁸ सरोभिर्मनोज्ञमध्यच्छायाद्रुमैश्छाया लक्षितैर्द्रुमैः, शाकपार्थिवादिः, वृक्षभेदैर्वा। पूर्वाह्ने चापराह्ने च तलं यस्य न मुञ्चति। अमन्द-शीतलाच्छाया, स छायातरुरुच्यते ।। इति। नियमितमपनीतं कुशेशयं पद्मं शान्तः पाटच्चरादिशून्यः शिवः सुखदः। जात, नातिकुलस्निग्धं यथा स्यान्नाभिर्ज्ञातिः, प्रत्यनुज्ञातासि तपोवनदेवताभिस्तत् प्रणाम भगवतीभ्यः। प्राकृते चतुर्थ्या षष्ठी। जनान्तिक-लक्षणमुक्तमेव ।। प्रियम्वदे, आर्यपुत्र-दर्शनोत्सुकाया अपि तपोवनं परित्यजन्त्या दुःखदुःखेन मम चरणौ पुरोमुखौ निपतत इति च पाठः। न केवलं त्वमेव तपोवनविरहकातरा, त्वया उपस्थितवियोगस्य तपोवनस्याप्यवस्थां प्रेक्षस्व तावत्।


  1. हरिद्वन्तैः इति 4118 इत्यत्र पठ्यते।

168
चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

उल्ललइ दब्भकवलं मई परिच्चत्तणच्चणा मोरी।
ओसरिअपण्डुवत्ता मुअन्ति अङ्गाइ व लआओ।।4-14।।
( उद्गलति दर्भकवलं मृगी, परित्यक्तनर्तना मयूरी।
अपसृतपाण्डुपत्राः मुञ्चन्त्यङ्गानि इव लताः।)।।4-14।।

शकुन्तला-(स्मृत्वा) ताद, लदावहिणिअं दाव माहविं आमन्तइस्सं। (तात, लताभगिनीं तावत् माधवीमामन्त्रयिष्यामि।)

कण्वः-वत्से, अवैमि ते तस्यां सौहार्दम्। इयं सा दक्षिणे। पश्य।

शकुन्तला-(उपेत्य लतामालिङ्ग्य) लदावहिणिए। पच्चालिङ्ग मं साहामईहिं बाहाहिं। अज्ज पहुदि दूरवत्तिणी खु दे भविस्सं। ताद, अहं विअ इअं तए चिन्तणीआ। (लताभगिनि, प्रत्यालिङ्ग मां शाखामयैः बाहुभिः। अद्यप्रभृति दूरवर्तिनी खलु ते भविष्यामि। तात, अहमिव इयं त्वया चिन्तनीया।)

कण्वः-वत्से,

सङ्कल्पितं प्रथममेव मया त्वदर्थे
भर्तारमात्मसदृशं स्वगुणैर्गतासि।
अस्यास्तु सम्प्रति वरं त्वयि वीतचिन्तः
कान्तं समीपसहकारमिमं करिष्ये।।4-15।।

तदितः पन्थानं प्रतिपद्यस्व।

शकुन्तला-(सख्यावुपेत्य) हला, एसा दोण्णं पि वो हत्थे णिक्खेवो। (सखि, एषा द्वयोः अपि वां हस्ते निक्षेपः।)

सख्यौ-अअं जणो कस्सिं दाणिं समप्पिदो। (अयं जनः कस्मिन्निदानीं समर्पितः।)

(इति बाष्पं विसृजतः)


उल्ल०।। (4-14) उल्ललति(उद्गलति) दर्भकवलं मृगीनां, परित्यक्तनृत्या मयूराः। अपसृतपाण्डुपत्रा मुञ्चन्ति अङ्गानीव लताः। शङ्करस्तु उद्गीर्ण दर्भकवला मृगी, परित्यक्तनर्तना मयूरा इति पूर्वार्द्धं पठति।।

तात, लताभगिनीं तावन्माधवीमामन्त्रयिष्ये। लताभगिनी(नि), प्रत्यालिङ्ग मां शाखामयैर्बाहुभिरद्य प्रभृति दूरवर्तिनी खलु ते भविष्यामि। तात⁶⁰, अहम् इवेयं त्वया चिन्तनीया।।

सङ्क०।। (4-15) सङ्कल्पितं चिन्तितं कान्तं कमनीयं निकटस्थसहकारं अस्या वरं जामातारं करिष्ये। वरो जामातरि श्रेष्ठ इति शाश्वतः। सखि, एषा द्वयोरपि युवयोर्हस्ते निक्षेपः। अयमस्मद्रूपो जनः कस्मिन् समर्पि(र्पि)तः। तातं⁶¹, एषा उटजपर्यन्तचारिणी गर्भभारमन्थरा मृगवधूर्यदा सुखप्रसवा


  1. लिपिकारद्वयेनात्र ताताहमिव इति सन्धियुक्तः पाठः प्रदत्तः।
  2. लिपिकारद्वयेनात्र तातैषा इति सन्धियुक्तः पाठः प्रदत्तः।

अभिज्ञानशकुन्तलम् चतुर्थोऽङ्कः 169

कण्वः—अनुसूये प्रियंवदे, अलं रुदितेन। ननु भवतीभ्यामेव शकुन्तला स्थिरीकर्तव्या।
(सर्वे परिक्रामन्ति)
शकुन्तला—ताद, एसा उडअपज्जन्तआरिणी गब्भारमन्थरा मिअवहू जदा सुहप्पसवा भवे तदा मे कं पि पिअणिवेअणइत्तअं विसज्जइस्सिध। मा एदं विसुमरिसध। (तात, एषा उटजपर्यन्तचारिणी गर्भभारमन्थरा मृगवधूः यदा सुखप्रसवा भवेत् तदा मे किमपि प्रियनिवेदयितारं विसर्जयिष्यथ। मा एतद् विस्मरिष्यथ।)
कण्वः—वत्से, नेदं विस्मरिष्यामि।
शकुन्तला—(गतिभेदं रूपयित्वा) अम्भो, को णु क्खु एसो पदक्कन्तो विअ मे पुणो पुणो वसणन्ते सज्जदि। (अम्भो, कोऽनु खल्वेषः पदाक्रान्तः इव मे पुनः पुनः वसनान्ते सज्जति।
(परिवृत्यावलोकयति)
कण्वः
यस्य त्वया व्रणविरोपणमिङ्गुदीनां
तैलं न्यषिच्यत मुखे कुशसूचिविद्धे।
श्यामाकमुष्टिपरिवर्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते॥४-16॥

शकुन्तला—वच्छ, किं मं सहवासपरिच्चाइणिं अणुबन्धसि। णं अचिरप्पसूदोवरदाए जणणीए विणा जधा मए वड्डिदो सि तथा इदाणिं पि मए विरहिदं तादो तुमं चिन्तइस्सदि। ता णिअत्तसु, वच्छ णिअत्तसु।
(वत्स, किं मां सहवासपरित्यागिनीमनुबध्नासि। ननु अचिरप्रसूतोपरतया जनन्या विना यथा मया वर्धितोऽसि तथा इदानीमपि मया विरहितं तातः त्वां चिन्तयिष्यति। तत् निवर्तस्व, वत्स निवर्तस्व।)
(इति रुदती प्रस्थिता)


भवति, तदा (त्म)त्वम् कमपि प्रियनिवेदकं विसर्जयिष्यथ। मा एतद्विस्मरिष्यथ। गतीति अवरुद्ध{गम}गमनमभनीय। अम्मो विस्मये कष्टे वा। को नु खल्वेष पदाक्रान्त इव पुनः पुनर्मे वसनान्ते सज्जति वसनान्तं गृह्णाति वा।
यस्य० ।। (4-16) व्रणविरोपणं क्षतप्ररोहकं परिवर्द्धितकोऽतिशयेन पोषितः पुत्रकृतकः कृत्रिमपुत्रः। वत्स, किं मां सहवासपरित्यागिनीम् अनुबध्नासि। ननु चिरप्रसूतोपरतया प्रसवाव्यवहितकालमृतया जनन्या विना यथा मया वर्द्धितोऽसि, तथेदानीमपि मया विरहितं तातस्त्वमनुचिन्तयिष्यति, तन्निवर्तस्व⁶²।।
62. तन्निवर्तस्व वत्स, निवर्तस्व इत्यधिकं 4118 इत्यत्र पठ्यते।

170 चंद्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

कण्वः–वत्से, अलं रुदितेन। स्थिरा भव। इतः पन्थानमवलोकय।

उत्पक्ष्मोपमित्योपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया शिथिलानुबन्धम्। अस्मिनलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति॥4-17॥

शारङ्गरव–भगवन्, उदकान्तं स्निग्धोऽनुगम्यत इति स्मर्यताम्। तदिदं सरसीतीरम्। अत्र नः सन्दिश्य प्रतिगन्तुमर्हसि।

कण्वः–तेन हीमां क्षीरवृक्षच्छायामाश्रयामः। (सर्वे तथा नाटयन्ति)

कण्वः–किं नु खलु तत्रभवतो दुःषन्तस्य युक्तरूपं सन्देष्टुम्। (इति चिन्तयति।)

अनुसूया–सहि, ण णो अस्समपदे अत्थि को वि चित्तवन्तो जो तए विरहीअन्तो अज्ज ण ऊसुओ किदो। पेक्ख–

पुड्डणिपत्तन्तरिअं वाहरिओ णाणुवाहरेइ पिअं। मुहउव्वुढमुणालो तइ दिट्ठिं देइ चक्काओ॥4-18॥

(सखि, न नः आश्रमपदे अस्ति कोऽपि चित्तवान् यः त्वया विरह्यमाणः अद्य न उत्सुकः कृतः। प्रेक्षस्व–

(पुटकिनीपत्रान्तरितां व्याहतः नानुव्याहरति प्रियाम्। मुखोढ्यूढमृणालः त्वयि दृष्टिं ददाति चक्रवाकः)॥4-18॥

कण्वः–वत्स शार्ङ्गरव, इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्याभिधातव्यः।

अस्मान्साधु विचिन्त्य संयमधनान् उच्चैः कुलं चात्मन- स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम्।


उत्पन्न०।। (4-17) उपरुद्धेति प्रतिरुद्धव्यापारं स्थिरतया धैर्येण खलु यस्माद्विषमीभवन्ति, स्खलितानि स्युः। उदकान्तमिति यदाह आ उदकात् प्रियं पान्थमनुव्रजेदिति। प्रतिगन्तुं निवृत्य गन्तुम्। सखि, नास्माकम् आश्रमपदेऽस्ति कोऽपि चित्तवान् यस्त्वया विरहय्यमनो न उत्सुकॊ भवति। न ताम्यतीति च पाठः। प्रेक्षस्व प्रेक्षस्व।।पुट०।। (4-18) “पुटकिनीपत्रान्तरितां व्याकृतां नानुव्याहरति प्रियां। प्रियोद्गूढमृणालस्त्वयि दृष्टिं ददाति चक्रवाकः।।” पुटकिनी पद्मिनी। मृणालिनी पुटकिनीति हारावली। तयोद्गूढेति। तथा पूर्वप्रणयानुरूपप्रकारेणेति शङ्करः। अ{ल्प}व्याहारे हेतुस्त्वयीति। चक्का तु चक्रवाके स्यादिति देशी।।

अस्मा०।। (4-19) साधु यथा स्यात् संयमेति राज्ञस्त्रासजननाय। अन्ये तु अन्यद्धनादिकमस्माकं नास्तीति जामातुरम्बरदूरीकरणायेत्याहुः। उच्चैः कुलेति कुलीनस्य हि निजवधुषु विप्रियव्यवहारोऽधर्म्महेतुरिति भावः।

अभिज्ञानशकुन्तलम् चतुर्थोऽङ्कः 171

सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया दैवाधीनमतः परं न खलु तत्स्त्रीबन्धुभिर्याच्यते ।। ४-१९ ।।

शिष्यः-भगवन् गृहीतोऽयं सन्देशः।

कण्वः-(शकुन्तलां विलोक्य) वत्से त्वमिदानीमनुशासनीया। वनौकसोऽपि वयं लोकज्ञा एव।

शिष्यः-भगवन्, न खलु कश्चिद् अविषयो नाम धीमताम्।

कण्वः-वत्से, सा त्वमितः पतिगृहं प्राप्य,-

शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तं सपत्नीजने भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः। भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ।। ४-२० ।।

कथं वा गौतमी मन्यते।

गौतमी-एत्तिकं खु बहूणं उवदेसो। (शकुन्तलां प्रति) जाद, मा विसुमरिससि। (एतावत्खलु वधूनामुपदेशः। जाते, मा विस्मरिष्यसि।)

कण्वः-एहि वत्से, परिष्वजस्व मां सखीजनं च।

शकुन्तला-ताद, इदो ज्जेव पिअसहीओ विणिअत्तिसन्ति। (तात, इतः एव प्रियसख्यौ विनिवर्तिष्येते।)

कण्वः-वत्से, इमे अपि प्रदेये। तन्न युक्तमनयोस्तत्र गन्तुम्। त्वया सह गौतमी गमिष्यति।

शकुन्तला-(पितुरङ्कमाश्लिष्य) कथं दाणिं तादस्स अङ्कदो परिब्भट्ठा मलअपव्वदुम्मूलिदा विअ चन्दणलदा देसन्तरे जीविदं धारइस्सं। (कथमिदानीं तातस्य अङ्कात् परिभ्रष्टा मलयपर्वतोन्मूलितेव चन्दनलता देशान्तरे जीवितं धारयिष्यामि।)

(इति रोदिति)


कथमपि दुर्ग्रहेणेत्यर्थः। स्नेहप्रवृत्तिं प्रेमचेष्टां, भावप्रवृत्तिमिति शङ्करः। सामान्येति साधारण गौरवपुरःसरं प्रतिपत्तिः। पदप्राप्तौ प्रवृत्तौ गौरवे चेति विश्वः। दैवं प्राक्तनकर्म। अनुशासनीया उपदेश्या।।

शुश्रू०।। (4-20) गुरून् श्वशुरादीन् शुश्रूषस्वाराधय। चरित्रं च्छन्दसो वृत्तमिति शाश्वतः। विप्रकृतापि पीडितापि रोषणतया भर्तुः प्रतीपं प्रातिकूल्यं मा गमः। प्रतीपं कोऽपि नीत्वमिति कश्चित्। भूयिष्ठमतिशयेन सस्नेहा भव। सुखेषु नात्युत्सुका च। पदं व्यवसायं प्रतिष्ठां वा। पदं स्थाने प्रतिष्ठायामिति कोषः। वामा। एतद्विरुद्धा आधिर्मानसी व्यथा, दक्षिणश्चातिस्नेह इति विश्वः। उपदिष्टनाट्यलक्षणमिदम्। तदुक्तम्-उपदिष्टं मनोहरिवाक्यं शास्त्रानुसारतः। एतावानेव वधूजनानामुपदेशः, जात! मा विस्मरिष्यसि। तात, इत एव प्रियसख्यौ निवर्तिष्येते। प्रदेये प्रतिपाद्ये। कथं तातस्याङ्कात् परिभ्रष्टा मलयपर्वतोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि।।

172चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

कण्वः—वत्से, किमेव कातरासि।

अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैरस्य प्रतिक्षणमाकुला।
तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि॥4-21॥

शकुन्तला—(पादयोः पतित्वा) ताद, वन्दामि। (तात, वन्दे।)
कण्वः—वत्से, यदहमीहे तदस्तु ते।
शकुन्तला—(सख्यावुपेत्य) सहीओ, एध दुवे वि मं समं जेव परिस्सअध। (सख्यौ, एते द्वे अपि मां सममेव परिष्वजेथाम्।)
सख्यौ—(तथा कृत्वा) सहि, जइ कदा वि सो राएसी पच्चहिण्णाणमन्थरो भवे तदो से अत्तणो णामधेअङ्किदं अङ्गुलीअअं दंसइस्सि। (सखि, यदि कदा अपि सः राजर्षिः प्रत्यभिज्ञानमन्थरः भवेत् ततः अस्मै आत्मनः नामधेयाङ्कितम् अङ्गुरीयकं दर्शयिष्यसि।
शकुन्तला—इमिणा सन्देहेण वो कम्पिदं मे हिअअं। (अनेन सन्देहेन वां कम्पितं मे हृदयम्।)
सख्यौ—सहि, मा भाआहि। सिणेहो पावं आसङ्कदि। (सखि, मा बिभीहि। स्नेहः पापम् आशङ्कते।)
शार्ङ्गरवः—(विलोक्य) भगवन्, युगान्तरमधिरूढः सविता। तत्त्वरतां भवती।
शकुन्तला—(भूयः पितुरङ्कमाश्लिष्य) ताद, कदा णु क्खु भूओ तवोवणं पेक्खिस्सं। (तात, कदा नु खलु भूयः तपोवनं प्रेक्षिष्ये।)
कण्वः—वत्से,

भूत्वा चिराय सदिगन्तमहीसपत्नी
दौःषन्तिमप्रतिरथं तनयं प्रसूय।


अभि०॥ (4-21) अभिजनवतः [कु]लीनस्य। कूलेस्य(त्य)भिजन इत्यमरः। तात वन्दे। सख्यौ एतमागच्छतम्। द्वे अपि युवां सममेकदैव मां परिष्वजेथाः। सखि, यदि कदाचित् स राजर्षिः प्रत्यभिज्ञानमन्थरो भवेत् तदास्मै आत्मनो नामाङ्कितमङ्गुरीयकं दर्शयिष्यसि। अमुना सन्देहेन युवयोः कम्पितं मे हृदयम्। सखि, मा भैषीः। स्नेहः पापम् आशङ्कते। युगान्तरेति। युगं प्रहर इति केचित्। हस्तचतुष्टयं युगमित्यन्यः। युगं कृतादिषु, युम्मे हस्तचतुष्टये स्यादिति मेदिनी। तात, कदा नु खलु तपोवनं प्रेक्षिष्ये।

भूत्वा०॥ (4-22) चिरकालं व्याप्य सदिगन्ताया मह्याः सपत्नी भूत्वा स्वान्तं दुःषन्तस्यापत्यम्। अप्रतिरथो नास्ति प्रतिरथः, परिपन्थी योधो यस्य, तत् सन्निवेशितेति तस्मिन् पुत्रे निवेशिता धूर्भारो येन। शान्त्यै मोक्षार्थं पदमवस्थानम्॥

अभिज्ञानशकुन्तलम् चतुर्थोऽङ्कः 173

तत्सन्निवेशितधुरेण सहैव भर्त्रा शान्त्यै करिष्यसि पदं पुनराश्रमेऽस्मिन्॥४-२२॥

गौतमी-जाद, परिहीअदि दे गमणवेला। ता णिअत्तावेहि पिदरं, अथवा चिरेण वि एसा ण णिअत्तइस्सदि। ता णिअत्तदु भवं। (जात, परिहीयते ते गमनवेला। तत् निवर्तय पितरं। अथवा चिरेणापि एषा न निवर्तयिष्यति। तत् निवर्ततां भवान्।)

कण्वः-वत्से, उपरुध्यते मे तपोवनानुष्ठानम्।

शकुन्तला-तवोवणवावारेण णिरुक्कण्ठो तादो। अहं उण उक्कण्ठाभाइणी संवृत्ता। (तपोवनव्यापारेण निरुत्कण्ठः तातः। अहं पुनः उत्कण्ठाभागिनी संवृत्ता।)

कण्वः-अयि, किं मामेवं जडीकरोषि। (निःश्वस्य) अपयास्यति मे शोकः कथं नु वत्से त्वयावचितपूर्वम्। उटजद्वारि विरूढं नीवारबलिं विलोकयतः॥४-२३॥ गच्छ। शिवास्ते सन्तु पन्थानः।

(इति निष्क्रान्ताः शकुन्तलया सह गौतमी-शारङ्गरव-शारद्वतमिश्राः।)

सख्यौ-(चिरं विलोक्य सकरुणम्) हद्धी हद्धी, अन्तरिदा सउन्तला वणराईहिं। (हा धिक्, हा धिक्। अन्तरिता शकुन्तला नवराजिभिः।)

कण्वः-अनसूये प्रियंवदे, गता वां सहचरी। निगृह्य शोकावेषं मामनुगच्छतम्।

(सर्वे प्रस्थिताः)

उभे-ताद, सउन्तलाविरहिदं सुण्णं विअ तवोवणं पविसामो। (तात, शकुन्तलाविरहितं शून्यमिव तपोवनं, प्रविशावः।)

कण्वः-स्नेहवृत्तिरेवंदर्शिनी।

(सविमर्शं परिक्रम्य)

हन्त भोः। शकुन्तलां विसृज्य लब्धमिदानीं स्वास्थ्यम्। कुतः-


जात, परिहीयते ते गमनवेला, तन्निवर्तय पितरम्। अथवा चिरेणापि नैषा निवर्तयिष्यति, अर्थात्त्वं तन्निवर्ततां भवान्। तपोवनव्यापारेण निरुत्कण्ठस्तातो भविष्यति। अहं पुनरुत्कण्ठा-भागिनी संवृत्ता।

अप ०।। (4-23) शोकोऽर्थात्त्वद्विरहजः। नु प्रश्ने। बलिमुपहारम्। बलिः पूजोपहारयोरिति कोषः। हा धिक् अन्तरिता शकुन्तला वनराजिभिः। तात शकुन्तलाविरहितं शून्यमिव तपोवनं प्रविशामः। विसृज्य प्रस्थाप्य।

174 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

अर्थो हि कन्या परकीय एव
तामेव संप्रेष्य परिग्रहीतुः।
जातोऽस्मि सद्यो विशदान्तरात्मा
चिरस्य निक्षेपमिवार्पयित्वा।। 4-24।।

(इति निष्क्रान्ताः सर्वे)
।। इति चतुर्थोऽङ्कः।।


अर्थः० ।। (4-24) कन्यारूपोऽर्थः संप्रेष्य प्रस्थाप्य परिग्रहीतुः परिणेतुः कृते। विशदो ह्यान्तरात्मा प्रसन्नमयः। चिरस्य चिरकालं धृतं, यद्वा चिरात्।।

।। इति चतुर्थोऽङ्कः।।
—•—

॥ पञ्चमोऽङ्कः ॥

(ततः प्रविशति कञ्चुकी)

कञ्चुकी- (निःश्वस्य) अहो बत कीदृशीं वयोऽवस्थामापन्नोऽस्मि।

आचार इत्यधिकृतेन मया गृहीता
या वेत्रयष्टिरवरोधगृहेषु राज्ञः।
काले गते बहुतिथे मम सैव जाता
प्रस्थानविकलवगतेरवलम्बनाय ॥५-१॥

यावदभ्यन्तरगताय देवाय स्वमनुष्ठेयमकालक्षेपार्हं निवेदयामि। (स्तोक़मन्तरं गत्वा) किं पुनस्तत्। (विचिन्त्य) आम् ज्ञातम् कण्वशिष्यास्तपस्विनो देवं द्रष्टुमिच्छन्ति। भोश्चित्रमेतत्।

क्षणात्प्रबोधमायाति लङ्घ्यते तमसा पुनः।
निर्वास्यतः प्रदीपस्य शिखेव जरतो मतिः॥५-२॥

(परिक्रम्य दृष्ट्वा) एष देवः

प्रजाः प्रजाः स्वा इव तन्त्रयित्वा
निषेवते शान्तमना विविक्तम्।
यूथानि सञ्चार्य रविरप्रतप्तः
शीतं दिवा स्थानमिव द्विपेन्द्रः॥५-३॥


कञ्चुकी। अन्तःपुरचारी वृद्धद्विजः। यदाह-अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः। सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते।। जरा वैक्लव्यमुखेन(युकेन)⁶³ विशेद्गात्रेण कञ्चुकी।। इति भरतः। यो न त्वरावह स्त्रीणामिति तृतीय-चरणमन्ये पठन्ति। आचा०।। (5-1) आचारः अधिकारः मर्यादेत्यन्ये अवरोधेत्यन्तःपुरगृहेषु। अवरोधः स्त्री वा। बहुतिथे बहुकाले, “बहु पूगा[ग]णे०” (पा.सू. 5-2-52) त्यादिना तिथुक्। प्रस्थानं प्रस्थानोद्यम इति शङ्करः। सञ्चार इत्यन्यः। क्षणात्०।। (5-2) प्रबोधमायात्यर्थम् निश्चिनोति, पक्षे छन्ना⁶⁴ भवति। तमसाऽन्धकारेण⁶⁵ च निर्वास्यतो निर्वाणं गच्छतः।

प्रजा०।।(5-3) प्रजा स्यात् सन्ततौ जने इत्यमरः। तन्त्रयित्वा पालयित्वा, विविक्तं विजनदेशम्। शीतं शीतलम्। दिवा दिवसे। उपमा।

यत् सत्यं सत्यमेव। अथवाऽऽक्षेपे। भानुः०।। (5-4) देव(एक)वारम्। रात्रिन्दिवमिति। अच्तुर्रादि-निपातनात् शेषोऽन्तः सदैव सततमेव षष्ठ्यांशवृत्ते राज्ञः धर्म्मः समुचितव्यापारः।


  1. प्रकाशितमैथिलपुस्तके वैक्लव्ययुकेन इति पठ्यते।
  2. दीप्ता इति 4117 इत्यत्र पठ्यते।
  3. तमसाञ्जनेनान्धकारेण चेति 4118 इत्यत्र पठ्यते।

176 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

यत्सत्यं शङ्कित इवास्मीदानीमेव धर्मासनादुत्थिताय देवाय कण्वशिष्यागमनं निवेदयितुम्। अथवा कुतो वा विश्रामो लोकपालानाम्। तथा हि-

भानुः सकृद्युक्ततुरङ्ग एव
रात्रिंदिवं गन्धवहः प्रयाति।
शेषः सदैवाहितभूमिभारः
षष्ठांशवृत्तेरपि धर्म एषः॥५-४॥

(इति परिक्रामति)

(ततः प्रविशति राजा विदूषको विभवतश्च परिवारः।)

राजा-(अधिकारखेदं निरूप्य) सर्वः प्रार्थितमधिगम्य सुखी सम्पद्यते, राज्ञां तु चरितार्थतापि दुःखोत्तरैव। कुतः-

औत्सुक्यमात्रमवसादयति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेव।
नातिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम्॥५-५॥

(नेपथ्ये)

वैतालिकौ-जयति जयति देवः।

एकः- स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः, प्रतिदिनमथ वा ते सृष्टिरेवंविधैव।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं, शमयति परितापं छायया संश्रितानाम्॥५-६॥

दर्पणकारेण तु नवीकृते[ति] पाठान्तरेण पद्यमिदमुदाहृतम्। यथा भानुः सदा युक्ततुरङ्ग एव रात्रिन्दिवेति तुल्यम्। बिभर्ति।। शेषः सततं धरित्रीमित्यन्यतुल्यम्। विभवतो वैभवानुरूपं, परिवारः परिजनः। प्रत्येकं चामरादिवाहिनां कथने गौरवं स्यादिति तत् समाधानमिदम्। चरितार्थता कृतार्थता। दुःखोत्तरा दुःखप्रधाना।

औत्सुक्य०।। (5-5) औत्सुक्यम् उत्कण्ठा, कदा राजा भविष्यामीत्यादि, तामेव दुःखदायिनीं प्रतिष्ठांम् अवसादयति। लब्धपालनवृत्तिस्तु पीडयत्येव अर्थान्नृपम्। एव-शब्दो भिन्नक्रमे। एवमित्यनुभूयमान-प्रकारेणेति शङ्कर-दुर्बोधः। राज्यं कर्तुं उत्कण्ठामात्रं नाशयति प्रतिष्ठां प्रागवस्थितां ख्यातिं क्लिश्नातीत्यन्ये। राज्यमुत्कण्ठामात्रं ख्यातिं नाशयतीति तु शङ्करस्य तु कुव्याख्यानम्।। वैतालिका लक्षणया बन्दिनः।।

जाने तत्रभवती हंसवती दुःस्व(ष)न्तभार्या, वर्णपरिचयं करोति। गीतिषु चत्वारो वर्णा भवन्ति। यदाह भरतः-

स्थायी तथैव सञ्चारी, तथारोहावरोहिणौ। वर्णाश्चत्वार एवैते कथिताः सर्वगीतिषु।।
तेषां परिचयमभ्यासं वर्णनिश्चयम्। सुरजातिनिश्चयमित्यन्यः पठति।।

अभिज्ञानशकुन्तलम् पञ्चमोऽङ्कः 177

द्वितीयः-

नियमयसि विमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय। अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्यं जनानाम्।।7।।

राजा- (आकर्ण्य) आश्चर्यम्। एतेन कार्यानुशासनपरिश्रान्ताः पुनर्नवीकृताः स्मः।

विदूषकः- भो, गोविन्दारओ त्ति भणिदस्स रिसभस्स परिस्समो णस्सदि। (भोः, गोविन्दारकः इति भणितस्य ऋषभस्य परिश्रमः नश्यति।)

राजा- (सस्मितम्) ननु क्रियतामासनपरिग्रहः।
(उभावुपविष्टौ परिजनश्च यथास्थानं स्थितः।)
(नेपथ्ये वीणाशब्दः)

विदूषकः- (कर्णं दत्त्वा) भो वअस्स, संगीदसालन्तरे कण्णं देहि। लअसुद्धाए वीणाए सरसंजोओ सुणीअदि। जाणे तत्तभोदी हंसवदी वण्णपरिचअं करेदि त्ति। (भोः वयस्य, सङ्गीतशालान्तरे कर्णं देहि। लयशुद्धायाः वीणायाः स्वरसंयोगः श्रूयते। जाने तत्रभवती हंसवती वर्णपरिचयं करोतीति।)

राजा- तूष्णीं भव यावदाकर्णयामि।

कञ्चुकी- (विलोक्य) अये, अन्यासक्तचित्तो देवः। तदवसरं प्रतिपालयामि।
(इत्येकान्ते स्थितः)
(नेपथ्ये गीयते।)

अहिणवमहुलोहभाविओ तह परिचुम्बिअ चूअमञ्जरिं।
कमलवसइमेत्तणिव्वुओ महुअर वीसरिओ सि णं कइं।।5-8।।
(अभिनवमधुलोभभावितः तथा परिचुम्ब्य चूतमञ्जरीम्।
कमलवसतिमात्रनिर्वृतः मधुकर विस्मृतः असि एनां कथम्) ।।5-8।।

राजा- अहो रागपरिवाहिणी गीतिः।


अहि०।। (5-8) अभिनवमधुलोभभावितः तथा परिचुम्ब्य चूतमञ्जरि(री)म्। कमलवसतिमात्र-निर्वृतो मधुकर विस्मृतोऽस्येनां कथम्।। भावितामिति शङ्करः। विस्मृत इति कर्तरि क्तः। शकुन्तलोक्तिरियम्। गौतमी पठिता गीतिरियमित्यन्यः। प्रच्छेदकाख्यं⁶⁶ लास्याङ्गमिदम्। तदुक्तम्⁶⁷-“अन्यासक्तं पतिं मत्वा, प्रेमविच्छेदमन्युना। वीणापुरःसरं गानं स्त्रियाः प्रच्छेदको मतः”।। इति। रागोऽनुरागः, स्वर इत्यन्यः।

  1. मातृका 4117 इत्यत्र कार्यम् इति पठ्यते।
  2. कविकण्ठहारे इति शङ्करः (पृ. 254)।

178 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

विदूषकः-भो वअस्स। किं दाव से गीदिआए गहिदो भवदा अक्खरत्थो। (भोः वयस्य, किं तावदस्याः गीतिकायाः गृहीतः भवताक्षरार्थः।)

राजा-(सस्मितम्) सकृत्कृतप्रणयोऽयं जनः। तदहं देवीं हंसवतीमन्तरेणोपालम्भम् आगतोऽस्मि। सखे माधव्य, मद्वचनादुच्यतां देवी हंसवती सम्यगुपालब्धोऽस्मीति।

विदूषकः-जं भवं आणवेदि। (उत्थाय) भो वअस्स। गहिदो तए परकेरएहिं हत्थेहिं सिहण्डए अच्छभल्लो। ता अवीदराअस्स विअ समणस्स णत्थि दाणिं मे मोक्खो। (यद्भवानाज्ञापयति। भोः वयस्य, गृहीतः तया परकीयैः हस्तैः शिखण्डके अच्छभल्लः। तत् अवीतरागस्येव श्रमणस्य नास्ति इदानीं मे मोक्षः।)

राजा-गच्छ, नागरकवृत्त्या शान्तयैनाम्।

विदूषकः-का गदी। (का गतिः) (इति निष्क्रान्तः)

राजा-(स्वगतम्) किं नु खलु गीतमेवंविधमाकर्ण्येष्टजनविरहाद् ऋतेऽपि बलवदुत्कण्ठितोऽस्मि। अथवा-

रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्
पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः।
तच्चेतसा स्मरति नूनम् अबोधपूर्वं
भावस्थिराणि जननान्तरसौहृदानि॥ ५-९॥

(अस्मृतिनिमित्तम् उन्मनस्कत्वं रूपयति)

कञ्चुकी-(उपसृत्य) जयति जयति देवः। एते खलु हिमगिरेरुपत्यकारण्यवासिनः कण्वसन्देशमादाय सस्त्रीकास्तपस्विनः प्राप्ताः, इति श्रुत्वा देवः प्रमाणम्।

राजा-(सविस्मयम्) किं कण्वसन्देशहारिणः सस्त्रीकास्तपस्विनः।

कञ्चुकी-अथ किम्।


भो वयस्य, किं तावदस्या गीतिकाया गृहीतो भवतौक्षरार्थः। अन्तरेण वेदीं(देवीं) परिहायेत्यर्थः। यद्वान्तरेण तन्निमित्तमुपालम्भो दुर्वादः। हंसवतीति महादेवी नाम। यद् भवानाज्ञापयति। भो वयस्य गृहीतस्त्वया(स्तया) परकीयैर्हस्तैः शिखण्डके, लक्षणया पुच्छैः। अच्छभल्लो भल्लुकः। केरकशब्द प्राकृते आत्मीये वर्तते। तस्मादवीतरागस्येव श्रमणकस्य परिव्राजकस्य नास्ति मे मोक्षः। मोचनमपवर्गश्च। नागरको विदग्धः। का गतिः, कः प्रकारः।

रम्या०।। (5-9) रम्याणि कृत्य(वीक्ष्य) द्रव्याणि। नूनं निश्चये सम्भावनायां वा। अज्ञानपूर्वं स्मरति। परिभावयति भावेति।

हृदयदृढानि प्रमाणमिति प्रवेशाप्रवेशयोरित्यर्थः। प्रमाणं हेतुमर्यादा शास्त्रेयत्ता प्रमातृष्वित्यमरः। “अथ किम्” स्वीकारे।

अभिज्ञानशकुन्तलम् पञ्चमोऽङ्कः 179

राजा—तेन हि विज्ञाप्यतां मद्वचनादुपाध्यायः सोमरातः। अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हसीति। अहमप्येतांस्तपस्विदर्शनोचिते देशे प्रतिपालयामि।

कञ्चुकी—यथाज्ञापयसि। (इति निष्क्रान्तः।)

राजा—(उत्थाय) वेत्रवति, अग्निशरणमार्गमादेशय।

प्रतीहारी—इदो इदो एदु देवो। (परिक्रम्य) भट्टा, एसो अहिणवसंमज्जणरमणीओ संणिहिदहोमधेणू अग्गिसरणालिन्दओ। ता आरोहदु देवो।

(इतो इतो एतु देवः। भर्तः, एषः अभिनवसम्मार्जनरमणीयः सन्निहितहोमधेनुः अग्निशरणालिन्दकः, तदारोहतु देवः।)

राजा—(साभिनयमारुह्य परिजनांसावलम्बी तिष्ठन्) वेत्रवति, किमुद्दिश्य तत्रभवता कण्वेन मत्सकाशमृषयः प्रेषिताः।

किं तावद् व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं
धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम्।
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधा-
मित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः॥५–१०॥

प्रतीहारी—देवस्य भुअसद्दणिव्वुदे अस्समे कुदो एदं। किं तु सुचरिदाहिणन्दिणो इसीओ देवं सभाजइदुं आगद त्ति तक्केमि।

(देवस्य भुजशब्दनिर्वृते आश्रमे कुतः एतत्। किं तु सुचरिताभिनन्दिनः ऋषयः देवं सभाजयितुमागताः इति तर्कयामि।)

(ततः प्रविशतो गौतमीसहितौ शकुन्तलामादाय, कण्वशिष्यौ पुरतश्चैषां पुरोहित-कञ्चुकिनौ)

कञ्चुकी—इतो इतो भवन्तः।


पालयामि प्रतीक्षे। इत इत एतु देवः भट्टारकः। एषोऽभिनव सम्मार्जन-रमणीयः सन्निहित-होमधेनु-रग्निशरणालिन्दकस्तदारोहतु देवः। प्रघाण-प्रघणालिन्दा बहिर्द्वार प्रकोष्ठक इत्यमरः। अलिन्दो गृहलग्नगृहमिति शङ्करः।

किन्ता०।। (5-10) उत पक्षान्तरे। असत् होत्रादिकं, आहोस्विद्वितर्के विष्टम्भितः प्रतिरुद्धः। वीरुधां लतानां प्रतर्के ऊहः। देवस्य भुजशब्द⁶⁸ निर्वृत्ते आश्रमपदे। कुत इदं शब्दः ख्यातिर्दतेति शङ्करः⁶⁹। किन्तु सुचरिताभिनन्दिन ऋषयो देवं सभाजयितुम् अभिनन्दयितुमागता इति तर्कयामि।


  1. देस्य स्तुजशब्द इति 4117 इत्यत्र पठ्यते।
  2. शङ्करपाठः इति 4118 अन्यत्र पठ्यते।

180 चन्द्रशेखरचक्रवर्तिकृतसन्दर्भदीपिकया समलङ्कृतम्

शार्ङ्गरवः-सखे शारद्वत,

महाभागः कामं नरपतिरभिन्नस्थितिरसौ न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते। तथापीदं शश्वत्परिचितविविक्तेन मनसा जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव॥5-11॥

शारद्वतः-शार्ङ्गरव, स्थाने खलु पुरप्रवेशात् तवेदृशः संवेगः। अहमपि,

अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम्। बद्धमिव स्वैरगतिर्जनमवशः सङ्गिनमवैमि॥5-12॥

पुरोधाः-अत एव भवद्विधा महान्तः।

शकुन्तला-(दुर्निमित्तमभिनय) अम्मो, किं ति वामेदरं णअणं मे विप्फुरदि। (अम्मो, किमिति वामेतरं नयनं मे विस्फुरति।)

गौतमी-जाद, पडिहदं अमङ्गलं। सुहाइं दे होन्तु। (जात, प्रतिहतममङ्गलम्। शुभानि ते भवन्तु।) (इति परिक्रामन्ति)

पुरोधाः-(राजानं निर्दिश्य) भोस्तपस्विनः, असावत्र वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनः प्रतिपालयति वः। पश्यतैनम्।

शार्ङ्गरव-काममेतदभिनन्दनीयम्। तथापि वयमत्र मध्यस्थाः। कुतः-

भवन्ति नम्रास्तरवः फलोद्गमै- र्नवाम्बुभिर्दूरविलम्बिनो घनाः। अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्॥5-13॥


महा०।। (5-11) भागो⁷⁰ भाग्यं, स्थितिर्मर्यादा वर्णानां मध्येऽपथं विरुद्धधर्मः अपकृष्टः शूद्रः। इदं राजकुलं परिचितं विविक्तं निर्जनदेशो, यस्य परिचयेन विविक्तेन विजनेन स्थिरेणेति शङ्करदुर्बोधः। इदं जनाकीर्णं लग्नाग्निं गृहमिव मन्ये, स्थाने युक्तम्।

अभ्यक्तं ०।। (5-12) अवशोऽहं सङ्गिनं जनमेवंभूतमवैमि। स्नातः पुरुषोऽभ्यक्तं कृताभ्यङ्गं यथा वेति। एवमुत्तरत्र।। अम्मो, विस्मये कष्टे वा। किमिति वामेतरं नयनं मे स्फुरति। जात, प्रतिहतममङ्गलं, शुभानि ते भवन्तु। अभिनन्दनीयं श्लाघनीयम्, अत्र प्रमेये उदासीना न तु सम्बन्धिनः। राज्ञ एव सम्बन्धात् तथाप्यस्मद्विषयगौरवमीदृशं श्लाघ्यमेवेति भावः।

भव०।। (5-13) तरूणां घनानाञ्च उपमानविधेयोपन्यासः, तेन च दीपकालङ्कारः। स चार्थान्तरन्यासेन सह सङ्कीर्णः।


  1. भागो इति 4118 अन्यत्र पठ्यते।

अभिज्ञानशकुन्तलम् पञ्चमोऽङ्कः 181

प्रतीहारी—देव, पसण्णमुहा सुत्थकप्पा विअ इसीओ दीसन्ति। (देव, प्रसन्नमुखाः स्वस्थकल्पाः इव ऋषयः दृश्यन्ते।)

राजा—(शकुन्तलां निर्वर्ण्य) अये—

केयमवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्॥५-14॥

प्रतीहारी—भट्टा, दंसणीआकिदी खु लक्खीअदि। (भर्तः, दर्शनीयाकृतिः खलु लक्ष्यते।)

राजा—भवतु, अनिर्वर्ण्यं खलु परकलत्रम्।

शकुन्तला—(उरसि हस्तं दत्त्वा, आत्मगतम्) हिअअ, किं एवं वेवसि। अज्जउत्तस्स भावाणुबन्धं सुमरिअ धीरत्तणं दाव अवलम्बसु। (हृदय, किमेवं वेपसे। आर्यपुत्रस्य भावानुबन्धं स्मृत्वा धीरत्वं तावदवलम्बस्व।)

पुरोधाः—(पुरो गत्वा) स्वस्ति देवाय। देव, एते खलु विधिवदर्चितास्तपस्विनः। कश्चिद् एतेषूपाध्यायसन्देशः। तं देवः श्रोतुमर्हति।

राजा—(सादरम्) अवहितोऽस्मि।

शिष्यौ—(हस्तमुद्यम्य) भो राजन्, विजयतां भवान्।

राजा—(सप्रणामम्) सर्वानभिवादये वः।

शिष्यौ—स्वस्ति भवते।

राजा—अपि निर्विघ्नं तपः।

शिष्यौ

कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि।
तमस्तपति घर्मांशौ कथमाविर्भविष्यति॥५-15॥


प्रसन्नमुखाः सुस्थकल्पा ऋषयो दृश्यन्ते। निर्वर्ण्य दृष्ट्वा।।

केयम्० ।। (5-14)। तपोधनमध्ये केयमस्तीति शेषः। अवगुण्ठनं मस्तकाच्छादनवस्त्रम्। अत एव नातीति पाण्डुपत्राणामर्थात्। भर्ता महाराज। दर्शनीयाकृतिः खलु लक्ष्यति⁷¹। हृदय, किमेवं वेपसे, आर्यपुत्रस्य भावानुबन्धं स्मृत्वा धीरमवलम्बस्व। देबायेति, स्वस्ति योगे चतुर्थी (पा.सू. 2-3-16)। स्वस्त्याशीः क्षेमपुण्यादावित्यमरः। उद्यम्य उतोल्य, अपि प्रश्ने।

कुतः० ।। (5-15) दृष्टान्तालङ्कारः। अनामयेति क्षत्रियाणां तथा प्रश्नस्यैवौचित्यात्। तथा च मनुः—ब्राह्मणं कुशलं पृच्छेत्, क्षत(त्र)बन्धुम(न्चोर)नामयम्।।


  1. लक्ष्यति इत्यस्य स्थाने लक्ष्यते इति भवितुमर्हति। किन्तु प्राकृतभाषायाम् आत्मनेपदस्याभावादित्थमन्वुद्यते।