ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२द्वितीयारण्यके-
माणो भोक्ता स्वयमुपकुर्वन्भोग्यश्च भवति। तथा सत्युपासनफलरूपे भोक्तृभोग्यात्म- कत्वे को नाम विशेष इत्याशङ्कयाऽऽह— न तस्येशे यन्नाद्याद्यदैनं नाद्युः, इति। इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
अनुपासको लौकिकः पुरुषः स्वधर्मकर्मप्राप्तमशनादिकं कियदेवात्ति न तु सर्वं सर्वस्य स्वकर्मप्रापि[त]त्वाभावात्। तथा सति यद्वस्तु स्वयं नाद्यान्न भुञ्जीत तस्य वस्तुनो नेशे नेष्टे स्वामी न भवति। उपासकस्तु हिरण्यगर्भरूपः सन्सर्वमत्तीति सर्वस्य स्वामी। सोऽयमेको विशेषः। वाशब्दः समुच्चयवाची। यद्वा यस्माच्च कारणादेनमुपासकं नाद्युरन्ये पुरुषा न भुञ्जीरंस्तस्मात्पराधीन लक्षणं भोग्यत्वं नास्ति, अनुपासकस्य तु तदस्तीत्ययमपरो विशेषः। ननु भोग्यत्वाभावे सत्याद्यो भवतीति कथमुच्यते। नायं दोषः। पराधीनत्वलक्षणस्य भोग्यत्वस्यैव निषेधात्। आद्यो भवतीत्यनेन तु स्वात्मभूतसर्वभोग्यजातरूपत्वमभिधीयत इति न कोऽपि विरोधः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
अथ तृतीयः खण्डः।
पूर्वोक्तेषूक्थेषु पुरुषत्वदृष्टिं विधातुं पुरुषस्य महत्त्वमयमेव महानित्यभिहितम्। तदेतन्महत्त्वमुपपादयति— अथातो रेतसः सृष्टिः प्रजापते रेतो देवा देवानां रेतो वर्षं वर्षस्य रेत ओषधय ओषधीनां रेतोऽ- न्नमन्नस्य रेतो रेतो रेतसो रेतः प्रजाः प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसो रेतो वाग्वाचो रेतः कर्म तदिदं कर्म कृतमयं पुरुषो ब्रह्मणो लोकः, इति।
अथ पुरुष एवोक्थमित्येवमुक्थे पुरुषदृष्टिकथनानन्तरम् । यतः कारणात्पुरुषस्योक्थत्वं संभावयितुमयमव महानित्युक्तं^१ वैशिष्ट्यं वक्तव्यमतः कारणाद्वैशिष्ट्यसिद्धये रेतसः सारभूतस्य सृष्टिरभिधीयत इति शेषः। आदौ प्रजापतेर्जगदीश्वरस्य रेतः सारभूतं कार्यं देवाः। सात्त्विकत्वाद्देवानां सारभूतत्वं युक्तम्। मनुष्याणां
^१ क. ख. 'त्युक्तवै' ।
अध्या० १ ख० ३] ऐतरेयारण्यकम् । ९७
राजसत्वादृक्षाश्वादीनां तामसत्वाच्च नास्ति सारकार्यत्वम् । तेषां च देवानां रेतः सारभूतं कार्यं वर्षम् । घर्मकाले संतप्ता भूमिवर्षेणाऽऽप्यायते ततोऽस्य सारत्वम् । तस्यापि वर्षस्य सारमोषधयः, प्राप्युपकारकत्वात् । न हि तद्वृष्टिकार्यमपि पङ्कादिकं प्राणिभिः सेव्यते । ओषधीनामप्यन्नं सारं न तु पलालतुषादिकम् । अन्नस्यापि रेतः सारं न तु पुरीषादिकम् । रेतसोऽपि सारं पुत्रादिरूपाः प्रजा नतु वन्ध्यायामृतुष्टष्टस्य सारत्वमस्ति । प्रजानामपि सारं हृद॑यपुण्डरीकं, जीवात्मनः स्थानत्वात् । "हृदि ह्येष आत्मा" इति श्रुतेः । हृदयस्य सारं मनः, ज्ञानशक्तियुक्तत्वात् । न तु मांसमयानामष्टदलानां तच्छक्तिरस्ति । मनसः सारं वेदरूपा वाक् । "यद्धि मनसा ध्यायति तद्वाचा वदति" इति श्रुतेर्वाचो मनःकार्यत्वम् । न तु मनस उत्पन्नानां रागद्वेषादीनां वेदवत्सारत्वमस्ति । वेदस्यापि सारमग्निहोत्रादिकं कर्म, वैदिकमन्त्राणां तदनुष्ठानार्थत्वात् । तदिदं कर्म पूर्वस्मिञ्जन्मनि कृतं सदिह जन्मनि वेदशास्त्रकर्मानुष्ठानब्रह्मोपासनब्रह्मज्ञानयोग्यः पुरुषो भवति, न हि निरतिशयितसुकृतमन्तरेणेदृशं जन्म संभवति । तस्मात्पुरुषो ब्रह्मण उपासनीयस्य वेदनीयस्य च लोकः स्थानमिति तस्य महत्त्वं सिद्धमित्यर्थः ।
तस्य पुरुषस्य हिरण्मयाख्यो गुणो ज्ञानाय विधीयते—
स इरामयो यद्धीरामयस्तस्माद्धिरण्मयः, इति ।
इराशब्दोऽन्नवाची । स पुरुषः शिरःपाण्यादियुक्तोऽन्नमयः । अत एव तैत्तिरीयका आमनन्ति—"स वा एष पुरुषोऽन्नरसमयः " [ तै० उ० २ । १ । १ ] इति । यद्धि यस्मादेव कारणादयमिरामयस्तस्मात्कारणाद्धिरण्मय इत्युपासकानां प्रसिद्धः । इराहिरण्मयशब्दयोरक्षरसाम्यात्तथोच्यते । यथाऽध्यात्ममन्नमय एवमधिदैवं ब्रह्माण्डरूपेण स्वर्णमयः ।
एतद्गुणध्यानस्य फलमाह—
हिरण्मयो ह वा अमुष्मिँल्लोके संभवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये तृतीय खण्डः ॥ ३ ॥
यः पुमानेवं हिरण्मयैत्वगुणमुपास्ते स पुमान्स्वर्गलोके ज्योतिर्मयो भवति । तथाविधो भूत्वा सर्वप्राण्युपकारार्थमादित्यमण्डलरूपेण सर्वदा दृश्यते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये द्वितीयारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥
१ क. 'दयं पु' । २ क. 'यगु' । ३ क. ख. घ. ड. 'र्थं आदि' !
९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२द्वितीयारण्यके-
अथ चतुर्थः खण्डः ।
स्थूलदेहरूपेणोक्थस्योपासनमभिधाय सूक्ष्मदेहात्मकप्राणरूपेणोपासनं वक्तुं प्राणोपाधिकस्य परमात्मनः शरीरे प्रवेशं दर्शयति—
तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं यत्प्रपदाभ्यां
प्रापद्यत ब्रह्मेमं पुरुषं तस्मात्प्रपदे तस्मात्प्रपदे
इत्याचक्षते शफाः खुरा इत्यन्येषां पशूनाम्, इति ।
यज्जगत्कारणं "सत्यं ज्ञानमनन्तं ब्रह्म" [तै० उ० २—१—१] इत्यादिवाक्यप्रतिपाद्यं ब्रह्मास्ति तदेतत्स्सृष्टिकाले स्थूलदेहं सृष्ट्वा तं सृष्टमिमं दृश्यमानं पुरुषशब्दवाच्यं स्थूलं देहं प्रपदाभ्यां पादाग्राभ्यां प्रापद्यत प्रविष्टवत् । "तत्सृष्ट्वा तदेवानुप्राविशत्" [तै० उ० २ । ६ । १] इति श्रुत्यन्तरम् । यद्यपि सर्वगतस्य ब्रह्मणः प्रवेशो न संभवति तथाऽपि प्राणोपाधिकस्य प्राणप्रवेशेनैव प्रवेश उपचर्यते । अत एव मैत्रायणीया आमनन्ति—"स वायुमिवाऽऽत्मानं कृत्वाऽभ्यन्तरं प्राविशत्" [मै० उ० प्र० २] इति । यस्मात्पादाग्राभ्यां प्रवेशस्तस्मात्प्रापद्यतोभाभ्यामिति व्युत्पत्त्या पादाग्रयोः प्रपदत्वं संपन्नम् । यस्मादवयवार्थस्तयोरस्ति तस्माल्लोके शाब्दिकाः प्रपदे इत्यनेनैव शब्देन पादाग्रद्वयं व्यवहरन्ति । मनुष्यशरीरेषु पादाग्रसद्भावात्तद्वारेण प्रवेशेऽपि गवाश्वादिशरीरेषु तदसंभव इति चेन्न । तच्छरीरेष्वपि शफशब्देन खुरशब्देन च तत्तद्देशे प्राणिभिर्व्यवह्रियमाणानां पादभागानामेव प्रपदत्वात् । शफखुरशब्दयोर्देशविशेषेण व्यवहारभेदः ।
पादाग्रयोः प्रविष्टस्य ब्रह्मणः क्रमेण शिरःपर्यन्तां व्याप्तिं दर्शयितुमूरुपर्यन्तं तावद्दर्शयति—
तदूर्ध्वमुदसर्पत्त ऊरू अभवताम्, इति ।
तत्पादाग्रयोः प्रविष्टं ब्रह्मोर्ध्वाभिमुखत्वेन व्याप्तवत् । यस्मादेवं तस्मादुदसर्पदनयोरिति व्युत्पत्त्या तावूरू ऊर्ध्वप्रदेशावूरुशब्दवाच्यावभवताम् ।
ऊरुदेशादप्यूर्ध्वदेशव्याप्तिं दर्शयति—
उरु गृणीहीत्यब्रवीत्तदुदरमभवत्, इति ।
उरु विस्तीर्णं यथा भवति तथा गृणीहि निगरणयोग्यं विपुलच्छिद्रं कुर्व्वित्येवमुपरितनं शरीरभागं प्रत्यूर्वोरवस्थितं ब्रह्माब्रवीत्तस्य ब्रह्मणः संकल्पवशात्तत्स्थानमुपरितनमुदरशब्दवाच्यं विपुलच्छिद्रमभवत् ।
^१ ग. गजाश्वा° ।
अध्या० १।ख० ४] ऐतरेयारण्यकम् । ९९
उरुशब्देन सहाक्षरसाम्यादुदरनामत्वम् ।
पुनरप्युपरि देशे संचारं दर्शयति—
उर्वेंव मे कुर्वित्यब्रवीत्तदुरोऽभवत् , इति ।
उदरवर्तिनो मम भूयोऽपि विस्तीर्णमेव छिद्रं कुर्वित्येवं ब्रह्मसंकल्पवशात्तदे-
तदुपरितनं स्थानमुरःशब्दवाच्यं विपुलच्छिद्रमभूत् । अत्राप्यक्षरसाम्यान्निर्वचनं
द्रष्टव्यम् ।
अनयोः कुक्ष्युरसोर्ब्रह्मसंकल्पविशेषेण प्रीतिपूर्वकेणोत्पन्नत्वाद्ब्रह्मध्यानप्रतीकत्वं
दर्शयति—
उदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं
ब्रह्मेत्यारुणयो ब्रह्माहैव त३इ, इति ।
शर्कराक्षिनामकस्य महर्षेः पुत्रा उदरे ब्रह्मदृष्टिं कृत्वोपासते । अरुणाख्यस्य
महर्षेः पुत्रा हृदयस्थानगतेऽष्टदलकमलमध्यस्थे हृदयच्छिद्रे ब्रह्मदृष्टिं कृत्वोपासते ।
ते उभे अपि स्थाने ब्रह्मणः प्रीतिविषयत्वादब्रह्मैव । प्लुतिः शास्त्रीयप्रसिद्ध्यर्था ।
पुनरपि ब्रह्मण ऊर्ध्वदेशे संचारं दर्शयति—
ऊर्ध्वं त्वेवोदसर्पत्तच्छिरोऽश्रयत यच्छिरोऽश्र-
यत तच्छिरोऽभवत्तच्छिरसः शिरस्त्वम् , इति ।
उरःपर्यन्तमुद्गत्यापि तद्ब्रह्म नोपरेमे किं तु ततोऽप्यूर्ध्वमुदसर्पदेव । ऊर्ध्वं
गत्वा च तद्ब्रह्म शिरोदेशमश्रयत सेवितवत् । यस्मादेवं तस्माच्छ्रितमनेनेति व्युत्पत्त्या
तत्स्थानं शिरःशब्दवाच्यमभवत् । तस्मादेव कारणाल्लोकेऽप्यूर्ध्वभागस्य शिरःशब्द-
वाच्यत्वं प्राणिभिर्व्यवह्रियते ।
शिरोभागं पुनः प्रशंसति—
ता एताः शीर्षञ्छ्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राणः, इति ।
शीर्षञ्शिरोभागे ता ब्रह्मणा सृष्टत्वेन श्रुतौ प्रसिद्धा एता अस्माभिरनुभूयमानाः
श्रियो दर्शनश्रवणादिव्यवहारसंपदः श्रिताः प्राप्ताः । कास्ताः श्रिय इति चेत्तदु-
च्यते—चक्षुरादयः श्रियो व्यवहारसंपदस्तन्निष्पत्तेः ।
शिरस्त्ववेदनं प्रशंसति—
श्रयन्तेऽस्मिञ्छ्रियो य एवमेतच्छिरसः शिरस्त्वं वेद, इति ।
यः पुमांश्शिरोनाम विदित्वोपास्तेऽस्मिन्पुरुषे चक्षुरादिपाटवजन्योत्तमसंपद आश्रिता
भवन्ति ।
१०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
इदानीं शिरःपर्यन्ते शरीरेऽवस्थितानां चक्षुरादीनां मध्ये प्राणस्य श्रेष्ठ्यं वक्तुं संवादं दर्शयति—
ता अहिंसन्ताहमुक्थमस्म्यहमुक्थमस्मीति ता अब्रुव- न्हन्तास्माच्छरीरादुत्क्रामाम तयस्मिन्न उत्क्रान्त इदं शरीरं पत्स्यति तदुक्थं भविष्यतीति, इति ।
ताः पूर्वोक्ताः श्रियश्चक्षुरादिरूपास्तदभिमानिन्यो देवता अहिंसन्त परस्परस्पर्द्धा- रूपां हिंसामकुर्वन् । स्पर्धाविषयो विस्पष्टमुच्यते—अहमुक्थमस्मि । उक्थे चक्षुःस्व- रूपस्य ममैव दृष्टिः कर्तव्येत्येवं चक्षुर्देवता वक्ति । तथैव श्रोत्रादयोऽपीति विवक्षया वीप्सोक्ता । ताः स्पर्धमाना देवताः स्पर्धानिवारणार्थं समयविशेषे परस्परमब्रुवन् । निवारणोपायदर्शननिमित्तहर्षार्थो हन्तशब्दः । वयं सर्वा अपि क्रमेणास्माच्छरीरादु- त्क्रान्तिं करवाम । तथा सत्यस्माकं मध्ये यस्मिन्नुत्क्रान्ते सतीदं शरीरं पतिष्यति तदेवोक्थं भविष्यति । इतिशब्दः समयबन्धसमाप्त्यर्थः ।
क्रमेणोत्क्रान्तिं शरीरपतनपर्यन्तां दर्शयति—
वागुदक्रामदवदन्नश्नन्पिबन्नास्तैव चक्षुरुदक्रामदपश्य- न्नश्नन्पिबन्नास्तैव श्रोत्रमुदक्रामदशृण्वन्नश्नन्पिब- न्नास्तैव मन उत्क्रामन्मीलित इवाश्नन्पिबन्ना- स्तैव प्राण उदक्रामत्तत्प्राण उत्क्रान्तेऽपद्यत, इति ।
वाक्चक्षुःश्रोत्रमनसामेकैकस्मिन्नुत्क्रान्ते सति तत्तदिन्द्रियसाध्यव्यापारमात्रं लुप्यते न तु शरीरं पतति, किं त्वन्नपाने स्वी कुर्वन्यथापूर्वमभवदेव । मीलित इवेत्यस्यायमर्थः— यथा मुग्धश्चक्षुर्मीलनोन्मीलनमात्रं कुर्वन्विषयविवेकमकुर्वन्नास्ते तद्वदयं देह इति । तच्छरीरं प्राण उत्क्रान्ते सति पतितमभून्न त्वश्नाति नापि पिबति ।
तदेव पतनं शरीरशब्दनिर्वचनेन प्रपञ्चयति—
तदशीर्यताशारीतीँ तच्छरीरम- भवत्तच्छरीरस्य शरीरत्वम्, इति ।
यत्पतितं शरीरं तच्छीर्णमभूत्, अवयवविश्लेषेण विनष्टमभूत्, अतो लोके प्राण- रहितं शरीरं दृष्ट्वैतदशारि विशीर्णमभूदित्येवं वर्णयन्ति । तत्प्रसिद्धिद्योतनाय प्लुति- रिति । तच्च शीर्णत्वयोग्यत्वाच्छरीरमभूत् । तत्तस्माच्छीर्णत्ववचनादेव शरीरनाम सर्वैर्व्यवाह्रियते ।
एतन्नामनिर्वचनवेदनं प्रशंसति—
शीर्यते ह वा अस्य द्विषन्पाप्मा भ्रातृव्यः पराऽस्य
अध्या० १ ख० ४] ऐतरेयारण्यकम् । १०१
द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद, इति । यः पुमानेवं शरीरत्वं विदित्वोपास्तेऽस्य वेदितुर्द्वेषं कुर्वन्पापरूपः शत्रुविंशीर्णो भवति । कथंचिदविशीर्णत्वेऽपि पराभवति तिरस्कृतो भवति । प्राणोत्क्रमणस्य देहपतनहेतुत्वमभिधाय प्राणप्रवेशस्य देहोत्थापनहेतुत्वमभिधातुं पुनरपि संवादं समयबन्धं च दर्शयति—
ता अहिंसन्तैवाहमुकथमस्म्यहमुकथमस्मीति
ता अब्रुवन्हन्तेदं पुनः शरीरं प्रविशाम
तद्यस्मिन्नः प्रपन्न इदं शरीरमुत्था-
स्यति तदुक्थं भविष्यतीति, इति ।
अहिंसन्तैव न तु स्पर्द्धाया उपरताः । प्रपन्ने प्रविष्टे । अन्यत्पूर्वव्याख्येयम् । प्राणप्रवेशेन देहस्योत्थानं दर्शयति—
वाक्प्राविशदशयदेव चक्षुः प्राविशद-
शयदेव श्रोत्रं प्राविशदशयदेव मनः
प्राविशदशयदेव प्राणः प्राविशत्तत्प्राणे
प्रपन्न उदतिष्ठत्तदुक्थमभवत्, इति ।
अशयदेव शयानमेवाभूत् । न तूत्थितमभूत् । तत्प्राणस्वरूपमुत्थानहेतुत्वा- दुक्थमभूत् । प्राणस्योत्थानहेतुत्वलक्षणमुक्थत्वं प्रसिद्धमिति श्रुतिप्रयोगेण दर्शयति¹—
तदेतदुक्थाँरे प्राण एव, इति ।
चक्षुरादीनामुत्थानहेतुत्वाभावादुक्थत्वाभावार्थ एवकारः । यदर्थं प्राणप्रवेशप्राणसंवादावपन्यस्तौ तदिदानीं विधत्ते—
प्राण उक्थमित्येव विद्यात्, इति ।
निष्कवल्याख्ये शस्त्रे प्राणदृष्टिं कुर्यादित्यर्थः । एतस्यार्थस्य दाढ्याय चक्षुरादिदेवकर्तृकां प्राणस्तुतिं दर्शयति—
तं देवा अब्रुवन्त्वमुक्थमसि त्वमिदं सर्व-
मसि तव वयं स्मस्त्वमस्माकमसीति, इति ।
तं प्राणं चक्षुराद्या देवा अनेन प्रकारेणोक्तवन्तः । हे प्राण त्वं देहस्योत्थानहेतु- त्वादुक्थस्वरूपमसि । अतः सर्वदेहव्यापारस्य त्वदधीनत्वादिदं सर्वं जगत्त्वमेवासि । वयं तव भृत्याः स्मः । त्वं चास्माकं स्वाम्यसि । इतिशब्दः स्तुतिसमाप्त्यर्थः ।
¹ घ. ङ. विशदयति ।
१०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
उक्तार्थदार्ढ्याय मन्त्रमुदाहरति— तदप्येतदृषिणोक्तं त्वमस्माकं तव स्मसीति, इति । इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
यदेतत्प्राणस्तुतिरूपं ब्राह्मणेनोक्तं तदेतदृषिणा मन्त्रेणाप्युक्तम् । त्वमस्माकमित्यादिः प्रतीकप्रदर्शनार्थो मन्त्रस्य चरमः पादः । मन्त्रस्तु संहितायामेवमाम्नातः— “त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः। त्वमस्माकं तव स्मसि” इति । हे इन्द्र प्राणरूप परमेश्वर वयं चक्षुराद्याः प्राणास्त्वयैव सह युजा योगेन रसयोगेण ताम्रमिव त्वद्योगेन लब्धवीर्याः सन्तः स्पृधः स्पर्धाहैतूनूशत्रून्प्रतिब्रूवीमहि प्रतिवक्ष्यामो निराकरिष्यामः । अतस्त्वमस्माकं स्वामी, वयं च तव त्वदीया भृत्याः स्मसि भवामः । तमेतं मन्त्रमुपलक्षयितुं त्वमस्माकमित्यादिपाद उदाहृतः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये द्वितीयारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
अथ पञ्चमः खण्डः ।
अहमुक्थमस्मीति विद्यादित्युपासनादौ सर्वेष्वपि वक्ष्यमाणगुणेष्वनुवृत्त्यर्थं योऽयमहंग्रहविधिरुक्तः स एव तामनुवृत्तिं दर्शयितुं पुनरपि प्राण उक्थमित्येव विद्यादित्यनूदितः । तत्रोक्थे यस्य प्राणस्य दृष्टिविधिस्तस्य प्राणस्य कालात्मकत्ववागादिदेवात्मकत्वसत्यरूपत्वगुणा ध्यानार्थं विधातव्याः, तत्राहोरात्ररूपकालात्मकत्वं विधत्ते—
तं देवाः प्राणयन्त स प्रणीतः प्रातायत प्रातायीती १ँ तत्प्रातरभवत्समागादिती २ँ तत्सायमभवदहरेव प्राणो रात्रिरपानः, इति ।
तमुक्थे ध्यातव्यं प्राणं देवा वागादयः प्राणयन्त “ त्वमस्माकं तव स्मसि ” [ ऋ० सं० म० ८ सू० ९२ ऋ० ३२ ] इत्यादिश्रुत्या प्रकर्षमुत्साहं प्रापितवन्तः । स च प्राणः प्रणीतो देवैरुत्साहं प्रापितैः सन्प्रातायत प्रकर्षेण विस्तृतोऽभूज्जागरणकाले स्वभृत्यरूपान्वागादींस्तद्गोलकेषु प्रकर्षेण प्रैसारितवान् । अयमेव प्राणस्य विस्तारः ।
त्वमस्माकं तव ०—ऋ० सं० म० ८ सू० ९२ ऋ० ३२ ।
१ ग. ॰तः पुनः प्राता॰ । २ क. ॰वैणाऽऽवि॰ । ग. ॰वैणान्वितोऽ । ३ क. ख. ग. ॰रूपवागादिगोल॰ । ४ क. ख. ग. प्रेरितवान् ।
अध्या० १ ख० ५] ऐतरेयारण्यकम् । १०३
तं दृष्ट्वा वागादिदेवा मनुष्या वा प्रातायीत्येवमुक्तवन्तः । प्रकर्षेण विस्तृतोऽभू- दिति तस्य शब्दस्यार्थः । प्लुतिः प्रसिद्धयर्था । रात्रावपनीतायां प्रभाते जागरणाय स्वार्थं वागादीनां गोलकेषु प्रसरणं सर्वलोकप्रसिद्धम् । यस्मात्प्रातायीत्येवमुक्तवन्त- स्तस्मादयं वागादिप्रसरणपूर्वको जागरणकालः प्रातःशब्दवाच्योऽभूत् । प्रातायि प्रातरित्यनयोः शब्दयोरक्षरसाम्यात् । स प्राणः पुनरपि रात्रौ सुषुप्त्यर्थं वागादिप्रस- रणं संहृतवांस्तं संहारं दृष्ट्वा समागादित्युकवन्तः । संकोचं प्राप्तवानिति तस्यार्थः । स कालः सायंशब्दवाच्योऽभूत् । समागात्सायमित्यनयोरक्षरसाम्यात् । तस्य च प्राणस्य दिवसे वागादिप्रसारणैरूपजागरणावस्थानिष्पादकः प्राणशब्दवाच्य एको व्यापारः । तथा रात्रौ सुषुप्त्यर्थं वागादिसंहाररूपोऽपानशब्दवाच्यो व्यापारो द्वितीयः । तावेतौ प्राणापानव्यापारावहोरात्ररूपत्वेन ध्येयौ ।
कालात्मकत्वमुक्त्वा दैवतात्मकत्वं दर्शयति—
वागग्निश्चक्षुरसावादित्यश्चन्द्रमा मनो दिशः श्रोत्रं
स एष प्रहितां संयोगोऽध्यात्ममिमा देवता अद
उ आविर्धिदैवतमित्येतत्तदुक्तं भवति , इति ।
वागादीन्द्रियाभिमानिनीनामग्न्यादिदेवतानां वागादिरूपत्वम् "अग्निर्वाग्भूत्वा मुखं प्राविशत् " [ ऐ० आ० २ अ० ४ ख० २ ] इत्यादिना वक्ष्यते । अतः प्राणभृ- त्त्यस्वरूपा उपासकस्य वागादयोऽग्न्यादिरूपतया ध्यातव्याः । तस्य वागादिध्यान- विधिवाक्यस्य तात्पर्यं स एष इत्यादिना स्पष्टी क्रियते । या एता अग्न्यादयो देवताः सन्ति तासां प्रहितां प्रकर्षेण हितानां देवलोकगतेषु स्वस्वस्थानेषु प्रसारणेन विस्रम्भे- णावस्थितानामध्यात्मं पुरुषशरीरे वागादीन्द्रियेषु यः प्रवेशः स एष संयोगः संको- चरूपेण वागादितादात्म्यं तथाऽधिदैवतमद उ शास्त्रप्रसिद्धं स्वस्वस्थानेष्ववस्थिताना- माविः प्रकटीभाव इत्येतदर्थजातं तदुक्तं भवति तेन वागग्निरित्यादिवाक्येनाभिहितं भवति । अग्न्यादीनां शरीरे संकोचो देवलोके विकास इत्येतादृशं तात्पर्यं श्रुत्या दर्शितम् ।
प्राणस्य वागग्न्यादिरूपत्वध्यानं प्रशंसितुं कस्यचिन्महर्षेर्वाक्यमुदाहरति —
एतद्ध स्म वै तद्विद्वानाह हिरण्यदन्वैदो न
तस्येशे यं मह्यं न दद्युरिति प्रहितां वा अह-
१ क. ख. ग. ॰सिद्धार्था । २ घ. ङ. ॰वसो वा॰ । ३ घ. ङ. ॰णजा॰ । ४ क. ख. ॰रूपं जा॰ । ५ क. ख. घ. ङ. देवात्म॰ । ६ घ. ङ. ॰त्यरू॰ । ७ ख. घ. ङ. ॰वस्थानमा॰ । ग. ॰वस्या- नादावि॰ । ८ ग. ॰पत्वेन ध्या॰ ।
१०४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[२द्वितीयारण्यके-
मध्यात्मं संयोगं निविष्टं वेदैतद्व तत्, इति ।
हिरण्मया दन्ता यस्य महर्षेः सोऽयं हिरण्मयदन् । बिदनामकस्य महर्षेः सुतो बैदः स च तदेतत्प्राणरूपं विद्वानुपासीनः कस्मिंश्चित्प्रसङ्ग इदं वाक्यमाह । निपातत्रयसमुदायः प्रसिद्धयर्थः । किं तद्वाक्यमिति चेत्तदुच्यते—अहं बैदाख्यो महर्षिः प्रहितां वै प्रहितानां द्युलोके प्रसारणेनावस्थितानामग्न्यादीनामेवाध्यात्मं निविष्टं मनुष्यशरीरेऽवस्थितं संयोगं संकोचेनावस्थानं वेद जानाम्युपासीनोऽस्मि, तादृशाय मह्यं लौकिकजना यं पदार्थमभीष्टार्थमभीष्टं न दद्युर्नैव समर्पयेयुस्तस्य तादृशस्य पदार्थस्य नेशे नैव ते स्वामिनो भवन्ति । यस्य यस्य पुरुषस्य यस्मिन्यस्मिन्भोग्ये स्वामित्वमस्ति स स पुरुषः सर्वोऽपि प्राणोपासनेन सर्वात्मकाय मह्यं तत्तद्भोग्यं समर्पयत्येवेति महर्षिवाक्यस्याभिप्रायः । एतद्व तद्यन्महर्षिणोक्तमेतदेवै तत् ।
पूर्वत्र ब्राह्मणेनोक्तं प्राणध्यानस्य माहात्म्य[म् ।] वागादिसर्वदेवात्मकत्वगुणध्यानफलमाह—
अनीशानानि ह वा अस्मै भूतानि
बलिं हरन्ति य एवं वेद, इति ।
यः पुमानेवमुक्तप्रकारेणाधिदैवं प्रसृतानामग्न्यादीनामध्यात्मं वागादिरूपेण संकोचमुपास्तेऽस्मा उपासकाय सर्वे प्राणिनः स्वयमनीशा उपासकं प्रति गुणभावमुपेताः सन्तो बलिं हरन्ति पूजां समर्पयन्ति ।
तस्यैव प्राणस्य सत्यत्वरूपं गुणान्तरं ध्येयत्वेन विधत्ते—
तत्सत्यं सदिति प्राणस्तीत्यन्नं यमित्यसावादित्यस्तदेतत्रिवृत्त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिकेति, इति ।
तत्प्राणस्वरूपं सत्यशब्दवाच्यमिति ध्यात्वा तच्छब्दगतेष्वक्षरेषु त्रिषु प्राणान्नादित्यदृष्टयः कर्तव्याः । मध्याक्षर इकार उच्चारणार्थः । तदेतत्सत्यशब्दाक्षरेषु ध्येयं स्वरूपं त्रिवृत्प्राणान्नादित्यैस्त्रिगुणम् । चक्षुरपि शुक्लादिरूपैस्त्रिवृदिव त्रिगुणमेव ।
चक्षुःसाम्यप्रदर्शनेन सत्याक्षरध्यानं प्रशस्य तद्गुणोपासनस्य फलं दर्शयति—
स यदि ह वा अपि मृषा वदति सत्यं हैवास्योदितं
भवति य एवमेतत्सत्यस्य सत्यत्वं वेद, इति ।
इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये
पञ्चमः खण्डः ॥ ५ ॥
१ ग. घ. ङ. °वं च त° । २ ख. ग. °नोक्तध्या° । ३ ग. सत्यंश° । ४ क. °षु प्रा° ।
अध्या० १।ख० ६] ऐतरेयारण्यकम् । १०५
यः पुमानुक्तप्रकारेण सत्यरूपस्य प्राणस्य सत्यत्वं सकाराद्यक्षरत्रयध्येयप्राणा- दिस्वरूपत्वमुपास्ते स पुमान्यद्यपि लोके व्यवहारे किंचिदनृतं वदेत्तथाऽप्यस्य तद्वाक्यं सत्यमेवोदितं भवति । अनृतभाषणप्रत्यवाय एनं न स्पृशतीत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥
अथ षष्ठः खण्डः ।
गुणान्तरं विधत्ते—
तस्य वाक्तन्तिर्नामानि दामानि तदस्येदं वाचा
तन्त्या नामभिर्दामभिः सर्वं सितं सर्वं
हीदं नामनी१ँ सर्वं वाचाऽभिवदति, इति ।
यथा बहुबलीवर्दस्वामिनो वणिजस्तद्वन्धनार्था काचिद्रज्जुः शङ्कुद्वये बद्धा प्रसा- रिता भवति तस्यां रज्जौ प्रत्येकं बन्धनाय पृथक्पाशा भवन्ति तथा तस्य प्राणस्य वाक्तन्तिः शब्दसामान्यं प्रसारितदीर्घरज्जुस्थानीयं देवदत्तयज्ञदत्तादिनामानि पृथ- क्पृथग्बन्धनहेतुदामस्थानीयानि । तत्तथा सत्यस्य प्राणस्य संबन्धिन्या वाक्सामान्य- रूपया दीर्घतन्त्या नामविशेषरूपैर्दामभिश्च सर्वमिदं स्थावरजङ्गमंरूपं जगत्सितं बद्धमिति ध्यायेत् । सर्वं जगदभिधेयरूपमभिधायके नामनि व्यवस्थितमिति लोकप्र- सिद्धमेतत् । अत एव सर्वं वस्तूदिश्य सर्वोऽपि पुरुषो वाचा तत्तन्नाम्नाऽ- भिवदति । यदीयेन नाम्ना पुरुषमाकारयति स एव पुरुषो रज्जुबन्धनेनाऽऽकृष्ट इव समागच्छति ।
एतद्ध्यानस्य फलमाह—
वहन्ति ह वा एनं तन्तिसंबद्धा य एवं वेद, इति ।
बलीवर्दा इव वागारूयतन्तिसंबद्धाः सर्वे प्राणिन एनमुपासकं प्रति वहन्ति पूजा- द्रव्यमानयन्ति ।
पुनरपि गुणान्तरं विधत्ते—
तस्योष्णिग्लोमानि त्वग्गायत्री त्रिष्टुम्मांसमनुष्टुप्स्त्रावा-
न्यस्थि जगती पङ्क्तिर्मज्जा प्राणो बृहती स च्छन्दोभि-
श्छन्नो यच्छन्दोभिरुच्छन्नस्तस्माच्छन्दांसीत्याचक्षते, इति ।
१ ख. ग. ॰स्य कृत्यमाँ ।
१०६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
तस्य ध्येयस्य प्राणदेवस्य गायत्र्यादिच्छन्दोमयेन देहेनाऽऽच्छादितत्वं ध्यायेत् । उष्णिगादीनां छन्दसां लोमादिरूपदेहावयवत्वं ध्यातव्यम् । बृहतीछन्दसः प्राणवायुरूपावयवत्वं न विरुद्धम् । जडस्य वायोरत्र प्राणशब्देन विवक्षितत्वात् । ध्यातव्यस्तु प्राणश्चेतनैदेवतारूप इति विशेषः । यस्मादयं प्राणाख्यो देवो गायत्र्यादिच्छन्दोभिश्च्छन्नो भवति तस्माच्छादनहेतुत्वाद्गायत्र्यादीनां छन्दस्त्वं द्रष्टव्यम् ।
छन्दोमयदेहावृतत्वध्यानस्य फलमाह—
छादयन्ति ह वा एनं छन्दांसि पापात्कर्मणो यस्यां कस्यांचिद्द्दिशि कामयते य एवमेतच्छन्दसां छन्दस्त्वं वेद, इति ।
यः पुमान्प्राणस्याऽऽच्छादनाद्गायत्र्यादीनां छन्दस्त्वमिति जानाति स पुमान्यस्यां कस्यांचिद्दिशि वर्तमानः किंचित्पापं कर्तुं कामयते तस्मात्पापात्कर्मणस्समुत्पन्नकं गायत्र्यादीनि च्छन्दांसि छादयन्ति, पापं यथा न स्पृशति तथा तं गोपायतीत्यर्थः ।
यथोक्तप्राणमहिमप्रतिपादकं मन्त्रमुदाहरति—
तदुक्तमृषिणा, इति ।
स च मन्त्रः संहितायामेवमाम्नातः—‘‘अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । स सध्रीचीः स विषूचीर्वसान आवरीवर्ति भुवनेष्वन्तः ’’ इति । [ ऋ० सं० म० १, १० । सू० १६४, १७७ । ऋ० ३१, ३ ] अस्य मन्त्रस्य द्रष्टा दीर्घतमा नाम कश्चिदृषिर्मन्त्ररूपं वाक्यं ब्रूते—अहमृषिः प्राणं देवमपश्यं साक्षात्कृतवानस्मि । कीदृशं प्राणम् । गोपामिन्द्रियाणां रक्षकम् । अनिपद्यमानं निपदनं विनाशस्तद्रहितम् । पथिभिर्नानाविधैर्नाडीमार्गैराचरन्तम् । पराचरन्तं च । प्राणवायुर्हि मुखनासिकाद्वारा क्षणे क्षणे देहमध्यं समागच्छन्नपि तदानीमेव पुनर्गच्छत्येव । गमनागमनयोः परस्परसमुच्चयार्थावसकृदावृत्तिसमुच्चयार्थौ वा चकारौ द्रष्टव्यौ । स च प्राणः स्वयमध्यात्मं वायुरूपेण वर्तमानोऽप्यधिदैवमादित्यरूपेणावस्थितः सन्सध्रीचीर्विषूचीश्च द्विविधौ अपि मुख्या दिशोऽवान्तरदिशश्च वसान आच्छादयन्व्याप्नुवन्वर्तते । भुवनेष्वन्तः सर्वेषु लोकेषु मध्य आवरीवर्ति पुनः पुनरागत्य वर्तते । इति मन्त्रस्य योजना ।
तस्य मन्त्रस्य प्रथमपादे पूर्वभागं व्याचष्टे—
अपश्यं गोपामित्येष वै गोपा एष हीदं सर्वं गोपायति, इति ।
अपश्यं गोपा० — ऋ० सं० म० १ सू० १६४ ऋ० ३१ । म० १० सू० १७७ ऋ० ३ ।
१ क ग. जङ्गमस्य । २ घ. ङ. ॰नरू । ३ क. ख. ॰ल्पयागं । ४ घ. ङ. द्वौ । ५ क. ख. ग. द्विधाऽपि ।
अध्या० १ ख० ६] ऐतरेयारण्यकम् । १०७
आयुर्हेतुत्वात्प्राणस्य रक्षकत्वं प्रसिद्धम् । तच्च कौषीतकिन आमन्वन्ति—"याव- द्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुः" [ कौषी० १ । २ । ] इति । उत्तरभागं व्याचष्टे— अनिपद्यमानमिति न ह्येष कदाचन संविशति, इति । संवेशनं व्यापारोपरमः । यथा सुषुप्तौ वागादीनां व्यापार उपरतो भवति न त्वेवं प्राणस्य । अत एव सुषुप्तिप्रकरणे श्रुत्यन्तरे पठ्यते—" प्राणाग्नय एवैतस्मिन्पुरे जाग्रति " [ प्रश्न० ४ । ३ ] इति । द्वितीयपादं व्याचष्टे — आ च परा च पथिभिश्चरन्तमित्या च ह्येष परा च पथिभिश्चरति, इति । प्राणस्य प्रतिक्षणं गमनागमनयोः सर्वैरनुभूयमानत्वात्प्रसिद्धिज्योतनार्थो हिशब्दः । तृतीयपादं व्याचष्टे— स सध्रीचीः स विषूचीर्वसान इति सध्रीचीश्च ह्येष विषूचीश्च वस्त इमा एव दिशः, इति । सहाञ्चन्ति चतुष्कोणरूपेण परस्परसंश्लिष्टा वर्तन्त इति प्राच्यादयश्चतस्रो दिशः सध्रीच्यः । विष्वगञ्चन्ति परस्परं वियुज्य वर्तन्त इत्याग्नेय्यादयश्चतस्रो विदिशो विषूच्य इति । एवमेता दिश एव शब्दद्वयेनोच्यन्ते । यद्यप्यादित्य एव स्वप्रकाशेन ता दिश आच्छादयति न तु प्राणस्तथाऽपि नास्ति विरोधः, आदित्यस्य बाह्यदेशवर्ति- प्राणरूपत्वात् । " आदित्यो वै बाह्यप्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णीते " [ प्रश्न० १ । ७ ] इति श्रुत्यन्तरात् । चतुर्थपादार्थस्याऽऽदित्यरूपेण परिवर्तनस्य प्रसिद्धिं दर्शयति— आवरीवर्ति भुवनेष्वन्तरित्येष ह्यन्तर्भुवनेष्वावरीवर्ति, इति । प्राणमहिमप्रतिपादकं मन्त्रान्तरं दर्शयितुं तस्य मन्त्रस्य तृतीयपादं प्रतीकत्वे- नोदाहरति— अथो आवृतासोऽवतासो न कर्तृभिरिति, इति ।
आ च परा च पथिभिः०—ऋ० सं० म० १ सू० १६४ ऋ० ३१ । ऋ० सं० म० १० सू० १७७ ऋ० ३ । स सध्रीचीः स विषूचीः०—ऋ० सं० म० १ सू० १६४ ऋ० ३१ । म० १० सू० १७७ ऋ० ३ । आवरीवर्ति भुवनेषु— ऋ० सं० म० १ सू० १६४ ऋ० ३१ । म० १० सू० १७७ ऋ० ३ ।
१ क. ख. ॰कत्वम् । २ क. घ. ङ. ॰वदस्मिँ । ३ घ. ङ. ॰ति ता दि॰ ।
१०८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
अथोशब्दो मन्त्रान्तरसमुच्चयार्थः । तच्च मन्त्रान्तरं संहितायामेवमाम्नातम्—" अप्रक्षितं वसु बिभर्षि हस्तयोरूषाहळं सहस्तन्वि श्रुतो दधे । आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः " [ ऋ० सं० म० १ सू० १६ ऋ० ८ ] इति ।
हे इन्द्र प्राणादित्यरूप परमेश्वराप्रक्षितमनुपहिंसितमप्रैक्षीर्णं वा वसु कर्मफलाख्यं धनं हस्तयोरधिदैवं हस्तसदृशयोर्दक्षिणोत्तरायणयोर्बिभर्षि धारयसि । अध्यात्मं च जीवनादिलक्षणं कर्मफलं हस्तसदृशयोः प्राणापानवृत्त्योर्धारयसि । किंच सहो बलं त्वदीयमुषाहळमन्यैरतिरस्कार्यमतः कर्मफलं धारयितुं समर्थोऽसि । किंच तन्वि तनौ स्वात्मनः शरीरे श्रुतः श्रवणानि ज्ञानानि दधे धारयसि । अतोऽनुष्ठानप्रयासं ज्ञात्वा तदनुरूपं फलं ददासीत्यर्थः । किंच कर्तृभिर्भूमौ हिरण्यनिधिप्रक्षेपकारिभिरवतासो न निधिस्थापनार्थं खाता अवटा गर्ता इवाऽऽवृतासो दिशः सर्वा अपि त्वदीयप्रकाशैनाऽऽच्छादिताः । निधिस्थापका हि गर्तं निधिं प्रक्षिप्य तं गर्तं मृत्पाषाणादिभिराच्छादयन्ति, एवं त्वमपि त्वदीयरश्मिभिः सर्वमाच्छादयसि । तादृशस्य ते तव तनूषु शरीरेषु क्रतवः संकल्पविशेषाः फलप्रदा भूरयो बहवो विद्यन्ते । यो यत्फलमिच्छति तस्य तत्फलमस्त्वित्येवं संकल्पमात्रेणैव ददासीत्यर्थः ।
उदाहृते मन्त्रपाद आवृतास इति पदं व्याचष्टे— सर्वं हीदं प्राणेनाऽऽवृतम्, इति । देवतिर्यङ्मनुष्यादिकमिदं सर्वं देहजातं प्राणवायुना व्याप्तमित्येतत्प्रसिद्धम् ।
गुणान्तरं विधत्ते— सोऽयमाकाशः प्राणेन बृहत्या विष्टब्धस्तद्यथाऽयमाकाशः प्राणेन बृहत्या विष्टब्ध एवं सर्वाणि भूतान्या पिपीलिकाभ्यः प्राणेन बृहत्या विष्टब्धानीत्येवं विद्यात् , इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥
सर्वप्राण्याधारभूतोऽयमाकाशः, सोऽयं बृहतीच्छन्दोरूपेण प्राणेन विष्टब्धो विशेषेण स्थापित इति ध्यायेत् । तत ऊर्ध्वं तद्दृष्टान्तेन पिपीलिकापर्यन्ताः सर्वे प्राणिनो बृहतीच्छन्दोरूपेण प्राणेन विधृता इत्येवं ध्यायेत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये द्वितीयारण्यके प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥
१ क. ख. ग. ॰प्रहीणं वा । २ क. ग. ॰दैवतं ह॰ ।
अध्या० १ । ख ० ७ ] ऐतरेयारण्यकम् । १०९
अथ सप्तमः खण्डः ।
गुणान्तराणि ध्यातव्यानि प्रतिजानीते—
अथातो विभूतयोऽस्य पुरुषस्य, इति ।
अथ पूर्वोक्तप्राणगुणध्यानानन्तरं यतः “अयमेव महान्प्रजापतिः” [ ऐ० आ० २ । ३ । १ ] इति पूर्वत्र प्रतिज्ञातं पुरुषस्य प्रजापतित्वं पृथिव्यादिस्रष्टृत्वेनोपपादनीयं फलान्तराय तत्तत्स्रष्टृत्वगुणा अपि विधातव्या अतः कारणादस्य पुरुषस्य विभूतयः पृथिव्यादिस्रष्टृत्वरूपाण्यैश्वर्याण्युच्यन्त इति शेषः ।
तत्र प्रथमां विभूतिमाह—
तस्य वाचा सृष्टौ पृथिवी चाग्निश्चास्यामोषधयो जायन्तेऽग्निरेनाः स्वदयतीदमाहरतेदमाहरतेत्येवमेतौ वाचं पितरं परिचरतः पृथिवी चाग्निश्च, इति ।
तस्य यथोक्तगुणविशिष्टप्राणध्यातुः पुरुषस्य प्रजापतिरूपस्य वागिन्द्रियेण पृथिव्यग्निश्चेत्युभौ सृष्टाविति ध्यायेत् । यदि पुरुषरूपं पितरं प्रति तावुभौ कथमुपकुरुत इति पृच्छेत्तत्सोऽयमुपकार उच्यते । अस्यां पृथिव्यां व्रीहियवाद्या ओषधय उत्पद्यन्ते । अग्निश्चैना उत्पन्ना ओषधीः स्वदयति भक्ष्यभोज्यादिपाकेन स्वादू करोति । अत एव लोके कस्यांचित्पङ्क्तावुपविश्य भुञ्जानाः पुरुषाः परिवेष्टॄन्प्रति स्वादुतमं पक्वमिदं भक्ष्यमाहरतेदं च भोज्यमाहरतेति पुनः पुनर्याचन्तेऽनेन प्रकारेणैतौ पृथिव्यग्नी पुरुषवाग्रूपं पितरं प्रत्युपकुरुतः ।
एतद्विभूतिध्यानफलमाह—
यावदनु पृथिवी यावदन्वग्निस्तावदस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते पृथिव्याश्चाग्नेश्च य एवमेतां वाचो विभूतिं वेद, इति ।
यावद्वस्तुजातमनुलक्ष्य पृथिवी प्रवृत्ताऽग्निश्च यावद्भोग्यजातमनुलक्ष्य प्रवर्तते तावान्वस्तुविशिष्टो देशविशेषोऽस्य वाग्विभूत्युपासकस्य लोको भोगभूमिर्भवति । किं च पृथिव्यग्न्योर्भोगप्रदेशो यावन्तं कालं न जीर्णो भवति तावन्तं कालमुपासकस्यापि भोगदेशो न जीर्यते ।
१ ग. ॰त्वरूपगु॰ । २ क. ख. ग. ॰वायोष॰ । ३ क. ख. ॰वेष्टारं प्रति । ४ क. ख. ग. ॰मं पाकमि॰ । ५ क. ख. ग. ॰व्यग्निपु॰ । ६ घ. ङ. ॰पं प्र॰ ।
द्वितीयां विभूतिमाह—
११० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
द्वितीयां विभूतिमाह—
घ्राणेन सृष्टावन्तरिक्षं च वायुश्चान्तरिक्षं वा अनु
चरन्त्यन्तरिक्षमनु शृण्वन्ति वायुरस्मै पुण्यं गन्ध-
मावहत्येवमेतौ घ्राणं पितरं परिचरतोऽन्तरिक्षं
च वायुश्च यावदन्वन्तरिक्षं यावदनु वायुस्तावा-
नस्य लोको भवति नास्य तावल्लोको जीर्यते
यावदेतयोर्न जीर्यन्तेऽन्तरिक्षस्य च वायोश्च
य एवमेतां प्राणस्य विभूतिं वेद, इति ।
नासिकायामवस्थितो घ्राणेन्द्रियरूपो यः प्राणस्तेनान्तरिक्षवायू सृष्टाविति ध्यायेत् । सर्वे प्राणिनोऽन्तरिक्षमेवानुसृत्य संचारं कुर्वन्ति । दूरदेशे प्रोक्तां वार्तामपि शृण्वन्ति । न हि मूर्तेन कुड्यापर्वतादिनाऽवरुद्धे देशे संचारो वार्ताश्रवणं वा संभवति । सोऽयमन्तरिक्षकृत उपकारः । वायुश्च चम्पककेतक्यादिगतं पुण्यगन्धमानयति । दुर्गन्धानयनं^१ तु न वायुस्वभावकृतं नापि तदभिज्ञानमिन्द्रियस्वभावकृतं किं त्वासुरपापवेधकृतमिति च्छन्दोग(च्छान्दोग्य)बृहदारण्यकयोः प्रपञ्चितम् । तदिदं पुण्यगन्धानयनं वायुकृत उपकारः । अन्यत्पूर्ववद्व्याख्येयम् ।
तृतीयां विभूतिमाह—
चक्षुषा सृष्टौ द्यौश्चाऽऽदित्यश्च द्यौर्हास्मै वृष्टिम-
न्नाद्यं संप्रयच्छत्यादित्योऽस्य ज्योतिः प्रकाशं
करोत्येवमेतौ चक्षुः पितरं परिचरतो द्यौश्चाऽऽ-
दित्यश्च यावदनु द्यौर्यावदन्वादित्यस्तावा-
नस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेत-
योर्न जीर्यते दिवश्चाऽऽदित्यस्य च य
एवमेतां चक्षुषो विभूतिं वेद, इति ।
द्युलोको हि मेघं संपाद्य वृष्टिद्वारेण व्रीह्याद्यन्नं प्रयच्छति । आदित्यस्तु स्वकीयं ज्योतिः प्रसार्य वस्तूनां प्रकाशमभिव्यक्तिं करोति । अन्यत्पूर्ववत् ।
चतुर्थीं विभूतिमाह—
श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च दिग्भ्यो हैनमा-
यतीँ३ दिग्भ्यो विशृणोति चन्द्रमा अस्मै पूर्व-
पक्षापरपक्षान्विचिनोति पुण्याय कर्मण एवमेते
^१ घ. ङ. 'तं वदति किं' ।
अध्या० १ । ख० ७] ऐतरेयारण्यकम् । १११
श्रोत्रं पितरं परिचरन्ति दिशश्च चन्द्रमाश्च
यावदनु दिशां यावदनु चन्द्रपास्तावत्तस्य
लोको भवति नास्य तावल्लोको जीर्यते
यावदेतेषां न जीर्यते दिशां च चन्द्रमसश्च
य एवमेतां श्रोत्रस्य विभूतिं वेद, इति ।
एनमुपासकं पुरुषं प्रति दिग्भ्यः सकाशात्सेवकाः पुरुषा भोग्यवस्तूनि चाऽऽग-
च्छन्ति । तथा मूर्तद्रव्यव्यवधानाभावे सति दिग्भ्यः सकाशाद्दूरे प्रोक्तमपि वचनं विशे-
षेण शृणोति । चन्द्रमास्तस्य पुरुषस्य दर्शपूर्णमासादिपुण्यकर्मार्थं शुक्लकृष्णपक्षान्व-
हुविधमासंगतान्विशेषेण संपादयति ।
पञ्चमीं विभूतिमाह—
मनसा सृष्टा आपश्च वरुणश्चाऽऽपो हास्मै श्रद्धां संन-
मन्ते पुण्याय कर्मणे वरुणोऽस्य प्रजां धर्मेण दाधारै-
वमेते मनः पितरं परिचरन्त्यापश्च वरुणश्च यावद-
न्वापो यावदनु वरुणस्तावत्तस्य लोको भवति नास्य
तावल्लोको जीर्यते यावदेतेषां न जीर्यतेऽपां च
वरुणस्य च य एवमेतां मनसो विभूतिं वेद, इति ।
इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये
सप्तमः खण्डः ॥ ७ ॥
तँटाकपुण्यनद्यादिषु वर्तमाना आपः स्नानाचमनमार्जनद्वारेणास्योपासकस्य श्रौत-
स्मार्तपुण्यकर्मानुष्ठानाय श्रद्धामास्तिक्यमुत्पादयन्ति । वरुणस्त्वस्य पुत्रादिरूपां
प्रजां पापप्रवृत्तिंनिवार्य धर्मे प्रवर्तयति । अन्यत्पूर्ववत् । ननु “हृदयान्मनो मनसश्च-
न्द्रमाः” [ऐ० आ० २ अ० ४ ख० १] इत्येवमुपरिष्टाच्चन्द्रमसो मनःकार्यत्वं
वक्ष्यति । अत्र तु श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्चेति श्रोत्रकार्यत्वं कथमुच्यत इति,
नायं दोषः । अस्याः सृष्टेरुपासनार्थत्वात् । न खलु यथावस्त्वेवोपासितव्यमिति कश्चि-
न्नियमोऽस्ति किं तु यथावचनमेवोपासितव्यमित्येतावानेव नियमः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके प्रथमाध्याये सप्तमः खण्डः ॥ ७ ॥
१ घ. ङ. °शाद्दूरतः प्रो° । २ ग. 'मासग' । घ. ङ. °मागं° । ३ क. तडाक° । ४ घ. ङ. °नदीषु ।
११२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
अथाष्टमः खण्डः ।
प्राणदेवताया नानाविधविभूतिरूपान्ध्येयगुणानुक्त्वा समस्तकार्यकारणरूपजगदात्मकत्वलक्षणं गुणं ध्येयं विधत्ते—
आपा३ इत्याप इति तदिदमाप एवेदं वै मूलमद- स्तूलमयं पितैते पुत्रा यत्र ह क्व च पुत्रस्य तत्पितु- र्यत्र वा पितुस्तद्वा पुत्रस्येत्येतत्तदुक्तं भवति, इति।
पूर्वत्र—“तस्य वाचा सृष्टौ” [ऐ० आ० २ अ० १ ख० ७] इत्यादिना पुरुषस्य सृष्टिहेतुत्वं यदुक्तं तदेतन्निमित्तकारणत्वाभिप्रायम् । पुरुषो हि पूर्वस्मिञ्जन्मनि ज्ञानकर्मणी अनुष्ठायेदानींतनसृष्टेर्निमित्तं भवति । अत्र तु जगत उपादानकारणं विचार्य निर्णयते । मृतिर्विचारार्था । अप्शब्देन पञ्च भूतान्युपलक्ष्यन्ते । स्थावरजङ्गमदेहरूपस्य जगतः किं पञ्च भूतान्युपादानमाहोस्विदन्यत्किंचिदिति संशये सत्यप्शब्दोपलक्षितानि पञ्च भूतान्येवोपादानमिति निर्णायोच्यते । कार्यभूतेषु देहेषु पञ्चभूतानुगतेर्दृश्यमानत्वात्। सा चानुगतिर्गर्भोपनिषद्याम्नाता—“अस्मिन्पञ्चात्मके शरीरे यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजो यत्संचरति स वायुर्यत्सुषिरं तदाकाशमित्युच्यते” [गर्भो० १।] इति। तत्तस्मात्कारणादिदं कृत्स्नदेहरूपं जगदप्शब्दोपलक्षितानि पञ्च भूतान्येव कार्यकारणयोर्मृद्घटयोरत्यन्तभेदादर्शनात् । इदं वै यथोक्तमप्शब्दोपलक्षितभूतपञ्चकमेव मूलमुपादानं कारणमदः स्थावरजङ्गमदेहरूपं जगत्तूलं कार्यम् । अतः परस्परैक्यं युक्तम् । तथा निमित्तकारणभूतोऽयं पुरुषः पिता । एते पृथिव्यग्न्यादिदेवतादेहाः पुत्राः । तयोश्च परस्परं नात्यन्तं भेदः । कथं भेदाभाव इति चेत्तदुच्यते—लोके पुत्रस्य वस्तु यत्र ह क्वच यस्मिन्कस्मिन्नपि ग्रामान्तरे विद्यमानं तत्सर्वं पितुः स्वं भवति । पिता हि तदानीयानुभवति । अथवा पितुः संबन्धि यद्वस्तु ग्रामान्तरे विद्यते तद्वा तदपि पुत्रस्य स्वं भवत्येव । पुत्रोऽपि तदानीयानुभवति । परस्परद्रव्यानुभवेन यदैक्यमस्येतत्तदैक्यं तेत्तेनायं पितैते पुत्रा इति वाक्येनोक्तं भवति । भूतपञ्चकस्य पृथिव्यादिदेवतादेहानां च कार्यकारणरूपेण यदैक्यमुपासकपुरुषस्य पितृरूपस्य पुत्ररूपाणां देवतात्मनां च यदैक्यं तदुभयं प्राणगुणत्वेन ध्येयमित्यर्थः ।
उक्तार्थदार्ढ्याय महर्षिवाक्यं दर्शयति—
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेय आऽहं मां देवेभ्यो वेद ओ मदेवान्वे- देतःप्रदाना ह्येत इतःसंभृता इति, इति।
१ ख. ग. ॰र्यकरं । २ घ. ङ. तदेतदुभयं पिं ।
अध्या० १ ख० ८] ऐतरेयारण्यकम्। ११३
इतराख्यायाः कस्याश्चित्स्त्रिया अपत्यमैतरेयः स च नाम्ना महिदासस्तादृशो महर्षिस्तदेतत्पूर्वकं कार्यकारणद्रव्यैक्यं पितृपुत्रैक्यं चोपासनया प्राणात्मकत्वं प्राप्तस्य स्वस्य गुणत्वेन विद्वाञ्छिष्याणामग्रे तत्प्रकटनार्थमिदं वाक्यमुक्तवान् । मामहमादेवेभ्यो वेद । आकारो निपातोऽभिविधौ वर्तते । देवैः सहितं तदभिन्नं मत्स्वरूपमहं वेदोपासे । ओ^१ मदित्यत्राऽऽकार उकारश्चेति पदद्वयम् । देवानु देवानपि सर्व्वान् मद्भेद मया सहितानेकत्वेनोपासे । न च पुरुषस्य मम देवसाहित्यमयुक्तमिति शङ्कनीयम् । एते देवा इतःप्रदाना हि । इतोऽस्माल्लोकात्पुरोडाशादि प्रदानं येषां ते इतःप्रदानाः । तस्मादेव कारणादितः संभृता एतल्लोकप्रत्ताद्धविर्भिः सम्यक्पोषिताः । तेनोपासकस्य देवैः साहित्यं युक्तमित्येवं महर्षिरुवाच ।
गुणान्तरं विधत्ते—
स एष गिरिश्चक्षुः श्रोत्रं मनो वाक्प्राणस्तं ब्रह्मगिरिरित्याचक्षते, इति ।
योऽयं चक्षुरादीन्द्रियसमूहः स एष प्राणदेवताया गिरणाद्गिरिरित्युच्यते । यथा निगीर्णमन्नादिकं बहिर्नोपलभ्यते तथेयं प्राणदेवता चक्षुरादीन्द्रियैर्निगीर्णेव तिरोहिता सती लौकिकैर्नोपलभ्यते । यस्मादेवं तस्मात्तं चक्षुरादीन्द्रियसंघातं ब्रह्मगिरिरित्येवमभिज्ञा आचक्षते । प्राणरूपस्य ब्रह्मणो निगरैणतिरोधानाद्ब्रह्मगिरित्वम् । चक्षुरादिरूपेण तिरोहितं प्राणरूपं ब्रह्मेति ध्यायेत् ।
ब्रह्मगिरि[त्व]गुणध्यानस्य फलमाह—
गिरति ह वै द्विषन्तं पाप्मानं भ्रातृव्यं पराऽस्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद, इति ।
पापरूपः शत्रुरनुष्ठानविघ्नरूपं द्वेषं करोति तं गिरति विनाशयति । स च पाप्मा पराभूतः सर्वात्मना विनष्टो भवति ।
तामेतामुपास्यां प्राणदेवतां प्रशंसति । यद्वा गुणान्तराणि विधत्ते—
स एषोऽसुः स एष प्राणः स एष भूतिश्चाभूतिश्च, इति ।
योऽयमुपास्यो देवः स एष देहेन्द्रियादिसंघातमस्यति क्षिपति प्रेरयतीत्यसुः । प्रकर्षेणानिति स्वयं चेष्टत इति प्राणः । एतस्या देवतायाः शरीरेष्ववस्थाने सति जीवात्माऽपि तत्र भवत्यवतिष्ठते तस्माज्जीवात्मसद्भावहेतुत्वाद्भूतिरित्युच्यते । प्राणदेवताया निर्गमने सत्यत्र जीवात्मा न भवति नावतिष्ठते तस्मादभूतिरित्युच्यते । गुणचतुष्टयं ध्येयमित्यर्थः ।
१ क. ख. ओमित्य० । २ क. ख. घ. ङ. ०रणाति० ।
१५
११४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
तत्र भूतिगुणं प्रशंसति— तं भूतिरिति देवा उपासांचक्रिरे ते बभूवुस्तस्मा- द्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसिति, इति ।
तं प्राणदेवं जीवात्मसद्भावहेतुत्वेन भूतिगुणयुक्तोऽयमित्युपास्य वागाद्यभिमानिनो देवा बभूवुर्भूतिमैश्वर्यं प्रापुः । यस्माद्भूतिगुणयुक्तोऽयं प्राणस्तस्मादेव कारणादिदानीमपि सुप्तः पुमान्भूतिगुणद्योतकं भूशब्दस्यानुकरणरूपं ध्वनिं पुनः पुनः कुर्वन्प्रकर्षेण श्वासं करोति ।
अभूतिगुणं निन्दति— अभूतिरित्यसुरास्ते पराबभूवुः, इति ।
प्राणनिर्गमनेन जीवस्यात्र योऽयमभावः सोऽयमभूतिशब्देनोच्यते । तद्गुणं प्राणमुपास्यासुराः पराभूता विनष्टाः । अत एव च श्रुत्यन्तरं पठ्यते—"तं यथा यथोपायते तदेव भवति" इति ।
भूत्यभूतिगुणद्वयध्यानस्य फलं दर्शयति— भवत्यात्मना पराऽस्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद, इति ।
अयं प्राणदेवः स्वस्य सद्भावहेतुर्वैरिणामभावहेतुरित्येवं यः पुमानुपास्ते स पुमानात्मना भवति स्वयं चिरजीवी भवति । शत्रुश्च पराभवति । नन्वभूतिगुणः पूर्वं निन्दितः कथमङ्गी क्रियत इति चेत्प्रकारभेदादिति ब्रूमः । त(स्व)स्यैवाभावहेतुरित्येवमसुराणां यदुपासनं तन्निन्दितं वैरिणामभावहेतुरित्युपासनं त्वङ्गी क्रियते ।
गुणान्तरं विधत्ते— स एष मृत्युश्चैवामृतं च, इति ।
स्वनिर्गमनेन देहमरणात्प्राणस्य मृत्युत्वम् । स्वावस्थानेन देहमरणाभावादमृतत्वम् । एतद्गुणद्वयं ध्यायेत् ।
यथोक्तगुणोपेतं प्राणं प्रशंसितुं मन्त्रमुदाहरति— तदुक्तमृषिणा, इति ।
स च मन्त्रः संहितायामेवमाम्नातः— "अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः । ता शश्वन्ता विषूचीना वियन्ता न्य१न्यं चिक्युर्न निचिक्युरन्यम्" इति । [ ऋ० सं० म० १ सू० १६४ ऋ० ३८ ] तस्यायमर्थः—अयं प्राणवायुर्देहमध्ये स्वधया गृभीतः । स्वधाशब्दोऽन्नवाची । भुक्तेनान्नेन परिगृहीतोऽवस्थापितः सन्नध ऊर्ध्वं च संचरति । मलमूत्रापनयनार्थमधोभागेऽञ्चति गच्छतीत्यपाङ् । श्वासार्थ
अध्या० १। ख० ८] ऐतरेयारण्यकम् । ११५
प्रकृष्टे मुखेऽञ्चति गच्छतीत्यपाङ् । एवंविधः सन्नेति गच्छति सर्वदा संचरति । स च प्राणः स्वयममर्त्यो मरणरहितः सन्मर्त्येन मरणोपेतेन शरीरेण सह (स)योनिः समानस्थान एकत्रावस्थितः । जतुकाष्ठवद्देहप्राणयोरत्यन्तं संश्लेष एकत्रावस्थानम् । प्राणस्य निर्गमे देहस्य मरणान्मर्त्यत्वम् । प्राणस्य तु मरणशब्दवाच्यप्राणवियोगासंभवादमर्त्यत्वम् । ता शश्वन्ता तौ देहप्राणौ शाश्वतिकौ । प्राणस्य विनाशाभावेन तत्सहचारिणो देहस्यापि च्छत्रिणो गच्छन्तीतिवच्छाश्वतिकत्वमुपचर्यते । कीदृशौ तौ—विषूचीना विष्वक्सर्वततोऽञ्चतस्तो विषूचीनौ, विविधव्यापारयुक्तौ । प्राणो देहेन्द्रियादींश्चालयति, देहस्तु प्राणेन्द्रियाणामाधारत्वेनावतिष्ठते । पुनरपि कीदृशौ— वियन्ता परस्परविरोधेन गच्छन्तौ । देहो मृतः सन्भूमौ गच्छति, तद्वैपरीत्येन प्राण ऊर्ध्वं लोकान्तरे गच्छति । तयोरुभयोर्मध्येऽन्यतरं देहं निचिक्युः । अन्नपानाभ्यां मनुष्यादयो निचयं वृद्धिं प्रापितवन्तः । अन्यं तु प्राणं न निचिक्युः, न ह्यन्नपानाभ्यां प्राणो वर्धत इति ।
तस्य मन्त्रस्य प्रथमं पादं व्याचष्टे—
अपाङ्प्राङेति स्वधया गृभीत इत्यपानेन
ह्ययं यतः प्राणो न पराङ्भवति, इति ।
यतो यस्मात्कारणादयं प्राणोऽपानेनाधोवृत्तिनाऽपरेणान्तराकृष्टः सन्पराङ्बहिर्गतो न भवति । यद्यपानवृत्त्या नाऽऽकृष्येत तर्हि श्वासरूपेण बहिर्निर्गत्य तथैव गच्छेत् । न पुनर्देहे प्रत्यागच्छेत् । अस्यार्थस्यानुभवप्रसिद्धयर्थो हिशब्दः ।
द्वितीयपादं व्याचष्टे—
अमर्त्यो मर्त्येना सयोनिरित्येतेन हीदं सर्वं सयोनि
मर्त्यानि हीमानि शरीराणी ३ँ अमृतेषा देवता, इति ।
एतेन प्राणेन सहेदं सर्वं शरीरजातं समानस्थानकमित्येतत्प्रसिद्धम् । शरीराणि मर्त्यानीत्येतदत्यन्तं प्रसिद्धमिति द्योतयितुं हिशब्दः श्रुतिश्च । प्राणदेवता त्वमृता ।
उत्तरार्धं व्याचष्टे—
ता शश्वन्ता विषूचीना वियन्ता न्य१न्यं
अपाङ्प्राङेति०—ऋ० सं० म० १ सू० १६४ ऋ० ३८ । अमर्त्यो मर्त्येना०—ऋ० सं० म० १ सू० १६४ ऋ० ३८ । ता शश्वन्ता०—ऋ० सं० म० १ सू० १६४ ऋ० ३८ ।
१ क. ग. ॰ष्वगञ्चनौ, विवि॰ । २ क. ख. ग. एतस्य । ३ ख. ग. ॰पारान्तरे॰ । ४ क. ख. ग. ॰सिद्धार्थो । ५ क. ख. ग. ॰सिद्धौ । श॰ ।