भारतकोश
संग्रह पर लौटें

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

अध्या० १।ख० ३] ऐतरेयारण्यकम् । १३

न्भवतीति जागतं प्रउगं कुर्यादित्याहुर्जा-
गता वै पशवः पशुमान्भवतीति, इति ।
क्षत्रं बलमन्यत्पूर्ववद्व्याख्येयम् ।
एवं नानाविधब्राह्मणसिद्धानि मतान्युपन्यस्य तेषु प्रथमं स्वकीयत्वेन स्वी करोति—

तदु गायत्रमेव कुर्याद्ब्रह्म वै गायत्री ब्रह्मै-
तदहर्ब्रह्मणैव तद्ब्रह्म प्रतिपद्यते, इति ।

तदु तेषां तु सप्तानां मध्ये यत्प्रथममुपन्यस्तं गायत्रं तदेवास्मिन्महाव्रते कुर्यात् । गायत्र्या ब्रह्मत्वं पूर्वमेवोक्तम् । अस्य चाह्नो ब्रह्मत्वं तत्प्राप्तिहेतुत्वादवगन्तव्यम् । तद्गायत्रप्रउगरूपेण ब्रह्मणा तन्महाव्रतरूपं ब्रह्म प्राप्नोति ।
दाशतय्यां गायत्रीछन्दस्कानां बहूनां विद्यमानत्वात्तद्विशेषं दर्शयति—

तदु माधुच्छन्दसम्, इति ।

तदपि गायत्रीछन्दस्कं प्रउगं मधुच्छन्दोनाम्न ऋषेः संबन्धि द्रष्टव्यम् । तेन-
र्षिणा दृष्टं “वायवायाहि” [ऋ० सं० म० १ सू० २ ऋ० १] इत्यादिकं यन्म-
न्त्रजातं तदित्यर्थः ।
ऋषेर्नाम निर्वक्ति—

मधु ह स्म वा ऋषिभ्यो मधुच्छन्दाश्छन्दति
तन्मधुच्छन्दसो मधुच्छन्दस्त्वम् , इति ।

योऽयं मधुच्छन्दोनामक ऋषिः सोऽयमितरेभ्य ऋषिभ्यो मधु च्छन्दति मधुरं भोग्यं संपादयितुमिच्छति । ह स्म वा इति निपातत्रयसमूह ऐतिह्यार्थः । यस्मादयं मध्विच्छति तस्मादस्य तन्नाम संपन्नम् ।
ऋषिसंबन्धेनशस्त्रं प्रशस्य फलसंबन्धेनापि प्रशंसति—

अथो अन्नं वै मधु सर्वं वै मधु
सर्वे वै कामा मधु तद्यन्माधुच्छन्दसं
शंसति सर्वेषां कामानाणावरुद्धयै, इति ।

माक्षिकवाची मधुशब्दस्तन्निष्ठं प्रियत्वं लक्षयति । अन्नस्य प्रियत्वं प्रसिद्धम् । तद्वद्द्द्वन्द्वादेः सर्वस्यापि भोग्यस्य प्रियत्वं प्रसिद्धम् । यस्मात्प्रियत्वेन सर्वेऽपि कामा मधुरूपास्तस्मात्कारणान्मधुत्वसामान्यान्माधुच्छन्दसं शंसतीति यदस्ति तत्सर्वकाम-
प्राप्त्यै संपद्यते ।


१ क. ॰ति । दश॰ । २ क. ॰ष्टं हि ‘व.॰ । ३ क. घ. ॰द्वंद्वा॰ । ४ ख. ॰धुररू॰ ।

१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

माधुच्छन्दसवेदनं प्रशंसति— सर्वान्कामानवरुन्धे य एवं वेद, इति । पुनः प्रकारान्तरेण शस्त्रं प्रशंसति— तद्वैकाहिकं रूपसमृद्धं बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति, इति।

तदु तदपि यथोक्तं गायत्रं प्रउगमैकाहिकमेकाहे प्रकृतिभूतेऽग्निष्टोमे निष्पन्नं तदेव विश्वजिद्द्वारेणास्मिन्महाव्रते प्राप्तमन्तत ऐकाहिकत्वादेतद्रूपसमृद्धम् । प्रकृतिरूपे ह्येकाहे कृत्स्नस्यानुष्ठेयस्य प्रत्यक्षवचनप्रापितत्वादविस्मरणेन सर्वमनुष्ठातुं शक्यम् । सेयं रूपसमृद्धिः । न च किमनेनैकाहिकत्वेनेति शङ्कनीयम् । तस्यानिष्टशमनार्थत्वात्। एतस्मिन्महाव्रताख्येऽहनि वारणं शिष्टैर्निवारणीयं वर्जनीयं किमपि बहुविधं दासीवृत्तवृत्तद्वैमैथुनब्रह्मचारिपुंश्चलीसंप्रवादादिकं क्रियतेऽतस्तस्य शान्त्यर्थमेव सरूपसमृद्धस्यैकाहिकस्य प्रउगशंसनम् । एकाहस्य तु सर्वविकृतिप्रतिष्ठापकत्वाच्छान्तिहेतुत्वमुपपन्नम् । अतो यजमाना अप्यन्ततः संवत्सरसत्रस्यावसान उपान्त्येऽस्मिन्नहनि तत्तेन शस्त्रपाठेन प्रतिष्ठाभूतायामनिष्टशान्त्यामेव प्रतितिष्ठन्ति प्रतिष्ठा(प्रतिष्ठिता) भवन्ति ।

अस्य शस्त्रस्य प्रतिष्ठाहेतु[त्व?]वेदनं तत्पूर्वकानुष्ठानं [च] प्रशंसति— प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥

येषां सत्रिणामर्थ एवमुक्तप्रकारेण शस्त्रमहिमानं विद्वान्होतैतच्छस्त्रं शंसति तेऽपि सत्रिणः प्रतितिष्ठन्तीति द्रष्टव्यम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥


अथ चतुर्थः खण्डः ।

अस्मिन्प्रउगशस्त्रे ये सप्त तृचास्तेषां मध्ये प्रथमतृचस्य प्रथमार्धे योऽयमरमिति शब्दस्तस्य तात्पर्यं दर्शयति— वायवायाहि दर्शतेमे सोमा अरं कृता इत्ये-


वायवायाहि०—ऋ० सं० म० १ सू० २ ऋ० १ ।

अध्या० १।ख० ४] ऐतरेयारण्यकम्। १५

तद्वा अहररं यजमानाय च देवेभ्यश्च, इति ।

दर्शत दर्शनीय हे वायोऽस्मिन्कर्मण्यागच्छ, इम ऐन्द्रवायवादिग्रहगताः सोमा अरमलं संपूर्णा यथा भवन्ति तथा कृताः संपादिता इत्येवं मन्त्रेऽभिधीयते । यस्मादेतन्महाव्रताख्यमहो य(हर्य)जमानाय च देवेभ्यश्चारं सोमं पातुमलं तस्माद्युक्तो मन्त्रेऽरमिति शब्दः ।

संपूर्तिवेदनतत्पूर्वकानुष्ठाने पूर्ववत्प्रशंसति—

अरं हास्मा एतदहर्भवति य एवं वेद
येषा चैवं विद्वानेतद्धोता शंसति, इति ।

द्वितीयस्य तृचस्यान्तिमायामृचि मध्यमपादे निष्कृतशब्दं व्याचष्टे—

इन्द्रवायू इमे सुता आयातमुपनिष्कृत-
मिति यद्वै निष्कृतं तत्संस्कृतम्, इति ।

हे इन्द्रवायू इमे सोमा भवदर्थमभिषुतास्तस्मादुपनिष्कृतमिमं सोमं प्रति युवामागच्छतमित्यस्मिन्पादे निष्कृतमिति यत्पदमस्ति तत्पदं संस्कृतमित्युमर्थमाह ।

वेदनानुष्ठाने प्रशंसति—

आ हास्येन्द्रवायू संस्कृतं गच्छतो य एवं
वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।

अस्यैवाभिज्ञस्य संबन्धिनं संस्कारयुक्तं सोममिन्द्रवायू आभिमुख्येन खलु प्राप्नुतः।
तृतीयस्य तृचस्य प्रथमायामृचि तृतीयपादं व्याचष्टे—

मित्रं हुवे पूतदक्षं धियं घृताचीं साधन्तेति वाग्वै धीर्घृताची, इति ।

पूतेषु शुद्धेषु दक्षं कुशलं मित्रं हुवे आह्वयामि । कीदृशं मित्रम्—धियं घृताचीं साधयन्तं(साधन्ता) धियं ध्यानयोग्यं घृताची(चीं) क्षरणोपेतं द्रव्यमाज्योदकादिकं प्रापयन्तम् । मन्त्ररूपां वा वाचं संपादयन्तम् । साधयन्ताविति द्विवचनं वा । वरुणं वेति द्वितीयपादे वरुणस्यापि प्रकृतत्वेनोभयोर्विशेषणत्वात् । इत्येतस्मिंस्तृतीयपादे धीर्घृताचीत्यनेन पदद्वयेन वागेव विवक्षिता।

वेदनं शंसनं च प्रशंसति—

वाचमेवास्मिंस्तद्दधाति य एवं वेद
येषां चैवं विद्वानेतद्धोता शंसति, इति ।

तत्तेन वेदनेन शंसनेन च ।


इन्द्रवायू इ०—ऋ० सं० म० १ सू० २ ऋ० ४ । मित्रं हुवे पूत०—ऋ० सं० म० १ सू० २ ऋ० ७ ।

चतुर्थस्य तृचस्य प्रथमपादं व्याचष्टे—

१६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

चतुर्थस्य तृचस्य प्रथमपादं व्याचष्टे—

अश्विना यज्वरीरिष इत्यन्नं वा इषोऽन्नाद्यस्यावरुद्धयै, इति।

हेऽश्विनौ यज्वरीर्यागनिष्पादका इषो हविर्लक्षणान्यन्नानि स्वी कुरुतमित्यध्याहारः। यद्वा ऋचोऽन्तिमेन चनस्यतमिति पदेन संबन्धः। भक्षयतमिति तस्यार्थः। अत्र यदिदमिष इति पदं तस्यान्नमेवार्थोऽतोऽन्नप्राप्त्यर्थमिदं भवति।

एतस्य तृचस्यान्तिमपादो निगदव्याख्यात इत्येतद्दर्शयति—

आयातं रुद्रवर्तनी इति, इति।

अत्राऽऽयातमित्यादिपादं पठति1। अत्राश्विनोरागमनं स्पष्टमेव प्रतीयत इत्यर्थः। रुद्रस्येव वर्तनिर्मार्गो ययोरश्विनोस्तौ [रुद्र]वर्तनी। यथा रुद्रस्य जगदीश्वरस्य मार्गो न क्वापि प्रतिबध्यते तद्वदनयोरपि। तादृशौ हेऽश्विनाविहास्मिन्कर्मण्यागच्छतम्।

वेदनं प्रशंसति—

आ हास्याश्विनौ यज्ञं गच्छतो य एवं
वेद येषां चैवं विद्वानेतद्धोता शंसति, इति।

पञ्चमस्य तृचस्य तिसृष्वृक्षु प्रथमपादानां तात्पर्यं दर्शयति—

इन्द्राऽऽयाहि चित्रभानविन्द्राऽऽयाहि धियेषित इन्द्राऽऽ-
याहि तूतुजान इत्यायाह्यायाहीति शंसति, इति।

हेऽचित्रभानो विचित्ररश्मियुक्तेन्द्र त्वमस्मिन्कर्मण्यायाहि। तद्यथा(तथा) हे इन्द्र धिया स्वबुद्धयेषितः प्रेषितः सन्ननुग्रहपूर्वमायाहि। तथा हे इन्द्र तूतुजानः शत्रून्हिंसन्नायाहि। इत्येतेषु त्रिषु पादेषु पुनः पुनरायाहीति पठन्नेव होता शंसतीति तेनेन्द्रस्त्वरया समागच्छतीत्यभिप्रायः।

वेदनं प्रशंसति—

आ हास्येन्द्रो गच्छति य एवं वेद
येषां चैवं विद्वानेतद्धोता शंसति, इति।

आगच्छति हेत्यन्वयः। सर्वथैवाऽऽगच्छतीत्यर्थः। पूर्वस्मिन्नश्विनोर्वाक्येऽप्यागच्छतो हेत्येवं योजनीयम्।


अश्विना यज्व०—ऋ० सं० म० १ सू० ३ ऋ० १। आयातं स०—ऋ० सं० म० १ सू० ३ ऋ० ३। इन्द्राऽऽयाहि चित्र०—ऋ० सं० म० १ सू० ३ ऋ० ४। इन्द्राऽऽयाहि धि०—ऋ० सं० म० १ सू० ३ ऋ० ५। इन्द्राऽऽयाहि तू०—ऋ० सं० म० १ सू० ३ ऋ० ६।

Footnotes

  1. ख. ग. घ. पठन्ति।

षष्ठस्य तृचस्य प्रथमार्थं स्पष्टार्थत्वाभिप्रायेण पठति —

अध्या० १। ख० ४] ऐतरेयारण्यकम्। १७

षष्ठस्य तृचस्य प्रथमार्थं स्पष्टार्थत्वाभिप्रायेण पठति — ओमासश्चर्षणीधृतो विश्वे देवास आगतेति, इति । हे विश्वे देवा अस्मिन्कर्मण्यागच्छत । कीदृशाः — अवन्ति रक्षन्तीत्योमासः । चर्षणयो मनुष्या यजमानास्तान्धारयन्ति पोषयन्तीति चर्षणीधृतः । वेदनशंसने प्रशंसति— . आ हास्य विश्वे देवा हवं गच्छन्ति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । हूयतेऽत्रेति हवो यज्ञः । द्वितीयार्धं व्याचष्टे— दाश्वांसो दाशुषः सुतमिति यदाह ददुषो ददुषः सुतमित्येव तदाह, इति । कीदृशा विश्वे देवाः — सुतमभिषुतं सोमं दाशुषो दत्तवतो यजमानस्य दाश्वांसः फलं दत्तवन्त इत्येतस्मिञ्छ्रुतिर्यदाह दाशुष इति यत्पदं तत्तेन पदेन ददुषो ददुष इत्यमुमेवार्थमाह । “दाशृ दाने” (भ्वा० उ० से० ८८२) इत्यस्माद्धातोस्तच्छब्द- निष्पत्तिः । एकवचनस्य यजमानजातिविषयत्वाद्वीप्सार्थोऽपि लभ्यते । दाश्वांस इति पदेन सूचितं फलं दर्शयति— ददति हास्मै तं कामं देवा यत्काम एतच्छंसति, इति । वेदन शंसने प्रशंसति— य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । ददति हास्मा अपि(इति) फलमत्राप्यनुवर्तते । सप्तमस्य तृचस्य तृतीयपादे धियावसुशब्दं व्याचष्टे— पावका नः सरस्वती यज्ञं वष्टु धिया- वस्रिति वाग्वै धियावसुः, इति । या सरस्वती देवी सा नोऽस्माकं पावका शुद्धिहेतुः सती यज्ञमस्मदीयं वष्टु वहतु । कीदृशी सरस्वती—धियावसुर्बुद्ध्या सर्वान्राच्छादयन्ती बुद्धिप्रदेत्यर्थः । पावकेत्यादिस्तृचस्य प्रथमपादो यज्ञमित्यादिस्तृतीयस्तस्मिन्धिंयावस्रितिशब्देन देव- तान्तरं नाभिधीयते किं तु वागेव प्रथमपादोक्ता सरस्वत्येव ।


ओमासश्च०—ऋ० सं० म० १ सू० ३ ऋ० १। दाश्वांसो दा०—ऋ० सं० म० १ सू० ३ ऋ० ७ । पावका नः स०—ऋ० सं० म० १ सू० ३ ऋ० १० ।


१ ग. घ. ॰यार्थ व्या॰। २ घ. इत्यस्मिं॰।

१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [ प्रथमारण्यकम् ]

वेदनशंसने प्रशंसति— वाचमेवास्मिंस्तद्दधाति य एवं वेद
येषां चैवं विद्वानेतद्धोता शंसति, इति ।
तत्तेन वेदनेन शंसनेन च ।
तस्मिन्नेव तृतीयपादे वह्निरिति पदं व्याचष्टे—
यज्ञं वह्निरिति यदाह यज्ञं वहत्वित्येव तदाह, इति । .
तृचसप्तकस्थितामृक्संख्यां प्रशंसति—
ताः परागवचनेनैकविंशतिर्भवन्त्येकविंशोऽयं पुरुषो
दश हस्त्या अङ्गुलयो दश पाद्या आत्मैक-
विंशस्तमिममात्मानमेकविंशं संस्करुते, इति ।
आत्मा मध्यदेहः । स्पष्टमन्यत् ।
आवृत्तिविधिपूर्वकं तत्सहिनां संख्यां प्रशंसति—
तास्त्रिः प्रथमया त्रिरुत्तमया पञ्चविंशतिर्भवन्ति पञ्चविंश
आत्मा पञ्चविंशः प्रजापतिर्दश हस्त्या अङ्गुलयो
दश पाद्या द्वा ऊरू द्वौ बाहू आत्मैव पञ्चविंशस्तमि-
ममात्मानं पञ्चविंशं संस्करुतेऽथो पञ्चविंशं वा एतदहः
पञ्चविंश एतस्याहः स्तोमस्तत्समेन समं प्रतिपद्यते
तस्माद्द्वे एव पञ्चविंशतिर्भवन्ति भवन्ति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके
प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके
प्रथमोऽध्यायः ॥ १ ॥

आत्मा पुरुषो यजमानः, प्रजापतिः स्रष्टा चतुर्मुख एव, तावुभावपि हस्ताङ्गुल्या-
दिपञ्चविंशत्याऽवयवोपेतौ । अन्यत्सर्वम् “अग्निं नराः” ( ऋ० सं० म० ७ सू० १
ऋ० १ ) इत्याज्यशस्त्रविधिशेषार्थव्याख्येयम् [ ऐ० आ० १ अ० १ ख० २ ] ।
द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये प्रथमारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म-
णारण्यकाण्डभाष्ये प्रथमारण्यके प्रथमोऽध्यायः ॥ १ ॥


१ ख. ग. तत्संहि' ।

प्रथमेऽध्याये प्रातःसवनगतमाज्यप्रउगशस्त्रद्वयं निरूपितम् । द्वितीये माध्यंदि-

अथ प्रथमारण्यके द्वितीयोऽध्यायः । तत्र प्रथमः खण्डः ( पञ्चमः ) ।

प्रथमेऽध्याये प्रातःसवनगतमाज्यप्रउगशस्त्रद्वयं निरूपितम् । द्वितीये माध्यंदि- नसवनगतं मरुत्वतीयादि निरूप्यते । तस्य मरुत्वतीयस्याऽऽशौ पठनीयं तृचं विधत्ते— आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ, इति । आ त्वेति तृचो मरुत्वतीयशस्त्रस्य प्रतिपत्प्रारम्भरूपः । इदं वसो, इत्ययं तृचोऽनुचरः, प्रतिपदमनुचरति । अनन्तरं पठनीय इत्यर्थः । तावेतौ तृचौ प्रशंसति— ऐकाहिकौ रूपसमृद्धौ बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । एकाहे प्रकृतिभूतेऽग्निष्टोमे समुत्पन्नावैतौ तृचावैकाहिकौ । रूपसमृद्ध्यादिकं माधु- च्छन्दस्कप्रउगशेषार्थवेदव्याख्येयम् [ ऐ० आ० १ अ० १ ख० ३ ] । अनुरूपस्यानन्तरभाविनि प्रगाथे यदुक्थिन इति पदं तत्प्रशंसति— इन्द्र नेदीय एदिहि प्रसूतिरा शचीभिर्ये त उक्थिन इत्युक्थं वा एतदहह्ररूक्थ- वद्रूपसमृद्धमेतस्याह्नो रूपम्, इति । इन्द्रेत्यादिः प्रगाथस्तस्मिन्प्रगाथे प्रथमायामृचि प्रथमः पादः । हे इन्द्र नेदीयः प्रत्यासन्नतमिदं कर्म प्रत्यागच्छेव । एदिहीत्यत्रैच्छब्द एवकारार्थः । प्रसूतिरित्या- दिको द्वितीयायामृचि प्रथमः पादः । हे इन्द्र शचीभिः शक्तिभिः सह कर्मण्यागतेन त्वया प्रसूतिरनुज्ञा देया । ये होत्रादयस्त्वयाऽनुज्ञातास्तेऽस्मिन्कर्मण्युक्थिनः सत्रिरण इत्येतस्मिन्पाद उक्थिन इति पदं तद्युक्तं यस्मादेतन्महाव्रताख्यमहरुकथं वै शस्त्रा- त्मकमेव । तदेव कथमिति तदुच्यते—एतस्य महाव्रताख्यस्याह्नः स्वरूपमुक्थव-


आ त्वा रथं० — ऋ० सं० म० ८ सू० ६८ ऋ० १ । इदं वसो सुत० — ऋ० सं० म० ८ सू० २ अ० १ । इन्द्र नेदीय ए० — ऋ० सं० म० ८ सू० ५३ ऋ० ५ । प्रसूतिरा० — ऋ० सं० म० ८ सू० ५४ ऋ० ६ ।


१ ग. घ. 'र्थवादे व्याख्ये' । २ क. 'वदेव व्याख्ये' ।

२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-

च्छस्त्रोपेतम्। यद्यपि कर्मान्तरमप्युक्थवदेव तथाऽप्येतद्रूपसमृद्धं प्रशस्तैः शस्त्रैरुपेतत्वात्। तस्मादुक्थिन इति पदं युक्तम्।

प्रगाथान्तर्गतं वीरमिति पदं प्रशंसति—

प्रैतु ब्रह्मणस्पतिरच्छा वीरमिति वीर-
वद्रूपसमृद्धमेतस्याह्नो रूपम्, इति।

प्रैत्वित्यादिः प्रगाथस्य प्रथमायाः प्रथमः पादः। अच्छा वीरमिति तृतीयः पादः। ब्रह्मणो वेदस्य पतिः पालक एतन्नामको देवो वीरं शीघ्रफलप्रदत्वेनात्यन्तशूरमेतत्कर्माच्छ प्राप्तुं प्रैतु प्रकर्षेण गच्छतु। एतत्पाठे मदा(चैत?)स्याह्नो रूपं वीरवद्वीरपदयुक्तं सद्रूपेण समृद्धं भवति।

प्रगाथान्तरे सुवीर्यमिति प्रशंसति—

उत्तिष्ठ ब्रह्मणस्पते सुवीर्यमिति वीर्य-
वद्रूपसमृद्धमेतस्याह्नो रूपम्, इति।

उत्तिष्ठेत्यादिः प्रगाथस्य प्रथमायामृचि प्रथमः पादः। हे ब्रह्मणस्पत उत्तिष्ठोद्योगयुक्तो भव। तस्मिन्नेव प्रगाथ(थे)द्वितीयस्यामृचि तृतीयपादे सुवीर्यमिति पदं विद्यते, तच्च यजमानविशेषणं शोभनवीर्योपेतस्य फलस्य प्रतिपादनादह्नो रूपं वीर्यपदोपेतत्वाद्रूपसमृद्धम्।

प्रगाथान्तर उक्थपदं शंसति—

प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यमित्युक्थं वा
एतदहुरुक्थवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति।

प्र नूनमिति प्रगाथपूर्वार्धम्। ब्रह्मणस्पतिर्देवो नूनं वेदस्वरूपं प्रकाशे वदति। कीदृशं मन्त्रमुक्थ्यं प्रशस्यम्। उत्तिष्ठत्यभिवृद्धिं गच्छति कर्मण्यनेन शस्त्रेणेत्युक्थं शस्त्रं तदर्हति यो मन्त्रः सोऽयमुक्थ्यः। उक्थं वा एतदित्यादि पूर्ववद्व्याख्येयम्।

अथ कस्यांचिद्धायायामाचि वृत्रहेति पदं प्रशंसति—

अग्निर्नेता स वृत्रहेति वार्त्रघ्नमिन्द्ररूप-
मैन्द्रमेतदहरेतस्याह्नो रूपम्, इति।

अग्निर्नेतेत्यृचः प्रक्रमः। स वृत्रहेति तृतीयपादस्य प्रक्रमः। अयमग्निर्नेता कर्मणः


प्रैतु ब्रह्मण०—ऋ० सं० म० १ सू० ४० ऋ० ३। उत्तिष्ठ ब्रह्मण०—
ऋ० सं० म० १ सू० ४० ऋ० १। प्र नूनं ब्रह्मण०—ऋ० सं० म० १ सू०
४० ऋ० ५। अग्निर्नेता स०—ऋ० सं० म० ३ सू० २० ऋ० ४।


१ क ॰दनमहो।

अध्या०२ख० १(१)] एतरयारण्यकम् । २२

प्रवर्तकः । स च वृत्रहा शत्रुघाती । यद्यप्येतत्पदमग्नेर्विशेषणं तथाऽपि वृत्रघातित्वमि- न्द्ररूपं संपुज्यत इन्द्रदेवताकं चैतदहस्तस्माद्वृत्रेहेतिपदेनैतस्यैन्द्रस्य महाव्रताख्य- स्याह्नो रूपं संपद्यते ।

ध्याय्यान्तरे वृषण्शब्दं प्रशंसति—

त्वं सोम ऋतुभिः सुक्रतुर्भूस्त्वं वृषा वृषत्वेभिर्महित्वेति वृषण्वद्वा इन्द्रस्य रूपमैन्द्रमेतदहरेतस्याह्नो रूपम्, इति ।

तत्र त्वं सोमेत्यृचः प्रथमः पादः । त्वं वृषेति तृतीयः पादः । हे सोम त्वं ऋतुभिरेतैः कर्मभिः सुक्रतुर्भूः शोभनकर्मा भव । तथा त्वं वृषत्वेभिर्वर्षकत्वैः कर्म- भिर्वर्षेणैर्वृषा वर्षिता सन्महित्वा महिमान्भव । अस्यामृचि वृषेति पदं सुविद्यते । इन्द्रस्य रूपमपि वृषण्वद्वै वृषशब्दोपेतमेव, तस्य शब्दस्येन्द्रवाचकत्वात् । ऐन्द्रमि- त्यादि पूर्ववत् ।

ध्याय्यान्तरे वाजिनमिति पदं प्रशंसति—

पिन्वन्त्यपोऽत्यं न मिहे विनयन्ति वाजिनमिति वाजि- मद्वा इन्द्रस्य रूपमैन्द्रमेतदहरेतस्याह्नो रूपम्, इति ।

पिन्वन्त्यप इति तस्या ऋचः प्रक्रमः । अत्यं न मिह इति तृतीयः पादः । पिन्वन्ति देवता उदकानि सिञ्चन्ति । मिह सेचने, सेचननिमित्तं वाजिनं मेघं देवताविशेषेण प्रेरयन्ति । वाजिशब्दोऽन्नवाची “अन्नं वै वाजः” इति श्रुतेः । तद्धे- तुत्वान्मेघो वाजी । तस्य प्रेर्यस्य मेघस्य दृष्टान्तोऽत्यं नेति । अत्यशब्दोऽश्ववाची “अश्वोऽसि” “हयोऽसि” “अत्योऽसि” “नरोऽसि” इत्यश्वमेधगताश्वाभिमन्त्र- णमन्त्रे तत्परत्वेन प्रयोगात् । तदीयब्राह्मणे च तथैव व्याख्यातम्—“अत्योऽसी- त्याह । तस्मादश्वः सर्वान्पशूनत्येति” इति । नशब्द उपमार्थः । यथा लोकेऽश्वारू- ढोऽश्वं प्रेरयति तद्वदित्यर्थः । अस्मिन्पादे वाजिशब्दो विद्यते । इन्द्रस्य रूपमिति(मपि) वाजिमद्वै वाजियुक्तमेतद्धरितवर्णैरश्वैरुपेतत्वात् । तथा च श्रूयते—“अस्मभ्यं तद्धर्यश्व प्रयन्धि” [ ऋ० सं० म० ३ सू० ३६ ऋ० ९ ] इति । ऐन्द्रमित्यादि पूर्ववत् ।

तस्या ऋचश्चतुर्थपादे स्तनयन्तमिति पदं प्रशंसति—

अथो उत्सं दुहन्ति स्तनयन्तमक्षितमिति स्तनयद्वा इन्द्रस्य रूपमैन्द्रमेतदहरेतस्याह्नो रूपम्, इति ।


त्वं सोम ऋतु०—ऋ० सं० म० १ सू० ९१ ऋ० २ । पिन्वन्त्यपोऽत्यं०— ऋ० सं० म० १ सू० ६४ ऋ० ६ । उत्सं दुहन्ति स्त०—ऋ० सं० म० १ सू० ६४ ऋ० ६ ।

२२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

वाजिमत्त्वप्रशंसया सह समुच्चयार्थोऽथ(थो) शब्दः। अस्मिन्मन्त्रे प्रतिपाद्या मरुतो देवाः स्तनयन्तं गर्जनयुक्तमक्षितं क्षयरहितमुत्सं जलप्रवाहं दुहन्ति संपादयन्ति। अत्र स्तनयन्तमिति पदं विद्यते। इन्द्रस्य रूपमपि स्तनयद्वै मेघगर्जनयोपेतमेव तस्य वृष्टिस्वामित्वात्। ऐन्द्रमित्यादि पूर्ववत्।

इत्थं धाय्याभिधा ऋचः प्रशस्यानन्तरं पठनीये प्रगाथे बृहत्पदं प्रशंसति—

प्र व इन्द्राय बृहत इति यद्वै बृहत्तन्मह- न्महद्रूपसमृद्धमेतस्याह्नो रूपम्, इति।

प्र व इत्यादिः प्रथमः पादः, तस्य द्वितीयपादगतेन मरुतो ब्रह्माऽऽर्चतेति मरुच्छब्देनान्वयः कर्तव्यः। हे मरुतो वो युष्मदर्थं बृहते प्रौढायेन्द्राय ब्रह्म परिवृढं कर्म प्रार्चत प्रकर्षेण संपादयत। तत्र प्रथमपादे यदेव बृहदिति पदमस्ति तन्महदित्यमुमर्थमाचष्टे। एतस्य महाव्रतस्याह्नो रूपं महद्वदत्यन्तं प्रौढमेव प्रयोगस्य बहुलत्वादतः स्वरूपेण समृद्धम्।

अनन्तरपाठ्ये प्रगाथे बृहत्पदं पूर्ववत्प्रशंसति—

बृहदिन्द्राय गायतेति यद्वै बृहत्तन्महन्मह- द्रूपसमृद्धमेतस्याह्नो रूपम्, इति।

हे सामगा ऋत्विज इन्द्रार्थं बृहन्नामकं प्रौढं वा साम गायत। यद्वा इत्यादि पूर्ववत्।

अनन्तरपाठ्ये प्रगाथे द्वितीयपादे शब्दद्वयं प्रशंसति—

नकिः सुदासो रथं पर्यास न रीरमदिति पर्य- स्तवद्रान्तिमद्रूपसमृद्धमेतस्याह्नो रूपम्, इति।

शोभनं फलं दानं यस्येन्द्रस्यास्ति सोऽयमिन्द्रः सुदासस्य सुदासो रथं नकिः पर्यास नैव पर्यस्तवन्गन्तः कोऽपि स्वार्थे न चालितवान्। तथा न रीरमत्तेन रथेन रमणमपि शत्रुर्न कृतवान्। किन्त्विन्द्र एव स्वार्थं पर्यवस्यति स्वयमेव रमते च। अत्र पर्यासेति रीरमदिति पदद्वयस्य श्रुतत्वादेतस्याह्नो रूपं पर्यस्तवल्लोकान्तरगमनाय परितश्चलनवद्भ्रान्तिमद्रमणयुक्तम्। अतो रूपेण समृद्धम्।

धाय्याभ्यः पुरस्तादुपरिष्टाच्च ये प्रगाथा उदाहृतास्तान्मिलित्वा प्रशंसति—

सर्वाम्प्रगाथाञ्छंसति सर्वेषामहामाप्त्यै सर्वेषा-


प्र व इन्द्राय बृह०—ऋ० सं० म० ८ सू० ८९ ऋ० ३। बृहदिन्द्राय गाय०—ऋ० सं० म० ८ सू० ८९ ऋ० १। नकिः सुदासो०—ऋ० सं० म० ७ सू० ३२ ऋ० १०।

अध्या० २ ख० २ (६)] ऐतरेयारण्यकम् । २३

मुक्थानां सर्वेषां पृष्ठानां सर्वेषां शस्त्राणां
सर्वेषां प्रउगाणां सर्वेषां सवनानाम् , इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये
प्रथमः खण्डः ॥ १ ॥ ( ५ )

अशेषप्रगाथशंसनेन सर्वेषामहरादीनां प्राप्तिः संपद्यते । अहानि संवत्सरसत्रगतान्युक्थानि । यज्ञायज्ञीयसाम्न ऊर्ध्वभावीन्युक्थक्रतुनिष्पादकानि स्तोत्राणि पृष्ठानि । माध्यंदिनसवनगतानि रथंतरबृहदादिसामसाध्यानि स्तोत्राणि शस्त्राण्याज्यादीनि । यद्यपि शस्त्रान्तर्भूतमेव प्रउगं तथाऽपि “ ब्राह्मणा आगताः परिव्राजका अप्यागताः ” इति न्यायेन वैशिष्ट्यविवक्षा[यां] प्रउगाणां पृथङ्निर्देशः । सवनानि प्रसिद्धानि । एतेषां सर्वेषां प्राप्त्यर्थं सर्वप्रगाथशंसनम् । यस्मिन्नृग्द्वयसमूहे प्रग्रथनेन तृचः संपाद्यते सोऽयं प्रगाथः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये प्रथमारण्यके द्वितीयाध्याये प्रथमः खण्डः ॥ १ ॥ ( ५ )


अथ द्वितीयाध्याये द्वितीयः खण्डः । ( षष्ठः )

एतस्य महाव्रतगतमरुत्वतीयस्य चतुर्विंशारूपमहः प्रकृतिः । अत एव पञ्चमारण्यके वक्ष्यते—“चतुर्विंशान्मरुत्वतीयस्याऽऽतानः” [ऐ० आ० ५ अ० १ ख० १] इति । तत्र यावदतिदिष्टम् “आ त्वा रथम्” इत्यादिकं “नकिः सुदासः” इत्येतदन्तं तत्सर्वं व्याख्यातम् ।

अथ नूतनं किंचित्सूक्तं विधत्ते—

असत्सु मे जरितः साभिवेगः सत्यध्वृत-
मिति शंसति सत्यं वा एतदहः
सत्यवद्रूपसमृद्धमेतस्याह्नो रूपम् , इति ।

असत्सु म इत्यादिकं चतुर्विंशत्यूचं सूक्तम् । तस्य प्रथमः पादोऽभिवेग इत्यन्तः प्रतीकप्रदर्शनार्थं पठितः । तदीयायां प्रथमायामृचि सत्यध्वृतमिति पदं विद्यते, तस्य च पदस्य तत्रत्येन प्रहन्ताऽस्मीत्यनेन संबन्धः । दह( द्रुह )विधातोर्वर्णव्यत्ययेन ध्वृतमिति संपद्यते । तथा सति सत्यद्रोहिणं हनिष्यामीति वाक्यार्थः । तस्य हननेन सत्यं प्रतिष्ठितं भवति । तच्चात्र युक्तं यस्मादेतन्महाव्रताख्यमहः सत्यं वै सत्यरूपमेव तस्मादेतस्याह्नो रूपं सत्यवत्सत्येन संयुक्तं रूपसमृद्धं भवति ।


असत्सु मे जरितः०—ऋ० सं० म० १० सू० २७ ऋ० १ ।


१ क. 'गाथेन । २ क. ख. ग. 'न्धः । दह' ।

२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-

तदेतत्सूक्तमृषिद्वारेण प्रशंसति—

तदु वासुकं ब्रह्म वै वसुक्रो ब्रह्मैत- दहर्ब्रह्मणेव तद्ब्रह्म प्रतिपद्यते, इति ।

तदु तदपि “असत्सु मे” [ऋ० सं० म० १० सू० २७ ऋ० १] इत्यादिसूक्तं वासुकम् । वसुक्राख्येन महर्षिणा दृष्टं वासुकम् । वसुक्रो महर्षिर्ब्रह्म वै परब्रह्म-स्वरूपं एतदभिज्ञत्वात् । एतदपि महाव्रताख्यमहर्ब्रह्मस्वरूपं तत्प्राप्तिहेतुत्वात् । अतो ब्रह्मस्वरूपेणैव वासुक्रेण सूक्तेन ब्रह्मस्वरूपमहः प्राप्नोति ।

पुनरपि प्रश्नोत्तराभ्यां प्रशंसति—

तदाहुरथ कस्माद्वासुक्रेणैतन्मरुत्वतीयं प्रतिपद्यत इति न ह वा एतदन्यो वसुक्रान्मरुत्वतीयमुदयच्छन्न विव्या- चेति तस्माद्वासुक्रेणैवैतन्मरुत्वतीयं प्रतिपद्यते, इति ।

तत्तस्मिन्सूक्ते जिज्ञासवः पृच्छन्ति । सन्ति वेदे बहून्यृष्यन्तरदृष्टानि [सूक्तानि] । अथैवं सति तानि परित्यज्य कस्मात्कारणाद्वासुक्रेण [वसुक्रेण] दृष्टेनैव सूक्तेन मरु-त्वतीयशस्त्रं प्रतिपद्यते । न ह वा इत्यादिकमभिज्ञानामुत्तरम् । वसुक्रान्महर्षेरन्यः कश्चिदपि महर्षिरेतन्मरुत्वतीयाख्यं शस्त्रं नैवोदयच्छद्दाशतय्याः सकाशात्रैवोद्धृतवान् । नापि विव्याचायं प्रथमस्तृचोऽयं चानुचर इत्यादिद्विवेकमन्यो न कृतवान् । तस्माद्व-सुक्रेण संहितायाः सकाशाच्छस्त्रमुद्धृत्य विवेचितत्वात्तदीयेनैव सूक्तेन शस्त्रप्राप्तिर्युक्ता ।

पुनरपि प्रजापतिसंबन्धेन सूक्तं प्रशंसति —

तदनिरुक्तं प्राजापत्यं शंसत्यनिरुक्तो वै प्रजापतिः प्रजापतेराप्त्यै, इति ।

देवता विस्पष्टं निष्कृष्य यत्रोच्यते तन्निरुक्तं तद्विपरीतम् “असत्सु मे” इत्या-दिकं तादृशम् । न हि तदीयास्वृक्षु काचिदपि देवता नामग्रहपूर्वकं विस्पष्टं प्रतीयते, तस्मादनिरुक्तं प्रजापतिदेवताकमित्यवगत्य शंसेत् । प्रजापतिः प्रजापालको जग-दीश्वरः, स चानिरुक्त ईश्वरस्य कर्मप्रापितदेहाभावेनेन्द्रादिवन्निष्कृष्य मूर्तेर्वक्तुमशक्य-त्वात् । तस्मादनिरुक्तं सूक्तं तथाविधप्रजापतिप्राप्त्यै संपद्यते ।

तस्मिन्सूक्ते द्वाविंशत्या(द्वाविंश्या)मृचीन्द्रायेति पदं तत्प्रशंसति —

सकृदिन्द्रं निराह तेनैन्द्राद्रूपान्न प्रच्यवते, इति ।

तस्मिन्पादे “इन्द्राय सुन्वत्” [ऋ० सं० म० १० सू० २७ ऋ० २२] इत्येक-वारमिन्द्रं स्वनाम्ना निष्कृष्य ब्रूते । तेनेन्द्रवचनेन तत्सूक्तमिन्द्रसंबन्धिनः स्वरूपादप्र-च्युतं भवति । अतः पूर्वोक्तरीत्या प्राजापत्यत्वाद्दैन्द्रत्वं तच्छा(च्छं)सनेनोहनीयम् ।


१ क. ख. ॰पमेत॰ । २ क. ग. घ. ॰मिन्द्रः स्व॰ । ३ क. ग. घ. ॰न्धितः स्व॰ ।

अध्या० २ ख० २(६)] ऐतरेयारण्यकम् । २६

सूक्तान्तरं विधत्ते— पिबा सोममभि यमुग्र तर्द इति शंसति, इति।
पिबा सोममित्येतत्पञ्चदशर्चं सूक्तं शंसेत् ।
तस्मिन्सूक्ते प्रथमायामृचि द्वितीयपादे महिशब्दं प्रशंसति—
ऊर्वं गव्यं महि गृणान इन्द्रेति मह-
द्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।
हे इन्द्र त्वमूर्वमुरु प्रभूतं गव्यं पशुप्रदत्वेन गोभ्यो हितं महि महत्पूज्यं यथा भवति तथा गृणानैः¹ कथया(थ्यमा?)नोऽवतिष्ठसे² । अत्र महिशब्दस्योक्तत्वादेतस्याह्नो रूपं महच्छब्दयुक्तं सद्रूपसमृद्धं भवति ।

ऋषिसंबन्धेन सूक्तं प्रशंसति—
तदु भारद्वाजं भरद्वाजो ह वा ऋषीणामनूचान-
तमो दीर्घजीवितमस्तपस्वितम आस स एतेन
सूक्तेन पाप्मानमपाहत तद्यद्भारद्वाजं शंसति
पाप्मनोऽपहत्यै अनूचानो दीर्घजीवी तप-
स्व्यसानीति तस्माद्भारद्वाजं शंसति, इति ।
तदु तदपि सूक्तं “पिबा सोमम्” [ऋ० सं० म० ६ सू० १७ ऋ० १] इत्यादिकं भरद्वाजेन दृष्टम् । स च भरद्वाजः सर्वेषामृषीणां मध्ये वेदशास्त्रपारं गतोऽतिशयेन चिरजीव्यतिशयेन तपस्वी बभूव । स तादृशो भरद्वाज एतेन पिबा सोममित्यादि-सूक्तेन स्वकीयं पापं नाशितवांस्तस्मादेतच्छंसनं पापनाशाय भवति । तस्माद्यः पुमाननूचानत्वादियुक्तो भवानीति कामयते स पुमान्भारद्वाजमेतत्सूक्तं शंसेत् ।

सूक्तान्तरं विधत्ते—
कया शुभा सवयसः सनीळा इति शंसति, इति ।
कयेत्यादिकं पञ्चदशर्चं सूक्तम् ।
तस्मिन्सूक्ते चतुर्थ्यामृचि तृतीयपादगतमुक्थशब्दं प्रशंसति—
आशासते प्रतिहर्यन्त्युक्थेत्युक्थं वा एतदह-
रुक्थवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।


पिबा सोममभि०—ऋ० सं० म० ६ सू० १७ ऋ० १ । ऊर्वं गव्यं०—ऋ० सं० म० ६ सू० १७ ऋ० १ । कया शुभा सवयसः०—ऋ० सं० म० म० १ सू० १६५ ऋ० १ । आशासते प्रतिहर्य०—ऋ० सं० म० १ सू० १६५ ऋ० ४ ।


१ क. ख. ग. ॰नः कथयानः क॰ । २ ख. ॰ष्ठते । अ॰ ।

२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-

आशासते फलं कामयमानाय यजमानायोक्था शस्त्राणि प्रतिहर्यन्त्यपेक्षितं कामं प्रतिपादयन्ति । अत्रोक्थेति पदस्य विद्यमानत्वादेतदहरुक्थरूपमेवैतस्याह्नो रूपमु- क्थयुक्तत्वादूपसमृद्धं भवति । नामधेयमुपजीव्य सूक्तं प्रशंसति—

तदु कयाशुभीयमेतद्वै संज्ञानं संतनि सूक्तं यत्कया-
शुभीयमेतेन ह वा इन्द्रोऽगस्त्यो मरुतस्ते समजा-
नत तद्यत्कयाशुभीयं शंसति संज्ञात्या एव, इति ।

तदु तदपि "कया" [ ऋ० सं० म० १ सू० १६५ ऋ० १ ] इत्यादिकं सूक्तं कयाशुभीयनामकं कया शुभेति पदद्वयस्य तत्र विद्यमानत्वात् । तद्यदेतत्कयाशुभीयं सूक्तमस्त्येतदेव संज्ञानं समीचीनज्ञानहेतुः । संतनि सम्यग्विस्तृतं च। एतेनैव सूक्ते- नेन्द्रादयो ये सन्ति ते सर्वेऽपि समजानत सम्यग्ज्ञानवन्तोऽभूवन् । तस्मात्कयाशु- भीयं शंसतीति यदस्ति तत्सम्यग्ज्ञानार्थमेव संपद्यते । आयुर्हेतुत्वेन पुनः प्रशंसति—

तद्वायुष्यं तद्योऽस्य प्रियः स्यात्कु-
र्यादेवास्य कयाशुभीयम्, इति ।

तदु तदेव सूक्तमायुषः कारणम् । तथा सति यो यजमानोऽस्य होतुः प्रियः स्यादस्य यजमानस्यार्थे कयाशुभीयमवश्यं कुर्यात् । सूक्तन्तरं विधत्ते—

मरुत्वाँ इन्द्र वृषभो रणायेति शंसति, इति ।

मरुत्वानित्यादिकं पञ्चर्चं सूक्तं शंसेत् । अत्र वृषभशब्दं प्रशंसति—

इन्द्र वृषभ इति वृषण्वद्वा इन्द्रस्य
रूपमैन्द्रमेतदहरेतस्याह्नो रूपम्, इति ।

हे इन्द्र त्वं वृषभः कामानां वर्षयिता समर्थ इत्येवं सूक्ते श्रूयते । इन्द्रस्य रूपं वृषण्वद्वै कामानां वर्षणयुक्तम् । ऐन्द्रमेतदित्यादि पूर्ववत् । ऋषिसंबन्धेन प्रशंसति—

तदु वैश्वामित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस, इति ।

तदु तत्सूक्तं विश्वामित्रेण दृष्टं विश्वस्य सर्वस्य जगतो मित्रमित्यनयैव व्युत्पत्त्या मुनिर्विश्वामित्रनामक आस । उत्तरत्राप्येतन्नामधेयमेव निर्वक्ष्यति—" यदस्येदं


मरुत्वाँ इन्द्र वृषभो०—ऋ० सं० म० ३ सू० ४७ ऋ० १ ।

अध्या० २ ख० २ (१)] ऐतरेयारण्यकम् । २७

विश्वं मित्रमासीद्यदिदं किंच" [ ऐ० आ० २ अ० २ ख० १ ] [इति।] तस्माद्वि- श्वामित्रः । ईदृशेन दृष्टत्वात्प्रशस्तमिदमित्यर्थः ।

वेदनशंसने प्रशंसति—

विश्वं हास्मै मित्रं भवति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।

सूक्तान्तरं विधत्ते—

जनिष्ठा उग्रः सहसे तुरायेति निविद्धानमैकाहिकं रूपसमृद्धं बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रति- ष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रति- तिष्ठन्ति प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति , इति ।

“जनिष्ठाः” इत्यादिकमेकादशर्चम् । अस्मिन्सूक्ते षण्णामृचां शंसनं कृत्वा तत ऊर्ध्वमिन्द्रो मरुत्वानित्यादीनि निवित्पदानि सूक्तमध्ये धीयन्ते तस्मादेतन्निविद्धानम्, तदेतदेकाहे मूलप्रकृतिरूपेऽग्निष्टोमे समुत्पन्नमित्यैकाहिकम् । रूपसमृद्धमित्यादि पूर्ववद्व्याख्येयम् । “आ त्वा रथम्” [ऋ० सं० म० ८ सू० ६८ ऋ०१] इत्यारम्य “जनिष्ठा उग्रः” [ ऋ० सं० म० १० सू० ७३ ऋ० १ ] इत्येतदन्तं मरुत्वतीयं शस्त्रं पञ्चमारण्यके संगृह्य प्रदर्शितम्—“चतुर्विंशान्मरुत्वतीयस्याऽऽतानोऽसत्सु मे जरितः साभिवेगः पिव्रा सोममभि यमुग्रतर्दः कया शुभा सवयसः सनीळा मरुत्वाँ इन्द्र वृषभो रणाय जनिष्ठा उग्रः सहसे तुरायेति मरुत्वतीयम्” [ ऐ०आ०५अ०१ख०१ ] इति। “आ त्वा रथम्” [ऋ०सं०म०८सू०६८ऋ०१] इत्यारभ्य “असत्सु मे जरितः” [ऋ० सं० म० १० सू० २७ ऋ० १ ] इत्यतः प्राचीन ऋक्समूहो मूलप्रकृतावु-त्पन्नश्चतुर्विंशाह्ने चोदकप्राप्तस्तस्मादपि चतुर्विंशाहादास्मिन्महाव्रते पुनश्चोदकप्राप्तः । “असत्सु मे” इत्यादिकमत्रैव विशेषविहितमेतत्सर्वं मरुत्वतीयं शस्त्रम् ।

एतस्मिञ्छस्त्रे विद्यमानानामष्टानासृचां संख्यां प्रशंसति—

ताः पराग्वचनेन सप्तनवतिर्भवन्ति सा या नवति- स्तिस्रस्तास्त्रिंशिन्यो विराजोऽथ याः सप्ताति- यन्ति यैवैषा प्रशंसा साप्त्यस्य तस्या एव, इति ।


जनिष्ठा उग्रः सहसे०—ऋ० सं० म० १० सू० ७३ ऋ० १ ।


१ ग. घ. 'देवं निवि'।

२८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

अत्र स्तोत्रियानुरूपयोः षडृचः । षट्सु प्रगाथेषु प्रथमानिष्पन्नोऽष्टा¹(ष्टा अष्टा)- दशर्चः । धाय्यास्तिस्रः । “असत्सु” [ऋ०सं०म०१०सू०२७ऋ०१] इति सूक्ते चतुर्विंशतिः । “पिबा सोमम्” (ऋ० सं० म० ६ सू० १७ ऋ० १ ) इत्यत्र पञ्च- दश । “कया शुभा” ( ऋ० सं० म० १ सू० १६९ ऋ० १) इत्यत्रापि पञ्च- दश । “मरुत्वाँ इन्द्र” [ ऋ० सं० म० ३ सू० ४७ ऋ० १ ] इत्यत्र पञ्च । “जनिष्ठा उग्रः” [ ऋ० सं० म० १० सू० ७३ ऋ० १ ] इत्यत्रैकादश । ताः सर्वा मिलित्वाऽऽवृत्तिरहितेन पाठेन सप्ताधिका नवतिर्भवन्ति । तत्र या ऋचो नव- तिसंख्याका[स्ता]स्त्रेधा विभक्ताः सत्यः प्रत्येकं त्रिंशत्संख्यायुक्ता विराजो भवन्ति । “त्रिंशदक्षरा विराट्” इति श्रुतेः । यादृशो विराजस्तिस्रः । अथ नवतिसंख्याया ऊर्ध्वं या ऋचः सप्तसंख्या अतियन्त्यतिरिच्यन्ते। एवं सति साप्तस्य सप्तत्वव्यतिरेकनि- मित्ता याः(या) प्रशस्तिरेषा तस्या एव [नवतेरेव?] न त्वन्तरेण [तां] प्रशंसा संपद्यते । सप्ताधिकनवतिरित्‍येवं व्यवह्रियमाणत्वात् ।

आवृतिविधानपूर्वकं कृत्स्नसंख्यां प्रशंसति— तास्त्रिः प्रथमया त्रिरुत्तमयैकशतं भवन्ति, इति । त्रिरावृत्त्या प्रथमया चोत्तमया सहिताः पूर्वोक्ता ऋच एकाधिकशतसंख्याकाः संपद्यन्ते ।

उक्तस्य प्राशस्त्यस्य सिद्धये पुरुषावयवसंख्यासाम्यं दर्शयति— पञ्चाङ्गुलयश्चतुष्पर्वा द्वे कक्षसी दोर्बाह्वक्षं- सफलकं च सा पञ्चविंशतिः पञ्चविंशानीत- राणि बह्वङ्गानि तच्छतमात्मैकशततमः, इति ।

एकस्मिन्हस्ते पञ्चसंख्याका अङ्गुलयः । एकैकस्याङ्गुलौ चत्वारि पर्वाणि । पर्व- शब्दो भागवाची । अग्रभागो मध्यभागो मूलभागस्तन्मूलभागश्चेति चत्वारो भागाः । यद्यप्यङ्गुष्ठे भागत्रयमेवोपलक्ष्यते तथाऽपीतरसामान्याय भागचतुष्टयं कृत्वा गणनी- यम् । एवं सत्यङ्गुलिगतपर्वसंख्या विंशतिः संपद्यते । कक्ष[:]शब्देन कक्षस्य पार्श्वद्वयं विवक्षितम् । ततः कक्षे द्विसंख्यासंपत्तिः । दोर्बाहूरेकः । एकोऽक्षश्चक्षुरिन्द्रियमे- कम् । अंसफलकमेकम् । एवं दक्षिणभागे पञ्चविंशतिः संपद्यते । एवं वामभाग- गतान्यङ्गान्यपि पञ्चविंशतिर्भवन्ति । मिलित्वा पञ्चाशत्संख्या संपन्ना । अनेनैव न्यायेन नाभेरधस्तादुभयोः पादयोरपि पञ्चाशत्संख्योन्नेया । दक्षिणपादे पूर्ववदङ्गुलि- पर्वसंख्या विंशतिरूरू जङ्घे द्वे संधयस्त्रय इत्येवं पञ्चविंशतिः । एवं वामपादेऽपि


¹ ग. घ. ॰त्रोद॰ ।

अध्या०२ख०३(७)] ऐतरेयारण्यकम्। २९

द्रष्टव्यम् । ततो हस्तयोः पादयोश्च मिलित्वा तत्सर्वमङ्गजातं शतं संपद्यते । आत्मा मध्यदेहः स चैकशतसंख्यापूरकः ।

पुनरप्यायुरादिरूपेण संख्यामेव प्रशंसति—

यच्छतं तदायुरिन्द्रियं वीर्यं तेजो यजमान एकश-
ततम आयुषीन्द्रिये वीर्ये तेजसि प्रतिष्ठितः, इति ।

तत्र या शतसंख्या सेयमायुरादिरूपा, आयुषः शतसंवत्सरपरिमितत्वात् । आयुषि स्थिते सतीन्द्रियं चक्षुरादिकं प्रवर्तते । वीर्यं च तेजः कान्तिरित्‍येतत्सर्वं सुस्थितं भवति । तां शतसंख्यामपेक्ष्य यजमान एकशतसंख्यापूरकः सन्नायुरादिषु प्रतिष्ठितो भवति ।

“ जनिष्ठा उग्रः ” [ ऋ० सं० म० १० सू० ७३ ऋ० १ ] इत्यादिष्वृक्ष्ववस्थितं त्रिष्टुप्छन्दः प्रशंसति—

तास्त्रिष्टुभमभि संपद्यन्ते त्रैष्टुभो हि मध्यंदिनः, इति ।
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये
द्वितीयः खण्डः ॥ २ ॥ ( ६ )

ताः शस्त्रगता ऋचोऽन्तिमसूक्तगतं त्रिष्टुभाख्यं छन्द आभिमुख्येन प्राप्नुवन्ति । मध्यंदिनसवनस्य यथोक्तशस्त्रोपेतस्य त्रिष्टुप्संबन्धित्वात् । “त्रैष्टुभं माध्यंदिनं सवनम्” इत्यादिश्रुत्यन्तरप्रसिद्धिद्योतनार्थो हिशब्दः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥ ( ६ )


अथ तृतीयः खण्डः । ( सप्तमः )

माध्यंदिनसवने मरुत्वतीयं शस्त्रं निरूपितम् । अथ निष्केवल्यशस्त्रं निरूपणीयम् । तस्य च प्रेङ्खमारुह्य शंसनीयत्वाद्रादौ प्रेङ्खं विधातुं प्रश्नोत्तराभ्यां तन्निर्वचनं दर्शयति—

तदाहुः किं प्रेङ्खस्य प्रेङ्खत्वमित्ययं वै प्रेङ्खो योऽयं पवत
एष ह्येषु लोकेषु प्रेङ्खत इति तत्प्रेङ्खस्य प्रेङ्खत्वम्, इति ।

त[त्त]त्र निष्केवल्यशंसनार्थे प्रेङ्खे केचन जिज्ञासवः पृच्छन्ति, लोके प्रेङ्खशब्देन दोलाऽभिधीयते तस्य प्रेङ्खस्य तन्नाम कथं संपन्नमिति । अयं वा इत्यादिकमभिज्ञानामुत्तरम् । योऽयं वायुरन्तरिक्षे पवते संचरत्ययमेव प्रेङ्खशब्दवाच्यः । यस्मादेष वायुरेषु पृथिव्यादिषु लोकेषु प्रकर्षेण चलति तस्माद्वायुरवदन्तरिक्षे पवते संचरति । प्रकर्षेणेङ्खते वलत इति व्युत्पत्त्या प्रेङ्खनाम संपन्नम् ।

३० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

निर्वचनेन प्रेङ्खं प्रशस्य तन्निष्पादके फलके पूर्वपक्षत्वेन परकीयमतमुपन्यस्यति—

एकं फलकं स्यादित्याहुरेकधा ह्यवायं
वायुः पवतेऽस्य रूपेणेति , इति ।

अन्तरिक्षे वायोरैकेनैव प्रकारेण संचारादस्य वायोः स्वरूपेण प्रेङ्खो निष्पादनीय इत्यभिप्रेत्य केचिदेकमेव फलकमत्र भवेदिति* ।

पूर्वपक्षं निराचष्टे—

तत्तन्नाऽऽदृत्यम्, इति ।

त[त्त]स्मिन्प्रेङ्खे तदेकफलकमतं नैवाऽऽदरणीयम् ।

पुनरपि पूर्वपक्षत्वेन मतान्तरमुपन्यस्यति—

त्रीणि फलकानि स्युरित्याहुस्त्रयो वा इमे
त्रिवृतो लोका एषां रूपेणेति , इति ।

पृथिव्यन्तरिक्षं द्यौरित्येवमेते त्रयः प्रसिद्धा लोकास्ते च त्रिवृत उपर्यधोमध्यभावेन त्रेधा वर्तन्ते । एषां पृथिव्यादीनां रूपेण निष्पादयितुं त्रीणि फलकानि भवेयुरित्येवमन्ये पूर्वपक्षिण आहुः ।

एतमपि पक्षं निराचष्टे—

तत्तन्नाऽऽदृत्यम्, इति ।

पूर्ववद्योज्यम् ।

सिद्धान्तत्वेन स्वमतं दर्शयति—

द्वे एव स्यातां द्वौ वा इमौ लोकावद्धातमाविव
दृश्येते य उ एने अन्तरेणाऽऽकाशः सोऽन्त-
रिक्षलोकस्तस्माद्द्वे एव स्याताम् , इति ।

+प्रेङ्खार्थफलं द्वे एव फलके संपादनीये, न त्वेकं नापि त्रीणि । द्वावेव पृथिवीद्यौश्चेतीमौ लोकावद्धातमाविवास्माकमतिशयेन प्रत्यक्षाविव दृश्येते । भूलोकवर्तिनां मनुष्यादीनां द्युलोकवर्तिनां सूर्यचन्द्रादीनां च दृश्यमानत्वात् । यस्तु द्वयोरेतयोर्मध्यमाकाशः प्राणिदर्शनरहितः सोऽन्तरिक्षलोक इत्युच्यते । तस्मादन्तरिक्षस्य निष्प्रयोजनत्वादितरलोकद्वयानुसारेण द्वे एव फलके भवेताम् ।

तत्फलकनिष्पादनार्थं वृक्षविशेषं विधत्ते—

औदुम्बरे स्यातामूर्ग्वा अन्नाद्यमुदुम्बर


* आहुरिति पूरणीयम् । + प्रेङ्खार्थमित्येव पठितुं युक्तम् ।
१ क. ग. घ. ˚नां च ।

अध्या० २ ख० ३(७)] ऐतरेयारण्यकम् । ३१

ऊर्जोऽन्नाद्यस्यावरुद्ध्यै, इति । ऊर्क्शब्दो रसवाची । उदुम्बरश्चोर्गस इव तत्फलेषु माधुर्यसत्वस्य विद्यमान- त्वात् । तेषां च पक्वफलानां भक्ष्यत्वेन फलानामुपदंशत्वेनान्नं योग्यमन्नमुदुम्बरः । अतो रसस्यान्नं योग्यस्यान्नस्य च प्राप्त्यै ते फलके औदुम्बरे भवतः ।

तयोः फलकयोर्लम्बमानतां विधत्ते— मध्यत उद्धृते स्यातां मध्यतो वै प्रजा अन्नं धिनोति मध्यत एव तदन्नाद्यस्य यजमानं दधाति, इति । ते फलके यथा भूमिं न स्पृशतो यथा चोपरितनं वीतयनामकं तिर्यक्काष्ठं न स्पृश- तस्तथैव भूमिवीतययोर्मध्यदेश उद्धृते ऊर्ध्वं भरणं प्राप्ते मरेषिताम्, ( भवेताम् । ) भुज्यमानमन्नं मध्य एव प्रजाः प्रौर्णानि(प्रीणयति), तत्तेनोद्धरणेनान्नाद्यस्य भोग्यस्य मध्य एव यजमानं स्थापयति ।

प्रेङ्खबन्धनाय रज्जुद्वयं विधत्ते— उभय्यो रज्जवो भवन्ति दक्षिणाश्च सव्याश्च दक्षिणा वा एकेषां पशूनां रज्जवः सव्या एकेषां तद्यदु- भय्यो रज्जवो भवन्त्युभयेषां पशूनामाप्त्यै, इति । दक्षिणहस्तेन निर्मिता रज्जवः प्रदक्षिणावृतो वामहस्तेन निर्मिताः सव्यावृत एव- मत्रोभयविधा रज्जवो भवेयुः । लोकेऽपि केचित्पशवो दक्षिणावृद्भिर्बध्यन्ते केचित्स- व्यावृद्भिः । तदुभयविधपशुप्राप्त्यर्थं द्विविधा रज्जवो भवेयुः ।

तासां रज्जूनां कारणं द्रव्यं विधत्ते— दार्भ्यः स्युर्दर्भावा ओषधीनामपहतपाप्मा तस्माद्दार्भ्यः स्युः, इति ॥ इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( ७ )

ओषधीनां तृणविशेषाणां मध्ये दर्भस्य शुद्धित्वात्पापराहित्यम् , “ पवित्रं वै दर्भाः ” इति श्रुत्यन्तरात् । तस्माद्रज्जवो दर्भेण निष्पादनीयाः । एतत्सर्वं पञ्चमे संगृहीतम्—“रज्जूभ्यामूर्ध्वमुद्धूयति दक्षिणतो दक्षिणोत्तरतः सव्यया दार्भ्ये त्रिगुणे स्याताम्” [ ऐ० आ० ५ अ० १ ख० ३ ] इति । यद्यपि दक्षिणोत्तरभागयोर्द्वे एव रज्जू तथाऽप्येकैकस्यां त्रिगुणत्वात्तद्गतसंख्याकानवयवानभिप्रेत्य रज्जव इति बहुवचनम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये प्रथमारण्यके द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( ७ )


१ क. प्राणने । २ क. ॰त्वद्दृपसं० ।

३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

अथ चतुर्थः खण्डः । ( अष्टमः )

भूमिप्रेङ्खयोर्मध्ये व्यवधानस्येयत्तां निश्चेतुं पूर्वपक्षमुपन्यस्य निराचष्टे—

अरत्नमात्र उपरि भूमेः प्रेङ्खः स्यादित्याहुरेतावता वै
स्वर्गा लोकाः संमिता इति तत्तन्नाऽऽदृत्यम्, इति।

अरत्निः प्रादेशद्वयमात्रप्रमाणम् । भूमेरुपरि तावन्मात्रव्यवधाने प्रेङ्खः कार्यः । अन्तरिक्षादुपरि वर्तमानभोगहेतवो ये स्वर्गलोकास्ते प्रजापतेररत्निमात्रेण सदृशा भवन्ति, तत्प्रशस्तत्वादरत्नेरुपरि प्रेङ्खः स्थापनीय इति केचिदाहुः । त[त्त]स्मिन्प्रेङ्खे तन्मतं नाऽऽदरणीयम् ।

पुनरपि पूर्वपक्षत्वेन मतान्तरमुपन्यस्य दूषयति—

प्रादेशमात्रे स्यादित्याहुरेतावता वै प्राणाः
संमिता इति तत्तन्नाऽऽदृत्यम् , इति ।

प्राणवायवो हि देहस्यान्तर्हृदयादूर्ध्वं प्रादेशमात्रं संचरन्ति मुखाद्बहिरपि संचरतां प्रादेशमात्रेण संमिता भवन्ति । अन्यत्पूर्ववद्व्याख्येयम् ।

सिद्धान्तं दर्शयति—

मुष्टिमात्रे स्यादेतावता वै सर्वमन्नाद्यं क्रियत एतावता
सर्वमन्नाद्यमभिपन्नं तस्मान्मुष्टिमात्र एव स्यात्, इति ।

एतावता मुष्टिपरिमितेन द्रव्येण मोदकदधूपूरिकादिरूपं सर्वमन्नाद्यं निष्पाद्यते, एतावता मुष्टिपरिमितेन ग्रासेन सर्वमन्नाद्यं मुखे प्राप्तं भवति, तस्मादन्नप्राप्त्यै मुष्टिमात्र एवोर्ध्वप्रदेशे प्रेङ्खो भवेत् ।

अथ प्रेङ्खारोहणे कंचित्पूर्वपक्षमुपन्यस्य दूषयति—

पुरस्तात्प्रत्यञ्चं प्रेङ्खमधिरोहेदित्याहुरेतस्य रूपेण य एष तपति
पुरस्ताद्ध्येष इमाँल्लोकान्प्रत्यङ्ङधिरोहतीति तत्तन्नाऽऽदृत्यम्, इति ।

होता स्वयं पूर्वस्यां दिश्यवस्थाय प्रत्यञ्चं पश्चिमदिश्यवस्थितं प्रेङ्खमधिरोहेदित्याहुः । तत्रेयमुपपत्तिः—य आदित्योऽस्ति स एष एतस्य रूपेण पुरस्तादवस्थाय पश्चिमारोहणरूपेण तपति । उदयादूर्ध्वमामध्याह्नं पश्चिमाभिमुखस्याऽऽदित्यस्याऽऽरोहदर्शनात् । अयमेवार्थः प्रसिद्धिवाचकेन हिशब्देनोत्तरवाक्ये स्पष्टीकृतः । तस्मात्पुरस्तादवस्थायाधिरोहेदिति, सोऽयं पूर्व पक्षो नाऽऽदरणीयः ।

पुनरप्यन्यं पूर्वपक्षमुपन्यस्य दूषयति—

तिर्यञ्चमधिरोहेदित्याहुस्तिर्यञ्चं वा अश्वमधिरोहन्ति