ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
२४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-
माभिमुख एतैः पूर्वोक्तैः “अग्निरिवानाधृष्यः” इत्यादिभिर्दशभिर्मन्त्रैर्होमार्थापादित- स्वाहाकाररहितैरुपतिष्ठेत । प्राङ्मुखोपस्थानेऽप्येत एव मन्त्राः । वक्ष्यमाणमन्त्रान्त- रेण सह समुच्चयार्थश्चकारः । तच्च मन्त्रान्तरम्- “एह्येव” इत्यादिकम् । हे आदि- त्यैह्येवास्मान्प्रति सर्वथैवाऽऽगच्छ । दूरादाह्वानार्था प्लुतिः । आगमनप्रयोजनमुच्यते- इदमस्माभिर्दीयमानं हविर्मधु मधुरम् । प्लुतिर्द्विरुक्तिश्चेत्युभयमादरार्थम् । तदेव हविः पुनर्विशेषाकारेण निर्दिश्यते-इमं पुरतो वर्तमानं तीव्रसुतं तीव्रेण बहुमन्त्रसूक्तप्रयो- गेणाभिषुतं सोमरसं पिव । प्लुतिः पूर्ववाक्यावृत्तिश्चेत्येतदत्यन्तमादरार्थम् । इति- शब्दो मन्त्रसमाप्त्यर्थः । चशब्दः पूर्वमन्त्रैः सह समुच्चयार्थः ।
आदित्योपस्थानादूर्ध्वं दासीविषयं प्रैषं विधत्ते-
प्रेष्याः संशास्ति पूर्णकुम्भास्तिस्रोऽवमाः षडुत्तमाः, इति ।
वक्ष्यमाणकर्मार्थं या दास्यः प्रेषणीयास्ता दासीः प्रेषयेत् । ताश्च दास्य उदकपूर्ण- कुम्भयुक्ता भवन्ति । तासां दासीनां त्रित्वमधमः पक्षः । षट्संख्योत्तमः पक्षः ।
तासां प्रेषणे मन्त्रमाह-
इमं धिष्ण्यमुदकुंभं च त्रिः प्रदक्षिणं परि-
व्रजाथ दक्षिणैः पाणिभिर्दक्षिणानूरूनाघ्नाना
एह्येवा३ इदं मधू३ इदं मध्विति वदत्यः ।
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये
प्रथमः खण्डः ॥ १ ॥
अथ द्वितीयः खण्डः ।
उपाकृते स्तोत्रे त्रैधं निनयाथात्रोत्तरे
च मार्जालीये शेषमन्तर्वेदि, इति ।
हे दास्य इमं मार्जालीयाख्यं धिष्ण्यं तत्र स्थापितमेकमुदकुम्भं च त्रिवारं प्रद- क्षिणी कुरुत । किं कुर्वत्यः, प्रदक्षिणीकरणकाले स्वस्वशिरस्यवस्थितानुदकुम्भान्वाम- हस्तैरवष्टभ्य दक्षिणैः पाणिभिः स्वकीयानूरूंस्ताडयन्त्यः । पुनरपि किं कुर्वत्यः, तस्मिन्काल एहीत्यादिमन्त्रभागं वदत्यः पठन्त्यः । अयं च भागो होतुरादित्योपस्थाने व्याख्यातः । अयं चोक्तो मन्त्रार्थरूपः प्रयोगस्तैत्तिरीयैर्विस्पष्टमाम्नातः-“उदकुम्भा- नधिनिधाय दास्यो मार्जालीयं परिनृत्यन्ति पदो निघ्नतीरिदं मधु गायन्त्यः” इति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये पञ्चमारण्यके प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥
१ क. ख. 'मार्थे या । २ क. ख. 'घ्नन्तीरि' ।
अध्या०१।ख०२] ऐतरेयारण्यकम् । २४७
' हे दास्यो यूयमेतावत्कृत्वा तत ऊर्ध्वमध्वर्युणा सामगानप्रति स्तोत्रेऽनुज्ञापिते सति स्वस्वकुम्भस्थितमुदकं त्रेधा विभज्य प्रदेशत्रये सिञ्चत । अयं दक्षिणो मार्जालीय एकः प्रदेशः । उत्तरो मार्जालीयो द्वितीयः प्रदेशः । उत्तरमार्जालीयो नामाऽऽग्नीध्रीयो धिष्ण्यः । तत्रोभयत्र सिक्तस्योदकस्यावशिष्टं मार्गं वेदिमध्ये सिञ्चत । इतिशब्द इमं धिष्ण्यमित्यादिमन्त्रसमाप्त्यर्थः । अनेन मन्त्रेण दासीः प्रेषितवतो होतुरुत्तरवेदिस्थानी- यस्य चित्याग्नेरवयवोपस्थानं विधातव्यम् ।
तत्र शिरस उपस्थानं विधत्ते—
प्रदक्षिणमग्निं निष्क्रम्याग्रेण यूपं पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्नग्नेः शिर उपतिष्ठते नमस्ते गायत्राय यत्ते शिर इति, इति ।
मार्जालीयमग्निं प्रदक्षिणं कुर्वन्निष्क्रम्याग्निश्चित्यां दक्षिणेन गत्वा यूपस्य पूर्व- भागे चित्याग्नेः पुरस्तात्स्वयं प्रत्यङ्मुखस्तिष्ठन्नमस्त इत्यादिमन्त्रेण तस्याग्नेः शिरो- भागमुपतिष्ठेत । हेऽग्ने ते तव गायत्रं साम शिरोरूपेण वर्तते तस्मै गायत्ररूपाय शिरसे त्वदीयाय नमोऽस्तु । गायत्रसाम्नः शिरोरूपत्वमध्वर्युणा तदुपस्थानादवगन्त- व्यम् । तथा चान्यत्राऽऽम्नायते—‘‘गायत्रेण पुरस्तादुपतिष्ठते’’ इति । नमस्त इत्या- दिमन्त्रसमाप्त्यर्थ इतिशब्दः ।
दक्षिणपक्षस्योपस्थानं विधत्ते—
तेनैव यथेतं प्रत्येत्य दक्षिणमुदङ्मुखः पक्षं नमस्ते राथंतराय यस्ते दक्षिणः पक्ष इति, इति ।
येन मार्गेण पूर्वस्यां दिशि गतस्तेनैव मार्गेण प्रतिनिवृत्य दक्षिणस्यां दिशि स्वयमुद- ङ्मुखस्तिष्ठंश्चित्याग्नेर्दक्षिणं पक्षं मन्त्रेणोपतिष्ठेत । तेनैवेत्यस्य व्याख्यानं यथेतमिति, यथाऽऽगतं तथैवेत्यर्थः । दक्षिणपक्षस्य रथंतरसामसंबन्धोऽध्वर्यूपस्थानादवगन्तव्यः । तथा च तदुपस्थानमाम्नातम्—‘‘बृहद्रथंतराभ्यां पक्षौ’’ इति ।
उत्तरपक्षस्योपस्थानं विधत्ते—
अपरेणाग्निपुच्छमतिक्रम्य प्राङ्मुख उत्तरं नमस्ते बृहते यस्त उत्तरः पक्ष इति, इति ।
पश्चिमदिगवस्थितं यदग्निपुच्छं तस्य पश्चिमभागेन तत्पुच्छमतिक्रम्योत्तरपक्षस्य पश्चिमायां दिशि प्राङ्मुखोऽवस्थायात्तरं पक्षं मन्त्रेणोपतिष्ठेत । तस्य पक्षस्य बृह- त्सामरूपत्वं पूर्ववद्द्रष्टव्यम् ।
१ ख. ग. घ. ङ. °र्युणाऽसा° । २ क. ख. °त्तरमा' । ३ क. ख. ग. °क्षिण ।
२४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
पुच्छस्योपस्थानं विधत्ते— पश्चात्माङ्पुच्छं नमस्ते भद्राय यत्ते पुच्छं या ते प्रतिष्ठेति, इति । चित्याग्नेः पश्चिमदिशि प्राङ्मुखोऽवस्थाय मन्त्रेण पुच्छमुपतिष्ठेत । भद्रसाम्नः पुच्छरूपत्वमुपनिषदि पञ्चविधोपासनायामनुक्रमणादवगम्यते । तत्र पञ्चावयवा एवमनुक्रम्यन्ते—"गायत्रं रथंतरं बृहद्भद्रं राजनमिति सामतः” [ ऐ० आ० २ अ० ३ ख० ४ ] इति । “शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मेत्याख्यानम्” [ ऐ० आ० २ अ० ३ ख० ४ ] इति [च] । यत्ते पुच्छं या ते प्रतिष्ठेति पुच्छस्यैव प्रतिष्ठात्वमुक्तम् । प्रतितिष्ठत्यवयवसंपूर्तिर्भवत्यनयेति प्रतिष्ठा ॥
चित्याग्नेर्मध्यशरीरस्योपस्थानं विधत्ते— दक्षिणतः पुच्छस्याऽऽत्मानं नमस्ते राजनाय यस्त आत्मेति, इति । इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
पुच्छस्य दक्षिणभागे प्राङ्मुखः स्थित्वा मध्यदेहमुपतिष्ठेत । आत्मशब्दो मध्यदेहभागं ब्रूते । “मध्यं ह्येषामङ्गानामात्मा ” [ ऐ० आ० २ अ० ३ ख० ५ ] इति श्रुतेः । राजनसाम्नो मध्यदेहरूपत्वं पूर्ववद्द्रष्टव्यम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
अथ तृतीयः खण्डः ।
चित्याग्न्युपस्थानानन्तरं होतुः सदःप्रवेशं विधत्ते— यथेतं सदः प्रसर्पति, इति । पूर्वं चित्याग्निसमीपे मार्जालीयाद्येन प्रकारेण गतं तस्मिन्नेव मार्गे प्रत्यावृत्य मार्जालीयं वामभागेऽवस्थाप्य सदः प्रविशेत् ।
दोलाकल्पनं विधत्ते— पुरस्तात्प्रेङ्ख उपकॢप्तो भवति, इति । होतुः सदःप्रवेशात्पूर्वस्मिन्नेव काले प्रेङ्खो दोलाऽध्वर्युभिः संपादनीया भवति ।
दोलासाधनानां स्थूणादीनां सदस्यानयनं विधत्ते— स्थूणे रज्जू वीवध इत्येतत्प्रक्षाल्य तीर्थेन
१ ग. घ. ङ. मार्गे ।
अध्या० १ ख० ३] ऐतरेयारण्यकम् । २४९
प्रपाद्योत्तरेणाऽऽग्नीध्रीयं परिव्रज्य पूर्वया द्वारा सदः सर्वान्धिष्ण्यानुत्तरेण, इति । स्थूणे द्वौ स्तम्भौ, रज्जुद्वयं फलकबन्धनक्षमं, वीवधः स्तम्भयोरुपरि तिर्यगव- स्थापनीयः काष्ठविशेषः, एतत्रितयं मलापनयाय प्रक्षाल्य तीर्थशब्दवाच्येन मार्गेण नयेत् । उत्करचात्वालयोर्मध्यदेशस्तीर्थम् " एतत्तीर्थमित्याचक्षते " इति परिभाषि- तत्वात् । तत आग्नीध्रीयधिष्ण्यवामभागेऽवस्थाप्योत्तरभागे तत्सर्वमानीय पूर्वद्वारेण सदः प्रवेश्य सदसो मध्ये सर्वान्धिष्ण्यान्वामभागे कृत्वा तेषामुत्तरदेशेनोऽऽनीय होत्री- यधिष्ण्यस्य पश्चाद्भागेऽवस्थापयेत् । तत्र काष्ठानां वृक्षविशेषं विधत्ते- औदुम्बराणि काष्ठानि प्रेङ्खस्य भवन्ति पालाशानि मिश्राणि वा, इति । स्पष्टोऽर्थः । दोलायां होतुरारोहणाय फलकानि विधत्ते- त्रीणि फलकान्युभयतस्तष्टानि द्वे वा सूच्यश्च तावत्यः, इति । अधस्तादुपरिष्टाच्च फलकानां सम्यक्तक्षणं कर्तव्यम् । तानि फलकानि त्रीणीत्येकः पक्षः । द्वे इति पक्षान्तरम् । सूच्यः फलकसंधानहेतवः सूक्ष्माग्राः काष्ठविशेषाः । ताश्च फलकवत्तिस्रो द्वे वा । फलकसंधानेन निष्पन्नस्य स्वरूपं विशदयति- इषुमात्रः प्राङ्प्रेङ्खो निमुष्टिकस्तिर्यङ्गुदगग्रः प्रागग्राभ्यां सूचीभ्यां समुतः, इति । प्रेङ्खस्य [ प्राङ् ] प्राक्पश्चिमविस्तारो बाणमात्रः । तिर्यङ्दक्षिणोत्तरविस्तारो निमुष्टिको मुष्टिन्यूनबाणमात्रः । स च प्रेङ्ख उदगग्रो दक्षिणमूलः स्थापनीयः । स च प्रागग्राभ्यां सूचीशब्दाभिधेयाभ्यां फलकसंधानहेतुभ्यां समुतः संयुक्तः कार्यः । दोलायाः स्थापनप्रकारं विधत्ते- दक्षिणोत्तरे स्थूणे निखायाभितो होतृषदनं वीवधमत्यादधात्यास्यसंमितं कर्तुः, इति । होता सीदति यस्मिन्धिष्ण्ये स्थाने तद्धोतृषदनं तस्य दक्षिणोत्तरयोः स्तम्भद्वयं निखनेत् । तयोः स्तम्भयोरुपरि चतुररत्निमात्रं वीवधनामकं तिर्यक्काष्ठं स्थापयेत् । तच्च काष्ठं कर्तुर्यजमानस्योत्थितस्य मुखसंमितं यथा भवति तथा स्तम्भस्य निखातभा- गादूर्ध्वं यजमानमुखपरिमितै स्तम्भाग्रे स्थापयेत् ।
१ घ. ङ. ॰नामीय' ।
३२
२५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रपाठकारण्यके-
तत्र फलकबन्धनप्रकारं दर्शयति-
कुष्ठासु च्छिद्राणि प्रेङ्खस्य भवन्ति रज्जूभ्यामूर्ध्वमुद्दयति
दक्षिणतो दक्षिणयोत्तरतः सव्यया दार्भ्यौ त्रिगुणे
स्यातां सव्यदक्षिणे पञ्चव्यायामे द्विगुणे वीवधे त्रिः
प्रदक्षिणं पर्यस्योर्ध्वग्रन्थि निष्पर्क्यं बध्नाति, इति ।
कुष्ठाः फलकस्य चत्वारः कोणविशेषाः । प्रेङ्खस्य फलकस्य तेषु चतुर्षु कोणेषु च्छिद्राणि कुर्यात् । दक्षिणच्छिद्रद्वयो रज्जवा द्विगुणीकृताया एकस्या अग्रद्वयं स्यूत्वा तां रज्जुमूर्ध्वमुन्नमयेत् । एवमुत्तरच्छिद्रद्वये रज्ज्वन्तरं द्रष्टव्यम् । तत्र दक्षिणरज्जुः प्रदक्षिणावृत्कार्या । उत्तररज्जुः सव्यावृत्कार्या । ते च रज्जू दर्भमय्यौ त्रैगुण्ययुक्ते सव्यदक्षिणावृतौ *पञ्चव्यायामदीर्घे कृत्वा द्विगुणे यथा भवति तथा बध्नीयात् । पञ्चव्यायामा रज्जुर्द्विगुणीकृता सार्धद्वियामा भवति । तस्याश्च मध्यभागे बाणमात्रं फलकस्याधस्तादुपक्षेप॑णम् । अवशिष्टोऽशश्छिद्रद्वयादूर्ध्वमुन्नीतं उपरितने वीवधे तदग्रमेकैकं त्रिः प्रदक्षिणीकृत्याग्रद्वयेन संयुक्तेनोर्ध्वग्रन्थिः कर्तव्यः । स च निष्पर्क्यः । शिखाबन्धनवत्सहसा मोचितुं( मोचयितुं ) शक्यत्वं निष्पर्क्यत्वम् ।
निखातयोः स्तम्भयोर्दृढीकरणं विधत्ते—
शाखाभिर्वृसीभिर्वा पर्युपन्त्यप्रकम्पि, इति ।
यथा स्तम्भस्य कम्पनो न भवति तथा पर्युपन्ति स्तम्भमूलस्य परितस्तस्मिन्नवटे पांसुं प्रक्षिपन्ति । हस्तेन प्रक्षेपणं न कर्तव्यं किं तु वृक्षशाखाभिर्वृसीभिर्वा पांसून्यूहेत् । तपस्विनामासनार्थं तृणवल्लीतालपत्रवेणुदलादिभिर्निर्मिता अल्पकटविशेषा वृस्यः ।
फलकंभूम्योर्मध्ये व्यवधानप्रमाणं दर्शयति—
चतुरङ्गुलेनैष विभूमः प्रेङ्खः स्यान्मुष्टिमात्रेण वा, इति ।
भूमेर्विशिष्टो विभूमोऽङ्गुलिचतुष्टयमित्येकः पक्षः । तस्योपर्यूर्ध्वाङ्गुष्ठयुक्ता मुष्टिर्भवति तावद्व्यवधानमित्यपरः पक्षः ।
दक्षिणभागे फलकस्योन्नत्यं विकल्पेन विधत्ते—
दक्षिणत उदाहिततरः समो वा, इति ।
* 'पञ्चव्यायामे' इत्यस्य व्याख्यानमेतत् ।
१ ग. घ. ङ. ॑क्षीणाम् । २ क. ख. ॑भिर्वा बृसी॑ । ३ घ. ङ. ॑कवृस्योर्म॑ ।
अध्या० १।ख० ४] ऐतरेयारण्यकम् । २५१
' होतुर्धिष्ण्यस्य पश्चाद्भागे लम्बमानस्य फलकस्य च व्यवधाने प्रमाणं दर्शयति— पदमात्रे धिष्ण्यात्, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥ धिष्ण्यात्पश्चिमभागे पदमात्रे फलकमवतिष्ठत इति शेषः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥
अथ चतुर्थः खण्डः ।
अथ होतुर्वाणधारणं विधत्ते— निष्ठिते प्रेङ्खे होता॑ वाणमौदुम्बरं शततन्तुमुभाभ्यां परिगृह्योत्तरत उपोहते यथा वीणाम्, इति । यथोक्तप्रकारेणाध्वर्युभिरुपकल्पिते कृते प्रेङ्खे समाप्ते सति ततो होता चित्याग्निप्र- देशादारभ्य सदः प्रविश्य पश्चादासीन औदुम्बरं शततन्तुं वाणमुभाभ्यां हस्ताभ्या- मादायोत्तरपार्श्वे वीणावद्धारयेत् । यथा लोके काण्डवीणा द्वित्रादितन्तुयुक्ता तथा विस्तृतफलकैःसंपादिता शततन्तुबन्धनपर्याप्ता महती वीणा वाणशब्देनोच्यते । वामभागे धारितस्य बा(वा)णस्य मन्त्रैः स्वरस्थानकल्पनं विधत्ते— सप्तभिश्चन्दोभिश्चतुरुत्तरैः स्थाना- न्यस्योध्वर्मुद्गृह्णीयाद्दशभिर्वा, इति । गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तिस्त्रिष्टुब्जगत्यः सप्त च्छन्दांसि । विराड्द्विपदाऽति- च्छन्दः किंचिदन्यच्छन्दोन्तरमित्येतानि चत्वार्युत्तराणि च्छन्दांसि । तथाविधच्छन्दः- प्रतिपादकैर्मन्त्रैर्बा(वा)णस्याधोभागमारभ्योत्तरोत्तरमूर्ध्वं स्वरस्थानानि केनचिल्लाञ्छने- नोपकल्पयेत् । अन्तिमच्छन्दोन्तरपरित्यागेन दशभिर्वेति पक्षान्तरम् । इदानीं क्रमेण च्छन्दोमन्त्रानाह— गायत्रेण त्वा छन्दसोद्द्हाम्यौष्णिहेन ॰त्वाऽऽनुष्टुभेन त्वा बार्हतेन त्वा पाङ्क्तेन त्वा त्रैष्टुभेन त्वा जागतेन त्वा वैराजेन त्वा द्वैपदेन त्वाऽतिच्छन्दसा त्वेति, इति । हे बा(वा)ण त्वां गायत्राख्येन(ण) च्छन्दसोद्द्हामि परिज्ञातस्वरस्थानविशेषयुक्तं
१ क. ग. घ. ङ. ॰तुर्वाण॰ । २ क. घ. ञ. ॰ता वाण॰ । ३ क. ख. घ. ङ. ॰न्तुं बाण॰ । ख. ग. घ. ङ. ॰लसं॰ । ५ क. ख. ॰णा वाण॰ ।
२६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
करोमि। एवमुत्तरेष्वपि मन्त्रेषु च्छन्दसोदूहामित्येतं भागमनुषज्य योजनीयम्। इति- शब्दो मन्त्रसमाप्त्यर्थः।
ध्वन्युत्पादनाय तन्तूनामुन्मार्जनं विधत्ते—
छन्दांस्यनुक्रम्य स्थानानामनुपरिक्रमण-
मौदुम्बर्याऽऽर्द्रेया शाखया सपलाशया
मूलदेशेन वाणं त्रिरूर्ध्वमुल्लिखति, इति।
यथोक्तच्छन्दोवाचकमन्त्राननुक्रमेण पठित्वा तैर्मन्त्रैः स्वरस्थानविशेषाणामनुक्रमेणो- पकल्पनं संपाद्य ततः पर्णयुक्तया कयाचिदार्द्रोदुम्बरशाखया तं वाणं त्रिवारमूर्ध्वमुन्मृ- ज्यात्। येयमुदुम्बरशाखा तस्या अग्रेणोन्मार्जनं न कुर्यात्किं तु मूलदेशेन कुर्यात्।
उन्मार्जनत्रयार्थं मन्त्रत्रयं दर्शयति—
प्राणाय त्वाऽपानाय त्वा व्यानाय त्वोल्लिखामीति, इति।
हे वाण त्वामस्मत्प्राणवृत्तिरक्षणार्थमुन्मृजामि। एवमुत्तरत्रापि पूर्वयोर्मन्त्रयोरुल्लि- खामीत्यनुषज्यते। इतिशब्द ईदृशे स्थाने सर्वत्र मन्त्रसमाप्त्यर्थः।
शाखान्तराभिमतं मन्त्रप्रयोगं निषेधति—
अन्येष्योऽपि कामेभ्यः पुनरपि न तूल्लिखामीति ब्रूयात्, इति।
शाखान्तरे हि प्राणादिरक्षार्थोल्लेखनादूर्ध्वं कामान्तरसिद्धयर्थं पुनरप्युल्लिखामीति मन्त्रप्रयोगोऽभ्युपगतः, तत्तु न कुर्यात्। प्राणादिमन्त्रत्रयेणैवाशेषकामानां सिद्धेः।
वाणस्य दानं विधत्ते—
अथैनं सशार्वं छन्दोगेभ्यः प्रयच्छति, इतिँ।
वाणदानादूर्ध्वं प्रेङ्खमारुरुक्षोर्होतुः प्रथमं मन्त्रैः प्रेङ्खस्य चालनं विधत्ते—
भूतेभ्यस्त्वेति पश्चार्धे फलके पाणी प्रतिष्ठापयति
प्राणमनु प्रेङ्खस्वेति प्राञ्चं प्रेङ्खं प्रणयति व्यानमन्वी-
ङ्खस्वेति तिर्यञ्चमपानमन्वीङ्खस्वेत्यभ्यात्मम्, इति।
असौ होता प्रेङ्खस्यापरफलके भूतेभ्यस्त्वेति पाणिद्वयं प्रतिष्ठापयति। हे प्रेङ्ख सर्वभूतोपकारार्थं त्वां पाणिभ्यां स्पृशामीति शेषः। ततः प्राणमनु प्रेङ्खस्वेति मन्त्रेण तं प्रेङ्खं पूर्वदिग्गमितत्वेन चालयेत्। हे प्रेङ्ख त्वमस्मदीयं प्राणमनुसृत्य प्रकर्षेण चलि- तो भव। यथा प्राणः पुरस्ताद्गच्छति तथा त्वमपि पूर्वस्यां दिशि गच्छेदित्यर्थः। ततो व्यानमन्वीङ्खस्वेति मन्त्रेण प्रेङ्खं तिर्यञ्चं दक्षिणोत्तरदिगनुसारेण चालयेत्। हे प्रेङ्ख
१ क. वाणं। २ ख. वाणं। घ. ङ. बाणं। ३ ख. ग. घ. वाण। ४ ख. ग. ङ. वाणस्य। ५ ख. ङ. ᵒति। वाणं। ६ घ. ङ. पूर्वादिगामिᵒ।
अध्या० १ ख० ४ ] ऐतरेयारण्यकम् । २५३
त्वमस्मदीयं व्यानमनुसृत्य दक्षिणोत्तरदिशोर्विशेषेण चलितो भव । ततोऽपानमन्वी- ङ्क्षस्वेति मन्त्रेण स्वात्माभिमुख्येन चालयेत् । हे प्रेङ्ख त्वमस्मदीयम्पानवायुमन्तःसंचा- रिणमनुसृत्यास्मदाभिमुख्येन चलितो भव ।
त्रिविधचालनादूर्ध्वं व्याहृतिजपं विधत्ते—
भूर्भुवः स्वरिति जपति, इति ।
प्रेङ्खस्य दार्ढ्यपरीक्षार्थं यदेतच्चालनत्रयं कृतं तेन पृथिव्यादिलोकत्रयं दृढं भवत्वित्यर्थः ।
जपादूर्ध्वं पुनरपि त्रेधा चालनं विधत्ते—
प्राणाय त्वेति प्राञ्चमेव व्यानाय त्वेति
तिर्यञ्चमपानाय त्वेत्यभ्यात्मम् , इति ।
हे प्रेङ्ख त्वामस्मदीयप्राणादित्रयपरिरक्षार्थं चालयित्वा दाढर्यं पश्यामीति शेषः । अत्र मन्त्रविशेष एव न तु क्रियाविशेष इति द्योतनार्थमेवकारः ।
प्रेङ्खस्य दार्ढ्यपरीक्षणानन्तरं समारोहणप्रकारं विवक्षुरादौ कूर्पराग्रारत्निस्थापनं विधत्ते—
वसवस्त्वा गायत्रेण च्छन्दसाऽऽरोहन्तु तानन्वा-
रोहामीति पश्चार्धे फलकेऽरत्नी प्रतिष्ठापयति, इति ।
वसवस्त्वेत्यादिः स्थापनमन्त्रः । हे प्रेङ्ख त्वामष्टसंख्याका वसवो देवा गायत्र- च्छन्दोरूपेण साधनेन प्रथममारोहन्तु । तान्वसूननुसृत्य पश्चादारोहामि ।
अरत्निस्थापनानन्तरमूर्ध्वाङ्गुलिभ्यां पाणिभ्यां पूर्वफलकस्पर्शनं विधत्ते—
अथ पूर्वं फलकं नानापाणिभ्यामभि-
पद्येत यथा हि सृप्स्यन् , इति ।
लोके सर्पणं करिष्यन्पन्नगः शिर उन्नमयति, तथाऽयं पाणी उन्नतौ कृत्वा ताभ्यामभिमृशेदित्यर्थः ।
कूर्पराभ्यां पश्चिमफलकमग्राभ्यां पूर्वं फलं च स्पृष्टवतो मुखस्याधोभागेन चुबु- कनाम्ना मध्यमफलकस्पर्शनं विधत्ते—
मध्यमं चुबुकेनोपस्पृशेद्वयोर्वा संधिम्, इति ।
फलकस्य त्रयपक्षे मध्यमस्पर्शः । द्वयपक्षे संधिस্পর্শः ।
अथ मन्त्रत्रयेण क्रमाद्दक्षिणवामसक्थिभ्यां कृत्स्नशरीरेण च प्रेङ्खारोहणं विधत्ते—
रुद्रास्त्वा त्रैष्टुभेन च्छन्दसाऽऽरोहन्तु तानन्वारो-
१ ग. ॰यर॰ ।
२६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१पञ्चमारण्यके-
हामीति दक्षिणं सव्यत्यतिहरत्यादित्यास्त्वा जागतेनं च्छन्दसाऽऽरोहन्तु तानन्वारोहामीति सव्यं विश्वे त्वा देवा आनुष्टुभेन च्छन्द- साऽऽरोहन्तु तानन्वारोहामीति समारोहति, इति ।
उक्तप्रकारेण प्रेङ्खामन्वारूढस्य भूमौ पादस्थापनप्रकारं विधत्ते— पश्चात्स्वस्य धिष्ण्यस्य दक्षिणं पादं प्राचं प्रतिष्ठापयत्यथ सव्यं यदेतरः श्राम्येद्येतरं यदेतरोऽथेतरं नोभौ विभूमौ कुर्यात्, इति ।
स्वकीयधिष्ण्यस्य पश्चाद्भागे प्रथमं दक्षिणपादः प्रागग्रः स्थापनीयः । ततः सव्यः पादः स्थापनीयः । यदा दक्षिणस्य पादस्य श्रमस्तदानीं सव्यं स्थापयेत् , यदा तु सव्यस्य श्रमस्तदा दक्षिणमित्येवं पर्यायेण तयोः स्थापनं न त्वेकदा द्वौ पादौ भूमिस्पर्शरहितौ कुर्यात् ।
इतरेषामृत्विजां तत्तदारोहणं विधत्ते— कूर्चान्होत्रकाः समारोहन्ति ब्रह्मा चौदुम्बरीमासन्दीमुद्गाता, इति । प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्रोऽच्छावाकश्चेति होत्रका दर्भमयान्कूर्चा- नारोहेयुः । तथा ब्रह्माऽपि कूर्चमारोहेत् । उद्गातोदुम्बरनिर्मितामासन्दीमारोहेत् ।
प्रेङ्खादिष्वारूढानां होतृहोत्रकब्रह्मोद्गातॄणां शौचाचमनौद्यर्थं गमने कंचिद्विशे- षमाह— यदि कस्मैचिदवश्यकर्मिणो जिगमिषेद्रादिश्य पालं प्राङ- वरुह्य चरित्वा तमर्थमेवमेवाजपया वृताऽऽरोहेत् , इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
कर्मिशब्द आचमनादिक्रियामाचष्टे । तदर्थं यो जिगमिषुः सोऽयं पालमादिश्य पालकं यजमानमनुज्ञाप्य स्वासनात्प्रेङ्खादेः प्राङ्मुखोऽवरुह्य यदर्थं निर्गच्छति तमर्थं चरित्वा समागत्य पूर्वोक्तेनैव प्रकारेण स्वं स्वमासनमारोहेत् । तत्र होतुरेतावान्वि- शेषः । अजपया वृता भूर्भुवः स्वरित्येतज्जपशून्येनैतरेण सर्वेण प्रकारेणेति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये पञ्चमारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
१ ग. ‘पनं वि’ । २ ग. ॰व्यध्र’ । ३ ख. ग. घ. ङ. ॰रोहेयुः । ४ ग. घ. ङ. ॰रोहयेत् । ५ घ. ङ. ॰नार्थं । ६ ख. घ. ङ. ॰शेष्यमा’ । ७ ग. रामागम्य । ८ ग. ॰न्येन प्र’ ।
अध्या० १ ख० ५] ऐतरेयारण्यकम्। २६५
अथ पञ्चमः खण्डः।
प्रेङ्खारूढस्य होतुः कर्तव्यानन्तरं विधत्ते—
प्रस्तोतारं संशास्ति पञ्चविंशस्य स्तोमस्य तिसृष्वर्धतृतीयास्वर्धत्रयोदशासु वा परिशिष्टासु प्रथमं प्रतिहारं प्रब्रूतादिति, इति।
यः प्रस्तोता साम्नः प्रस्तावभागं गायति तं प्रस्तोतारं प्रत्यसौ होता पञ्चविंशस्येत्यादिवाक्यं प्रब्रूयात्। राजनाख्यस्य साम्न आधारभूततृचावृत्त्या यः पञ्चविंशः स्तोमः संपाद्यते तस्मिन्स्तोमे प्रथमां स्तोत्रीयामारभ्यैकविंशस्तोत्रीयासु गतासु परिशिष्टासु त्रयोविंशस्तोत्रीयामारभ्य तिसृषु परिशिष्टासु सतीषु मध्यवर्तिनी येयं द्वाविंशस्तोत्रीया तस्याः प्रतिहारभागः पञ्चवारमावर्तनीयः “पञ्चकृत्वः प्रतिहरति” इति श्रुतेः। तत्र यः प्रथमः प्रतिहारस्तं प्रतिहारं हे प्रस्तोतर्मदग्रे कथय, अयं प्रथमः प्रतिहारो वर्तत इति। प्रतिहर्तुरनुष्ठीयमानं प्रथमं प्रतिहारं प्रति मां स्मारयेत्यर्थः । तिसृष्ववशिष्टास्वेकः पक्षः। अर्धतृतीयास्ववशिष्टास्विति द्वितीयः पक्षः। अर्धत्रयोदशास्ववशिष्टास्विति तृतीयः पक्षः। अन्तिमां स्तोत्रीयामारभ्यावरोहप्रकारेण या तृतीया तस्या उत्तरार्धं यासु तिसृष्ववस्थितं तास्तिस्रोऽर्धतृतीया। अनेनैव न्यायेन त्रयोदश्या उत्तरार्धं यासु त्रयोदशसु वर्तते ता अर्धत्रयोदशाः। इतिशब्दः प्रस्तोतारं प्रति होत्रा प्रयुक्तस्य प्रैषवाक्यस्य समाप्त्यर्थः।
प्रैषवाक्ये शाखान्तरपाठमाश्रित्य मतान्तरं दर्शयति—
अर्धत्रयोदशासु प्रवाचयतेति जातूकर्ण्यः, इति ।
अर्धत्रयोदशास्वित्येष तृतीयपक्ष एव जातूकर्ण्याख्यस्य मुनेरभिप्रेतः । तथा प्रब्रूतादित्यस्मिन्नेवार्थे प्रवाचयतेति पाठोऽभिप्रेतः।
प्रैषवाक्यादूर्ध्वं होतुर्जपं विधत्ते—
प्रोक्ते जपति, इति ।
प्रस्तोत्रा प्रथमप्रतिहारकाले प्रोक्ते सति होता वक्ष्यमाणमन्त्रं जपेत् ।
तं मन्त्रं दर्शयति—
सुपर्णोऽसि गरुत्मान्प्रेमां वाचं वदिष्यामि बहु वदिष्यन्तीं
बहु पतिष्यन्तीं बहु करिष्यन्तीं बहु सनिष्यन्तीं
बहोर्भूयः करिष्यन्तीं स्वर्गच्छन्तीं *स्वर्वदिष्यन्तीं स्वः
* स्वर्वदिष्यन्तीमिति पदद्वयं क. ख. ग. पुस्तकेषु नास्ति ।
१ घ. ङ. 'स्तोत्रिया'। २ ग. द्वादशं । ३ घ. ङ. 'स्तोत्रिया । ४ ग. घ. ङ. स्तोत्रिया'।
२५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रश्नेऽरण्यके-
पतिष्यन्तीं स्वः करिष्यन्तीं स्वः सनिष्यन्तीं स्वरिमं यज्ञं वक्ष्यन्तीं स्वर्मां यजमानं वक्ष्यन्तीमिति, इति ।
यागनिर्वाहकचित्याग्नेः पक्ष्याकारस्त्वं(र त्वं) गरुत्मान्पक्षयुक्तोऽसि । तत्रापि सुपर्णः शोभनपत्रयुक्तोऽसि । त्वदनुग्रहादहमिमां शस्त्रशंसादिरूपां वाचं प्रकर्षेण कथयिष्यामि । सैव वागेवानेकैर्विशेषणैर्विशिष्यते—बह्वर्थजातमपेक्षितं वदि- ष्यन्ती[म्] । तथा बहु पारलौकिकफलं प्रापयिष्यन्ती[म्]। तत्साधनभूतमिदं कर्म बहु प्रभूतं यथा भवति तथा करिष्यन्तीम् । ऐहिकमपि बहु धनादिकं सनिष्यन्तीं दास्यन्तीम् । पुनरप्येतत्कर्म प्रभूतादप्यत्यन्तं करिष्यन्तीम् । तथा देवानामग्रे यथोक्तं कर्म वक्तुं स्वर्गलोके गच्छन्तीम्* । तस्मिंश्च स्वर्गेलोके यजमानं प्रापयिष्यन्तीम् । प्रापय्य च तस्मिन्स्वर्गे निवासस्थानं करिष्यन्तीम् । कृत्वा च तत्र स्वर्गे भोगं दास्य- न्तीम् । तस्मिन्स्वर्गे देवानां पुरतः प्रभूतमिमं यज्ञं वक्ष्यन्तीम् । तत्र स्वर्गे मां होतारं यजमानत्वेन वक्ष्यन्तीम् । अस्ति हि सत्रे होतुर्यजमानत्वम् । “ये यजमानास्त ऋत्विजः” इति श्रुतेः ।
अस्मिन्मन्त्रे यजमानशब्दस्य सत्र एव प्रयोगो न त्वहीनैकाहयोरित्यमुमर्थं दर्शयति—
दीक्षिते यजमानशब्दो नादीक्षिते, इति ।
अस्ति हि सत्रे होतुर्दीक्षितत्वम् । अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति तत उद्गातारं ततो होतारमिति श्रुतेः । अहीनैकाहयोस्तु तादृशश्रुत्यभावाददीक्षित एव होता ।
पुनरप्यन्यं विशेषं मन्त्रे दर्शयति—
स्वरमुमिति योऽस्य प्रियः स्यान्न तु वक्ष्यन्तीमिति ब्रूयात्, इति ।
अदीक्षितस्य होतुर्यो यजमानः प्रियः स्यात्तं यजमानमुद्दिश्य स्वरमुमिति ब्रूयात् । अदःशब्दो नामनिर्देशार्थः । अमुं देवदत्तनामकं यजमानं स्वः स्वर्ग इत्येताव- दभिधाय ततो भविष्यद्वाचकं वक्ष्यन्तीमितिशब्दं न ब्रूयात्किं तु वर्तमानवाचकं शब्दं ब्रूयादित्यर्थादवगम्यते । तेन स्वर्गप्राप्तेरविलम्बः सूचितो भवति ।
उक्तमन्त्रजपादूर्ध्वं मन्त्रान्तरजपं विधत्ते—
उक्थवीर्याणि च, इति ।
* एतस्मादनन्तरं स्वर्वेदिष्यन्तीमिति पदद्वयस्य व्याख्यानं त्रुटितम् । तच्च “गत्वा च बहु यथा भवति तथा कर्म वादिष्यन्तीम्” इति भवेत् ।
१ क. स्वर्गे लो॑ । २ घ. ङ. देवतानां ।
अध्या० १।ख० ५] ऐतरेयारण्यकम् । २६७
“घोषाय त्वा” “श्लोकाय त्वा” शृण्वते त्वा” “उपशृण्वते त्वा” “आश्रुत्यै त्वा” “आश्रुताय त्वा” इत्येते षण्मन्त्रा उक्थवीर्याणि, षण्णां शस्त्राणामन्ते क्रमेण होत्रा पठनीयत्वात् । चकारः पूर्वोक्तस्य जपत्तीति पदस्यानुवृत्त्यर्थः । पुनरपि जप्यं मन्त्रान्तरं दर्शयति—
सं प्राणो वाचा समहं वाचा सं चक्षुर्मनसा समहं मनसा सं श्रोत्रमात्मना समहमात्मना मयि महा- न्मयि भर्गो मयि भगो मयि भुजो मयि स्तोभो मयि स्तोमो मयि श्लोको मयि घोषो मयि यशो मयि श्रीर्मयि कीर्तिर्मयि भुक्तिरिति, इति ।
योऽयं प्राणवायुः सोऽयं वाचा संगच्छताम् । तथाऽहमपि वाचा संगच्छतां (संगच्छै) संगतो भूयासम् । तथा चक्षुरिन्द्रियं मनसा संयुज्यताम् । अहमपि मनसा संयुक्तो भूयासम् । तथा श्रोत्रेन्द्रियं प्रेरकेण परमात्मना संयुज्यताम् । अहमपि तेनाऽऽत्मना संयुक्तो भूयासम् । तादृशे मयि होतरि महान्प्रौढो विद्या- दिगुणः संपद्यताम् । भर्गो वैरिभर्जनसमर्थं तेजः । भगो द्रव्यसंपत्तिलक्षणं भाग्यम् । भुजस्तद्भोगः । स्तोभस्तोमौ सामगतौ, तदुभयजन्यं फलमप्यस्तु । यशो विद्याजन्या प्रसिद्धिः । श्रीर्गजाश्वादिसंपत्तिः । कीर्तिर्दानजन्या प्रसिद्धिः । भुक्तिर्भोगः । भुज- मुक्त्योर्भोग्यभेदेन भेदो द्रष्टव्यः । जपान्तरं विधत्ते—
आहूय वागिति जपति, इति ।
शस्त्रानुज्ञापनार्थम् “अध्वर्यो शोंसावोम्” [ऐ० ब्रा० अ० १२ ख० १] इति मन्त्रेण तस्याऽऽह्वानं कृत्वा ततो वागिति शब्दं जपेत् । प्रकृतौ होतुर्रबहव आहावा विद्यन्ते चोदकप्राप्तानां तेषामपवादाय विशेषणं विधत्ते—
त्रय आहावाः शस्त्रादेर्निविदः परिधानीयाया इति, इति ।
“तदिदास” [ऋ० सं० म० १० सू० १२० ऋ० १] इत्यादिकं वक्ष्यमाणं शस्त्रं, तस्याऽऽदेरुपक्रमस्य संबन्धी कश्चिदाहावः । “अध्वर्यो शोंसावोम्” इत्या- हावमुक्त्वा पश्चाच्छस्त्रोपक्रमं कुर्यात् । इन्द्रो देव इत्यादिपदसमूहो निवित् । समा- प्त्यर्थमृक्परिधानीया । तदुभयोपक्रमे शोंसावोमित्येवंरूपौ द्वावाहावौ । त एते त्रय आहावा अत्र कर्तव्याः, न तु प्रकृतित्वदनुरूपप्रउगादिप्वाहावः पठनीयः ।
१ क. ख. ग. ‘र्गवाश्वा’। ३३
२५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१पञ्चमारण्यके-
अत्र शस्त्रोपक्रमात्पूर्वमध्वर्युकृत्यं दर्शयति— शब्दानध्वर्यवः कारयन्ति, इति । ते च शब्दा आपस्तम्बेन दर्शिताः—“उपाकृते माहेन्द्रस्य स्तोत्रे सर्वा वाचो वदन्त्युत्क्रोचं यजमानाः कुर्वतेऽपाघाटालिकास्तम्बलवीणाः पिच्छोला इति, प्रेष्ययो वादयन्ति संप्रवदन्ति वीणाशङ्खान्नोर्धीं तूणवाः” इति । यजमानकृत्यं विधत्ते— एतस्मिन्नहनि प्रभूतमनं दद्यात् , इति । पुरुषान्तरकर्तव्यं दर्शयति— राजपुत्रेण चर्म व्याधयन्त्याघ्नन्ति भूमिदुन्दुभिं पत्न्यश्च काण्ड- वीणा भूतानां च मैथुनं ब्रह्मचारिपुंश्चल्योः संप्रवादोऽनेकेन साम्ना निष्केवल्याय स्तुवते राजनस्तोत्रियेण प्रतिपद्यते, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥
चर्मवेधनप्रकार आपस्तम्बेन दर्शितः—“ उत्तरेणाऽऽग्नीध्रीयं कटसंघाते तैजस-संघातेनाऽऽर्द्रं चर्म शयनार्थं वितत्योच्छ्वसन्ति विपर्यान्येतच्च कर्म कवचिनस्तेषामेकैकं संशास्ति मा प्रवात्सीर्मा निर्वार्त्सीरिति तत्तै विधानाति(?) पादयन्ति ” इति । भूमिदुन्दुभ्याघातोऽपि तेनैव दर्शितः—“ अपरेणाऽऽग्नीध्रीयं भूमिदुन्दुभिमवटं खनन्र्ध्यमन्तर्वेद्यर्धं बहिर्वेदि तमार्द्रेण चर्मणोत्तरलोम्नाऽभिवितत्य शङ्कुभिः परिनिहत्यात्रैतत्पुच्छकाण्डमाहैननार्थं निदधाति दुन्दुभीन्समाघ्नन्ति पुच्छकाण्डेन भूमिदुन्दुभिम्” इति । काण्डवीणाः प्रसिद्धाः । ताश्च यजमानानां पत्नीभिर्वाद्यन्ते । भूतमैथुनदेशोऽपि तेनैव दर्शितः—“ उत्तरस्यां वेदिश्रोण्यां पुंश्चल्यै मागधाय च परिश्रयन्ति ” इति । ब्रह्मचारिपुंश्चल्योः संप्रवादः सामगब्राह्मणे दर्शितः । एतस्मिन्काण्ड उद्गातारोऽनेकविधेन साम्ना निष्केवल्याख्यशस्त्रसिद्ध्यर्थं स्तोत्रं कुर्वन्ति । तत्रान्तिमं राजनाख्यं साम, तेन साम्ना क्रियमाणस्य स्तोत्रस्याऽऽधारभूतो यस्तृचस्तेन तृचेन होता निष्केवल्याख्यं शस्त्रं प्रारभेत ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये पञ्चमारण्यके प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥
१ ख. ‘ते पा° । ग. ‘ते याघाट’ । २ ख. घ. ङ. ‘वीणा पि° । ३ क. वीणां शं° । ४ ख. घ. ङ. ‘नार्धीतू° । ग. ‘नावितू° । ५ ग. ‘तस्योच्छ्व° । ६ क. ख. ‘रिपान्त्ये’ । ७ क. ख. मा एवां । घ. ङ. मा पर्वा° । ८ क. निवात्सी° । ९ ग. ‘तेऽविद्या ना° । १० क. ‘टं खानयन्त्य° । ११ ग. घ. ङ. ‘वेद्यदि तं° । १२ क. ‘ह्वनां । १३ क. ‘श्चल्यो मां° । १४ ग. ‘स्त्रं विहृत्य प्रां° ।
अध्या० १ ख० ६] ऐतरेयारण्यकम् । २५९
अथ षष्ठः खण्डः ।
अत्र चोदकप्राप्तं निष्केवल्यशस्त्रं विहृत्य प्रदर्शयति—
तदिदास भुवनेषु ज्येष्ठं तां सु ते कीर्ति
मघवन्महित्वा भूय इद्वावृधे वीर्याय नृणामु
त्वा नृतमं गीर्भिरुक्थैरिति तिस्रः, इति ।
"तदिदास" [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिकं नवर्चं सूक्तम् । "तां सु ते कीर्ति मघवन्" [ ऋ० सं० म० १० सू० ९४ ऋ० १ ] इत्यादिकं षडृचं सूक्तम् । "भूयः" [ ऋ० सं० म० ६ सू० ३० ऋ० १ ] इत्यादिकं पञ्चर्चं सूक्तम् । "नृणामु त्वा" [ ऋ० सं० म० ३ सू० ५१ ऋ० ४ ] इत्यादिकास्तिस्र ऋचः । इत्यनेन क्रमेण विहरेत् ।
मतान्तरानुसारेण कंचिद्विशेषं विधत्ते—
अत्र हैके स्वादोः स्वादीयः स्वादुना सृजा समदः सु
मधु मधुनाऽभि योधीरित्यात्मन एते पदे उद्धृत्य पक्षपदे
प्रत्यवदधात्यश्वायन्तो मघवन्निन्द्र वाजिनो गामश्वं
रथ्यमिन्द्र संकिरेत्येतयोश्च स्थान इतरे, इति ।
अत्रास्मिन्निष्केवल्ये शस्त्रे केचित्खल्वेवं वदन्ति । एतच्छस्त्रगतयोरात्मभागस्थपादयोः पक्षभागस्थपादयोश्च परस्परं व्यत्ययः कर्तव्य इति । यथा चित्यस्याग्नेः पञ्चावयवा आम्नाताः—"शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मा" [ ऐ० आ० २ अ० ३ ख० ४ ] इति, तथा शस्त्रेऽपि पञ्चावयवा द्रष्टव्याः । चित्यस्याग्नेर्मध्यशरीरमात्मा; शस्त्रेऽपि योऽयं पूर्वं विहृतो भागः "तदिदास" इत्यारभ्य "गीर्भिरुक्थैरिति तिस्रः" इत्यन्तेन ग्रन्थेन सोऽयं भागैवत आत्मस्थानीयः । "तदिदास" [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्येतस्मिन्सूक्ते तृतीयस्यामृच्युत्तरार्धे "स्वादोः स्वादीयः" [ ऋ० सं० म० १० सू० १२० ऋ० ३ ] इत्यादिकौ यौ द्वौ पादौ तावुभावात्मभागस्य संबन्धिनौ, तदुभयमित उद्धर्तव्यम् । तथा वक्ष्यमाणे शस्त्रस्य दक्षिणपक्षभागे "अभि त्वा शूर" [ ऋ० सं० म० ७ सू० ३२ ऋ० २२ ] इत्यस्मिन्प्रगाथेऽश्वायन्त इति योऽयं पादो यश्चोत्तरपक्षभागे "त्वामिद्धि" [ ऋ० सं०
तदिदास भुव०—ऋ० सं० म० १० सू० १२० ऋ० १ । तां सु ते कीर्तिं०—ऋ० सं० म० १० सू० ९४ ऋ० १ । भूय इद्वावृधे०—ऋ० सं० म० ६ सू० ३० ऋ० १ । नृणामु त्वा नृतमं०—ऋ० सं० म० ३ सू० ५१ ऋ० ४ ।
१ क. 'ग आ ।
२६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-
म० ६ सू० ४६ ऋ० १ ] इति प्रगाथे गामश्वमिति पादस्तदुभयं च तत उद्धर्त- व्यम् । उद्धृत्य च “स्वादोः स्वादीयः” इत्यस्य स्थाने “अश्वायन्तः” इति पादः पठनीयः । तस्य पादस्य स्थाने “स्वादोः” इत्यादिपादः पठनीयः । “अदः सु मधु” इत्यस्य स्थाने “गामश्वम्” इति पादः पठनीयः । तस्य च पाद[स्य] स्थाने “अदः सु मधु” इत्यादिपादः पठनीयः ।
अस्य व्यत्ययेन प्रयोगस्य फलं दर्शयति—
श्रियमह गोरश्वमात्मन्धत्ते सं पक्षयोः पतनाय, इति ।
अहशब्द एवकारार्थः । आत्मन्नात्मस्थानीये शस्त्रभागे “अश्वायन्तः” “गाम- श्वम्” इति पादयोः पाठेन गोसंबन्धिनीं श्रियमश्वं च संपादयत्येव । तथा दक्षिणो- त्तरपक्षभागयोः “स्वादोः” “अदः सु मधु” इतिपादद्वयपठनं पक्षयोः सम्यक्पत- नायोपयुज्यते ।
पूर्वोक्तेषु “तदिदास” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिषु कंचिद्विशेषं विधत्ते—
नदं व ओदतीनामित्येतैर्येतानि व्यतिषजति पादैः पादान्बृहतीकारं नदवन्त्युत्तराणि प्रथ- मायां च पुरुषाक्षराण्युपदधाति पादेष्वेकैकमव- साने तृतीयवर्जं स खलु विहरति, इति ।
“नदं वः” इत्यादिका येयमृगस्ति तया सहैतानि “तदिदास” इत्यादि- सूक्तानि मिश्रयेत् । कथं मिश्रणमिति तदुच्यते—एतस्या ऋचः संबन्धिभिः पादैः सह सूक्तगतानपादान्मेलयेत् । बृहतीकारमिति णमुल्प्रत्ययान्तः । एकैकामृचं बृहतीं कृत्वेत्यर्थः । सूक्तस्य पदानि प्रथममुच्चार्य नदशब्दयुक्तान्यृचः पदान्युत्तराणि यथा भवन्ति तथोच्चारयेत् । किंच “तदिदास” इत्येतस्यां प्रथमायामृचि पुरुषेत्ये- तानि त्रीण्यक्षराणि प्रक्षिपेत् । प्रथमपादस्यावसाने “पु” इत्येकमक्षरं द्वितीयपाद- स्यावसाने “रु” इत्येकमक्षरं चतुर्थपादस्यावसाने “ष” इत्येकमक्षरम् । तृतीयपादे तु नास्त्यक्षरस्य प्रक्षेपः । अतस्तृतीयवर्जमित्युच्यते । एवं सति षट्त्रिंशदक्षरा बृहती संपद्यते । “तदिदास” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इति पादे दशाक्षराणि पु इत्येकमक्षरम् । “नदं वः” [ ऋ० सं० म० ८ सू० ६९ ऋ० २ ] इति पादे सप्ताक्षराणि । “यतो जज्ञे” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इति पादे दशाक्षराणि रु इत्येकमक्षरम् । “नदं योयुवतीनाम्”
नदं व ओदतीनाम्०—ऋ० सं० म० ८ सू० ६९ ऋ० २ ।
अध्या० १। ख० ६] ऐतरेयारण्यकम्। २६१
[ ऋ० सं० म० ८ सू ६९ ऋ० २ ] इति पादे सप्ताक्षराणि । तदेवं मिलित्वा षट्त्रिंशदक्षराणि संपद्यन्ते । एवमुत्तरत्रापि योजनीयम् । यः पुमानेतत्सर्वं जानाति स एवैतन्निष्केवल्यशस्त्रं विहरति विशेषेण ततस्तत आनीय संपादयति ।
यथोक्तं विहरणं प्रतिज्ञापूर्व^१मुदाहरति—
अपि निदर्शनायोदाहरिष्यामस्तदिदास भुवनेषु ज्येष्ठं पु । नदं व ओदतीनाम् । यतो जज्ञ उग्रस्त्वेष नृम्णो रु । नदं योयुवतीनो३म् । सद्यो जज्ञानो निरिणाति शत्रून्पतिं वो अघ्न्यानाम् । अनु यं विश्वे मदन्त्यूमाः षो धेनूनामिषुध्यसोमिति, इति ।
न केवलं विहरणस्य लक्षणकथनमेवापि चो^२दाहरिष्याम इति प्रतिज्ञा । “तदिदास” इत्यारभ्य “इषुध्यसोम्” इत्यन्तं द्वयोर्बृहत्योरुदाहरणं संपादितम् ।
बृहतीद्वयगर्भितायाः “तदिदास” इत्येतस्या ऋच आवृत्तिं विधत्ते—
एवमेतां त्रिः, इति ।
एवमुक्तेन प्रकारेण “नदं वः” इत्यादिपादयोजनेन पुरुषाक्षरत्रययोजनेन च संपन्नामेताम् “तदिदास” इत्यादिकामृचं त्रिवारं पठेत् ।
यदुक्तं पूर्वत्र “राजनस्तोत्रियेण प्रतिपद्यते” [ ऐ० आ० १ अ० १ ख० ५ ] इति, तत्र कांचिद्विशेषं दर्शयति—
अन्यास चेत्समाम्नातासु राजनेन साम्ना स्तुवीरन्थास्थानं ता इहैवेमा असमाम्नातासु चेत्स्तुवीरन्तत्समाम्नातस्य तावतीरुरुद्धृत्य तत्र ताः शंसेदिहो एवेमाः, इति ।
राजनसाम्न आधारभूतास्तृक्षु त्रयः पक्षाः संभवन्ति । “तदिदास” इत्यादिका ऋच [इ]त्येकः पक्षः । ताभ्योऽन्या ऋच इत्येकः पक्षः । ताश्चान्या द्विधा भिद्यन्ते । उदाहृतेषु
तदिदास० ऋ० सं० म० १० सू० १२० ऋ० १ । नदं व ओदतीनां०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । यतो जज्ञे० ऋ० सं० म० १० सू० १२० ऋ० १ । नदं योयुवतीनाम्०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । सद्यो ज्ञानः—ऋ० सं० म० १० सू० १२० ऋ० १ । पतिं वः०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । अनु यं०—ऋ० सं० म० १० सू० १२० ऋ० १ । नूनामिषुध्यसि—ऋ० सं० म० ८ सू० ६९ ऋ० २ ।
१ ग. °र्वकमुं । २ ग. °दाहृत्य प्रदर्शयिष्यामीति ।
२६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
सूक्तेषु समाम्नाता असमाम्नाताश्चेति । तत्र " तदिदास " इत्यादिकासु राजनसामगान- पक्षे पूर्वोक्त एव शस्रोपक्रमः । यदा तु तदिदासेत्यादिभ्योऽन्यासु यथोक्तसूक्तगतासु समाम्नातास्वृक्षूद्गातारो राजनेन स्तुवीरंस्तदानीं पूर्वोक्तन्यायेन राजनसामाधारभूताभि- रन्याभिर्ऋग्भिः शस्रोपक्रमः प्रसज्येत, तथोपक्रमो न कर्तव्यः । किंतु ता अन्याः सामाधारभूता ऋचः स्वस्थान एव पठनीयाः । इमाः "तदिदास" इत्यादिका इहैव शस्रोपक्रम एव पठनीयाः । यदा पुनरुद्गातारो यथोक्तसूक्तेष्वसमाम्नातासु कासुचि- न्नवीनास्त्वृक्षु राजनेन स्तुवीरंस्तदानीं समाम्नातस्य सूक्तस्य मध्ये तावतीर्नूतनाना- मृचां संख्यया संख्याताः काश्चिदृच उद्धृत्य तत्र तासामृचां स्थाने ता नवीना ऋचः शंसेत् । इमास्तु "तदिदास" इत्यादिका इहो एव॑^१ शस्रोपक्रम एव पठनीयाः ।
उद्धारपक्षे तु तदुद्धारनूतनप्रक्षेपयोः स्थानं दर्शयति—
अन्यास चेत्प्राक्सूद्दोहसस्ताः, इति ।
उदाहृतेषु सूक्तेषु या असमाम्नाता अन्या ऋचस्तासु यद्युद्गातारो राजनेँ^३ साम गायेयुस्तदानीं सूद्दोहोनामिकायाः " ता अस्य सूददोहसः " [ ऋ० सं० म० ८ सू० ६९ ऋ० ३ ] इत्येतस्याः पूर्वं काश्चिदृचाऽऽम्नाता अपनीय ता नवीना राजन- सामाधारभूता ऋचस्तत्र प्रक्षिपेत् ।
पक्षत्रयेऽपि शस्रोपक्रमस्य नास्त्यन्यथात्वमित्येतद्दर्शयति—
तदिदासेत्येतदादि शस्त्रम्, इति ।
यदि "तदिदास" इत्यादिषु राजनँसामगानं यदि वा ततोऽन्यासु समाम्नातासु यदि वा नवीनासु सर्वथाऽप्युपक्रम एकविध एव ।
होत्रा शस्रे शस्यमानेऽध्वर्योर्यः प्रतिगरो विहितः स द्विविधः, प्राकृतो विह्वृ- तश्चेति । तत्र सर्वत्र शस्रेषु सामान्येन प्राकृतप्राप्तौ सत्यां तदपवादेन विह्वृते षोडशि-^४ शस्रे विह्वतः प्रतिगरः प्रयुक्तस्तद्दृष्टान्तेनात्रापि विह्वतः प्रतिगर इत्याशङ्क्य तैँ^५द्वारयति—
अविह्वतश्चात्र प्रतिगरः, इति ।
प्रकृतावाम्नातात्प्रतिगरमन्त्राद्विशेषस्य कस्यचिद्धारर्णं^६ संपादनं यस्मिन्प्रतिगरे सोऽयं विह्वतः प्रतिगरः, सोऽत्र न कर्तव्यः किंतु प्राकृत एव कर्तव्यः ।
"तदिदास" इत्यारभ्य गीर्भिरुक्थैरिति तिस्र इत्यन्तेन ग्रन्थेन निष्केवल्यशस्त्रस्य योऽयमात्मभाग उक्तस्तस्यावसाने कांचिदृचं विधत्ते—
१ घ. ङ. °व पूर्ववच्छस्रो° । २ ग. °नं गा° । ३ ग. °नगा° । ४ क. घ. षोलशि° । ५ क. ख. तद्धार° । ६ ग. ङ. °चिद्धार° ।
षष्ठः खण्डः ॥ ६ ॥
अध्या० २ ख० १(७)] ऐतरेयारण्यकम्। २६३
ता अस्य सूददोहस इत्येतदादिः सूददोहाः सूददोहाः इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥
इति बह्वृचब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमोऽध्यायः ॥ १ ॥
ता अस्येत्युक्त एव पाद आदिर्यस्या ऋचः सेयमृगेतदादिः । सा च सूददोहो- नामिका, साऽत्र पठनीया । अभ्यासोऽध्यायसमाप्त्यर्थः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये पञ्चमारण्यके प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म- णारण्यककाण्डभाष्ये पञ्चमारण्यके प्रथमोऽध्यायः ॥ १ ॥
अथ पञ्चमारण्यके द्वितीयोऽध्यायः । तत्र प्रथमः खण्डः । ( सप्तमः )
पक्ष्याकारेण निरूपितस्य निष्केवल्यशस्त्रस्य योऽयं मध्यशरीरभागः सोऽयं तदि- दासेत्यादिना पूर्वं निरूपितः । अथ भागान्तरं प्रतिजानीते—
ग्रीवाः, इति ।
वक्ष्यमाणास्तिस्र ऋचः शस्त्रस्य ग्रीवास्थानीयाः । अंसाभिप्रायेण ग्रीवा इति बहुवचनम् । ग्रीवांसरूपा ऋचः कथ्यन्त इति शेषः ।
तत्र प्रथमामाह —
यस्येदमरजस्तुजो युजो वनं सहः । इन्द्रस्य रन्त्यं बृहत्, इति ।
यस्येन्द्रस्येदं शस्यमानं निष्केवल्यमरजः सर्वतो रञ्जकम् । यद्वा यस्येन्द्रस्येदं जगत्पालनं सर्वतो रञ्जकम् । यस्येन्द्रस्य युजो योगस्तुजो वैरिणां हिंसकः । तथा यस्येन्द्रस्य सहो बलं वनं भक्तैर्वननीयम् । तस्येन्द्रस्य रन्त्यं रमणं बृहत्प्रौढम्, क्रीडा महतीत्यर्थः ।
ता अस्य सूददोहसः०—ऋ० सं० म० ८ सू० ६९ ऋ० ३ ।
१ क. ख. घ. ङ. पूर्वां ।
द्वितीयामृचमाह—
२६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-
द्वितीयामृचमाह— नाधृष आदधर्षदाधृषाणं धृषितं शवः । पुरा यदीमपिन्व्यथिरिन्द्रस्य धृषितं सहः, इति ।
[वैरि]णां [शवो ?] बलं धृषितं येनेन्द्रेण तिरस्कृतम् । दाधृषाणमतिश- येन तिरस्कारं (रो)यमिन्द्रं नाधृषः । अन्येन केनापि तिरस्कर्तुमशक्यः । नैवारि- रादधर्षन्नैव तिरस्कृतवान् । यद्यस्मात्कारणात्पुरा पूर्वस्मिन्काल ईमतिव्यथिरिमं सेत्तु( ? )मतिशयेनेन्द्रश्चालितवान्, तस्मादिन्द्रस्य सहो बलं धृषितं वैरिधर्षणक्षमम् ।
तृतीयामृचमाह— स नो ददातु तं रयिं रयिं पिशङ्गरसंदृशम् । इन्द्रः पतिस्तवस्तमो जनेष्वा , इति ।
जनेषु सर्वप्राणिषु मध्य आ समन्तात्तवस्तमोऽतिशयेन बलवान्पतिः पालक इन्द्रः पिशङ्गरसंदृशं पिङ्गलवर्णत्वेन सम्यग्दृष्टिप्रियं रयिं हेमरूपं स्वयं लब्धवान् । तं रयिं स्वेन लब्धं तद्धनं स इन्द्रो नोऽस्मभ्यं ददातु ।
ग्रीवास्थानीयाः शाखान्तरगतास्तिस्र ऋचो दर्शयित्वा स्वशाखागतामेकामृचं दर्शयति— सूददोहाः, इति ।
“ता अस्य सूददोहसः” [ऋ० सं० म० ८ सू० ६९ ऋ० ३] इत्या- दिकेत्यर्थः ।
तस्य मध्यशरीरभागं ग्रीवाभागं चोक्त्वा भागान्तरं दर्शयति— शिरो गायत्रमिन्द्रमिद्गाथिनो बृहदिति, इति ।
गायत्रोछन्दस्कमिन्द्रमिदिति सूक्तं शस्त्रस्य शिरोभागस्तं भागं शंसेत् ।
तत्र कंचिद्विशेषं दर्शयति— अन्यास चेत्समाम्नातासु स्तुवीरन्नुभयासंस्था न विपर्ययोऽसमाम्नातासु चेत्स्तुवीरन्मिश्रासु च, इति ।
“इन्द्रमिद्गाथिनः” [ऋ० सं० म० १ सू० ७ ऋ० १] इत्येतस्मात्तृचा- दन्यासूत्तरासु तिसृष्वृक्ष्वाम्नातासु यद्युद्गातारः स्तुवीरंस्तदानीं तास्तिस्र ऋच इन्द्रमिद्गाथिन इत्येतस्य स्थाने पठनीयाः । तासां स्थाने त्विन्द्रामिदित्यादयस्तिस्र इति विपर्ययः । एतस्मिन्सूक्ते या असमाम्नाता अन्यत्र समाम्नातास्तिस्र ऋचस्तासु यद्यु-
इन्द्रमिद्गाथिनः०—ऋ० सं० म० १ सू० ७ ऋ० १]
१ ग. सन्तुमं ।
अध्या० २ ख० १(७)] ऐतरेयारण्यकम् । २६५
द्धर्तारः स्तुवीरंस्तदानीं तासां मध्ये सूक्तगतास्तिस्र ऋच उद्धृत्य तस्मिन्स्थाने गाना- धारभूतास्तिस्र ऋचः पठेत् । मिश्रासु गानेऽप्ययमेव न्यायः । गानाधारस्य तृचस्य कियानपि भागोऽत्र समाम्नातः । अवशिष्टस्तु प्रदेशान्तरस्थो यदा भवति तदानीमेता- स्तिस्रो मिश्रा भवन्ति ।
उद्धारस्थाने कंचिद्विशेषं दर्शयति—
सूक्तस्योत्तमं सूददोहाः, इति ।
पूर्वं सूददोहसः प्रागुद्धार उक्तः । अत्र तु सूददोहसः प्राचीना सूक्तस्योत्तमा येयम् “इन्द्रं वो विश्वतस्परि” [ऋ० सं० म० १ सू ७ ऋ० १०] इत्यृ- गस्ति तस्याः प्रागेवोद्धारस्तां तु पठेत् । ततः सूददोहाः पठनीया ।
पुनरपि शस्त्रस्यापरं भागं दर्शयति—
विजवः , इति ।
विशेषेण जवो वेगो यस्मिन्पक्षिशरीरभागे समुत्पद्यते सोऽयं भागो विजवः । तत्स्थानीयः शस्त्रभाग उच्यत इति शेषः ।
तस्मिन्भागे प्रथमामृचमाह—
सुतस्ते सोम उपयाहि यज्ञं मत्सवा मदं पुरुवारं मघाय । मंहिष्ठ इन्द्र विजुरो गृणध्यै, इति ।
हे इन्द्र ते त्वदर्थं सोमो वल्याख्यः सुतोऽभिषुतोऽतो यज्ञमेतमुपयाहि त्वं प्राप्नुहि । मघायास्माकं धनाय पुरुवारं पुरुभिर्बहुभिर्वरणीयं मदं हर्षं यथाऽहं प्राप्नोमि तथा त्वं मत्स्व मदमनुगृह्णन्हृष्टो भव । यथाऽस्मद्धनाय त्वं हृष्यसि तथा त्वं मंहिष्ठोऽतिशयेन पूज्यश्च सन्विजुरो विशिष्टलोकद्वाराणि गृणध्यै अस्मदग्रे कथयितुमत्र हृष्टो भव ।
द्वितीयामृचमाह—
ससाहृतृत्रहत्येषु शत्रून्नृर्भुर्विगाह एषः । स नो नेतारं महयाम इन्द्रम्, इति ।
स इन्द्रो वृत्रहत्येषु वृत्रनामकस्यासुरस्य वधार्थेषु युद्धेषु शत्रून्स्ववैरिणो वृत्रसंब- न्धिनः सर्वानसुरान्ससाहृतुः । अभिभूतवान् । स एष इन्द्र ऋभुर्देवतात्मा सन्वि- गाहो विशेषेणास्माभिरवगाढुं सेवितुं शक्यः । नोऽस्माकं नेतारं स्वर्गे गमयितारमिन्द्रं महयामो वयं पूजयामः ।
तृतीयामृचमाह—
इनो वसुः समजः पर्वतेष्ठाः प्रति वाम्-
१ ग. ०न्विजुरो ।
३४