भारतकोश
संग्रह पर लौटें

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

अध्या० १।ख० २] ऐतरेयारण्यकम् । ८९

अथ द्वितीयः खण्डः ।


पूर्वोत्तरकाण्डार्थरूपो द्विविधो मार्ग उपदिष्टः । तत्र “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन” [ बृ० उ० ६ । ४ । २२ ] इत्येवं विविदिषाहेतुत्वश्रवणात्प्रथममनुष्ठेयत्वेन पूर्वकाण्डे यज्ञादीनि कर्माण्युक्तानि । तैः कर्मभिरुत्पन्नायामपि विविदिषायाम् “दृश्यते त्वग्र्यया बुद्ध्या” [काठ० ३ । १२] इति श्रुतेरेकाग्रचित्तस्यैव ब्रह्मदर्शने हेतुत्वात्तदैकाग्र्यसिद्ध्यर्थमस्मिन्काण्डे प्रथममुपासनमभिधीयते । तच्चोपासनं द्विविधम् । ब्रह्मोपासनं प्रतीकोपासनं चेति । ब्रह्मण एव गुणविशिष्टत्वेन चिन्तनं ब्रह्मोपासनम् । प्रबललौकिकपदार्थवासनोपेतस्य तत्परित्यागेन ब्रह्मणि चित्तस्याप्रवेशाद्ब्रह्मभावनया लौकिकवस्तुचिन्तनं प्रतीकोपासनम् । तच्च प्रतीकं द्विविधम् । यज्ञाद्बहिर्भूतं यज्ञाङ्गं चेति । तत्र महाव्रतान्तबहुविधयज्ञाङ्गवासनावासितस्य यज्ञाङ्गे सहसा चित्तं प्रविशतीति मत्वा “उक्थमुक्थम्” इत्यादिनाऽङ्गावबद्धमुपासनमुच्यते । एतेष्वङ्गावबद्धेषूपासनेषु पञ्च विचारा मीमांसायां प्रवृत्ताः । ऋत्विज एवात्राधिकारो न यजमानस्येत्येको विचारः । कर्माङ्गेषु प्रतीकेष्वेव पृथिव्यादिदेवतादृष्टिर्न तु देवतायामङ्गदृष्टिरिति द्वितीयः । यस्यां शाखायां यद्ध्यानं विहितं तच्छाखागत एवाङ्गे तदिति नास्ति नियमः किंतु शाखान्तरगतेऽप्यङ्ग इति तृतीयः । यावन्त्यङ्गावबद्धान्युपासनानि सन्ति तावन्ति सर्वाण्यनुष्ठेयानीति नास्ति नियमः किं त्वेकं बहूनि वा स्वेच्छयेति चतुर्थः । कर्मानुष्ठानकालेऽङ्गावबद्धोपासनान्यवश्यमनुष्ठेयानीति नास्ति नियमः किंतु स्वेच्छया तदनुष्ठानमिति पञ्चमः ।

तत्र प्रथमो विचारस्तृतीयाध्यायस्य चतुर्थपादेऽभिहितः—

“अङ्गध्यानं याजमानमार्त्विज्यं वा यतः फलम् ।
ध्यात्तुरेव श्रुतं तस्माद्याजमानमुपासनम् ।
ब्रूयादेवंविदुद्गातेत्यार्त्विज्यं तु स्फुटं श्रुतम् ।
क्रीतत्वादृत्विजस्तेन कृतं स्वामिकृतं भवेत् ।

अङ्गावबद्धेषूपासनेषु यजमान एवानुष्ठाता नर्त्विक्, ध्यातुः फलश्रवणात् । फलं तु यजमानस्यैवोचितं स्वामित्वात् । तस्मात्फलिनो यजमानस्यैव ध्यातृत्वमिति प्राप्ते ब्रूमः । एवं विदुद्गाता ब्रूयादिति वाक्यशेषादुद्गातुरुपासकत्वं स्पष्टं श्रूयते । युक्तं चैतत् । ऋत्विजामशेषकर्तव्यानुष्ठानाय यजमानेन क्रीतत्वात् । तस्मादृत्विक्कृतमपि यजमानेनैव कृतमिति फलितत्वोपपत्तेरुपासनमृत्विजां कर्म । ”


१ ख. ॰स्तुतन्श्चिन्तं । २ ख. ग. तत्र । ३ ख. ॰र्त्विज्यत्वफलं श्रु॰ । घ. ङ. ॰र्त्विज्यत्वं स्फु॰ ।
४ क. तु फलं श्रु॰ । ५ ग स्मृतम् । ६ क. ख. ग. ॰ते । तस्य यु॰ । ७ घ. ङ. ॰र्तव्यतानुज्ञाना॰ ।

द्वितीयो विचारश्चतुर्थाध्यायस्य प्रथमपादे दर्शितः-

९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-

द्वितीयो विचारश्चतुर्थाध्यायस्य प्रथमपादे दर्शितः- “आदित्यादवाऽङ्गदृष्टिरङ्गे रव्यादिधीरूत । नोत्कर्षो ब्रह्मजत्वेन द्वयोस्तेनैष्ठि(च्छि)की मतिः । आदित्यादिधियाऽङ्गानां संस्कारे कर्मणः फले । युज्यतेऽतिशयस्तस्मादङ्गेष्वर्कादिदृष्टयः ॥

“ य एवासौ तपति तमुद्गीथमुपासीत ” इत्यादित्यदेवतां प्रतीकं कृत्वा कर्माङ्ग- भूतोद्गीथदृष्टिः कर्तव्या । विपर्ययेण वा कर्माङ्ग आदित्यदृष्टिः । आदित्योद्गीथयोरुभयो- र्ब्रह्मकार्यत्वेन पूर्वाधिकरणोक्तोत्कर्षन्यायावतारेण नियामकाभावात् । इति प्राप्ते ब्रूमः— आदित्यदृष्ट्या कर्माङ्गं संस्कर्तव्यम् । तथा सति दृष्टिभिः संस्कृतस्य कर्मणः फलाति- शयसंभवात् । विपर्यये तु कर्माङ्गैर्रादित्यदेवतायां संस्कृतायां किं तत्करिष्यति । न ह्यक्रियात्मिका देवता फलस्य साधनं भवति, अन्यथा देवतायाः साधारणत्वेन यज- मानायजमानयोः फलसाम्यप्रसङ्गात् । तस्मादङ्गेष्वादित्यादिदृष्टयः कर्तव्याः ” ।

तृतीयो विचारस्तृतीयाध्यायस्य तृतीयपादे दर्शितः -- “उक्थादिधीः स्वशाखाङ्गेष्वेवान्यत्रापि वा भवेत् । सांनिध्यात्स्वस्वशाखाङ्गेष्वेवासौ व्यवतिष्ठते ॥ उक्थोद्गीथादिसामान्यं तत्तच्छब्दैः प्रतीयते । श्रुत्या च संनिधेर्बाधस्ततोऽन्यत्रापि यात्यसौ ॥

अङ्गावबद्धोपासनेषूक्थशस्त्रस्य कर्माङ्गे पृथिव्यादिदृष्टिरैतरेयोपनिषदि श्रूयते । उक्थं तु कौषीतक्यादिशाखान्तरेष्वपि विहितम् । तत्र पृथिवीदृष्टिरैतरेयगतोक्थ एव व्यवतिष्ठत उत कौषीतक्यादिष्वनुवर्तत इति संदेहे सति संनिहितत्वात्स्वशाखायामेव व्यवस्थितेति प्राप्ते ब्रूमः । उक्थशब्दस्तावन्मुख्यया वृत्त्या सर्वशाखागतमुक्तसामान्य- माचष्टे । तत उक्थश्रुतिवशात्सर्वशाखागतोक्थेष्वनुवृत्तिः प्राप्ता । श्रुतिः संनिधेर्बली- यसी, तस्मात्काचिद्विहिता धीः शाखान्तरेष्वनुगच्छति” ।

चतुर्थो विचारस्तत्रैव दर्शितः— “समुच्चयोऽङ्गबद्धेषु याथाकाम्येन वा मतिः । समुच्चितत्वादङ्गानां त्व(त)द्बद्धेषु समुच्चयः ॥ ग्रहं गृहीत्वा स्तोत्रस्याऽऽरम्भ इत्यादिवन्न हि । श्रूयते सहभावोऽत्र याथाकाम्यं ततो भवेत् ॥

द्विविधानि प्रतीकानि, लौकिकानि कर्माङ्गानि च । तत्र लौकिकेषु प्रतीकेषु


१ ख. ॰र्भीरदृष्टेरा॰ । २ घ. ङ 'ध्यातु स्वशा॰ । ३ घ. ङ. ॰मर्द्दिः पृ॰ । ४ ख. ग. घ. ङ. ॰त्वात्तु स्वशां । ५ क. ॰नां संबन्धेषु । ख. ग. ॰नां तद्वाधेषुः ।

पञ्चमो विचारस्तत्रैव दर्शितः—

अध्या० १। ख० २] ऐतरेयारण्यकम् । [९१

निर्णयः पूर्वोक्तः । अत्र कर्माङ्गेषु समुच्चययथाकाम्ये विचार्येते । तत्र कर्माङ्गानि समुच्चित्यैवानुष्ठेयतया प्रयोगविधिप्रापितानि । तथा चाङ्गतन्त्रत्वादङ्गावबद्धोपासनानामपि समुच्चयनियम इति प्राप्ते ब्रूमः—"ग्रहं¹ वा गृहीत्वा चमसं² वोन्नीय स्तोत्रमुपाकुर्यात्” “स्तुतमनुशंसति” इत्यादौ यथा ग्रहस्तोत्रशंसनादीनां नियतपौर्वापर्येण सहभावः श्रुतो न तथोपासनेषु श्रूयते । तस्माद्विकल्पसमुच्चययोर्यथाकाम्यम् ।

पञ्चमो विचारस्तत्रैव दर्शितः—

“नित्या अङ्गावबद्धाः स्युः कर्मस्वनियता उत ।
पर्णवत्क्रतुसंबन्धो वाक्यान्नित्यास्ततो मताः ॥
पृथक्फलश्रुतेर्नैता नित्या गोदोहनादिवत् ।
उभौ कुरुत इत्युक्तेः कर्मोपास्यनुपासिनोः ॥

उद्गीथादिषु कर्माङ्गेषु प्रतिमादिवत्³प्रतीकभूतेषु विधीयमाना देवतोपास्तयोऽङ्गावबद्धाः । ताश्च कर्मस्वनुष्ठीयमानेषु कर्माङ्गवन्नियमेनानुष्ठातव्याः । कर्मप्रकरणमारभ्याध्ययनाद्भावेऽपि⁴ वाक्यात्क्रतुसंबन्धोपपत्तेः । यथा—“यस्य पर्णमयी जुहूर्भवति” इत्यनारभ्याधीतस्याव्यभिचरितजुहूद्वारा वाक्यात्क्रतुसंबन्धः, तथा—“य एवं विद्वानुद्गायति” “एवं विद्वान्साम गायति” इत्यादिष्वव्यभिचरिततत्क्रतुसंबन्धिसाम्नो(द्गी)थादिद्वारा तदुपासनानां क्रतुसंबन्धः प्रतीयते । तस्मात्कर्मसु नियता उपास्तय इति प्राप्ते ब्रूमः—गोदोहनादिवदनियता उपास्तयः । यथा “चमसेनापः प्रणयेत्” “गोदोहनेन पशुकामस्य” इत्यत्राप्रणयनमाश्रित्य विधीयमानमपि गोदोहनमक्रत्वर्थत्वादैच्छिकं न तु प्रणयनादिवन्नियतं तथा कर्माङ्गाण्याश्रित्य विधीयमाना उपास्तयो न क्रत्वर्थाः किंतु पुरुषार्थाः । कर्मफलात्पृथक्फलश्रवणात् । “वर्षति हास्मै” इति पञ्चविधे सामनि वृष्टिदेवतामुपासीनस्य कामवृष्टिः क्रतुफलात्पृथक्फलत्वेन श्रूयते । किंच “तावुभौ कुरुतो यश्चैवं वेद यश्च न वेद” इत्यास्मिन्नङ्गावबद्धोपास्तिवाक्यशेष उपासकानुपासकयोरुपास्त्याधारभूतेन तेनाङ्गेन कर्मानुष्ठानं विस्पष्टमाम्नायते । तस्मात्कर्मस्वनियता उपास्तयः” तदेतैः पञ्चभिर्विचारैर्निर्णीतमङ्गावबद्धोपासनं नानाविधविशेषणविशिष्टम्—“उक्थमुक्थम्” इत्यारभ्य “आत्मा वा इदम्” इत्यतः प्राक्तनेन ग्रन्थेन प्रतिपाद्यते । तत्राऽऽदौ महाव्रताङ्गभूते निष्केवल्याख्यशस्त्रे पृथिव्याद्याधिदैविकदेवतादृष्टिं वागाद्याध्यात्मिकदेवतादृष्टिं च क्रमेण विधित्सुः पृथिवीध्यानं दर्शयति—

उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थमियमेव


१ क. ॰हं गृ० । २ ग. ॰सं चोन्नीयँ । ३ क. ॰दित्तत्प्र० । ख. ग. घ. ॰दिषु तत्प्र० । ४ क. ख. ॰भावे सति वाँ ।

९२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किंच, इति ।

उक्थं शस्त्रम्, उत्तिष्ठत्यनेन देवताप्रसाद इति व्युत्पत्तेः । तत्र यज्ञं निष्पादयन्तो होतुर्यजमानादयः प्रजास्तत्तच्छस्त्रे ध्यातव्यं रहस्यं स्वरूपमज्ञात्वा केवलं नाममात्रेणोक्थमुक्थमित्येव व्यवहरन्ति । तद्रहस्यं त्वभिधीयते—तदुक्थस्वरूपमिदमेव वक्ष्यमाणं येयं पृथिवी दृश्यते सैव तद्रूपम् । इतो हि पृथिव्याः सकाशादिदं स्थावरजङ्गम break: मरूपं सर्वं जगदुत्तिष्ठति तस्मात्पृथिव्या उक्थत्वं युक्तम् । उक्थे पृथिवीदृष्टिः कर्तव्येत्यर्थः ।

तेन शस्त्रेणार्चनीये देवेऽग्निदृष्टिं शस्त्रसंबन्धिनीषु गायत्र्यादितृचाशीतिष्वन्नदृष्टिं च विधत्ते—

तस्याग्निरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति ।

तस्य शस्त्रस्य संबन्धी योऽयमर्कोऽर्चनीयो देवः सोऽयमग्निस্বরূপः । याश्च गायत्र्यूबृहत्युष्णिच्छन्दस्कास्तृचानामशीतयस्त्रिविधास्ताः सर्वा अन्नस्वरूपाः । तस्मात्कारणल्लौकिकः पुरुषोऽन्नेनेदं सर्वं प्राणिजातमश्नुते व्याप्नोति । अन्नवन्तं पुरुषं सर्वे जनास्तल्लाभाय सेवन्ते ।

पूर्वोक्तपृथिव्यादिवदुक्थदेवताशीतिष्वन्तरिक्षवाद्यन्नदृष्टिं विधत्ते—

अन्तरिक्षमेवोक्थमन्तरिक्षं वा अनु पतन्त्यन्तरिक्षमनु धावयन्ति तस्य वायुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति ।

पक्षिणः सर्वेऽप्यन्तरिक्षमनुसृत्योपरि पतन्ति संचरन्ति, मनुष्याश्च भूमेरुपर्यन्तरिक्षमवकाशमनुसृत्यैवाश्ववलीवर्दादीन्धावयन्ति, तस्मादन्तरिक्षस्योक्थत्वं युक्तम् ।

द्युलोकादिदृष्टिं विधत्ते—

असावेव द्यौरुक्थममुतःप्रदानाद्धीदं सर्वमुत्तिष्ठति यदिदं किंच तस्यासावादित्योऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते , इति ।

अमुतो द्युलोकाद्भूमो प्रदीयते यद्वृष्टिजलं तस्माज्जलप्रदानादिदं सर्वमोषधिवनस्पत्यादिकं यत्किंचिदस्ति तदुत्तिष्ठति तस्माद्द्युलोकस्योक्थत्वं युक्तम् ।

नृपशोर्बुद्धिसमाधानायोक्तवक्ष्यमाणयोर्ध्यानयोर्विभागं दर्शयति—

इत्यधिदैवतमथाध्यात्मम्, इति ।

दैवतानि पृथिव्यादीन्यधिकृत्य प्रवृत्तं ध्यानमधिदैवतम् । तच्चेत्युक्तप्रकारेण

अध्या० १ ख० २] ऐतरेयारण्यकम् । ९३

व्यवस्थितम् । आत्मानं मनुष्यशरीरमधिकृत्य प्रवृत्तं ध्यानमध्यात्मम् । तत्त्वथानन्त- रमभिधीयते ।

तत्राऽऽदौ शस्त्रे शरीरदृष्टिं विधत्ते—

पुरुष एवोक्थमयमेव महान्प्रजाप- तिरहमुक्थमस्मीति विद्यात्, इति ।

शिरःपाण्यादिमान्देहः पुरुषस्तस्य महत्त्वं श्रेष्ठत्वम् “अयं पुरुषो ब्रह्मणो लोकः” [ ऐ० आ० २ अ० १ ख० ३ ] इत्यत्र वक्ष्यते । प्रजापतित्वं च “ तस्य वाचा- सृष्टौ पृथिवी चाग्निश्च ” [ ऐ० आ० २ अ० १ ख० ७ ] इत्यत्राभिधास्यते । तस्मादुत्कर्षहेतुत्वाद्देहस्योक्थत्वम् । तच्चोक्थमहमस्मीत्येवं ध्यायेत् । नात्र विदिधातुः प्रमाणजन्यं ज्ञानमाचष्टे किंतु पुरुषतन्त्रां ध्यानक्रियाम् । यद्यपि “ विद् ज्ञाने ” [ अदा० ग० प० ] इति धातुस्थाऽपि ज्ञानध्यानयोर्मानसत्वसाम्येन ध्यानमत्र विवक्षितम् । उपासनाप्रकरणस्य वर्तमानत्वात् । नन्वहमुक्थमस्मीत्येतन्मीमांसया विरु- द्धम् । तत्र हि चतुर्थाध्याये—“ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ” [ ब्र० सू० अ० ४ पा० १ सू० ३ ] इति सूत्रेण तत्त्वविद्यायां ब्रह्मोपासनेषु चाहंग्रहमभिधाय “ न प्रतीके न हि सः ” [ ब्र० सू० अ० ४ पा० १ सू० ४ ] इति सूत्रेण प्रती- केष्वहंग्रहो निवारितः । अत्र चोक्थं प्रतीकम् । तस्मादहमुक्थमस्मीत्यहंग्रहो न युक्त इति चेत् । नायं दोषः । तस्मिन्सूत्रे न्यायबलादेवाहंग्रहस्य निषिद्धत्वात् । इह तु वचनबलादहंग्रहो विधीयते । “ किमिव हि वचनं न कुर्यान्नास्ति वचनस्यातिभारः ” इति हि शास्त्रकाराणां डिण्डिमः । यद्यपि कृत्स्नमुपास्यस्वरूपमभिधायान्तेऽहंग्रहो वक्तव्यस्तथाऽपि वक्ष्यमाणेषूपास्यावयवविशेषेषु प्रत्येकमहंग्रहसिद्ध्यर्थमादावेवासौ विधीयते ।

आधिदैविकदृष्टान्तेनाऽऽध्यात्मिकमुखदृष्टिं विधत्ते—

तस्य मुखमेवोक्थं यथा पृथिवी तथा, इति ।

तस्य पुरुषस्य देहरूपस्य यन्मुखं तद्दृष्टिरुक्थे कर्तव्या । अधिदैवं यथा प्रथमप- र्यायेण पृथिवीदृष्टिस्तद्वत् ।

अर्चनीये देवे वाग्दृष्टिमशीतिष्वन्नदृष्टिं च विधत्ते—

तस्य वागर्क^१ऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति ।

आधिदैविकान्तरिक्षदृष्टान्तेन द्वितीयपर्यायं विधत्ते—

नासिके एवोक्थं यथाऽन्तरिक्षं तथा, इति ।


१ क. ‘दुग्धं’ । घ. ‘दुक्तहे’ ।

९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

देवे प्राणदृष्टिमशीतिष्वन्नदृष्टिं च विधत्ते—

तस्य प्राणोऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति।

भ्रुवोरधस्तान्नासिकाया मूलं निम्नदेशं प्रशंसति—

तदेतद्ब्रध्नस्य विष्टपं यदेतन्नासिकायै विनतमिव, इति।

नासिकायाः संबन्धि विशेषेण नतमत्यन्तनिम्नं यन्मूलमस्ति तदेतद्ब्रध्नस्याऽऽदित्यस्य विष्टपं स्थानम्। “असौ वा आदित्यो ब्रध्नः” [तैत्ति०] इति श्रुत्यन्तरात्। तच्च मूलं ब्रह्मणः स्थानत्वाद्व्रह्मोपाधेरादित्यस्यापि स्थानम्। ध्यानस्थानत्वं च प्रश्नोत्तराभ्यां जाबाला आमनन्ति—“कतमच्चास्य स्थानं भवतीति भ्रुवोः प्राणस्य च संधिः स एष द्यौर्लोकस्य परस्य च संधिर्भवति” [जावा० ख० २] इति। विनतमिवेतीवशब्दोऽनर्थक एवकारार्थो वा।

तृतीयपर्यायं विधत्ते—

ललाटमेवोक्थं यथा द्यौस्तथा तस्य चक्षुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते, इति।

आधिदैविकाध्यात्मिकपर्यायेषु षट्स्वप्यर्के ध्यातव्या अग्न्यादयो विविधास्तद्वदशीतिषु ध्यातव्यस्यापि नानाविधत्वशङ्कां व्यावर्त्य पूर्वोक्तमनेकत्वध्यानं प्रशंसति—

समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेवान्नेन हीमानि सर्वाणि भूतानि समनन्ती ३ँ अन्नेनेमं लोकं जयत्यन्नेनामुं तस्मात्समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेव, इति।

गायत्र्यो बार्हत्य औष्णिह्यश्च याः सर्वास्तृचाशीतयस्ताः सर्वा अध्यात्माधिदैवपर्यायेषु सर्वेष्वप्यन्नमेवेत्येतत्समानम्। न त्वन्नादन्यत्किंचित्तासु ध्येयमस्ति। अन्नस्यात्यन्तं प्रशस्तत्वात्। इमानि सर्वाणि^१ भूतानि प्राणिनोऽन्नेनैव समनन्ति सम्यक्चेष्टन्ते। अन्नजन्यस्य बलस्य शरीरचेष्टाहेतुत्वात्। सानुनासिका समनन्तीति श्रुतिरुक्तार्थप्रसिद्धा(द्ध्य)र्था।^२ न केवलमन्नस्य चेष्टाहेतुत्वं किं तु लोकद्वयमपि तेन जितं भवति। अन्नप्रदानेन मनुष्याणां वश्यत्वमेतल्लोकस्य जयः। शास्त्रीयेणान्नादानेन देवतातुष्टिः स्वर्गलोकजयः। तदेवमन्नस्य प्रशस्तत्वात्सर्वत्राशीतीनामन्नरूपत्वमेव ध्येयम्।

उक्थे ध्यातव्यत्वेनोक्तायाः पृथिव्या भोक्तृभोग्यरूपकृत्स्नजगद्रूपत्वध्यानं विधत्ते—

तदिदमन्नमन्नादमियमेव पृथिवीतो हीदं


१ क. ॰णि प्राणिरूपाण्यन्ने'। ख. घ. ङ. ॰णि रूपाण्यन्ने' । २ क. ॰क्तार्थे प्र॰ ।

अध्या०१ख०२] ऐतरेयारण्यकम् । ९५

सर्वमुत्तिष्ठति यदिदं किंच, इति ।

लोके यदन्नमस्ति यच्चान्नादं भोक्तृजातं तदिदं सर्वजगद्रूपमियमेव पृथिवी । पृथिव्यास्तदात्मकत्वं ध्येयमित्यर्थः । यत्किंचिदिदं भोक्तृभोग्यजातमस्ति तत्सर्वमितः पृथिव्याः सकाशादुत्पन्नं तस्मात्तदात्मकत्वं युक्तं पृथिव्याः ।

कृत्स्नभोक्तृभोग्यात्मकत्वमुपपादयति—

यद्ध किं चेदं प्रेता३इ तदसौ सर्वमत्ति यदु किं चातः प्रैती ३ँ तदियं सर्वमत्ति सेयमित्याद्याऽत्री, इति ।

यत्किंचेदं प्राणिजातं पृथिव्यां वर्तमानं प्रेतं प्रे(प्रै)ति म्रियते । “ईर गतौ” [ अदा० ग० आ० ] इत्यस्य धातोः प्रपूर्वस्य मरणार्थकत्वं द्रष्टव्यम् । “इण् गतौ” [ अदा० ग० प० ] इति धातौ तद्दर्शनात् । भूमौ मृतं तत्सर्वं प्राणिजातं स्वानुष्ठित-पुण्यकर्मवशात्स्वर्गे गच्छति । तच्च स्वर्गस्थमसौ स्वर्गलोकोऽत्ति भक्षयति वशी करोति । यदु किंच यदपि किंचित्स्वर्गस्थं प्राणिजातं स्वकर्मफलभोगे समाप्ते सत्यतोऽस्मात्स्व-र्गात्प्रैति मृतो( त्वा ) भूमावागच्छति तत्समागतं सर्वं प्राणिजातमियं भूमिरत्ति भक्षयति वशी करोति । भूमौ यागं कुर्वन्तो यजमाना मरणादूर्ध्वं स्वर्गं भुक्त्वा पुनर्भूमा-वागच्छन्तीति वाक्यद्वयस्यार्थः । तत्प्रसिद्ध्यर्थं¹ श्रुतिद्वयं द्रष्टव्यम् । प्रेत इत्येकारस्या-कारश्रुतिरिकारसहिता व्याकरणे विहिता [ पा० सू० अ० ८ पा० २ सू० १०७ ] । एवं सति सेयं भूमिरित्युक्तेन प्रकारेणाऽऽद्याऽपि भवति । अत्री च भवति । भूमिष्ठानां यजमानानां स्वर्गे यद्देवतापारतन्त्र्यं तदेतद्भूमेराद्यत्वम् । स्वर्गस्थानां च पुनरागमने सति तेषां वशीकरणलक्षणं स्वातन्त्र्यं भूमेरत्तृत्वम् । अनेन प्रकारेण कृत्स्न-भोग्यभोक्तृरूपा पृथिवी ।

एतद्गुणध्यानस्य फलमाह—

अत्ता ह वा आद्यो भवति, इति ।

अत्ता योऽयं लोके भोक्ता यश्चाऽऽद्यो भोग्यः पदार्थस्तदुभयरूपेण सर्वात्मको भवतीत्यर्थः ।

ननु लोके कश्चित्स्वामी भृत्यैः सेव्यमानो भृत्यानां भोक्ता भवति तथा जीवितप्रदा-तृत्वेन भृत्यैर्भुज्यत इति भोग्योऽपि भवति । अनेन न्यायेन सर्वोऽप्यन्यैरुपकिय-


१ ख. ग. 'सिद्धार्थं ।

९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२द्वितीयारण्यके-

माणो भोक्ता स्वयमुपकुर्वन्भोग्यश्च भवति। तथा सत्युपासनफलरूपे भोक्तृभोग्यात्म- कत्वे को नाम विशेष इत्याशङ्कयाऽऽह— न तस्येशे यन्नाद्याद्यदैनं नाद्युः, इति। इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥

अनुपासको लौकिकः पुरुषः स्वधर्मकर्मप्राप्तमशनादिकं कियदेवात्ति न तु सर्वं सर्वस्य स्वकर्मप्रापि[त]त्वाभावात्। तथा सति यद्वस्तु स्वयं नाद्यान्न भुञ्जीत तस्य वस्तुनो नेशे नेष्टे स्वामी न भवति। उपासकस्तु हिरण्यगर्भरूपः सन्सर्वमत्तीति सर्वस्य स्वामी। सोऽयमेको विशेषः। वाशब्दः समुच्चयवाची। यद्वा यस्माच्च कारणादेनमुपासकं नाद्युरन्ये पुरुषा न भुञ्जीरंस्तस्मात्पराधीन लक्षणं भोग्यत्वं नास्ति, अनुपासकस्य तु तदस्तीत्ययमपरो विशेषः। ननु भोग्यत्वाभावे सत्याद्यो भवतीति कथमुच्यते। नायं दोषः। पराधीनत्वलक्षणस्य भोग्यत्वस्यैव निषेधात्। आद्यो भवतीत्यनेन तु स्वात्मभूतसर्वभोग्यजातरूपत्वमभिधीयत इति न कोऽपि विरोधः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥


अथ तृतीयः खण्डः।

पूर्वोक्तेषूक्थेषु पुरुषत्वदृष्टिं विधातुं पुरुषस्य महत्त्वमयमेव महानित्यभिहितम्। तदेतन्महत्त्वमुपपादयति— अथातो रेतसः सृष्टिः प्रजापते रेतो देवा देवानां रेतो वर्षं वर्षस्य रेत ओषधय ओषधीनां रेतोऽ- न्नमन्नस्य रेतो रेतो रेतसो रेतः प्रजाः प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसो रेतो वाग्वाचो रेतः कर्म तदिदं कर्म कृतमयं पुरुषो ब्रह्मणो लोकः, इति।

अथ पुरुष एवोक्थमित्येवमुक्थे पुरुषदृष्टिकथनानन्तरम् । यतः कारणात्पुरुषस्योक्थत्वं संभावयितुमयमव महानित्युक्तं^१ वैशिष्ट्यं वक्तव्यमतः कारणाद्वैशिष्ट्यसिद्धये रेतसः सारभूतस्य सृष्टिरभिधीयत इति शेषः। आदौ प्रजापतेर्जगदीश्वरस्य रेतः सारभूतं कार्यं देवाः। सात्त्विकत्वाद्देवानां सारभूतत्वं युक्तम्। मनुष्याणां


^१ क. ख. 'त्युक्तवै' ।

अध्या० १ ख० ३] ऐतरेयारण्यकम् । ९७

राजसत्वादृक्षाश्वादीनां तामसत्वाच्च नास्ति सारकार्यत्वम् । तेषां च देवानां रेतः सारभूतं कार्यं वर्षम् । घर्मकाले संतप्ता भूमिवर्षेणाऽऽप्यायते ततोऽस्य सारत्वम् । तस्यापि वर्षस्य सारमोषधयः, प्राप्युपकारकत्वात् । न हि तद्वृष्टिकार्यमपि पङ्कादिकं प्राणिभिः सेव्यते । ओषधीनामप्यन्नं सारं न तु पलालतुषादिकम् । अन्नस्यापि रेतः सारं न तु पुरीषादिकम् । रेतसोऽपि सारं पुत्रादिरूपाः प्रजा नतु वन्ध्यायामृतुष्टष्टस्य सारत्वमस्ति । प्रजानामपि सारं हृद॑यपुण्डरीकं, जीवात्मनः स्थानत्वात् । "हृदि ह्येष आत्मा" इति श्रुतेः । हृदयस्य सारं मनः, ज्ञानशक्तियुक्तत्वात् । न तु मांसमयानामष्टदलानां तच्छक्तिरस्ति । मनसः सारं वेदरूपा वाक् । "यद्धि मनसा ध्यायति तद्वाचा वदति" इति श्रुतेर्वाचो मनःकार्यत्वम् । न तु मनस उत्पन्नानां रागद्वेषादीनां वेदवत्सारत्वमस्ति । वेदस्यापि सारमग्निहोत्रादिकं कर्म, वैदिकमन्त्राणां तदनुष्ठानार्थत्वात् । तदिदं कर्म पूर्वस्मिञ्जन्मनि कृतं सदिह जन्मनि वेदशास्त्रकर्मानुष्ठानब्रह्मोपासनब्रह्मज्ञानयोग्यः पुरुषो भवति, हि निरतिशयितसुकृतमन्तरेणेदृशं जन्म संभवति । तस्मात्पुरुषो ब्रह्मण उपासनीयस्य वेदनीयस्य च लोकः स्थानमिति तस्य महत्त्वं सिद्धमित्यर्थः ।

तस्य पुरुषस्य हिरण्मयाख्यो गुणो ज्ञानाय विधीयते—

स इरामयो यद्धीरामयस्तस्माद्धिरण्मयः, इति ।

इराशब्दोऽन्नवाची । स पुरुषः शिरःपाण्यादियुक्तोऽन्नमयः । अत एव तैत्तिरीयका आमनन्ति—"स वा एष पुरुषोऽन्नरसमयः " [ तै० उ० २ । १ । १ ] इति । यद्धि यस्मादेव कारणादयमिरामयस्तस्मात्कारणाद्धिरण्मय इत्युपासकानां प्रसिद्धः । इराहिरण्मयशब्‍दयोरक्षरसाम्यात्तथोच्यते । यथाऽध्यात्ममन्नमय एवमधिदैवं ब्रह्माण्डरूपेण स्वर्णमयः ।

एतद्गुणध्यानस्य फलमाह—

हिरण्मयो ह वा अमुष्मिँल्लोके संभवति हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद, इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये तृतीय खण्डः ॥ ३ ॥

यः पुमानेवं हिरण्मयैत्वगुणमुपास्ते स पुमान्स्वर्गलोके ज्योतिर्मयो भवति । तथाविधो भूत्वा सर्वप्राण्युपकारार्थमादित्यमण्डलरूपेण सर्वदा दृश्यते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये द्वितीयारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥


१ क. 'दयं पु' । २ क. 'यगु' । ३ क. ख. घ. ड. 'र्थं आदि' !

९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२द्वितीयारण्यके-

अथ चतुर्थः खण्डः ।


स्थूलदेहरूपेणोक्थस्योपासनमभिधाय सूक्ष्मदेहात्मकप्राणरूपेणोपासनं वक्तुं प्राणोपाधिकस्य परमात्मनः शरीरे प्रवेशं दर्शयति—

तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं यत्प्रपदाभ्यां
प्रापद्यत ब्रह्मेमं पुरुषं तस्मात्प्रपदे तस्मात्प्रपदे
इत्याचक्षते शफाः खुरा इत्यन्येषां पशूनाम्, इति ।

यज्जगत्कारणं "सत्यं ज्ञानमनन्तं ब्रह्म" [तै० उ० २—१—१] इत्यादिवाक्यप्रतिपाद्यं ब्रह्मास्ति तदेतत्स्सृष्टिकाले स्थूलदेहं सृष्ट्वा तं सृष्टमिमं दृश्यमानं पुरुषशब्दवाच्यं स्थूलं देहं प्रपदाभ्यां पादाग्राभ्यां प्रापद्यत प्रविष्टवत् । "तत्सृष्ट्वा तदेवानुप्राविशत्" [तै० उ० २ । ६ । १] इति श्रुत्यन्तरम् । यद्यपि सर्वगतस्य ब्रह्मणः प्रवेशो न संभवति तथाऽपि प्राणोपाधिकस्य प्राणप्रवेशेनैव प्रवेश उपचर्यते । अत एव मैत्रायणीया आमनन्ति—"स वायुमिवाऽऽत्मानं कृत्वाऽभ्यन्तरं प्राविशत्" [मै० उ० प्र० २] इति । यस्मात्पादाग्राभ्यां प्रवेशस्तस्मात्प्रापद्यतोभाभ्यामिति व्युत्पत्त्या पादाग्रयोः प्रपदत्वं संपन्नम् । यस्मादवयवार्थस्तयोरस्ति तस्माल्लोके शाब्दिकाः प्रपदे इत्यनेनैव शब्देन पादाग्रद्वयं व्यवहरन्ति । मनुष्यशरीरेषु पादाग्रसद्भावात्तद्वारेण प्रवेशेऽपि गवाश्वादिशरीरेषु तदसंभव इति चेन्न । तच्छरीरेष्वपि शफशब्देन खुरशब्देन च तत्तद्देशे प्राणिभिर्व्यवह्रियमाणानां पादभागानामेव प्रपदत्वात् । शफखुरशब्दयोर्देशविशेषेण व्यवहारभेदः ।

पादाग्रयोः प्रविष्टस्य ब्रह्मणः क्रमेण शिरःपर्यन्तां व्याप्तिं दर्शयितुमूरुपर्यन्तं तावद्दर्शयति—

तदूर्ध्वमुदसर्पत्त ऊरू अभवताम्, इति ।

तत्पादाग्रयोः प्रविष्टं ब्रह्मोर्ध्वाभिमुखत्वेन व्याप्तवत् । यस्मादेवं तस्मादुदसर्पदनयोरिति व्युत्पत्त्या तावूरू ऊर्ध्वप्रदेशावूरुशब्दवाच्यावभवताम् ।

ऊरुदेशादप्यूर्ध्वदेशव्याप्तिं दर्शयति—

उरु गृणीहीत्यब्रवीत्तदुदरमभवत्, इति ।

उरु विस्तीर्णं यथा भवति तथा गृणीहि निगरणयोग्यं विपुलच्छिद्रं कुर्व्वित्येवमुपरितनं शरीरभागं प्रत्यूर्वोरवस्थितं ब्रह्माब्रवीत्तस्य ब्रह्मणः संकल्पवशात्तत्स्थानमुपरितनमुदरशब्दवाच्यं विपुलच्छिद्रमभवत् ।


^१ ग. गजाश्वा° ।

अध्या० १।ख० ४] ऐतरेयारण्यकम् । ९९

उरुशब्देन सहाक्षरसाम्यादुदरनामत्वम् ।
पुनरप्युपरि देशे संचारं दर्शयति—

उर्वेंव मे कुर्वित्यब्रवीत्तदुरोऽभवत् , इति ।
उदरवर्तिनो मम भूयोऽपि विस्तीर्णमेव छिद्रं कुर्वित्येवं ब्रह्मसंकल्पवशात्तदे-
तदुपरितनं स्थानमुरःशब्दवाच्यं विपुलच्छिद्रमभूत् । अत्राप्यक्षरसाम्यान्निर्वचनं
द्रष्टव्यम् ।
अनयोः कुक्ष्युरसोर्ब्रह्मसंकल्पविशेषेण प्रीतिपूर्वकेणोत्पन्नत्वाद्ब्रह्मध्यानप्रतीकत्वं
दर्शयति—
उदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं
ब्रह्मेत्यारुणयो ब्रह्माहैव त३इ, इति ।
शर्कराक्षिनामकस्य महर्षेः पुत्रा उदरे ब्रह्मदृष्टिं कृत्वोपासते । अरुणाख्यस्य
महर्षेः पुत्रा हृदयस्थानगतेऽष्टदलकमलमध्यस्थे हृदयच्छिद्रे ब्रह्मदृष्टिं कृत्वोपासते ।
ते उभे अपि स्थाने ब्रह्मणः प्रीतिविषयत्वादब्रह्मैव । प्लुतिः शास्त्रीयप्रसिद्ध्यर्था ।
पुनरपि ब्रह्मण ऊर्ध्वदेशे संचारं दर्शयति—
ऊर्ध्वं त्वेवोदसर्पत्तच्छिरोऽश्रयत यच्छिरोऽश्र-
यत तच्छिरोऽभवत्तच्छिरसः शिरस्त्वम् , इति ।
उरःपर्यन्तमुद्गत्यापि तद्ब्रह्म नोपरेमे किं तु ततोऽप्यूर्ध्वमुदसर्पदेव । ऊर्ध्वं
गत्वा च तद्ब्रह्म शिरोदेशमश्रयत सेवितवत् । यस्मादेवं तस्माच्छ्रितमनेनेति व्युत्पत्त्या
तत्स्थानं शिरःशब्दवाच्यमभवत् । तस्मादेव कारणाल्लोकेऽप्यूर्ध्वभागस्य शिरःशब्द-
वाच्यत्वं प्राणिभिर्व्यवह्रियते ।
शिरोभागं पुनः प्रशंसति—
ता एताः शीर्षञ्छ्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राणः, इति ।
शीर्षञ्शिरोभागे ता ब्रह्मणा सृष्टत्वेन श्रुतौ प्रसिद्धा एता अस्माभिरनुभूयमानाः
श्रियो दर्शनश्रवणादिव्यवहारसंपदः श्रिताः प्राप्ताः । कास्ताः श्रिय इति चेत्तदु-
च्यते—चक्षुरादयः श्रियो व्यवहारसंपदस्तन्निष्पत्तेः ।
शिरस्त्ववेदनं प्रशंसति—
श्रयन्तेऽस्मिञ्छ्रियो य एवमेतच्छिरसः शिरस्त्वं वेद, इति ।
यः पुमांश्शिरोनाम विदित्वोपास्तेऽस्मिन्पुरुषे चक्षुरादिपाटवजन्योत्तमसंपद आश्रिता
भवन्ति ।

१०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

इदानीं शिरःपर्यन्ते शरीरेऽवस्थितानां चक्षुरादीनां मध्ये प्राणस्य श्रेष्ठ्यं वक्तुं संवादं दर्शयति—

ता अहिंसन्ताहमुक्थमस्म्यहमुक्थमस्मीति ता अब्रुव- न्हन्तास्माच्छरीरादुत्क्रामाम तयस्मिन्न उत्क्रान्त इदं शरीरं पत्स्यति तदुक्थं भविष्यतीति, इति ।

ताः पूर्वोक्ताः श्रियश्चक्षुरादिरूपास्तदभिमानिन्यो देवता अहिंसन्त परस्परस्पर्द्धा- रूपां हिंसामकुर्वन् । स्पर्धाविषयो विस्पष्टमुच्यते—अहमुक्थमस्मि । उक्थे चक्षुःस्व- रूपस्य ममैव दृष्टिः कर्तव्येत्येवं चक्षुर्देवता वक्ति । तथैव श्रोत्रादयोऽपीति विवक्षया वीप्सोक्ता । ताः स्पर्धमाना देवताः स्पर्धानिवारणार्थं समयविशेषे परस्परमब्रुवन् । निवारणोपायदर्शननिमित्तहर्षार्थो हन्तशब्दः । वयं सर्वा अपि क्रमेणास्माच्छरीरादु- त्क्रान्तिं करवाम । तथा सत्यस्माकं मध्ये यस्मिन्नुत्क्रान्ते सतीदं शरीरं पतिष्यति तदेवोक्थं भविष्यति । इतिशब्दः समयबन्धसमाप्त्यर्थः ।

क्रमेणोत्क्रान्तिं शरीरपतनपर्यन्तां दर्शयति—

वागुदक्रामदवदन्नश्नन्पिबन्नास्तैव चक्षुरुदक्रामदपश्य- न्नश्नन्पिबन्नास्तैव श्रोत्रमुदक्रामदशृण्वन्नश्नन्पिब- न्नास्तैव मन उत्क्रामन्मीलित इवाश्नन्पिबन्ना- स्तैव प्राण उदक्रामत्तत्प्राण उत्क्रान्तेऽपद्यत, इति ।

वाक्चक्षुःश्रोत्रमनसामेकैकस्मिन्नुत्क्रान्ते सति तत्तदिन्द्रियसाध्यव्यापारमात्रं लुप्यते न तु शरीरं पतति, किं त्वन्नपाने स्वी कुर्वन्यथापूर्वमभवदेव । मीलित इवेत्यस्यायमर्थः— यथा मुग्धश्चक्षुर्मीलनोन्मीलनमात्रं कुर्वन्विषयविवेकमकुर्वन्नास्ते तद्वदयं देह इति । तच्छरीरं प्राण उत्क्रान्ते सति पतितमभून्न त्वश्नाति नापि पिबति ।

तदेव पतनं शरीरशब्दनिर्वचनेन प्रपञ्चयति—

तदशीर्यताशारीतीँ तच्छरीरम- भवत्तच्छरीरस्य शरीरत्वम्, इति ।

यत्पतितं शरीरं तच्छीर्णमभूत्, अवयवविश्लेषेण विनष्टमभूत्, अतो लोके प्राण- रहितं शरीरं दृष्ट्वैतदशारि विशीर्णमभूदित्येवं वर्णयन्ति । तत्प्रसिद्धिद्योतनाय प्लुति- रिति । तच्च शीर्णत्वयोग्यत्वाच्छरीरमभूत् । तत्तस्माच्छीर्णत्ववचनादेव शरीरनाम सर्वैर्व्यवाह्रियते ।

एतन्नामनिर्वचनवेदनं प्रशंसति—

शीर्यते ह वा अस्य द्विषन्पाप्मा भ्रातृव्यः पराऽस्य

अध्या० १ ख० ४] ऐतरेयारण्यकम् । १०१

द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद, इति । यः पुमानेवं शरीरत्वं विदित्वोपास्तेऽस्य वेदितुर्द्वेषं कुर्वन्पापरूपः शत्रुविंशीर्णो भवति । कथंचिदविशीर्णत्वेऽपि पराभवति तिरस्कृतो भवति । प्राणोत्क्रमणस्य देहपतनहेतुत्वमभिधाय प्राणप्रवेशस्य देहोत्थापनहेतुत्वमभिधातुं पुनरपि संवादं समयबन्धं च दर्शयति—

ता अहिंसन्तैवाहमुकथमस्म्यहमुकथमस्मीति
ता अब्रुवन्हन्तेदं पुनः शरीरं प्रविशाम
तद्यस्मिन्नः प्रपन्न इदं शरीरमुत्था-
स्यति तदुक्थं भविष्यतीति, इति ।

अहिंसन्तैव न तु स्पर्द्धाया उपरताः । प्रपन्ने प्रविष्टे । अन्यत्पूर्वव्याख्येयम् । प्राणप्रवेशेन देहस्योत्थानं दर्शयति—

वाक्प्राविशदशयदेव चक्षुः प्राविशद-
शयदेव श्रोत्रं प्राविशदशयदेव मनः
प्राविशदशयदेव प्राणः प्राविशत्तत्प्राणे
प्रपन्न उदतिष्ठत्तदुक्थमभवत्, इति ।

अशयदेव शयानमेवाभूत् । न तूत्थितमभूत् । तत्प्राणस्वरूपमुत्थानहेतुत्वा- दुक्थमभूत् । प्राणस्योत्थानहेतुत्वलक्षणमुक्थत्वं प्रसिद्धमिति श्रुतिप्रयोगेण दर्शयति¹—

तदेतदुक्थाँरे प्राण एव, इति ।

चक्षुरादीनामुत्थानहेतुत्वाभावादुक्थत्वाभावार्थ एवकारः । यदर्थं प्राणप्रवेशप्राणसंवादावपन्यस्तौ तदिदानीं विधत्ते—

प्राण उक्थमित्येव विद्यात्, इति ।

निष्कवल्याख्ये शस्त्रे प्राणदृष्टिं कुर्यादित्यर्थः । एतस्यार्थस्य दाढ्याय चक्षुरादिदेवकर्तृकां प्राणस्तुतिं दर्शयति—

तं देवा अब्रुवन्त्वमुक्थमसि त्वमिदं सर्व-
मसि तव वयं स्मस्त्वमस्माकमसीति, इति ।

तं प्राणं चक्षुराद्या देवा अनेन प्रकारेणोक्तवन्तः । हे प्राण त्वं देहस्योत्थानहेतु- त्वादुक्थस्वरूपमसि । अतः सर्वदेहव्यापारस्य त्वदधीनत्वादिदं सर्वं जगत्त्वमेवासि । वयं तव भृत्याः स्मः । त्वं चास्माकं स्वाम्यसि । इतिशब्दः स्तुतिसमाप्त्यर्थः ।


¹ घ. ङ. विशदयति ।

१०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

उक्तार्थदार्ढ्याय मन्त्रमुदाहरति— तदप्येतदृषिणोक्तं त्वमस्माकं तव स्मसीति, इति । इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥

यदेतत्प्राणस्तुतिरूपं ब्राह्मणेनोक्तं तदेतदृषिणा मन्त्रेणाप्युक्तम् । त्वमस्माकमित्यादिः प्रतीकप्रदर्शनार्थो मन्त्रस्य चरमः पादः । मन्त्रस्तु संहितायामेवमाम्नातः— “त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः। त्वमस्माकं तव स्मसि” इति । हे इन्द्र प्राणरूप परमेश्वर वयं चक्षुराद्याः प्राणास्त्वयैव सह युजा योगेन रसयोगेण ताम्रमिव त्वद्योगेन लब्धवीर्याः सन्तः स्पृधः स्पर्धाहैतूनूशत्रून्प्रतिब्रूवीमहि प्रतिवक्ष्यामो निराकरिष्यामः । अतस्त्वमस्माकं स्वामी, वयं च तव त्वदीया भृत्याः स्मसि भवामः । तमेतं मन्त्रमुपलक्षयितुं त्वमस्माकमित्यादिपाद उदाहृतः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये द्वितीयारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥


अथ पञ्चमः खण्डः ।

अहमुक्थमस्मीति विद्यादित्युपासनादौ सर्वेष्वपि वक्ष्यमाणगुणेष्वनुवृत्त्यर्थं योऽयमहंग्रहविधिरुक्तः स एव तामनुवृत्तिं दर्शयितुं पुनरपि प्राण उक्थमित्येव विद्यादित्यनूदितः । तत्रोक्थे यस्य प्राणस्य दृष्टिविधिस्तस्य प्राणस्य कालात्मकत्ववागादिदेवात्मकत्वसत्यरूपत्वगुणा ध्यानार्थं विधातव्याः, तत्राहोरात्ररूपकालात्मकत्वं विधत्ते—

तं देवाः प्राणयन्त स प्रणीतः प्रातायत प्रातायीती १ँ तत्प्रातरभवत्समागादिती २ँ तत्सायमभवदहरेव प्राणो रात्रिरपानः, इति ।

तमुक्थे ध्यातव्यं प्राणं देवा वागादयः प्राणयन्त “ त्वमस्माकं तव स्मसि ” [ ऋ० सं० म० ८ सू० ९२ ऋ० ३२ ] इत्यादिश्रुत्या प्रकर्षमुत्साहं प्रापितवन्तः । स च प्राणः प्रणीतो देवैरुत्साहं प्रापितैः सन्प्रातायत प्रकर्षेण विस्तृतोऽभूज्जागरणकाले स्वभृत्यरूपान्वागादींस्तद्गोलकेषु प्रकर्षेण प्रैसारितवान् । अयमेव प्राणस्य विस्तारः ।

त्वमस्माकं तव ०—ऋ० सं० म० ८ सू० ९२ ऋ० ३२ ।


१ ग. ॰तः पुनः प्राता॰ । २ क. ॰वैणाऽऽवि॰ । ग. ॰वैणान्वितोऽ । ३ क. ख. ग. ॰रूपवागादिगोल॰ । ४ क. ख. ग. प्रेरितवान् ।

अध्या० १ ख० ५] ऐतरेयारण्यकम् । १०३

तं दृष्ट्वा वागादिदेवा मनुष्या वा प्रातायीत्येवमुक्तवन्तः । प्रकर्षेण विस्तृतोऽभू- दिति तस्य शब्दस्यार्थः । प्लुतिः प्रसिद्धयर्था । रात्रावपनीतायां प्रभाते जागरणाय स्वार्थं वागादीनां गोलकेषु प्रसरणं सर्वलोकप्रसिद्धम् । यस्मात्प्रातायीत्येवमुक्तवन्त- स्तस्मादयं वागादिप्रसरणपूर्वको जागरणकालः प्रातःशब्दवाच्योऽभूत् । प्रातायि प्रातरित्यनयोः शब्दयोरक्षरसाम्यात् । स प्राणः पुनरपि रात्रौ सुषुप्त्यर्थं वागादिप्रस- रणं संहृतवांस्तं संहारं दृष्ट्वा समागादित्युकवन्तः । संकोचं प्राप्तवानिति तस्यार्थः । स कालः सायंशब्दवाच्योऽभूत् । समागात्सायमित्यनयोरक्षरसाम्यात् । तस्य च प्राणस्य दिवसे वागादिप्रसारणैरूपजागरणावस्थानिष्पादकः प्राणशब्दवाच्य एको व्यापारः । तथा रात्रौ सुषुप्त्यर्थं वागादिसंहाररूपोऽपानशब्दवाच्यो व्यापारो द्वितीयः । तावेतौ प्राणापानव्यापारावहोरात्ररूपत्वेन ध्येयौ ।

कालात्मकत्वमुक्त्वा दैवतात्मकत्वं दर्शयति—

वागग्निश्चक्षुरसावादित्यश्चन्द्रमा मनो दिशः श्रोत्रं
स एष प्रहितां संयोगोऽध्यात्ममिमा देवता अद
उ आविर्धिदैवतमित्येतत्तदुक्तं भवति , इति ।

वागादीन्द्रियाभिमानिनीनामग्न्यादिदेवतानां वागादिरूपत्वम् "अग्निर्वाग्भूत्वा मुखं प्राविशत् " [ ऐ० आ० २ अ० ४ ख० २ ] इत्यादिना वक्ष्यते । अतः प्राणभृ- त्त्यस्वरूपा उपासकस्य वागादयोऽग्न्यादिरूपतया ध्यातव्याः । तस्य वागादिध्यान- विधिवाक्यस्य तात्पर्यं स एष इत्यादिना स्पष्टी क्रियते । या एता अग्न्यादयो देवताः सन्ति तासां प्रहितां प्रकर्षेण हितानां देवलोकगतेषु स्वस्वस्थानेषु प्रसारणेन विस्रम्भे- णावस्थितानामध्यात्मं पुरुषशरीरे वागादीन्द्रियेषु यः प्रवेशः स एष संयोगः संको- चरूपेण वागादितादात्म्यं तथाऽधिदैवतमद उ शास्त्रप्रसिद्धं स्वस्वस्थानेष्ववस्थिताना- माविः प्रकटीभाव इत्येतदर्थजातं तदुक्तं भवति तेन वागग्निरित्यादिवाक्येनाभिहितं भवति । अग्न्यादीनां शरीरे संकोचो देवलोके विकास इत्येतादृशं तात्पर्यं श्रुत्या दर्शितम् ।

प्राणस्य वागग्न्यादिरूपत्वध्यानं प्रशंसितुं कस्यचिन्महर्षेर्वाक्यमुदाहरति —

एतद्ध स्म वै तद्विद्वानाह हिरण्यदन्वैदो न
तस्येशे यं मह्यं न दद्युरिति प्रहितां वा अह-


१ क. ख. ग. ॰सिद्धार्था । २ घ. ङ. ॰वसो वा॰ । ३ घ. ङ. ॰णजा॰ । ४ क. ख. ॰रूपं जा॰ । ५ क. ख. घ. ङ. देवात्म॰ । ६ घ. ङ. ॰त्यरू॰ । ७ ख. घ. ङ. ॰वस्थानमा॰ । ग. ॰वस्या- नादावि॰ । ८ ग. ॰पत्वेन ध्या॰ ।

१०४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[२द्वितीयारण्यके-

मध्यात्मं संयोगं निविष्टं वेदैतद्व तत्, इति ।

हिरण्मया दन्ता यस्य महर्षेः सोऽयं हिरण्मयदन् । बिदनामकस्य महर्षेः सुतो बैदः स च तदेतत्प्राणरूपं विद्वानुपासीनः कस्मिंश्चित्प्रसङ्ग इदं वाक्यमाह । निपातत्रयसमुदायः प्रसिद्धयर्थः । किं तद्वाक्यमिति चेत्तदुच्यते—अहं बैदाख्यो महर्षिः प्रहितां वै प्रहितानां द्युलोके प्रसारणेनावस्थितानामग्न्यादीनामेवाध्यात्मं निविष्टं मनुष्यशरीरेऽवस्थितं संयोगं संकोचेनावस्थानं वेद जानाम्युपासीनोऽस्मि, तादृशाय मह्यं लौकिकजना यं पदार्थमभीष्टार्थमभीष्टं न दद्युर्नैव समर्पयेयुस्तस्य तादृशस्य पदार्थस्य नेशे नैव ते स्वामिनो भवन्ति । यस्य यस्य पुरुषस्य यस्मिन्यस्मिन्भोग्ये स्वामित्वमस्ति स स पुरुषः सर्वोऽपि प्राणोपासनेन सर्वात्मकाय मह्यं तत्तद्भोग्यं समर्पयत्येवेति महर्षिवाक्यस्याभिप्रायः । एतद्व तद्यन्महर्षिणोक्तमेतदेवै तत् ।

पूर्वत्र ब्राह्मणेनोक्तं प्राणध्यानस्य माहात्म्य[म् ।] वागादिसर्वदेवात्मकत्वगुणध्यानफलमाह—

अनीशानानि ह वा अस्मै भूतानि
बलिं हरन्ति य एवं वेद, इति ।

यः पुमानेवमुक्तप्रकारेणाधिदैवं प्रसृतानामग्न्यादीनामध्यात्मं वागादिरूपेण संकोचमुपास्तेऽस्मा उपासकाय सर्वे प्राणिनः स्वयमनीशा उपासकं प्रति गुणभावमुपेताः सन्तो बलिं हरन्ति पूजां समर्पयन्ति ।

तस्यैव प्राणस्य सत्यत्वरूपं गुणान्तरं ध्येयत्वेन विधत्ते—

तत्सत्यं सदिति प्राणस्तीत्यन्नं यमित्यसावादित्यस्तदेतत्रिवृत्त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिकेति, इति ।

तत्प्राणस्वरूपं सत्यशब्दवाच्यमिति ध्यात्वा तच्छब्दगतेष्वक्षरेषु त्रिषु प्राणान्नादित्यदृष्टयः कर्तव्याः । मध्याक्षर इकार उच्चारणार्थः । तदेतत्सत्यशब्दाक्षरेषु ध्येयं स्वरूपं त्रिवृत्प्राणान्नादित्यैस्त्रिगुणम् । चक्षुरपि शुक्लादिरूपैस्त्रिवृदिव त्रिगुणमेव ।

चक्षुःसाम्यप्रदर्शनेन सत्याक्षरध्यानं प्रशस्य तद्गुणोपासनस्य फलं दर्शयति—

स यदि ह वा अपि मृषा वदति सत्यं हैवास्योदितं
भवति य एवमेतत्सत्यस्य सत्यत्वं वेद, इति ।

इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये
पञ्चमः खण्डः ॥ ५ ॥


१ ग. घ. ङ. °वं च त° । २ ख. ग. °नोक्तध्या° । ३ ग. सत्यंश° । ४ क. °षु प्रा° ।

अध्या० १।ख० ६] ऐतरेयारण्यकम् । १०५

यः पुमानुक्तप्रकारेण सत्यरूपस्य प्राणस्य सत्यत्वं सकाराद्यक्षरत्रयध्येयप्राणा- दिस्वरूपत्वमुपास्ते स पुमान्यद्यपि लोके व्यवहारे किंचिदनृतं वदेत्तथाऽप्यस्य तद्वाक्यं सत्यमेवोदितं भवति । अनृतभाषणप्रत्यवाय एनं न स्पृशतीत्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥


अथ षष्ठः खण्डः ।


गुणान्तरं विधत्ते—

तस्य वाक्तन्तिर्नामानि दामानि तदस्येदं वाचा
तन्त्या नामभिर्दामभिः सर्वं सितं सर्वं
हीदं नामनी१ँ सर्वं वाचाऽभिवदति, इति ।

यथा बहुबलीवर्दस्वामिनो वणिजस्तद्वन्धनार्था काचिद्रज्जुः शङ्कुद्वये बद्धा प्रसा- रिता भवति तस्यां रज्जौ प्रत्येकं बन्धनाय पृथक्पाशा भवन्ति तथा तस्य प्राणस्य वाक्तन्तिः शब्दसामान्यं प्रसारितदीर्घरज्जुस्थानीयं देवदत्तयज्ञदत्तादिनामानि पृथ- क्पृथग्बन्धनहेतुदामस्थानीयानि । तत्तथा सत्यस्य प्राणस्य संबन्धिन्या वाक्सामान्य- रूपया दीर्घतन्त्या नामविशेषरूपैर्दामभिश्च सर्वमिदं स्थावरजङ्गमंरूपं जगत्सितं बद्धमिति ध्यायेत् । सर्वं जगदभिधेयरूपमभिधायके नामनि व्यवस्थितमिति लोकप्र- सिद्धमेतत् । अत एव सर्वं वस्तूदिश्य सर्वोऽपि पुरुषो वाचा तत्तन्नाम्नाऽ- भिवदति । यदीयेन नाम्ना पुरुषमाकारयति स एव पुरुषो रज्जुबन्धनेनाऽऽकृष्ट इव समागच्छति ।

एतद्ध्यानस्य फलमाह—

वहन्ति ह वा एनं तन्तिसंबद्धा य एवं वेद, इति ।

बलीवर्दा इव वागारूयतन्तिसंबद्धाः सर्वे प्राणिन एनमुपासकं प्रति वहन्ति पूजा- द्रव्यमानयन्ति ।

पुनरपि गुणान्तरं विधत्ते—

तस्योष्णिग्लोमानि त्वग्गायत्री त्रिष्टुम्मांसमनुष्टुप्स्त्रावा-
न्यस्थि जगती पङ्क्तिर्मज्जा प्राणो बृहती स च्छन्दोभि-
श्छन्नो यच्छन्दोभिरुच्छन्नस्तस्माच्छन्दांसीत्याचक्षते, इति ।


१ ख. ग. ॰स्य कृत्यमाँ ।

१०६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

तस्य ध्येयस्य प्राणदेवस्य गायत्र्यादिच्छन्दोमयेन देहेनाऽऽच्छादितत्वं ध्यायेत् । उष्णिगादीनां छन्दसां लोमादिरूपदेहावयवत्वं ध्यातव्यम् । बृहतीछन्दसः प्राणवायुरूपावयवत्वं न विरुद्धम् । जडस्य वायोरत्र प्राणशब्देन विवक्षितत्वात् । ध्यातव्यस्तु प्राणश्चेतनैदेवतारूप इति विशेषः । यस्मादयं प्राणाख्यो देवो गायत्र्यादिच्छन्दोभिश्च्छन्नो भवति तस्माच्छादनहेतुत्वाद्गायत्र्यादीनां छन्दस्त्वं द्रष्टव्यम् ।

छन्दोमयदेहावृतत्वध्यानस्य फलमाह—

छादयन्ति ह वा एनं छन्दांसि पापात्कर्मणो यस्यां कस्यांचिद्द्दिशि कामयते य एवमेतच्छन्दसां छन्दस्त्वं वेद, इति ।

यः पुमान्प्राणस्याऽऽच्छादनाद्गायत्र्यादीनां छन्दस्त्वमिति जानाति स पुमान्यस्यां कस्यांचिद्दिशि वर्तमानः किंचित्पापं कर्तुं कामयते तस्मात्पापात्कर्मणस्समुत्पन्नकं गायत्र्यादीनि च्छन्दांसि छादयन्ति, पापं यथा न स्पृशति तथा तं गोपायतीत्यर्थः ।

यथोक्तप्राणमहिमप्रतिपादकं मन्त्रमुदाहरति—

तदुक्तमृषिणा, इति ।

स च मन्त्रः संहितायामेवमाम्नातः—‘‘अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । स सध्रीचीः स विषूचीर्वसान आवरीवर्ति भुवनेष्वन्तः ’’ इति । [ ऋ० सं० म० १, १० । सू० १६४, १७७ । ऋ० ३१, ३ ] अस्य मन्त्रस्य द्रष्टा दीर्घतमा नाम कश्चिदृषिर्मन्त्ररूपं वाक्यं ब्रूते—अहमृषिः प्राणं देवमपश्यं साक्षात्कृतवानस्मि । कीदृशं प्राणम् । गोपामिन्द्रियाणां रक्षकम् । अनिपद्यमानं निपदनं विनाशस्तद्रहितम् । पथिभिर्नानाविधैर्नाडीमार्गैराचरन्तम् । पराचरन्तं च । प्राणवायुर्हि मुखनासिकाद्वारा क्षणे क्षणे देहमध्यं समागच्छन्नपि तदानीमेव पुनर्गच्छत्येव । गमनागमनयोः परस्परसमुच्चयार्थावसकृदावृत्तिसमुच्चयार्थौ वा चकारौ द्रष्टव्यौ । स च प्राणः स्वयमध्यात्मं वायुरूपेण वर्तमानोऽप्यधिदैवमादित्यरूपेणावस्थितः सन्सध्रीचीर्विषूचीश्च द्विविधौ अपि मुख्या दिशोऽवान्तरदिशश्च वसान आच्छादयन्व्याप्नुवन्वर्तते । भुवनेष्वन्तः सर्वेषु लोकेषु मध्य आवरीवर्ति पुनः पुनरागत्य वर्तते । इति मन्त्रस्य योजना ।

तस्य मन्त्रस्य प्रथमपादे पूर्वभागं व्याचष्टे—

अपश्यं गोपामित्येष वै गोपा एष हीदं सर्वं गोपायति, इति ।


अपश्यं गोपा० — ऋ० सं० म० १ सू० १६४ ऋ० ३१ । म० १० सू० १७७ ऋ० ३ ।


१ क ग. जङ्गमस्य । २ घ. ङ. ॰नरू । ३ क. ख. ॰ल्पयागं । ४ घ. ङ. द्वौ । ५ क. ख. ग. द्विधाऽपि ।

अध्या० १ ख० ६] ऐतरेयारण्यकम् । १०७

आयुर्हेतुत्वात्प्राणस्य रक्षकत्वं प्रसिद्धम् । तच्च कौषीतकिन आमन्वन्ति—"याव- द्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुः" [ कौषी० १ । २ । ] इति । उत्तरभागं व्याचष्टे— अनिपद्यमानमिति न ह्येष कदाचन संविशति, इति । संवेशनं व्यापारोपरमः । यथा सुषुप्तौ वागादीनां व्यापार उपरतो भवति न त्वेवं प्राणस्य । अत एव सुषुप्तिप्रकरणे श्रुत्यन्तरे पठ्यते—" प्राणाग्नय एवैतस्मिन्पुरे जाग्रति " [ प्रश्न० ४ । ३ ] इति । द्वितीयपादं व्याचष्टे — आ च परा च पथिभिश्चरन्तमित्या च ह्येष परा च पथिभिश्चरति, इति । प्राणस्य प्रतिक्षणं गमनागमनयोः सर्वैरनुभूयमानत्वात्प्रसिद्धिज्योतनार्थो हिशब्दः । तृतीयपादं व्याचष्टे— स सध्रीचीः स विषूचीर्वसान इति सध्रीचीश्च ह्येष विषूचीश्च वस्त इमा एव दिशः, इति । सहाञ्चन्ति चतुष्कोणरूपेण परस्परसंश्लिष्टा वर्तन्त इति प्राच्यादयश्चतस्रो दिशः सध्रीच्यः । विष्वगञ्चन्ति परस्परं वियुज्य वर्तन्त इत्याग्नेय्यादयश्चतस्रो विदिशो विषूच्य इति । एवमेता दिश एव शब्दद्वयेनोच्यन्ते । यद्यप्यादित्य एव स्वप्रकाशेन ता दिश आच्छादयति न तु प्राणस्तथाऽपि नास्ति विरोधः, आदित्यस्य बाह्यदेशवर्ति- प्राणरूपत्वात् । " आदित्यो वै बाह्यप्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णीते " [ प्रश्न० १ । ७ ] इति श्रुत्यन्तरात् । चतुर्थपादार्थस्याऽऽदित्यरूपेण परिवर्तनस्य प्रसिद्धिं दर्शयति— आवरीवर्ति भुवनेष्वन्तरित्येष ह्यन्तर्भुवनेष्वावरीवर्ति, इति । प्राणमहिमप्रतिपादकं मन्त्रान्तरं दर्शयितुं तस्य मन्त्रस्य तृतीयपादं प्रतीकत्वे- नोदाहरति— अथो आवृतासोऽवतासो न कर्तृभिरिति, इति ।


आ च परा च पथिभिः०—ऋ० सं० म० १ सू० १६४ ऋ० ३१ । ऋ० सं० म० १० सू० १७७ ऋ० ३ । स सध्रीचीः स विषूचीः०—ऋ० सं० म० १ सू० १६४ ऋ० ३१ । म० १० सू० १७७ ऋ० ३ । आवरीवर्ति भुवनेषु— ऋ० सं० म० १ सू० १६४ ऋ० ३१ । म० १० सू० १७७ ऋ० ३ ।


१ क. ख. ॰कत्वम् । २ क. घ. ङ. ॰वदस्मिँ । ३ घ. ङ. ॰ति ता दि॰ ।

१०८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-

अथोशब्दो मन्त्रान्तरसमुच्चयार्थः । तच्च मन्त्रान्तरं संहितायामेवमाम्नातम्—" अप्रक्षितं वसु बिभर्षि हस्तयोरूषाहळं सहस्तन्वि श्रुतो दधे । आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः " [ ऋ० सं० म० १ सू० १६ ऋ० ८ ] इति ।

हे इन्द्र प्राणादित्यरूप परमेश्वराप्रक्षितमनुपहिंसितमप्रैक्षीर्णं वा वसु कर्मफलाख्यं धनं हस्तयोरधिदैवं हस्तसदृशयोर्दक्षिणोत्तरायणयोर्बिभर्षि धारयसि । अध्यात्मं च जीवनादिलक्षणं कर्मफलं हस्तसदृशयोः प्राणापानवृत्त्योर्धारयसि । किंच सहो बलं त्वदीयमुषाहळमन्यैरतिरस्कार्यमतः कर्मफलं धारयितुं समर्थोऽसि । किंच तन्वि तनौ स्वात्मनः शरीरे श्रुतः श्रवणानि ज्ञानानि दधे धारयसि । अतोऽनुष्ठानप्रयासं ज्ञात्वा तदनुरूपं फलं ददासीत्यर्थः । किंच कर्तृभिर्भूमौ हिरण्यनिधिप्रक्षेपकारिभिरवतासो न निधिस्थापनार्थं खाता अवटा गर्ता इवाऽऽवृतासो दिशः सर्वा अपि त्वदीयप्रकाशैनाऽऽच्छादिताः । निधिस्थापका हि गर्तं निधिं प्रक्षिप्य तं गर्तं मृत्पाषाणादिभिराच्छादयन्ति, एवं त्वमपि त्वदीयरश्मिभिः सर्वमाच्छादयसि । तादृशस्य ते तव तनूषु शरीरेषु क्रतवः संकल्पविशेषाः फलप्रदा भूरयो बहवो विद्यन्ते । यो यत्फलमिच्छति तस्य तत्फलमस्त्वित्येवं संकल्पमात्रेणैव ददासीत्यर्थः ।

उदाहृते मन्त्रपाद आवृतास इति पदं व्याचष्टे— सर्वं हीदं प्राणेनाऽऽवृतम्, इति । देवतिर्यङ्मनुष्यादिकमिदं सर्वं देहजातं प्राणवायुना व्याप्तमित्येतत्प्रसिद्धम् ।

गुणान्तरं विधत्ते— सोऽयमाकाशः प्राणेन बृहत्या विष्टब्धस्तद्यथाऽयमाकाशः प्राणेन बृहत्या विष्टब्ध एवं सर्वाणि भूतान्या पिपीलिकाभ्यः प्राणेन बृहत्या विष्टब्धानीत्येवं विद्यात् , इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥

सर्वप्राण्याधारभूतोऽयमाकाशः, सोऽयं बृहतीच्छन्दोरूपेण प्राणेन विष्टब्धो विशेषेण स्थापित इति ध्यायेत् । तत ऊर्ध्वं तद्दृष्टान्तेन पिपीलिकापर्यन्ताः सर्वे प्राणिनो बृहतीच्छन्दोरूपेण प्राणेन विधृता इत्येवं ध्यायेत् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये द्वितीयारण्यके प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥


१ क. ख. ग. ॰प्रहीणं वा । २ क. ग. ॰दैवतं ह॰ ।