ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
अध्या० ५ ख० १(२०)] ऐतरेयारण्यकम् । ६९
बृहत्यनुष्टुप्सतो बृहती गायत्री" इत्यादि। तदेतन्नानाछन्दस्त्वमुदररूपस्य वशस्य योग्यम्। लोकेऽप्यन्तस्त्यमुदरमध्यवर्ति क्लोमप्लीहादिकं^१ विक्षुद्रमिव वै विविधत्वेनाल्पमेवा- ल्पत्वेन दृश्यते। एकस्मादितरदल्पं ततोऽप्यन्यदल्पमित्येवं विविधं क्षुद्रत्वम्। तदेवा- णीय इत्यादिनोदाह्रियते। द्विविधमात्रं(त्रं) स्थूलं सूक्ष्मं च तस्मादुभयातिशयेन स्थूलं हृदयमत्र। एवं क्लोमप्लीहादिषु यथायोग्यं द्रष्टव्यम्।
शंसने प्रकारविशेषं विधत्ते—
ताः प्रणवं छन्दस्कारं यथोपपादं शंसति यथोपपादामिव वा अन्तस्त्यं ह्रसीय इव च द्राघीय इव च, इति।
या ऋचः—"त्वाऽवतः" [ऋ० सं० म० ८ सू० ४६ ऋ० १] इत्यादिकाः सन्ति तासां शंसनकाले प्रणवं प्रणुत्य पुनः पुनः प्रणवमुच्चार्य च्छन्दस्कारं तत्तच्छन्दो यथा न विपर्येति तथा तत्र कृत्वा यथोपपादमुक्तनियगमनतिक्रम्य यथा शंसनमुप- पद्यते तथा शंसेत्। एतदर्थमेव संदिग्धामृचं विभज्य शौनको दर्शयति—"ददी- रेक्ण इति द्विपदा नूनमथेत्येकपदा" [ऐ० आ० ५ अ० २ ख० १] इति। तत्र शंसनप्रकार आश्वलायनेनोदाहृतः—"पच्छो द्विपदा उपसंतनुयादेकपदाः" इति। अयमर्थः—या ऋचो द्विपदाः सन्ति ताः पच्छः शंसनीयाः, प्रथमपादं पठित्वा ततोऽवसाय पश्चाद्वितीयं पादं^२ पठित्वाऽन्ते प्रणवं कुर्यात्। या एकपदाः सन्ति ताः पुरस्तादुपरिष्टाच्च प्रणवाभ्यां संतनुयात्। मध्ये च नावस्येती(दी)दृशं शंसनं यथोपपा- दमित्युच्यते। अन्तस्त्यमुरो मध्येऽवस्थितमप्यत्र क्लोमप्लीहादिकं यथोपपन्नं भवति तथैवावतिष्ठते। किंचिदङ्गमतिह्रस्वमिवान्यदङ्गमतिदीर्घमिव स्थितं तस्मात्तत्सादृश्याय न्यूनाधिकच्छन्दांसि यथा तथा शंसेत्।
ता अस्येत्येतामृचं विधत्ते—
अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति।
वशाभागस्य शंसनादूर्ध्वं "ता अस्य" [ऋ० सं० म० ८ सू० ६९ ऋ० ३] इत्यस्या ऋचः परित्यागं विधत्ते—
तामत्रोत्सृजति द्वादशकृत्वः शस्त्वा द्वादश- विधा वा इमे प्राणाः सप्त शीर्षण्या द्वौ स्तन्यौ त्रयोऽवाञ्चोऽत्र वै प्राणा आप्यन्तेऽत्र संस्क्रियन्ते तस्मादेनामत्रोत्सृजति, इति।
१ क. ˚त्ति यत्क्लोम˚। २ ग. घ. पादमवसायान्ते।
७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
तां सूददोहसं द्वादशवारं पठित्वा तत ऊर्ध्वमत्र वशाशंसनस्थाने परित्यजेत् । न त्वित ऊर्ध्वमूरुभागस्थाने तां सूददोहसं पठेत् । शस्त्रपक्षिणः पूर्वोक्ता एकादशावयवा आत्मा ग्रीवा शिरो विजबौ द्वौ पक्षौ पुच्छं तृचाशीतिरूपाणि त्रीण्यन्नानि वशाख्य- मुदरं चेति, तत्र सर्वत्र सूददोहाः सकृत्पठिता पुच्छे तु धाय्यायाः पुरस्तादुपरिष्टाच्च द्विः पठिता, एवं द्वादशावृत्तिः । शरीरगता इमे प्राणाश्च छिद्रभेदेन द्वादशविधाः । शिरसि सप्त छिद्राणि, स्तनयोर्द्वे छिद्रे, नाभ्यां पायुगुदयोश्च त्रीणि । एतेषु द्वादशसु च्छिद्रेष्वेव सर्वे प्राणाः प्राप्यन्ते । अत एव मन्त्रात्मना ते प्राणाः संस्क्रियन्ते । यस्मा- द्द्वादशविधप्राणसाम्यमत्र समाप्तं तस्मादेनामूर्ध्वमत्र परित्यजेत् । न तूपरितन ऊरुभागे पठेत् ।
उदरभागमुक्त्वा शस्त्रपक्षिण ऊरुभागं विधत्ते—
इन्द्राग्नी युवं सु न इत्यैन्द्राग्ना ऊरू उर्वष्ठीवे प्रतिष्ठे, इति ।
‘‘इन्द्राग्नी युवम्’’ इत्यादिसूक्तं द्वादशर्चं तच्च शस्त्रपक्षिण ऊरुत्वेन पठनीयम् । अस्मिन्सूक्ते याविन्द्राग्नी प्रतीयेते तयोः संबन्धिनौ पक्षिण ऊरू । ‘‘इन्द्राग्नी वै देवा- नामोजिष्ठौ बलिष्ठौ’’ [ तै० ब्रा० का० ३ प्र० ८ अ० ७ ] इति तयोः प्रवलत्व- श्रवणादूर्वोश्च गमनादिव्यवहारहेतुत्वेन प्रबलत्वात् ।
[एतत्सूक्तगतानामृचां षट्पदत्वं प्रशंसति—]
ताः षट्पदा भवन्ति प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्वि- प्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति, इति ।
अस्मिन्सूक्ते द्वितीयस्या अन्तिमायाश्च विशेषस्य वक्ष्यमाणत्वाद्या अवशिष्टा दशर्चः सन्ति ताः प्रत्येकं षट्पदा भवन्ति । तच्च प्रतिष्ठार्थमेव संपद्यते । तत्कथमिति तदु- च्यते—लोके मनुष्यः पादद्वयेन भूमौ प्रतिष्ठति । पशवस्तु चतुष्पादा वर्तन्ते । एवं सत्यत्रापि तत्तेन पादषट्कपाठेन पादद्वयोपेतं यजमानं चतुष्पात्सु प्रतिष्ठितं करोति ।
द्वितीयायां—‘‘न हि वां ववृयामहे’’ [ ऋ० सं० म० ८ सू० ४० ऋ० २ ] इत्येतस्यामृचि विशेषं विधत्ते*—
द्वितीया सप्तपदा भवति तां गायत्रीं चानुष्टुभं च करोति ब्रह्म वै गायत्री वागनुष्टुब्ब्रह्मणैव तद्वाचं संदधाति, इति ।
इन्द्राग्नी युवं सु०—ऋ० सं० म० ८ सू० ४० ऋ० १ ।
* क. ख. पुस्तकयोरेतदग्रे—‘‘एकस्मिन्पादेऽवसायोत्तरस्मिन्पादे प्रणवप्रयोगः पादशं- सनम् । इत्यधिकम् ।
अध्या० ५ ख० २ (२१)] ऐतरेयारण्यकम् । ७१
द्वितीयास्या ऋचः संबन्धिभिः सप्तभिः पादैर्गायत्रीं कृत्वा शंसेत् । पादद्वयेऽवसाय तृतीयपादे प्रणवो गायत्रीकरणम् । अवशिष्टेन पादचतुष्टयेनानुष्टुभं कृत्वा शंसेत् । पादद्वयेऽवसाय चतुर्थपादे प्रणवप्रयोगोऽनुष्टुप्करणम् । तत्र या त्वत्र निष्पाद्या गायत्री सा ब्रह्मैव “तत्सवितुर्वरेण्यम्”— [ऋ० सं० म० ३ सू० ६२ ऋ० १०] इत्यनया गायत्र्या परब्रह्मणः प्रतिपादितत्वात् । या तु पादचतुष्टयसंपन्नाऽनुष्टुप्सा वाग्रूपा वाग्विशेषाणां मध्ये प्रशस्तत्वात् । गायत्र्यनुष्टुभोः संपादनेन परब्रह्मणैव सह वाग्देवता संयोजिता भवति ।
[*अन्तिमाया विशेषं विधत्ते—
त्रिष्टुभमन्ततः शंसति वीर्यं वै त्रिष्टुब्वीर्येणैव तत्पशून्परिगच्छति तस्मात्पशवो वीर्यमनूपतिष्ठन्त ईर्यतां चैत्राभ्युत्थानं च, इति ॥ ]
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये
प्रथमः खण्डः ॥ १ ॥ ( २० )
अन्ततः सूक्तस्यावसाने या त्रिष्टुप्छन्दस्काऽऽम्नाता तां त्रिष्टुभः समयनैव शंसेत् । [+तदेव त्रिष्टुप्समयः । १) त्रिष्टुभो वीर्यहेतुत्वाद्वीर्यरूपत्वं तत्तेन त्रिष्टुप्संशसनेनायं पुरुषः स्वसामर्थ्येनैव पशून्परितः प्राप्नोति । यस्मादेवं तस्माल्लोके पशवो वीर्यमनूपतिष्ठन्ते वाक्पारुष्येण दण्डपारुष्येण वा गोपालवीर्यमवधार्य प्रत्याव्रजन्ति । तथा तद्वीर्यवशादीर्यतां च शयनादभ्युत्थानं च प्राप्नुवन्त्ये(*व न) वेति शेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २० )
अथ द्वितीयः खण्डः । ( एकविंशः )
[ अथ शस्त्रपक्षिणोऽन्यावयवविधानार्थं सूक्तान्तरविधानार्थं च खण्डान्तरारम्भः । ]
तस्य चैवाऽऽरम्भे सूक्तान्तरं विधत्ते—
प्र वो महे मन्दमानायान्धस इत्यैन्द्रे निष्केवल्ये
प्र वो महे०—ऋ० सं० म० १० सू० ९० ऋ० १ ।
* एतच्चिह्नान्तर्गतो मूलातिरिक्तो ग्रन्थः प्रकल्प्य मूलग्रन्थश्च मूलपुस्तकेभ्य उद्धृत्यात्र निवेशितः । + एतच्चिह्नान्तर्गतो ग्रन्थोऽधिकः । * एतच्चिह्नान्तर्गतमधिकम् । अथवा वाशब्दस्थाने एवशब्दं पठित्वा योज्यम् ।
१ ख. ग. घ. ‘त् । को नाम गा’ ।
७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके--
निविदं दधाति प्रत्यक्षाद्ध्येव तदात्मन्वीर्यं धत्ते, इति ।
“प्र वो महे” इत्यादिकं सप्तर्चं सूक्तं तत्रेन्द्र एव नामै[?] तदाद्यादि[?] निष्के-
वल्यशस्त्रं प(पा)ठ्यम् । तत्रेदानीं निवित्संज्ञकं तदवशेषज्ञानं (?) प्रक्षिपेत् । इन्द्रो देवः
सोम पिन्वमान इत्यादिकं निवित्पदजातं निवित्संज्ञके संघे पठितम् । सूक्तगतासु सप्त-
स्वृक्षु चतस्रः पठित्वा तिस्रोऽवशेष्य मध्ये निविदं दध्यात्तत्तेन निवित्प्रक्षेपेण प्रत्य-
क्षाद्ध्येव मुख्यमेव वीर्यमत्र शस्त्ररूपे पक्षिणि संपादयति ।
तत्सूतगतानामृचां छन्दोद्वयं दर्शयति—
तास्त्रिष्टुब्जगत्यो भवन्ति, इति ।
आदौ पञ्च त्रिष्टुभ उत्तरे द्वे जगत्यौ । यद्वा प्रथमा सप्तमी चोभे जगत्याववशि-
ष्टास्त्रिष्टुभः । तदाहानुक्रमणिकाकारः—“प्र वो महे सप्त द्विजगत्याद्यन्तम्” इति ।
सप्तसु च्छन्दोद्वयविशिष्टास्वृक्षु निवित्प्रक्षेपं प्रश्नोत्तराभ्यां विशदयति —
तदाहुरथ कस्मात्त्रिष्टुब्जगतीषु निविदं दधातीति न ह वा
एतस्याह एकं छन्दो निविदं दाधार न विव्या-
चेति तस्मात्त्रिष्टुब्जगतीषु निविदं दधाति, इति ।
[ *प्रकृतस्याह्नो निविद्वैशिष्ट्यं त्रिधा विधत्ते—
तदेतदहस्त्रिनिवित्कं विद्यादृशो निविद्वालखिल्या निवित्रि-
न्निविदेव निविदेवमेतत्रिनिवित्कं विद्यात्, इति ।
सूक्तान्तरशंसनं विधत्ते —
अथ सूक्ते वनेन वायो न्यधायि चाकन्यो
जात एव प्रथमो मनस्वानिति , इति ।
शंसने फलविशेषं दर्शयति —
तयोरस्त्यन्ने समस्य यदसन्मनीषा इत्यान्नाद्यस्यावरुद्धयै, इति ।
अन्यासामृचां शंसनं सफलं विधत्ते —]
अथाऽऽवपनमेते अन्तरेणैन्द्रीणां दशतीनां त्रिष्टुब्जग-
तीनां संपन्नानां यावतीरावपन्ते तावन्त्यूर्ध्वमायुषो
वर्षाणि जीवन्त्येतेन हैवाऽऽवपनेनाऽऽयुराप्यते, इति ।
वनेन वा०—ऋ० सं० म० १० सू० २९ ऋ० १ । यो जातः प्रथमः०-
ऋ० सं० म० २ सू० १९ ऋ० २ ।
* एतच्चिह्नान्तर्गतो मूलातिरिक्तो ग्रन्थः प्रकल्प्य मूलग्रन्थश्च मूलपुस्तकेभ्य उद्धृत्यात्र निवेशितः
१ ख. ग. घ. ˚मकं त˚ ।
अध्या०१ख०२(२१)] ऐतरेयारण्यकम् । ७३
अथ पूर्वयोः सूक्तयोरेकस्य शंसनानन्तरमेते अन्तरेणैतयोः “ वनेन वा ” [ ऋ० सं० म० १० सू० २९ ऋ० १ ] “यो जातः” [ ऋ० सं० म० २ सू० १२ ऋ० १ ] इति सूक्तयोर्मध्ये कासांचिदिन्द्रदेवताकानां त्रिष्टुब्जगत्याख्य-च्छन्दोद्वययुक्तानां स्वबुद्धिकौशलेन बृहतीत्वमापादितानामृचां मध्ये यावतीर्ऋच आवपेत्तावन्ति वर्षाणि कृप्ताच्छतसंवत्सरादायुष ऊर्ध्वं यजमाना जीवन्ति । एतेन-गार्वापनेनैवावश्यमायुः प्राप्यते । अत्र बुद्धिकौशलेन त्रिष्टुभां जगतीनां कथं बृहतीत्व-संपत्तिवश(?) उच्यते । तिसृषु बृहतीषु चतुष्टये(?) संपादिते सति* ।
सजनीयसूक्तस्य शंसने फलविशेषं दर्शयति—
प्रजां मे पशवोऽर्जयन्नित्येव सजनीयमनु शंसति, इति ।
मदीयां पुत्रादिरूपां प्रजां गवाश्वादयः +पशवो मार्जयन्नित्यभिप्रेत्याऽऽवपनमनु सजनीयसूक्तं शंसेत् ।
अथ—“ त्यमू षु ” [ ऋ० सं० म० १० सू० १७८ ऋ० १ ] इत्येतत्सूक्तं तृचरूपं विधत्ते—
तार्क्ष्यं शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्ति-
तायै स्वस्त्ययनमेव तत्कुरुते , इति ।
तार्क्ष्यो गरुडः स एवैष देवो यस्य “ त्यमू षु ” इत्यादिसूक्तस्य तत्सूक्तं तार्क्ष्यं शंसेत् । तस्मिन्सूक्ते प्रतिपाद्यो यस्तार्क्ष्यः सोऽयं स्वस्त्ययनं वै क्षेमप्राप्तिमेव संपादयतीति शेषः । अतस्तत्सूक्तं स्वस्तितायै संपद्यते यस्मात्तस्मादयं होता तत्तेन शंसनेन स्वस्त्ययनमेव क्षेमप्राप्तिमेव कुरुते ।
तत ऊर्ध्वम्—“इन्द्रो विश्वं विराजति” इति । तस्या एकपदाया ऋचः शंसनं विधत्ते—
एकपदां शंसत्येकधेदं सर्वमसानीत्यथो
सर्वां छन्दस्कृतिमाप्नवानीति, [इति] ।
एकेनैव प्रयत्नेनेदं सर्वमसानि प्राप्तव्यं फलमाप्नवानीत्यभिप्रेत्य तामेकपदां शंसति । अपि च सर्वां छन्दस्कृतिं सर्वेषामपि च्छन्दसां संपादनं प्राप्तवानीत्येतां शंसेत् । न ह्येकपदाया अर्वाचीनं किंचिच्छन्दोऽस्ति । उत्तरेषु तु द्विपदादिषु सर्वेष्वपि च्छन्दःस्वेकपद्दम् ।
* एतदग्रे त्रुटितं किंचित् । + पशवोऽर्जयन्नित्येव पाठोऽपेक्षितः ।
१ क. ख. 'के मसूक्तो प्र° ।
१०
७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-
अथ—" इन्द्रं विश्वाः " [ ऋ० सं० म० १ सू० ११ ऋ० १ ] इत्यादिक- मष्टचं सूक्तं प्रयोगप्रकारविशेषयुक्तं विधत्ते—
इन्द्रं विश्वा अवीवृधन्निति पदानुषङ्गांस्ताः समानुषजति सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधात्यष्टमीं नानु- षजति वागष्टमी नेन्मे वाक्प्राणैरनुषक्ताऽसदिति तस्मादु सा वाक्समानायतना प्राणैः सत्यननुषक्ता, इति ।
" इन्द्रं विश्वाः " इत्यस्मिन्नष्टर्चे सूक्ते पादानां परस्परमनुषङ्गः कर्तव्यः । तत्र सूक्तस्य यः प्रथमोऽर्धर्चो यश्चान्तिमस्तावूभावर्धर्चौ यथाध्ययनमेव पठनीयौ न त्वनुषज-(ञ्ज)नीयौ । तयोर्मध्ये ये चतुर्दशार्धर्चास्तेष्वेकैकपादान्तरितत्वेन परस्परानुषङ्गः कर्तव्यः । तद्यथा—प्रथमायामृचि यस्तृतीयः पादस्तं द्वितीयस्यामृचि प्रथमपादेन संयोज्यैकोऽर्धर्चः कर्तव्यः । तथा प्रथमायामृचि यश्चतुर्थः पादः सोऽयं द्वितीयस्यामृचि द्वितीयपादेन संयोजनीयः । एतेनार्धर्चद्वयेनैका संपद्यते । अनेनैव प्रकारेण सूक्तस्याऽऽद्यन्तयोरर्धर्चयोर्मध्यगतास्ताः सप्तर्चः परस्परमनुषजेत् । शिरसि छिद्रगताः प्राणाः सप्तैव तेन सप्तानामनुषङ्गेण शिरस्येव प्राणान्संपादयति । अष्टमीशब्देन सूक्तस्य चरमोऽर्ध एको विवक्षितस्तस्यानुषङ्गो नास्ति । उपरितनपादस्य कतमस्याप्यभावात् । अत एव शौनकः पञ्चमे—" प्रथमायाः पूर्वमर्धर्चं शस्त्वा " [ ऐ० आ० ५ अ० ३ ख० १ ] इत्यादिना " प्रकृत्या शेषः " इत्यन्तेन ग्रन्थेन सूक्तगतयोराद्यन्तयोरर्धर्चयोर्यथापाठमभिधाय मध्यगतानामेव चतुर्दशानामर्धर्चानां पाद्व्यतिषङ्गमुक्तवान् । केनाभिप्रायेणाष्टम्या व्यतिषङ्गो नास्तीति चेद्येनेयमृगष्टमी सा वाग्रूपा । अत एव वाजसनेयिनश्चक्षुरादीन्द्रियेषु गौतमभरद्वाजर्षिध्यानमधीयानाः " वागष्टमी ब्रह्मणा संविदाना" इत्येवं वाचोऽष्टमीत्वमामनन्ति । ईदृगष्टमी मदीया वाक्प्राणैरन्यैरनुषक्ता सती व्यतिषक्ता भवेदिति भीत्या तामष्टमीं नानुषजेत् । नेदिति निपातो भयद्योतनार्थः । यस्मादेवमष्टमीं नानुषजति तस्मादेव कारणात्साऽष्टमी वागन्यैः प्राणैर्जिह्वात्वगादिभिः समानायतनैकाधारा सत्यपि स्वयमननुषक्ता तैः सह नैव संकीर्णा किंतु विविक्ता सती शब्दमुच्चारयति ।
अथ—"पिबा सोममिन्द्र" [ ऋ० सं० म० ७ सू २३ ऋ० १ ] इत्यादिकानां विराच्छन्दस्कानां शंसनं विधत्ते—
विराजः शंसत्यन्नं वै विराजोऽन्नाद्यस्यावरुद्ध्यै, इति ।
विराच्छन्दसोऽन्नहेतुत्वादन्नत्वं तस्मात्तच्छंसनमन्नप्राप्तये संपद्यते । यद्यपि—"पिबा
इन्द्रं विश्वा अवीवृधन्०—ऋ० सं० म० १ सू० ११ ऋ० १ ।
अध्या० १ ख० २ (२१)] ऐतरेयारण्यकम् । ७५
'सोमम्" [ ऋ० सं० म० ७ सू० २३ ऋ० १ ] इत्यादिकं नवर्चं सूक्तं तथाऽ- प्यन्तिमास्तिस्रः परित्यज्य प्राचीनाः षडेव पठेत् । अत एव शौनकः—"पिबा सोममिन्द्र मन्दतु त्वेति षट्" [ ऐ० आ० ५ अ० ३ ख० १ ] इत्याह ।
तत ऊर्ध्वं वसिष्ठदृष्टेन—"योनिष्ट इन्द्र सदने अकारि" [ ऋ० सं० म० ७ सू० २४ ऋ० १ ] इत्येतेन सूक्तेन निष्केवल्यशस्त्रस्य समापनं विधत्ते—
वासिष्ठेन परिदधाति वसिष्ठोऽसानीति, इति ।
अहं वसिष्ठः सर्वेषामतिशयेन निवासहेतुर्भवानीत्यभिप्रेत्य वासिष्ठसूक्तेन परिधानं कुर्यात् । परिधानं समापनम् ।
तत्र कंचिद्विशेषं विधत्ते—
एष स्तोमो मह उग्राय वाह इति महद्वत्या रूपसमृद्धया, इति ।
"योनिष्टे" [ ऋ० सं० म० ७ सू० २४ ऋ० १ ] इत्यादिकं षडर्चं सूक्तं तत्र षष्ठ्या परिधानं प्राप्तं तदपोह्य—"एष स्तोमः" [ ऋ० सं० म० ७ सू० २४ ऋ० ५ ] इत्यनया पञ्चम्या परिदध्यात् । सा च महद्वती मह उग्रायेति तत्र पठि- तत्वात्तस्मादियं रूपसमृद्धेति तया परिधानं न्याय्यम् । एतच्च शौनको विस्पष्टं दर्शयति—"योनिष्ट इन्द्र सदने अकारीत्येतस्य चतस्रः शस्त्वोत्तमामुपसंतत्योपोत्त- मया परिदधाति" [ ऐ० आ० ५ अ० ३ ख० १ ] इति ।
तस्याः परिधानीयाया द्वितीयपादे धुरीति पदं व्याचष्टे—
धुरी वात्यो न वाजयन्नधायीत्यन्तो वै धूरन्त एतदहरेतस्याह्नो रूपम् , इति ।
येयं धूः सेयं रथस्यान्तोऽश्वयोजनस्थानम् । अस्य(त्र) हि धूरशब्दे(धूःशब्द) वाच्ये रथस्यान्तभागे ते(तौ) युग्र्यौ योज्येते । एतन्महाव्रताख्यमहश्च संवत्सरसत्र- स्यान्त एतस्या ऊ(स्यो)र्ध्वमुदयनीयातिरात्रेणाह्नः समाप्यमानत्वात् । अतो धुरश्चा- न्तर(त्व)साम्याद्धूःशब्दयुक्तो मन्त्र एतस्याह्नः स्वरूपम् ।
तृतीयपादेऽर्कशब्दं प्रशंसति—
इन्द्र त्वाऽयमर्क ईट्टे वसूनामित्यर्कवत्या रूपसमृद्धया, इति ।
अर्कवाचकोऽयमर्कशब्दस्तच्छब्दयुक्तत्वादियमृग्रूपसमृद्धा, ततस्तया परिधानं युक्तम् ।
एष स्तोमो महे०—ऋ० सं० म० ७ सू० २४ ऋ० ५ । धुरी वात्यो न०— ऋ० सं० म० ७ सू० २४ ऋ० ५ । इन्द्र त्वाऽयमर्क ईट्टे०—ऋ० सं० म० ७ सू० २४ ऋ० ५ ।
चतुर्थपाद्युक्तं प्रशंसति—
७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
चतुर्थपाद्युक्तं प्रशंसति—
दिवीव द्यामधिनः श्रोमंतं धा इति यत्र ह क्व च ब्रह्मण्या
वागुद्यते तद्धास्य कीर्तिर्भवति यत्रैवं विद्वानेतया परि-
दधाति तस्मादेवं विद्वानेतयैव परिदध्यात् , इति ।
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये
द्वितीयः खण्डः ॥ २ ॥ ( २१ )
हे देव नोऽस्माकं श्रोमंतं श्रवणीयकीर्तिं दिवीव द्युलोके यथा संपादयसि तथा द्यामधि^१ द्युलोकस्योपरि सोमलोकादावपि धा निधेहि संपाद्येत्यर्थः । एतस्यै पादस्य पाठेन यत्र क्वापि वेदशास्त्रविद्बहुले देशे ब्रह्मण्या वागुद्यते वेदनसंबन्धि वाक्यं पठ्यते तत्रास्य यजमानस्य कीर्तिः प्रसवति । यत्र यस्मिन्महाव्रते य एवं विद्वा-न्कीर्तिहेतुमृचं विद्वानेतयर्चा परिधानं करोति तस्मिन्महाव्रते य(त)स्य यजमानस्य कीर्तिर्भवतीति पूर्वत्रान्वयः । यस्मादेवं तस्या ऋचो महिमा भूयांस्तस्मादेवं विद्वान्म-न्त्रमहिमानं जानन्पुमानेतयैवर्चा परिदध्यात् । निष्केवल्यं समापयेत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-भाष्ये प्रथमारण्यके पञ्चमाध्याये द्वितीयः खण्डः ॥ २ ॥ ( २१ )
अथ तृतीयः खण्डः । ( द्वाविंशः )
माध्यंदिनसवने शस्त(शंसित)व्यं निष्केवल्यं समापितं तृतीयसवने शस्तव्य(शंसित)स्य वैश्वदेवशस्त्रस्यार्द्धयं विधत्ते—
तत्संवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्व-
देवस्य प्रतिपदनुचरावैकाहिकौ रूपसमृद्धौ, इति ।
प्रतिपद्यते प्राप्यते शस्त्रं येन तृचेन सोऽयं प्रतिपत्तत्संवितुरित्यादिकस्तृचस्तं तृचमनुचरति तदनन्तरं पद्य(ठ्य)त^२ इत्यनुचरोऽद्या नो देव सवितरित्यादिकस्तृचस्तावैतौ वैश्वदेवशस्त्रस्य प्रतिपदनुचरौ महाव्रतस्य प्रकृतिभूते विश्वजिदाख्य एकाहे तस्यापि मूलप्रकृतिभूतेऽग्निष्टोमाख्य एकाहे भवत इत्यैकाहिकावत एव स्वरूपेण समृद्धौ तस्मात्तौ कर्त्तव्यौ ।
दिवीव द्याम्०— ऋ० सं० म० ७ सू० २४ ऋ० ९ । तत्सवितुर्वृणीमहे०—
ऋ० सं० म० ५ सू० ८२ ऋ० १ । अद्या नो देव सवितः०— ऋ० सं० म० ५ सू० ८२ ऋ० ४ ।
^१ ख. ग. घ. ॰रि म(स्व)लोंका’ ।
^२ क. ॰स्य पाठे’ ।
अध्या० १ ख० ३(२२)] ऐतरेयारण्यकम् । ७७
अनिष्टशान्तिहेतुत्वेन तृचद्वयं प्रशंसति—
बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।
पूर्ववद्व्याख्येयम् [ ऐ० आ० १—१—३ ] । प्रतिपदनुचरयोरूर्ध्वमेकं सूक्तं विधत्ते—
तद्देवस्य सवितुर्वार्थ महदिति सावित्रमन्तो वै महदन्त एतदहरेतस्याह्नो रूपम् , इति ।
“ तद्देवस्य ” इत्यादिकं सप्तर्चं सवितृदेवताकं सूक्तम् । सवितुर्देवस्य संबन्धि वार्यं सर्वैर्वरणीयं तत्तेजो महत्प्रौढम् । अस्मिन्पादे यन्महदित्युक्तं तदन्तो वै प्रार्थनीयस्य सर्वस्याप्यवसानभूमिः, न हि महत्त्वाद्ध्वं किंचित्प्रार्थनीयमस्ति । एतन्महाव्रतारूयमध्यहः संवत्सरसत्रस्यान्तोऽतोऽन्तत्वसाम्यादिदं सूक्तमेतस्याह्नः स्वरूपम् ।
सूक्तान्तरं विधत्ते—
कतरा पूर्वा कतराऽपराऽयोरिति द्यावापृथिवीर्यं समानोदर्कं समानो- दर्कं वा एतदहरेतस्याह्नो रूपम्, इति ।
“ कतरा ” इत्यादिकमेकादशचं सूक्तं द्यावापृथिवीदेवताकं शंसनीयम् । तच्च समानोदर्कं समान एकं उदकों यस्य सूक्तस्य तत्समानोदर्कं तस्मिन्हि सूक्ते बहुष्वृक्षु “ द्यावा रक्षतं पृथिवी नो अभ्वात् ” इत्ययमेव चतुर्थः पादः पठितोऽत एकविधः । एतन्महाव्रतारूपमहश्च समानोदर्कम् । अत्रोदर्क उत्तरकालभावि फलं तच्च सर्वेषां समानं सर्वेऽपि महाव्रतमनुष्ठाय ब्रह्म प्राप्नुवन्ति । अत एव शौनकेन—“ ब्रह्म भवति ” [ ऐ० आ० १ अ० ३ ख० ३ ] इत्युक्तम् । एवं च सति समानोदर्कसाम्यादेतत्सू[क्तमेतस्याह्नः स्वरूपम् ।
सू]क्तान्तरं विधत्ते—
अनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवम् , इति ।
तद्देवस्य सवितुर्वार्यं०—[ ऋ० सं० म० ४ सू० ५३ ऋ० १ । ] कतरा पूर्वा कतराऽपरा०—ऋ० सं० म० १ सू० १८५ ऋ० १ । अनश्वो जातो०—ऋ० सं० म० ४ सू० ३६ ऋ० १ ।
१ ख. ग. घ. ºक ऊर्ध्वोऽर्को ।
७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
“ अनश्वः ” इत्यादिकं नवर्चमृभुदेवताकं सूक्तं द्यामृभवः पृथिवीं यच्च पुष्यथेति तत्र स्वयमाभीत्वा(स्वयमेवाऽऽर्भवत्वा)त् । तत्सूक्तं शंसेत् ।
तत्र प्रथमायामृचि द्वितीयपादे त्रिशब्दं प्रशंसति—
रथस्त्रिचक्र इति पदे तन्त्रिवत्तदन्तो वै
त्रिवदन्त एतदहरेतस्याह्नो रूपम्, इति ।
“रथस्त्रिचक्रः परिवर्तते रजः” इति द्वितीयपादस्तस्मिन्पादे यदेतन्त्रिशब्दोपेतरथविशेषणं त्रिचक्र इत्येतत्पदं विद्यते त्रिशब्दोऽस्मिन्पदेऽस्तीति त्रिवत्पदं तच्चान्तं वा अवसानभूमिरेव । यस्य रथस्य चक्रद्वयेना(यम)निर्वाह्यं यत्र तस्य तृतीयं चक्रं संपाद्यते तावता निर्वाहो भवतीत्यभिप्रेत्य तन्त्रिवत्पदमन्त इत्युच्यते । अन्त एतदहरित्यादिकं पूर्ववत् [ ऐ० आ० १ अ० ५ ख० २ ] ।
सूक्तान्तरं विधत्ते—
अस्य वामस्य पलितस्य होतुरिति वैश्वदेवं
बहुरूपं वा एतदहरेतस्याह्नो रूपम् , इति ।
“ अस्य वामस्य ” इत्यादिकं द्विपञ्चाशदृचं सूक्तं विश्वे(श्व)देवदेवताकं पठेत् तच्च बहुरूपं बह्वर्थप्रतिपादकत्वात् । तच्चानुक्रमणिकायां दर्शितम्—अस्य द्विपञ्चाशदल्पस्तवं त्वेतत्संशयोत्थापनप्रश्नप्रतिवाक्यान्यत्र प्रायेण ज्ञानमोक्षाक्षरप्रशंसा चेति वैदिकमन्त्रादिना लौकिकवृत्त्यादिना$^१$ च विवृतत्वादह्नो बहुरूपत्वमतः साम्यादुभयोरानुरूप्यम् ।
यथोक्तस्य कृत्स्नस्य सूक्तस्य प्रसक्तिं वारयितुं विशिनष्टि—
गौरीर्मिमाय सलिलानि तक्षतीत्येतदन्तम् , इति ।
ऋचां चत्वारिंशति(त)मतिक्रम्यानन्तरभाविनी “ गौरीः ” इत्यादिका तदन्तमे सूक्तभागं पठेन्न तूपरितनम् । अत एव शौनकः—“ एकचत्वारिंशेतम्$^२$ ” [ ऐ० आ० १ अ० ३ ख० २ ] इत्याह ।
सूक्तान्तरं विधत्ते—
आ नो भद्राः क्रतवो यन्तु विश्वत इति वैश्व-
देवं निविद्धानमैकाहिकं रूपसमृद्धम् , इति ।
रथस्त्रिचक्रः०—ऋ० सं० म० ४ सू० ३६ ऋ० १ । अस्य वामस्य०—ऋ० सं० म० १ सू० १६४ ऋ० १ । गौरीर्मिमाय०—ऋ० सं० म० १ सू० १६४ ऋ० ४१ । आ नो भद्राः—ऋ० सं० म० १ सू० ८९ ऋ० १ ।
$^१$ ख. ग. घ. ॰कनृत्यादि’ । $^२$ क. ख. ग. ॰शतिमि’ ।
अध्या०५ख०३(१२)] ऐतरेयारण्यकम् । ७९
“ आ नः ” इत्यादिकं दशर्चं विश्वे(श्व)देवदेवताकं सूक्तं पठेत् । अस्मिन्सूक्ते नवर्चः शस्त्वा दशमीमवशेष्य तन्मध्ये विश्वे देवाः सोमस्य मत्सन्नित्यादीनि निवित्पदानि धीयन्ते प्रक्षिप्यन्ते तस्मादेतन्निविद्धानं तच्च मूलप्रकृतावग्निष्टोम एकाहे समुत्पन्नत्वादैकाहिकं सूक्तं पठेत् । अत एव रूपसमृद्धम् ।
अरिष्टशान्तिहेतुत्वेन सूक्तं प्रशंसति—
बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते
शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव
तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य
एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।
पूर्ववद्व्याख्येयम् [ ऐ०आ० १ अ० १ ख० ३ ] ।
वैश्वदेवशस्त्रपर्यन्तं समाप्याग्निमारुतशस्त्रस्य प्रारम्भे पञ्चदशर्चं सूक्तं विधत्ते—
वैश्वानराय धिषणामृतावृध इत्याग्निमारुतस्य प्रतिप-
दन्तो वै धिषणाऽन्त एतदहरेतस्याह्नो रूपम् , इति ।
अत्र या धिषणा सा बुद्धिः श्रूयते । सेयमन्तो वै पर्यवस्थानभूमिरेव । सर्वस्य व्यवहारस्य बुद्धयधीनत्वात् । अन्त एतदहरित्यादि पूर्ववत् । [ऐ० आ० १ अ० १ ख० २]
सूक्तान्तरं दशर्चं मरुद्देवताकं विधत्ते—
प्र यज्यवो मरुतो भ्राजदृष्टय इति मारुतं समा-
नोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपम्, इति।
अस्मिन्नपि सूक्ते बहुष्वृक्षु—“ शुभं यातामनुरथा अवृत्सत ” इत्यस्यैव चतुर्थपादस्य पठितत्वात्समानोदर्कत्वम् । अन्यत्पूर्ववद्व्याख्येयम् ।
अथ सूक्तात्मिकामेकामृचं विधत्ते—
जातवेदसे सुनवाम सोममिति जातवेदस्यां पुर-
स्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्या
स्वस्तितार्यै स्वस्त्ययनमेव तत्कुरुते, इति ।
जातवेदोनामिका देवता यस्या ऋचः सा जातवेदस्या तामृचं विधास्यमानस्य “ इमं स्तोमम् ” [ ऋ० सं० म० १ सू० ९४ ऋ० १ ] इत्यादिसूक्तस्य पुरस्ताच्छंसेत् । सा च स्वस्त्ययनं क्षेमप्राप्तिहेतुरतः स्वस्तितार्यै, क्षेमप्राप्तये समर्था । तत्तेनर्क्पाठेन क्षेमप्राप्तिमेव संपादयति ।
वैश्वानराय धि०—ऋ० सं० म० ३ सू० २ ऋ० १ । प्र यज्यवो०—ऋ० सं० म० १ सू० ८७ ऋ० १ । जातवेदसे०—ऋ० सं० म० १ सू० ९९ ऋ० १ ।
८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-
सूक्तान्तरं विधत्ते—
इमं स्तोममर्हते जातवेदस इति जातवेदस्यं समानोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपमह्नो रूपम् , इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥ ( २२ )
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यकं समाप्तम् ॥ १ ॥
इममित्यादिकं षोडशर्चं जातवेदोदेवताकं सूक्तं पठेत् । तस्मिन्सूक्ते बहुष्वृक्षु “ अग्ने सख्ये मा रिषामा वयं तव ” इत्यस्य चतुर्थपादस्य पठितत्वात्समानोदर्कत्वम् अन्यत्पूर्ववद्व्याख्येयम् । द्विरभ्यासोऽध्यायसमाप्त्यर्थः प्रथमारण्यकसमाप्त्यर्थः कर्मकाण्डसमाप्त्यर्थः(श्चैश्व) ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥ ( २२ )
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्मणारण्यकाण्डभाष्ये प्रथमारण्यके पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरसायणामात्यकृतौ माधवीये वेदार्थप्रकाश ऐतरेयाऽऽरण्यकाण्डे प्रथमारण्यकं समाप्तम् ॥ १ ॥
( समष्ट्यङ्काः—आर० १ अध्या० ५ ख० २२ )
इमं स्तोम०—ऋ० सं० म० १ सू० ९४ ऋ० १ ।
अथ द्वितीयारण्यकम्।
प्रथमोऽध्यायः।
तत्र प्रथमः खण्डः।
यस्यै निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥ १ ॥
प्रथमारण्यके कर्म महाव्रतमुदीरितम्।
संवत्सराख्यसत्रस्य शेषः पूर्णोऽत्र तावता॥ २ ॥
तदीया विकृतिः सर्वा प्रोक्तैवेति मनीपया।
कर्मकाण्डं समाप्यैव वेदो ज्ञानं विवक्षति॥ ३ ॥
आरण्यकं द्वितीयं च तृतीयं च तदात्मकम्।
ज्ञानकाण्डं ततः सोपनिषदित्यभिधीयते॥ ४ ॥
करोम्युपनिषद्व्याख्यां शंकराचार्यवर्त्मना।
आचार्यस्य प्रसादेन संसारान्मुच्यतां बुधः॥ ५ ॥
उपनिषच्छब्दो ब्रह्मविद्यामाचष्टे। सा हि विवित्सुं पुरुषमुपेत्य नितरामविद्यां सीदति विशीर्णां करोति, यद्वा ब्रह्मतां गमयति, अथवा रागद्वेषाववसादयति शिथिलीकरोति। ततः “षदॢ विशरणगत्यवसादनेषु” [भ्वा० ग० प०] इति प्रोक्तं धातोरर्थत्रयं तस्मिन्नुपनिषच्छब्दो विद्यते। तार्थावधाया ब्रह्मविद्याया उत्पादकत्वाद्व्रन्थोऽप्युपनिषदित्युच्यते। तस्योपनिषद्व्रन्थस्य विषयप्रयोजनाधिकारिसंबन्धप्रामाण्यप्रमेयस्वरूपाणि निरूप्यन्ते। अद्वैतमात्मतत्त्वं विषयः। अनन्यलभ्यमानत्वात्। न हीदृशं तत्त्वमुपनिषदोऽन्येन केनापि प्रमाणेन लभ्यते। न तावच्चक्षुरादिजन्यं बाह्यं प्रत्यक्षं तत्त्वे प्रमाणम्। तत्त्वस्य रूपरसादिरहितत्वात्। नाप्यहं मनुष्य इति वा कर्ता भोक्ताऽहमिति वा मानसप्रत्यक्षं तत्त्वबोधकम्। तयोः क्रमेण स्थूलसूक्ष्मदेहविषयत्वात्। यत्त्वहं ब्रह्मेति मानसप्रत्यक्षं तच्छास्त्रजन्यत्वान्नोपनिषदो व्यतिरिक्तम्। नाप्यस्यानुमानं तत्त्वे प्रवर्तते, तद्व्याप्तस्य लिङ्गस्य कस्याप्यभावात्। न हि निर्धर्मके तत्त्वे किंचिल्लिङ्गं संभवति। शक्यमानस्य यस्य कस्यापि लिङ्गस्य पक्षधर्मत्वाभावेनासिद्धत्वप्रसङ्गात्। आगमेऽपि कर्मकाण्डे तत्त्वं न प्रतीयते। तस्मादुपनिषदेव परिशिष्यते। अत एव श्रुतिः प्रत्यक्षादिगम्यत्वं निराकृत्योपनिषदेकगम्यत्वं दर्शयति— “नावेदविन्मनुते तं बृहन्तम्”
१ क. ॰स्य निःश्व॰। २ ख. ग. ॰दीयवि॰। ३ ग. ॰विधत्र॰। ४ क. ॰व्याप्यस्य।
११
८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
[तै०ब्रा० ३।१२।९] इति। “तं त्वौपनिषदं पृच्छामि” [बृ० ३।९।२६] इति च। तथा सत्यनान्यलभ्यमौषधादिकं यथा चिकित्सादिशास्त्रस्य विषयस्तथा तत्त्वमद्वैतमुपनिषदो विषयः। प्रयोजनं चाऽऽत्मतत्त्वाविर्भावादिकम् । तत्र सर्वात्मकपरब्रह्मस्वरूपात्माविर्भावः प्रथमं फलम्। “आत्मनैवाऽऽत्मानं पश्यति” इति श्रुतेः। तत ऊर्ध्वमविद्याग्रन्थिर्विकीर्यते। “एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह नाम्यः” [मु० २।१।१०] इति श्रुतेः । निवृत्तायामावरणाविद्यायामन्तःकरणतादात्म्यग्रन्थिभेदश्चिद्रूपजडरूपत्वादिसंश- यच्छेदो भाविजन्महेतुकर्मक्षयश्च भवति । “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे” [मु० २।२।८] इति श्रुतेः ॥ इह लोकेऽपि हर्षशोकपरित्यागो भवति । “अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्ष शोकौ जहाति” [का० २।१।१२] इति श्रुतेः । तथा काम्यमानस्य सत्यत- त्त्वस्य प्राप्तत्वान्नियमितान्तःकरणत्वेन विषयदर्शनाभावाच्च कामविलयो भवति । “पर्या- प्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः” [मु० ३।२।२] इति श्रुतेः। तथा तस्य द्यूतादिस्थानिनी क्रीडाऽप्यात्मन्येव । संध्यावन्दनाग्निहोत्रादिरूपा क्रियाऽ- प्यात्मन्येव । “आत्मक्रीड आत्मरतिःक्रियावानेष ब्रह्मविदां वरिष्ठः” [मु० ३।१।४] इति श्रुतेः । ईदृशस्य लौकिकवैदिककर्मकर्तव्याभावादयं कृतकृत्यः । “यत्पूर्णानन्दै- कबोधं तद्ब्रह्माहमस्मीति कृतकृत्यो भवति” [परमहं० ३] इति श्रुतेः । “ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । नैवास्ति किंचित्कर्तव्यमस्ति चेन्मानसं तु तत्” इति स्मृतेश्च ॥ एतादृशस्य योगिनः सर्वदा मनसि *विद्यानिमित्त आनन्द आविर्भवति । “रसो वै सः । रसꣳ ह्येवायं लब्ध्वाऽऽनन्दी भवति” [तै० उ० २।७।१] इति श्रुतेः । सेयमुपनिषदः प्रयोजनपरम्परा द्रष्टव्या । संबन्धश्च कर्मकाण्डेन सह साध्यसाधनभावः । उपनिषदि साध्यं तत्त्वज्ञानं प्रतिपाद्यते । कर्मकाण्डे तु चित्तसंस्काराय पापक्षयेण वा विविदिषोत्पाद- नेन वा तानि साधनान्यग्निहोत्रादिकर्माणि प्रतिपादितानि । अत्रैतं यथोक्तसंबन्धमसह- मानाः प्रतिवादिनो बहुधोत्तिष्ठन्ति । तेषां मध्ये केचिद्रूक्षंज्ञाननैरपेक्ष्येणैव मोक्षं वर्ण- यन्ति । निषिद्धकाम्ययोः कर्मणोः सर्वात्मना परित्यागेन भाविनोरुत्तमाधमजन्मनोरसं- भवान्नित्यनैमित्तिकानुष्ठानेन प्रत्यवायानुदयात्प्रारब्धकर्मणो भोगेन विनाशाद्देहान्ते
* विभावित इति क. ख. पुस्तकयोः पाठान्तरम् ।
१ ग. ॰मप्रवि॰। २ क. ख. घ. ॰त्मनेव । ३ ख. ॰होत्ररू॰। ४ क. ख. ॰याऽध्यात्म॰ । ५ क. ख. ॰त्मप्रति॰ । ६ क. ख. वरिष्ठः । ७ क. ख. स्मृतेः । ए॰ । ८ ग. घ. ङ. तादृशस्य । ९ घ. 'दि हि सा' । १० ग. 'नि । तत्रैवं ।
अध्या० १। ख० १] ऐतरेयारण्यकम् । ८३
मुक्तिरेव परिशिष्यत इति । तदयुक्तम् । अनन्तयोर्निषिद्धकाम्ययोः सर्वात्मना परि- त्यागासंभवान्नित्यनैमित्तिकयोरपि फलसद्भावशङ्काज्जन्मान्तरकृतानां च बहुजन्महे- तूनां संभवान्नास्ति ज्ञानमन्तरेण मुक्तिः । अन्ये तु ज्ञानप्राधान्येन वा कर्म- प्राधान्येन वोभयप्राधान्येन वा ज्ञानकर्मणोः समुच्चयो मुक्तिहेतुरित्याहुः । तदयुक्तम् । परस्परविरुद्धयोः समुच्चयासंभवात् । निर्विकारात्मबुद्धिर्ज्ञानम्, अहं कर्ता ममेदं कुलमिति भ्रान्त्या कर्मप्रवृत्तिरिति तयोर्विरोधः । अपरे पुनर्शानस्यैव मुक्तिहेतुत्वेऽपि सोपानपङ्क्त्या हर्म्याधिरोहणन्यायेन संध्यावन्दनमारभ्य सह- स्रसंवत्सरसत्रान्तेषु वैदिकेषु, कर्मस्वनुष्ठितेषु पश्चाज्ज्ञानाधिकारमिच्छन्ति । तदप्य- युक्तम् । अल्पायुषां मनुष्याणां तदसंभवात् । अपरे पुनः प्रपञ्चप्रविलापनेन कर्मका- ण्डस्योपयोगमिच्छन्ति, स्वर्गकामो यजेतेत्युक्ते सत्यर्थाद्देहात्मभावस्य प्रविलाप्यमानत्वा- दिति तदसत् । बकबन्धनप्रयासप्रसङ्गात् । यथा बकबन्धनकामस्तत्समीपे गत्वा तदानीमबद्ध्वा शिरसि नवनीतं प्रक्षिप्पाऽऽतपेन विलीनस्य नवनीतस्य चक्षुष्प्रवेशे सति निमीलितचक्षुष्कं बकं पश्चाद्गृह्णाति तथाऽयं प्रपञ्चप्रविलापवादी साक्षाद्विलाप- कम्—"अस्थूलमणणु"[बृ० ३।८।८] इत्यादिकमुपनिषद्वाक्यमुपेक्ष्य विलापनस्यान- भिधायकेन स्वर्गकामपदेनार्थाद्विलापयतीति व्यर्थोऽयं प्रयासः । एके तु वेदोक्तकृ- त्स्नकर्मभिस्तत्तत्फलेषु भुक्तेषु कामे प्रलीने सति पश्चाज्ज्ञानाधिकार इति वर्णयन्ति । तदप्ययुक्तम् । भोगेन कामलयस्यासंभवात् ।
तथा च स्मर्यते—
"न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मव भूय एवाभिवर्धते" इति ॥
[ भा० आदि० अ० ८९ श्लो० १२ ]
तस्मान्मतान्तराणामयुक्तत्वाज्ज्ञानकर्मणोः साध्यसाधनरूपत्वात्तत्प्रतिपाद्यप्रतिपादक- त्वमेव तयोः संबन्धः । अधिकारी तत्र जिज्ञासुरेव न तु चिकीर्षुः । यश्च चिकीर्षोरधि- कारं मन्यते स प्रष्टव्यः । वेदान्ताधिकारी यत्कार्यं चिकीर्षति तत्किं कार्यसामान्यं किंवा कार्यविशेषः । नाऽऽद्यः । कार्यसामान्यस्य वेदान्तेष्वप्रतीतेः । सत्यज्ञानादि- वाक्येषु कुर्यादितिपदस्यादर्शनात् । विशेषपक्षेऽपि कोऽसौ कर्तव्यो विशेषः किं वासनानां निरोधः किंवा मनसो निरोध उत प्रतिपत्तिराहोस्वित्प्रसंख्यानम् । सर्वथाऽपि
१ क. ख. फलसाधनेन । २ क. ख. ॰जेयुरित्य' । ३ क. ख. ॰मीलव' । ४ ख. घ. ॰श्ववि- लयवां । ५ क. ख. ॰श्वात्साधि॰ । घ. ॰श्वात्सामाधिं । ६ क. ख. ॰गे कामफलस्या॰ । ७ ग. ॰त्तत्प्र- तिरूपत्वात्तत्तत्प्रतिपादकमे॰ । ८ क. ख. ॰पादक्रमे॰ । ९ ग. घ. ङ. ॰री तत्त्वजिं । १० ग. घ. ङ. यस्तु चिं । ११ क ख. ॰नासनिं । १२ ग. ॰स्वित्संख्या॰ ।
८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२द्वितीयारण्यके-
वेदान्तानां कार्यपरत्वं नोपपद्यते । सत्यज्ञानादिवाक्येषु यथोक्तवासनानिरोधादिविधे- रप्रतिभासात् । अनर्थनिवारकत्वेन सुषुप्त्यादौ दृष्टत्वाद्वासनामनोनिरोधावपेक्षिताविति चेत् । एवं तर्हि सुषुप्त्यादिदृष्टान्तेनान्वयव्यतिरेकसिद्धत्वादेतौ शास्त्रेण न विधा- तव्यौ । नापि तृतीयः पक्षः । कर्तुमकर्तुमन्यथा वा कर्तुमशक्यत्वेनापुरुषतन्त्रायाः प्रमाणैकजन्यायाः प्रतिपत्तेर्विध्यसंभवात् । नापि चतुर्थः । शब्दयुक्त्यावृत्तिरूपस्य प्रसंख्यानस्य साक्षात्कारहेतुत्वाभावात् । यथा प्रथमप्रवृत्ते शब्दयुक्ती साक्षात्कारं न जनयत एवमसकृदावृत्तेरपि । तस्मात्कार्यसामान्यस्य कार्यविशेषस्य वा वेदान्तैरप्रति- पाद्यत्वान्न चिकीर्षोरत्राधिकारः, किं तु सिद्धब्रह्मतत्त्वस्यैव प्रतिपाद्यत्वाज्जिज्ञासोरेवात्रा- धिकार इति स्थिरम् । ननु जिज्ञासोरपि वेदान्ताः प्रमिति न जनयन्ति तत्प्रामा- ण्यस्यैवाभावादिति चेत् । तत्र वक्तव्यम् । किं साधकाभावात्प्रामाण्याभाव आहो- स्विद्प्रमाणहेतुसद्भावात् । नाऽऽद्यः । स्वतः प्रामाण्याङ्गीकारेण साधकानपेक्षत्वात् । द्वितीयेऽपि किमबोधकत्वात्प्रामाण्यमुत बाधितत्वादथ वाऽनुवादकत्वात् । नाऽऽद्यः । “आत्मा वा इदमेक एवाग्र आसीत्” [ऐ० आ० २ अ० १ ख० १] इत्याद्यवान्त- रवाक्यानां(णां) “प्रज्ञानं ब्रह्म” [ऐ० २ । १ । ३] इत्यादिमहावाक्यानां च श्रवणमात्रेण बोधोपलम्भात् । कर्मकाण्डोक्तज्योतिष्टोमादिवाक्यवत्पदार्थानां संसर्ग एवात्रावबुध्यते न त्वखण्डार्थ इति चेन्मैवम् । “स एष नेति नेत्यात्मा” [बृहदा०] इत्यादित्वंपदा- र्थशोधकवाक्यैः “अस्थूलमनणु” [बृ० ३ । ८ । ८] इत्यादितत्पदार्थशोधकवाक्यैश्च शोधिततत्त्वंपदार्थस्य पुरुषस्याखण्डार्थत्वावबोधात् । नापि द्वितीयः । प्रत्यक्षानुमान- विधिनिषेधशास्त्रादीनां मायाकल्पितभेदमाश्रित्य चरितार्थानां वास्तवाद्वैतबोधि वेदान्त- बाधकत्वासंभवात् ।
अत एवान्यत्रोक्तम्— “वास्तवे ब्राह्मणे स्वप्ने कलिता शूद्रता यथा । न विरुद्धा तथा भेदो नाद्वैतेन विरुध्यते” [वा० बृ०] इति ॥
नापि तृतीयः । आत्मतत्त्वविषयस्य पुरोवादिनः प्रमाणान्तरस्याभावेनानुवादकत्वा- संभवात् । वेदान्तसिद्धान्तमजानद्भिर्वादिभिर्लौकिकैश्चाहं मनुष्य इत्यादिभिः प्रमाणैः स्वस्वात्मग्रहणादस्ति पुरोवादिप्रमाणमिति चेत् । न । तेषां देहादिविषयत्वेनाऽऽत्मतत्त्व- गोचरत्वं नास्तीति पूर्वमेवानन्यलभ्यं विषयं निरूपयद्भिरस्माभिः प्रतिपादितत्वात् । तस्मात्प्रामाण्यकारणाभावाद्यद्वेदान्तानां स्वतःसिद्धं प्रामाण्यं तत्सुस्थितम् । एवमप्या-
१ ख. 'र्थविचार' । २ ग. सुप्तादौ । ३ क. 'त्वेन परत' । ४ ग. 'विद्यमानत्वा' । ५ क. ख. 'तुलाभा' । ६ ग. 'त्वात्तज्जिज्ञा' । ७ क. ख. स्थितम् । ८ ख. ग. 'वत्तदर्था' । ९ ख. ग. घ. 'तप' । १० ग. 'र्थंतत्त्वाव' । ११ ख. ग. निषेधद्वि' ।
अध्या० १ ख० १] ऐतरेयारण्यकम् । ८५
त्मनः स्वप्रकाशत्वेन घटादिवत्प्रमेयत्वं नास्तीति चेत् । मैवम् । घटादिग्राहकेष्वपि वास्तवेषु ज्ञानेषु न्यायतो विचार्यमाणेष्वात्मन एव प्रमेयत्वात् । तथा हि—यत्प्रमातुमर्हं तत्प्रमेयं तदर्हत्वं चाज्ञातत्वादात्मन एव युज्यते न तु घटादेः । अज्ञानेनाऽऽवृतत्वमज्ञातत्वम् । घटादयस्त्वज्ञानकार्यत्वान्नाज्ञानेनाऽऽवृताः ।
अत एवान्यत्रोक्तम्—
“अज्ञातरज्जुकार्यस्य सर्पस्याज्ञातता न हि ।
अज्ञातब्रह्मकार्यस्य जडस्याज्ञातता कुतः ॥
रज्जुसर्पं न जानामि बोद्धुमिच्छामि मानतः ।
इति व्यवहृतिं प्राज्ञा नाङ्गी कुर्वन्ति केऽपि च ॥
किं चाज्ञातत्वतो लभ्यं तिरोधानं न चेतरत् ।
स्वयमेव तिरोभूते जडे काऽन्या तिरोहितिः ॥
आविर्भूते स्वरूपे तु चैतन्येऽज्ञाननिर्मिता ।
तिरोधानाद्विशेषोऽस्ति शुभ्रवस्त्रे मषी यथा ॥
चन्द्रं मलिनयेद्राहुर्नीलमेघं न तु क्वचित् ।
एवं चैतन्यमज्ञातं जडं त्वज्ञानदेहकम् ॥
अतोऽनुभव एवैको विषयो ज्ञानलक्षणः ।
अक्षादीनां स्वतः सिद्धो यत्र तेषां प्रमाणता ॥
अनुभूतिग्रहायैव प्रवृत्तान्यपि दृष्ट्या ।
सामग्र्याऽखिलमानानि गृह्णन्ति जडसंयुताम् ॥
शुक्तिकाग्रहणायैव प्रवृत्तमपि लोचनम् ।
गृह्णीते रजतोपेतं शुक्त्यंशं दोषयोगतः ॥
वेदान्तेतरसामग्री दृष्टैषा चक्षुरादिका ।
तज्जा धीरत्र गृह्णाति स्फूर्तिं रूपादिंसंयुताम् ॥
एवं च सति विभ्रान्तः कल्पिते रजते धियम् ।
प्रमाणं मनुते यद्वद्रूपाद्यौ मनुजस्तथा ॥
ब्रह्मण्यक्षादिमानत्वमिति न्यायविदां मतम् ।
रूपादावेव तन्मत्वमिति मूढधियो जगुः ” [वाक्यवृ०] इति ॥
१ क. ख. ॰मेयत्वार्हं तच्च ज्ञा॰ । २ क. ॰मल्पत्वत्वं । ३ क. ख. ॰यस्तु ज्ञा॰ । ४ क. ॰ज्ञानता । ५ क. ख. तु चेतनाऽन्येन नि॰ । ६ क. ॰धं तु न क्व॰ । ७ ग. ॰यो ज्ञप्तिल॰ । ८ क. ख. ॰ह्वते जडसंयुतान् । शु॰ । ग. ॰ह्वतेऽखिलसंयुतान् । शु॰। ९ क. प्रामाण्यं । १० क. ख. ॰प्यज्ञादि॰ । ११ ग. ॰न्मानमि॰ । घ. ॰न्मात्रमि॰ ।
८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
नन्वेवं सति विषयत्वनिरूपणाय पूर्वोक्तमनन्यलभ्यत्वं विपर्येतीति चेत् । न । मूढान्प्रत्यनन्यलभ्यत्वोपन्यासात् । ब्रह्मविद्दृष्ट्या तु सर्वैरपि प्रमाणैर्ब्रह्मैव प्रमीयते । अतः प्रमेयत्वं तस्य युक्तम् । किंचाऽऽनन्दस्वरूपत्वेन पुरुषार्थत्वादपि प्रमेयत्वं युक्तम् । तदेवं विषयप्रयोजनसंबन्धाधिकारिप्रमाणप्रमेयाणां सद्भावाद्याख्यातं योग्ये- त्युपनिषद्याख्या प्रारभ्यते । तत्राऽऽदौ परमपुरुषार्थकामिनां श्रोतॄणां तत्साधनरूपं मार्गमुपदिशति—
एष पन्था एतत्कर्मैतद्ब्रह्मैतत्सत्यम् , इति ।
एतच्छब्दः संनिहितमर्थं परामृशति । स च द्विविधोऽतीत आगामी चेति । एष उभयविधोऽपि पन्थाः पुरुषार्थस्य मार्गः । साधनमित्यर्थः । कोऽयमतीतः कश्चाऽऽ- गामीत्यपेक्षायां तदुभयं विस्पष्टं निर्दिश्यते । “ अग्निमीळे ” [ ऋ० सं० म० १ सू० १ ऋ० १ ] इत्यारभ्य “अह्नो रूपमह्नो रूपम् ” [ ऐ० आ० १ अ० ५ ख० ३ ] इत्यन्तेनातीतसंनिहितग्रन्थेन यत्प्रतिपादितं तदेतत्कर्म “ उक्थमुक्थमिति वै प्रजा वदन्ति ” [ ऐ० आ० २ अ० १ ख० २ ] इत्यारभ्य “ आचार्या आचार्याः ” [ ऐ० आ० ३ अ० २ ख० ६ ] इत्यन्तेन संनिहितेनाऽऽरण्यकद्वय- रूपेणोत्तरग्रन्थेन प्रतिपादितं यत्सगुणं निर्गुणं च तदेतद्ब्रह्मैतदुभयमपि पुरुषार्थसाध- नम् । तत्र कर्मशब्देन तद्विषयज्ञानपूर्वकमनुष्ठानं विवक्षितम् । ब्रह्मशब्देन तु तद्विषय- ज्ञानमात्रम् । अत एव मीमांसाभाष्ये भाष्यकारा आहुः—“अभ्युदयफलं धर्मज्ञानं तच्चानुष्ठानापेक्षं निःश्रेयसफलं तु ब्रह्मज्ञानं न चानुष्ठानान्तरापेक्षम्” इति । अतीतानागत- ग्रन्थस्थयोः कर्मब्रह्मणोरुभयोरपि पुरुषार्थहेतुत्वे कुतः काण्डभेद इत्याशङ्क्य वैलक्षण्यं विषयभेदादित्युच्यते । यदेतदुत्तरकाण्डप्रतिपाद्यं ब्रह्म तदेत्सत्यमबाध्यम् । न हि तस्यान्यद्बाधकं प्रमाणं पश्यामः । पूर्वकाण्डोक्तं तु कर्म मिथ्यात्वाद्बाध्यम् । बाधकप्रमाणं च नेह नानाऽस्ति” [बृ० ४ । ४ । १६] इत्यादिकं बहुलमुपलभ्यते । मिथ्यात्वेऽपि धीशुद्धिहेतुत्वादुपादेयमेव ।
यथोक्तस्योभयस्य मार्गत्वं द्रढयितुमयोगव्यावृत्तिमन्ययोगव्यावृत्तिं च विधत्ते—
तस्मान्न प्रमाद्येत्तन्नातीयात् , इति ।
तस्मादुभयविधादाम्नायमार्गात्प्रमादं न कुर्यात् । कर्मानुष्ठानब्रह्मज्ञानयोरसंपादनं प्रमादः । तथा संपादयितुं प्रवृत्तेनाप्यालस्यादिना तत्परित्यागोऽपि प्रमाद एव । तदुभयं न कुर्यात् । अनेनायोगव्यावृत्तिरुक्ता । कृषिवणिज्यादौ वा शास्त्रान्तरसिद्धे चैत्यवन्दनादौ वा पुरुषार्थसाधनत्वबुद्ध्या प्रवृत्तिस्तस्य पूर्वोक्तमार्गतः सोऽयमन्य- योगः, तद्व्यावृत्तिस्तन्नातीयादित्यनेनोच्यते । तत्पूर्वोक्तमार्गरूपमुभयं नातिक्रामेत् ।
१ क. ख. ग. ॰रिप्रमाणप्रप॰ । २ क. ख. ॰तीतो यश्चाऽऽ॰ । ३ क. ख. ॰त्सत्यं न बा॰ ।
४ क. ॰पि बार्थासिद्धि॰ । ख. ॰पि दुर्बोधासिद्धि॰ । ग. ॰पि बाधासिद्धि॰ ।
अध्या० १ ख० १] ऐतरेयारण्यकम् । ८७
तमेवानतिक्रमं स्वपक्षसाधनपरपक्षदूषणाभ्यां द्रढयति— न ह्यत्यायन्पूर्वे येऽत्यायंस्ते परा बभूवुः, इति । पूर्वे महर्षयो व्यासवसिष्ठादयस्तमुक्तं पन्थानं नैवात्यायन्नात्यक्रामन् । ये तु नास्तिका अत्यक्रामंस्ते पराबभूवुः पराभूताः पुरुषार्थाद्भूष्टाः । ब्राह्मणेनोक्तस्यार्थस्य दाढर्याय मन्त्रमुदाहरति— तदुक्तमृषिणा प्रजा ह तिस्रो अत्यायमीयु- र्न्य१न्या अर्कमभितो विविश्रे । बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेशेति, इति । तत्पूर्वोक्तमार्गातिक्रमानतिक्रमयोर्बाधाबाधावित्येतदर्थजातमृषिणा केनचिन्मन्त्रद- र्शिना पुरुषेण तन्मन्त्ररूपया वाचा कयाचिदुक्तम्२ । “प्रजा ह” [ ऋ० सं० म० ८ सू० १०१ ऋ० १४ ] इत्यादिको मन्त्रः । ब्राह्मणक्षत्रियविट्शूद्राः प्रजास्तासां भागचतुष्टयेन भागत्रयवर्तिन्यस्तिस्रः प्रजा वैदिकमार्गश्रद्धारहिताः सत्यो यथो- क्तस्य मार्गस्यात्यायमतिक्रममीयुः प्राप्ताः । लोके३ हि गुरुशास्त्रोपदेशरहितानां बाहु- ल्यमुपलभ्यते तत्प्रसिद्धिज्योतनार्थो हशब्दः । चतुर्थभागेऽवस्थितानां प्रजानां मध्येऽ- न्याः काश्चित्प्रजा अर्कमर्चनीयमग्निमभितो निविविश्रे निविष्टास्तदुपासने प्रवृत्ता इत्यर्थः । भुवनेष्वन्तः सर्वेषु लोकेषु मध्ये बृहत्प्रौढं सर्वजगत्प्रकाशकं ह प्रसिद्ध- मादित्यमण्डलं तस्थौ, तन्मण्डलवर्तिनमप्यन्याः काश्चित्प्रजा अभितो निविष्टा इत्य- न्वयः । पवमानो जगतः शुद्ध्यर्थं सर्वदा संचरन्वायुर्हरितः सर्वा दिश आ विवेश । तमप्यन्या अभितो निविष्टा इत्यन्वयः । इति शब्दो मन्त्रसमाप्त्यर्थः ।
तस्या ऋचः प्रथमपादं व्याचष्टे— प्रजा ह तिस्रो अत्यायमीयुरिति या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानी- मानि वयांसि वङ्गावगधाश्चेरपादाः, इति । ताः पूर्वमन्त्रोक्ता इमा अस्माभिर्द्दिश्यमानाः श्रद्धारहितास्त्रिविधाः प्रजा याः काश्चिद्वैदिकस्यातिक्रमं प्राप्तास्तानि तथाविधप्रजानां शरीराणि तद्दोषफलं भोक्तुं प्रवृ- त्तानीमान्यस्माभिर्द्दिश्यन्ते । सामान्यतः प्रोक्तानां पुनर्वयांसीत्यादिना विशेषनि- र्देशः । वयांसि पक्षिणः काकगृध्रादय आकाशे दृश्यन्ते । सोऽयं पक्षिसंघस्त्रिविधानां
प्रजा ह तिस्रो०—ऋ० सं० म० ८ सू० १०१ ऋ० १४ ।
१ ग. घ. ॰वाति । २ ग. घ. ङ. ॰चित्प्रोक्तं । ३ ग. ॰केऽपि हि । ४ क. घ. ङ. पूर्वोक्त ।
८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
प्रजानामेको भागः । वङ्गा वनगता वृक्षा अवगधा अवन्ति मनुष्यादीन्रक्षन्ति तैर्गृ- ध्यन्तेऽभिकाङ्क्ष्यन्त इति व्रीहियवाद्या ओषधयोऽवगधाः । "गृधु अभिकाङ्क्षा- याम्" इति धातोर्गधशब्दनिष्पत्तिः । सोऽयमोषधिवनस्पतिरूपः प्रजानां द्वितीयो राशिर्भूमौ वर्तते । ईरपादा उर(रः)पादाः सर्पा भूबिलवासिनः सोऽयं तृतीयो राशिः । तदेतत्प्रजात्रयं वैदिकातिक्रमदोषजन्यं नरकमनुभवति ।
द्वितीयपादं व्याचष्टे—
न्य१न्या अर्कमभितो विविश्र इति ता इमाः प्रजा अर्कमभितो निविष्टा इममेवाग्निम्, इति ।
योऽग्निरहवनीयादिरूपो दृश्यतेऽयमेवार्चनीयत्वादर्क इत्यर्थः ।
तृतीयपादं व्याचष्टे—
बृहद्ध तस्थौ भुवनेष्वन्तरित्यद उ एव बृहद्भुवनेष्वन्तरसावादित्यः, इति ।
बृहच्छब्देनाऽऽकाशे दृश्यमानमदस्तजोमण्डलमेव विवक्षितम् । सर्वजगत्प्रकाशक- त्वेन प्रौढत्वात् । तेन च मण्डलेन तत्रावस्थितोऽसावादित्य उपलक्षितः ।
चतुर्थपादं व्याचष्टे—
पवमानो हरित आ विवेशेति वायुरेव पवमानो दिशो हरित आविष्टा, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये प्रथमः खण्डः ॥१॥
पादप्रक्षालननिष्ठिवनादिप्रदेशस्य शोषणेन शुद्धिहेतुत्वादयं वायुरेव पवमान इत्यु- च्यते । प्राच्यादिदिशस्तत्तत्कर्मसु विहिताः सत्योऽनुष्ठानवैकल्यं हरन्तीति हरिच्छब्दे- नोच्यन्ते । वायोर्दिक्षु संचारात्तत्राऽऽविष्टत्वम् । वैदिकातिक्रमं कृतवत्यः प्रजास्त्रिविधा अपि पक्ष्यादिरूपेण नरकजन्मानुभवन्ति, चतुर्थभागवर्तिन्यश्च श्रद्धायुक्ताः सत्य उत्त- मलोकप्राप्त्यर्थमग्निवाय्वादिदेवता उपासत इत्येवं हानिवृद्ध्योर्मन्त्रेणोक्तत्वाद्वैदिकमेतं पन्थानं सर्वथा नातिक्रामेदित्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥
न्यन्या१ अर्कमभितो०—ऋ० सं० म० ८ सू० १०१ ऋ० १४ । बृहद्ध तस्थौ०—ऋ० सं० म० ८ सू० १०१ ऋ० १४ । पवमानो हरित आविवेश०— ऋ० सं० म० ८ सू० १०१ ऋ० १४ ।
१ घ. ङ. वनगा । २ ग. ईरपादा । ३ ख. ग. ॰क्रमे दो॰ । ४ क. ॰वं ज्ञानिवृद्धैर्मै॰ । ग. ॰वं ज्ञानवृद्धैर्मै॰ ।