भारतकोश
संग्रह पर लौटें

अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

Ashtadhyayi Sutrapatha of Maharshi Panini

महर्षि पाणिनि द्वारा

DevanagariSanskritpublished102 पृष्ठ

तृतीयाध्याये तृतीयः पादः २५ ९१ स्वपो नन्। ११५ ल्युट् च। ९२ उपसर्गे घोः किः। ११६ कर्मणि च येन संस्पर्शात् ९३ कर्मण्यधिकरणे च। कर्तुः शरीरसुखम्। ९४ स्त्रियां क्तिन्। ११७ करणाधिकरणयोश्च। ९५ स्थागापापचो भावे। ११८ पुंसि सञ्ज्ञायां घः प्रायेण। ९६ मन्त्रे वृषेषपचमनविदभूवीरा ११९ गोचरसञ्चरवहाव्रजव्यजा- उदात्तः। पण्निगमाश्च। ९७ ऊतियूतिजूतिसातिहेति- १२० अवे तृस्त्रोर्घञ्। कीर्तयश्च। १२१ हलश्च। ९८ व्रजयजोर्भावे क्यप्। १२२ अध्यायन्यायोद्यावसंहाराश्च। ९९ सञ्ज्ञायां समजनिषदनिपत- १२३ उदङ्कोऽनुदके। मनविदषुञ्शीङ्भृञिणः। १२४ जालमानायः। १०० कृञः श च। १२५ खनो घ च। १०१ इच्छा। १२६ ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु १०२ अ प्रत्ययात्। खल्। १०३ गुरोश्च हलः। १२७ कर्तृकर्मणोश्च भूकृञोः। १०४ षिद्भिदादिभ्योऽङ्। १२८ आतो युच्। १०५ चिन्तिपूजिकथिकुम्बिचर्चश्च। १२९ छन्दसि गत्यर्थेभ्यः। १०६ आतश्चोपसर्गे। १३० अन्येभ्योऽपि दृश्यते। १०७ ण्यासश्रन्थो युच्। १३१ वर्तमानसामीप्ये वर्तमानवद् १०८ रोगाख्यायां ण्वुल्बहुलम्। वा। १०९ सञ्ज्ञायाम्। १३२ आशंसायां भूतवच्च। ११० विभाषाख्यान- १३३ क्षिप्रवचने लृट्। परिप्रश्नयोरिञ्च्। १३४ आशंसावचने लिङ्। १११ पर्यायार्हर्णोत्पत्तिषु ण्वुच्। १३५ नानद्यतनवत्क्रियाप्रबन्ध- ११२ आक्रोशे नञ्यनिः। सामीप्ययोः। ११३ कृत्यल्युटो बहुलम्। ११४ नपुंसके भावे क्तः।

२६ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) १३६ भविष्यति मर्यादावचनेऽ- वरस्मिन्। १३७ कालविभागे चानहो- रात्राणाम्। १३८ परस्मिन्विभाषा। १३९ लिङ्निमित्ते लृङ् क्रियातिपत्तौ। १४० भूते च। १४१ वोताप्योः। १४२ गर्हायां लडपिजात्वोः। १४३ विभाषा कथमि लिङ् च। १४४ किंवृत्ते लिङ्लुटौ। १४५ अनवक्लृप्त्यमर्षयोर्किं- वृत्तेऽपि। १४६ किंकिलास्त्यर्थेषु लृट्। १४७ जातुयदोलिङ्। १४८ यच्चयत्रयोः। १४९ गर्हायां च। १५० चित्रीकरणे च। १५१ शेषे लड्यदौ। १५२ उताप्योः समर्थयोर्लिङ्। १५३ कामप्रवेदनेऽकच्चिति। १५४ सम्भावनेऽलमिति चेत्सिद्धाप्रयोगे। १५५ विभाषा धातौ सम्भावन- वचनेऽयदि। १५६ हेतुहेतुमतोर्लिङ्। १५७ इच्छार्थेषु लिङ्लोटौ। १५८ समानकर्तृकेषु तुमुन्। १५९ लिङ् च। १६० इच्छार्थेभ्यो विभाषा वर्तमाने। १६१ विधिनिमन्त्रणामन्त्रणाधीष्ट- सम्प्रश्नप्रार्थनेषु लिङ्। १६२ लोट् च। १६३ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च। १६४ लिङ् चोर्ध्वमौहूर्तिके। १६५ स्मे लोट्। १६६ अधीष्टे च। १६७ कालसमयवेलासु तुमुन्। १६८ लिङ् यदि। १६९ अर्हे कृत्यतृचश्च। १७० आवश्यकाधमर्ण्ययोर्णिनिः। १७१ कृत्याश्च। १७२ शकि लिङ् च। १७३ आशिषि लिङ्लोटौ। १७४ क्तिक्क्तौ च सञ्ज्ञायाम्। १७५ माङि लुङ्। १७६ स्मोत्तरे लङ् च। --०-- चतुर्थः पादः १ धातुसम्बन्धे प्रत्ययाः। २ क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः। ३ समुच्चयेऽन्यतरस्याम्। ४ यथाविध्यनुप्रयोगः पूर्वस्मिन्।

तृतीयाध्याये चतुर्थः पादः २७ ५ समुच्चये सामान्यवचनस्य। २७ अन्यथैवंकथमित्थंसु ६ छन्दसि लुङ्लङ्लिटः। सिद्धाप्रयोगश्चेत्। ७ लिङर्थे लेट्। २८ यथातथयोरसूयाप्रतिवचने। ८ उपसंवादाशङ्कयोश्च। २९ कर्मणि दृशिविदोः साकल्ये। ९ तुमर्थे सेसेनसेऽसेन्क्से- ३० यावति विन्दजीवोः। कसेनध्यैअध्यैन्कध्यैकध्यन्- ३१ चर्मोदरयोः पूरेः। शध्यैशध्यैन्तवैतवेङ्तवेनः। ३२ वर्षप्रमाण ऊलोपश्चास्यान्व- १० प्रयै रोहिष्यै अव्यथिष्यै। तरस्याम्। ११ दृशे विख्ये च। ३३ चेले क्नोपेः। १२ शकि णमुल्कमुलौ। ३४ निमूलसमूलयोः कषः। १३ ईश्वरे तोसुन्कसुनौ। ३५ शुष्कचूर्णरूक्षेषु पिषः। १४ कृत्यार्थे तवैकेन्केन्यत्वनः। ३६ समूलाकृतजीवेषु हन्कृञ्ग्रहः। १५ अवचक्षे च। ३७ करणे हनः। १६ भावलक्षणे स्थेण्वृञ्वदिचरि- ३८ स्नेहने पिषः। हुतमिजनिभ्यस्तोसन्। ३९ हस्ते वर्तिग्रहोः। १७ सृपितृदोः कसुन्। ४० स्वे पुषः। १८ अलङ्खल्वोः प्रतिषेधयोः ४१ अधिकरणे बन्धः। प्राचां क्त्वा। ४२ सञ्ज्ञायाम्। १९ उदीचां माङो व्यतीहारे। ४३ कर्त्रोर्जीवपुरुषयोर्नशिवहोः। २० परावरयोगे च। ४४ ऊर्ध्वे शुषिपूर्वेः। २१ समानकर्तृकयोः पूर्वकाले। ४५ उपमाने कर्मणि च। २२ आभीक्ष्ण्ये णमुल्च। ४६ कषादिषु यथाविध्यनुप्रयोगः। २३ न यद्यनाकाङ्क्षे। ४७ उपदंशस्तृतीयायाम्। २४ विभाषाग्रेप्रथमपूर्वेषु। ४८ हिंसार्थानां च समान- २५ कर्मण्याक्रोशे कृञः खमुञ्। कर्मकाणाम्। २६ स्वादुमि णमुल्। ४९ सप्तम्यां चोपपीडरुधकर्षः। ५० समासत्तौ।

२८ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) [ वामस्तम्भः ] ५१ प्रमाणे च। ५२ अपादाने परीप्सायाम्। ५३ द्वितीयायां च। ५४ स्वाङ्गेऽध्रुवे। ५५ परिक्लिश्यमाने च। ५६ विशिपदिस्कन्दां व्याप्यमाना- सेव्यमानयोः। ५७ अस्यतितृषोः क्रियान्तरे कालेषु। ५८ नाम्यादिशिग्रहोः। ५९ अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ। ६० तिर्यच्यपवर्गे। ६१ स्वाङ्गे तस्प्रत्यये कृभ्वोः। ६२ नाधार्थप्रत्यये च्यर्थे। ६३ तूष्णीमि भुवः। ६४ अन्वच्यानुलोम्ये। ६५ शकधृषज्ञाग्लाघटरभलभक्रम- सहाहार्त्स्यर्थेषु तुमुन्। ६६ पर्याप्तिवचनेष्वलमर्थेषु। ६७ कर्तरि कृत्। ६८ भव्यगेयप्रवचनीयोपस्थानीय- जन्याप्लाव्यापात्या वा। ६९ लः कर्मणि च भावे चाकर्मकेभ्यः। ७० तयोरेव कृत्यक्तखलर्थाः। ७१ आदिकर्मणि क्तः कर्तरि च। [ दक्षिणस्तम्भः ] ७२ गत्यर्थाकर्मकश्लिषशीङ्स्थास- वसजनरुहजीर्यतिभ्यश्च। ७३ दाशगोघ्नौ सम्प्रदाने। ७४ भीमादयोऽपादाने। ७५ ताभ्यामन्यत्रोणादयः। ७६ क्तोऽधिकरणे च ध्रौव्यगति- प्रत्यवसानार्थेभ्यः। ७७ लस्य। ७८ तिप्तस्झिसिप्थस्थमिब्वस्मस्- ताताञ्झथासाथान्ध्वमिड्वहि- महिङ्। ७९ टित आत्मनेपदानां टेरे। ८० थासः से। ८१ लिटस्तझयोरेशिरेच्। ८२ परस्मैपदानां णलतुसुस्थलथुस- णल्वमाः। ८३ विदो लटो वा। ८४ ब्रुवः पञ्चानामादित आहो ब्रुवः। ८५ लोटो लङ्खत्। ८६ एरुः। ८७ सेर्ह्यपिच्च। ८८ वा छन्दसि। ८९ मेर्निः। ९० आमेतः। ९१ सवाभ्यां वामौ। ९२ आडुत्तमस्य पिच्च।

चतुर्थाध्याये प्रथमः पादः २९

९३ एत ऐ। १०५ झस्य रन्। ९४ लेटोऽडाटौ। १०६ इतोऽत्। ९५ आत ऐ। १०७ सुट् तिथ्योः। ९६ वैतोऽन्यत्र। १०८ झेर्जुस्। ९७ इतश्च लोपः परस्मैपदेषु। १०९ सिजभ्यस्तविदिभ्यश्च। ९८ स उत्तमस्य। ११० आतः। ९९ नित्यं ङितः। १११ लङः शाकटायनस्यैव। १०० इतश्च। ११२ द्विषश्च। १०१ तस्थस्थमिपां तान्तन्तामः। ११३ तिङ्शित्सार्वधातुकम्। १०२ लिङः सीयुट्। ११४ आर्धधातुकं शेषः। १०३ यासुट् परस्मैपदेषूदात्तो ११५ लिट् च। ङिच्च। ११६ लिङाशिषि। १०४ किदाशिषि। ११७ छन्दस्युभयथा।


चतुर्थोऽध्यायः

प्रथमः पादः ८ पादोऽन्यतरस्याम्। १ ङ्याप्प्रातिपदिकात्। ९ टाबृचि। २ स्वौजसमौट्छष्टाभ्याम्भिस्- १० न षट्स्वस्रादिभ्यः। ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्- ११ मनः। ङसोसाङ्ङ्योस्सुप्। १२ अनो बहुव्रीहेः। ३ स्त्रियाम्। १३ डाबुभाभ्यामन्यतरस्याम्। ४ अजाद्यतष्टाप्। १४ अनुपसर्जनात्। ५ ऋन्नेभ्यो ङीप्। १५ टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्- ६ उगितश्च। तयप्ठक्ठञ्कञ्क्वरपः। ७ वनो र च। १६ यञश्च।

३० अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) (वामस्तम्भः / Left Column) १७ प्राचां ष्फस्तद्धितः। १८ सर्वत्र लोहितादिकतन्तेभ्यः। १९ कौरव्यमाण्डूकाभ्यां च। २० वयसि प्रथमे। २१ द्विगोः। २२ अपरिमाणबिस्ताचितकम्बल्याभ्यो न तद्धितलुकि। २३ काण्डान्तात्क्षेत्रे। २४ पुरुषात्प्रमाणेऽन्यतरस्याम्। २५ बहुव्रीहेरूधसो ङीष्। २६ सङ्ख्याव्ययादेर्डीप्। २७ दामहायनान्ताच। २८ अन उपधालोपिनोऽन्यतरस्याम्। २९ नित्यं सञ्ज्ञाछन्दसोः। ३० केवलमामकभागधेयपापापर- समानार्यकृतसुमङ्गलभेषजाच्च। ३१ रात्रेश्चाजसौ। ३२ अन्तर्वत्पतिवतोर्नुक्। ३३ पत्युर्नो यज्ञसंयोगे। ३४ विभाषा सपूर्वस्य। ३५ नित्यं सपत्न्यादिषु। ३६ पूतक्रतोरै च। ३७ वृषाकप्यग्निकुसित- कुसीदानामुदात्तः। ३८ मनोरौ वा। ३९ वर्णादनुदात्तात्तोपधात्तो नः। ४० अन्यतो ङीष्। (दक्षिणस्तम्भः / Right Column) ४१ षिद्गौरादिभ्यश्च। ४२ जानपदकुण्डगोणस्थलभाजनाग- कालनीलकुशकामुककबराद् वृत्त्यमत्रावपनाकृत्रिमाश्राणा- स्थौल्यवर्णानाच्छादनायो- विकारमैथुनेच्छाकेशवेशेषु। ४३ शोणात्प्राचाम्। ४४ वोतो गुणवचनात्। ४५ बह्वादिभ्यश्च। ४६ नित्यं छन्दसि। ४७ भुवश्च। ४८ पुंयोगादाख्यायाम्। ४९ इन्द्रवरुणभवशर्वरुद्रमृड- हिमारण्ययवयवनमातुला- चार्याणामानुक्। ५० क्रीतात्करणपूर्वात्। ५१ क्तादल्पाख्यायाम्। ५२ बहुव्रीहेश्चान्तोदात्तात्। ५३ अस्वाङ्गपूर्वपदाद् वा। ५४ स्वाङ्गाच्चोपसर्जनाद- संयोगोपधात्। ५५ नासिकोदरौष्ठजङ्घादन्तकर्ण- शृङ्गाच्च। ५६ न क्रोडादिबह्वचः। ५७ सह्नञ्विद्यमानपूर्वाच्च। ५८ नखमुखात्सञ्ज्ञायाम्। ५९ दीर्घजिह्वी चच्छन्दसि।

चतुर्थाध्याये प्रथमः पादः ३१ ६० दिक्पूर्वपदान्ङीप्। ८५ दित्यदित्यादित्यपत्युत्तर- ६१ वाहः। पदान्ण्यः। ६२ सख्यशिश्वीति भाषायाम्। ८६ उत्सादिभ्योऽञ्। ६३ जातेरस्त्रीविषयादयोपधात्। ८७ स्त्रीपुंसाभ्यां नञ्स्नञौ ६४ पाककर्णपर्णपुष्पफलमूल- भवनात्। वालोत्तरपदाच्च। ८८ द्विगोर्लुगनपत्ये। ६५ इतो मनुष्यजातेः। ८९ गोत्रेऽलुगचि। ६६ ऊङुतः। ९० यूनि लुक्। ६७ बाह्वन्तात्संज्ञायाम्। ९१ फक्फिञोरन्यतरस्याम्। ६८ पङ्गोश्च। ९२ तस्यापत्यम्। ६९ ऊरूत्तरपदादौपम्ये। ९३ एको गोत्रे। ७० संहितशफलक्षणवामादेश्च। ९४ गोत्राद् यून्यस्त्रियाम्। ७१ कद्रुकमण्डल्वोश्छन्दसि। ९५ अत इञ्। ७२ संज्ञायाम्। ९६ बाह्वादिभ्यश्च। ७३ शार्ङ्गरवाद्यञो ङीन्। ९७ सुधातरकङ् च। ७४ यङश्चाप्। ९८ गोत्रे कुञ्जादिभ्यश्स्फञ्। ७५ आवट्याच्च। ९९ नडादिभ्यः फक्। ७६ तद्धिताः। १०० हरितादिभ्योऽञः। ७७ यूनस्तिः। १०१ यञिञोश्च। ७८ अणिञोरनार्षयोर्गुरूपोत्तमयोः १०२ शरद्च्छुनकदर्भाद् ष्यङ् गोत्रे। भृगुवत्साग्रायणेषु। ७९ गोत्रावयवात्। १०३ द्रोणपर्वतजीवन्तादन्य- ८० क्रौड्यादिभ्यश्च। तरस्याम्। ८१ दैवयज्ञिशौचिवृक्षिसात्यमुग्रि- १०४ अनृष्यानन्तर्ये काण्ठेविद्धिभ्योऽन्यतरस्याम्। बिदादिभ्योऽञ्। ८२ समर्थानां प्रथमाद् वा। १०५ गर्गादिभ्यो यञ्। ८३ प्राग्दीव्यतोऽण्। १०६ मधुबभ्रवोर्ब्राह्मणकौशिकयोः। ८४ अश्वपत्यादिभ्यश्च। १०७ कपिबोधादाङ्गिरसे।

३२ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) १०८ वतण्डाच्च। | १३३ ढकि लोपः। १०९ लुक्स्त्रियाम्। | १३४ मातृष्वसुश्च। ११० अश्वादिभ्यः फञ्। | १३५ चतुष्पाद्भ्यो ढञ्। १११ भर्गात्त्रैगर्तें। | १३६ गृष्ट्यादिभ्यश्च। ११२ शिवादिभ्योऽण्। | १३७ राजश्वशुराद् यत्। ११३ अवृद्धाभ्यो नदीमानुषीभ्यस् | १३८ क्षत्राद् घः। तन्नामिकाभ्यः। | १३९ कुलात्खः। ११४ ऋष्यन्धकवृष्णिकुरुभ्यश्च। | १४० अपूर्वपदान्यतरस्यां ११५ मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः। | यड्ढकञौ। ११६ कन्यायाः कनीन च। | १४१ महाकुलादञ्खञौ। ११७ विकर्णशुङ्गच्छगलाद् | १४२ दुष्कुलाड् ढक्। वत्सभरद्वाजात्रिषु। | १४३ स्वसुश्छः। ११८ पीलाया वा। | १४४ भ्रातुर्व्यच्च। ११९ ढक्च मण्डूकात्। | १४५ व्यन्सपत्ने। १२० स्त्रीभ्यो ढक्। | १४६ रेवत्यादिभ्यष्ठक्। १२१ द्व्यचः। | १४७ गोत्रस्त्रियाः कुत्सने ण च। १२२ इतश्चानिञः। | १४८ वृद्धाद् ढक्सौवीरेषु १२३ शुभ्रादिभ्यश्च। | बहुलम्। १२४ विकर्णकुषीतकात्काश्यपे। | १४९ फेश्छ च। १२५ भ्रुवो वुक्च। | १५० फाण्टाहृतिमताभ्यां १२६ कल्याण्यादीनामिनङ्। | णफिञौ। १२७ कुलटाया वा। | १५१ कुर्वादिभ्यो ण्यः। १२८ चटकाया ऐरक्। | १५२ सेनान्तलक्षणकारिभ्यश्च। १२९ गोधाया ढ्रक्। | १५३ उदीचामिञ्। १३० आरगुदीचाम्। | १५४ तिकादिभ्यः फिञ्। १३१ क्षुद्राभ्यो वा। | १५५ कौसल्यकार्मार्याभ्यां च। १३२ पितृष्वसुश्छण्। | १५६ अणो द्व्यचः। | १५७ उदीचां वृद्धादगोत्रात्।

३. तृतीयोऽध्यायः (कृदन्त एवं धातु-प्रत्यय पाद १-४)

चतुर्थाध्याये द्वितीयः पादः ३३

१५८ वाकिनादीनां कुक् च। १५९ पुत्रान्तादन्यतरस्याम्। १६० प्राचां वृद्धात्फिन्बहुलम्। १६१ मनोजातावञ्यतौ ष्युक्च। १६२ अपत्यं पौत्रप्रभृति गोत्रम्। १६३ जीवति तु वंश्ये युवा। १६४ भ्रातरि च ज्यायसि। १६५ वान्यस्मिन्सपिण्डे स्थविरतरे जीवति। १६६ जनपदशब्दात्क्षत्रियादञ्। १६७ साल्वेयगान्धारिभ्यां च। १६८ द्व्यञ्मगधकलिङ्गसूरमसादण्। १६९ वृद्धेत्कोसलाजादाञ्ज्यङ्। १७० कुरुनादिभ्यो ण्यः। १७१ साल्वावयवप्रत्यग्रथकल- कूटाश्मकादिञ्। १७२ ते तद्राजाः। १७३ कम्बोजाल्लुक्। १७४ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च। १७५ अतश्च। १७६ न प्राच्यभर्गादि- यौधेयादिभ्यः। -- ० -- द्वितीयः पादः १ तेन रक्तं रागात्। २ लाक्षारोचनाट् ठक्। ३ नक्षत्रेण युक्तः कालः। ४ लुब्विशेषे। ५ सञ्ज्ञायां श्रवणाश्वत्थाभ्याम्। ६ द्वन्द्वाच्छः। ७ दृष्टं साम। ८ वामदेवाड् ड्यड् ड्यौ। ९ परिवृतो रथः। १० पाण्डुकम्बलादिनिः। ११ द्वैपवैयाघ्रादञ्। १२ कौमारापूर्ववचने। १३ तत्रोद्धृतममत्रेभ्यः। १४ स्थण्डिलाच्छयितरि व्रते। १५ संस्कृतं भक्षाः। १६ शूलोखाद् यत्। १७ दध्नष्ठक्। १८ उदश्वितोऽन्यतरस्याम्। १९ क्षीराड् ढञ्। २० सास्मिन्पौर्णमासीति। २१ आग्रहायण्यश्वत्थाट् ठक्। २२ विभाषा फाल्गुनीश्रवणा- कार्त्तिकीचैत्रीभ्यः। २३ सास्य देवता। २४ कस्येत्। २५ शुक्राद् घन्। २६ अपोनप्तृपानप्तृभ्यां घः।

३४ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) २७ छ च। २८ महेन्द्राद् घाणौ च। २९ सोमाट् ट्यण्। ३० वाय्वृतुपित्रुषसो यत्। ३१ द्यावापृथिवीशुनासीर- मरुत्वदग्नीषोमवास्तोष्- पतिगृहमेधाच्च च। ३२ अग्नेर्ढक्। ३३ कालेभ्यो भववत्। ३४ महाराजप्रोष्ठपदाट् ठञ्। ३५ पितृव्यमातुलमातामह- पितामहाः। ३६ तस्य समूहः। ३७ भिक्षादिभ्योऽण्। ३८ गोत्रोक्षोष्ट्रोरभ्रराजन्यराज- पुत्रवत्समनुष्याजाद् वुञ्। ३९ केदाराद् यञ्ञ्च। ४० ठञ्कवचिनश्च। ४१ ब्राह्मणमाणववाडवाद् यन्। ४२ ग्रामजनबन्धुभ्यस्तल्। ४३ अनुदात्तादेरञ्। ४४ खण्डिकादिभ्यश्च। ४५ चरणेभ्यो धर्मवत्। ४६ अचित्तहस्तिधेनोष्ठक्। ४७ केशाश्वाभ्यां यञ्छावन्य- तरस्याम्। ४८ पाशादिभ्यो यः। ४९ खलगोरथात्। ५० इनित्रकट्यचश्च। ५१ विषयो देशे। ५२ राजन्यादिभ्यो वुञ्। ५३ भौरिक्याद्यैषुकार्यादिभ्यो विधलभक्तलौ। ५४ सोऽस्यादिरितिच्छन्दसः प्रगाथेषु। ५५ सङ्ग्रामे प्रयोजनयोद्धृभ्यः। ५६ तदस्यां प्रहरणमिति क्रीडायां णः। ५७ घञः सास्यां क्रियेति ञः। ५८ तदधीते तद् वेद। ५९ क्रतूकथादिसूत्रान्ताट् ठक्। ६० क्रमादिभ्यो वुन्। ६१ अनुब्राह्मणादिनिः। ६२ वसन्तादिभ्यष्ठक्। ६३ प्रोक्ताल्लुक्। ६४ सूत्राच्च कोपधात्। ६५ छन्दोब्राह्मणानि च तद्विषयाणि। ६६ तदस्मिन्नस्तीति देशे तन्नाम्नि। ६७ तेन निर्वृत्तम्। ६८ तस्य निवासः। ६९ अदूरभवश्च। ७० ओरञ्। ७१ मतोश्च बह्वजङ्गात्।

चतुर्थाध्याये द्वितीयः पादः ३५ ७२ बह्वचः कूपेषु। ९४ कत्र्यादिभ्यो ढकञ्। ७३ उदक् च विपाशः। ९५ कुलकुक्षिग्रीवाभ्यः ७४ सङ्कलादिभ्यश्च। श्वास्यालङ्कारेषु। ७५ स्त्रीषु सौवीरसाल्वप्राक्षु। ९६ नद्यादिभ्यो ढक्। ७६ सुवास्त्वादिभ्योऽण्। ९७ दक्षिणापश्चात्पुरसस्त्यक्। ७७ रोणी। ९८ कापिश्याः ष्फक्। ७८ कोपधाच्च। ९९ रङ्कोरमनुष्येऽण् च। ७९ वुञ्छण्कठजिलसेनिरढञ्ण्यय- १०० द्युप्रागपागुदक्प्रतीचो यत्। फविफजिञ्ञ्यकक्ठकोडीहण- १०१ कन्थायाष्ठक्। कृशाश्वर्श्यकुमुदकाशतृण- १०२ वर्णौ वुक्। प्रेक्षाश्मसखिसङ्काशबलपक्ष- १०३ अव्ययात्त्यप्। कर्णसुतङ्गमप्रगदिन्वराह- १०४ ऐषमोह्णःश्वसोऽन्यतरस्याम्। कुमुदादिभ्यः। १०५ तीररूप्योत्तरपदादञ्ञौ। ८० जनपदे लुप्। १०६ दिक्पूर्वपदादसञ्ज्ञायां ञः। ८१ वरणादिभ्यश्च। १०७ मद्रेभ्योऽञ्। ८२ शर्कराया वा। १०८ उदीच्यग्रामाच्च ८३ ठञ्छौ च। बह्वचोऽन्तोदात्तात्। ८४ नद्यां मतुप्। १०९ प्रस्थोत्तरपदपलद्यादिकोप- ८५ मध्वादिभ्यश्च। धादण्। ८६ कुमुदनडवेतसेभ्यो ड्मतुप्। ११० कण्वादिभ्यो गोत्रे। ८७ नडशादाड् ड्वलच्। १११ इजश्च। ८८ शिखाया वलच्। ११२ न द्व्यचः प्राच्यभरतेषु। ८९ उत्करादिभ्यश्छः। ११३ वृद्धाच्छः। ९० नडादीनां कुक् च। ११४ भवतष्ठक्छसौ। ९१ शेषे। ११५ काश्यादिभ्यष्ठञ्ञिठौ। ९२ राष्ट्रावारपाराद् घखौ। ११६ वाहीकग्रामेभ्यश्च। ९३ ग्रामाद् यखञौ। ११७ विभाषोशीनरेषु।

३६ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ११८ ओर्देशे ठञ्। ११९ वृद्धात्प्राचाम्। १२० धन्वयोपधाद् वुञ्। १२१ प्रस्थपुरवहान्ताच्च। १२२ रोपधेतोः प्राचाम्। १२३ जनपदतदवध्योश्च। १२४ अवृद्धादपि बहुवचनविषयात्। १२५ कच्छाग्निवक्त्रगर्तोत्तर- पदात्। १२६ धूमादिभ्यश्च। १२७ नगरात्कुत्सनप्रावीण्‍ययोः। १२८ अरण्यान्मनुष्ये। १२९ विभाषा कुरुयुगन्धराभ्याम्। १३० मद्रवृज्योः कन्। १३१ कोपधादण्। १३२ कच्छादिभ्यश्च। १३३ मनुष्यतत्स्थयोर्वुञ्। १३४ अपदातौ साल्वात्। १३५ गोयवाग्वोश्च। १३६ गर्तोत्तरपदाच्छः। १३७ गहादिभ्यश्च। १३८ प्राचां कटादेः। १३९ राज्ञः क च। १४० वृद्धादकेकान्तखोपधात्। १४१ कन्थापलदनगरग्रामह्रदोत्तर- पदात्। १४२ पर्वताच्च। १४३ विभाषामनुष्ये। १४४ कृकणपर्णाद् भारद्वाजे। --०-- तृतीयः पादः १ युष्मदस्मदोरन्यतरस्यां खञ् च। २ तस्मिन्नणि च युष्माकास्माकौ। ३ तवकममकावेकवचने। ४ अर्धाद् यत्। ५ परावराधमोत्तमपूर्वाच्च। ६ दिक्पूर्वपदाट् ठञ् च। ७ ग्रामजनपदैकदेशादट्ठञौ। ८ मध्यान्मः। ९ अ साम्प्रतिके। १० द्वीपादनुसमुद्रं यञ्। ११ कालाट् ठञ्। १२ श्राद्धे शरदः। १३ विभाषा रोगातपयोः। १४ निशाप्रदोषाभ्यां च। १५ श्वसस्तुट् च। १६ सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्। १७ प्रावृष एण्यः। १८ वर्षाभ्यष्ठक्। १९ छन्दसि ठञ्। २० वसन्ताच्च। २१ हेमन्ताच्च। २२ सर्वत्राण्च तलोपश्च।

चतुर्थाध्याये तृतीयः पादः ३७ (वामस्तम्भः) २३ सायञ्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष् ट्युट्युलौ तुट् च। २४ विभाषा पूर्वाह्णा- पराह्णाभ्याम्। २५ तत्र जातः। २६ प्रावृषष्ठप्। २७ सञ्ज्ञायां शरदो वुञ्। २८ पूर्वाह्णापराह्णार्द्रामूलप्रदोषाव- स्कराद् वुन्। २९ पथः पन्थ च। ३० अमावास्याया वा। ३१ अ च। ३२ सिन्ध्वपकराभ्यां कन्। ३३ अणञौ च। ३४ श्रविष्ठाफल्गुन्यनुराधास्वाति- तिष्यपुनर्वसुहस्तविशाखाषाढा- बहुलाल्लुक्। ३५ स्थानान्तगोशालखरशालाच्च। ३६ वत्सशालाभिजिदश्वयुक्तशत- भिषजो वा। ३७ नक्षत्रेभ्यो बहुलम्। ३८ कृतलब्धक्रीतकुशलाः। ३९ प्रायभवः। ४० उपजानूपकर्णोपनीवेष्ठक्। ४१ सम्भूते। ४२ कोशाड् ढञ्। ४३ कालात्साधुपुष्यत्पच्यमानेषु। (दक्षिणस्तम्भः) ४४ उप्ते च। ४५ आश्वयुज्या वुञ्। ४६ ग्रीष्मवसन्तादन्यतरस्याम्। ४७ देयमृणे। ४८ कलाप्यश्वत्थयवबुसाद् वुन्। ४९ ग्रीष्मावरसमाद् वुञ्। ५० संवत्सराग्रहायणीभ्यां ठञ्। ५१ व्याहरति मृगः। ५२ तदस्य सोढम्। ५३ तत्र भवः। ५४ दिगादिभ्यो यत्। ५५ शरीरावयवाच्च। ५६ दृतिकुक्षिकराशिश्रो- वस्त्यस्त्यहेर्ढञ्। ५७ ग्रीवाभ्योऽण् च। ५८ गम्भीराञ्ञ्यः। ५९ अव्ययीभावाच्च। ६० अन्तःपूर्वपदात् ठञ्। ६१ ग्रामात्पर्य्यनुपूर्वात्। ६२ जिह्वामूलाङ्गुलेश्छः। ६३ वर्गान्ताच्च। ६४ अशब्दे यत्खावन्यतरस्याम्। ६५ कर्णललाटात्कनलङ्कारे। ६६ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः। ६७ बह्वचोऽन्तोदात्तात् ठञ्।

३८ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ६८ ऋतुयज्ञेभ्यश्च। ६९ अध्यायेष्ववर्षेः। ७० पौरोडाशपुरोडाशात्ष्ठन्। ७१ छन्दसो यदणौ। ७२ द्व्यज्यूर्ध्वब्राह्मणार्कप्रथमाध्वर- पुरश्चरणनामाख्याताट् ठक्। ७३ अणूगयनादिभ्यः। ७४ तत आगतः। ७५ ठगायस्थानेभ्यः। ७६ शुण्डिकादिभ्योऽण्। ७७ विद्यायोनिसम्बन्धेभ्यो वुञ्। ७८ ऋतष्ठञ्। ७९ पितुर्यच्च। ८० गोत्रादङ्कवत्। ८१ हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः। ८२ मयट् च। ८३ प्रभवति। ८४ विदूराञ्ञ्यः। ८५ तद् गच्छति पथिदूतयोः। ८६ अभिनिष्क्रामति द्वारम्। ८७ अधिकृत्य कृते ग्रन्थे। ८८ शिशुकन्दनयमसभाद्वन्द्वेन्द्र- जननादिभ्यश्छः। ८९ सोऽस्य निवासः। ९० अभिजनश्च। ९१ आयुधजीविभ्यश्छः पर्वते। ९२ शण्डिकादिभ्यो ञ्यः। ९३ सिन्धुतक्षशिलादिभ्योऽणञौ। ९४ तूदीशलातुरवर्मतीकूचवाराड् ढक्छण्ढञ्यकः। ९५ भक्तिः। ९६ अचित्ताद्देशकालाट् ठक्। ९७ महाराज्ञाट् ठञ्। ९८ वासुदेवार्जुनाभ्यां वुन्। ९९ गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्। १०० जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने। १०१ तेन प्रोक्तम्। १०२ तित्तिरिबरतन्तुखण्डिकोखाच् छण्। १०३ काश्यपकौशिकाभ्यामृषिभ्यां णिनिः। १०४ कलापिवैशम्पायनान्ते- वासिभ्यश्च। १०५ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु। १०६ शौनकादिभ्यश्छन्दसि। १०७ कठचरकाल्लुक्। १०८ कलापिनोऽण्। १०९ छगलिनो ढिनुक्। ११० पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः। १११ कर्मन्दकृशाश्वादिनिः।

चतुर्थाध्याये तृतीयः पादः ३९

११२ तेनैकदिक्। ११३ तसिश्च। ११४ उरसो यच्च। ११५ उपज्ञाते। ११६ कृते ग्रन्थे। ११७ सञ्ज्ञायाम्। ११८ कुलालादिभ्यो वुञ्। ११९ क्षुद्राभ्रमरवटरपादपादञ्। १२० तस्येदम्। १२१ रथाद् यत्। १२२ पत्रपूर्वादञ्। १२३ पत्राध्वर्युपरिषदश्च। १२४ हलसीराट् ठक्। १२५ द्वन्द्वाद् वुन्वैरमैथुनिकयोः। १२६ गोत्रचरणाद् वुञ्। १२७ सङ्घाङ्कलक्षणेष्वञ्- यञिञामण्। १२८ शकलाद् वा। १२९ छन्दोगौक्थिकयाज्ञिकबह्वृच- नटाञ्ञ्यः। १३० न दण्डमाणवान्तेवासिषु। १३१ रैवतिकादिभ्यश्छः। १३२ तस्य विकारः। १३३ अवयवे च प्राण्योषधि- वृक्षेभ्यः। १३४ बिल्वादिभ्योऽण्। १३५ कोपधाच्च।

१३६ त्रपुजतुनोः षुक्। १३७ ओरञ्। १३८ अनुदात्तादेश्च। १३९ पलाशादिभ्यो वा। १४० शम्याष्ट्लञ्। १४१ मयड् वैतयोर्भाषायां- भक्ष्याच्छादनयोः। १४२ नित्यं वृद्धशरादिभ्यः। १४३ गोश्च पुरीषे। १४४ पिष्टाच्च। १४५ सञ्ज्ञायां कन्। १४६ व्रीहेः पुरोडाशे। १४७ असञ्ज्ञायां तिल- यवाभ्याम्। १४८ द्व्यचश्छन्दसि। १४९ नोत्वदूर्ध्वबिल्वात्। १५० तालादिभ्योऽण्। १५१ जातरूपेभ्यः परिमाणे। १५२ प्राणिरजतादिभ्योऽञ्। १५३ ञितश्च तत्प्रत्ययात्। १५४ क्रीतवत्परिमाणात्। १५५ उष्ट्राद् वुञ्। १५६ उमौर्णयोर्वा। १५७ एण्या ढञ्। १५८ गोपयसोर्यत्। १५९ द्रोश्च। १६० माने वयः।

४० अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) १६१ फले लुक्। १६२ प्लक्षादिभ्योऽण्। १६३ जम्ब्वा वा। १६४ लुप् च। १६५ हरीतक्यादिभ्यश्च। १६६ कंसीयपरश्वयोर्यञ्ञौ लुक्च। --०-- चतुर्थः पादः १ प्राग्वहतेष्ठक्। २ तेन दीव्यति खनति जयति जितम्। ३ संस्कृतम्। ४ कुलत्थकोपधादण्। ५ तरति। ६ गोपुच्छाट् ठञ्। ७ नौद्व्यचष्ठन्। ८ चरति। ९ आकर्षात्ष्वन्। १० पर्पादिभ्यः ष्ठन्। ११ श्वगणाट् ठञ्च। १२ वेतनादिभ्यो जीवति। १३ वस्नक्रयविक्रयाट् ठन्। १४ आयुधाच्छ च। १५ हरत्युत्सङ्गादिभ्यः। १६ भस्त्रादिभ्यः ष्ठन्। १७ विभाषा विवधात्। १८ अण् कुटिलिकायाः। १९ निर्वृत्तेऽक्षद्यूतादिभ्यः। २० त्रेर्मन्नित्यम्। २१ अपमित्ययाचिताभ्यां कक्कनौ। २२ संसृष्टे। २३ चूर्णादिनिः। २४ लवणाल्लुक्। २५ मुद्गादण्। २६ व्यञ्जनैरुपसिक्ते। २७ ओजःसहोऽम्भसा वर्तते। २८ तत्प्रत्यनुपूर्वमीपलोमकूलम्। २९ परिमुखं च। ३० प्रयच्छति गर्ह्यम्। ३१ कुसीद्दशैकादशात्ष्ठन्ष्ठचौ। ३२ उञ्छति। ३३ रक्षति। ३४ शब्ददर्दुरं करोति। ३५ पक्षिमत्स्यमृगान् हन्ति। ३६ परिपन्थं च तिष्ठति। ३७ माथोत्तरपदपदव्यनुपदं धावति। ३८ आक्रन्दात् ठञ्च। ३९ पदोत्तरपदं गृह्णाति। ४० प्रतिकण्ठार्थललामं च। ४१ धर्मं चरति। ४२ प्रतिपथमेति ठंश्च। ४३ समवायान्समवैति।

चतुर्थाध्याये चतुर्थः पादः ४१ ४४ परिषदो ण्यः। ४५ सेनाया वा। ४६ सञ्ज्ञायां ललाटकुकुट्यौ पश्यति। ४७ तस्य धर्म्यम्। ४८ अण्महिष्यादिभ्यः। ४९ ऋतोऽञ्। ५० अवक्रयः। ५१ तदस्य पण्यम्। ५२ लवणाट् ठञ्। ५३ किशरादिभ्यः ष्ठन्। ५४ शलालुनोऽन्यतरस्याम्। ५५ शिल्पम्। ५६ मड्डुकझर्झरादण्यतरस्याम्। ५७ प्रहरणम्। ५८ परश्वधाट् ठञ्च। ५९ शक्तियष्ट्योरीकक्। ६० अस्तिनास्तिदिष्टं मतिः। ६१ शीलम्। ६२ छत्रादिभ्यो णः। ६३ कर्माध्ययने वृत्तम्। ६४ बह्वच्पूर्वपदाट् ठञ्। ६५ हितं भक्षाः। ६६ तदस्मै दीयते नियुक्तम्। ६७ श्राणामांसौदनाट् टिठन्। ६८ भक्तादण्यतरस्याम्। ६९ तत्र नियुक्तः। ७० अगारान्ताट् ठन्। ७१ अध्यायिन्यदेशकालात्। ७२ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति। ७३ निकटे वसति। ७४ आवसथात्ष्ठल्। ७५ प्राग्घिताद् यत्। ७६ तद् वहति रथयुगप्रासङ्गम्। ७७ धुरो यड्ढकौ। ७८ खः सर्वधुरात्। ७९ एकधुराल्लुकच। ८० शकटादण्। ८१ हलसीराट् ठक्। ८२ सञ्ज्ञायां जन्याः। ८३ विध्यत्यधनुषा। ८४ धनगणं लब्धा। ८५ अन्नाण्णः। ८६ वशं गतः। ८७ पदमस्मिन्दृश्यम्। ८८ मूलमस्याबर्हि। ८९ सञ्ज्ञायां धेनुष्या। ९० गृहपतिना संयुक्ते ञ्यः। ९१ नौवयोधर्मविषमूलमूलसीता- तुलाभ्यस्तार्यतुल्यप्राप्यवध्या- नाम्यसमसमितसम्मितेषु। ९२ धर्मपथ्यर्थन्यायादनपेते। ९३ छन्दसो निर्मिते।

४२ अष्टाध्यायीसूत्रपाठः (यतिबोधसहितः) ९४ उरसोऽण्च। | १२० दूतस्य भागकर्मणी। ९५ हृदयस्य प्रियः। | १२१ रक्षोयातूनां हननी। ९६ बन्धने चर्षौ। | १२२ रेवतीजगतीहविष्याभ्यः ९७ मतजनहलात्करणजल्पकर्षेषु। | प्रशस्ये। ९८ तत्र साधुः। | १२३ असुरस्य स्वम्। ९९ प्रतिजनादिभ्यः खञ्। | १२४ मायायामण्। १०० भक्ताण्णः। | १२५ तद्भानासामुपधानो मन्त्र १०१ परिषदो ण्यः। | इतीष्टकासु लुक्च मतोः। १०२ कथादिभ्यष्ठक्। | १२६ अश्विमानण्। १०३ गुडादिभ्यष्ठञ्। | १२७ वयस्यासु मूर्ध्नो मतुप्। १०४ पथ्यतिथिवसतिस्वपतेर्डञ्। | १२८ मत्वर्थे मासतन्वोः। १०५ सभाया यः। | १२९ मधोर्ज च। १०६ ढश्छन्दसि। | १३० ओजसोऽहनि यत्खौ। १०७ समानतीर्थे वासी। | १३१ वेशोयशआदेर्भगाद् यल्। १०८ समानोदरे शयित ओ | १३२ ख च। चोदात्तः। | १३३ पूर्वैः कृतमिन्यौ च। १०९ सोदराद् यः। | १३४ अद्भिः संस्कृतम्। ११० भवे छन्दसि। | १३५ सहस्रेण सम्मितौ घः। १११ पाथोनदीभ्यां ड्यण्। | १३६ मतौ च। ११२ वेशन्तहिमवद्भ्यामण्। | १३७ सोममर्हति यः। ११३ स्रोतसो विभाषा ड्यड्ढ्यौ। | १३८ मये च। ११४ सगर्भसयूथसनुताद् यन्। | १३९ मधोः। ११५ तुग्राद् घन्। | १४० वसोः समूहे च। ११६ अग्राद् यत्। | १४१ नक्षत्राद् घः। ११७ घच्छौ च। | १४२ सर्वदेवात्तातिल्। ११८ समुद्राभ्राद् घः। | १४३ शिवशमरिष्टस्य करे। ११९ बर्हिषि दत्तम्। | १४४ भावे च।

पञ्चमाध्याये प्रथमः पादः ४३ पञ्चमोऽध्यायः

प्रथमः पादः १ प्राक्क्रीताच्छः। २ उगवादिभ्यो यत्। ३ कम्बलाच्च सञ्ज्ञायाम्। ४ विभाषा हविरपूपदिभ्यः। ५ तस्मै हितम्। ६ शरीरावयवाद् यत्। ७ खलयवमाषतिलवृषब्रह्मणश्च। ८ अजाविभ्यां थ्यन्। ९ आत्मन्विश्वजनभोगोत्तरपदात्खः। १० सर्वपुरुषाभ्यां णढञौ। ११ माणवचरकाभ्यां खञ्। १२ तदर्थं विकृतेः प्रकृतौ। १३ छदिरुपधिबलेर्ढञ्। १४ ऋषभोपानहोज्र्यः। १५ चर्मणोऽञ्। १६ तदस्य तदस्मिन्स्यादिति। १७ परिखाया ढञ्। १८ प्राग्वतेष्ठञ्। १९ आर्हाद्गोपुच्छसङ्ख्यापरिमाणाट् ठक्। २० असमासे निष्कादिभ्यः। २१ शताच्च ठन्यतावशते। २२ सङ्ख्याया अतिशदन्तायाः कन्। २३ वतोरिड् वा। २४ विंशतित्रिंशद्भ्यां ड्वुन्नसञ्ज्ञायाम्। २५ कंसाट् टिट्ठन्। २६ शूर्पादजन्यतरस्याम्। २७ शतमानविंशतिकसहस्रवसनादण्। २८ अध्यर्धपूर्वद्विगोर्लुगसञ्ज्ञायाम्। २९ विभाषा कार्षापणसहस्राभ्याम्। ३० द्वित्रिपूर्वान्निष्कात्। ३१ बिस्ताच्च। ३२ विंशतिकात्खः। ३३ खार्या ईकन्। ३४ पणपादमाषशताद् यत्। ३५ शाणाद् वा। ३६ तेन क्रीतम्। ३७ तस्य निमित्तं संयोगोत्पातौ। ३८ गोद्व्यचोऽसङ्ख्यापरिमाणाश्वादेर्यत्। ३९ पुत्राच्च च। ४० सर्वभूमिपृथिवीभ्यामणञौ।

४४ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) [प्रथमः स्तम्भः / बायाँ स्तम्भ] ४१ तस्येश्वरः। ४२ तत्र विदित इति च। ४३ लोकसर्वलोकाट् ठञ्। ४४ तस्य वापः। ४५ पात्रात्ष्ठन्। ४६ तदस्मिन्वृद्ध्यायलाभ- शुल्कोपदा दीयते। ४७ पूरणार्धाट् ठन्। ४८ भागाद् यच्च। ४९ तद्धरति वहत्यावहति भाराद् वंशादिभ्यः। ५० वस्त्रद्रव्याभ्यां ठन्कनौ। ५१ सम्भवत्यवहरति पचति। ५२ आढकाचितपात्रात्खोऽन्य- तरस्याम्। ५३ द्विगोः ष्ठंश्च। ५४ कुलिजाल्लुक्खौ च। ५५ सोऽस्यांशवस्त्रभृतयः। ५६ तदस्य परिमाणम्। ५७ सङ्ख्यायाः सञ्ज्ञासङ्घ- सूत्राध्ययनेषु। ५८ पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्- पञ्चाशत्षष्टिसप्तत्यशीति- नवतिशतम्। ५९ पञ्चद्दशतौ वर्गे वा। ६० सप्तनोऽच्छन्दसि। [द्वितीयः स्तम्भः / दायाँ स्तम्भ] ६१ त्रिंशच्चत्वारिंशतोर्ब्राह्मणे सञ्ज्ञायां डण्। ६२ तदर्हति। ६३ छेदादिभ्यो नित्यम्। ६४ शीर्षच्छेदाद् यच्च। ६५ दण्डादिभ्यो यत्। ६६ छन्दसि च। ६७ पात्राद् घंश्च। ६८ कडङ्करदक्षिणाच्च च। ६९ स्थालीबिलात्। ७० यज्ञर्त्विग्भ्यां घखञौ। ७१ पारायणतुरायणचान्द्रायणं वर्त्तयति। ७२ संशयमापन्नः। ७३ योजनं गच्छति। ७४ पथः ष्कन्। ७५ पन्थो ण नित्यम्। ७६ उत्तरपथेनाहृतं च। ७७ कालात्। ७८ तेन निर्वृत्तम्। ७९ तमधीष्टो भृतो भूतो भावी। ८० मासाद् वयसि यत्खञौ। ८१ द्विगोर्यप्। ८२ षण्मासाण्ण्यच्च। ८३ अवयसि ठंश्च। ८४ समायाः खः। ८५ द्विगोर्वा।