भारतकोश
संग्रह पर लौटें

अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

Ashtadhyayi Sutrapatha of Maharshi Panini

महर्षि पाणिनि द्वारा

DevanagariSanskritpublished102 पृष्ठ

प्रथमाध्याये तृतीयः पादः ५

[स्तम्भः १] १० यथासङ्ख्यमनुदेशः समानाम्। ११ स्वरितेनाधिकारः। १२ अनुदात्तङित आत्मनेपदम्। १३ भावकर्मणोः। १४ कर्तरि कर्मव्यतिहारे। १५ न गतिहिंसार्थेभ्यः। १६ इतरेतरान्योऽन्योपपदाच्च। १७ नेर्विशः। १८ परिव्यवेभ्यः क्रियः। १९ विपराभ्यां जेः। २० आङो दोऽनास्यविहरणे। २१ क्रीडोऽनुसम्परिभ्यश्च। २२ समवप्रविभ्यः स्थः। २३ प्रकाशनस्थेयाख्ययोश्च। २४ उदोऽनूर्ध्वकर्मणि। २५ उपान्मन्त्रकरणे। २६ अकर्मकाच्च। २७ उद्द्विभ्यां तपः। २८ आङो यमहनः। २९ समो गम्यृच्छिभ्याम्। ३० निसमुपविभ्यो ह्वः। ३१ स्पर्धायामाङः। ३२ गन्धनावक्षेपणसेवनसाहसिक्य- प्रतियत्नप्रकथनोपयोगेषु कृञः। ३३ अधेः प्रसहने।

[स्तम्भः २] ३४ वेः शब्दकर्मणः। ३५ अकर्मकाच्च। ३६ सम्माननोत्सञ्जनाचार्यकरण- ज्ञानभृतिविगणनव्ययेषु नियः। ३७ कर्तृस्थे चाशरीरे कर्मणि। ३८ वृत्तिसर्गतायनेषु क्रमः। ३९ उपपराभ्याम्। ४० आङ उद्गमने। ४१ वेः पादविहरणे। ४२ प्रोपाभ्यां समर्थाभ्याम्। ४३ अनुपसर्गाद् वा। ४४ अपह्नवे ज्ञः। ४५ अकर्मकाच्च। ४६ सम्प्रतिभ्यामनाध्याने। ४७ भासनोपसम्भाषाज्ञानयत्न- विमत्युपमन्त्रणेषु वदः। ४८ व्यक्तवाचां समुच्चारणे। ४९ अनोरकर्मकात्। ५० विभाषा विप्रलापे। ५१ अवाद् ग्रः। ५२ समः प्रतिज्ञाने। ५३ उदश्चरः सकर्मकात्। ५४ समस्तृतीयायुक्तात्। ५५ दाणश्च सा चेच्चतुर्थ्यर्थे। ५६ उपाद् यमः स्वकरणे। ५७ ज्ञाश्रुस्मृदृशां सनः। ५८ नानोर्ज्ञः।

६ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) [ वामस्तम्भः / Left Column ] ५९ प्रत्याङ्भ्यां श्रुवः। ६० शदेः शितः। ६१ म्रियतेर्लुङ्लिङोश्च। ६२ पूर्ववत्सनः। ६३ आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य। ६४ प्रोपाभ्यां युजेरयज्ञपात्रेषु। ६५ समः क्ष्णुवः। ६६ भुजोऽनवने। ६७ णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने। ६८ भीस्म्योर्हेतुभये। ६९ गृधिवञ्च्योः प्रलम्भने। ७० लियः सम्माननशालीनी- करणयोश्च। ७१ मिथ्योपपदात्कृञोऽभ्यासे। ७२ स्वरितञितः कर्त्रभिप्राये क्रियाफले। ७३ अपाद् वदः। ७४ णिचश्च। ७५ समुदाङ्भ्यो यमोऽग्रन्थे। ७६ अनुपसर्गाज्ज्ञः। ७७ विभाषोपपदेन प्रतीयमाने। ७८ शेषात्कर्तरि परस्मैपदम्। ७९ अनुपराभ्यां कृञः। ८० अभिप्रत्यतिभ्यः क्षिपः। ८१ प्राद् वहः। ८२ परेर्मृषः। [ दक्षिणस्तम्भः / Right Column ] ८३ व्याङ्परिभ्यो रमः। ८४ उपाच्च। ८५ विभाषाकर्मकात्। ८६ बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः। ८७ निगरणचलनार्थेभ्यश्च। ८८ अणावकर्मकाच्चित्तवत्- कर्तृकात्। ८९ न पादम्याङ्यमाङ्यस- परिमुहरुचिनृतिवदवसः। ९० वा क्यषः। ९१ द्युद्भ्यो लुङि। ९२ वृद्भ्यः स्यसनोः। ९३ लुटि च कॢपः। --०-- चतुर्थः पादः १ आ कडारादेका सञ्ज्ञा। २ विप्रतिषेधे परं कार्यम्। ३ यू स्त्र्याख्यौ नदी। ४ नेयङुवङ्स्थानावस्त्री। ५ वामि। ६ ङिति ह्रस्वश्च। ७ शेषो घ्यसखि। ८ पतिः समास एव। ९ षष्ठीयुक्तश्छन्दसि वा। १० ह्रस्वं लघु। ११ संयोगे गुरु। १२ दीर्घं च।

प्रथमाध्याये चतुर्थः पादः ७

[वामस्तम्भः] १३ यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्। १४ सुप्तिङन्तं पदम्। १५ नः क्ये। १६ सिति च। १७ स्वादिष्वसर्वनामस्थाने। १८ यचि भम्। १९ तसौ मत्वर्थे। २० अयस्मयादीनिच्छन्दसि। २१ बहुषु बहुवचनम्। २२ द्व्येकयोर्द्विवचनैकवचने। २३ कारके। २४ ध्रुवमपायेऽपादानम्। २५ भीत्रार्थानां भयहेतुः। २६ पराजेरसोढः। २७ वारणार्थानामीप्सितः। २८ अन्तर्धौ येनादर्शनमिच्छति। २९ आख्यातोपयोगे। ३० जनिकर्तुः प्रकृतिः। ३१ भुवः प्रभवः। ३२ कर्मणा यमभिप्रैति स सम्प्रदानम्। ३३ रुच्यर्थानां प्रीयमाणः। ३४ श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः। ३५ धारेरुत्तमर्णः।

[दक्षिणस्तम्भः] ३६ स्पृहेरीप्सितः। ३७ क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः। ३८ क्रुधद्रुहोरुपसृष्टयोः कर्म। ३९ राधीक्ष्योर्यस्य विप्रश्नः। ४० प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता। ४१ अनुप्रतिगृणश्च। ४२ साधकतमं करणम्। ४३ दिवः कर्म च। ४४ परिक्रयणे सम्प्रदानमन्य- तरस्याम्। ४५ आधारोऽधिकरणम्। ४६ अधिशीङ्स्थासां कर्म। ४७ अभिनिविशश्च। ४८ उपान्वध्याङ्वसः। ४९ कर्तुरीप्सिततमं कर्म। ५० तथायुक्तं चानीप्सितम्। ५१ अकथितं च। ५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्मा- कर्मकाणामणि कर्ता स णौ। ५३ हृक्रोरन्यतरस्याम्। ५४ स्वतन्त्रः कर्ता। ५५ तत्प्रयोजको हेतुश्च। ५६ प्राग्रीश्वरान्निपाताः। ५७ चादयोऽसत्त्वे। ५८ प्रादय उपसर्गाः क्रियायोगे।

८ अष्टाध्यायीसूत्रपाठः (यतिबोधसहितः) ५९ गतिश्च। ६० ऊर्यादिच्चिडाचश्च। ६१ अनुकरणं चानितिपरम्। ६२ आदरानादरयोः सदसती। ६३ भूषणेऽलम्। ६४ अन्तरपरिग्रहे। ६५ कणेमनसी श्रद्धाप्रतीघाते। ६६ पुरोऽव्ययम्। ६७ अस्तं च। ६८ अच्छ गत्यर्थवदेषु। ६९ अदोऽनुपदेशे। ७० तिरोऽन्तर्धौ। ७१ विभाषा कृञि। ७२ उपाजेऽन्वाजे। ७३ साक्षात्प्रभृतीनि च। ७४ अनत्याधान उरसिमनसी। ७५ मध्ये पदे निवचने च। ७६ नित्यं हस्ते पाणावुपयमने। ७७ प्राध्वं बन्धने। ७८ जीविकोपनिषदावौपम्ये। ७९ ते प्राग्धातोः। ८० छन्दसि परेऽपि। ८१ व्यवहिताश्च। ८२ कर्मप्रवचनीयाः। ८३ अनुर्लक्षणे। ८४ तृतीयार्थे। ८५ हीने। ८६ उपोऽधिके च। ८७ अपपरी वर्जने। ८८ आङ् मर्यादावचने। ८९ लक्षणेत्थम्भूताख्यानभाग- वीप्सासु प्रतिपर्यन्ववः। ९० अभिरभागे। ९१ प्रतिः प्रतिनिधिप्रतिदानयोः। ९२ अधिपरी अनर्थकौ। ९३ सुः पूजायाम्। ९४ अतिरतिक्रमणे च। ९५ अपिः पदार्थसम्भावनावव- सर्गगर्हासमुच्चयेषु। ९६ अधीश्वरे। ९७ विभाषा कृञि। ९८ लः परस्मैपदम्। ९९ तङानावात्मनेपदम्। १०० तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः। १०१ तान्येकवचनद्विवचन- बहुवचनान्येकशः। १०२ सुपः। १०३ विभक्तिश्च। १०४ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः। १०५ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च।

१. प्रथमोऽध्यायः (संज्ञा एवं परिभाषा पाद १-४)

द्वितीयाध्याये प्रथमः पादः ९ १०६ अस्मद्युत्तमः। १०८ परः सन्निकर्षः संहिता। १०७ शेषे प्रथमः। १०९ विरामोऽवसानम्। द्वितीयोऽध्यायः प्रथमः पादः १ समर्थः पदविधिः। १५ यस्य चायामः। २ सुबामन्त्रिते पराङ्गवत्स्वरे। १६ तिष्ठद्गुप्रभृतीनि च। ३ प्राक्कडारात्समासः। १७ पारे मध्ये षष्ठ्या वा। ४ सह सुपा। १८ सङ्ख्या वंश्येन। ५ अव्ययीभावः। १९ नदीभिश्च। ६ अव्ययं विभक्तिसमीपसमृद्धि- २० अन्यपदार्थे च सञ्ज्ञायाम्। व्यृद्ध्यर्थाभावात्ययासम्प्रति- २१ तत्पुरुषः। शब्दप्रादुर्भावपश्चाद्यथानु- २२ द्विगुश्च। पूर्व्ययौगपद्यसादृश्यसम्पत्ति- २३ द्वितीया श्रितातीतपतित- साकल्यान्तवचनेषु। गतात्यस्तप्राप्तापन्नैः। ७ यथासादृश्ये। २४ स्वयं क्तेन। ८ यावदवधारणे। २५ खट्वा क्षेपे। ९ सुपप्रतिना मात्रार्थे। २६ सामि। १० अक्षशलाकासङ्ख्याः परिणा। २७ कालाः। ११ विभाषापपरिबहिरञ्चवः २८ अत्यन्तसंयोगे च। पञ्चम्या। २९ तृतीया तत्कृतार्थेन १२ आङ् मर्यादाभिविध्योः। गुणवचनेन। १३ लक्षणेनाभिप्रती आभिमुख्ये। ३० पूर्वसदृशसमोborder/नार्थकलह- १४ अनुर्यत्समया। निपुणमिश्रश्लक्ष्णैः। ३१ कर्तृकरणे कृता बहुलम्। ३२ कृत्यैरधिकार्थवचने। ३३ अन्नेन व्यञ्जनम्।

१० अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) (प्रथमः पादः - अनुवृत्तः) [वाम स्तम्भः] ३४ भक्ष्येण मिश्रीकरणम्। ३५ चतुर्थी तदर्थार्थबलिहितसुख- रक्षितैः। ३६ पञ्चमी भयेन। ३७ अपेतापोधमुक्तपतिताप- त्रस्तैरल्पशः। ३८ स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन। ३९ सप्तमी शौण्डैः। ४० सिद्धशुष्कपक्वबन्धैश्च। ४१ ध्वाङ्क्षेण क्षेपे। ४२ कृत्यैर्ऋणे। ४३ सञ्ज्ञायाम्। ४४ क्तेनाहोरात्रावयवाः। ४५ तत्र। ४६ क्षेपे। ४७ पात्रेसमितादयश्च। ४८ पूर्वकालैकसर्वजरत्पुराणनव- केवलाः समानाधिकरणेन। ४९ दिक्सङ्ख्ये सञ्ज्ञायाम्। ५० तद्धितार्थोत्तरपदसमाहारे च। ५१ सङ्ख्यापूर्वो द्विगुः। ५२ कुत्सितानि कुत्सनैः। ५३ पापाणके कुत्सितैः। ५४ उपमानानि सामान्यवचनैः। ५५ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे। [दक्षिण स्तम्भः] ५६ विशेषणं विशेष्येण बहुलम्। ५७ पूर्वापरप्रथमचरमजघन्य- समानमध्यमध्यमवीराश्च। ५८ श्रेण्यादयः कृतादिभिः। ५९ क्तेन नञ्विशिष्टेनानञ्। ६० सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः। ६१ वृन्दारकनागकुञ्जरैः पूज्यमानम्। ६२ कतरकतमौ जातिपरिप्रश्ने। ६३ किं क्षेपे। ६४ पोटा युवतिस्तोककतिपयगृष्टि- धेनुवशावेहदबष्कयणीप्रवक्तृ- श्रोत्रियाध्यापकधूर्त्तैर्जातिः। ६५ प्रशंसावचनैश्च। ६६ युवा खलतिपलितवलिन- जरतीभिः। ६७ कृत्यतुल्याख्या अजात्या। ६८ वर्णो वर्णेन। ६९ कुमारः श्रमणादिभिः। ७० चतुष्पादो गर्भिण्या। ७१ मयूरव्यंसकादयश्च। --०-- द्वितीयः पादः १ पूर्वापराधरोत्तरमेक- देशिनैकाधिकरणे। २ अर्धं नपुंसकम्।

द्वितीयाध्याये तृतीयः पादः ११

[वाम स्तम्भः] ३ द्वितीयतृतीयचतुर्थतुर्याण्यन्य- तरस्याम्। ४ प्राप्तापन्ने च द्वितीया। ५ कालाः परिमाणिना। ६ नञ्। ७ ईषदकृता। ८ षष्ठी। ९ याजकादिभिश्च। १० न निर्धारणे। ११ पूरणगुणसुहितार्थसदव्ययतव्य- समानाधिकरणेन। १२ क्तेन च पूजायाम्। १३ अधिकरणवाचिना च। १४ कर्मणि च। १५ तृजकाभ्यां कर्तरि। १६ कर्तरि च। १७ नित्यं क्रीडाजीविकयोः। १८ कुगतिप्रादयः। १९ उपपदमतिङ्। २० अमैवाव्ययेन। २१ तृतीयाप्रभृतीन्यन्यतरस्याम्। २२ क्त्वा च। २३ शेषो बहुव्रीहिः। २४ अनेकमन्यपदार्थे। २५ सङ्ख्याव्ययासन्नादूराधिक- सङ्ख्याः सङ्ख्येये। २६ दिङ्नामान्यन्तराले।

[दक्षिण स्तम्भः] २७ तत्र तेनेदमिति सरूपे। २८ तेन सहेति तुल्ययोगे। २९ चार्थे द्वन्द्वः। ३० उपसर्जनं पूर्वम्। ३१ राजदन्तादिषु परम्। ३२ द्वन्द्वे घि। ३३ अजाद्यदन्तम्। ३४ अल्पाच्तरम्। ३५ सप्तमीविशेषणे बहुव्रीहौ। ३६ निष्ठा। ३७ वाहिताग्न्यादिषु। ३८ कडाराः कर्मधारये। --०-- तृतीयः पादः १ अनभिहिते। २ कर्मणि द्वितीया। ३ तृतीया च होश्छन्दसि। ४ अन्तरान्तरेणयुक्ते। ५ कालाध्वनोरत्यन्तसंयोगे। ६ अपवर्गे तृतीया। ७ सप्तमीपञ्चम्यौ कारकमध्ये। ८ कर्मप्रवचनीययुक्ते द्वितीया। ९ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी। १० पञ्चम्यपाङ्परिभिः। ११ प्रतिनिधिप्रतिदाने च यस्मात्।

१२ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) १२ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ ३३ करणे च स्तोकाल्पकृच्छ्र- चेष्टायामनध्वनि। कतिपयस्यासत्त्ववचनस्य। १३ चतुर्थी सम्प्रदाने। ३४ दूरान्तिकार्थैः षष्ठ्यन्य- १४ क्रियार्थोपपदस्य च कर्मणि तरस्याम्। स्थानिनः। ३५ दूरान्तिकार्थेभ्यो द्वितीया च। १५ तुमर्थाच्च भाववचनात्। ३६ सप्तम्यधिकरणे च। १६ नमःस्वस्तिस्वाहास्वधालं- ३७ यस्य च भावेन भावलक्षणम्। वषड्योगाच्च। ३८ षष्ठी चानादरे। १७ मन्यकर्मण्यनादरे ३९ स्वामीश्वराधिपतिदायाद- विभाषाप्राणिषु। साक्षिप्रतिभूप्रसूतैश्च। १८ कर्तृकरणयोस्तृतीया। ४० आयुक्तकुशलाभ्यां १९ सहयुक्तेऽप्रधाने। चासेवायाम्। २० येनाङ्गविकारः। ४१ यतश्च निर्धारणम्। २१ इत्थम्भूतलक्षणे। ४२ पञ्चमी विभक्ते। २२ सञ्ज्ञोऽन्यतरस्यां कर्मणि। ४३ साधुनिपुणाभ्यामर्चायां २३ हेतौ। सप्तम्यप्रतेः। २४ अकर्तर्यृणे पञ्चमी। ४४ प्रसितोत्सुकाभ्यां तृतीया च। २५ विभाषा गुणेऽस्त्रियाम्। ४५ नक्षत्रे च लुपि। २६ षष्ठी हेतुप्रयोगे। ४६ प्रातिपदिकार्थलिङ्गपरिमाण- २७ सर्वनाम्नस्तृतीया च। वचनमात्रे प्रथमा। २८ अपादाने पञ्चमी। ४७ सम्बोधने च। २९ अन्यारादितरर्तेदिक्शब्दाञ्चूत्तर- ४८ सामन्त्रितम्। पदाजाहियुक्ते। ४९ एकवचनं सम्बुद्धिः। ३० षष्ठ्यतसर्थप्रत्ययेन। ५० षष्ठी शेषे। ३१ एनपा द्वितीया। ५१ ज्ञोऽविदर्थस्य करणे। ३२ पृथग्विनानानाभिस्तृतीयान्य- ५२ अधीगर्थदयेशां कर्मणि। तरस्याम्। ५३ कृञः प्रतियत्ने।

द्वितीयाध्याये चतुर्थः पादः १३ [तृतीयः पादः - शेषः] ५४ रुजार्थानां भाववचनानाम- ज्वरेः। ५५ आशिषि नाथः। ५६ जासिनिप्रहणनाटक्राथपिषां हिंसायाम्। ५७ व्यवहृपणोः समर्थयोः। ५८ दिवस्तदर्थस्य। ५९ विभाषोपसर्गे। ६० द्वितीया ब्राह्मणे। ६१ प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने। ६२ चतुर्थ्यर्थे बहुलं छन्दसि। ६३ यजेश्च करणे। ६४ कृत्वोऽर्थप्रयोगे कालेऽधिकरणे। ६५ कर्तृकर्मणोः कृति। ६६ उभयप्राप्तौ कर्मणि। ६७ क्तस्य च वर्तमाने। ६८ अधिकरणवाचिनश्च। ६९ न लोकाव्ययनिष्ठाखलर्थ- तृनाम्। ७० अकेनोर्भविष्यदाधमर्ण्ययोः। ७१ कृत्यानां कर्तरि वा। ७२ तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्। ७३ चतुर्थी चाशिष्यायुष्यमद्रभद्र- कुशलसुखार्थहितैः। --०-- चतुर्थः पादः १ द्विगुरेकवचनम्। २ द्वन्द्वश्च प्राणितूर्य- सेनाङ्गानाम्। ३ अनुवादे चरणानाम्। ४ अध्वर्युक्रतुरनपुंसकम्। ५ अध्ययनतोऽविप्रकृष्ट- ख्यानाम्। ६ जातिरप्राणिनाम्। ७ विशिष्टलिङ्गो नदी देशोऽग्रामः। ८ क्षुद्रजन्तवः। ९ येषां च विरोधः शाश्वतिकः। १० शूद्राणामनिरवसितानाम्। ११ गवाश्वप्रभृतीनि च। १२ विभाषा वृक्षमृगतृणधान्य- व्यञ्जनपशुशकुन्यश्ववडव- पूर्वापराधरोत्तराणाम्। १३ विप्रतिषिद्धं चानधिकरण- वाचि। १४ न दधिपयआदीनि। १५ अधिकरणैतावत्त्वे च। १६ विभाषा समीपे। १७ स नपुंसकम्। १८ अव्ययीभावश्च। १९ तत्पुरुषोऽनञ्कर्मधारयः। २० सञ्ज्ञायां कण्थोशीनरेषु।

१४ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) २१ उपज्ञोपक्रमं तदाद्या- | ४३ लुङि च। चिख्यासायाम्। | ४४ आत्मनेपदेष्वन्यतरस्याम्। २२ छाया बाहुल्ये। | ४५ इणो गा लुङि। २३ सभा राजामनुष्यपूर्वा। | ४६ णौ गमिरबोधने। २४ अशाला च। | ४७ सनि च। २५ विभाषा सेनासुराच्छाया- | ४८ इङश्च। शालानिशानाम्। | ४९ गाङ् लिटि। २६ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः। | ५० विभाषा लुङ्लृङोः। २७ पूर्ववदश्ववडवौ। | ५१ णौ च संश्चङोः। २८ हेमन्तशिशिरावहोरात्रे | ५२ अस्तेर्भूः। चच्छन्दसि। | ५३ ब्रुवो वचिः। २९ रात्राह्नाहाः पुंसि। | ५४ चक्षिङः ख्याञ्। ३० अपथं नपुंसकम्। | ५५ वा लिटि। ३१ अर्धर्चाः पुंसि च। | ५६ अजेर्व्यघञपोः। ३२ इदमोन्वादेशेश्नुदात्तस् | ५७ वा यौ। तृतीयादौ। | ५८ ण्यक्षत्रियार्षञितो यूनि ३३ एतदस्त्रतसोस्त्रतसौ | लुगणिञोः। चानुदात्तौ। | ५९ पैलादिभ्यश्च। ३४ द्वितीयाटौस्स्वेनः। | ६० इञः प्राचाम्। ३५ आर्धधातुके। | ६१ न तौल्वलिभ्यः। ३६ अदो जग्धिल्यप्ति किति। | ६२ तद्राजस्य बहुषु ३७ लुङ्सनोर्घस्लृ। | तेनैवास्त्रियाम्। ३८ घञपोश्च। | ६३ यस्कादिभ्यो गोत्रे। ३९ बहुलं छन्दसि। | ६४ यञञोश्च। ४० लित्यन्यतरस्याम्। | ६५ अत्रिभृगुकुत्सवासिष्ठ- ४१ वेञो वयिः। | गौतमाङ्गिरोभ्यश्च। ४२ हनो वध लिङि। | ६६ बह्वच इञः प्राच्यभरतेषु।

तृतीयाध्याये प्रथमः पादः १५ ६७ न गोपवनादिभ्यः। ६८ तिककितवादिभ्यो द्वन्द्वे। ६९ उपकादिभ्योऽन्यतरस्याम्- द्वन्द्वे। ७० आगस्त्यकौण्डिन्ययोरगस्ति- कुण्डिनच्। ७१ सुपो धातुप्रातिपदिकयोः। ७२ अदिप्रभृतिभ्यः शपः। ७३ बहुलं छन्दसि। ७४ यङोऽचि च। ७५ जुहोत्यादिभ्यः श्लुः। ७६ बहुलं छन्दसि। ७७ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु। ७८ विभाषा घ्राधेट्शाच्छासः। ७९ तनादिभ्यस्तथासोः। ८० मन्त्रे घसह्रणश्वृदहाद्वृच्क- गमिजनिभ्यो लेः। ८१ आमः। ८२ अव्ययादाप्सुपः। ८३ नाव्ययीभावादतोऽम्त्व- पञ्चम्याः। ८४ तृतीयासप्तम्योर्बहुलम्। ८५ लुटः प्रथमस्य डारौरसः। तृतीयोऽध्यायः प्रथमः पादः १ प्रत्ययः। २ परश्च। ३ आद्युदात्तश्च। ४ अनुदात्तौ सुप्पितौ। ५ गुप्तिज्किद्भ्यः सन्। ६ मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य। ७ धातोः कर्मणः समान- कर्तृकादिच्छायां वा। ८ सुप आत्मनः क्यच्। ९ काम्यच्च। १० उपमानादाचारे। ११ कर्तुः क्यङ् सलोपश्च। १२ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः। १३ लोहितादिडाग्भ्यः क्यष्। १४ कष्टाय क्रमणे। १५ कर्मणो रोमन्थतपोभ्यां वर्तिचरोः। १६ बाष्पोष्मभ्यामुद्वमने। १७ शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे। १८ सुखादिभ्यः कर्तृ वेदनायाम्।

१६ अष्टाध्यायीसूत्रपाठः (यतिबोधसहितः)


[वाम स्तम्भः / Left Column]

१९ नमोवरिवश्चित्रङः क्यच्। २० पुच्छभाण्डचीवराण्णिङ्। २१ मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्र- हलकलकृततूस्तेभ्यो णिच्। २२ धातोरेकाचो हलादेः क्रियासमभिहारे यङ्। २३ नित्यं कौटिल्ये गतौ। २४ लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्। २५ सत्यापपाशरूपवीणातूलश्लोक- सेनालोमत्वचवर्मवर्णचूर्ण- चुरादिभ्यो णिच्। २६ हेतुमति च। २७ कण्ड्वादिभ्यो यक्। २८ गुपूधूपविच्छिपणिपनिभ्य आयः। २९ ऋतेरीयङ्। ३० कमेर्णिङ्। ३१ आयादय आर्धधातुके वा। ३२ सनाद्यन्ता धातवः। ३३ स्यतासी ल्लुटोः। ३४ सिब्बहुलं लेटि। ३५ कास्प्रत्ययादाममन्त्रे लिटि। ३६ इजादेश्च गुरुमतोऽनृच्छः। ३७ दयायासश्च। ३८ उषविदजागृभ्योऽन्यतरस्याम्। ३९ भीह्रीभृह्रुवां श्लुवच्च।


[दक्षिण स्तम्भः / Right Column]

४० कृञ्चानुप्रयुज्यते लिटि। ४१ विदाङ्कुर्वन्त्वित्यन्य- तरस्याम्। ४२ अभ्युत्साद्यांप्रजनयांचिकयां- रमयामकः पावयाङ्क्रियाद्- विदामक्रन्नितिच्छन्दसि। ४३ च्लि लुङि। ४४ च्लेः सिच्। ४५ शल इगुपधादनिटः क्सः। ४६ श्लिष आलिङ्गने। ४७ न दृशः। ४८ णिश्रिद्रुस्रुभ्यः कर्तरि चङ्। ४९ विभाषा धेट्श्व्योः। ५० गुपेश्चन्दसि। ५१ नोनयति- ध्वनयत्येलयत्यर्दयतिभ्यः। ५२ अस्यतिवक्तिख्यातिभ्योऽङ्। ५३ लिपिसिचिह्वश्च। ५४ आत्मनेपदेष्वन्यतरस्याम्। ५५ पुषाद्युताद्य्लृदितः परस्मैपदेषु। ५६ सर्तिशास्त्यर्तिभ्यश्च। ५७ इरितो वा। ५८ जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचु- ग्लुञ्चुश्विभ्यश्च। ५९ कॄमृदृरुहिभ्यश्छन्दसि। ६० चिण्ले पदः।

तृतीयोध्याये प्रथमः पादः १७ ६१ दीपजनबुधपूरितायि- प्यायिभ्योऽन्यतरस्याम्। ६२ अचः कर्मकर्तरि। ६३ दुहश्च। ६४ न रुधः। ६५ तपोऽनुतापे च। ६६ चिण्भावकर्मणोः। ६७ सार्वधातुके यक्। ६८ कर्तरि शप्। ६९ दिवादिभ्यः श्यन्। ७० वा भ्राशभ्लाशभ्रमुक्रमुक्लमु- त्रसित्रुटिलषः। ७१ यसोऽनुपसर्गात्। ७२ संयसश्च। ७३ स्वादिभ्यः श्नुः। ७४ श्रुवः शृ च। ७५ अक्षोऽन्यतरस्याम्। ७६ तनूकरणे तक्षः। ७७ तुदादिभ्यः शः। ७८ रुधादिभ्यः श्नम्। ७९ तनादिकृञ्भ्य उः। ८० धिन्विकृण्व्योर च। ८१ क्र्यादिभ्यः श्ना। ८२ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भु- स्कुभ्यः श्नुश्च। ८३ हलः श्नः शानज्झौ। ८४ छन्दसि शायजपि। ८५ व्यत्ययो बहुलम्। ८६ लिङ्याशिष्यङ्। ८७ कर्मवत्कर्मणा तुल्यक्रियः। ८८ तपस्तपःकर्मकस्यैव। ८९ न दुहस्नुन्मां यक्चिणौ। ९० कुषिरजोः प्राचां श्यन्परस्मैपदं च। ९१ धातोः। ९२ तत्रोपपदं सप्तमीस्थम्। ९३ कृदतिङ्। ९४ वासरूपोऽस्त्रियाम्। ९५ कृत्याः। ९६ तव्यत्तव्यानीयरः। ९७ अचो यत्। ९८ पोरदुपधात्। ९९ शकिंसहोश्च। १०० गदमदचरयमश्चानुपसर्गे। १०१ अवद्यपण्यवर्या गर्ह्य- पणितव्यानिरोधेषु। १०२ वह्यं करणम्। १०३ अर्यः स्वामिवैश्ययोः। १०४ उपसर्या काल्या प्रजने। १०५ अजर्यं सङ्गतम्। १०६ वदः सुपि क्यप् च। १०७ भुवो भावे। १०८ हनस्त च। १०९ एतिस्तुशास्व्वृहदृजुषः क्यप्।

१८ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) [वामस्तम्भः / Left Column] ११० ऋदुपधाच्चाक्लृपिचृतेः। १११ ई च खनः। ११२ भृञोऽसञ्ज्ञायाम्। ११३ मृजेर्विभाषा। ११४ राजसूयसूर्यमृषोद्यरुच्यकुप्य- कृष्टपच्याव्यथ्याः। ११५ भिद्योद्ध्वौ नदे। ११६ पुष्यसिद्धयौ नक्षत्रे। ११७ विपूयविनीयजित्या मुञ्जकल्कहलिषु। ११८ प्रत्यपिभ्यां ग्रहेः। ११९ पदास्वैरिबाह्यापक्ष्येषु च। १२० विभाषा कृवृषोः। १२१ युंग्यं च पत्रे। १२२ अमावास्यदन्यतरस्याम्। १२३ छन्दसि निष्कर्यदेवहूय- प्रणीयोन्नीयोच्छिष्यमर्यस्तर्या- ध्वर्यखन्यखान्यादेवयज्या- पृच्छ्यप्रतिषीव्यब्रह्मवाद्य- भाव्यस्ताव्योपचाय्यपृडानि। १२४ ऋहलोर्ण्यत्। १२५ ओरावश्यके। १२६ आसुयुवपिरपिलपित्रपिचमश्च। १२७ आनाय्योऽनित्ये। १२८ प्रणाय्योऽसम्मत्तौ। १२९ पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु। [दक्षिणस्तम्भः / Right Column] १३० क्रतौ कुण्डपाय्यसञ्चाय्यौ। १३१ अग्नौ परिचाय्योपचाय्य- समूह्याः। १३२ चित्याग्निचित्ये च। १३३ ण्वुल्तृचौ। १३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। १३५ इगुपधज्ञाप्रीकिरः कः। १३६ आतश्चोपसर्गे। १३७ पाघ्राध्माधेट्दृशः शः। १३८ अनुपसर्गाल्लिम्पविन्दधारि- पारिवेद्युदेजिचेतिसाति- साहिभ्यश्च। १३९ ददातिदधात्योर्विभाषा। १४० ज्वलितिकसन्तेभ्यो णः। १४१ श्याद्व्यधास्रुसंस्रुवतीणव- सावहलिहश्लिषश्वसश्च। १४२ दुन्योरनुपसर्गे। १४३ विभाषा ग्रहः। १४४ गेहे कः। १४५ शिल्पिनि ष्वुन्। १४६ गस्थकन्। १४७ ण्यउत् च। १४८ हश्च व्रीहिकालयोः। १४९ प्रसुल्वः समभिहारे वुन्। १५० आशिषि च। --o--

तृतीयाध्याये द्वितीयः पादः १९ द्वितीयः पादः १ कर्मण्यण्। २ ह्वावामश्च। ३ आतोऽनुपसर्गे कः। ४ सुपि स्थः। ५ तुन्दशोकयोः परिमृजापनुदोः। ६ प्रे दाज्ञः। ७ समि ख्यः। ८ गापोष्टक्। ९ हरतेरनुद्यमनेऽच्। १० वयसि च। ११ आङि ताच्छील्ये। १२ अर्हः। १३ स्तम्बकर्णयो रमिजपोः। १४ शमि धातोः सञ्ज्ञायाम्। १५ अधिकरणे शेतेः। १६ चरेष्टः। १७ भिक्षासेनादायेषु च। १८ पुरोऽग्रतोऽग्रेषु सर्तेः। १९ पूर्वे कर्तरि। २० कृञो हेतुताच्छील्यानु- लोम्येषु। २१ दिवाविभानिशाप्रभाभास्- कारान्तानन्तादिबहुनान्दीकिं- लिपिलिबिबलिभक्तिकर्तृचित्र- क्षेत्रसङ्ख्याजङ्घाबाह्वहर्यत्- तद्धनुरुषु। २२ कर्मणि भृतौ। २३ न शब्दश्लोककलहगाथावैर- चाटुसूत्रमन्त्रपदेषु। २४ स्तम्बशकृतोरिन्। २५ हरतेर्दृतिनाथयोः पशौ। २६ फलेग्रहिरात्मम्भरिश्च। २७ छन्दसि वनसनरक्षिमथाम्। २८ एजेः खश्। २९ नासिकास्तनयोर्ध्माधेटोः। ३० नाडीमुष्ट्योश्च। ३१ उदि कूले रुजिवहोः। ३२ वहाभ्रे लिहः। ३३ परिमाणे पचः। ३४ मितनखे च। ३५ विध्वरुषोस्तुदः। ३६ असूर्यललाटयोर्दृशितपोः। ३७ उग्रम्पश्येरम्मदपाणिन्धमाश्च। ३८ प्रियवशे वदः खच्। ३९ द्विषत्परयोस्तापेः। ४० वाचि यमो व्रते। ४१ पूःसर्वयोर्दारिसहोः। ४२ सर्वकूलाभ्रकरीषेषु कषः। ४३ मेघर्तिभयेषु कृञः। ४४ क्षेमप्रियमद्रेऽण्च। ४५ आशिते भुवः करण- भावयोः।

२० अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ४६ सञ्ज्ञायां भृतृवृजिधारिसहि- तपिदमः। ४७ गमश्च। ४८ अन्तात्यन्ताध्वदूरपारसर्वा- नन्तेषु डः। ४९ आशिषि हनः। ५० अपे क्लेशतमसोः। ५१ कुमारशीर्षयोर्णिनिः। ५२ लक्षणे जायापत्योष्टक्। ५३ अमनुष्यकर्तृके च। ५४ शक्तौ हस्तिकपाटयोः। ५५ पाणिघताडौ शिल्पिनि। ५६ आढ्यसुभगस्थूलपलितनग्नान्ध- प्रियेषु च्व्यर्थेष्वच्चौ कृञः करणे ख्युन्। ५७ कर्तरि भुवः खिष्णुच्खुकञौ। ५८ स्पृशोऽनुदके क्विन्। ५९ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चु- युजिक्रुञ्चां च। ६० त्यदादिषु दृशोऽनालोचने कञ्च। ६१ सत्सूद्विषद्रुहदुहयुजविद्भिदच्छि- द्जिनीराजामुपसर्गेऽपि क्विप्। ६२ भजो ण्विः। ६३ छन्दसि सहः। ६४ वहश्च। ६५ कव्यपुरीषपुरीष्येषु ज्युट्। ६६ हव्येऽनन्तःपादम्। ६७ जनसनखनक्रमगमो विट्। ६८ अदोऽन्नन्ने। ६९ क्रव्ये च। ७० दुहः कब्घश्च। ७१ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्। ७२ अवे यजः। ७३ विजुपे छन्दसि। ७४ आतो मनिन्क्वन्विब्वनिपश्च। ७५ अन्येभ्योऽपि दृश्यन्ते। ७६ क्विप् च। ७७ स्थः क च। ७८ सुप्यजातौ णिनिस्ताच्छील्ये। ७९ कर्तर्युपमाने। ८० व्रते। ८१ बहुलमाभीक्ष्ण्ये। ८२ मनः। ८३ आत्ममाने खश्च। ८४ भूते। ८५ करणे यजः। ८६ कर्मणि हनः। ८७ ब्रह्मभ्रूणवृत्रेषु क्विप्। ८८ बहुलं छन्दसि। ८९ सुकर्मपापमन्त्रपुण्येषु कृञः। ९० सोमे सुञः।

२. द्वितीयोऽध्यायः (समास, कारक एवं सुप्-विधि पाद १-४)

तृतीयाध्याये द्वितीयः पादः २१ ९१ अग्नौ चेः। | ११८ लट् स्मे। ९२ कर्मण्यगन्याख्यायाम्। | ११९ अपरोक्षे च। ९३ कर्मणीनि विक्रियः। | १२० ननौ पृष्टप्रतिवचने। ९४ दृशेः क्वनिप्। | १२१ नन्वोर्विभाषा। ९५ राजनि युधिकृञः। | १२२ पुरि लुङ् चास्मे। ९६ सहे च। | १२३ वर्तमाने लट्। ९७ सप्तम्यां जनेर्डः। | १२४ लटः शतृशानचावप्रथमा- ९८ पञ्चम्यांजातौ। | समानाधिकरणे। ९९ उपसर्गे च सञ्ज्ञायाम्। | १२५ सम्बोधने च। १०० अनौ कर्मणि। | १२६ लक्षणहेत्वोः क्रियायाः। १०१ अन्येष्वपि दृश्यते। | १२७ तौ सत्। १०२ निष्ठा। | १२८ पूङ्यजोः शानन्। १०३ सुयजोङ्ग्वनिप्। | १२९ ताच्छील्यवयोवचनशक्तिषु १०४ जीर्यतेरतृन्। | चानश्। १०५ छन्दसि लिट्। | १३० इङ्धार्योः शत्रकृच्छ्रिणि। १०६ लिटः कानज्वा। | १३१ द्विषोऽमित्रे। १०७ क्वसुश्च। | १३२ सुञो यज्ञसंयोगे। १०८ भाषायां सदवसश्रुवः। | १३३ अर्हः प्रशंसायाम्। १०९ उपेयिवाननाश्वाननूचानश्च। | १३४ आ क्वेस्तच्छीलतद्धर्म- ११० लुङ्। | तत्साधुकारिषु। १११ अनद्यतने लङ्। | १३५ तृन्। ११२ अभिज्ञावचने लृट्। | १३६ अलङ्कृञ्निराकृञ्प्रजनोत्- ११३ न यदि। | पचोत्पतोन्मदरुच्यपत्रप- ११४ विभाषा साकाङ्क्षे। | वृतुवृधुसहचर इष्णुच्। ११५ परोक्षे लिट्। | १३७ णेश्छन्दसि। ११६ हशश्वतोलङ् च। | १३८ भुवश्च। ११७ प्रश्ने चासन्नकाले। | १३९ ग्लाजिस्थश्च क्स्नुः।

२२ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) १४० त्रसिगृधिधृषिक्षिपेः क्नुः। १४१ शमित्यष्टाभ्यो घिनुण्। १४२ सम्पृचानुरुधाङ्यमाङ्यस- परिमृसंमृजपरिदेविसञ्ज्वर- परिक्षिपपरिरटपरिवदपरिदह- परिमुहदुषद्विषद्रुहदुहयुजा- क्रीडविविचत्यजरजभजाति- चरापचरामुषाभ्यामहन्श्व। १४३ वौ कषलसकत्थस्रम्भः। १४४ अपे च लषः। १४५ प्रे लपसृद्रुमथवदवसः। १४६ निन्दहिंसक्लिषखादविनाश- परिक्षिपपरिरटपरिवादि- व्याभाषासूयो वुञ्। १४७ देविऋशोश्चोपसर्गे। १४८ चलनशब्दार्थादकर्मकाद् युच्। १४९ अनुदात्तेतश्च हलादेः। १५० जुचङ्क्रम्यदन्द्रम्यसृगृधि- ज्वलशुचलषपतपदः। १५१ क्रुधमण्डार्थेभ्यश्च। १५२ न यः। १५३ सूददीपदीक्षश्च। १५४ लषपतपदस्थाभूवृषहनकम- गमशॄभ्य उकञ्। १५५ जल्पभिक्षुकुट्टलुण्टवृङः षाकन्। १५६ प्रजोरिनिः। १५७ जिदृक्षिविश्रीण्वमाव्यथाभ्यम- परिभूप्रसूभ्यश्च। १५८ स्पृहगृहिपतिदयिनिद्रातन्द्रा- श्रद्धाभ्य आलुच्। १५९ दाधेट्शिसदसो रुः। १६० सृघस्यदः क्मरच्। १६१ भञ्जभासमिदो घुरच्। १६२ विदिभिदिच्छिदेः कुरच्। १६३ इण्नशिजिसर्तिभ्यः क्वरप्। १६४ गत्वरश्च। १६५ जागरूकः। १६६ यजजपदशां यङः। १६७ नमिकम्पिस्म्यजसकमहिंस- दीपो रः। १६८ सनाशंसभिक्ष उः। १६९ विन्दुरिच्छुः। १७० क्याच्छन्दसि। १७१ आदृगमहनजनः किकिनौ लिट् च। १७२ स्वपितृषोर्नजिङ्। १७३ शृवन्द्योरारुः। १७४ भियः क्रुक्लुकनौ। १७५ स्थेशभासपिसकसो वरच्। १७६ यश्च यङः। १७७ भ्राजभासधुर्विद्युतोर्जिपृजु- ग्रावस्तुवः क्विप्।

तृतीयाध्याये तृतीयः पादः २३

[वामस्तम्भः] १७८ अन्येभ्योऽपि दृश्यते। १७९ भुवः सञ्ज्ञान्तरयोः। १८० विप्रसम्भ्यो ड्वसञ्ज्ञायाम्। १८१ धः कर्मणि ष्ट्रन्। १८२ दाम्नीशसयुयुजस्तुतुदसिसिच- मिहपतदशनहः करणे। १८३ हलसूकरयोः पुवः। १८४ अर्तिलूधूसूखनसहचर इत्रः। १८५ पुवः सञ्ज्ञायाम्। १८६ कर्तरि चर्षिदेवतयोः। १८७ जीतः क्तः। १८८ मतिबुद्धिपूजार्थेभ्यश्च। --०-- तृतीयः पादः १ उणादयो बहुलम्। २ भूतेऽपि दृश्यन्ते। ३ भविष्यति गम्यादयः। ४ यावत्पुरानिपातयोर्लट्। ५ विभाषा कदाकर्ह्योः। ६ किंवृत्ते लिप्सायाम्। ७ लिप्स्यमानसिद्धौ च। ८ लोडर्थलक्षणे च। ९ लिङ् चोर्ध्वमौहूर्तिके। १० तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्। ११ भाववचनाश्च। १२ अणकर्मणि च।

[दक्षिणस्तम्भः] १३ लृट् शेषे च। १४ लुटः सद् वा। १५ अनद्यतने लुट्। १६ पदरुजविशस्पृशो घञ्। १७ सृ स्थिरे। १८ भावे। १९ अकर्तरि च कारके सञ्ज्ञायाम्। २० परिमाणाख्यायां सर्वेभ्यः। २१ इङश्च। २२ उपसर्गे रुवः। २३ समि युद्रुदुवः। २४ श्रिणीभुवोऽनुपसर्गे। २५ वौ क्षुश्रुवः। २६ अवोदोर्नियः। २७ प्रे द्रुस्तुस्रुवः। २८ निर्भयोः पूल्बोः। २९ उन्योर्ग्रः। ३० कृ धान्ये। ३१ यज्ञे समि स्तुवः। ३२ प्रे स्त्रोऽयज्ञे। ३३ प्रथने वावशब्दे। ३४ छन्दोनाम्नि च। ३५ उदि ग्रहः। ३६ समि मुष्टौ। ३७ परिन्योर्णीणोद्यूताभ्रेषयोः। ३८ परावनुपात्यय इणः। ३९ व्युपयोः शेतेः पर्याये।

२४ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ४० हस्तादाने चेरस्तेये। | ६६ नित्यं पणः परिमाणे। ४१ निवासचितिशरीरोप- | ६७ मदोऽनुपसर्गे। समाधानेष्वादेश्च कः। | ६८ प्रमदसम्मद्यौ हर्षे। ४२ सङ्घे चानोत्तराधर्ये। | ६९ समुदोरजः पशुषु। ४३ कर्मव्यतिहारे णच्स्त्रियाम्। | ७० अक्षेषु ग्लहः। ४४ अभिविधौ भाव इनुण्। | ७१ प्रजने सर्तेः। ४५ आक्रोशेड्वन्योर्ग्रहः। | ७२ ह्वः सम्प्रसारणं च ४६ प्रे लिप्सायाम्। | न्यभ्युपविषु। ४७ परौ यज्ञे। | ७३ आङि युद्धे। ४८ नौ वृ धान्ये। | ७४ निपानमाहावः। ४९ उदि श्रयतियौतिपूद्रुवः। | ७५ भावेऽनुपसर्गस्य। ५० विभाषाङि रुप्लुवोः। | ७६ हनश्च वधः। ५१ अवे ग्रहो वर्षप्रतिबन्धे। | ७७ मूर्तौ घनः। ५२ प्रे वणिजाम्। | ७८ अन्तर्घनो देशे। ५३ रश्मौ च। | ७९ अगारैकदेशे प्रघणः प्रघाणश्च। ५४ वृणोतेराच्छादने। | ८० उद्घनोऽत्याधानम्। ५५ परौ भुवोऽवज्ञाने। | ८१ अपघनोऽङ्गम्। ५६ एरच्। | ८२ करणेऽयोविद्रुषु। ५७ ऋदोरप्। | ८३ स्तम्बे क च। ५८ ग्रहवृदृनिश्चिगमश्च। | ८४ परौ घः। ५९ उपसर्गेऽदः। | ८५ उपघ्न आश्रये। ६० नौ ण च। | ८६ सङ्घोद्घौ गणप्रशंसयोः। ६१ व्यधजपोरनुपसर्गे। | ८७ निघो निमित्तम्। ६२ स्वनहसोर्वा। | ८८ द्वितः क्त्रिः। ६३ यमः समुपनिविषु च। | ८९ ट्वितोऽथुच्। ६४ नौ गदनदपठस्वनः। | ९० यजयाचयतविच्छप्रच्छरक्षो ६५ क्वणो वीणायां च। | नङ्।