भारतकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

१४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

स जीव शरदः शतम् इति मूर्धनि त्रिरवघ्राय ॥ १० ॥

यदा पिता प्रोष्य प्रत्यागच्छति तदा पुत्रस्य शिर उभाभ्यां हस्ताभ्यां सर्वतो गृहीत्वा मूर्धनि त्रिरवघ्राणं कृत्वा अङ्गादङ्गात् सम्भवसीत्येकामृचं जपेत् । एतत् पुत्रे प्रोष्यागतेऽपि कर्तव्यं न्यायस्य तुल्यत्वात् । तथा च सत्याषाढगृह्ये — 'आगतं च पुत्रमि'ति ॥१०॥

आवृतैव कुमार्यै ॥ ११ ॥

षष्ठ्यर्थे चतुर्थी । यदनन्तरमुक्तं प्रवासादेत्येति तदत्र विधीयते । अपरे जातकर्मणोऽपि विधानमिच्छन्ति तद् गृह्यान्तरेषु न दृष्टम् ॥ ११ ॥

इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये त्रयोदशः खण्डः ।


अथ चतुर्दशः खण्डः ।

षष्ठे मास्यन्नप्राशनम् ॥ १ ॥

जन्मनः प्रभृति षष्ठे मास्यन्नप्राशनं कर्तव्यम् ॥ १ ॥

आजमन्नाद्यकामः ॥ २ ॥

यः पुत्रमन्नाद्यमन्नादनं कामयते स आजं प्राशयेत् । अजस्य विकारमाजं मांसं, न क्षीरं दधि घृतं वा तैत्तिरेण साहचर्यात् ॥ २ ॥

तैत्तिरं ब्रह्मवर्चसकामः ॥ ३ ॥

चतुर्दशः खण्डः ] अनाविलोपेताम् । ६५

तित्तिरेर्विकारं तैत्तिरं तित्तिरिः पक्षिविशेषः तन्मांसम् । व्यञ्जनत्वेन चानयोरुपदेशः । अन्नं तु वक्ष्यमाणमेव व्यञ्जनत्वेन चानयोर्लोके प्रसिद्धत्वात् ॥ ३ ॥

घृतौदनं तेजस्कामः ॥ ४ ॥

घृतेन संस्कृत ओदनो घृतौदनः न तु घृतमिश्रः । यदि तथा स्याद् घृतं तेजस्काम इत्येवं ब्रूयाद्, यथा पूर्वयोर्व्यञ्जनत्वेन निवेशः तथा घृतस्यापि भविष्यति ॥ ४ ॥

दधिमधुघृतमिश्रमन्नं प्राशयेत् ॥ ५ ॥

दध्यादिभिर्मिश्रमन्नं प्राशयेदित्यकामसंयुक्तो विधिः ॥ ५ ॥

अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे इति ॥ ६ ॥

अयं प्राशनमन्त्रः । सर्वेषु च प्राशनेष्वयं मन्त्रो भवति, नानन्तर एव नित्ये प्राशने । ते खल्वस्मिन्नेव प्राशने कामसंयोगेन गुणविधयः । प्राशने प्रकृते पुनः प्राशयेदिति वचनमप्येतदर्थमेव, कथं प्राशनमात्रे मन्त्रः स्यादिति ॥ ६ ॥

आवृतैव कुमार्यै ॥ ७ ॥

गतम् ॥ ७ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये चतुर्दशः खण्डः।


१. 'धे' ख. पाठः.

K

तृतीये वर्षे चौलम् ॥ १ ॥

६६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

अथ पञ्चदशः खण्डः ।

तृतीये वर्षे चौलम् ॥ १ ॥

कर्तव्यमिति शेषः । जाताधिकाराज्जन्मनः प्रभृति ॥

यथाकुलधर्मं वा ॥ २ ॥

यस्य यादृशः कुलधर्मः तस्य तथा वा कर्तव्यम् । प्राग्वा पश्चाद्वा । यस्यापि कुलधर्मो नियतः तस्यापि तृतीयो वर्षो विकल्पेन भवति ॥ २ ॥

उत्तरतोऽग्नेर्व्रीहियवमाषतिलानां पृथक् पूर्णशरावाणि निदधाति ॥ ३ ॥

पृथग्ग्रहणाद् व्रीहीणामेव पूर्णमेकं शरावम् । एवं यवानाम् एवं माषाणाम् एवं तिलानाम् । सुहितार्थयोगे षष्ठी 'पूरणगुणसुहित' इति ज्ञापकात् । यथा ओदनस्य पूर्णाश्छात्रा इति । तानि चत्वारि पात्राण्युत्तरतोऽग्नेर्निदधाति स्थापयति । शरावाणां परस्परस्पर्शेऽपि न दोषः पृथग्ग्रहणस्यान्यार्थत्वात् ॥ ३ ॥

पश्चात् कारयिष्यमाणो मातुरुपस्थे ॥ ४ ॥

यदर्थं तत् कर्म स कारयिष्यमाणः कुमारः । स पश्चादग्नेर्मातुरुपस्थे । किम् । 'उपनिहितानि भवन्ती'ति वक्ष्यमाणं विपरिणामेन सम्बन्धनीयम् । उपनिहितो भवतीति ॥ ४ ॥

आनडुहं गोमयं नवे शरावे शमीपर्णानि चोपनिहितानि भवन्तीति ॥ ५ ॥


१. 'येन तत् कर्म प्रवर्तितं स' घ. पाठः.

पञ्चदशः खण्डः] अनाविलोपेतुम् । ६७

आनडुहं गोमयं नवे शरावे। पूर्ववत् सम्बन्धः पश्चा- दग्नेरुपनिहितं भवति। शमीपर्णानि चोपनिहितानि भवन्ति पश्चादग्नेर्नवे शराव इत्येव ॥ ५ ॥

मातुः पिता दक्षिणत एकविंशतिकुशापिञ्जूला- न्यादाय ॥ ६ ॥

आसीतेति शेषः । कुमारस्य पिता मातुर्दक्षिणतः कुशस्तम्बान्यादायासीत । मातुरितिवचनमग्नेर्दक्षिणतो मा- भूत् । अस्मिन् पक्षे पितुरन्यः कर्ता ॥ ६ ॥

ब्रह्मा वैतानि धारयेत् ॥ ७ ॥

योऽस्मिन् कर्मणि ब्रह्मा स एतानि कुशपिञ्जूलानि गृहीत्वा धारयेत् । अस्मिन् पक्षे पितैव कर्त्ता । ब्रह्मा च स्व- स्थान एवासीनो धारयेत् । मातुर्दक्षिणत इत्येतत् तु पितृपक्षे ॥

पश्चात् कारयिष्यमाणस्यावस्थाय शीतोष्णा अपः समानीयोष्णेन वायवुदकेन हीति ॥ ८ ॥

शीताश्चोष्णाश्चाप उभयीः समानयति मिश्रयति उष्णेन वायविति मन्त्रेण ॥ ८ ॥

तासां गृहीत्वा नवनीतं दधिद्रप्सान् वा प्रद- क्षिणं शिरस्त्रिरुन्दति ॥ ९ ॥

तासां समानीतानामपामेकदेशं गृहीत्वा नवनीतं दधिकणान् वा ताभिः सह गृहीत्वा कुमारस्य शिरः प्रदक्षिणं त्रिरुन्दति क्लेदयति ॥ ९ ॥


१. 'नि गृहीत्वासी' ग. घ. पाठः. २. 'त्यग्ने' क. ख. पाठः.

६८ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

अदितिः केशान् वपत्वाप उन्दन्तु वर्चस इति ॥ १० ॥
अयमुन्दनमन्त्रः ॥ १० ॥

दक्षिणे केशपक्षे त्रीणि त्रीणि कुशपिञ्जूलान्यभ्यात्माग्राणि निदधाति ओषधे त्रायस्वैनमिति । स्वधिते मैनं हिंसीरिति लौहेन क्षुरेण ॥ ११ ॥
संदधातीति शेषः । सपिञ्जूलान् केशान् लौहेन क्षुरेण संदधाति स्वधिते मैनं हिंसीरिति मन्त्रेण । क्षुरस्य लौहत्वाव्यभिचारेऽपि लौहेनेत्युच्यते शाखान्तरोक्तस्ताम्रमयः क्षुरो यथा न स्यादिति ॥ ११ ॥

प्रच्छिनत्ति येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्यायुष्माञ्जरदष्टिर्यथा सदिति ॥ १२ ॥
तेन क्षुरेण सपिञ्जूलान् केशान् प्रच्छिनत्ति येनावपदिति मन्त्रेण ॥ १२ ॥

प्रच्छिद्य प्रच्छिद्य प्रागग्राञ्छमीपर्णैः सह मात्रे प्रयच्छति तानानडुहे गोमये निदधाति ॥ १३ ॥
वीप्सा वक्ष्यमाणप्रच्छेदनापेक्षा । प्रागग्रानिति दीयमानानां प्रागग्रता विधीयते । शमीपर्णैः सह एकीकृत्य मातुर्हस्ते ददाति । सा तानानडुहे गोमये निदधाति । अत्र प्रागग्रताया नियमो नास्ति ॥ १३ ॥

येन धाता बृहस्पतेरग्नेरिन्द्रस्य चायुषेऽवपत् । तेन ते आयुषे वपामि सुश्लोक्याय स्वस्तय इति

द्वितीयम् । येन भूयश्चरात्ययं ज्योक् च पश्याति सूर्यम् ।

पञ्चदशः खण्डः] अनाविलोपेनम् । १९

द्वितीयम् । येन भूयश्चरात्ययं ज्योक् च पश्याति सूर्यम् । तेन ते आयुषे वपामि सुश्लोक्याय स्वस्तय इति तृ- तीयम् ॥ १४ ॥

प्रच्छिनत्तीत्येव ॥ १४ ॥

सर्वैर्मन्त्रैश्चतुर्थम् ॥ १५ ॥

येनावपत्, येन धाता, येन भूयश्चेत्येतैः । अन्यत् पूर्वसमानम् ॥ १५ ॥

एवमुत्तरतस्त्रिः ॥ १६ ॥

यथा दक्षिणे केशपक्षे प्रच्छेदनानि कृतानि, एवं तै- रेव मन्त्रैरुत्तरे केशपक्षे कर्तव्यानि । किं सर्वाणि, नेत्याह — त्रिः आदितस्त्रीणि प्रच्छेदनानि भवन्ति । सर्वैर्मन्त्रैश्चतुर्थ- मित्येतन्न स्यादित्यर्थः । तदेवं दक्षिणेपु चतुर्षु प्रच्छेदनेषु त्रीणि त्रीणि द्वादश उत्तरेषु त्रीणि त्रीणि नव इत्येकविंशतेः पिञ्जूलानां विनियोगः ॥ १६ ॥

क्षुरतेजो निमृजेद् यत् क्षुरेण मर्चयता सुपे- शसा वप्ता वपसि केशान् । शुन्धि शिरो मास्यायुः प्रमोषीरिति ॥ १७ ॥

तेजो धारा तां निमृजेत् निमृज्यात् निशब्दोपादा- नान्नीचीनं मार्जनं यत् क्षुरेणेति मन्त्रेण ॥ १७ ॥

नापितं शिष्याच्छीतोष्णाभिरद्भिरवर्थं कुर्वाणो- ऽक्ष्णवन् कुशली केशान् कुर्विति ॥ १८ ॥

७०आश्वलायनगृह्यसूत्रम्[प्रथमोऽध्यायः

शिष्यात् प्रेष्येत् शीतोष्णाभिरित्यादिना प्रैषेण याः पूर्वसमानीताः शीतोष्णा आपः ताभिरद्भिरुपकार्यं कुर्वाणः अक्षण्वन् क्षुरेण क्षतिमकुर्वन् कुशली कुर्विति प्रैषस्यार्थः । कुशलीकरणं वपनं विपरीतलक्षणयो मङ्गलवारवत् । 'रिक्तो वा एषो न विहितो यन्मुण्ड' इति श्रूयते ॥ १८ ॥

यथाकुलधर्मं केशवेशान् कारयेत् ॥ १९ ॥

एकशिखस्त्रिशिखः पञ्चशिख इति कुलधर्माः । तेषु यो यस्य कुलधर्मः तेन तस्य केशवेशान् केशसन्निवेशान् कारयेत् । वेषानित्यपि पाठे स एवार्थः ॥ १९ ॥

आवृतैव कुमार्यै ॥ २० ॥

होमादिकं सर्वं लुप्यते । वपनं तूष्णीं कर्तव्यमित्यर्थः ॥ २० ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये पञ्चदशः खण्डः ।


अथ षोडशः खण्डः ।

एतेन गोदानं षोडशे वर्षे ॥ १ ॥

गोदानं नाम वेदव्रतं तदेतेन चौलकर्मणा व्याख्यातम् । षोडशे वर्षे कर्तव्यं, न तृतीये² । विशेषो वक्ष्यते ॥ १ ॥

केशशब्दे तु श्मश्रुशब्दान् कारयेत् ॥ २ ॥

चौलकर्मणि मन्त्रगतो यः केशशब्दः 'अदितिः केशान् वप्ता वपसि केशानि'ति तत्स्थाने श्मश्रुशब्दान् ब्रूयात् ।


१. 'या । रि' क. ख. ग. पाठः.
२. 'ये त्वत्र विशेषास्ते व' ग. पाठः.

षोडशः खण्डः] अनाविलोपेताम् । ७१

‘अदितिः श्मश्रूणि वपतु’, ‘वत्ता वपसि श्मश्रूणी’ति । केशशब्द इत्येकवचनं जातिपरम् । एवं च श्मश्रुशब्दमिति वक्तव्ये बहुवचनं विधिगतस्यापि केशशब्दस्य स्थाने श्मश्रुशब्दप्रवेशार्थं, यथा दक्षिणे केशपक्ष इत्यस्य दक्षिणे श्मश्रुपक्ष इति ॥ २ ॥

श्मश्रूणीहोन्दति ॥ ३ ॥

इह गोदाने श्मश्रूण्युन्दति, न केशान् ॥ ३ ॥

शुन्धि शिरो मुखं मास्यायुः प्रमोषीरिति ॥ ४ ॥

क्षुरनिमार्जने मुखशब्दोऽधिकं इति विशेषः ॥ ४ ॥

केशश्मश्रुलोमनखान्यृदक्संस्थानीति संप्रेष्यति ॥ ५ ॥

नापितस्य शासने विशेषः शीतोष्णाभिरित्यारभ्याक्षण्वन् केशश्मश्रुनखलोमान्युदक्संस्थानि कुशलीकुर्विति ॥ ५ ॥

आप्लुत्य वाग्यतः स्थित्वाऽहःशेषमाचार्यसकाशे वाचं विसृजेत वरं ददामीति ॥ ६ ॥

आप्लुत्य स्नात्वा कृतवाग्यमनः अहश्शेषं तिष्ठेद्, गमनासनशयनादि न कुर्यात् । तत आचार्यस्य सकाशे वरं ददामीति वाचं विसृजेत् ॥ ६ ॥

को वरः तदाह —

गोमिथुनं दक्षिणा ॥ ७ ॥

धेनुश्च ऋषभश्च गोमिथुनं सा दक्षिणाचार्याय ॥ ७ ॥

७३ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

संवत्सरमादिशेत् ॥ ८ ॥

एवं कर्म कृत्वा संवत्सरं व्रतमादिशेत् अपरेद्युरहानि ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये षोडशः खण्डः ।


अथ सप्तदशः खण्डः ।

अष्टमे वर्षे ब्राह्मणमुपनयेत् ॥ १ ॥

जाताधिकाराज्जननादारभ्याष्टममुच्यते ।
कुमारमित्यधिकृतेर्न स्त्रीणामुपनयनम् ॥
ब्राह्मणग्रहणं चात्र शूद्रादिविनिवृत्तये ।
विशेषो वक्ष्यते यस्मादिह क्षत्रियवैश्ययोः ॥
ब्राह्मणः क्षत्रियो वैश्य इति बौधायनादिभिः ।
उक्तानामनुलोमानामप्यत्र ग्रहणं मतम् ॥
परस्मैपदपाठोऽयमध्येतृणां प्रमादजः ।
आचार्यकरणे यस्मात् प्राप्नोत्यत्रात्मनेपदम् ॥ १ ॥

गर्भाष्टमे वा ॥ २ ॥

गर्भाष्टमे वर्षे यस्मिन् वर्षे गर्भो भूत्वा शेते स गर्भः। सोऽष्टमो यस्येति बहुव्रीहिः। षष्ठीसमासस्तु पूरणप्रत्ययान्तेन प्रतिषिद्धः ॥ २ ॥

एकादशे क्षत्रियम् ॥ ३ ॥

प्रकरणात् गर्भेकादशे वेति गम्यते ॥ ३ ॥

द्वादशे वैश्यम् ॥ ४ ॥

अत्रापि गर्भद्वादशे वेति ॥ ४ ॥

सप्तदशः खण्डः] अनाविलोपेतुम् । ७३

अनुकल्पानाह—

आ षोडशाद् ब्राह्मणस्यानतीतः कालः, आ द्वाविंशात् क्षत्रियस्य आ चतुर्विंशाद् वैश्यस्य ॥ ५ ॥

अभिविधावाङ् । यद्यप्यनतीतः काल इत्युक्तं तथापि मुख्यात् कालादूर्ध्वं कियदपि प्रायश्चित्तं भवति । आहापस्तम्बः — 'अतिक्रान्ते सावित्र्याः काल ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेदथोपनयनं ततः संवत्सरमुदकोपस्पर्शनमथाध्याप्य' इति ॥ ५ ॥-

अत ऊर्ध्वं पतितसावित्रीका भवन्ति ॥ ६ ॥

अतः षोडशादिभ्यो वर्षेभ्य ऊर्ध्वम् एषामकृतप्रायश्चित्तानां सावित्र्यामधिकारो नास्ति ॥ ६ ॥

अतश्च —

नैनानुपनयेन्नाध्यापयेन्न याजयेन्नैभिर्व्यावहेयुः ॥ ७ ॥

(विवाहः १ व्यावाहः) कन्याया दानप्रतिग्रहौ। रागाल्लोभाद् भयादज्ञानाद् वा केनचिदुपनीतस्यापि नाध्यापनादीनि कर्तव्यानीत्येवमर्थस्तेषां प्रतिषेधः। एतच्च सर्वं प्रायश्चित्ते सति कर्तव्यमेव। आहापस्तम्बः—'अथ यस्य पिता पितामह इत्यनुपेतौ स्यातां ते ब्रह्महसंस्तुताः। तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत्। तेषामिच्छतां प्रायश्चित्तम्। यथा प्रथमेऽतिक्रम ऋतुरेवं संवत्सरः। अथोपनयनं तत उदकोपस्पर्शनम्। प्रतिपुरुषं संख्याय संवत्सरान् यावन्तोऽनुपेताः स्युः। सप्तभिः पावमानीभिर्यदन्ति यच्च दूरक इत्येताभिर्यजुष्पवित्रेण सामप-


१. 'युः ॥ क' क. ख. ग. पाठः

७४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

वित्रेणाङ्गिरसेनेति। अपिवा व्याहतीभिरेव। अथाध्याप्यः। अथ यस्य प्रपितामहादि नानुस्मर्येत उपनयनं ते श्मशानसंस्तुताः। तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत् तेषामिच्छतां प्रायश्चित्तं द्वादशवर्षाणि त्रैविद्यकं ब्रह्मचर्यं चरेदथोपनयनं तत उदकोपस्पर्शनं पावमान्यादिभिः। अथ गृहमेधोपदेशनम्। नाध्यापनम्। ततो यो निर्वर्त्तते तस्य संस्कारः यथा प्रथमेऽतिक्रमे। तत ऊर्ध्वं प्रकृतिवदिति। यस्य पिता पितामहश्चानुपेतौ इतिशब्दात् स्वयं च षोडशादिभ्य ऊर्ध्वं ते तथाविधा माणवका ब्रह्महण इत्येव कीर्तिता वेदवादिभिः। तेषामभ्यागमनादि वर्जयेत्। अभ्यागमनं यज्ञार्थमुपसर्पणं गृहागते प्रत्युत्थानादि। तेषामिच्छतामिति वचनात् न बलात्कारेण कारयितव्याः। यथा प्रथमेऽतिक्रमे सप्तदशात् प्रागष्टमादूर्ध्वमुपनयनातिक्रमे ऋतुस्त्रैविद्यकस्य ब्रह्मचर्यस्य कालः। एवमत्र संवत्सरः। अथोपनयनं तत उदकोपस्पर्शनम्। कियन्तं कालं कैर्वा मन्त्रैः। प्रतिपुरुषं यदि स्वयमेवानुपेतस्तदैकं संवत्सरम् अथ पिता द्वौ संवत्सरौ अथ पितामहोऽपि त्रीन् संवत्सरानिति। अथ मन्त्राः 'यदन्ति यच्च दूरके' इति सप्त पवमानदेवत्याः। यजुष्पवित्रम् 'आपो अस्मान् मातरः शुन्धयन्त्व'ति। सामपवित्रं वामदेव्ये तृचे गीतं 'कयानश्चित्र आभुवदि'ति। आङ्गिरसं 'हंसः शुचिषदिति। अपिवा व्याहृतयः। एवं संवत्सरे गते अथाध्याप्यः। अथ यस्य, पूर्वेण गतम्। द्वादशवर्षाणि तु¹ ब्रह्मचर्यम्। त्रिषु वेदेषु समानं त्रैविद्यकं


१. 'तु वेदम्' ख. ग. पाठः.

सप्तदशः खण्डः ] अनाविलोपेतम् । ७५

ब्रह्मचर्यम् । गुरुशुश्रूषा भैक्षचरणम् इत्येतत् पावमानादि- भिरिति उदकोपस्पर्शनमिति गम्यमानत्वान्नोक्तम् । काल- स्यानुक्तत्वात् संवत्सरमेव । गृहमेधो गृह्यशास्त्रं तस्योपदेशो गृह्यकर्मभिरधिक्रियत इत्यर्थः । नाध्यापनं वेदस्य । तत एवं कृतेप्रायश्चित्ताद् यो निर्वर्तते उत्पद्यते तस्योपनयनं सं- स्कारः कर्तव्यः । यथा प्रथमेऽतिक्रमे अष्टमादूर्ध्वमृतुं त्रैविद्यकं ब्रह्मचर्यं चरेदित्यादि ततस्तु यो निर्वर्त्तते तत आरभ्य प्रकृ- तिवद्यथाप्राप्तमुपनयनं न किञ्चित् प्रायश्चित्तमिति ॥ ७ ॥

अलङ्कृतं कुमारं कुशलीकृतशिरसमहतेन वा- ससा संवीतमैणेयेन वाजिनेन ब्राह्मणं रौरवेण क्षत्रिय- माजेन वैश्यम् ॥ ८ ॥

द्वितीयानिर्देशादुपनयेदिति व्यवहितमपि सम्बध्यते । कुमाराधिकारे पुनः कुमारग्रहण‘मथोपेतपूर्वस्ये’त्युपनीतस्य पुनरुपनयनेऽलङ्कारो मा भूदिति । व्याख्यातं कुशलीकरणम् । अहतम् अनुपयुक्तमभिनवं तेन वाससा संवीतं प्रावृतम् । अजिनं चर्म तेन वा वाससा वा संवीतम् । वासोऽजिनयो- र्विकल्पः । एतावत् साधारणम् । अजिने विशेषानाह — ऐणेयेन ब्राह्मणमित्यादि । एणी बिन्दुरहिता मृगी तस्या वि- कार ऐणेयम् । ‘एण्या ढञ्’ । रुरुः बिन्दुमान् मृगः । एवं संवीतं कुमारमुपनयेत् । उपनयनं नाम पितृकुलाद् विधिवदा- चार्यकुलप्रापणम् । अस्मिन्नवसरे यज्ञोपवीतधारणम् । यथाह बोधायनः — स्नातं बद्धशिखं यज्ञोपवीतं प्रतिमुञ्चन् वाच- यति ‘यज्ञोपवीतं परमं पवित्रमि’ति ॥ ८ ॥


१. ‘त्वा’ क. पाठः.

७६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

यदि वासांसि वसीरन् रक्तानि वसीरन् काषायं ब्राह्मणो माञ्जिष्ठं क्षत्रियो हारिद्रं वैश्यः ॥ ९ ॥

व्यवहितकल्पनया योगद्वयमिदं व्याख्येयम् । वासांसि वसीरन्निति नित्यो विधिः। यदि रक्तानि वसीरन् काषायं ब्राह्मण इत्यादिरनित्यो विधिः । शुक्लस्य वर्णान्तरोपादानं रागः कषायमञ्जिष्ठाहारिद्रा रञ्जनद्रव्याणि ॥ ९ ॥

तेषां मेखला मौञ्जी ब्राह्मणस्य धनुर्ज्या क्षत्रियस्य आवी वैश्यस्य ॥ १० ॥

मुञ्जा तृणविशेषः । धनुर्ज्या धनुषोऽपनीय ग्राह्या मौर्वी । अविरूर्णांयुः तद्रोमभिः कृता आवी ॥ १० ॥

तेषां दण्डाः पालाशो ब्राह्मणस्य औदुम्बरः क्षत्रियस्य बैल्वो वैश्यस्य केशसंमितो ब्राह्मणस्य ललाटसंमितः क्षत्रियस्य घ्राणसंमितो वैश्यस्य ॥ ११ ॥

ते च क्रमेण मूर्धललाटनासाग्रप्रमाणाः यूपवक्राः सत्वचोऽनभिदूषिता नृणामनुद्वेजकाः ॥ ११ ॥

सर्वे वा सर्वेषाम् ॥ १२ ॥

उक्ताश्चानुक्ताश्च । तथाच गौतमः — 'यज्ञियो वा सर्वेषामि'ति । आपस्तम्बस्तु — 'वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ती'ति ॥ १२ ॥


१. 'स्य तेषां मतेन दण्डा भवन्ति । दण्डनियमो मेखलाभिर्व्याख्यातः । ते च शाखान्तरोक्तलक्षणा भवन्ति । के' ख. पाठः.

सप्तदशः खण्डः] अनाविलोपेतुम् । ७७

समन्वारब्धे हुत्वोत्तरतोऽग्नेः प्राङ्मुख आचार्योऽवतिष्ठते ॥ १३ ॥

अथ कुमारे समन्वारब्धे समन्वारब्धवति जुहोत्याचार्यः । शेषं स्पष्टम् ॥ १३ ॥

पुरस्तात् प्रत्यङ्मुख इतरः ॥ १४ ॥

अवतिष्ठत इत्येव । इतरः कुमारः ॥ १४ ॥

अपामञ्जली पूरयित्वा तत्सवितुर्वृणीमह इति पूर्णेनास्य पूर्णमवक्षारयत्यासिच्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्यसाविति तस्य पाणिना पाणिं साङ्गुष्ठं गृह्णीयात् ॥ १५ ॥

अथाचार्य आत्मनः कुमारस्य चाञ्जली अपां पूरयति अद्भिः पूरयति तत्रार्थादाचार्यस्यान्यः पूरयति आचार्यस्यै प्रयोजककर्तृत्वम् । पूर्णेन चात्मनोऽञ्जलिना पूर्णं कुमारस्याञ्जलिमवक्षारयति तत्सवितुर्वृणीमह इति मन्त्रेण । अवक्षारणे सत्यर्थसिद्धमासेचनम् । तथाप्यासिच्येत्युच्यते । कथम् । आसेचनं कुर्यात्, न कारयेदित्येवमर्थम् । आसिञ्च्य तस्य कुमारस्य पाणिं साङ्गुष्ठं गृह्णीयात् पाणिना देवस्य त्वेति मन्त्रेण । असावित्यत्र सम्बुद्ध्या कुमारस्य नामनिर्देशः कर्तव्यः ॥ १५ ॥

सविता ते हस्तमग्रभीदसाविति द्वितीयम् । अग्निराचार्यस्तवासाविति तृतीयम् ॥ १६ ॥


१. 'स्य तु प्र' क. पाठः.

७८ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

सविता ते हस्तमग्रभीदित्यनेन मन्त्रेण द्वितीयं ग्रह- णं कुर्यात् । एतेनोत्तरं व्याख्यातम् ॥ १६ ॥

आदित्यमीक्षयेद् देव सवितरेष ते ब्रह्मचारी तं गोपाय स मामृतेत्याचार्यः ॥ १७ ॥

अथ कुमारमीक्षयेदाचार्यो देव सवितरिति मन्त्रं ब्रू- यात् । आचार्यग्रहणमनर्थकं यथा पूर्वेषु कर्मस्वाचार्यः कर्ता एवमत्रापि भविष्यति । तत् क्रियते मन्त्रोऽप्याचार्यस्य कथं स्यादिति । इदमपि पूर्ववदेव सिद्धम् । एवं तर्ह्येतद् ज्ञाप- यत्याचार्यः अन्यत्रैवंविधे विषये ईक्षितुरेव मन्त्र इति । यथा ‘मुक्तवन्तमपामञ्जलिपूर्णमादित्यमुपस्थापयेत् त्वं व्रतानां व्र- तपतिरसी’ति ॥ १७ ॥

कस्य ब्रह्मचार्यसि प्राणस्य ब्रह्मचार्यसि कस्त्वा कमुपनयते काय त्वा परिददामीति ॥ १८ ॥

परिदद्यादिति शेषः, मन्त्रलिङ्गात् । वक्ष्यति च ‘एतेन वापनादि परिदानान्तं व्रतादेशनं व्याख्यातमिति ‘परिदानं कालश्चे’ति च ॥ १८ ॥

युवा सुवासाः परिवीत आगादित्यर्धर्चेनैनं प्रद- क्षिणमावर्तयेत् ॥ १९ ॥

प्रकृतेऽपि कुमारे पुनरेनामिति वचनादावर्तयितुर्मन्त्रः, नावर्त्यमानस्य ॥ १९ ॥

तस्याध्यंसौ पाणी कृत्वा हृदयदेशमालभेतोत्त- रेण ॥ २० ॥


१. 'रमादित्यमी' घ. पाठः.

अष्टादशः खण्डः] अनाविलेापेतम् । ७९

तस्य कुमारस्याध्यंसौ अंसयोरुपरि पाणी हृत्वा गमयित्वा तस्य हृदयदेशमालभेत उत्तरेणार्धर्चेन ‘तं धीरा’ सइत्यनेन । अर्थादुभौ प्राङ्मुखौ भवतः पुरस्तादाचार्यः ॥ २० ॥

अग्निं परिसमूह्य ब्रह्मचारी तूष्णीं समिधमादध्यात् ॥

यद्यप्यसावग्निः पूर्वमेव परिसमूहनेन संस्कृतः, तथापि वचनात् पुनरपि परिसमूहितव्यः । अपर आह — वक्ष्यति ‘सायं प्रातः समिधमादध्यादि’ति तदर्थोऽयं परिसमूहनविधिरिति । ब्रह्मचारिग्रहणमाचार्यनिवृत्त्यर्थम् । मन्त्रानुपदेशादेव सिद्धे तूष्णींग्रहणं तूष्णींहोमधर्मप्राप्त्यर्थं प्रजापतिं मनसा ध्यायन्निति ॥ २१ ॥

तमिमं तूष्णींपक्षं स्तौति —

तूष्णीं वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते ॥ २२ ॥

कस्त्वा कमुपनयते काय त्वा परिददामीति प्रजापतये ब्रह्मचारी परिदत्तस्तस्मादसौ प्राजापत्यः ॥ २२ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये सप्तदशः खण्डः ।


अथाष्टादशः खण्डः ।

मन्त्रेण हैके ॥ १ ॥

एके आचार्या मन्त्रेण समिदाधानमिच्छन्ति । हकारोऽभिमतत्वप्रदर्शनार्थः । अन्यथा ब्राह्मणोक्तत्वात् पूर्वपक्षो बलीयान् स्यात् । हशब्दात् तुल्यबलत्वं भवति । तुल्यबल-

८० आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः त्वाद् विकल्पः । अग्नये समिधमाहार्षं बृहते जातवेदसे तया त्वमग्ने वर्धस्व समिधा ब्रह्मणा वयं स्वाहेति मन्त्रः ॥ १ ॥ स समिधमाधायाग्निमुपस्पृश्य मुखं निमार्ष्टि त्रिस्तेजसा मा समनज्मीति ॥ २ ॥ स इत्युच्यते नियमार्थम् अन्यत्र समिदाधाने संमा- र्जनं मा भूदिति समिधौ वा जपेद्वेति (?)। समिद्ग्रहणमनर्थकं प्रकृतत्वात् । तत् क्रियते उभयोरपि पक्षयोर्यथा स्यादिति म- न्त्रपक्षे चामन्त्रपक्षे च । आधायाग्रहणं सायं प्रातः समिध- मादध्यादित्यत्राप्युत्तरो१ विधैर्यथा स्यादिति । प्रतिनिमार्जन- मग्नेरुपस्पर्शनं मन्त्रश्च भवति ॥ २ ॥ तेजसा ह्येवात्मानं समनक्तीति विज्ञायते ॥ ३ ॥ ब्राह्मणानुकर्षणं प्ररोचनार्थम् ॥ ३ ॥ मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु । यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासम् इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयाद् अधीहि भोः सा- वित्रीं भो अनुब्रूहीति ॥ ४ ॥ ततो मयि मेधामित्यादिभिरग्निमुपतिष्ठेत । एतच्च सायं- प्रातः समिधमादध्यादित्यत्र नित्येऽपि समिदाधाने भवति । १. 'रतो वि' ख. पाठः.

अष्टादशः खण्डः] अनाविलोपेेतम् । ८१

आचारप्राप्तं भसितधारणम् । उपस्थाय जान्वाच्य दक्षिणजा- नुं भूमौ कृत्वाचार्यमुपसंगृह्णीयात् । उपसंग्रहणमभिवादनम् । तच्च दक्षिणोत्तराभ्यां पाणिभ्यामाचार्यस्य पादौ स्पृष्ट्वा कर्त- व्यम् । दक्षिणेन दक्षिणं सव्येन सव्यम् । एवमुपसंगृह्य अधी- हि भोः सावित्रीम् इत्यादिमन्त्रं ब्रूयादाचार्यं प्रति ॥ ४ ॥

तस्य वाससा पाणिभ्यां च पाणी संगृह्य सावि- त्रीमन्वाह पच्छोऽर्धर्चशः सर्वाम् ॥ ५ ॥

तस्येत्युच्यते ब्रह्मचारिणो यद्वासः तेन यथा स्यादि- ति । तस्य वाससात्मनश्च पाणिभ्यां ब्रह्मचारिणः पाणी संगृ- ह्य सावित्रीमन्वाह प्रथमं पच्छः ततोऽर्धर्चशः ततः सर्वामिति । तत्सवितुर्वरेण्यमित्येषा सावित्री प्रसिद्धेः, न याकाचन सवि- तृदेवत्या ॥ ५ ॥

यथाशक्ति वाचयित्वा हृदयदेशेऽस्योर्ध्वाङ्गुलिं पाणिमुपदधाति । मम व्रते हृदयं ते दधामि मम चित्तम- नु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति ॥ ६ ॥

सर्वेषु वचनेषु यथा शक्नोति ब्रह्मचारी वक्तुं तथा वाचयितव्यम् । वाचयित्वा कुमारस्य हृदयदेशे आत्मनः पाणिमूर्ध्वाङ्गुलिमुपदधाति 'मम व्रत' इत्यनेन मन्त्रेण ॥ ६ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्यायेऽष्टादशः खण्डः ।

M

द्वादशवर्षाणि वेदब्रह्मचर्यम् ॥ २ ॥

८२ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

अथैकोनविंशः खण्डः।

मेखलामावध्य दण्डं प्रदाय ब्रह्मचर्यमादिशेत् । ब्रह्मचार्यस्यपोऽशान कर्म कुरु दिवा मा स्वाप्सीराचार्याधीनो वेदमधीष्वेति ॥ १ ॥

या यस्य मेखला तां तस्याबध्य यो यस्य दण्डः तं तस्मै प्रदाय ब्रह्मचार्यसीत्यादिना ब्रह्मचर्यमादिशेत् । दृष्टार्थत्वादादेशस्य मन्त्रार्थमपि ब्रूयात्। त्वमिदानीं ब्रह्मचार्यसि अ-पोऽशान मयानुज्ञातोऽप एवाशान । कर्म कुरु समिदाधान-भिक्षाचरणादि । दिवा मा स्वाप्सीः स्पष्टम् । आचार्याधीनः तच्छासने तिष्ठन् वेदमधीष्व इति मन्त्रार्थः ॥ १ ॥

द्वादशवर्षाणि वेदब्रह्मचर्यम् ॥ २ ॥

वेदस्य ब्रह्मचर्यमित्येकवचनान्तस्य समासः । एक-स्य वेदस्य द्वादशवर्षाणि ब्रह्मचर्यं, द्वयोश्चतुर्विंशतिः, त्रया-णां षट्त्रिंशत्, चतुर्णामष्टाचत्वारिंशत् । तथाचापस्तम्बः— ‘उपेतस्याचार्यकुले ब्रह्मचारिवासः। अष्टाचत्वारिंशद्वर्षाणि। पा-दोनम् । अर्धेन । त्रिभिर्वा । द्वादशावराध्यम्’ इति ॥ २ ॥

ग्रहणान्तं वा ॥ ३ ॥

अथवा यावता कालेन यो वेदो गृहीतो भवति, तावन्तं कालं तस्य ब्रह्मचर्यम् । पूर्वोक्तात् कालात् प्रागूर्ध्वं वा। एवं ब्रुवता त्रिविधं स्नानं प्रदर्शितं भवति । यथाह या-ज्ञवल्क्यः —

“वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ॥”

इति ॥ ३ ॥

एकोनविंशः खण्डः] अनाविलोपे तम् । ८३

सायंप्रातर्भिक्षेत ॥ ४ ॥
यावदात्मने चाचार्याय च पर्याप्तं तावद् भिक्षेत ।

आत्मन एव वा ॥ ४ ॥

सायंप्रातः समिधमादध्यात् ॥ ५ ॥
पुनः सायंप्रातर्ग्रहणं तावन्मात्रप्रयुक्तं समिदाधानं यथा स्यात् । तेन भोजने सति भिक्षाचरणं भवति । असति नास्ति । समिदाधानं तु नित्यम् ॥ ५ ॥

अप्रत्याख्यायिनमग्रे भिक्षेत ॥ ६ ॥
* आदौ ह्रस्वश्छान्दसः । अपपाठो वा । यो न प्रत्याचष्टे तं प्रथमं भिक्षेत । ततो यथासम्भवम् ॥ ६ ॥

अप्रत्याख्यायिनीं वा ॥ ७ ॥
एवंभूतां स्त्रियं वा प्रथमं भिक्षेत ॥ ७ ॥

भिक्षां भवान् ददात्विति ॥ ८ ॥
अनेन मन्त्रेण सर्वेषां वर्णानां पुरुषं प्रति याचनम् । यदा तु स्त्री याच्यते तदा भिक्षां भवती ददात्विति ॥ ८ ॥

अनुप्रवचनीयमिति वा ॥ ९ ॥
अनुप्रवचनीयं भवान् ददात्विति वा भिक्षां याचते । अस्मादेवं ज्ञायते — अनुप्रवचनीयार्थं भिक्षान्तरमिदं, न सायंप्रातर्भिक्षाचरणे गुणविधिरिति । तत्र मनुराह —

“भवत्पूर्वं चरेद् भैक्षमुपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥
इति ॥ ९ ॥


* 'अप्रत्यख्यायिनम्' इति पाठं मन्यते ।