भारतकोश
संग्रह पर लौटें

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

२६

सूत्रम् .विषयः.
४.अनन्तरमाचार्यस्य जपविधिः ।
५.जप्यमन्त्रनिर्देशः ।
६.जपं समाप्य विवत्स्याव इति लौकिक्या वाचा विसर्गः ।
७.एवं विसृष्टस्य समावृत्तस्य प्रशंसा ।
८.एवं समावृत्तस्य मार्गे प्रतिकूलपक्षिशब्दश्रवणे मन्त्रजपः ।
९.तथा मृगशब्दश्रवणे मन्त्रजपः ।
१०.मार्गे भये सति तां दिशं प्रत्युभयतोदीप्तस्योल्मुकस्य प्रक्षेपः ।
११.सर्वतो भयेऽष्टाभिरराज्याहुतिभिर्होमः ।
१२.अथैशान्यां दिशि स्थित्वा मन्त्रजपः ।

नवमः खण्डः ।

सूत्रम् .विषयः.
१.पुरोहितस्य युद्धसन्नाहनम् ।
२.राजाधिरूढस्य रथस्य पश्चात् स्थित्वा मन्त्रजपः ।
३.समन्त्रं कवचप्रदानम् ।
४.तथा धनुर्दानम् ।
५.राज्ञो मन्त्रजपः ।
६.पुरोहितस्य मन्त्रजपः ।
७.इषुधिप्रदानम् ।
८.प्रस्थानसमये आचार्यस्य तिष्ठतो मन्त्रजपः ।
९.अश्वाभिमन्त्रणम् ।
१०.इष्ववेक्षणमन्त्रः ।
११.अङ्गुलित्राधारणमन्त्रः ।
१२.अथ सारथेर्मन्त्रजपः ।
१३.युद्धे प्रविशतो राज्ञो बहुभिर्मन्त्रैरन्वीक्षणम् ।
१४.सौपर्णमन्त्रनिर्देशः ।
१५.रथस्य प्रागादिमुखं प्रवर्तनम् ।

सूत्रम्. | विषयः.

२७

सूत्रम्.विषयः.
१६.पुरोहितस्य समन्त्रं दुन्दुभिस्पर्शः ।
१७.समन्त्रं पुरोहितस्येषुविसर्गः ।
१८.युध्यमानेषु योधेषु पुरोहितस्य जपः ।
१९.दुन्दुभिस्पर्शनादौ राज्ञः प्रेरणं वा ।

अथ चतुर्थोऽध्यायः ।

प्रथमः खण्डः ।

१. आहिताग्ने रोगसम्भवे ग्रामाद् बहिर्वासः ।
२. तथाकरणे प्रयोजनकथनम् ।
३. ग्रामजनानामादरातिशयादरोगतासिद्धिः ।
४. जातारोग्यस्य सोमाद्यन्यतमेनेष्ट्वा गृहप्रवेशः ।
५. अनिष्ट्वापि गृहप्रवेशनानुज्ञा ।
६. आहिताग्नौ संस्थिते आग्नेय्यां नैर्ऋत्यां वा गर्तखननम् ।
७. आदहनास्थिनिधानोभयविधश्मशानलक्षणम् ।
८. तस्यैवान्यलक्षणम् ।
९. वास्तुपरीक्षावदत्रापि कण्टकिवृक्षादीनामुद्वासनम् ।
१०. आदहनश्मशानस्य मध्योच्छ्रितत्वम् ।
११. पुत्राणां वपनप्रकारः ।
१२. प्रभूतबर्हिराज्योपकल्पनम् ।
१३. पृषदाज्यमिश्रणप्रकारस्तस्य पित्र्यत्वं च ।

द्वितीयः खण्डः ।

१. अग्नेर्नयनम् ।
२. यज्ञपात्रनयनम् ।
३. प्रेतस्य पृष्ठतः पुंसां स्त्रीणां च प्रवयसामयुग्मसङ्ख्याकानां गमनम् ।
४. प्रेतस्य गोयुक्तशकटविशेषेण शिविकया वा नयनम् ।

२८

सूत्रम्.विषयः.
५.गोविशेषस्याजाविशेषस्य वानुस्तरणित्वेन निर्देशः ।
६.पशोः सव्ये बाहौ रज्जुं बद्ध्वा प्रेतस्य पृष्ठतो नयनम् ।
७.मुक्तशिखानां पुत्रादीनां ज्यैष्ठ्यक्रमेण गमनम् ।
८.खानितस्य गर्तस्य त्रिप्रदक्षिणं परिक्रमणं शमीशाखयोदकेन प्रोक्षणं च ।
९.खानिते गर्ते अग्नीनां निधानप्रकारः ।
१०.प्रेतस्यान्तर्वेदि निधानम् ।
११.इध्मचितेश्शयनम् ।
१२.तत्र प्रेतस्य संवेशनप्रकारः ।
१३.पत्न्या उत्तरतः संवेशनम् ।
१४.क्षत्रियस्य प्रेतस्योत्तरतः पत्न्या धनुषश्च संवेशनम् ।
१५.देवरादिभिः समन्त्रं पत्न्या उत्थापनम् ।
१६.वृषलेनोत्थापने कर्तुर्मन्त्रजपः ।
१७.धनुरादाने मन्त्रजपः ।
१८.वृषलेन धनुरादाने कर्तुर्मन्त्रजपः ।
१९.आरोपितं धनुश्छित्त्वेध्मचितौ प्रक्षेपः ।

तृतीयः खण्डः ।

१—११. प्रेतस्य सर्वेष्वङ्गेषु यज्ञपात्राणां निधानम् ।
१२. बिलवतां पात्राणां पृषदाज्येन पूरणम् ।
१३, १४. दृषदुपलादीनां पुत्रस्योपयोगार्थं गृह एव निक्षेपः ।
१५. अनुस्तरणीपक्षे तस्या वपामुद्धृत्य समन्त्रं प्रेतस्य मुखशिरसोः प्रच्छादनम् ।
१६, १७. अनुस्तरण्या अङ्गानां प्रेतस्याङ्गेषु यथाक्रमं निधानम् ।
१८, १९. ओदनपिण्डयोरपि हृदये निधानं, वृक्कयाभाव एव तदिति मतान्तरम् ।
२०. सर्वाङ्गनिधानात् परमनुस्तरण्याश्चर्मणा प्रेतप्रच्छादनम् ।

२९

सूत्रम्.विषयः.
२१.प्रणीतानुमन्त्रणम् ।
२२.सव्यं जानु निपात्य चतसृभिराज्याहुतिभिर्दक्षिणाग्नौ होमः ।
२३.पञ्चम्या आज्याहुतेः प्रेतस्योपरि होमः ।

चतुर्थः खण्डः ।

सूत्रम्विषयः
१.अग्निप्रज्वालनार्थं परिकर्मिणां युगपत् प्रेरणम् ।
२.आहवनीयस्य प्रथमं प्रज्वलने स्वर्गप्राप्तिः ।
३.तथा तत्पुत्रस्येह संसिद्धिः ।
४.गार्हपत्यदक्षिणाग्न्योः प्रज्वलने फलविशेषः ।
५.सर्वेषां युगपत् प्रज्वलने समृद्धयतिशयः ।
६.दह्यमानप्रेतानुमन्त्रणम् !
७.एवं विदुषा पुत्रेण दाहे फलश्रुतिः ।
८.एवं संस्कृत्य प्रेतस्य जलपूर्णाज्जानुदघ्नाद् गर्तान्निष्क्रम्य धूमोद्गमसमय एव स्वर्गप्राप्तिः ।
९.मन्त्रं जपित्वा प्रेतमनवेक्ष्य गमनम् ।
१०.तटाकादौ सकृदुन्मज्ज्य प्रेताय जलाञ्जलिं दत्त्वा शुष्काणि वासांसि परिधाय दिवा चेदानक्षत्रदर्शनाद् रात्रौ चेदा-सूर्यदर्शनात् सङ्गीभूयावस्थानम् ।
११.दृश्यमाने नक्षत्रे सूर्ये वा कनिष्ठादिक्रमेण ग्रामप्रवेशः ।
१२.गृहं प्राप्याश्मादीनां द्वारदेश एवोपस्पर्शः ।

पञ्चमः खण्डः ।

सूत्रम्विषयः
१.अस्मिन्नहोरात्रे गृहेऽन्नादिपाकप्रतिषेधः ।
२.अपरेद्युरारभ्य त्रिरात्रमक्षारलवणभोजनम् ।
३.महागुरुमृत्तौ द्वादशरात्रमिति मुख्यः कल्पः, त्रिरात्रमिति च गौणः ।
४.सपिण्डानां दशाहं दानाध्ययनादिनिषेधः ।

३०

सूत्रम्.विषयः.
५.असपिण्डगुरुमृतावप्येवम् ।
६.सपिण्डास्वप्रत्तासु स्त्रीषु त्रिरात्रम् ।
७.महागुरुव्यतिरिक्ताचार्येष्वपि ।
८.समानोदकेष्वपि ।
९.प्रत्तस्त्रीदन्तजातादिष्वेकाहम् ।

षष्ठः खण्डः

सूत्रम्.विषयः.
१.अस्थिसञ्चयनकालः ।
२.शुभे कुम्भे पुंसोऽस्थिसञ्चयनम् ।
३.अलक्षणे कुम्भे स्त्रिया अस्थिसञ्चयनम् ।
४.संचेतृनियमः ।
५.क्षीरोदकेनायतनप्रोक्षणम् ।
६.अङ्गुष्ठोपकनिष्ठिकाभ्यामस्थ्यादायाशब्दं कुम्भे निधानम् ।
७.आपादत लादस्थ्ना यथाक्रममादानम् ।
८.अस्थिकुम्भस्य गर्ते निक्षेपः ।
९.कपालेन कुम्भमपिधाय जपित्वा पांसुभिरवकीर्य श्मशानात् प्रत्याव्रज्य स्नात्वा प्रेताय श्राद्धदानम् ।

सप्तमः खण्डः ।

सूत्रम्.विषयः.
१.पित्रादीनां गुरुजनानामुपर्य्युपरि मरणसम्भवेऽमायां शान्तिकैर्मविधिः ।
२.प्रागुदयाद् गृहोपकरणानां पचनामेश्च दक्षिणस्यां दिश्युत्सर्गः ।
३.तमग्निं यत्रकुत्रापि प्रक्षिप्य त्रिःप्रदक्षिणं परिक्रमणम् ।
४.ततः पृष्ठतोऽनवेक्ष्य पुनराव्रज्य स्नात्वा वपनविधिः ।
५.नवानां मणिकादीनामुपकल्पनम् ।
६.अग्निवेलायां समन्त्रमरणेरग्निजननम् ।

३१

सूत्रम्.विषयः.
७.गृहाद् बहिस्तमग्निं दीपयित्वार्धरात्रपर्यन्तं पुण्यकथादीनां कीर्तनम् ।
८.अर्धरात्रात् परमविच्छिन्नाया उदकधाराया दक्षिणद्वारेण हरणम् ।
९.अथ तत्र तमाग्निमुपसमाधाय तस्य पश्चिमे देशे आनडुहं चर्मास्तीर्य तत्र समन्त्रमारोहणम् ।
१०.मध्यमपरिधेः समन्त्रं परिधानं दक्षिणोत्तरयोश्चामन्त्रकम् ।
११.उत्तरतोऽश्मानमवस्थाप्य चतसृभिराज्याहुतिभिर्हुत्वा कौटुम्बिकानामीक्षणम् ।
१२.युवतीनां नेत्राञ्जनं ततो निर्गमनं च ।
१३.युवतीनां नेत्राञ्जनसमये समन्त्रं कर्तुरीक्षणम् ।
१४.कर्तुरन्येषां चाश्माभिमर्शनम् ।
१५.अथाग्निमादाय गृहं प्रवेष्टुं सर्वेषां परिक्रमणमविच्छिन्नोदकधारास्रावणमैशान्यां दिशि स्थित्वा मन्त्रजपश्च ।
१६.परिणेतव्यस्यानडुहो लक्षणम् ।
१७.तस्याग्नेर्महानसे चुल्ल्यां प्रतिष्ठापनं सर्वेषां स्वे स्वे शयनस्थाने स्थित्वा नवेन वाससा प्रच्छाद्यासूर्योदयाज्जागरणम् ।
१८.उदिते सूर्ये मङ्गल्यसूक्तजपो होमो ब्राह्मणभोजनं दक्षिणादानं स्वस्तिवाचनं च ।

अष्टमः खण्डः ।

१. | श्राद्धानां चातुर्विध्यम् । २. | वरणीयब्राह्मणलक्षणं ब्राह्मणसङ्ख्या उपवेशनप्रकारः उपचारा अर्घ्यपरिकल्पनं च । ३. | अर्घ्यप्रदानं तन्मन्त्राश्च । ४. | प्रतिब्राह्मणं सकृत् सकृदर्घ्यनिवेदनम् । ५. | तासामपामनुमन्त्रणम् ।

सूत्रम्. | विषयः.

३२

सूत्रम्.विषयः.
६.अर्घ्यदानावशिष्टानानपां प्रथमपात्रे समवनयनं मुखाञ्जनं च ।
७.अत्र स्तुतिनिन्दार्थमुभयोर्गाथयोरुदाहरणम् ।

नवमः खण्डः ।

१. गन्धादिदानम् ।
२. स्थालीपाकादुद्धृतस्यान्नस्याग्नौ करणार्थं ब्राह्मणप्रार्थना ।
३. अग्नौ कुरुष्वेत्यादिब्राह्मणाभ्यनुज्ञा ।
४. पिण्डपितृयज्ञोक्तप्रकारेण होमः ।
५. आहिताग्न्यादेः पार्वणे पाणिहोमविधिः ।
६. पाणिहोमप्रशंसा ।
७. पाणिहोमपक्षे विशेषः ।
८. अग्नौ करणपक्षे विशेषः ।
९. श्रद्धया दाने प्रशंसा ।
१०. तृप्तेषु ब्राह्मणेषूभयोर्मन्त्रयोः श्रावणम् ।
११. तृप्तिप्रश्नप्रतिवचनानन्तरं पिण्डार्थमन्नमुद्धृत्य शिष्टस्यान्नस्य ब्राह्मणेभ्यो निवेदनम् ।
१२. भुक्तवत्स्वनाचान्तेषु पिण्डनिपरणम् ।
१३. केषाञ्चिन्मते आचान्तेषु पिण्डनिपरणम् ।
१४. अनन्तरं समन्त्रमन्नान्विकिरणं स्वधोक्त्यनन्तरं पितॄणां विसर्गः ।


दशमः खण्डः ।

१. शूलगवाख्यरौद्रयज्ञः ।
२. शूलगवस्य कालः ।
३. तस्य नक्षत्रविशेषः ।
४. यूथश्रेष्ठस्य पुङ्गवस्योपादानम्।
५. गोलक्षणम् ।

३३

सूत्रम्.विषयः.
६.तस्यैव लक्षणान्तरं केषाञ्चिन्मते ।
७.कृष्णस्याप्यारोहवतो ग्रहणम् ।
८.तस्य गोराभिषेकः ।
९.समन्त्रं शूलेनाङ्कयित्वोत्सर्गो यावद्दन्तपतनम् ।
१०.ग्रामाद् बहिर्यज्ञिये देशे शूलगवविधानज्ञेन होमस्तस्य वृद्धस्य पशोर्यूपे बन्धनं रुद्राय नियोगश्च ।
११.पशुकल्पोक्तवत् प्रोक्षणादिं ।
१२.विशेषवर्णनप्रतिज्ञा ।
१३.मृन्मयपात्रेण पर्णेन वा वपाहोमस्य कर्तव्यत्वम् ।
१४.वपाया अवदानानां स्थालीपाकस्य च हरायेत्यादिभिर्द्वादशभिर्नामभिः स्वाहाकारान्तो वपाहोमः ।
१५.उग्रायेत्यादिभिः षड्भिर्वा ।
१६.रुद्राय स्वाहेति वा ।
१७.होमानन्तरं स्विष्टकृतः पूर्वं चतसृषु दिक्षु बलिहरणम् ।
१८.बलिहरणे दिशां नामनिर्देशः ।
१९.चतुर्भिः सूक्तैश्चतसृणां दिशामुपस्थानम् ।
२०.अन्येष्वपि रुद्रयज्ञेषु दिशामुपस्थानम् ।
२१.तुषादीनामग्नौ प्रहरणम् ।
२२.पशोश्चर्मणोपानदादिकरणम् ।
२३.अग्नेरुत्तरतः समन्त्रं पशोः शोणितनिनयनम् ।
२४.संज्ञपनदेशस्थितस्य रुधिरादेः समन्त्रं सर्पेभ्यो निवेदनम् ।
२५.तस्य सर्पैर्हरणम् ।
२६.रुद्रस्य सर्वात्मकत्वप्रशंसा ।
२७.याजयितुर्यजमानस्य च ज्ञात्वानुष्ठाने प्रशंसा ।
२८.रुद्रप्रसादेन यजमानस्याकुतश्चिद्भयत्वम् ।
२९.पुत्रादीनामस्मिन् कर्मण्यन्वयप्रतिषेधः ।
३०.हुतशेषप्राशनस्य स्वस्त्ययनत्वम् ।

३४

सूत्रम्.विषयः.
३१.उक्तस्य शूलगवस्य सर्वकामफलप्रदत्वम् ।
३२.सर्वथास्य कर्मणः सकृत् कर्तव्यत्वम् ।
३३.यजमानप्रशंसा ।
३४.मङ्गल्यसूक्तं जपित्वा गृहस्य प्रत्यागमनम् ।
३५.पशूनां रोगेऽस्यैव देवस्य यष्टव्यत्वम् ।
३६.शूलगवस्य स्थाने सर्वहुतः स्थालीपाकः ।
३७.होमानन्तरं धूमस्पर्शार्थं गवामानयनम् ।
३८.मङ्गल्यं सूक्तं जपित्वा पशूनां मध्ये प्रवेशः ।
३९.शौनकाचार्यनमस्कारः ।

इति चतुर्थोऽध्यायः ।

शुद्धिपत्रम् ।

पृष्ठम् .पङ्क्तिः .अशुद्धम् .शुद्धम् .
१०२३त्विर्त्वि
१४१३ये
५०यदाय था
,,१४थे
७९रा' सरास'
८६१९ना यनां य
१४९१२भान्र्भान्
१६२,,दृध्वा हदृध्वाह
,,१४तोब्रब्रतो
१८८१०याऽस्थीया अस्थी

CC-0. Agamnigam Digital Presevation Foundation, Chandigarh

CC-0. Agamnigam Digital Presevation Foundation, Chandigarh

॥ श्रीः ॥

आश्वलायनगृह्यसूत्रम् ।

अनाविलाख्यया श्रीहरदत्ताचार्यमिश्रविरचितया

वृत्त्या समेतम् ।


उक्तानि वैतानिकानि। गृह्याणि वक्ष्यामः ॥ १ ॥

नमो रुद्राय यद् गृह्यमाश्वलायननिर्मितम् ।
क्रियते हरदत्तेन तस्य वृत्तिरनाविला ॥

द्विप्रकाराणि कर्माणि श्रुतिलक्षणान्याचारलक्षणानि च । तत्र उक्तानि वैतानिकानि वितानैरग्निभिः साध्यानि श्रुतिलक्षणानि कर्माणि । अथेदानीं गृह्याणि वक्ष्यामः । गृहाश्रमे भवोऽग्निर्गृह्यः । वक्ष्यति च “पाणिग्रहणादि गृहं परिचरेत्” इति । यस्मिन्नग्नौ पाणिं गृह्णीयात् स गृह्य इति च्छन्दोगाः । इह तु तत्साध्यानि कर्माणि विवक्षितानि । यद्यप्युपनयनादौ लौकिकोऽग्निः, रथारोहणादिष्वग्नि^२रेव नास्ति, तथापि सर्वाण्येव स्मृत्याचारलक्षणानि कर्माणि गृह्याणीत्युच्यन्ते भूम्ना । किं प्रयोजनं सूत्रस्य । गृह्याणां कर्मणामधिकारः । तेन वक्ष्यमाणेषु कर्मसु सति सम्भवे गृह्योऽग्निः गृहस्थश्चाधिकारीति सिद्धम् । अथ गृह्याणि वक्ष्याम इत्येवाधिकार सिद्धे उक्तानि वैतानिकानीत्युक्तानुभाषणं^६


१. ‘धनानि’ ग. पाठः.
२. ‘दौ चाग्नि’ घ. पाठः.
३. ‘षु चाग्नि’ ग. पाठः.
४. ‘प्युच्य’ क. ख. ग. पाठः.
५. ‘न्ते न भू’ क., ‘न्ते नाम्ना’ ख. ग. पाठः.
६. ‘नीति भा’ घ. पाठः.

G. P T. 2374. 500. 24-1-21. B

१ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

वक्ष्यमाणेषु तदपेक्षाप्रदर्शनार्थम् । तेन तत्र याः परिभाषाः “तस्य नित्याः प्राञ्चश्चेष्टा” इत्यादयः, तासां वक्ष्यमाणेष्वपि प्रवृत्तिर्भवति । प्रकरणभेदाद्धि न प्राप्नोति ॥ १ ॥

त्रयः पाकयज्ञाः ॥ २ ॥

पाकगुणका यज्ञाः पाकयज्ञा इति विज्ञायमाने आज्यहोमेषु “पाकयज्ञानामेतत्तन्त्रम्” इत्येष विधिर्न³ वर्तते । तस्मादल्पवचनः पाकशब्दः, यथो² योऽस्मात् पाकतरै इति । प्रशंसावचनो वा, यथा तं पाकेन मनसापश्यमभित⁵ इति । अल्पायाससाध्यत्वादल्पत्वम् । महाफलत्वात्⁶ प्रशस्तत्वम् । वक्ष्यति⁴ च “अथ काम्यानां स्थाने काम्याः⁷,” “चरवैः⁸,” “तानेव कामानाप्नोति” इति । ते पाकयज्ञास्त्रयः त्रिविधा इत्यर्थः ॥ २ ॥

तां¹⁰ एव विधा लक्षणेन दर्शयति —

हुता अग्नौ हूयमानाः अनग्नौ प्रहुता ब्राह्मणभोजने ब्रह्मणिहुताः ॥ ३ ॥

हूयमानाः क्रियमाणा इत्यर्थः । नहि पाकयज्ञैः⁹ सर्वे हूयन्ते । हुता नाम पाकयज्ञाः पार्वणादयः । अनग्नौ प्रहुताः


१. 'र्न प्रव' क. ख. ग. पाठः.
२. 'था अहैदैधिषव्यो दतस्तितिष्ठेते तत्र यो' ग, 'था अहेदैधिषव्येति यो' घ. पाठः.
३. 'स्म' क. घ. पाठः.
४. 'रेति च । प्र' घ. पाठः.
५. 'न्ति' ख. पाठः.
६. 'त्वं प्र',
७. 'त्वं च । व',
८. 'ति अ' घ. पाठः.
९. 'वः इ' क. ख. ग. पाठः.
१०. 'तानेवंविधेन लक्षणेन सह द' ग. पाठः.
११. 'ज्ञा हू' क. ख. ग. पाठः.

प्रथमः खण्डः] अनाविलोपेसम् । ३

प्रथमः खण्डः] अनाविलोपेसम् । ३

अनग्नौ क्रियमाणाः प्रहुता^१ नाम पाकयज्ञाः बलिहरण- ब्रह्मयज्ञादयः^२ । ब्राह्मणभोजने ब्रह्मणिहुताः । यत्र ब्राह्मणभो- जनमेव यत्र च ब्राह्मणभोजनमधिकं ते ब्रह्मणिहुताः^३ आति- थ्यपार्वणश्राद्धादयः । त्रैविध्योपदेशस्य प्रयोजनं “पाकयज्ञा- नामेतत्तन्त्रम्” इति वक्ष्यते । तद् यादृशेषु पाकयज्ञेषु तन्त्रं स- माम्नातं तादृशेष्वेव यथा स्यात् । कीदृशे चै^४ तत् समा- म्नातं, हुते । तस्माद्धुतेष्वेवै^५ तस्य तै^६न्त्रस्य प्रवृत्तिः । तेन सर्पबल्यादाववदानधर्मो न भवति । ब्राह्मणभोजने निर्वा- पप्रोक्षणादयो न भवन्ति ॥ ३ ॥

देवतामुद्दिश्य द्रव्यत्यागो यागः । स च ब्रह्मयज्ञादिषु नास्ति । तत् कथमेतेषु यज्ञशब्द इत्याशङ्क्य तेषां यज्ञत्व^७मुपपादयितुमृच उदाहरति —

अथाप्यृच उदाहरति यः समिधा य आहुती यो वेदेनेति ॥

तत्राधिकपादग्रहणात् तृचस्य ग्रहणे प्राप्ते तृतीयार्थवि- रोधान्न गृह्यते । ऋच इति बहुवचनं वक्ष्यमाणापेक्षम्^८ । यो मर्तो मर्त्यः समिधा अग्नये विभक्तिव्यत्ययः अग्निं ददाश दाशतिर्दानकर्माण्यत्र इह तु प्रीणने द्रष्टव्यः प्रीणाति । य आहुती तृतीयैकवचनस्य पूर्वसवर्णदीर्घः यश्चाहुत्याग्निं प्रीणाति । यो वेदेन यश्च वेदेनाग्निं प्रीणाति । यो नमसा यश्च नमस्कारेणाग्निं प्रीणाति । यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः ।


१. 'ताः ब', २. 'यः उदाहरणं ब्रा' क. ख. ग. पाठः. ३. 'ता नाम । आ' ग, 'ता नाम पाकयज्ञाः । आ' घ. पाठः. ४. 'ए' ग. घ. पाठः. ५. 'व तन्त्र' घ. पाठः. ६. 'म' ग. पाठः. ७. 'ज्ञशब्दत्व' क. ख. पाठः. ८. 'सा अग्नये ददाशेत्यपेक्ष्यते । यश्च' ग. घ. पाठः.

४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः]

सः स्वध्वरः स सर्वोऽपि शोभनयज्ञः, न केवलं य आहुत्या प्रीणाति स एव । किञ्च तस्येत् तस्यैव अर्वन्तः अश्वा रंह- यन्ते गमयन्ति कं रथम् आशवः क्षिप्रगामिनः । द्युम्नि- तमं द्युम्नं¹मिति हिरण्यनाम अतिशयेन द्युम्नवत् द्युम्नित- मम् । एवंभूतं यशोऽपि तस्यैव । तस्य देवकृतमंहः व्यसनं कुतश्चनापि न नशत् न व्याप्नोति मर्त्यकृतं चांहो न नशद् इत्यृग्द्वयस्यार्थः ॥ ४ ॥

समिधमेवापि श्रद्दधान आदधन्मन्येत यज इ- दमिति नमस्तस्मै य आहुत्या यो वेदेनेति विद्ययैवाप्य- स्ति प्रीतिस्तदेतत्पश्यन्नृषिरुवाच । अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः । घृतात् स्वादीयो मधुनश्च वोच- तेति । वच एव स इदं घृताच्च मधुनश्च स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्त्वित्येव तदाह । आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि । ते ते भवन्तूक्षण ऋषभासो वशा उतेति । एत एव स उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति। य इमं स्वाध्यायमधीयत इति यो नमसा स्व- ध्वर इति नमस्कारेण वै खल्वपि न वै देवा नमस्कार- मति यज्ञो वै नम इति हि ब्राह्मणं भवति ॥ ५ ॥

एवापिशब्दावल्पतां द्योतयतः । कनिष्ठामात्रं³ हि समित् तामपि श्रद्दधानो भूत्वा आदधत् पुरुषः यज इदमिति मन्येत याग एवायं मया क्रियत इति मन्येतेत्यर्थः । सूत्रकारोऽपि तं नमस्यति नमस्तस्मै । दृष्टश्चैवंविधः प्रासङ्गिकोऽन्यत्रापि


१. 'म्नि' क. ग. पाठः. ३. 'काष्ठमा' ख. ग. पाठः.

CC-0. Agamnigam Digital Presevation Foundation, Chandigarh

प्रथमः खण्डः] अनाविलोपेतम् । ५

नमस्कारः । यथा आर्शानुक्रमण्यां — “नमोऽग्निभ्यस्तवबो- ध्नि” इति । तदेवं यः समिधा ददाश सः स्वध्वर इति व्याख्या- तम् । य आहुतीति व्याचष्टे — य आहुत्या । तृतीयैकवचनस्य पूर्वसवर्णदीर्घ इति¹ व्याख्यातम् । यो वेदेनेति व्याख्या- तुमुपादानं, व्याचष्टे³ — विद्ययैवाप्यस्ति प्रीतिः । दाशतिः प्रीत्यर्थ इत्यनेन दर्शितम् । तदेतत् पश्यन्नृषिरुवाच तदेत- दनन्तरोक्तमर्थरूपं पश्यन्नृषिर्वैय्यै॑श्वो⁴ विश्वमना उवाच । अ- गोरुधाय गविषे द्युक्षाय दस्म्यं वचः । घृतात् स्वादीयो मधु- नश्च वोचतेति । स्तुतिलक्षणां गां वाचं यो न निरुणद्धि तस्मै अगोरुधाय गविषे गामिच्छते द्युक्षाय द्युःस्थानाय दस्म्यम् अनुरूपं स्तुतिलक्षणं वचः घृताद् मधुनश्च स्वादीयः स्वादुतरं दर्शनीयं वोचत ब्रूत हे मदीया ऋत्विजः पुत्रपौत्रा वा । अत्र तृतीयं पादमर्थतो व्याचष्टे — वच एव म² इदं घृताच्च मधुनश्च स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्त्वित्येव तदाह । मम स्व- भूतमिदं वच एव घृताच्च मधुनश्च स्वादीयोऽस्त्विति यद् एतद्दे- वानेन पादेन ऋषिराहेत्यर्थः । न केवलं घृताच्च मधुनश्च, मां- सादपि स्वादुतरमिति दर्शयितुमृगन्तरमुदाहरति — आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि । ते ते भवन्तूक्षण ऋष- भासो वशा उतेति । हे अग्ने! ते तुभ्यं हृदा तष्टं हृदयेन चि- कीर्षितं हविः ऋचा ऋग्रूपेण आभरामसि आहरामो वयम् । ते, हविरपि परामृशतस्तच्छब्दस्योक्षादिभिः सामानाधिकरण्याल्लि-


१. 'ति ददाश स स्वध्वर इति व्या' क. ख. ग. पाठः. २. 'म',
३. 'ष्टे अत्र वि' ग. पाठः. ४. 'र्य' क. पाठः.

६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

ङ्गवचनभेदः, तादृग्रूपं हविः ते तव उक्षाण ऋषभाश्च व- शाश्च भवन्ति । वन्ध्या गावो वशाः । व्याचष्टे — एत एव म उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति । भरद्वाजस्यैषा — य इमं स्वाध्यायमधीयत इति । चलोपोऽत्र द्रष्टव्यः । ये चेमं स्वाध्यायमधीयत इति । न केवलं भरद्वाजस्यैव, किं तर्हि, अन्येऽपि य इमं स्वाध्यायमधीयते तेषामपि एते उक्षाण ऋषभाश्च वशाश्च भवन्ति, द्रष्टव्यतिरिक्तानामप्य- ध्ययनमात्रेण भवन्तीत्यर्थः । यो नमसा स्वध्वर इति व्याख्ये- योपादानं, व्याचष्टे — नमस्कारेण वै खल्वपि । अस्ति प्रीति- रित्यपेक्ष्यते । एतदेवोपपादयति — न वै देवा नमस्कारमति । वै प्रसिद्धौ । न खलु देवा नमस्कारमतिक्रामन्ति । "यज्ञो वै नम" इति हि ब्राह्मणं भवति । ततश्च यथा यज्ञं नातिका- मन्ति, एवं नमस्कारं²मपीति ॥ ५ ॥

इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ प्रथमः खण्डः ।

अथ द्वितीयः खण्डः । अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयाद- ग्नयेऽग्निहोत्रदेवताभ्यः सोमाय वनस्पतयेऽग्नीषोमाभ्यामिन्द्रा- ग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरय इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे स्वाहेति ॥ १ ॥

अथेमानि गृह्याणि विधीयन्ते, यानि प्राक् प्रतिज्ञा- तानि³ इत्यथशब्दस्यार्थः । सायंशब्दो रात्रेरुपक्रमे प्रसिद्धः


१. 'रं नाति' ख. ग. पाठः. २. 'पि नातिका(मति) ॥ ३. 'नीत्यर्थः' क. पाठः.

द्वितीयः खण्डः] अनाविलोपेतुम् । ७

द्वितीयः खण्डः] अनाविलोपेतुम् । ७

प्रातःशब्दश्चाहः । इह तु कृत्स्नां रात्रिं कृत्स्नं चाहः प्रतिपादयतः । सिद्धस्य भोजनार्थं पक्वस्य । तेनाशक्त्यादिना भोजनलोपे वैश्वदेवमेतन्न भवति, भोजनीयस्यान्नस्य संस्कारोऽयमिति कृत्वा । केचित्तु पुरुषसंस्कार उभयसंस्कारो वेति वदन्तो भोजनलोपेऽपि कुर्वन्ति । हविष्यस्येति वचनं व्यञ्जनानां मा भूदिति । यदा त्वहविष्यमेव कोद्रवादि भोज्यत्वेनोपस्थितं भवति, तदा आपस्तम्बेनोक्तं द्रष्टव्यम्—“अहविष्यस्य होमः उदीचीनमुष्णं भस्मापोह्य तस्मिञ् जुहुयात् तद्धुतमहुतं चे”ति । अग्निहोत्रदेवताभ्यः, नायं मन्त्रः अग्निहोत्रदेवताभ्यः स्वाहेति होम इति, किं तर्हि, विधिः, अग्निहोत्रे या देवतास्ताभ्यो होमः कर्तव्य इति । तत्र यद्यप्यग्निहोत्रशब्दो द्रव्ये कर्मणि च वर्तते, तथापि न द्रव्यदेवता गृह्यन्ते “रौद्रङ्गविसद्” इत्यादयः षोडश, तासामभोक्तृत्वात् । याः पुनः कर्मदेवता “अग्निर्गृहपतिरि”त्याद्याः, ता अपि न गृह्यन्ते, अनित्यत्वात् । नहि ताः श्रुतावुपदिश्यन्ते । तथाच “तस्य वा एतस्याग्निहोत्रस्य सप्त च शतानि विंशतिश्चे”त्यत्र ता न गण्यन्ते । तस्मादग्निहोत्रे या देवतास्ताभ्यो होमः कर्तव्य इति । तस्माद् अग्नये स्वाहा प्रजापतये स्वाहा इति सायम् । सूर्याय स्वाहा प्रजापतये स्वाहा इति (होम?प्रातः) । सोमाय वनस्पतये । वनस्पतिः प्रधानभूतोऽपि दृष्टः पशुदेवताभ्यो वनस्पतिमनन्तरमिति । गुणभूतश्च सोमो वनस्पतिः सविता सत्यप्रसव इति । इह तु गुणभूत इत्युपदेशः । तस्मादेकाहुतिर्ब्रह्मणे स्वाहेति । स्वाहाकारान्तैर्मन्त्रैरित्येव सिद्धे स्वा-

८ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

हेति वचनमुत्तरार्थम् । स्वाहेत्यथ बलिहरणमिति अहो- मैत्वाद्धि न प्राप्नोति ॥ १ ॥

अथ बलिहरणमेताभ्यश्चैव देवताभ्योऽद्भ्य ओ- षधिवनस्पतिभ्यो गृहाय गृहदेवताभ्यो वास्तुदेवताभ्य इन्द्राय इन्द्रपुरुषेभ्यो यमाय यमपुरुषेभ्यो वरुणाय वरुणपुरुषेभ्यः सोमाय सोमपुरुषेभ्य इति प्रतिदिशं ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये विश्वेभ्यो देवेभ्यः स- र्वेभ्यो भूतेभ्यो दिवाचारिभ्य इति दिवा । नक्तंचारि- भ्य इति नक्तम् । रक्षोभ्य इत्युत्तरतः ॥ २ ॥

एताभ्यश्चैवेति । याः पूर्वोक्ता देवताः ताभ्यश्च याश्च वक्ष्यन्ते अबाद्यो वास्तुदेवतान्तास्ताभ्यश्च पञ्चदशभ्यः । प्रागपवर्गम् । एवकारः पौनर्वचनिकः, याभ्यो होमस्ताभ्य एव बलिरपि । गृहदेवताभ्य इति नायं विधायकः, गृहे या देवता वास्तुविद्याप्रसिद्धाः ताभ्यो बलिरिति, वास्तुदेवताभ्य इति पृथग्वचनात् । तस्मान्मन्त्रोऽयम् । प्रतिदिशमिति प्रधान- दिशां चतसृणां ग्रहणम्, इन्द्रादीनां चतुर्णामुपदेशात् । पुरु- षास्तु तेन तेन समानदिशः । कस्य पुनः प्रतिदिशम् । पूर्वकृ- तानां बलीनामिति केचित् । यत्रकुत्रचिदित्यपरे । गृहस्यै प्रतिदिशमित्यन्ये । मध्य इति, दिग्देवतानां गृहस्य वा । वि- श्वेभ्यो देवेभ्य इत्येतदपि मध्य एव । नक्तंचारिभ्य इति नक्तं दिवाचारिभ्य इत्यस्य स्थाने । पूर्वत्र दिवाग्रहणं न कर्तव्यम् इह नक्तं विशेषविधानादेव पूर्वो विधिर्दिवा भविष्यति । तत्


१. 'मस्थत्वा' क. पाठः. २. 'स्येत्यन्ये' ख. पाठः.

द्वितीयः खण्डः] अनाविलोपेताम् । ९

द्वितीयः खण्डः] अनाविलोपेताम् । ९

क्रियते वैश्वदेवं प्रातरारम्भं यथा स्यादिति । उत्तरत इति सर्वेषां बलीनां गृहस्य वा । एतेन दक्षिणेति च व्याख्या- तम् ॥ २ ॥

स्वधा पितृभ्य इति प्राचीनावीती शेषं दक्षिणा निनयेत् ॥ ३ ॥

प्राचीनावीतीत्यनुच्यमाने यथा “दक्षिणस्यां दिशि¹ मासाः पितर” इत्यत्र पित्र्येऽपि प्राचीनावीतित्वं न भवति, तथात्रापि न स्यात् । यथा पूर्वेषु³ बलिष्वर्थसिद्धं निनयनं, तथेहापि सिद्धे निनयेदिति वचनं क्रियान्तरत्वज्ञापनार्थम् । तेन बलिहरणमिदं न भवति । ततश्च स्वाहाकाराभावः । तदत्र यद् अग्नौकरणं स देवयज्ञः । यद् बलिहरणं स भूतयज्ञः । यद् दक्षिणतो निनयनं स पितृयज्ञः । त एते त्रयो- ऽपि सहैव कर्तव्याः । तदर्थमिह शेषग्रहणम् । “अथ बलिह- रणमि”त्यानन्तर्यार्थोऽथशब्दस्यै⁴। ब्रह्मयज्ञमनुष्ययज्ञौ वक्ष्येते । त एते पञ्च महायज्ञाः। कः पुनरस्याग्निः। गृह्याणीत्यधिकाराद् गृह्यः। गृहस्थश्चाधिकारी। तथाचापस्तम्बः— “गृहमेधिनोर्य- दशनीयस्य होमा बलयश्चे”ति। “औपासने पचने वे”ति व्यव- स्थितो विकल्पः— औपासनवत औपासने, विधुरादेः पचन इति। तथौचच्छन्दोगानां गृह्ये— “यस्मिन्नग्नौ पाणिं गृह्णीया- दि”ति प्रकृत्य वैश्वदेवमाम्नातम् । भाष्यकारस्तु “विवाहाग्नेः प्रागस्यारम्भादनियतोऽत्राग्निः⁵, समावृत्तस्य च पृथक्पाकस्य


१. ‘तं न’ ख. ग. घ. पाठः. २. ‘र्वेष’ ग. पाठः. ३. ‘श्च’ क. ख. ग. पाठः. ४. ‘था छ’ ख. ग. पाठः. ५. ‘तोऽग्निः’ ख. पाठः.

C