भारतकोश
संग्रह पर लौटें

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

षष्ठः खण्डः ] तृतीयप्रश्ने षष्ठोऽध्यायः ३२७

षष्ठः खण्डः ] तृतीयप्रश्ने षष्ठोऽध्यायः ३२७

अनु०—तुम जो हो, तुम सभी अन्नों के राजा हो, तुम वरुण के लिए पवित्र हो और मधु से मिश्रित हो। ऋषियों ने तुम्हें सभी पापों को दूर करने वाला, तथा पवित्रता का कारण बताया है ॥ ४ ॥

धान्यराजत्वं ^१मन्येषु धान्येषु म्लायत्सु मोदमानतयोत्थानात् । वारुणत्वं पुनरेतेषां 'वारुणं यवमयं चरुमश्वो दक्षिणा' 'वरुणाय घर्मपतये यवमयं चरुम्' इत्येवमादिषु प्राचुर्येण वरुणसम्बन्धात् । मधुसंयुतत्वं तेनाऽभिघारितत्वात् । ऋज्वन्यत् ॥ ४ ॥

घृतं यवा मधु यवा आपो यवा अमृतं यवाः ।
सर्वं पुनथ मे पापं यन्मया दुष्कृतं कृतम् ॥ ५ ॥

अनु०—यव घृत है, यव मधु है, यव जल है, यव अमृत है। तुम मेरे सभी पापों को पवित्र कर, मेरे सभी दुष्कर्मों को दूर करो ॥ ५ ॥

घृतादिग्रहणं प्रदर्शनार्थम्। यवा एव सर्वपवित्रत्वेन ध्यातव्या इति तेषां प्रशंसा ॥ ५ ॥

वाचा कृतं कर्म कृतं मनसा दुर्विचिन्तितम् ।
अलक्ष्मीं ^२कालरात्रीं च सर्वं पुनथ मे यवाः ॥ ६ ॥

अनु०—वाणी द्वारा किए गए, कर्म द्वारा किए गए तथा मन से सोचे गये सभी पाप कर्मों को, अभाग्य को तथा सबका विनाश करने वाली कालरात्रि को—इन सबको, हे यवों, तुम पवित्र करो ॥ ६ ॥

कालरात्रो कृत्या ॥ ६ ॥

श्वसूकरावधूतं यत्काकोच्छिष्टोपहतं च यत् ।
मातापित्रोरशुश्रूषां सर्वं पुनथ मे यवाः ॥ ७ ॥

अनु०—कुत्ते तथा सूअर द्वारा छुए गये, कौए या उच्छिष्ट से दूषित किये गये अन्न को खाने से हुए पाप से, माता और पिता की आज्ञा के उल्लंघन के पाप से—इन सभी पापों से, हे यवों, तुम मुझे पवित्र करो ॥ ७ ॥

श्वादिग्रहणमाहारदोषकृतपापोपलक्षणार्थम् ॥ ७ ॥


१. "यत्राऽन्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ति" "वसन्ते सर्वसस्यानां जायते पत्रशातनम् । मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः" ॥ इत्यादिश्रुतिस्मृत्याद्यत्राऽनुसन्धातव्यम् ।
२. 'कालकर्णीम्' इति सर्वेषु मूलपुस्तकेषु पाठः ॥

३२८ बौधायन-धर्मसूत्रम् [ यावकव्रतम्

महापातकसंयुक्तं दारुणं राजकिल्विषम् । बालवृत्तमधर्मं च सर्वं पुनथ मे यवाः ॥ ८ ॥

**अनु०—**महापातक के घोर पाप को, राजा की सेवा में किए गए पाप को, बालकों या वृद्धों के प्रति किए गए अन्याय या अधर्म को—इन मेरे सभी पापों को, हे यवो, तुम पवित्र करो ॥ ८ ॥

दारुणं क्रूरं तत्पूर्वोत्तराभ्यां सम्बध्यते । राजकिल्विषं राजसेवानिमित्तम् । बालवृत्तं बालैःकृतं अज्ञानकृतं वा । अधर्मः पापम् । स एव सर्वत्र विशेष्य-भूतः ॥ ८ ॥

सुवर्णस्तैन्यमव्रत्यमयाज्यस्य च याजनम् । ब्राह्मणानां परीवादं सर्वं पुनथ मे यवाः ॥ ९ ॥

**अनु०—**सुवर्ण की चोरी का पाप, व्रत के भङ्ग का पाप, जिसका यज्ञ नहीं कराना चाहिए उसका यज्ञ कराने का पाप, ब्राह्मण की निन्दा करने का पाप—मेरे इन सभी पापों को, हे यवों, तुम पवित्र करो ॥ ९ ॥

अव्रत्यं नियमलोपकृतम् । ऋज्वन्वयत् ॥ ९ ॥

गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् । चोरस्यान्नं नवश्राद्धं सर्वं पुनथ मे यवा इति ॥ १० ॥

**अनु०—**अनेक व्यक्तियों के समूह द्वारा दिए गए अन्न को, वेश्या और शूद्र के अन्न को या श्राद्ध और जन्म संबन्धी सूतक के समय दिये गए अन्न के भक्षण के पाप को चोर के अन्न का तथा नवश्राद्ध के अन्न के भक्षण का पाप, मेरे इन सभी पापों को, हे यवों, पवित्र करो ॥ १० ॥

गणान्नं गणाय गणेन वा सङ्कल्पितम् । श्राद्धं पितृभ्यः सङ्कल्पितम् । सूतकं तत्सम्बन्ध्यन्नम् । नवश्राद्धमेकोद्दिष्टान्नम् । परगृहविषयं सङ्कल्पाविषयम-भोज्यमेतत् । एते मन्त्रा वामदेवऋर्षा अनुष्टुप्छन्दसः यवदेवत्याश्च द्रष्टव्याः॥१०॥

अप्यमाणे त्वयं विशेषः—

अप्यमाणे रक्षां कुर्यात् ॥ ११ ॥

**अनु०—**जिस समय जो पकाये जा रहे हों उस समय उसकी रक्षा करे ॥११॥

स्थाल्यां कृष्णायसादि प्रतिमुञ्चेदित्यर्थः ॥ ११ ॥

तत्रैते मन्त्राः—

नमो रुद्राय भूताधिपतये द्यौश्शान्ता ॥ १२ ॥

षष्ठः खण्डः ] तृतीयप्रश्ने षष्ठोऽध्याय : ३२९

षष्ठः खण्डः ] तृतीयप्रश्ने षष्ठोऽध्याय : ३२९

'नमो रुद्राय भूताधिपतये द्यौश्शान्ता' ( प्राणियों के स्वामी रुद्र को नमस्कार । आकाश शान्त होवे ) इस मन्त्र का उच्चारण करे ॥ १२ ॥

अयमेको मन्त्रः ॥ १२ ॥

१ “कृणुष्व पाजः प्रसितिं न पृथ्वीम्” २“ये देवाः पुरस्सदोऽग्निनेत्रा रक्षोहण” इति पञ्चभिः पर्यायैः । ३‘मा नस्तोके ४'ब्रह्मा देवानामिति द्वाभ्याम् ॥ १३ ॥

अनु०—"कृणुष्व पाजः प्रसितिं न पृथ्वीम्” आदि अनुवाक का, 'ये देवाः पुरस्सदोऽग्निनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु” आदि पाँच वाक्यों का, "मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ।” ( तैत्तिरीय संहिता ४.५.१०.३ ) तथा “ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्” ( तैत्तिरीय संहिता ३.४.११.१ ) मन्त्रों का पाठ करता रहे ॥ १३ ॥

टि०—'कृणुष्व पाजः' आदि तैत्तिरीय संहिता १.२.४ का अनुवाक है । 'ये देवाः” आदि वाक्य तैत्तिरीय संहिता १.८.७.१ का है ।

'ये देवाः रक्षोहणः' इत्येतस्य पदत्रयस्य पञ्चस्वप्यनुषङ्गार्थं 'अग्निनेत्रा रक्षोहणः' इति पठितम् । 'नमो रुद्राय' इत्यादि 'ब्रह्मा देवानाम्' इत्येवमन्ता मन्त्रा ५रक्षामन्त्राः ॥ १३ ॥


१. 'कृणुष्वपाज' इत्यनुवाकस्तैत्तिरीयसंहितायां प्रथमकाण्डे द्वितीयप्रश्नेऽन्तिमोऽनुवाकस्ततोऽवगन्तव्यः ।
२. ये देवाः पुरस्सदोऽग्निनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा ये देवा दक्षिणसदो यमनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा ये देवाः पश्चात्सदस्सवितृनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा ये देवा उत्तरसदो वरुणनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा ये देवा उपरिषदो वृहस्पतिनेत्रा रक्षोहणस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा । इत्यनुषङ्गप्रकारः । ( तै. सं. १.८.७.१. ) ।
३. मानस्तोके तनये मा न आयुषि मा नोगोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ॥ ( तै. सं. ४.५.१०.३ )
४. ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणा ५स्वधितिर्वनाना१् सोमः पवित्रमत्येति रेभन् ॥ ( तै. सं. ३.४.११.१ )
५. रक्षोहणमन्त्रा इति. घ. पु. ।

३३०बौधायन-धर्मसूत्रम्[ यावकव्रतम्

शृतं च लघ्वश्नीयात् प्रयत: पात्रे निषिच्य ॥ १४ ॥

**अनु०—**जो के पक जाने पर उसके थोड़े से अंश को दूसरे पात्र में डालकर स्वयं शुद्ध होकर तथा आचमन कर खाये ॥ १४ ॥

नाऽत्र तिरोहितं किञ्चिदस्ति ॥ १४ ॥

“ये देवा मनोजाता मनोयुजस्सुदक्षा दक्षपितारस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहे” त्यात्मनि जुहुयात् ॥ १५ ॥

अनु०—‘ये देवा मनोजाता मनोयुजस्सुदक्षा दक्षपितारस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा’ ( जो देवता मन से उत्पन्न हुए हैं, मन से संयुक्त हैं, अत्यन्त शक्ति शाली हैं, जिनके पिता दक्ष हैं, वे हमारी रक्षा करें, हमें बचावें, उनको नमस्कार है, उनको स्वाहा ) इस मन्त्र द्वारा उस पके हुए अन्न को आत्मा में ही आहुति करे ॥ १५ ॥

एते पञ्च पर्यायाः प्राणाहुतिमन्त्राः । तस्मान्मन्त्रो निवर्तते प्राशनसमये । कर्तुस्तु कालाभिधाननियमात् फलविशेषः ॥ १५ ॥

त्रिरात्रं ¹मेधार्थी ॥ १६ ॥

**अनु०—**मेधा की कामना करने वाला तीन रात्रियों इसी प्रकार यावक का प्राशन करे ॥ १६ ॥

पूर्वेण विस्तृतं प्रसृतयावकं प्राश्नीयादित्यनुवर्तते मेधानां ग्रहीतुं त्वस्य । तदशनम् ॥ १६ ॥

षड्रात्रं पीत्वा पापकृच्छुद्धो भवति ॥ १७ ॥

**अनु०—**छः रात्रियों में उपर्युक्त विधि से यावक पान करने पर पाप करने वाला शुद्ध हो जाता है ॥ १७ ॥

अल्पपापकृदिति शेषः ॥ १७ ॥

सप्तरात्रं पीत्वा भ्रूणहननं गुरुतल्पगमनं सुवर्णस्तैन्यं सुरापानमिति च पुनाति ॥ १८ ॥

**अनु०—**जो सात दिन-रात्रि यावक का पान करता है वह विद्वान् ब्राह्मण की हत्या, गुरुपत्नीगमन, सुवर्ण की चोरी और सुरापान के पाप से भी मुक्त हो जाता है ॥ १८ ॥


१. मेधावी इति, क.

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३१

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३१

अनात्मकृतस्याऽप्येनसो निर्णोदो भवतीत्याह— एकादशरात्रं पीत्वा पूर्वपुरुषकृतमपि पापं निर्णुदति ॥ १९ ॥

अनु०— ग्यारह दिन-रात्रि पान करने पर पूर्वजों का किया हुआ पाप भी नष्ट हो जाता है ॥ १९ ॥

पूर्वपुरुषः पितृप्रभृतयः ॥ १९ ॥

अपि वा गोनिष्क्रान्तानां यवानामेकविंशतिरात्रं पीत्वा गणान् पश्यति गणाधिपतिं पश्यति विद्यां पश्यति विद्याधिपतिं पश्यतीत्याह भगवान् बौधायनः ॥ २० ॥

अनु०— जो गो के नीचे से निकाले हुए यावक का इक्कीस दिन-रात्रि तक पान करता है वह गणों का और गणाधिपति का दर्शन करता है, विद्या का दर्शन करता है और विद्याधिपति का दर्शन करता है। ऐसा भगवान् बौधायन ने उपदेश दिया है ॥ २० ॥

गोभ्यो जठरस्थशकृद्भिस्सह निष्क्रान्तानाम् । भूयस्येषा प्रशंसाऽस्य कर्मणः ॥ २० ॥

इति बौधायनीयधर्मसूत्रविवरणे गोविन्दस्वामिकृते तृतीयप्रश्ने षष्ठः खण्डोऽध्यायश्च


तृतीयप्रश्ने सप्तमोऽध्यायः

सप्तमः खण्डः

अयमपि पापनिवर्हणप्रसङ्गादेवाऽध्याय आरभ्यते । अथ कूष्माण्डमुच्यते— 'अथ कूष्माण्डैर्जुहुयाद्योऽपूत इव मन्येत ॥ १ ॥

अनु०— जो व्यक्ति अपने को अपवित्र जैसा समझता हो वह कूष्माण्ड मन्त्रों का उच्चारण करते हुए हवन करे ॥ १ ॥


१. इतः प्रभृति सूत्रत्रयं तैत्तिरीयारण्यकगतकूष्माण्डविधेः ( तै. आ. २: ८ ) अक्षरशोऽनुवादः । "अथ" इति व्याख्यानपुस्तकेषु नाऽस्ति ।

३३२बौधायन-धर्मसूत्रम्[ कूष्माण्डहोमः

कूष्माण्डानि वक्ष्यमाणां यद्देवाद्यो मन्त्राः। जुहुयादिति सोपस्थानस्य ग्रहणम्, प्रायश्चित्ते कृतेऽप्यपूत इव यो मन्येत ॥ १ ॥
तमुदाहरति

यथा स्तेनो यथा भ्रूणहैवमेष भवति योऽयोनौ रेतस्सिञ्चति ॥ २ ॥

अनु०— जैसे सुवर्ण चुराने वाला और विद्वान् ब्राह्मण का हत्या करने वाला पापी होता है उसी प्रकार वह व्यक्ति भी पापी होता है जो निषिद्ध मैथुन कर्म में या योनि से भिन्न अप्राकृतिक मैथुन कर्म में वीर्यस्खलन करता है ॥ २ ॥

यथा स्तेन इति । सुवर्णस्येति शेषः । प्रदर्शनार्थं चैतन्महापातकानाम् । महापातकप्रायश्चित्ते कृतेऽपि अपूत इव यो मन्येतेत्यर्थः । एवमेषोऽपूतो भवति योऽयोनौ रेतस्सिञ्चति । अयोनौ रेतस्सेको ब्रह्महत्यासम इति तस्य निन्दा-स्तुतिः—

उत्सृजेदात्मनश्शुक्रमक्षेत्रे कामतो नरः।
हतं तेन जगत्सर्वं बीजनाशेन पापिना॥
न ब्रह्महा ब्रह्महा स्यात् ब्रह्महा वृषलीपतिः।
यस्तस्यां गर्भमाधत्ते तेनाऽसौ ब्रह्महा भवेत् ॥ इति ॥ २ ॥

अन्यदपि—
यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यत इति ॥ ३ ॥

अनु०— विद्वान् ब्राह्मण की हत्या की अपेक्षा जो कम घोर पाप हैं उनसे वह व्यक्ति मुक्त हो जाता है ऐसा श्रुति का कथन है ॥ ३ ॥

श्रुतिमेवाऽऽत्मीयत्वेन पठित्वा तस्या अभिप्रायमाह, तस्या एव वाक्यशेषं वा ॥ ३ ॥

अयोनौ रेतस्सिक्त्वान्यत्र स्वप्नात् ॥ ४ ॥
अरेपा वा पवित्रकामो वा ॥ ५ ॥

अनु०— स्वप्नदोष की स्थिति से अतिरिक्त स्त्रीयोनि से भिन्न स्थान पर वीर्य पात करने पर यदि पाप से मुक्त होना और पवित्र होना चाहे तो निम्नलिखित विधि करे ॥ ४-५ ॥

श्रुतौ ह्यश्रुतमेतत् 'अन्यत्र स्वप्नात्' इति ॥ ४ ॥
रेप इति पापनाम । तदस्य न विद्यते सोऽरेपाः । तथा च ब्राह्मणम्—
'पवित्रं नो ब्रूत येनाऽरेपसस्स्यामेति यद्देवा देवहेळनं यद्दीव्यन्तृणमहं बभू-

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३३

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३३

वाऽऽयुष्टे विश्वतो दधदित्येतैराज्यं जुहुयात्, वैश्वानराय प्रतिवेदयाम इत्युपति- ष्ठत इति । पवित्रकामो वा जुहुयादित्येष । न वैसशरीरस्य सतः पापापहतिर- स्तीत्यभिप्रायः ॥ ५ ॥

अमावास्यायां पौर्णमास्यां वा केशश्मश्रुलोमनखानि वापयित्वा ब्रह्मचारिकल्पेन व्रतमुपैति ॥ ६ ॥

अनु०—अमावास्या या पौर्णमासी के दिन केश, दाढ़ी मूँछ, रोएँ और नखों को कटाकर ब्रह्मचारी के लिए विहित विधि के अनुसार व्रत का आचरण करे ॥ ६ ॥

पर्वण्युपक्रमः । ब्रह्मचारिकल्पो मधुमांसादिवर्जनम् । इत्थंभूतलक्षणे तृतीया । व्रतं सङ्कल्पः—कूष्माण्डैर्होण्यामीति ॥ ६ ॥

संवत्सरं मासं चतुर्विंशत्यहो द्वादश रात्रीः षट् तिस्रो वा ॥ ७ ॥

अनु०—उपयुक्त व्रत एक वर्ष, एक मास, चौबीस दिन, बारह रात्रियों, छः रात्रियों या तीन रात्रियों तक करे ॥ ७ ॥

इमे श्रुतिसिद्धाः कल्पाः । एतेषां च व्यवस्था 'यावदेनो दीक्षामुपैति' इति ॥ ७ ॥

न मांसमश्नीयान्न स्त्रियमुपेयान्नोपर्यासीत जुगुप्सेताऽनृतात् ॥८॥

अनु०—मांस का भक्षण न करे । स्त्रीगमन, आसन, चारपाई आदि पर न बैठे और असत्य भाषण से दूर रहे ॥ ८ ॥

टि०—गोविन्दस्वामी के अनुसार इस व्रत में भी ऋतुकाल में पत्नीगमन विहित है । तृणादि के आसन पर बैठने में कोई दोष नहीं है । औषध के प्रयोजन से भी मांस भक्षण न करे ।

अनृतौ नोपेयादिति ऋतौ चोपेयादेव उपर्यासननिषेधः खट्वादाँ । ततश्च तृणादावुपर्यासने न दोषः । जुगुप्सा निन्दा । नाऽनृतं वदेदित्यर्थः । ब्रह्मचा- रिकल्पेनेत्यनेनैव मांसभक्षणादेरभावे सिद्धे संयोगपृथक्त्वत् । कर्माङ्गत्वमप्य- वगम्यते । एवं च तदतिक्रमे कर्मैव निष्फलं भवति । अतश्चौषधार्थमपि मांसं न भक्षयितव्यमिति गम्यते ॥ ८ ॥

अथ भक्षनियमः—

पयो भक्ष इति प्रथमः कल्पः ॥ ९ ॥

अनु०—दूध पीकर जीवन निर्वाह करना सबसे उत्तम विधि है ॥ ९ ॥

निगदव्याख्यातमेतत् ॥ ९ ॥

३३४बौधायन-धर्मसूत्रम्[ कूष्माण्डहोमः

यावकं वोपयुञ्जानः कृच्छ्रद्वादशरात्रं चरेद्भिक्षेद्वा तद्विधेषु यवागूं राजन्यो वैश्य आमिक्षाम् ॥ १० ॥

अनु०— अथवा यावक का भोजन के रूप में प्रयोग करते हुए बारह दिनों का कृच्छ्र व्रत करे अथवा भिक्षा से जीवन निर्वाह करे । ऐसी स्थिति में क्षत्रिय यवागू का भक्षण करे और वैश्य आमिक्षा का भक्षण करे ॥ १० ॥

उपयुञ्जानो जुहुयादिति शेषः । तप्ते पयसि दध्याननीते यच्छ्नं सा आमिक्षा भवति ॥ १० ॥

पूर्वाह्णे पाकयज्ञिकधर्मेणाऽग्निमुपसमाधाय सम्परिस्तीर्याऽऽग्नि-मुखात्कृत्वा । ‘“यद्देवा देवहेलनम्” ।

१. यद्देवा देवहेलनन्देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा मुञ्चतर्त्तंस्यर्तेन मामित ॥ १ ॥ देवा जीवनकाम्या यद्वाचाऽनृतमूदिम । तस्मान्न इह मुञ्चत विश्वे देवासस्सजोषसः ॥ २ ॥ ऋतेन द्यावापृथिवी ऋतेन त्वꣳसरस्वति । कृतान्नः पाहिनेनसो यत्किञ्चाऽनृतमूदिम ॥ ३ ॥ इन्द्राग्नी मित्रावरुणौ सोमो धाता बृहस्पतिः । तैनो मुञ्चन्त्वेनसो यदन्यकृतमास्म ॥ ४ ॥ सजातशꣳसादुतजामिशꣳसाज्ज्यायसश्शꣳ-सादुत वा कनीयसः । अनाधृष्टन्देवेकृतं यदेनस्तस्मात्त्वमस्माज्जातवेदो मुमुग्धि ॥ ५ ॥ यद्वाचा यन्मनसा बाहुभ्यामूरुभ्यामष्ठीवद्भ्याꣳशिश्नैर्यदनृतं चकृमा वयम् । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु चकृम यानि दुष्कृता ॥ ६ ॥ येन ध्रितो अर्णवा-न्व्विभूर्येन सुयन्तमसो निमुंमोच । येनेन्द्रो विश्वा अजयदारातीस्तेनाहं ज्योतिषा ज्योतिरानशान आक्षि ॥ ७ ॥ यत्कुसीदमप्रतीतं मयेह येन यमस्य निधिना चरामि । एतत्तदग्ने अनृणो भवामि जीवन्नेव प्रतितत्ते दधामि ॥ ८ ॥ यन्मयि माता गर्भ सत्येनञ्चकार यत्पिता । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ ९ ॥ यदा पिपेष मातरं पितरं पुत्रः प्रमुदितो धयन् । पहिं-सितौ पितरो मया तत्तदग्ने अनृणो भवामि ॥ १० ॥ यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिꣳसिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ ११ ॥ यदाशसा निशसा यत्पराशसा यदेनश्चकृमा नूतनं यत्पुराणम् । अग्निर्मा० मनेनसम् ॥ १२ ॥ अतिक्रामामि दुरितं यदेनो जहामि रिप्रं परमे सधस्थे । यत्र यन्ति सुकृतो नाऽपि दुष्कृतस्तमारोहामि सुकृतान्नु लोकम् ॥ १३ ॥ ऋते देवा अपुञ्जतैतदेनस्तित एतन्मनुष्येषु मामृजे । ततो मा यदि किञ्चि-दानशेऽग्निर्मा तस्मादेनसो० मनेनसम् ॥ १४ ॥ दिवि जाता अप्सु जाता या जाता ओषधीभ्यः । अथो या अग्निजा आपस्तानश्शुन्धन्तु शुन्धनीः ॥ १५ ॥ यदापो नक्तं

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्याय. ३३५

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्याय. ३३५

"‘यददीव्यन्नृणमहं बभूव" । "आयुष्टे विश्वतो दध"दित्येतैस्त्रि-

दुरितं चराम यद्वा दिवा नूतनं यत्पुराणम् । हिरण्यवर्णास्तत उत्पुनीत नः ॥ १६ ॥ इमं मे वरुण श्रुधी हवमद्या च मृळय । त्वामवस्युराचके ॥ १७ ॥ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्रमोषीः ॥ १८ ॥ त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेळोऽव यासि- सीष्ठाः । यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाꣳसि प्रमुमुग्ध्यस्मत् ॥ १९ ॥ स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणंꣳ- रराणो वीहि मृळीकꣳसुहवो न एधि ॥ २० ॥ त्वमग्ने अयास्ययासन् मनसा हितः । अयासन् हव्यमूहिषेऽया नो धेहि भेषजम् ॥ २१॥ ( तै० आ० २. ३.) इति कूष्माण्डे ष्वाद्योऽनुवाकः ॥

१. यददीव्यन्नृणमहं बभूवाऽदिसन्त्वासञ्जगर जनेभ्यः । अग्निर्मा तस्मादिन्द्रश्च संविदानौ प्रमुञ्चताम् ॥ २२ ॥ यद्धस्ताभ्याञ्चकर किल्बिषाण्यक्षाणां वग्नुमुपजिघ्न- मानः । उग्रं पश्या च राष्ट्रभृच्च तान्यप्सरसावनुदत्तामृणानि ॥ २३ ॥ उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनुदत्तमेतत् । नेन्न ऋणानुणच इच्छमानो यमस्य लोके अधि रज्जुरायात् ॥ २४ ॥ अव ते हेळः ॥ २५ ॥ उदुत्तमं ॥ २६ ॥ इमं मे वरुण ॥ २७ ॥ तत्त्वा यामि ॥ २८ ॥ त्वन्नो अग्ने ॥ २९ ॥ स त्वन्नो अग्ने ॥ ३० ॥ संकुसुको विकुसुको निष्क्रंयो यश्च निस्वनः । तेऽस्मत्क्षममनागसो दूराद् दूरमचीचतम् ॥ ३१ ॥ निर्यक्षममचीचते कृत्यान्निऋ॑तित्त्वि । तेनान्योऽस्मत्समुच्छाते तमस्मै प्रसु- वामसि ॥ ३१ ॥ दुष्ष्वप्नाꣳसानुष्वप्नाꣳसाभ्यां घणेनानुघणेन च । तेनान्योऽस्मत्समु- च्छाते तमस्मै प्रसुवामसि ॥ ३२ ॥ संवर्धसा पयसा सन्तनूभिरगन्महि मनसा सꣳ- शिवेन । त्वष्टा नो अत्र विदधातु रायोऽनुमाष्टुं तन्वो १ यद्विलिष्टम् ॥ ३३ ॥ ( तै० ब्रा० २.४ ) [इति द्वितीयोऽनुवाकः ।

२. आयुष्टे विश्वतो दधदयमग्निवरेण्यः । पुनस्ते प्राण आयाति परा यक्ष्मं ए सुवामि ते ॥ ३४ ॥ आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरैधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमम् ॥ ३५ ॥ इममग्न आयुषे वर्चसे कृधि तिग्ममोजो वरुण सꣳशिशाधि । मातेवाऽस्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथाऽसत् ॥ ३६ ॥ अग्न आयूंषि पवस आसुवोर्जमिषञ्च नः । आरे बाधस्व दुच्छुनाम् ॥ ३७ ॥ अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् । दधद्रयिं मयि पोषम् ॥ ३८ ॥ अग्निश्चि॑षिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम् ॥ ३९ ॥ अग्ने जातान् प्रणुदानस्सपत्नान् प्रत्यजातान् जातवेदो नुदस्व । अस्मे दीदिहि सुमना अहेळञ्छमंन्ते स्याम त्रिवरूथ उद्ग्रौ ॥ ४० ॥ सहसा जातान् प्रणुदानस्स-

३३६बौधायन-धर्मसूत्रम्[ कूष्माण्डहोमः

दित्यनुवाकैः प्रत्यृचमाज्यस्य हुत्वा १"सिंहे व्याघ्र उत या पृदाकावि"ति चतस्रस्स्रुवाहुतीः जुहोति । २"अग्नेऽभ्यावर्तिन् । अग्ने अङ्गिरः । पुनरूर्जा । सह रय्ये"ति चतस्रोऽभ्यावर्तिनीर्हुत्वा समित्पाणिर्यजमान-


षत्नान् प्रस्यजातान् जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो वयँस्याम प्रमृदानस्सपत्नान् ॥ ४१ ॥ अग्ने यो नोऽभितो जनो वृको वारोजिघांसति । ताँस्त्वं वृत्रहञ्जहि वस्वस्मभ्यमाभर ॥ ४२ ॥ अग्ने यों नोऽभिदासति समानो यश्चनिष्ट्यः । तं व समिधं कृत्वा यङ्क्तुमग्नेऽपि दध्मसि ॥ ४३ ॥ यो नश्शपादशपतो यश्च नश्शपतश्शपात् । उषाश्च तस्मै निऋतिश्च सर्वं पापँ समूहताम् ॥ ४४ ॥ यो नस्स पत्नो यो रणो मतोंऽभिदासति देवः । इध्मस्येव प्रक्षायतो मात्तस्योच्छेषि किञ्चन ॥ ४५ ॥ यो मां द्वेष्टि जातवेदो यञ्चाहं द्वेषिम यश्च माम् । सर्वाँस्तानग्ने सन्दह याँश्चाहं द्वेषिम ये च माम् ॥ ४६ ॥ यो अस्मभ्यमरातीयाद्यश्च नो द्वेषते जनः । निन्दाद्यो अस्मादिप्साच्च सर्वाँस्तान्मष्मषा कुरु ॥ ४७ ॥ सँशितं मे ब्रह्मसँशितं वीर्यां १ बलम् । सँशितंक्षत्रं मे जिष्णु यस्याऽहमस्मि पुरोहितः ॥४८॥ उदेषां बाहू अतिरमुद्धर्चो अथोबलम् । क्षिणोमि ब्रह्मणाऽमित्रानुन्नयामि स्वां१ अहम् ॥ ४९ ॥ पुनर्मनः पुनरायुर्म आगात् पुनश्चक्षुः पुनश्श्रोत्रम्म आगात् पुनः प्राणः पुनराकूतं म आगात्पुनश्चित्तं पुनराधीतं म आगात् । वैश्वानरोऽदब्धस्तनूपा अव बाधतां दुरितानि विश्वा ॥ ५० ॥ ( तै० आ० २. ५. ) इति तृतीयोऽनुवाकः ।

१. सिङ्हे व्याघ्र उत या पृदाकौ । त्विषिरग्नो ब्राह्मणे सूर्ये या । इन्द्रं या देवी सुभगा जजान । सा न आगन् वर्चसा संविदाना ॥ १ ॥ या राजन्ये दुन्दुभाव्वायतायाम् । अश्वस्य क्रन्थे पुरुषस्य मायौ । इन्द्रं या देवी सुभगा जजान । साँ न आगन् वर्चसा सम्विदाना ॥ २ ॥ या हस्तिनि द्वीपिनि या हिरण्ये । त्विषिरश्वेषु पुरुषेषु गोषु । इन्द्रं या देवी सुभगा जजान । सा न आगन् वर्चसा सम्विदाना ॥ ३ ॥ रथे अक्षेषु वृषभस्य वाजे । वाते पर्जन्ये वरुणस्य शुष्मे । इन्द्रं या देवी सुभगा जजान । सा न आगन् वर्चसा सम्विदाना ॥ ४ ॥ ( तै० सं० २.७.७. ) इति चत्वारो मन्त्राः एकेकेन मन्त्रेणैकाहुतिः कर्तव्या ॥

२. अग्नेऽभ्यावर्तिन्नभि न आवर्तस्वाऽऽयुषा वर्चसा सन्या मेधया धनेन ॥ १ ॥ अग्ने अङ्गिरश्शतं ते सङ्गावृत्तस्स्रहस्रन्त उपावृतः । तासां पोषस्य पोषेण पुनर्नो नष्टमा कृधि पुनर्नो रयिमा कृधि ॥ २ ॥ पुनरूर्जा निवर्तस्व पुनरग्न इषाऽऽयुषा । पुनर्नः पाहि विश्वतः ॥ ३ ॥ सहरय्या निवर्तस्वाऽग्ने पिन्वस्व धारया । विश्वाप्स्निया विश्वतस्परि ॥ ४ ॥ इति चतस्रोऽभ्यावर्तिन्यः ( तै. सं. ४.२ १.२. ) ॥

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३७

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३७

लोकेऽवस्थाय ^१"वैश्वानराय प्रतिवेदयाम" इति द्वादशर्चेन सूक्तेनो- पस्थाय ^२"यन्मे मनसा वाचा कृतमेनः कदाचन । 'सर्वस्मान्मेळित्तो मोग्धि त्वं हि वेत्थ यथातथँ स्वाहे"ति समिधमाधाय वरं ददाति ॥ ११ ॥

**अनु०—**पूर्वाह्नमें पाकयज्ञ की विधि के अनुसार अग्नि को प्रज्वलित कर उसके चारो ओर कुश फैलाकर अग्निमुख तक की क्रियाएँ कर 'यद्देवा देवहेळनम्' "यददीव्यन्नृणमहं बभूव" "आयुष्टे विश्वतो दधत्" आदि तीन अनुवाकों से प्रत्येक ऋचा के उच्चारण के साथ घृत का हवन करे उसके बाद "सिंहे व्याघ्र उत या पृदाकौ" आदि (तैत्तिरीय संहिता २.७.७) से स्रुवा द्वारा चार आहुतियाँ करे । इसके बाद "अग्नेऽभ्यावर्त्तिन्नभि न आवर्त्तस्वाऽऽ युषा वर्चसा सन्या मेधया प्रजया धनेन ।" "अग्ने अङ्गिरश्शतं ते सन्त्वावृतस्ससहस्रन्त उपावृतः । तासां पोषस्य पोषेण

१. वैश्वानराय प्रतिवेदयामो यदीतृणग् सङ्गरो देवतासु । स एतान् पाशान् प्रमु- ञ्चन् प्रवेद स नो मुञ्चातु दुरितादवद्यात् ॥ १ ॥ वैश्वानरः पवमानः पवित्रेणैत्सङ्गर- मभिधावाम्याशाम् । अनाजानन् मनसा याचमानो यदन्नो अव तत्सुवामि ॥ २ ॥ अमी ये सुभगे दिवि विचृतौ नाम तारके । प्रेहामृतस्य यच्छतामेतद्बद्धकमोचनम् ॥३॥ विजिहीष्वं लोकान् कृधि बन्धाम्मुञ्चासि बद्धकम् । योनेरिव प्रच्युतो गर्भस्सर्वान् पथो अनुष्व ॥ ४ ॥ स प्रजानन् प्रतिगृह्णीत विद्वान् प्रजापतिः प्रथमजा ऋतस्य । अस्मा- भिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनुसञ्चरेम ॥ ५ ॥ ततं तन्तुमन्वेके अनुसञ्चर- न्ति येषां दत्तं पित्र्यमायनवत् । अबन्ध्वेके ददतः प्रयच्छाद्वातुं चेच्छक्नवाँस स्वर्गं एषाम् ॥ ६ ॥ आरभेथामनुसंरभेथाँ समानं पन्थामवथो घृतेन । यद्वां पूतं परि- विष्टं यदग्नी तस्मै गोत्रायेह जायापती सँरभेयाम् ॥ ७ ॥ यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिँसिम । अग्निर्मा तस्मादेनसो गार्हपत्य उभोनेषद्दुरिता यानि चकृम ॥ ८ ॥ सूरिर्माताऽदितिर्नो जनित्रं भ्राताऽन्तरिक्षमभि शस्त एनः । द्यौर्नः पिता पितृयाच्छं भवाति जामिमित्वा मा विवित्सि लोकान् ॥ ९ ॥ यत्र सुहार्दस्सुकृतो मदन्ते विहाय रोगं तन्वाँस्वायाम् । अश्रोणाङ्गै रह्रुतास्स्वर्गे तत्र पश्येम पितरं च पुत्रम् ॥ १० ॥ यदक्षमद्यमघमृतेन देवा दास्यन्नदास्यन्नुत वा करि- ष्यन् । यद्देवानां चक्षुष्यागो अस्ति यदैव किञ्च प्रतिजग्राहमग्निर्मा तस्मादनृणं कृणोतु ॥ ११ ॥ यदसमद्मि बहुधा विरूपं वासो हिरण्यमुत गामजामविम् । यद्देवानां चक्षुष्यागो अस्ति यदैव किञ्च प्रतिजग्राहमग्निर्मातस्मादनृणं कृणोतु ॥ १२ ॥


२. यन्मे मनसा वाचा...। सर्वस्मान्मेदितो मोग्धि" इत्येव 'इ' भिन्नेषु सर्वेषु मूलपुस्तकेषु पाठः ।
२५ बौ०गृ०

३३८बौधायन-धर्मसूत्रम्[ कूष्माण्डहोमः

पुनर्नो नष्टमा कृषि पुनर्नो रयिमा कृषि”, “पुनरुर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतः ॥” “सहस्रथ्या निवर्तस्वाग्ने पिन्वस्व धारया । विश्वाप्सिन्या विश्वतस्परि” ( तैत्तिरीय संहिता ४.२.१.२ ) के चार मन्त्रों से चार अभ्यावर्तिनी आहुतियाँ करे यजमान के आसन पर बैठकर हाथ में समिध् लेकर “वैश्वानराय प्रतिवेदयाम आदि बारह ऋचाओं वाले सूक्त से अग्नि की पूजा करे “यन्मे मनसा वाचा कृतमेनः कदाचन । सर्वस्मान्मेळितो मोग्धि त्वं हि वेत्थ यथातथम्, स्वाहा” ( मैंने मन से, वाणी से जो कुछ पाप कभी किए हैं उन सभी से तुम मुझे मुक्त करो । मैं तुम्हारी प्रार्थना करता हूँ, तुम सभी को सही रूप में जानते हो ) इस मन्त्र से अग्नि पर समिध् रखे और उत्तम गौ दक्षिणा के रूप में प्रदान करे ॥ ११ ॥

पाकयज्ञधर्मग्रहणादाहवनीयो निवर्तते । अग्निमुखात्कृत्वाऽनाम्नातया पक्वहोमं कृत्वा सौविष्टकृतं च । यद्देवादेव उपहोमाः । यजमानलोके दक्षिणतोऽग्नेः । अन्यत्राऽप्युपस्थानचोदनायां समित्पाणिता समिदभ्याधानं च द्रष्टव्यम् । 'यन्मे मनसेत्यस्य वामदेवर्षिः कण्वर्षिर्वा । अनुष्टुप्छन्दः । अग्निदेवता यद्वाङ्मनसाभ्यां कृतमेनः कस्यां चिदवस्थायां तस्मात् सर्वस्मात् मा मां ईळितः स्तुतः त्वं मोग्धिं मोचय; हि यस्मात् वेत्थ त्वमेव सर्वं यथातथं वेत्सि परितः । वरः वरिष्ठा गौः ॥ ११ ॥

जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥ १२ ॥

एक एवाऽग्नौ परिचर्यायाम् ॥ १३ ॥

अनु०— मन्त्रों के जप से लेकर दक्षिणा में गौ का दान करने तक की क्रियाएँ ज्ञात ही हैं ॥ १२ ॥

अनु०— केवल एक ही व्यक्ति अग्नि की परिचर्या का कर्म करे ॥ १३ ॥

येयमग्नौ परिचर्या उक्ता, तस्यामेक एव स्वयं कर्ता स्यात् नाऽन्यं कर्तारं वृणीते । तस्मादन्यत्र पापक्षपणेषु परकर्तृकताऽपि भवतीति गम्यते । अग्नावित्येकवचननिर्देशाच्चाऽस्मिन्नेतत्स्वयं कर्तव्यम्, न त्वाहवनीयेऽपि । तत्र ह्यानादिष्टेऽध्वर्युणैव होतव्यमित्येतदेव ॥ १३ ॥

एवं तावत्पुरुषार्थतया होमविधिरुक्तः । अथेदानीं ‘कर्मादिष्वेवैतैर्जुहुयात्’ इत्येतद्व्याख्यास्यान्नाह—

अग्न्याधेये यद्देवोदेवमहेलनम् । यद्दीव्यन्नृणमहं बभूव । आयुष्टे विश्वतो दधदिति पूर्णाहुतिम् ॥ १४ ॥


१. “यन्मे मनसा” इति ख. ग घ. पु. पाठः ।

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३९

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३९

अनु०—अग्न्याधेय में "यदद्वो देवहेलनम् । यददीव्यन्नृणमहं बभूव आयुष्टे विश्वतो दधत्" मन्त्र से पूर्णाहुति करे ॥ १४ ॥

जुहुयादिति शेषः ॥ १४ ॥

अग्निहोत्रं दर्शयितुमाह—

'हुत्वाऽग्निहोत्रमारप्स्यमानो दशहोत्रा हुत्वा दर्शपूर्णमासावार- प्स्यमानश्चतुर्होत्रा हुत्वा चातुर्मास्यान्यारप्स्यमानः पञ्चहोत्रा हुत्वा पशुबन्धे षड्ढोत्रा सोमे सप्तहोत्रा ॥ १५ ॥

अनु०—इस पूर्णाहुति के बाद जो अग्निहोत्र आरम्भ करने वाला हो वह 'चित्तिस्स्रुक्' आदि अनुवाक के दशहोतृ नाम के मन्त्रों से पूजन करे। इस आहुति के बाद दर्शपूर्णमास आरम्भ करने वाला 'पृथिवी होता' आदि चतुर्होतृ मन्त्रों से पूजन करे। इस आहुति के बाद चातुर्मास्य यज्ञ आरम्भ करने वाला 'अग्निर्होता' आदि पञ्चहोतृ मन्त्रों से पूजन करे। इस आहुति के बाद पशुबन्ध यज्ञ में करने वाले 'वाग्घोता' आदि षड्ढोता मन्त्रों से पूजन करे और सोम यज्ञ में 'महाहविः' सप्तहोतृ मन्त्र से पूजन करे ॥ १५ ॥

^२दशहोता 'चित्तिस्स्रुक्' इत्यनुवाकः ^३'पृथिवी होता' चतुर्होता । ^४'अग्नि-


१. सूत्रस्याऽस्य मूलभूतानि श्रुतिवाक्यानि—तैत्तिरीयब्राह्मणे द्वितीयाष्टके ( काण्डे ) द्वितीयानुवाके—"तेनैवोद्धृत्याऽग्निहोत्रं जुहुयात्" । "दर्शपूर्णमासावा- लभमानः चतुर्होतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्" । "चातुर्मास्यान्यालभमानः पञ्चहोतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्" । "पशुबन्धेन यक्ष्यमाणः षड्ढोतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्" । "दीक्षिष्यमाणः सप्तहोतारं मनसाऽनुद्रुत्याऽऽह- वनीये जुहुयात्" इति वाक्यान्यनुसन्धेयानि ।

२. चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाऽध्वर्युः । वाच- स्पते विधे नामन् । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोमं पिबतु । अस्मासु नृम्णन्धास्स्वाहा ॥ इति दशहोता ॥

३. पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता । वाचस्पते वाचो वीर्येण । सम्भृततमेनाऽऽयक्ष्यसे । यजमानाय वार्यम् । आसुवस्करस्मै । वाचस्पतिस्सोमं पिबति । जजनदिन्द्रमिन्द्रियाय स्वाहा ॥ इति चतुर्होता ॥

४. अग्निह्रोता । अश्विनावध्वर्यू । त्वष्टाऽग्नीत् । मित्र उपवक्ता । सोमस्सो- मस्य पुरोगाः । शुक्रश्शुक्रस्य पुरोगाः । आतास्त इन्द्र सोमाः वातापेहंवनश्शुतस्स्वाहा ॥ इति पञ्चहोता ।

३३८बौधायन-धर्मसूत्रम्[ कूष्माण्डहोमः

पुनर्नो नष्टमा कृषि पुनर्नो रयिमा कृषि", "पुनरूर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतः ॥" "सहस्रथ्या निवर्तस्वाग्ने पिन्वस्व धारया । विश्वाप्सिन्या विश्वतस्परि" ( तैत्तिरीय संहिता ४.२.१.२ ) के चार मन्त्रों से चार अभ्यावर्तिनी आहुतियां करे यजमान के आसन पर बैठकर हाथ में समिध् लेकर "वैश्वानराय प्रतिवेदयाम आदि बारह ऋचाओं वाले सूक्त से अग्नि की पूजा करे "यन्मे मनसा वाचा कृतमेनः कदाचन । सर्वस्मान्मेळितो मोग्धि त्वं हि वेत्थ यथातथम्, स्वाहा" ( मैने मन से, वाणी से जो कुछ पाप कभी किए हैं उन सभी से तुम मुझे मुक्त करो । मैं तुम्हारी प्रार्थना करता हूँ, तुम सभी को सही रूप में जानते हो ) इस मन्त्र से अग्नि पर समिध् रखे और उत्तम गौ दक्षिणा के रूप में प्रदान करे ॥ ११ ॥

पाकयज्ञधर्मग्रहणादाहवनीयो निवर्तते । अग्निमुखात्कृत्व¹ अनाम्नातया पकहोमं कृत्वा सौविष्टकृतं च । यद्देवाद्य उपहोमाः । यजमानलोके दक्षिणतोऽग्नेः । अन्यत्राऽप्युपस्थानचोदनायां समित्पाणिता समिदभ्याधानं च द्रष्टव्यम् । 'यन्मे मनसेत्यस्य वामदेवर्षिः कण्वर्षिर्वा । अनुष्टुप्छन्दः । अग्निर्देवता यद्वाङ्मनसाभ्यां-कृतमेनः कस्यां चिदवस्थायां तस्मात् सर्वस्मात् मा मां ईळितः स्तुतः त्वं मोग्धिं मोचय; हि यस्मात् वेत्थ त्वमेव सर्वं यथातथं वेत्सि परितः । वरः वरिष्ठा गौः ॥ ११ ॥

जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥ १२ ॥

एक एवाऽग्नौ परिचर्यायाम् ॥ १३ ॥

अनु०— मन्त्रों के जप से लेकर दक्षिणा में गो का दान करने तक की क्रियाएं ज्ञात ही हैं ॥ १२ ॥

अनु०— केवल एक ही व्यक्ति अग्नि की परिचर्या का कर्म करे ॥ १३ ॥

येयमग्नौ परिचर्या उक्ता, तस्यामेक एव स्वयं कर्ता स्यात् नाऽन्यं कर्तारं वृणीते । तस्मादन्यत्र पापक्षपणेषु परकर्तृकत्वाडपि भवतीति गम्यते । अग्नावित्येकवचननिर्देशाच्चाऽस्मिन्नेतत्स्वयं कर्तव्यम्, न त्वाहवनीयेऽपि । तत्र ह्यनादिष्टेऽध्वर्युणैव होतव्यमित्येतदेव ॥ १३ ॥

एवं तावत्पुरुषार्थतया होमविधिरुक्तः । अथेदानीं 'कर्मादिष्वेवैतैर्जुहुयात्' इत्येतद्व्याख्यातुमाह—

अग्न्याधेये यद्देवोदेवमहेलनम् । यद्दीव्यन्नृणमहं बभूव ।
आयुष्टे विश्वतो दधदिति पूर्णाहुतिम् ॥ १४ ॥


१. "यन्मे मनसा" इति ख. ग घ. पु. पाठः ।

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३९

सप्तमः खण्डः ] तृतीयप्रश्ने सप्तमोऽध्यायः ३३९

अनु०—अग्न्याधेय में "यद् वो देवहेलनम् । यददीव्यन्नृणमहं बभूव आयुष्टे विश्वतो दधत्" मन्त्र से पूर्णाहुति करे ॥ १४ ॥

जुहुयादिति शेषः ॥ १४ ॥

अग्निहोत्रं दर्शयितुमाह—

'हुत्वाऽग्निहोत्रमारप्स्यमानो दशहोत्रा हुत्वा दर्शपूर्णमासावारप्स्यमानश्चतुर्होत्रा हुत्वा चातुर्मास्यान्यारप्स्यमानः पञ्चहोत्रा हुत्वा पशुबन्धे षद्धोत्रा सोमे सप्तहोत्रा ॥ १५ ॥

अनु०—इस पूर्णाहुति के बाद जो अग्निहोत्र आरम्भ करने वाला हो वह 'चित्तिस्स्रुक्' आदि अनुवाक के दशहोतृ नाम के मन्त्रों से पूजन करे। इस आहुति के बाद दर्शपूर्णमास आरम्भ करने वाला 'पृथिवी होता' आदि चतुर्होतृ मन्त्रों से पूजन करे। इस आहुति के बाद चातुर्मास्य यज्ञ आरम्भ करने वाला 'अग्निर्होता' आदि पञ्चहोतृ मन्त्रों से पूजन करे। इस आहुति के बाद पशुबन्ध यज्ञ में करने वाले 'वाग्घोता' आदि षद्धोता मन्त्रों से पूजन करे और सोम यज्ञ में 'महाहविः' सप्तहोतृ मन्त्र से पूजन करे ॥ १५ ॥

२दशहोता 'चित्तिस्स्रुक्' इत्यनुवाकः ३'पृथिवी होता' चतुर्होता । ४'अग्नि-


१. सूत्रस्याऽस्य मूलभूतानि श्रुतिवाक्यानि—तैत्तिरीयब्राह्मणे द्वितीयाष्टके ( काण्डे ) द्वितीयानुवाके—"तेनैवोद्धृत्याऽग्निहोत्रं जुहुयात्” । "दर्शपूर्णमासावालभमानः चतुर्होतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्” । "चातुर्मास्यान्यालभमानः पञ्चहोतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्” । "पशुबन्धेन यक्ष्यमाणः षद्धोतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्” । "दीक्षिष्यमाणः सप्तहोतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात्" इति वाक्यान्यनुसन्धेयानि ।

२. चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाऽध्वर्युः । वाचस्पते विधे नामन् । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोमं पिबतु । प्रास्मासु नृम्णन्धास्स्वाहा ॥ इति दशहोता ॥

३. पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । वृहस्पतिरुपवक्ता । वाचस्पते वाचो वीर्येण । सम्भृततमेनाऽऽयक्ष्यसे । यजमानाय वार्यम् । आसुवस्करस्मै । वाचस्पतिस्सोमं 'पिबति । जजनदिन्द्रमिन्द्रियाय स्वाहा ॥ इति चतुर्होता ॥

४. अग्निर्होता । अश्विनावध्वर्यू । त्वष्टाऽग्नीत् । मित्र उपवक्ता । सोमस्सोमस्य पुरोगाः । शुक्रश्शुक्रस्य पुरोगाः । आतास्त इन्द्र सोमाः वातापेहंवमश्रुतस्स्वाहा ॥ इति पञ्चहोता ।

३४० बौधायन-धर्मसूत्रम् [ कूष्माण्डहोमः

होता' पञ्चहोता । "वाग्धोता' षड्ढोता व्याख्यानेषु प्रायणीयायां च ² 'सूर्यं ते' । ³'महाहविः' सप्तहोता । एते कूष्माण्डप्रदेशाः ॥ १५ ॥

विज्ञायते कर्मादिष्वेत्तैर्जुहुयात् पूतो देवलोकान् समश्नुते इति हि ब्राह्मणमिति हि ब्राह्मणम् ॥ १६ ॥

इति तृतीयप्रश्ने सप्तमः खण्डः ।

**अनु०—**वेद मे यह कहा गया है कि कर्मों के प्रारम्भ में कूष्माण्ड मन्त्रों से हवन करे । इससे यजमान पवित्र होकर देवलोक प्राप्त करता है । ऐसा ब्राह्मण का वचन है ॥ १६ ॥

**टि०—**यहाँ तैत्तिरीय आरण्यक २.७.५ की ओर निर्देश किया गया है ।

ब्राह्मणग्रहणं तु कर्मादिषु ब्राह्मणोक्तमेव कर्तव्यम् । अतश्चाऽग्निमुखस्य वरदानादेश्च निवृत्तिः ॥ १६ ॥

इति बोधायनीयधर्मसूत्रविवरणे तृतीये प्रश्ने सप्तमोऽध्यायः ॥


१. 'वाग्धोता । दीक्षा पत्नी । वातोऽध्वर्युः । आपोऽभिगरः । मनो हविः । तपसि जुहोमि । सुभुर्वस्सुवः । ब्रह्म स्वयंभु । ब्रह्मणे स्वयम्भुवे स्वाहा ॥ इति षड्ढोता ।

२. सूर्यं ते चक्षुः । वातं प्राणः । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अङ्गैर्यज्ञम् । पृथिवीँ शरीरैः । वाचस्पतेऽच्छिद्रया वाचा। अच्छिद्रया जुह्वा । दिवि देवा वृधैँहोत्रा मेरयस्व स्वाहा । इति द्वितीयषड्ढोतृमन्त्रोऽत्रोल्लिखितः । अत्रेदं वक्तव्यम्—तैत्तिरीयारण्यके तृतीयप्रपाठके "चित्तिस्स्रुक्" इत्यादिना दशहोत्रादयो मन्त्राः पठिताः । तत्राऽऽदितः पञ्चस्वनुवाकेषु दशचतुःपञ्चषट्सप्तहोतृमन्त्राः । तदनन्तरं षष्ठेऽनुवाके पुनरपि षड्ढोतृसंज्ञकं मन्त्रान्तरमाम्नातम् 'वाग्धोते' त्यादि । तथा च तस्यैव पशुबन्धारम्भाङ्गत्वमिष्यते व्याख्यात्रा । परन्तु तदीयब्राह्मणपर्यालोचनया तत्रत्यभाष्यपर्यालोचनया च "सूर्यं ते" इत्यस्यैव पश्वारम्भाङ्गत्वं प्रतीयते । "वाग्धोता" इत्यस्य तु चातुर्होत्रीयचयन एव विनियोग इति ॥ 'यत्र सोमयागादौ 'षड्ढोतारं व्याख्याय' इति व्याख्यानं विहितं तत्र प्रायणीयहविरासादने च यष्षड्ढोता विहितः तदुभयत्र 'सूर्यं ते' इति मन्त्र इत्यर्थः ।

३. महाहविर्होता । सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यञ्चाऽप्रतिधृष्यञ्च यज्ञस्याऽभिगरौ । अयास्य उद्गाता । वाचस्पते हृद्विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोममपात् । मा

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४१

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४१

तृतीयप्रश्ने अष्टमोऽध्यायः

अष्टमः खण्डः

अयमपि पापनिबर्हणोपाय इत्याह—

अथाऽतश्चान्द्रायणकल्पं व्याख्यास्यामः ॥ १ ॥

**अनु०—**अब यहां से हम चान्द्रायण व्रत की विधि का विवेचन करेंगे ॥ १ ॥

चन्द्रस्यायनं गमनं यथा वृद्धिह्रासाभ्यां युक्तं भवति तद्वत् ग्रासवृद्धिह्रासवशाच्चरतीति चान्द्रायणम् ॥ १ ॥

शुक्लचतुर्दशीमुपवसेत् ॥ २ ॥

**अनु०—**शुक्ल पक्ष की चतुर्दशी को उपवास करे ॥ २ ॥

केशादीनि वापयित्वोपवसेदिति क्रमः । उपवसेदिति वचनात् औपवसथ्यमेतदहरिति गम्यते । अत उत्तरेद्युर्होमः । तथा च लिङ्गम्—'पञ्चदश ग्रासान्' इति ॥ २ ॥

प्रायश्चित्तार्थे चान्द्रायणे एतत् । अथाऽप्युदाहरन्ति—

केशश्मश्रुलोमनखानि वापयित्वा अपि वा श्मश्रूण्येव ॥ ३ ॥
अहतं वासो वसानः सत्यं ब्रुवन्नावसथमभ्युपेयात् ॥ ४ ॥

**अनु०—**सिर के केश, दाढी-मूँछ, शरीर के रोओं और नखों को कटवाकर अथवा केवल दाढी-मूँछ ही कटवाकर, नये वस्त्र पहन कर सत्य भाषण करते हुए उस स्थान में प्रवेश करे जहाँ यज्ञिय अग्नि रखी गयी हो ॥ ३-४ ॥

**टि०—**पुराने धुले हुए वस्त्र भी हो सकते है। आवसथ होम का स्थान है, जहाँ यज्ञिय अग्नि स्थापित होती है ।

तथा च गौतमः—'कृच्छ्रे वपनं व्रतं चरेत्' इति ॥ ३ ॥
अहतं वस्त्रं नवं केशादिरहितं प्रक्षालितोपवातं च । सत्यवचनमपि चान्द्रायणाङ्गमेव । आवसथो होमस्थानम् ॥ ४ ॥

तस्मिन्नस्य सकृत्प्रणीतोऽग्निररण्योर्निर्मन्थ्यो वा ॥ ५ ॥


दैव्यस्तन्तुश्छेदि मा मनुष्यः । नमो दिवे । नमः पृथिव्यै स्वाहा ॥ इति सप्तहोता ॥ मन्त्राणामेषामेतत्संज्ञकत्वं तैत्तिरीयब्राह्मणे ( तै. ब्रा. २. ३. ११ ) स्पष्टं विवृतं तत एवाऽवगन्तव्यम् ।

३४२बौधायन-धर्मसूत्रम्[ चान्द्रायणकल्पः

**अनु०—**एक बार किसी प्रयोजन से लाये गये लौकिक अग्नि को ही सदा स्थापित रखे अथवा दो अरणियों का मन्थन कर अग्नि उत्पन्न करे ॥ ५ ॥

**टि०—**जब तक चान्द्रायण व्रत करे तब तक अग्नि को बनाये रखे। इसी अग्नि में चान्द्रायण व्रत की समाप्ति पर होम किया जाता है।

लौकिक एवाऽग्निः कर्मान्तरार्थं प्रणीतो यथा न नश्येत् तथा धार्य इत्येवमर्थं सकृद्ग्रहणम्। यावच्चान्द्रायणं नित्यं धारणमित्यर्थः। तदसम्भवेऽरण्योस्समारोपणम्। चान्द्रायणापवर्गे करिष्यमाणाय होमाय मन्थनं च। यस्य पुनररणी न स्तस्तस्याऽपि यस्मात्कस्माच्चित् काष्ठद्वयात् निर्मन्थ्योऽग्निः ॥ ५ ॥

ब्रह्मचारी सुहृत्प्रैषायोपकल्पी स्यात् ॥ ६ ॥

**अनु०—**शुद्ध हृदय वाला ब्रह्मचारी उसकी सहायता के लिए तथा उसके आदेश का पालन करने के लिए उसके समीप रहे ॥ ६ ॥

ब्रह्मचारी अनृतौ। सुहृत् शोभनं हृदयं यस्य स तथोक्तः। असहायेन न हि शक्यते एतावन्महत्कर्म कर्तुमित्यात्मनः प्रैषकरणायोऽन्यमुपकल्पयते इत्युपकल्पी। उक्तं च—
'अपि यत्सुकरं कर्म तदप्येकेन दुष्करम्। विशेषतोऽसहायेन' इति। योऽसावन्यः प्रेषितार्थकरणायोपकल्पितः असावृृत्विग्धर्मेति केचिदाहुः। अन्ये लौकिकार्थधर्माऽसग्विति। तत्पुनर्युक्तायुक्ततया विचारणीयम् ॥ ६ ॥

हविष्यं च व्रतोपायनम् ॥ ७ ॥

**अनु०—**व्रत के आचरण की अवधि में यज्ञ की हवि ही व्रत करने वाले का मुख्य भक्ष्य होता है ॥ ७ ॥

हविष्यमक्षारलवणं व्रतोपायनं प्रधानद्रव्यम्। यथाऽन्नादिद्रव्यम्, नोपदंशादि ॥ ७ ॥

अग्निमुपसमाधाय सम्परिस्तीर्याऽऽग्निमुखात्कृत्वा पक्काज्जुहोति ॥८॥

**अनु०—**अग्नि पर समिध् रखकर उसे प्रज्वलित कर, उसके चारो ओर कुश फैलाकर अग्निमुख तक की क्रियाएं कर, पकाए गए अन्न में से लेकर हवन करे ।८।

अवदानधर्मेणाऽदायेति शेषः ॥ ८ ॥
अग्नये या तिथिस्यान्नक्षत्राय सदैवताय"अत्राह गोरमन्वते'"ति


१. अत्राह गोरमन्वत नाम त्वंष्टुरपीच्यम् । इत्या चन्द्रमसो गृहे ॥

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४३

अष्टमः खण्डः ] तृतीयप्रश्ने अष्टमोऽध्यायः ३४३

चान्द्रमसीं पञ्चमीं द्यावापृथिवीभ्यां षष्ठीमहोरात्राभ्यां सप्तमीं रौद्रोमष्टमीं सौरीं नवमीं वारुणीं दशमीमैन्द्रीमेकादशीं वैश्वदेवीं द्वादशीमिति ॥ ६॥

अनु०—पहली आ ति अग्नि के लिए, दूसरी आहुति जो तिथि हो उसके लिए, तीसरी और चौथी आहुतियाँ नक्षत्र और नक्षत्र के देवता के लिए 'अत्राह गोरमन्वत नाम स्वष्टुरपीच्यम् । इत्या चन्द्रमसो गृहे' मंत्र से पाँचवी आहुति चन्द्रमा के लिए, छठीं आहुति आकाश और पृथ्वी के लिए, सातवीं आहुति दिन और रात्रि के लिए, आठवीं रुद्र के लिए, नवीं सूर्य के लिए, दसवीं वरुण के लिए, ग्यारहवीं इन्द्र के लिए तथा बारहवीं आहुति विश्वेदेवाः के लिए अर्पित करे ॥ ६ ॥

एते द्वादशहोमा एतस्मादेव चरोरवदाय कर्तव्याः । तत्र 'अग्नये स्वाहा' इति प्रथमाऽऽहुतिः । या तिथिस्स्यात् या तदानीं वर्तमाना तिथिस्स्यात् तस्यै द्वितीया । प्रतिपच्चेद्द्वर्तते 'प्रतिपदे स्वाहा' इति, द्वितीया चेत् द्वितीयास्यै, तृतीया चेत्तृतीयास्यै, इत्यादि । तस्यै द्वितीयेति सूत्रयितव्ये या तिथिरिति वचनं यतिशिशुचान्द्रायणे यथाकथंचिदित्येतस्मिंश्चैतद्विधानमस्तीति दर्शयति । नक्षत्रााय तृतीया । यच्च नक्षत्रं कृत्तिकादि वर्तते तस्यैव तृतीयाऽऽहुतिः—कृत्तिकाभ्यस्स्वाहा रोहिण्यै स्वाहेति । सदैवताय यस्य नक्षत्रस्य या देवता स्यादिन्द्रादिका तस्यै चतुर्थ्याहुतिः—अग्नये स्वाहा, प्रजापतये स्वाहा, सोमाय स्वाहेत्यादि । चान्द्रमसीति 'सास्य देवते'ति तद्धितः । एवं रौद्रीमित्यादिषु द्रष्टव्यम् । षष्ठीप्रभृतिष्वपि तद्देवत्याभिः ऋग्भिर्होम इति केचित् । अपरे विधिशब्दैरेव मन्त्रभूतैरिति । वयं तु ब्रूमः—षष्ठीसप्तम्यावाहुती चतुर्थीचोदिते सत्यौ विधिशब्दमन्त्रके । अष्टम्याद्यास्तद्धितोदिताः ऋङ् मन्त्रका इति । एवं च सति सूत्रवैचित्र्यं साभिप्रायमुपपादितं भवति ॥ ९ ॥

किमेतावतय एवाऽन्नाहुतयः ? नेत्याह—

अथाऽपरास्समामनन्ति— दिग्भ्यश्च सदैवताभ्यः उरोरन्तरिक्षाय सदैवताय '"नवो नवो भवति जायमान" इति ॥ १० ॥

अनु०—इनके अतिरिक्त दूसरी आहुतियों का भी उल्लेख किया जाता है जो ( चार ) दिशाओं के लिए, उनके देवताओं के लिए, अन्तरिक्ष के मध्य भाग के लिए और उसके देवता के लिए ।

'नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे । भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तिरति दीर्घमायुः ।' ( तैत्तिरीयसंहिता २.४.१४.१ ) मन्त्र से ॥ १० ॥


१. नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे । भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तिरति दीर्घमायुः । तै. सं. २. ४. १४. १.

३४४बौधायनधर्मसूत्रम्[ चान्द्रायणकल्पः

एता एकादश । दिग्भ्यः चतसृभ्यः । 'प्राच्यै दिशे स्वाहा, दक्षिणायै दिशे' इत्यादि मन्त्रकल्पना । कुत एतत् चतसृभ्य एव दिग्भ्य इति ? नन्वष्टदिक्पाला इति प्रसिद्धिरस्ति, तथा क्वचिद्दश दिश इति । सत्यम्— तथापि 'दिग्भ्यः स्वाहाऽवान्तरदिशाभ्यस्स्वाहा' इति व्यपदेशभेदाच्चतस्र एव दिग्ग्रहणेन गृह्यन्ते । देवताभ्योऽपि तावतीभ्यः 'इन्द्राय स्वाहा, यमाय' इत्यादि । अथ वा 'प्राची दिगग्निर्देवता' इत्यादि दर्शनात्^१ 'अग्नये, इन्द्राय' इत्यादि द्रष्टव्यम्। उरोरिति चतुर्थ्यन्तस्य ग्रहणम्, अन्तरिक्षविशेषणत्वात् । ततश्च 'उरवेऽन्तरिक्षाय स्वाहा' इति मन्त्रः । अन्तरिक्षदेवता तु वायुः 'वायुरन्तरिक्षस्याऽधिपतिः' इति दर्शनात् । आत्मत्यन्ते । उत्तमः प्रसिद्धः ॥ १० ॥

सौविष्टकृतीं हुत्वाऽथैतद्धविरुच्छिष्टं कंसे वा चमसे वा व्युद्धृत्य हविष्यैर्व्यञ्जनैरुपसिच्य पञ्चदश पिण्डान् प्रकृतिस्थान् प्राश्नाति ॥ ११ ॥

अनु०— स्विष्टकृत् अग्नि के लिए हवन कर अवशिष्ट हविष्य को कंस या चमस में निकालकर साधारण मात्रा के पन्द्रह ग्रास भक्षण करे ॥ ११ ॥

हविरुच्छिष्टं हुतशेषं हविष्याणि व्यञ्जनानि क्षीरादीनि, शाकफलादीनि च क्षारलवणरहितानि । अत्र व्यञ्जनशब्दप्रयोगात् 'हविष्यं च व्रतोपायनम्' इत्यत्र प्रधानद्रव्यमेव गृह्यते । तथैव च व्याख्यातमस्माभिः । आस्यविकाराकारिणः पञ्चदशग्रासा अपि । एतदपि लिङ्गं पर्वणि होमस्य तत्र पञ्चदश ग्रासास्समन्त्रकाः । तूष्णीका इतरे । तत्रैते मन्त्रा नित्यानां विकारकाः ॥ ११ ॥

प्राणाय त्वेति प्रथमम् । अपानाय त्वेति द्वितीयम् । व्यानाय त्वेति तृतीयम् । उदानाय त्वेति चतुर्थम् । समानाय त्वेति पञ्चमम् ॥ १२ ॥

अनु०— 'प्राणाय त्वा' कहकर पहले पिण्ड का भक्षण करे, 'अपानाय त्वा' कहकर दूसरे का 'व्यानाय त्वा' कहकर तीसरे का, 'उदानाय त्वा' कहकर चौथे का तथा 'समानाय त्वा' कहकर पाँचवे पिण्ड का भक्षण करे ॥ १२ ॥

प्राश्नातीति सम्बन्धः । एवमेकैकस्य ग्रासस्यैकैको मन्त्रः संख्याने भवति ॥ १२ ॥

अथ यदा पञ्चभ्यो न्यूना ग्रासाः तदाऽऽह—

यदा चत्वारो द्वाभ्यां पूर्वम् ॥ १३ ॥


१. अस्मिन् पक्षे अग्निः, इन्द्रः विश्वेदेवाः, मित्रावरुणौ इति चतस्रो देवताः द्रष्टव्याः ।