भारतकोश
संग्रह पर लौटें

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

१८ शुल्बसूत्रम् [ प्रथमो- क्षेत्रं तस्य तिर्यङ्मान्या च सर्वतो मित्वा यत् क्षेत्रं तदुभयं दीर्घचतुर- श्रस्याक्ष्णयारज्जुः ( क्षिप्त्वा तदुभयं ? ) करोतीत्यर्थः ॥ ३७ ॥ दीर्घचतुरश्र इति । दीर्घचतुरस्रपार्श्वमान्या समचतुरस्रे कृते यत् क्षेत्रं संपद्यते, यच्च तिर्यङ्मान्या, तदुभयमक्ष्णयारज्ज्वा समचतुरस्रे कृते संपद्यते । त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुरित्युदाहरणम् । तासां त्रिकरणेऽप्ययमेव प्रकारः । समचतुरस्रविषयः पूर्वसूत्रोक्तः ॥ ३७ ॥ तासां त्रिकचतुष्कयोर्द्वादशिकपञ्चिकयोः पञ्चदशिकाष्टकयोः सप्तिक चतुर्विंशिकयोर्द्वादशिकपञ्चत्रिंशिकयोः पञ्चदशिकषट्- त्रिंशिकयोरित्येतासूपलब्धिः ॥ ३८ ॥ तत्रोदाहरणमाह—तासामिति । त्र्यरत्न्यादिप्रमाणया तिर्यङ्मान्या चतुररत्न्यादिप्रमाणया पार्श्वमान्या यद्दीर्घचतुरश्रं क्रियते तस्याक्ष्णया- रज्ज्वा सर्वतोमान्या मितं क्षेत्रं प्रत्येकं तिर्यङ्मान्या पार्श्वमान्या च सर्वतोमान्या यत् द्विविधं क्षेत्रं, तदुभयात्मकं क्षेत्रं भवति । तथा हि अनया तिर्यङ्मान्या कृतं नवप्रमाणं क्षेत्रं भवति, पार्श्वमान्या च षोडशप्रमाणम् । उभयं मिलितं पञ्चविंशतिप्रमाणं क्षेत्रम्, अक्ष्णया- रज्जुरपि तत्प्रमाणा भवति, तथा च सर्वतोमानेन पञ्चविंशतिप्रमाणं क्षेत्रम् । तथा च त्रिक-चतुष्कयोः प्रमाणयोस्तिर्यङ्मान-पार्श्वमान्योः सत्योरित्यर्थः । एवं द्वादशिक-पञ्चिकयोरित्यादावपि । तासामक्ष्णया- रज्जूनामुभयविधक्षेत्रकरणीनामुपलब्धिः अवगतिर्भवतीति । कुत्रेत्याकांक्षा- याम् उक्तं त्रिकचतुष्कयोरित्यादि । त्रिक-चतुष्कस्थलेऽक्ष्णयारज्जुः पञ्चिका भवति । द्वादशिक-पञ्चिकयोरुभयविधं क्षेत्रम् एकोनसप्तत्यधिक- शत (१६९) प्रमाणकं क्षेत्रं, तस्याक्ष्णयारज्जुस्त्रयोदशिका त्रयोदशप्रमाणा भवति । सा च सर्वतः क्षिप्त्वा एकोनसप्तत्यधिकशत (१६९) प्रमाणकं क्षेत्रमेव करोति । एवं तृतीयोदाहरणे पञ्चदशिका पार्श्वमानी, अष्टिका तिर्यङ्मानी, ताभ्यां च प्रत्येकम् एकोननवत्यधिकद्विशत ( २८९ ) प्रमाणं क्षेत्रं, तत्राक्ष्णयारज्जुः सप्तदशिका भवति । एवं चतुर्थोदाहरणे सप्तिका तिर्यङ्मानी चतुर्विंशिका पार्श्वमानी, तदुभयक्षेत्रं पञ्चविंशत्यधिकषट्-

शतानि (६२५) । तत्राक्ष्णयारज्जुः पञ्चविंशतिका तत्क्षेत्रं करोति । एवं पञ्चमोदाहरणे द्वादशिका तिर्यङ्मानी पञ्चत्रिंशिका पार्श्वमानी । तदुभयं क्षेत्रं सहस्रं त्रीणि शतानि एकोनसप्तति(१३६६)श्च भवति । तत्राक्ष्णयारज्जुः सप्तत्रिंशिका । एवं षष्ठोदाहरणे पञ्चदशिका तिर्यङ्मानी षट्त्रिंशिका पार्श्वमानी तदुभयं क्षेत्रं सहस्रं पञ्चशतानि एकविंशतिः (१५२१) । तत्राक्ष्णयारज्जुःएको- नचत्वारिंशतिका तत्क्षेत्रं करोतीत्याद्युदाहरणैः स्पष्टीकृतमाचार्यैः ॥ ३८ ॥ तासामिति । प्रमाणं तिर्यग् ( बौ० शु० सू० १।३५ ) इत्येवमादिना अवगता- नामक्ष्णयारज्जूनां त्रिकचतुष्कयोरित्यादिषु दीर्घचतुरस्रकरणीषूपलब्धिः अवगतिः । त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुः । पञ्चदशिकषट्त्रिंशिकयोरेकोनचत्वारिंशिका- क्ष्णयारज्जुरित्यादि । एवं तासां द्वयोर्ज्ञातयोस्तृतीया ज्ञातुं शक्यते । यथा पार्श्वमानीतिर्यङ्मान्यो- र्ज्ञातयोः पृथग् वर्गयित्वा संयोज्य वर्गमूलं अक्ष्णयारज्जुः । तथा पार्श्वमान्यक्ष्ण- यारज्ज्वोर्ज्ञातयोरक्ष्णयारज्जुवर्गात् पार्श्वमानीवर्गं विशोध्य शिष्टस्य मूलं तिर्यङ्मानी । एवं तिर्यङ्मानीवर्गं विशोध्य पार्श्वमानी । एवं सर्वत्र द्रष्टव्यम् ॥ ३८ ॥ [ इत्यन्यासाविष्टकरणीनामानयनम् । ] नाना चतुरश्रे समस्यन् कनीयसः करण्या वर्षीयसो वृध्रमुल्लिखेद् वृध्रस्याक्ष्णयारज्जुः समस्तयोः पार्श्वमानी- भवति ॥ ३९ ॥ नानाप्रमाणकचतुरश्रयोः संयोजनप्रकारमाह—नानाचतुरश्र इति । नानाप्रमाणके चतुरश्रके द्वे समस्यन् संयोजयन् कनीयस अन- योर्मध्ये अल्पप्रमाणकस्य चतुरश्रस्य करण्या रज्ज्वा वर्षीयस अधिक- प्रमाणस्य चतुरश्रस्य तदवधिकमंशमुल्लिखेत् । अल्पप्रमाणकरणीं तिर्यङ्- मानीं कृत्वा वर्षीयसः करणीं पार्श्वमानीं कृत्वा दीर्घचतुरस्रमुल्लिखे- दित्यर्थः । वृध्रस्य एवं कृतस्य दीर्घचतुरश्रस्याक्ष्णयारज्जुः समस्तयोर्भवति, सर्वंतो मानं भवति, तया सर्वंतो मित्वा समचतुरश्रे कृते तयोरुभयोः क्षेत्रं संपद्यत इत्यर्थः ॥ ३९ ॥ नानेति । नानाकारे समचतुरस्रे समस्यन् ह्रसीयसः करणीं तिर्यङ्‌मानीं कृत्वा वर्षीयसः संबन्धिनं सकलमुल्लिखेत् । वर्षीयसः करण्येव पार्श्वमानी । एवं कृतस्य

२० शुल्बसूत्रम् [ प्रथमो- दीर्घचतुरस्रस्याक्षणयारज्जुः समस्तयोः करणी भवति। तदुक्तम् “दीर्घचतुरस्रस्या- क्षणयारज्जुः” (१।३७) इत्यादिना। अत्र लघूपायः। बृहच्चतुरस्रकरणीं अल्पचतुर- स्रकरणीञ्च पृथग् वर्गयित्वा संयोज्य तस्य मूलमानीय तत्प्रमाणया रज्ज्वा सम- चतुरस्रे कृते उभे चतुरस्रक्षेत्रे समस्ते भवतः ॥ ३९ ॥ ( इति समचतुरश्रयोः समसनप्रकारः । ) चतुरश्राच्चतुरश्रं निर्जिहीर्षन् यावन्निर्जिहीर्षेत्तस्य करण्या वर्षीयासो वृध्रमुल्लिखेत्। वृध्रस्य पार्श्वमानीमक्षणयेतरत्पा- र्श्वमुपसंहरेत्। सा यत्र निपतेत् तदपच्छिन्द्यात् छिन्नया- निरस्तम् ॥ ४० ॥ महाचतुरश्रादल्पचतुरश्रस्यापोद्धारप्रकारमाह—चतुरश्रादिति । चतुरश्रात् पुरुषचतुष्टयमितक्षेत्रादिकात् चतुरश्रं एकपुरुषप्रमाणादिकं निर्जिहीर्षन् अपोद्धरन् यावन्निर्जिहीर्षेत् तस्य करण्या अपजिहीर्षितस्य चतुरश्रस्य करण्या पार्श्वमान्या वर्षीयसमधिकस्य वृद्धमुल्लिखेत् । वृद्धस्य महाचतुरश्रस्य करणीं पार्श्वमानीं कृत्वा अपजिहीर्षितस्य चतुरश्रस्य करणीं तिर्यङ्मानीं कृत्वा, वृद्धस्य पार्श्वमानीकृतस्य दीर्घचतुर- श्रस्य दक्षिणाप्राचीकोणादारभ्य पश्चिमोत्तरकोणं प्रति अक्षणया कर्षेत् । सा एवं कृत्वा प्रकृतायाः पार्श्वमान्याः यत्र प्रदेशे निपतेत् समाप्ता भवति, तदपच्छिन्द्यात् करणीमिति शेषः । छिन्नयेति । छिन्नया करण्या समचतुरश्रे कृते अपजिहीर्षितं चतुरश्रं निरस्तम् । पुरुषप्रमाणे चतुरश्रे निरस्ते अवशिष्टं क्षेत्रं त्रिपुरुषप्रमाणकमवतिष्ठत इत्यर्थः ॥ ४० ॥ चतुरस्रादिति । निर्हारो निरसनम् । यथा त्रिविधाग्नौ क्रियमाणे द्विपुरुषेण चतुरस्रे कृते चतुःपुरुषो भवति । तत्र एकत्यागार्थं पुरुषमात्र्या तिर्यङ्मान्या वृध्रमुल्लिख्य इतरस्योत्तरां पार्श्वमानीं दक्षिणाप्राचीमितरत्पार्श्वं गमयेत् । सा च तत्र द्विपुरुषप्रमाणायां चत्वारिंशच्छतद्वयाङ्गुलायां पञ्चतिलोने अष्टशतद्वयाङ्गुले निपतति । ततः पुरस्ताद् द्वात्रिंशदङ्गुलं पञ्च तिलांश्च अपच्छिन्द्यात् । परिशिष्ट्या करण्या चतुरस्रे कृते पुरुषो निरस्तो भवति ॥ ४० ॥ [ इति महाचतुरश्रादल्पचतुरश्रापोद्धारप्रकारः । ]

ऽध्यायः ] बौधायनीयं २१ समचतुरश्रं दीर्घचतुरश्रं चिकीर्षंस्तदक्ष्णयापच्छिद्य भागं द्वेधा विभज्य पार्श्वयोरुपदध्याद् यथायोगम् ॥ ४१ ॥ समचतुरश्रमिति । तत्समचतुरश्रमक्ष्णयापच्छिद्य द्वेधा कृत्वा भागं द्वेधा विभज्य, अक्ष्णयापच्छिन्नम् एकं भागं द्वेधा कृत्वा पार्श्वयोरुपसंदध्यात् यथायोगमित्यर्थः । प्राक् समभूतं दीर्घचतुरश्रं चिकीर्षन् समचतुरश्रं महा- दिक्षु यथा स्रक्तयो भवन्ति तथा कृत्वा तदक्ष्णया द्वेधा कृत्वा पुनस्तयोरेकं भागं द्वेधा कृत्वा पार्श्वयोर्यथायोगं प्राक् प्रत्यक् दीर्घचतुरश्रं यथा संपद्यते तथोपदध्यात् योजयेत् ॥ ४१ ॥ समचतुरस्रमिति । महादिक्षु यथा स्रक्तयो भवन्ति तथा समचतुरस्रं कृत्वा चतुरश्रं पूर्वापरमपच्छिद्य दक्षिणभागार्धं द्वेधा विभज्य अक्ष्णया दक्षिणोत्तरम- पच्छिद्य एकं चतुर्थांशं उत्तरापरकोणेऽन्तर्दीर्घपार्श्वं उत्तराप्रत्यग्रं उपदध्यात् । अपरं चतुरस्रार्धभागं उत्तरपूर्वकोणेऽन्तर्दीर्घपार्श्वं उत्तरपूर्वाग्रं उपदध्यात् । पार्श्वयोः पूर्वपश्चिमयोरुपसंदध्यात् । अन्यश्च प्रकारः । यावदिच्छं पार्श्वमान्या प्राच्यौ वर्धयित्वा उत्तरपूर्वा कर्णरज्जुमायच्छेत् । सा दीर्घचतुरस्रमध्यस्थायां समचतुरस्रतिर्यङ्मान्यां यत्र निपतति तत उत्तरं हित्वा दक्षिणांशं तिर्यङ्कानीं कुर्यात् । तद्दीर्घचतुरस्रं भवति । दीर्घस्य दीर्घकरणेऽप्ययमेव प्रकारः । समचतुरस्रविषयः पूर्वसूत्रोक्तः ॥ ४१ ॥ [ इति स . चतुरश्रस्य दीर्घचतुरश्रकरणोपायः । ] अपि चैतस्मिंश्चतुरस्रं समस्य तस्य करण्यापच्छिद्य यदति- शिष्यते तदितरत्रोपदध्यात् ॥ ४२ ॥ समचतुरश्रस्य दीर्घचतुरश्रीकरणे प्रकारान्तरमाह-अपि चैतस्मि- न्निति । एतस्मिन् दीर्घचतुरश्रस्य करण्या तिर्यङ्मान्या तत्समचतुरश्रं करिष्यमाणदीर्घचतुरश्रं समस्य संयोज्य । तत्संयोजनप्रकारमाह- तस्य करण्येत्यादिना । तस्य करिष्यमाणस्य दीर्घचतुरश्रस्य करण्या तिर्यङ्मान्या तत्समचतुरश्रमपच्छिद्य, पार्श्वमान्या अपच्छेदे अतिशेषासंभवात् करण्या तिर्यङ्मान्येव विवक्षितेति गम्यते । यद- तिशिष्यत इति । तिर्यङ्कानीतः अधिकं भवति तदितरत्र पुरस्तात्प- श्चाच्चोपसंदध्यात् । यावत्संयोजयितुं शक्यते तावत्संयोज्यावशिष्टं

२२ शुल्बसूत्रम् [ प्रथमो- चेदस्ति तदपि तत्रैव “नानाचतुरश्रे समस्यन्निति” न्यायेन योजयेत् ॥ ४२ ॥ अपिचेति । दीर्घचतुरस्रं कृत्वा यदतिशिष्यते अनन्तर्भूतं भवति यत् क्षेत्रं तदितरत्र दीर्घचतुरस्रस्य पूर्वपार्श्वे पश्चिमपार्श्वे चोपद्दध्यात् ॥ ४२ ॥ [ इति समचतुरश्रस्य दीर्घचतुरश्रकरणे प्रकारान्तरम् । ] दीर्घचतुरश्रं समचतुरश्रं चिकीर्षंस्तिर्यङ्मानीं करणीं कृत्वा शेषं द्वेधा विभज्य पार्श्वयोर्विपर्यस्येतरत्रोपद्दध्यात् । खण्डमावा- पेन तत्संपूरयेत् । तस्य निर्हार उक्तः ॥ ४३ ॥ दीर्घचतुरश्रमिति । दीर्घचतुरश्रस्य तिर्यङ्मानीं करणीं कृत्वा दीर्घचतुरश्रान्न्यूनं ह्रस्वचतुरश्रं कृत्वा यदतिशिष्यते तं द्वेधा विभज्य विपर्यस्य पार्श्वयोरुपसंदध्यात् । दीर्घचतुरस्रस्य तिर्यङ्मान्यापच्छ

ऽध्यायः ] बौधायनीयं २३ चतुरश्रमेकत इति । पुरस्ताद्ध्रस्वतिर्यङ्मानीकं, पश्चात्ततोऽधिक- तिर्यङ्मानीकमित्यर्थः । अभिमतह्रस्वप्रमाणतिर्यङ्मानीं कृत्वा शेषमवशिष्ट- मक्ष्णया द्वेधा विभज्य विपर्यस्य व्यत्यासं कृत्वा दक्षिणोत्तरयोः पार्श्व- योरेकैकं भागमुपदध्यात् । अयमर्थः—समचतुरश्रशेषमुदग्भागस्थं दीर्घचतुरश्रं प्रागूदक्षिणकोणादारभ्याक्ष्णया विभजेत् । तत्र विभक्त- योर्भागयोर्मध्ये दक्षिणं भागं तथैव स्थापयेत् । उत्तरभागमुद्धृत्य विपर्यस्य दीर्घचतुरश्रस्य दक्षिणभागे पूर्वभागे सूक्ष्मं पश्चाद्भागे विस्तीर्णं योजयेदिति ॥ ४४ ॥ चतुरस्रमिति । अणिमत्पार्श्वस्य करणीं तिर्यङ्मानीकरणीं कृत्वा प्रमाणपार्श्व- मानीकं अणिमत्पार्श्वतिर्यङ्मानीकं दीर्घचतुरस्रं कृत्वा अवशिष्टं क्षेत्रं अक्ष्णया परिच्छिद्य एकं तत्रैव स्थापयित्वापरमादाय विपर्यस्य पार्श्वान्तर उपदध्यात् ॥ ४४ ॥ [ इति चतुरस्रस्यैकतोऽणिमत्करणोपायः । ] चतुरश्रं प्रउगं चिकीर्षन् यावच्चिकीर्षेत् द्विस्तावतीं भूमिं समचतुरश्रां कृत्वा पूर्वस्याः करण्या मध्ये शङ्कुं निहन्यात् । तस्मिन् पाशौ प्रतिमुच्य दक्षिणोत्तरयोः श्रोण्योर्निपातयेत् । बहिःस्पन्द्यमपच्छिन्द्यात् ॥ ४५ ॥ चतुरश्रस्य प्रउगकरणमाह—चतुरश्रमिति । अभिमतचतुरश्र- स्याक्ष्णया रज्ज्वा सर्वतो मित्वा तद्द्विगुणां भूमिं समचतुरश्रां कृत्वा तत्प्राग्देशस्थितायाः करण्या मध्ये शङ्कुं निहत्य तस्मिन् शङ्कौ पाशद्वयं प्रतिमुच्य श्रोणीभूतयोः स्रक्त्योर्निपातयेत् । तत्र स्पन्द्ययोरुभयोरपि बहिः क्षेत्रं विसृजेत् । स्पन्द्यान्तःस्थितं क्षेत्रं प्रउगाकारं सम्पद्यत इत्यर्थः ॥ ४५ ॥ चतुरस्रं प्रउगमिति । प्रउगं शकटमुखम् । द्विकरण्या समचतुरस्रं कृत्वा पूर्व- स्यास्तिर्यङ्मान्या मध्ये शङ्कुं निहत्य तस्मिन् पाशौ प्रतिमुच्य चतुरस्रश्रोण्योर्निपात- येत् । स्पन्द्ययोर्बहिर्भूतंमपच्छिन्द्यात् निरस्येत् ॥ ४५ ॥ [ इति चतुरश्रस्य प्रउगकरणोपायः । ] चतुरश्रमुभयतःप्रउगं चिकीर्षन् यावच्चिकीर्षेद् द्विस्तावतीं भूमिं दीर्घचतुरश्रां कृत्वा पूर्वस्याः करण्या मध्ये शङ्कुं निहन्यात् ।

२४ शुल्बसूत्रम् [ प्रथमो- तस्मिन् पाशौ प्रतिमुच्य दक्षिणोत्तरयोर्मध्यदेशयोर्निपातयेत् । बहिः स्पन्द्यमपच्छिन्द्यात् । एतेनापरं प्रउगं व्याख्यातम् ॥ ४६ ॥ चतुरश्रमुभयत इति । अभिमतचतुरश्रक्षेत्रमुभयतःप्रउगाकारं कर्त्तुमिच्छन् अभिमतक्षेत्रं समचतुरश्रं कृत्वा तस्याक्षणया रज्ज्वा तद्द्विगुणां भूमिं समचतुरश्रां सम्पाद्य तां पुनः “समचतुरश्रम्” (सू.१।४१,४२) इति न्यायेन दीर्घचतुरश्रं कृत्वा पूर्वभागस्थितकरण्या मध्ये शङ्कुं निहत्य तत्र पाशद्वयं प्रतिमुच्य दक्षिणोत्तरयोः करण्योर्मध्ये निपातयेत् । स्पन्द्याद्- बहिःक्षेत्रनिरासे एकं प्रउगं संपद्यते । एवं प्रत्यग्भागस्थितकरण्या मध्ये शङ्कुं निहत्य तत्रापि पाशद्वयं प्रतिमुच्य दक्षिणोत्तरश्रोणिमध्ये पातयेत् । बहिःस्पन्द्यमपच्छिन्द्यात् अपरं प्रउगं सम्पन्नम् । तथा च प्रागग्रमेकं प्रत्यगग्रमपरं प्रउगमिति उभयतःप्रउगं सम्पद्यत इत्यर्थः ॥ ४६ ॥ चतुरस्रमुभयत इति । द्विस्तावर्ती प्रमाणतिर्यङ्मानीकां द्विप्रमाणपार्श्वमानीकां दीर्घचतुरस्रां कृत्वा पूर्वस्याः करण्या मध्ये शङ्कुं निहत्य तस्मिन् पाशौ प्रतिमुच्य दक्षिणोत्तरयोः पार्श्वमान्योर्मध्यदेशयोः स्पन्द्यां निपातयेत् । बहिःस्पन्द्यं निरस्येत् । एतेन प्रकारेण अपरं प्रउगं व्याख्यातम् ॥ ४६ ॥ [ इति चतुरस्रस्योभयतःप्रउगकरणोपायः । ] चतुरश्रं मण्डलं चिकीर्षन् अक्ष्णयार्धं मध्यात् प्राचीम- भ्यापातयेत् । यदतिशिष्यते तस्य सहतृतीयेन मण्डलं परिलिखेत् ॥ ४७ ॥ चतुरश्रं मण्डलमिति । चतुरश्रं मण्डलं चिकीर्षन् कर्त्तुमिच्छन् अक्ष्णायाप्रमाणार्धं मध्यात् चतुरश्रस्य मध्यादारभ्य प्राचीं दिशं प्रति आर्जवेन अभ्यापातयेत् निपातयेत् । यदतिशिष्यते चतुरश्रस्य बहिः- प्रदेशे अक्ष्णयार्धप्रमाणं यदतिशिष्यते तस्य अवशिष्टस्य तृतीयेन भागेन सह मण्डलं परिलिखेत् । अयमर्थः—अभिमतचतुरश्राक्ष्णयार्धप्रमाणं रज्जुं चतुरश्रस्य मध्य-

ऽध्यायः ] बौधायनीयं १५ देशादारभ्य चतुरश्रप्राक्तियंङ्मान्या मध्ये निपात्य चतुरश्रस्य बहिः प्रदेशे अवशिष्टां रज्जुं त्रेधा संभज्य पुनरेतादृशं तृतीयांशं तैः सह योजयित्वा तत्प्रमाणया रज्ज्वा मण्डलं कुर्यात् ॥ ४७ ॥ चतुरश्रं मण्डलमिति । चतुरस्रस्य अक्ष्णयार्धं चतुरस्रमध्यादारभ्य कोट्यां निपात्य चिह्नं कृत्वा चतुरस्रस्य पूर्वपार्श्वमध्ये प्राचीं निपात्य चिह्नं कृत्वा चिह्नयो- रन्तरालं त्रेधा विभज्य एकभागसहितेन चतुरस्रार्धेन मण्डलं परिलिखेत् । साऽनित्या मण्डलं करोति ॥ ४७ ॥ [ इति चतुरस्रस्य मण्डलकरणोपायः । ] मण्डलं चतुरश्रं चिकीर्षन् विष्कम्भमष्टौ भागान् कृत्वा भागमेकोनत्रिंशधा विभज्याष्टाविंशतिभागानुद्धरेत् भागस्य च षष्ठमष्टमभागोनम् ॥ ४८ ॥ मण्डलमिति । अभिमतमण्डलं चतुरश्रं करिष्यन् विष्कम्भ- प्रमाणां रज्जुम् अष्टौ भागान् कृत्वा अष्टधा संभज्य भागमे- कोनत्रिंशद्भा विभज्य अष्टसु भागेषु एकं भागम् एकोनत्रिंशद्भा संभज्य अष्टाविंशतिभागानुद्धरेत् एकोनत्रिंशद्भा विभक्तेषु भागेषु एकं निधाय अवशिष्टान् अष्टाविंशतिभागानुद्धरेत् विसृजेदित्यर्थः । भागस्य च षष्ठमष्टमभागोनं, सप्तानां भागानां मध्ये एकस्य भागस्य षष्ठभागम् अष्टमभागोनम् उद्धरेदित्यनुषङ्गः । अयमर्थः—विष्कम्भमष्टधा संभज्य तेष्वेकं एकोनत्रिंशद्भा विभज्य, तेषु एकं निधाय अष्टाविंशति भागान् विसृजेत् । पुनः सप्तसु भागे- ष्वेकं भागं षडधा विभज्य षट्सु भागेष्वेकं भागं पुनरष्टधा विभज्य, अष्टसु भागमुद्धरेत् । एवं कृतेन प्रमाणेन समचतुरश्रे क्रियमाणे तत्र मण्डलसमं क्षेत्रं भवति ॥ ४८ ॥ मण्डलमिति । भागस्योद्धृतशिष्टस्य षष्ठम् । कीदृशम् ? स्वीयाष्टमभागोनम् । कस्मादुद्धरेत् ? उद्धृताष्टविंशतिभागात् । एतदुक्तं भवति । विष्कम्भमष्टधा कृत्वा एकं भागं द्विनवतिशतत्रयाधिक सहस्रभागान् कृत्वा तेषां एकचत्वारिंशद्भागान् विष्कम्भभागसप्तके संयोज्य एकपञ्चाशच्छतत्रयाधिकसहस्रभागान् कृत्वा तेषामेकं भागं जह्यादित्यर्थः ॥ ४८ ॥

२६ शुल्बसूत्रम् [ प्रथमो- : अपि वा पञ्चदशभागान् कृत्वा द्वावुद्धरेत् । एषाऽनित्या चतुरश्रकरणी ॥ ४९ ॥ पक्षान्तरमाह—अपि वेति । विष्कम्भं पञ्चदशभागान् कृत्वा द्वौ भागौ निरस्येत् । अवशिष्टत्रयोदशभागपरिमाणा एका चतुरश्रकरणी । इयञ्च अनित्या अननुगता क्वचित् प्रमाणं, विरोधादिति द्रष्टव्यम् ॥४९॥ अपिवेति । एषा परिशिष्टत्रयोदशभागप्रमाणा अनित्या स्थूला चतुरस्रकरणी । अनयोरनित्यत्वं ज्ञायते गणितविरोधात् । परस्परविरोधाच्च । तथाहि सप्तविधस्य सारत्निप्रादेशस्याग्नेः क्षेत्रं लक्षमष्टौ च सहस्राण्यङ्गुलयः १०८००० । तस्य चतुरश्रीकृतस्य करणी त्रीणि शतानि अष्टाविंशतिश्चाङ्गुलयोऽर्ध- द्वाविंशाश्च ३२८।२१½ तिलाः । तस्मिन् उक्तेन मार्गेण मण्डलीकृते त्रीणि शतानि चतुःसप्ततिश्चाङ्गुलयो ( ३७४ अं० ) विष्कम्भो भवति । तस्य परिणाहः सहस्रपञ्चसप्ततिशतञ्चाङ्गुलयः ( ११७५ ) । यथाहूः “चतुरधिकं शतमष्टगुणं द्वाषष्टिस्तथा सहस्राणाम् । अयुतद्वयविष्कम्भस्यासन्नो वृत्तपरिणाहः” ॥ (आर्यभटीये) इति । तस्य मण्डलस्य फलं लक्षं नवसहस्राण्यष्टौशतानि षट्त्रिंशाङ्गुलयो १०९८६० दृश्यन्ते । उक्तञ्च “समपरिणाहस्यार्धं विष्कम्भार्धहतमेव वृत्तफलम्” ( आर्यभटीये ) । एवमग्निक्षेत्रे रथचक्रादौ मण्डलीकृते परस्परविरोधः । अर्धद्वाविंशतितिल- सहितस्य अष्टाविंशतिशतत्रयाङ्गुलिकरणीकस्याग्नेर्मण्डलीकृतस्य विष्कम्भः चतुस्सप्त- तिशतत्रयाङ्गुलयुक्तः । तस्यैव मण्डलस्योक्तेन मार्गेण चतुरस्रकरणे त्रीणि शतानि चतुर्विंशतिश्चाङ्गुलयोऽर्धपञ्चमाश्च तिलाः करणी भवति । पूर्वोक्तायाः करण्याः सार्धाश्चतस्रोऽङ्गुलयो हीयन्ते । तस्मात् सूक्ष्ममिच्छता चतुरस्रस्य मण्डलकरणे सूत्रोक्तादतिशयतृतीयसहिताद् विष्कम्भार्धाद् अष्टादशशतांशस्त्याज्यः । एवं कृते रथचक्रचितौ विष्कम्भः षट्तिलोनैकसप्ततिशतत्रयाङ्गुलयो ३७०।२८ भवन्ति । परिणाहश्च पञ्चषष्टिः शतसह- स्राङ्गुलयः ११६५ । अस्य मण्डलस्य “समपरिणाहस्य”, इत्यादिना पूर्वोक्तेनानीतं फलं लक्षमष्टौ च सहस्राणि भवन्ति १०८००० । मण्डलस्यापि चतुरस्रकरणे सूत्रोक्त- विष्कम्भश्च स्यात् । त्रिगुणात् त्रयस्त्रिंशच्छतांशं युज्यात् ॥ ४६ ॥ [ इति मण्डलस्य चतुरश्रकरणोपायः । ] प्रमाणं तृतीयेन वर्द्धयेत् तच्च चतुर्थेनात्मचतुस्त्रिंशोनेन । सविशेषः ॥ ५० ॥

ऽध्यायः ] बौधायनीयं २७

उक्ताया द्विकरण्याः परिज्ञानोपायमाह—प्रमाणमिति । प्रमाणं समचतुरश्रस्य द्वादशाङ्गुलादिकं पार्श्वप्रमाणं तृतीयेन अङ्गुलचतुष्टयेन वर्धयेद्, तच्चाङ्गुलचतुष्टयं चतुर्थेनैकाङ्गुलेन आत्मनश्चतुर्थभागस्य एकाङ्गुलादेः चतुस्त्रिंशो यो भाग एकतिलाद्यात्मकस्तेन न्यूनेन एकति- लोनसप्तदशाङ्गुलादिरूपेण वर्धयेदित्यर्थः । अस्य सविशेष इत्यपि संज्ञेत्याह—सविशेष इति ॥ ५० ॥

द्विकरण्युक्ता । तस्या ज्ञानोपायमाह । प्रमाणमिति । द्वादशाङ्गुलं चतुरङ्गु- लेन वर्धयेत् । तत्तृतीयं स्वीयचतुर्थेन स्वचतुस्त्रिंशांशोनेन तिलोनेनैकाङ्गुलेन वर्धयेत् । एवं तिलोनसप्तदशाङ्गुला भवति । तस्य सविशेष इत्यपि संज्ञा ॥ ५० ॥ [ इति द्विकरणीपरिज्ञानोपायः । ]

अथाग्न्याधेयिके विहारे गार्हपत्यादाहवनीयस्यायतनं विज्ञा- यतेऽष्टासु प्रक्रमेषु ब्राह्मणोऽग्निमादधीतैकादशसु राजन्यो द्वादशसु वैश्य इति ॥ ५१ ॥

चतुरश्रादिकरणमुक्त्वा आग्न्याधेयिकवेदिमाह—अथाग्न्याधेयिक इति । अथ शब्दोऽधिकारार्थः । अग्न्याधेयिके विहारे गाहंपत्यस्य पुरस्ता- दाहवनीयस्यायतनं विज्ञायते श्रुत्या गम्यत इत्यर्थः । सैव श्रुतिः कदा श्रूयते अष्टास्वित्यादिका । गार्हपत्यस्य पुरस्तादष्टासु प्रक्रमेष्वन्तरालभूतेषु ब्राह्मणोऽग्निमादधीतेत्यर्थः । एवमुत्तरयोरपि ॥ ५१ ॥

अथाग्न्याधेयिक इति । अथेत्यधिकारे । गार्हपत्यात् गार्हपत्यस्य पुरस्तात् । अन्तरालमधिकृत्य श्रुतिरवगम्यते । अष्टासु प्रक्रमेष्वन्तरालभूतेष्वित्यर्थः । एवमुत्तर- योरपि कल्पयोः । द्वादशसु प्रक्रमेष्वग्निमादधीतेति सार्ववर्णिकः । चक्षुर्निमित आदधीतेति दण्डादिना माननिषेधः । इयदष्टौ प्रक्रमा इयदेकादश इयद्द्वादशेति चक्षुषा यावन्तं देशं परिच्छिनत्ति तस्यावघेः समीप आधेय इत्यर्थः ॥ ५१ ॥

आयामतृतीयेन त्रीणि चतुरस्राण्यनूचीनानि कारयेत् ॥५२॥ आयामतृतीयेनेति । पूर्वोक्तं गार्हपत्याहवनीयोरन्तरालं तत्तद्वर्ण- व्यवस्थयोक्तं त्रेधा विभज्य तृतीयांशप्रमाणया करण्या सर्वतो मित्वा

चतुरश्रत्रयं पूर्वपश्चिमयत। कुर्यात् । एकं प्रत्यक् ततः पुरस्ताद् द्वितीयम् ततः पुरस्तात् तृतीयमित्येवं समचतुरश्रत्रयं कुर्यात् ॥ ५२ ॥ आयामेति । पूर्वोक्तगार्हपत्याहवनीयमध्ययोरन्तरालायामतृतीयकरणीप्रमाणेन त्रीणि चतुरस्रान्यनूचीनानि प्राञ्चि, पश्चिमस्य पुरस्ताद् द्वितीयं, द्वितीयस्य पुरस्तात् तृतीयमिति कारयेत् ॥ ५२ ॥ अपरस्योत्तरस्यां श्रोण्यां गार्हपत्यः ॥ ५३ ॥ अपरस्येति । तत्र पश्चिमस्य चतुरश्रस्य उत्तरश्रोण्यां गार्हपत्यमध्य- शङ्कुं निहत्य "धिष्ण्यानां द्विप्रादेशो विष्कम्भ" (बौ० शु० सू० १।७६) इति वक्ष्यमाणत्वात्तस्मिन् शङ्कौ पाशं प्रतिमुच्य सार्धचतुस्तिलसार्ध ( सत्र्यंश- द्वाविंशतितिलसहित ? ) त्रयोदशाङ्गुलया रज्ज्वा ( मण्डलं लिखेत् ? ) तद्गार्हपत्यायतनं भवति ॥ ५३ ॥ अपरस्येति । अपरस्य चतुरस्रस्य उत्तरस्यां श्रोण्यां गार्हपत्यमध्यशङ्कुः । “धिष्ण्यानां द्विप्रादेशो विष्कम्भः” ( बौ. शु. सू. १।७६ ) इति वक्ष्यति । तस्मिन् प्रादेशेन मण्डलं परिलिखेत् । पृथिवीसंस्तवान्मण्डलाकृतिर्गार्हपत्यः ॥ ५३ ॥ तस्यैव दक्षिणेंऽसेऽन्वाहार्यपचनः ॥ ५४ ॥ तस्यैवेति । तस्यैव पश्चिमस्य चतुरश्रस्य दक्षिणपूर्वस्यां सक्तौ शङ्कुं निहत्य तस्मादुदग् द्वादशतिलसहितद्वचङ्गुलेऽन्यं शङ्कुं निहत्य तस्मिन् पाशं प्रतिमुच्य तिलद्वयसहितपञ्चदशाङ्गुलया रज्ज्वा मण्डलं परिलिखेत , पञ्चदशाङ्गुलयैव रज्ज्वाऽन्यत् परिमण्डलं करोति, मण्डलसंसर्गयोः शङ्क निहत्य स्पन्द्यां नियम्य उत्तरार्धं त्यजेत् स दक्षिणाग्निः ॥ ५४ ॥ तस्यैवेति । तस्यैव अपरस्य दक्षिणेंऽसे अन्वाहार्यपचनमध्यशङ्कुः । “मण्डलं चतुरस्रं चिकीर्षन्” ( चौ. शु. सू. १।४८ ) इत्यादिना आनीतनवतिलसहितैकविं- शत्यङ्गुलचतुरस्रदिकरण्या चतुस्तिलसहितत्रिंशदङ्गुलया समचतुरस्रं कृत्वा मण्डलं कृत्वा दक्षिणविहारविष्कम्भः चतुर्विंशदङ्गुलयो दश तिलाश्च । दक्षिणविहारमध्य- शङ्कोरन्तरतो विष्कम्भचतुर्भागमात्रे शङ्कं स्थापयित्वा तस्मिन् विष्कम्भार्धं प्रतिमुच्य मण्डलं परिलिख्य मण्डलमध्ये प्राक्प्रतीचीं स्पन्द्यां नियम्यानुस्पन्द्यां लेखामालिख्य उत्तरार्धं त्यजेत् । सोऽन्वाहार्यपचनः । अन्तरिक्षसंस्तवाद्धनुराकृतिः ॥ ५४ ॥

ऽध्यायः ] बौधायनीयं २६ पूर्वस्योत्तरेंऽस आहवनीयः ॥ ५५ ॥ पूर्वस्येति । प्राक्चतुरश्रस्य उत्तरेंऽसे आहवनीयस्य मध्यशङ्कुं निहत्य द्विप्रादेशप्रमाणं समचतुरश्रं कुर्यात्, स आहवनीयः । अग्रेणाहवनीयं पदत्रयं संचरमवशिष्य आहवनीयवच्चतुरश्रः सभ्यस्तस्य पुरस्ताच्च पद- त्रयमवशिष्याऽवसथ्यः, सोऽप्याहवनीयवच्चतुरश्रः ॥ ५५ ॥ पूर्वस्येति । पूर्वस्य उत्तरस्याः श्रोण्या उत्तरेणोत्करः । पूर्वस्य चतुरस्रस्य उत्तरेंऽसे आहवनीयमध्यशङ्कुः । तस्य नवतिलसहितैकविंशत्यङ्गुलं चतुरस्रं कुर्यात् । द्युलोकसंस्तवात् चतुरस्र आहवनीयः । आगारो वा । सभायामेव सभ्यं व्यप- दिशेत् । आवसथ आवसथीयमिति ॥ ५५ ॥ अपिवा गार्हपत्याहवनीययोरन्तरालं पञ्चधा षोढा वा संभृज्य षष्ठं सप्तमं वा भागमागन्तुकमुपसमस्य समं त्रैधं विभज्य पूर्वस्मादन्ताद् द्वयोर्भागयोर्लक्षणं करोति । गार्हपत्या- हवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कुं निहन्ति । तद्दक्षिणाग्नेरायतनं भवति ॥ ५६ ॥ दक्षिणाग्न्यायतनविकल्पमाह—अपिवेति । गार्हपत्याहवनीययोर- न्तरालप्रमाणां रज्जुं पञ्चधा षोढा वा विभज्य तत्रागन्तुमन्यं भागं संयोज्य पञ्चधा विभागपक्षे पञ्चमांशेनान्यं षष्ठं भागं योजयेत् , षोढा संविभागपक्षे षष्ठांशसमानप्रमाणमन्यं सप्तमभागं योजयेत् । भागान्तरसंयुक्तमिदं लक्षणेन दक्षिणत आकृष्य लक्षणे शङ्कुं निहन्ति । स शङ्कुर्दक्षिणाग्नेर्मध्यम् । विपर्यस्योत्करः । आहवनीयसम्बद्धमग्रं गार्हपत्यसंबद्धं कृत्वा गार्हपत्य- सम्बद्धं आहवनीयसमीपे नियम्य लक्षणेन उत्तरतोऽपायम्य शङ्कुं निहन्ति, स उत्करः ॥ ५६ ॥ अपीति । अपि वा पक्षः । “आयामतृतीयेन” ( १५२ ) इत्यादि सर्वं कल्पो- क्तेन विकल्पते । दक्षिणाग्न्यायतनदेशविकल्पार्थमाह—संभृज्य संवेष्ट्य । आगन्तुक- मधिकं प्रक्षिप्य । समं सर्वम् । द्वयोर्भागयोरिति । तयोर्गार्हपत्याहवनीयमध्य- शङ्क्वोः । दक्षिणाग्नेरिति । दक्षिणाग्नेरायतनमध्यं भवति । विपर्यस्योत्करः ॥ ५६ ॥

३० शुल्बसूत्रम् [ प्रथमो- अपिवा प्रमाणं पञ्चमेन वर्द्धयेत् । तत्सर्वं पञ्चधा संभुज्या- परस्मादन्ताद् द्वयोर्भागयोर्लक्षणं करोति । पृष्ठ्यान्तयोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कं निहन्ति । तद्द- क्षिणाग्नेरायतनं भवति ॥ ५७ ॥ दक्षिणाग्न्यायतने पक्षान्तरमाह—अपि वा प्रमाणमिति । आहव- नीयगार्हपत्यमध्यदेशप्रमाणं तदीयपञ्चमांशेन युक्तं कृत्वा तत्सर्वं पञ्चधा विभज्य पश्चिमाग्रादारभ्य भागद्वयेऽतीते लक्षणं कृत्वा, पूर्वापरशङ्क्वॊः पाशौ प्रतिमुच्य पूर्ववल्लक्षणेन दक्षिणापायम्य तत्र शङ्कं निहन्यात्, तद्दक्षिणाग्नेर्मध्यम् ॥ ५७ ॥ अपिवेति । लक्षणे शङ्कं निहन्ति । पूर्वस्मादन्त्याद् भागत्रयेऽतीते ॥५७॥ [ इति गार्हपत्यदक्षिणाहवनीयाग्नीनां स्थानानयनप्रकारः । ] विपर्यस्यैतेनोत्करो व्याख्यातः ॥ ५८ ॥ विपर्यस्येति । पूर्ववदग्रविपर्य्यसिन उत्तरतोऽपायम्योत्करः कर्त्तव्यः । विपर्यस्येत्येतत् अपि वेति पक्षद्वयस्यापि शेष इति द्रष्टव्यम् ॥ ५८ ॥ विपर्यस्येति । पूर्वोत्तरकल्पयोः साधारणमिदम् । “दक्षिणतो विषुवत्यन्वा- हार्यपचनस्ये”ति (बौ. श्रौ. सू. २४।२ पृ. ५४८ ) कल्पोक्तोऽप्यनुसन्धेयः । तथा सति उत्तरतो मध्य उत्करः ॥ ५८ ॥ [ इत्युत्करस्थानानयनम् । ] अपरेणाहवनीयं यजमानमात्री भवतीति दार्शपौर्णमासि- काया वेदेर्विज्ञायते । तस्यास्त्रिभागोनं पश्चात्तिरश्ची । तस्या एवार्धं पुरस्तात् तिरश्ची । एवं दीर्घचतुरस्रमेकतोऽणिमद् विहृत्य स्त्रक्तिषु शङ्कून् निहन्यात् । यावती पार्श्वमानी द्विरभ्यस्ता तावतीं रज्जुमुभयतः पाशां कृत्वा मध्ये लक्षणं करोति । दक्षिणयोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कं निहन्यात् । तस्मिन् पाशौ प्रतिमुच्य लक्षणेन दक्षिणं पार्श्वं परिलिखेत् । एतेनोत्तरं पार्श्वं व्याख्यातम् । पूर्वं पार्श्वं तया द्विर- भ्यस्तया परिलिखेत् । एवमपरम् ॥ ५९ ॥

ऽध्यायः ] बौधायनीयं ३१ अपरेणेति । भवतीत्यनया श्रुत्या दर्शपूर्णमाससम्बन्धिन्या वेदेर्विज्ञा- यते प्रमाणमिति शेषः । यजमानमात्रोति । षण्णवत्यङ्गुलप्रमाणेत्यर्थः । तस्या मानमाह—तस्या इति । तस्याः षण्णवत्यङ्गुलायास्तृतीयेन भागेन ऊनं चतुःषष्ट्यङ्गुलानि प्रत्यक्प्रदेशतिर्यङ्मानी कार्या । तस्या एवार्धम् अष्टचत्वारिंशदङ्गुलानि पुरस्तात्तिर्यङ्मानी कार्या । एवं प्रकारेण पूर्वभागे अणु पश्चाद्भागे विशालं प्राक्पश्चिमदीर्घम् एकतोऽणिमद्दीर्घचतुरश्रं कृत्वा तस्य चतसृषु स्रक्तिषु शङ्कुचतुष्टयं निहन्यात् । तस्याः संमानमाह— यावतीति । दक्षिणयोरिति । दक्षिणयोः दक्षिणस्रक्तिद्वयनिखातशङ्‌कोरित्यर्थः त्यर्थः । एतेनेति । “यावती पार्श्वमानी” त्यादिना उत्तरतोऽपायम्य लक्षणे शङ्कुं निहत्य तत्र पाशौ प्रतिमुच्य उत्तरपार्श्वं परिलिखेदित्यर्थः । पूर्वमिति । प्राक्तिर्यङ्मान्या द्विगुणीकृताया मध्ये लक्षणं कृत्वा प्राग- पायम्य लक्षणे शङ्कुं निहत्य तत्र पाशं प्रतिमुच्य लक्षणेन पूर्वं पार्श्वं परिलिखेत् । एवं मिति । प्रत्यक्तिर्यङ्मान्या द्विगुणीकृताया मध्ये लक्षणं कृत्वा प्रत्यगपायम्य लक्षणे शङ्कुं निहत्य तत्र पाशौ प्रतिमुच्य लक्षणेन पश्चिमं पार्श्वं परिलिखेदित्यर्थः । अत्र कर्मान्ते । अथेयं दार्शपौर्णमासिकी वेदी यजमानमात्री भवत्य- परिमिता वा यथासन्नानि हविंषि सम्भवेदेवं तिरश्चीप्राञ्चौ वेद्यंसावुन्न- यत्याहवनीयस्य परिगृहीत्यै प्रतीची श्रोणी निरूहति गार्हपत्यस्य परि- गृहीत्यै पुरस्तादंहीयसी पश्चात् प्रथीयसी मध्ये संनततरा भवतीति पक्षान्तरमुक्तम्, तदप्यत्रानुसन्धेयम् । अपरिमिता षण्णवत्यङ्गुलाधिका । विकृति ( प्रकृतिषु ? ) आस- न्नानि हवींषि यथा संगृह्लीयात्, प्राञ्चौ वेद्यंसावुन्नयति आहवनीयस्य परिगृही षाय ( त्यै ? ) । प्रतीची श्रोणी गार्हपत्यपरिग्रहाय । पुरस्ता- च्छ्रोणीप्रमाणात् संकुचिता, पश्चादंसप्रमाणाद् विस्तृता, मध्ये अतिकृशा । दक्षिणोत्तरायतं गार्हपत्यागारम् । पूर्वापरायतमाहवनीयागारम् । आह- वनीयागारस्य पुरस्तात् त्रिप्रक्रममवशिष्य सभ्यागारं, ततः पुरस्तात्

३२शुल्बसूत्रम्[ प्रथमो-

त्रिप्रक्रममवशिष्यावसथ्यागारं, यावति कृष्णमृग उपविशेत् तावदूर्ध्वो विहार इति कर्मान्ते उक्तम् ॥ ५९ ॥ अपरेणेति । यजमानमात्री षण्णवत्यङ्गुला । तस्या मानमाह—तस्या इति । त्रिभागेनं चतुःषष्ट्यङ्गुलािन । तस्या ह्यंत । तस्या एवार्धं अष्टाचत्वारिंशदङ्गुलािन । अष्टषष्टिशते सूत्रे चतुर्विंशे निरञ्छनम् । द्वात्रिंशे चतुःसप्तत्यां संख्येयान्यङ्गुलानि तु ॥ षण्णवत्यङ्गुला पृष्ठ्या प्रथमेनांसयोर्मितिः । श्रोण्योर्द्वितीयेन मानमेवमेकतः ......॥ तस्यानयन माह—एवमिति । तस्मिन्निति । यावती दक्षिणपार्श्वमानी परिलि- खेत् । दक्षिणायाः श्रोणेर्दक्षिणमंसमालिखेत् । एतेनेति । यावती पार्श्वमानीत्या- दिना । एवमिति । तिर्यङ्मान्योरपि द्विगुणीकृत्य मध्ये लक्षणं कृत्वा श्रोण्यंसयोश्च अन्तौ नियम्य पश्चात् पुरस्ताच्च अपच्छिन्द्यात् इति द्रष्टव्यम् । "अपरिमिता वा यथा सन्नानि हवींषि संभवेदेवं तिरश्चीप्राञ्चौ वेद्यंसावुन्नयति" प्रतीची श्रोणी पुरस्तादं- हीयसी पश्चात् प्रथीयसि मध्ये सन्नतरा भवति ( बौ. श्रौ. २४।२४ पृ. २०९।२ ) इति कर्मान्ते पक्षान्तरमप्यस्ति । तदप्यनुसन्धेयम् । अपरिमिता षण्णवत्यङ्गुला- दधिका । यथासन्नानि हवींषि संभवेत् प्रकृतिषु संगृह्णीयात् । प्राञ्चौ वेद्यंसावुन्नयति आह्वनीयस्य परिग्रहणाय । प्रतीची श्रोणी गार्हपत्यस्य परिग्रहणाय । पुरस्तात् श्रोणी प्रमाणात् संकुचिता । पश्चात् अंसप्रमाणाद् वितता । मध्येऽतिकृशा । दक्षिणोत्तरायतं गार्हपत्यागारम् । आहवनीयागारं पूर्वापरायतं तत्र वेदिकरणात् । आहवनीयस्य पुरस्तात् त्रिप्रक्रममवशिष्य सभ्यागारम् । एवं आवसथ्यम्य गृहम् । यावति कृष्णमृग उप- विशेत् तावदपरार्धोर्ध्वंगते विहार ( बौ. श्रौ. सू. २४।२३ पृ. २०७।७ ) इति कर्मान्त उक्तम् ॥ ५९ ॥ [ इति दार्शिक्या वेदेर्विहरणोपायः । ] दशपदा पश्चात्तिरश्ची द्वादशपदा प्राच्यष्टापदा पुरस्ता- त्तिरश्चीति पाशुवन्धिकाया वेदेर्विज्ञायते । मानयोगस्तस्या व्याख्यातः ॥ ६० ॥ दशपदेति । विज्ञायत इति । प्रमाणमिति शेषः । मानयोग इति । एकतोऽणिमद्दीर्घचतुरश्रात्मिकायास्तस्या मानप्रकारः प्रमाणादध्यर्धां रज्जुमित्यादिना व्याख्यात इत्यर्थः ॥ ६० ॥ मानयोग इति । अथापरं प्रमाणादध्यर्धाम् ( १।३२ ) इत्यादिना ॥ ६० ॥

ध्यायः ] बौधायनीयं ३३ रथसम्मितैत्येकेषाम् ॥ ६१ ॥ रथसम्मितैत्येकेषामिति । मतमिति शेषः । तत्रायं क्रमः— रथाक्षमात्री पश्चात्तिरश्ची ईषामात्री प्राची युगेन पुरस्तात्तिरश्ची मातव्येति ॥ ६१ ॥ रथेति । मतमिति शेषः । “रथाक्षमात्री पश्चात् तिर्यक् । ईषया प्राची । विपथयुगेन पुरस्तात्” ( बौ. श्रौ. सू. २०।५ पृ. ५६।५७ ) इत्यादि द्रष्टव्यम् । विपथयुगं षडशीत्यङ्गुलम् । चक्षुर्निर्मिता वा ॥ ६१ ॥ विराट् सम्पन्नेत्येकेषाम् ॥ ६२ ॥ विराडिति । मतान्तरं । दशाक्षरा विराडिति व्यवहाराद् विराट् शब्दः दशसंख्यापरः । ततश्च सर्वतो दशपदेत्यर्थः ॥ ६२ ॥ विराडिति । मतम् । दशपदा वा ॥ ६२ ॥ [ इति पाशुबन्धिकवेदिविहरणोपायः । ] शम्यामात्रो चतुःस्रक्तिर्भवतीत्युत्तरवेदेर्विज्ञायते । सम- चतुरश्राविशेषात् ॥ ६३ ॥ शम्यामात्रीति । विज्ञायत इति । प्रमाणमिति शेषः । उत्तरवेदिर्विशेषाश्रवणात् समचतुरश्रेत्याह—समचतुरश्रेति । विशेष- विधिरहितस्थले सर्वत्रायं विधिर्द्रष्टव्यः ॥ ६३ ॥ शम्यामात्रीति । अन्ततो हि देवानामाधीयत इति श्रुतेः । पूर्वान्ते यूपावटस्यार्ध- प्रक्रममवशिष्योत्तरवेदिः । षट्त्रिंशदङ्गुला शम्या । उत्तरयुगप्रमाणेनोत्तरनाभित्रयो- दशाङ्गुलेन । समचतुरश्रेति । सार्वत्रिकोऽयं विधिः । यत्र विशेषविधिर्नास्ति तत्र सर्वत्र समचतुरस्रकरणम् ॥ ६३ ॥ [ इत्युत्तरवेदिविहरणोपायः । ] वितृतीया वेदिर्भवतीति पैतृक्या वेदेर्विज्ञायते । महावेदे- स्तृतीयेन समचतुरस्रकृतायास्तृतीयकरणी भवतोति । नवमस्तु- भूमेर्भागो भवति ॥ ६४ ॥ वितृतीयेति । सौमिकी महावेदिर्वितृतीया त्रिधा विभक्तस्य स्वक्षेत्रस्य ५

३४ शुल्बसूत्रम् [ प्रथमो- एकभागतृतीयांशरूपा महापितृयज्ञवेदिप्रमाणमित्यर्थः । तस्या मानो- पायमाह—महावेदेरिति । अष्टाविंशत्यूनसहस्रपदक्षेत्राया महावेदेः सम- चतुरश्रीकृतायाः करण्याः षड्विंशतितिलाधिकद्व्यङ्गुलोत्तरमेकत्रिंशत्पद ( पद ३१।२।२६ ति० ) प्रमाणायास्तृतीयेन भागेन समचतुरश्रीकृताया भूमेः करणी तृतीयकरणीति । तया मीयमाने महावेदिभूमेर्नवमो भागः अष्टोत्तरशतपदक्षेत्रात्मकः सिद्ध्यतीत्यर्थः ॥ ६४ ॥ वितृतीयेति । वितृतीया भागाद्यरूपेण (?) विभज्य महावेदेर्नवमभागेनेत्यर्थः । तस्य ग्रहणोपायमाह—महावेदेरिति । अष्टाविंशत्यूनं पदसहस्रं महावेदिः । तस्याः सम- चतुरस्रकृतायाः करणी एकत्रिंशत् पदं अङ्गुलद्वयं षड्विंशतितिलाश्च । तस्याः [L11

ऽध्यायः ] बौधायनीयं ३५ वित्तृतीयद्विकरण्या अर्धाधिकविंशतिशतद्वयाङ्गुलया वा समचतुरस्रं कृत्वा करणीनां मध्ये शङ्कून् निहत्य प्रमाणद्विगुणयो रज्ज्वोः पाशान् पूर्वापरयोः प्रतिमुच्य तयो- र्मध्ये दक्षिणोत्तरयोर्नियम्य बहिःस्पन्द्यमपच्छिन्द्यात्। हविरासादनसौकर्यार्थं पञ्चारत्निर्वा यजमानमात्री ॥ ६६ ॥ [ इति पैतृक्या वेदेर्विहरणोपायः । ] वेदितृतीये यजेतेति सौत्रामणिकीं वेदिमभ्युपदिशन्ति । महावेदेस्तृतीयेन समचतुरस्रकृताया अष्टादशपदा पार्श्वमानी भवति । तस्यै दीर्घकरणयामेकतोऽणिमत्करणाञ्च यथा- कामीति ॥ ६७ ॥ वेदिवितृतीय इति । महावेदितृतीयक्षेत्रे चतुर्विंशत्यधिकपदशतत्रया- त्मकक्षेत्रे यजेतेति श्रुतेरर्थः। वेदतृतीयक्षेत्रस्य मानोपायामाह-महा- वेदेरिति । महावेदेस्तृतीयक्षेत्रेण चतुर्विंशत्यधिकपदशतत्रया ३२४ त्मकेन समचतुरस्रकृताया भूमेः पार्श्वमानी अष्टादश ( पद ?) प्रमाणा भव- तीति। तथा मीयमाना भवतीति । महावेदेस्तृतीयक्षेत्रात्मकसौत्रामणी- वेदिनिष्पत्तिर्भवतीत्यर्थः । सौत्रामण्याः पशुविकारत्वादतिदेशात एक- तोऽणिमद्दीर्घचतुरश्राकारप्रमाणं कर्तव्यमित्यपेक्षायामाह-तस्यै इति । षष्ठ्यर्थे चतुर्थी । तस्या सौत्रामणीवेद्या दीर्घकरणयामेतावद्दीर्घकरणा- मित्यत्र एकतोऽणिमत्करणायामणिमत्पुरस्तात् पार्श्वप्रमाणमेतावदित्यत्र च चकारात् पश्चात्पार्श्वप्रमाणमेतावदित्यत्र च इच्छैव नियामिका । विशेषे प्रमाणाभावादित्यर्थः । अत्र च विराट् सम्पन्नेत्येकेषामिति मते सर्वतो दशपदसमचतुर- श्रात्मिकाया वेदेः पश्वङ्गत्वान् यथाप्रकृति समचतुरश्राकारापि महावेदि- तृतीयक्षेत्रप्रमाणा सौत्रामणीवेदिर्मातुं शक्यत इति ॥ ६७ ॥ वेदतृतीय इति । त्रीणि चतुर्विंशाधिकानि पदशतानि वेदतृतीयम् । महावेदेरिति । महावेदेस्तृतीयेन चतुर्विंशत्यधिकशतत्रयपदेन समचतुरस्रकृताया भूमेरष्टादशपदा करणी भवति । सापि वेदितीयसमचतुरस्रकरणी । चतु- र्विंशत्यधिकशतत्रयस्य मूलमष्टादशपदानीत्यर्थः। सौत्रामण्याः पशुबन्धप्रकृतित्वाद् विराट्संपन्ना वा कार्या । तत्र सप्तविंशत्यङ्गुलं प्रवृद्धं पदम् । तेन दशपद ।

३६ शुल्बसूत्रम् [ प्रथमो- तस्यै इति । तस्या दीर्घकरण्या अग्रतोऽणिमत्करण्यां दीर्घकरण्यामित्यर्थः । चकारः पूर्वेण समचतुरस्रधर्मेण समुच्चयार्थः । एकतोऽणिमद्दीर्घचतुरस्रं वा कुर्यादित्यर्थः । पदप्रक्रमप्रमाणानामन्यतमात्रिकरण्याष्टिकदशिके तिर्यङ्मान्यौ द्वाद- शिका पृष्ठ्या । अन्यतमत्तृतीयकरण्या वा त्रिंशत्पदानीत्यादि सौमिकवेदिन्- न्मानम् । तत्र दशाङ्गुलस्य पदस्य तृतीयकरणी पञ्चाङ्गुलयः सार्धसप्तविंशाश्च तिलाः । तत्त्रिगुणा त्रिकरणी । द्वादशाङ्गुलस्य षडङ्गुलयो द्वात्रिंशत् तिलाश्च । तत्त्रिगुणा त्रिकरणी । पञ्चदशाङ्गुलस्य पदस्य त्रयोविंशतितिलसहिता अष्टाङ्गुला तृतीयकरणी । तत्त्रिगुणा त्रिकरणी । एवं प्रक्रमाणामपि द्रष्टव्यम् । सौमिकात् प्रक्रमात् तृतीयोंऽशः प्रक्रमः स्यात् “तेन वेदिं विमिमीत” इति काठकाग्नीनामुक्तम् । तस्यार्थः सौमिकात् प्रक्रमपरिमितात् क्षेत्रात् तृतीयोंऽशो यस्तस्य करणी प्रक्रमस्य तृतीयकरणीत्यर्थः ॥ ६७ ॥ [ इति सौत्रामणीवेदिविहरणोपायः । ] प्राग्वंशः षोडशप्रक्रमायामो द्वादशव्यासः । अपिवा द्वादशप्रक्रमायामो दशव्यासः । तस्य मध्ये द्वादशिको विहारः ॥ ६८ ॥ सौत्रामणीवेदिमुक्त्वा अग्निष्टोमवेदिप्रकारमाह—प्राग्वंश इति । प्राग्वंशयुक्तिः गार्हपत्याग्नित्रयसंरक्षको गृहविशेषः प्राग्वंश इत्युच्यते । सः प्राक्प्रत्यक् षोडशप्रक्रमदीर्घः दक्षिणोत्तरं द्वादशप्रक्रमव्यासः । एवं भूतः प्राग्वंशः कुर्यात् । पक्षान्तरमाह—अपिवेति । द्वादशप्रक्रमायामो दशव्यासः । द्वादश- प्रक्रमदीर्घं दशप्रक्रमव्यासं प्राग्वंशं कुर्यादित्यर्थः । पूर्वोक्तं पक्षद्वयं केवल- क्रतौ उपपद्यते । सासौ तु षोडशप्रक्रमायामपक्ष एव नियतः । “व्याया- ममात्री चतुःस्रक्तिर्भवतीति गार्हपत्यचितेर्विज्ञायते” (२।२६) इत्याहवनीयस्य व्यायामपरिमाणत्वं द्वादशप्रक्रमायामपक्षे नोपपद्यत इति षोडशप्रक्रमा- यामपक्ष एव नित्य इति निगद्यते । तस्येति । तस्य प्राग्वंशस्य मध्ये द्वादशिको द्वादशप्रक्रमपरिमितो देशो विहार इत्यर्थः । अयमत्र प्रयोगः—षोडशप्रक्रमपरिमिते प्राग्वंशे पुरस्तात् सार्धैक- [

५ध्यायः ] बौधायनीयं ३७ प्रक्रमपरिमिते देशे विहारः कर्तव्यः । तथा हि विहारार्थनिहितक्षेत्र- प्रागग्रे प्रक्रमद्वयप्रमाणेण समचतुरश्रं कुर्यात् स आहवनीय इत्युच्यते । एवं पश्चिमाग्रदेशे ( उक्तप्रमाणकं ? ) चतुरश्रं कृत्वा 'चतुरश्रं मण्डलं चिकीर्षन्” (१।४७) इति न्यायेन परिमण्डलं कुर्यात्, स गार्हपत्य इत्युच्यते । “गार्हपत्याहवनीययोरन्तरालं पञ्चधा षोढा वा संभज्य” (१।५६) इति न्यायेन दक्षिणाग्नेरायतनं कुर्यात् । तत्प्रमाणन्तु--तत्र आहवनीयचतु- रश्रस्याक्ष्णयारज्ज्वा समचतुरश्रं कृत्वा तच्चतुरश्रं परिमण्डलं कृत्वा प्राक् प्रत्यक् द्वेधा विभज्य उत्तरार्धं धनुराकारं क्षेत्रं त्यजेत्, अवशिष्टं धनुराकारदक्षिणार्धक्षेत्रं दक्षिणाग्निरित्युच्यते । आहवनीयस्य पश्चाद्देशे “यजमानमात्री वेदिर्भवती” ( १।५६ ) त्युक्तन्यायेन वेदिं कुर्यात् । एवं च प्राग्वंशे प्राग्देशे सार्धप्रक्रम(द्वय)प्रदेशः आहवनीयार्थः ( प्रक्रमद्वयपरिमितोदेशः ? ) । गार्हपत्याहवनीययो र्मध्यदेशः अष्टप्रक्रम- परिमितः । प्रक्रमद्वयपरिमितः गार्हपत्यदेशः गार्हपत्यस्य पश्चात्प्रदेशः सार्धप्रक्रमद्वयपरिमितः । आहत्य प्राक्-प्रत्यक्-षोडशप्रक्रमः संपद्यते ॥६८॥ प्राग्वंश इति । साग्निके षोडश अन्यत्र द्वादशेति व्यवस्थया विकल्पमिच्छन्ति केचित् । तस्येति । षोडशप्रक्रमपक्षे द्वादशप्रक्रमप्रमाणकः । प्रक्रमद्वयेन गार्हपत्यादीनि आयतनानि कुर्यादित्यर्थः । आग्न्याधेयिकान्यपि प्रक्रमद्वयेनेति केचित् । पश्चात्पुर- स्ताच्च सञ्चरार्थं प्रक्रमद्वयम् । मध्येऽष्टौ प्रक्रमाः । अपरेणाहवनीयं यजमानमात्री वेदिः । वेदेः पश्चात् परिशिष्टो विशयः ॥ ६८ ॥ [ इत्यग्निष्टोमवेदिविहरणोपायः । ] त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरश्ची भवति । षट्त्रिंशत् प्राची । चतुर्विंशतिः पुरस्तात् तिरश्चीति महावेदे र्विज्ञायते । मानयोगस्तस्या व्याख्यातः । आहवनीयात् षट्प्रक्रमान्म- हावेदिः ॥ ६९ ॥ प्राग्वंशवेदिमुक्त्वा सौमिकमहावेदिप्रमाणमाह--त्रिंशत्पदानीति । पश्चिमदेशे दक्षिणोत्तरं त्रिंशत्पदप्रमाणं, प्रक्रमप्रमाणं वा, ( पूर्वापरं षट्-