बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
चतुरश्रत्रयं पूर्वपश्चिमयत। कुर्यात् । एकं प्रत्यक् ततः पुरस्ताद् द्वितीयम् ततः पुरस्तात् तृतीयमित्येवं समचतुरश्रत्रयं कुर्यात् ॥ ५२ ॥ आयामेति । पूर्वोक्तगार्हपत्याहवनीयमध्ययोरन्तरालायामतृतीयकरणीप्रमाणेन त्रीणि चतुरस्रान्यनूचीनानि प्राञ्चि, पश्चिमस्य पुरस्ताद् द्वितीयं, द्वितीयस्य पुरस्तात् तृतीयमिति कारयेत् ॥ ५२ ॥ अपरस्योत्तरस्यां श्रोण्यां गार्हपत्यः ॥ ५३ ॥ अपरस्येति । तत्र पश्चिमस्य चतुरश्रस्य उत्तरश्रोण्यां गार्हपत्यमध्य- शङ्कुं निहत्य "धिष्ण्यानां द्विप्रादेशो विष्कम्भ" (बौ० शु० सू० १।७६) इति वक्ष्यमाणत्वात्तस्मिन् शङ्कौ पाशं प्रतिमुच्य सार्धचतुस्तिलसार्ध ( सत्र्यंश- द्वाविंशतितिलसहित ? ) त्रयोदशाङ्गुलया रज्ज्वा ( मण्डलं लिखेत् ? ) तद्गार्हपत्यायतनं भवति ॥ ५३ ॥ अपरस्येति । अपरस्य चतुरस्रस्य उत्तरस्यां श्रोण्यां गार्हपत्यमध्यशङ्कुः । “धिष्ण्यानां द्विप्रादेशो विष्कम्भः” ( बौ. शु. सू. १।७६ ) इति वक्ष्यति । तस्मिन् प्रादेशेन मण्डलं परिलिखेत् । पृथिवीसंस्तवान्मण्डलाकृतिर्गार्हपत्यः ॥ ५३ ॥ तस्यैव दक्षिणेंऽसेऽन्वाहार्यपचनः ॥ ५४ ॥ तस्यैवेति । तस्यैव पश्चिमस्य चतुरश्रस्य दक्षिणपूर्वस्यां सक्तौ शङ्कुं निहत्य तस्मादुदग् द्वादशतिलसहितद्वचङ्गुलेऽन्यं शङ्कुं निहत्य तस्मिन् पाशं प्रतिमुच्य तिलद्वयसहितपञ्चदशाङ्गुलया रज्ज्वा मण्डलं परिलिखेत , पञ्चदशाङ्गुलयैव रज्ज्वाऽन्यत् परिमण्डलं करोति, मण्डलसंसर्गयोः शङ्क निहत्य स्पन्द्यां नियम्य उत्तरार्धं त्यजेत् स दक्षिणाग्निः ॥ ५४ ॥ तस्यैवेति । तस्यैव अपरस्य दक्षिणेंऽसे अन्वाहार्यपचनमध्यशङ्कुः । “मण्डलं चतुरस्रं चिकीर्षन्” ( चौ. शु. सू. १।४८ ) इत्यादिना आनीतनवतिलसहितैकविं- शत्यङ्गुलचतुरस्रदिकरण्या चतुस्तिलसहितत्रिंशदङ्गुलया समचतुरस्रं कृत्वा मण्डलं कृत्वा दक्षिणविहारविष्कम्भः चतुर्विंशदङ्गुलयो दश तिलाश्च । दक्षिणविहारमध्य- शङ्कोरन्तरतो विष्कम्भचतुर्भागमात्रे शङ्कं स्थापयित्वा तस्मिन् विष्कम्भार्धं प्रतिमुच्य मण्डलं परिलिख्य मण्डलमध्ये प्राक्प्रतीचीं स्पन्द्यां नियम्यानुस्पन्द्यां लेखामालिख्य उत्तरार्धं त्यजेत् । सोऽन्वाहार्यपचनः । अन्तरिक्षसंस्तवाद्धनुराकृतिः ॥ ५४ ॥
ऽध्यायः ] बौधायनीयं २६ पूर्वस्योत्तरेंऽस आहवनीयः ॥ ५५ ॥ पूर्वस्येति । प्राक्चतुरश्रस्य उत्तरेंऽसे आहवनीयस्य मध्यशङ्कुं निहत्य द्विप्रादेशप्रमाणं समचतुरश्रं कुर्यात्, स आहवनीयः । अग्रेणाहवनीयं पदत्रयं संचरमवशिष्य आहवनीयवच्चतुरश्रः सभ्यस्तस्य पुरस्ताच्च पद- त्रयमवशिष्याऽवसथ्यः, सोऽप्याहवनीयवच्चतुरश्रः ॥ ५५ ॥ पूर्वस्येति । पूर्वस्य उत्तरस्याः श्रोण्या उत्तरेणोत्करः । पूर्वस्य चतुरस्रस्य उत्तरेंऽसे आहवनीयमध्यशङ्कुः । तस्य नवतिलसहितैकविंशत्यङ्गुलं चतुरस्रं कुर्यात् । द्युलोकसंस्तवात् चतुरस्र आहवनीयः । आगारो वा । सभायामेव सभ्यं व्यप- दिशेत् । आवसथ आवसथीयमिति ॥ ५५ ॥ अपिवा गार्हपत्याहवनीययोरन्तरालं पञ्चधा षोढा वा संभृज्य षष्ठं सप्तमं वा भागमागन्तुकमुपसमस्य समं त्रैधं विभज्य पूर्वस्मादन्ताद् द्वयोर्भागयोर्लक्षणं करोति । गार्हपत्या- हवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कुं निहन्ति । तद्दक्षिणाग्नेरायतनं भवति ॥ ५६ ॥ दक्षिणाग्न्यायतनविकल्पमाह—अपिवेति । गार्हपत्याहवनीययोर- न्तरालप्रमाणां रज्जुं पञ्चधा षोढा वा विभज्य तत्रागन्तुमन्यं भागं संयोज्य पञ्चधा विभागपक्षे पञ्चमांशेनान्यं षष्ठं भागं योजयेत् , षोढा संविभागपक्षे षष्ठांशसमानप्रमाणमन्यं सप्तमभागं योजयेत् । भागान्तरसंयुक्तमिदं लक्षणेन दक्षिणत आकृष्य लक्षणे शङ्कुं निहन्ति । स शङ्कुर्दक्षिणाग्नेर्मध्यम् । विपर्यस्योत्करः । आहवनीयसम्बद्धमग्रं गार्हपत्यसंबद्धं कृत्वा गार्हपत्य- सम्बद्धं आहवनीयसमीपे नियम्य लक्षणेन उत्तरतोऽपायम्य शङ्कुं निहन्ति, स उत्करः ॥ ५६ ॥ अपीति । अपि वा पक्षः । “आयामतृतीयेन” ( १५२ ) इत्यादि सर्वं कल्पो- क्तेन विकल्पते । दक्षिणाग्न्यायतनदेशविकल्पार्थमाह—संभृज्य संवेष्ट्य । आगन्तुक- मधिकं प्रक्षिप्य । समं सर्वम् । द्वयोर्भागयोरिति । तयोर्गार्हपत्याहवनीयमध्य- शङ्क्वोः । दक्षिणाग्नेरिति । दक्षिणाग्नेरायतनमध्यं भवति । विपर्यस्योत्करः ॥ ५६ ॥
३० शुल्बसूत्रम् [ प्रथमो- अपिवा प्रमाणं पञ्चमेन वर्द्धयेत् । तत्सर्वं पञ्चधा संभुज्या- परस्मादन्ताद् द्वयोर्भागयोर्लक्षणं करोति । पृष्ठ्यान्तयोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कं निहन्ति । तद्द- क्षिणाग्नेरायतनं भवति ॥ ५७ ॥ दक्षिणाग्न्यायतने पक्षान्तरमाह—अपि वा प्रमाणमिति । आहव- नीयगार्हपत्यमध्यदेशप्रमाणं तदीयपञ्चमांशेन युक्तं कृत्वा तत्सर्वं पञ्चधा विभज्य पश्चिमाग्रादारभ्य भागद्वयेऽतीते लक्षणं कृत्वा, पूर्वापरशङ्क्वॊः पाशौ प्रतिमुच्य पूर्ववल्लक्षणेन दक्षिणापायम्य तत्र शङ्कं निहन्यात्, तद्दक्षिणाग्नेर्मध्यम् ॥ ५७ ॥ अपिवेति । लक्षणे शङ्कं निहन्ति । पूर्वस्मादन्त्याद् भागत्रयेऽतीते ॥५७॥ [ इति गार्हपत्यदक्षिणाहवनीयाग्नीनां स्थानानयनप्रकारः । ] विपर्यस्यैतेनोत्करो व्याख्यातः ॥ ५८ ॥ विपर्यस्येति । पूर्ववदग्रविपर्य्यसिन उत्तरतोऽपायम्योत्करः कर्त्तव्यः । विपर्यस्येत्येतत् अपि वेति पक्षद्वयस्यापि शेष इति द्रष्टव्यम् ॥ ५८ ॥ विपर्यस्येति । पूर्वोत्तरकल्पयोः साधारणमिदम् । “दक्षिणतो विषुवत्यन्वा- हार्यपचनस्ये”ति (बौ. श्रौ. सू. २४।२ पृ. ५४८ ) कल्पोक्तोऽप्यनुसन्धेयः । तथा सति उत्तरतो मध्य उत्करः ॥ ५८ ॥ [ इत्युत्करस्थानानयनम् । ] अपरेणाहवनीयं यजमानमात्री भवतीति दार्शपौर्णमासि- काया वेदेर्विज्ञायते । तस्यास्त्रिभागोनं पश्चात्तिरश्ची । तस्या एवार्धं पुरस्तात् तिरश्ची । एवं दीर्घचतुरस्रमेकतोऽणिमद् विहृत्य स्त्रक्तिषु शङ्कून् निहन्यात् । यावती पार्श्वमानी द्विरभ्यस्ता तावतीं रज्जुमुभयतः पाशां कृत्वा मध्ये लक्षणं करोति । दक्षिणयोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कं निहन्यात् । तस्मिन् पाशौ प्रतिमुच्य लक्षणेन दक्षिणं पार्श्वं परिलिखेत् । एतेनोत्तरं पार्श्वं व्याख्यातम् । पूर्वं पार्श्वं तया द्विर- भ्यस्तया परिलिखेत् । एवमपरम् ॥ ५९ ॥
ऽध्यायः ] बौधायनीयं ३१ अपरेणेति । भवतीत्यनया श्रुत्या दर्शपूर्णमाससम्बन्धिन्या वेदेर्विज्ञा- यते प्रमाणमिति शेषः । यजमानमात्रोति । षण्णवत्यङ्गुलप्रमाणेत्यर्थः । तस्या मानमाह—तस्या इति । तस्याः षण्णवत्यङ्गुलायास्तृतीयेन भागेन ऊनं चतुःषष्ट्यङ्गुलानि प्रत्यक्प्रदेशतिर्यङ्मानी कार्या । तस्या एवार्धम् अष्टचत्वारिंशदङ्गुलानि पुरस्तात्तिर्यङ्मानी कार्या । एवं प्रकारेण पूर्वभागे अणु पश्चाद्भागे विशालं प्राक्पश्चिमदीर्घम् एकतोऽणिमद्दीर्घचतुरश्रं कृत्वा तस्य चतसृषु स्रक्तिषु शङ्कुचतुष्टयं निहन्यात् । तस्याः संमानमाह— यावतीति । दक्षिणयोरिति । दक्षिणयोः दक्षिणस्रक्तिद्वयनिखातशङ्कोरित्यर्थः त्यर्थः । एतेनेति । “यावती पार्श्वमानी” त्यादिना उत्तरतोऽपायम्य लक्षणे शङ्कुं निहत्य तत्र पाशौ प्रतिमुच्य उत्तरपार्श्वं परिलिखेदित्यर्थः । पूर्वमिति । प्राक्तिर्यङ्मान्या द्विगुणीकृताया मध्ये लक्षणं कृत्वा प्राग- पायम्य लक्षणे शङ्कुं निहत्य तत्र पाशं प्रतिमुच्य लक्षणेन पूर्वं पार्श्वं परिलिखेत् । एवं मिति । प्रत्यक्तिर्यङ्मान्या द्विगुणीकृताया मध्ये लक्षणं कृत्वा प्रत्यगपायम्य लक्षणे शङ्कुं निहत्य तत्र पाशौ प्रतिमुच्य लक्षणेन पश्चिमं पार्श्वं परिलिखेदित्यर्थः । अत्र कर्मान्ते । अथेयं दार्शपौर्णमासिकी वेदी यजमानमात्री भवत्य- परिमिता वा यथासन्नानि हविंषि सम्भवेदेवं तिरश्चीप्राञ्चौ वेद्यंसावुन्न- यत्याहवनीयस्य परिगृहीत्यै प्रतीची श्रोणी निरूहति गार्हपत्यस्य परि- गृहीत्यै पुरस्तादंहीयसी पश्चात् प्रथीयसी मध्ये संनततरा भवतीति पक्षान्तरमुक्तम्, तदप्यत्रानुसन्धेयम् । अपरिमिता षण्णवत्यङ्गुलाधिका । विकृति ( प्रकृतिषु ? ) आस- न्नानि हवींषि यथा संगृह्लीयात्, प्राञ्चौ वेद्यंसावुन्नयति आहवनीयस्य परिगृही षाय ( त्यै ? ) । प्रतीची श्रोणी गार्हपत्यपरिग्रहाय । पुरस्ता- च्छ्रोणीप्रमाणात् संकुचिता, पश्चादंसप्रमाणाद् विस्तृता, मध्ये अतिकृशा । दक्षिणोत्तरायतं गार्हपत्यागारम् । पूर्वापरायतमाहवनीयागारम् । आह- वनीयागारस्य पुरस्तात् त्रिप्रक्रममवशिष्य सभ्यागारं, ततः पुरस्तात्
| ३२ | शुल्बसूत्रम् | [ प्रथमो- |
|---|
त्रिप्रक्रममवशिष्यावसथ्यागारं, यावति कृष्णमृग उपविशेत् तावदूर्ध्वो विहार इति कर्मान्ते उक्तम् ॥ ५९ ॥ अपरेणेति । यजमानमात्री षण्णवत्यङ्गुला । तस्या मानमाह—तस्या इति । त्रिभागेनं चतुःषष्ट्यङ्गुलािन । तस्या ह्यंत । तस्या एवार्धं अष्टाचत्वारिंशदङ्गुलािन । अष्टषष्टिशते सूत्रे चतुर्विंशे निरञ्छनम् । द्वात्रिंशे चतुःसप्तत्यां संख्येयान्यङ्गुलानि तु ॥ षण्णवत्यङ्गुला पृष्ठ्या प्रथमेनांसयोर्मितिः । श्रोण्योर्द्वितीयेन मानमेवमेकतः ......॥ तस्यानयन माह—एवमिति । तस्मिन्निति । यावती दक्षिणपार्श्वमानी परिलि- खेत् । दक्षिणायाः श्रोणेर्दक्षिणमंसमालिखेत् । एतेनेति । यावती पार्श्वमानीत्या- दिना । एवमिति । तिर्यङ्मान्योरपि द्विगुणीकृत्य मध्ये लक्षणं कृत्वा श्रोण्यंसयोश्च अन्तौ नियम्य पश्चात् पुरस्ताच्च अपच्छिन्द्यात् इति द्रष्टव्यम् । "अपरिमिता वा यथा सन्नानि हवींषि संभवेदेवं तिरश्चीप्राञ्चौ वेद्यंसावुन्नयति" प्रतीची श्रोणी पुरस्तादं- हीयसी पश्चात् प्रथीयसि मध्ये सन्नतरा भवति ( बौ. श्रौ. २४।२४ पृ. २०९।२ ) इति कर्मान्ते पक्षान्तरमप्यस्ति । तदप्यनुसन्धेयम् । अपरिमिता षण्णवत्यङ्गुला- दधिका । यथासन्नानि हवींषि संभवेत् प्रकृतिषु संगृह्णीयात् । प्राञ्चौ वेद्यंसावुन्नयति आह्वनीयस्य परिग्रहणाय । प्रतीची श्रोणी गार्हपत्यस्य परिग्रहणाय । पुरस्तात् श्रोणी प्रमाणात् संकुचिता । पश्चात् अंसप्रमाणाद् वितता । मध्येऽतिकृशा । दक्षिणोत्तरायतं गार्हपत्यागारम् । आहवनीयागारं पूर्वापरायतं तत्र वेदिकरणात् । आहवनीयस्य पुरस्तात् त्रिप्रक्रममवशिष्य सभ्यागारम् । एवं आवसथ्यम्य गृहम् । यावति कृष्णमृग उप- विशेत् तावदपरार्धोर्ध्वंगते विहार ( बौ. श्रौ. सू. २४।२३ पृ. २०७।७ ) इति कर्मान्त उक्तम् ॥ ५९ ॥ [ इति दार्शिक्या वेदेर्विहरणोपायः । ] दशपदा पश्चात्तिरश्ची द्वादशपदा प्राच्यष्टापदा पुरस्ता- त्तिरश्चीति पाशुवन्धिकाया वेदेर्विज्ञायते । मानयोगस्तस्या व्याख्यातः ॥ ६० ॥ दशपदेति । विज्ञायत इति । प्रमाणमिति शेषः । मानयोग इति । एकतोऽणिमद्दीर्घचतुरश्रात्मिकायास्तस्या मानप्रकारः प्रमाणादध्यर्धां रज्जुमित्यादिना व्याख्यात इत्यर्थः ॥ ६० ॥ मानयोग इति । अथापरं प्रमाणादध्यर्धाम् ( १।३२ ) इत्यादिना ॥ ६० ॥
ध्यायः ] बौधायनीयं ३३ रथसम्मितैत्येकेषाम् ॥ ६१ ॥ रथसम्मितैत्येकेषामिति । मतमिति शेषः । तत्रायं क्रमः— रथाक्षमात्री पश्चात्तिरश्ची ईषामात्री प्राची युगेन पुरस्तात्तिरश्ची मातव्येति ॥ ६१ ॥ रथेति । मतमिति शेषः । “रथाक्षमात्री पश्चात् तिर्यक् । ईषया प्राची । विपथयुगेन पुरस्तात्” ( बौ. श्रौ. सू. २०।५ पृ. ५६।५७ ) इत्यादि द्रष्टव्यम् । विपथयुगं षडशीत्यङ्गुलम् । चक्षुर्निर्मिता वा ॥ ६१ ॥ विराट् सम्पन्नेत्येकेषाम् ॥ ६२ ॥ विराडिति । मतान्तरं । दशाक्षरा विराडिति व्यवहाराद् विराट् शब्दः दशसंख्यापरः । ततश्च सर्वतो दशपदेत्यर्थः ॥ ६२ ॥ विराडिति । मतम् । दशपदा वा ॥ ६२ ॥ [ इति पाशुबन्धिकवेदिविहरणोपायः । ] शम्यामात्रो चतुःस्रक्तिर्भवतीत्युत्तरवेदेर्विज्ञायते । सम- चतुरश्राविशेषात् ॥ ६३ ॥ शम्यामात्रीति । विज्ञायत इति । प्रमाणमिति शेषः । उत्तरवेदिर्विशेषाश्रवणात् समचतुरश्रेत्याह—समचतुरश्रेति । विशेष- विधिरहितस्थले सर्वत्रायं विधिर्द्रष्टव्यः ॥ ६३ ॥ शम्यामात्रीति । अन्ततो हि देवानामाधीयत इति श्रुतेः । पूर्वान्ते यूपावटस्यार्ध- प्रक्रममवशिष्योत्तरवेदिः । षट्त्रिंशदङ्गुला शम्या । उत्तरयुगप्रमाणेनोत्तरनाभित्रयो- दशाङ्गुलेन । समचतुरश्रेति । सार्वत्रिकोऽयं विधिः । यत्र विशेषविधिर्नास्ति तत्र सर्वत्र समचतुरस्रकरणम् ॥ ६३ ॥ [ इत्युत्तरवेदिविहरणोपायः । ] वितृतीया वेदिर्भवतीति पैतृक्या वेदेर्विज्ञायते । महावेदे- स्तृतीयेन समचतुरस्रकृतायास्तृतीयकरणी भवतोति । नवमस्तु- भूमेर्भागो भवति ॥ ६४ ॥ वितृतीयेति । सौमिकी महावेदिर्वितृतीया त्रिधा विभक्तस्य स्वक्षेत्रस्य ५
३४ शुल्बसूत्रम् [ प्रथमो- एकभागतृतीयांशरूपा महापितृयज्ञवेदिप्रमाणमित्यर्थः । तस्या मानो- पायमाह—महावेदेरिति । अष्टाविंशत्यूनसहस्रपदक्षेत्राया महावेदेः सम- चतुरश्रीकृतायाः करण्याः षड्विंशतितिलाधिकद्व्यङ्गुलोत्तरमेकत्रिंशत्पद ( पद ३१।२।२६ ति० ) प्रमाणायास्तृतीयेन भागेन समचतुरश्रीकृताया भूमेः करणी तृतीयकरणीति । तया मीयमाने महावेदिभूमेर्नवमो भागः अष्टोत्तरशतपदक्षेत्रात्मकः सिद्ध्यतीत्यर्थः ॥ ६४ ॥ वितृतीयेति । वितृतीया भागाद्यरूपेण (?) विभज्य महावेदेर्नवमभागेनेत्यर्थः । तस्य ग्रहणोपायमाह—महावेदेरिति । अष्टाविंशत्यूनं पदसहस्रं महावेदिः । तस्याः सम- चतुरस्रकृतायाः करणी एकत्रिंशत् पदं अङ्गुलद्वयं षड्विंशतितिलाश्च । तस्याः [L11
ऽध्यायः ] बौधायनीयं ३५ वित्तृतीयद्विकरण्या अर्धाधिकविंशतिशतद्वयाङ्गुलया वा समचतुरस्रं कृत्वा करणीनां मध्ये शङ्कून् निहत्य प्रमाणद्विगुणयो रज्ज्वोः पाशान् पूर्वापरयोः प्रतिमुच्य तयो- र्मध्ये दक्षिणोत्तरयोर्नियम्य बहिःस्पन्द्यमपच्छिन्द्यात्। हविरासादनसौकर्यार्थं पञ्चारत्निर्वा यजमानमात्री ॥ ६६ ॥ [ इति पैतृक्या वेदेर्विहरणोपायः । ] वेदितृतीये यजेतेति सौत्रामणिकीं वेदिमभ्युपदिशन्ति । महावेदेस्तृतीयेन समचतुरस्रकृताया अष्टादशपदा पार्श्वमानी भवति । तस्यै दीर्घकरणयामेकतोऽणिमत्करणाञ्च यथा- कामीति ॥ ६७ ॥ वेदिवितृतीय इति । महावेदितृतीयक्षेत्रे चतुर्विंशत्यधिकपदशतत्रया- त्मकक्षेत्रे यजेतेति श्रुतेरर्थः। वेदतृतीयक्षेत्रस्य मानोपायामाह-महा- वेदेरिति । महावेदेस्तृतीयक्षेत्रेण चतुर्विंशत्यधिकपदशतत्रया ३२४ त्मकेन समचतुरस्रकृताया भूमेः पार्श्वमानी अष्टादश ( पद ?) प्रमाणा भव- तीति। तथा मीयमाना भवतीति । महावेदेस्तृतीयक्षेत्रात्मकसौत्रामणी- वेदिनिष्पत्तिर्भवतीत्यर्थः । सौत्रामण्याः पशुविकारत्वादतिदेशात एक- तोऽणिमद्दीर्घचतुरश्राकारप्रमाणं कर्तव्यमित्यपेक्षायामाह-तस्यै इति । षष्ठ्यर्थे चतुर्थी । तस्या सौत्रामणीवेद्या दीर्घकरणयामेतावद्दीर्घकरणा- मित्यत्र एकतोऽणिमत्करणायामणिमत्पुरस्तात् पार्श्वप्रमाणमेतावदित्यत्र च चकारात् पश्चात्पार्श्वप्रमाणमेतावदित्यत्र च इच्छैव नियामिका । विशेषे प्रमाणाभावादित्यर्थः । अत्र च विराट् सम्पन्नेत्येकेषामिति मते सर्वतो दशपदसमचतुर- श्रात्मिकाया वेदेः पश्वङ्गत्वान् यथाप्रकृति समचतुरश्राकारापि महावेदि- तृतीयक्षेत्रप्रमाणा सौत्रामणीवेदिर्मातुं शक्यत इति ॥ ६७ ॥ वेदतृतीय इति । त्रीणि चतुर्विंशाधिकानि पदशतानि वेदतृतीयम् । महावेदेरिति । महावेदेस्तृतीयेन चतुर्विंशत्यधिकशतत्रयपदेन समचतुरस्रकृताया भूमेरष्टादशपदा करणी भवति । सापि वेदितीयसमचतुरस्रकरणी । चतु- र्विंशत्यधिकशतत्रयस्य मूलमष्टादशपदानीत्यर्थः। सौत्रामण्याः पशुबन्धप्रकृतित्वाद् विराट्संपन्ना वा कार्या । तत्र सप्तविंशत्यङ्गुलं प्रवृद्धं पदम् । तेन दशपद ।
३६ शुल्बसूत्रम् [ प्रथमो- तस्यै इति । तस्या दीर्घकरण्या अग्रतोऽणिमत्करण्यां दीर्घकरण्यामित्यर्थः । चकारः पूर्वेण समचतुरस्रधर्मेण समुच्चयार्थः । एकतोऽणिमद्दीर्घचतुरस्रं वा कुर्यादित्यर्थः । पदप्रक्रमप्रमाणानामन्यतमात्रिकरण्याष्टिकदशिके तिर्यङ्मान्यौ द्वाद- शिका पृष्ठ्या । अन्यतमत्तृतीयकरण्या वा त्रिंशत्पदानीत्यादि सौमिकवेदिन्- न्मानम् । तत्र दशाङ्गुलस्य पदस्य तृतीयकरणी पञ्चाङ्गुलयः सार्धसप्तविंशाश्च तिलाः । तत्त्रिगुणा त्रिकरणी । द्वादशाङ्गुलस्य षडङ्गुलयो द्वात्रिंशत् तिलाश्च । तत्त्रिगुणा त्रिकरणी । पञ्चदशाङ्गुलस्य पदस्य त्रयोविंशतितिलसहिता अष्टाङ्गुला तृतीयकरणी । तत्त्रिगुणा त्रिकरणी । एवं प्रक्रमाणामपि द्रष्टव्यम् । सौमिकात् प्रक्रमात् तृतीयोंऽशः प्रक्रमः स्यात् “तेन वेदिं विमिमीत” इति काठकाग्नीनामुक्तम् । तस्यार्थः सौमिकात् प्रक्रमपरिमितात् क्षेत्रात् तृतीयोंऽशो यस्तस्य करणी प्रक्रमस्य तृतीयकरणीत्यर्थः ॥ ६७ ॥ [ इति सौत्रामणीवेदिविहरणोपायः । ] प्राग्वंशः षोडशप्रक्रमायामो द्वादशव्यासः । अपिवा द्वादशप्रक्रमायामो दशव्यासः । तस्य मध्ये द्वादशिको विहारः ॥ ६८ ॥ सौत्रामणीवेदिमुक्त्वा अग्निष्टोमवेदिप्रकारमाह—प्राग्वंश इति । प्राग्वंशयुक्तिः गार्हपत्याग्नित्रयसंरक्षको गृहविशेषः प्राग्वंश इत्युच्यते । सः प्राक्प्रत्यक् षोडशप्रक्रमदीर्घः दक्षिणोत्तरं द्वादशप्रक्रमव्यासः । एवं भूतः प्राग्वंशः कुर्यात् । पक्षान्तरमाह—अपिवेति । द्वादशप्रक्रमायामो दशव्यासः । द्वादश- प्रक्रमदीर्घं दशप्रक्रमव्यासं प्राग्वंशं कुर्यादित्यर्थः । पूर्वोक्तं पक्षद्वयं केवल- क्रतौ उपपद्यते । सासौ तु षोडशप्रक्रमायामपक्ष एव नियतः । “व्याया- ममात्री चतुःस्रक्तिर्भवतीति गार्हपत्यचितेर्विज्ञायते” (२।२६) इत्याहवनीयस्य व्यायामपरिमाणत्वं द्वादशप्रक्रमायामपक्षे नोपपद्यत इति षोडशप्रक्रमा- यामपक्ष एव नित्य इति निगद्यते । तस्येति । तस्य प्राग्वंशस्य मध्ये द्वादशिको द्वादशप्रक्रमपरिमितो देशो विहार इत्यर्थः । अयमत्र प्रयोगः—षोडशप्रक्रमपरिमिते प्राग्वंशे पुरस्तात् सार्धैक- [
५ध्यायः ] बौधायनीयं ३७ प्रक्रमपरिमिते देशे विहारः कर्तव्यः । तथा हि विहारार्थनिहितक्षेत्र- प्रागग्रे प्रक्रमद्वयप्रमाणेण समचतुरश्रं कुर्यात् स आहवनीय इत्युच्यते । एवं पश्चिमाग्रदेशे ( उक्तप्रमाणकं ? ) चतुरश्रं कृत्वा 'चतुरश्रं मण्डलं चिकीर्षन्” (१।४७) इति न्यायेन परिमण्डलं कुर्यात्, स गार्हपत्य इत्युच्यते । “गार्हपत्याहवनीययोरन्तरालं पञ्चधा षोढा वा संभज्य” (१।५६) इति न्यायेन दक्षिणाग्नेरायतनं कुर्यात् । तत्प्रमाणन्तु--तत्र आहवनीयचतु- रश्रस्याक्ष्णयारज्ज्वा समचतुरश्रं कृत्वा तच्चतुरश्रं परिमण्डलं कृत्वा प्राक् प्रत्यक् द्वेधा विभज्य उत्तरार्धं धनुराकारं क्षेत्रं त्यजेत्, अवशिष्टं धनुराकारदक्षिणार्धक्षेत्रं दक्षिणाग्निरित्युच्यते । आहवनीयस्य पश्चाद्देशे “यजमानमात्री वेदिर्भवती” ( १।५६ ) त्युक्तन्यायेन वेदिं कुर्यात् । एवं च प्राग्वंशे प्राग्देशे सार्धप्रक्रम(द्वय)प्रदेशः आहवनीयार्थः ( प्रक्रमद्वयपरिमितोदेशः ? ) । गार्हपत्याहवनीययो र्मध्यदेशः अष्टप्रक्रम- परिमितः । प्रक्रमद्वयपरिमितः गार्हपत्यदेशः गार्हपत्यस्य पश्चात्प्रदेशः सार्धप्रक्रमद्वयपरिमितः । आहत्य प्राक्-प्रत्यक्-षोडशप्रक्रमः संपद्यते ॥६८॥ प्राग्वंश इति । साग्निके षोडश अन्यत्र द्वादशेति व्यवस्थया विकल्पमिच्छन्ति केचित् । तस्येति । षोडशप्रक्रमपक्षे द्वादशप्रक्रमप्रमाणकः । प्रक्रमद्वयेन गार्हपत्यादीनि आयतनानि कुर्यादित्यर्थः । आग्न्याधेयिकान्यपि प्रक्रमद्वयेनेति केचित् । पश्चात्पुर- स्ताच्च सञ्चरार्थं प्रक्रमद्वयम् । मध्येऽष्टौ प्रक्रमाः । अपरेणाहवनीयं यजमानमात्री वेदिः । वेदेः पश्चात् परिशिष्टो विशयः ॥ ६८ ॥ [ इत्यग्निष्टोमवेदिविहरणोपायः । ] त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरश्ची भवति । षट्त्रिंशत् प्राची । चतुर्विंशतिः पुरस्तात् तिरश्चीति महावेदे र्विज्ञायते । मानयोगस्तस्या व्याख्यातः । आहवनीयात् षट्प्रक्रमान्म- हावेदिः ॥ ६९ ॥ प्राग्वंशवेदिमुक्त्वा सौमिकमहावेदिप्रमाणमाह--त्रिंशत्पदानीति । पश्चिमदेशे दक्षिणोत्तरं त्रिंशत्पदप्रमाणं, प्रक्रमप्रमाणं वा, ( पूर्वापरं षट्-
१८ शुल्बसूत्रम् [ प्रथमो- त्रिंशत् प्रक्रमप्रमाणं, पदप्रमाणं वा ? ) प्राग्देशे दक्षिणोत्तरं चतुर्विंशतिपद- प्रमाणं, प्रक्रमप्रमाणं वा एकतोऽणिमद्दीर्घचतुरश्रं कुर्यादित्यर्थः । मान- योग इति । "प्रमाणाद्ध्यर्धा रज्जु" (१।३२) मित्यादिना तस्याः प्रमाणं व्याख्यातमित्यर्थः । इयं वेदिः कुत्र कर्तव्याकाङ्क्षायामाह— आहवनीयादिति । आहवनीयमारभ्य प्राक्प्रदेशे षट्प्रक्रमान् मित्वा ततः प्राग्देशे महावेदिः कर्तव्येत्यर्थः ॥ ६९ ॥ मानयोग इति । प्रमाणाद्ध्यर्धा रज्जु(१।३२)मित्यादिना । एतदुक्तं भवति-षट्- त्रिंशिकायामष्टादशोपसमस्यापरस्मादन्ताद् द्वादशसु लक्षणं पञ्चदशसु लक्षणम् । पृष्ठ्यान्तयोरन्तौ नियम्य पञ्चदशिकेन श्रोणी द्वादशिकेनांसाविति । आहवनीयादिति । आहवनीयमध्यादारभ्य षट्प्रक्रमसंचरं त्यक्त्वा महावेदे- रारम्भः । प्रक्रमशब्दः पदस्याप्युपलक्षणम् ॥ ६९ ॥ [ इति सौमिकमहावेदिविहरणोपायः । ] तत एकस्मिन्त्ससदः । तद्दशकम् । उदक् सप्तविंशत्यरत्नयः । अष्टादशेत्येकेषाम् ॥ ७० ॥ सदसो देशविशेषकरणमाह—तत इति । ततः ( षट्प्रक्रमाद् ) एकस्मिन् पदे प्रक्रमे वा विसृष्टे सति तत्प्राक्प्रदेशे सदः कत्र्तव्य इत्यर्थः । तद्दशकमिति । तत्सदः पूर्वापरेण दशपदप्रमाणं, दशप्रक्रमप्रमाणं वा । उदगिति । दक्षिणोत्तरेण सप्तविंशत्यरत्नयः । इदं प्रक्रमपक्षे । अष्टादशेति । पक्षे अष्टादशारत्नयः दक्षिणोत्तरमित्यर्थः ॥ ७० ॥ तत इति । तत्रैवारम्भः । तदिति । पूर्वापरेण । उदगिति । प्रक्रमपक्षे दक्षिणोत्त- रेण सप्तविंशत्यरत्नयः । अष्टादशेति । उदगित्थ्येव । पदमानपक्षेऽष्टादशारत्नयः । पृष्ठ्याया दक्षिणतोऽर्धमुत्तरतोऽर्धम् । अपिवा द्वौ भागावूदक् स्पन्त्यायै स्यातामेको दक्षिणत इति पक्षोऽपि । प्रक्रमपक्षे वेद्यवयवत्वात् सदसो बहिर्भावायोगात् ॥ ७० ॥ [ इति सदोविहरणोपायः । ] ततश्चतुर्षु हविर्धानम् । तद्दशकं द्वादशकं वा ( सम- चतुरश्रम् ) ॥ ७१ ॥
ऽध्यायः ] बौधायनीयं ३१ तत इति । ततः सदश्चतुर्षु पदेषु प्रक्रमेषु वा विसृष्टेषु हविर्धानं कर्तव्यम् । तदिति । तत्सर्वतो दशप्रक्रमप्रमाणं वा, सर्वतो द्वादशप्रक्रम- प्रमाणं वा कर्तव्यम् ॥ ७१ ॥ मानयोगस्तयोर्व्याख्यातः ॥ ७२ ॥ मानयोग इति । तयोः सदोहविर्धानयोर्मानयोगः पूर्वमुक्त इत्यर्थः ॥ ७२ ॥ तत इति । मानयोग इति । प्रमाणादध्यर्धा (१।३२) मित्यादिना । सदस उदीची पृष्ट्या ॥ ७१-७२ ॥ [ इति सदोहविर्धानविहरणोपायः । ] यूपावटीयाच्छङ्कोरर्धप्रक्रममवशिष्योत्तरवेदिं विमिमीते । दशपदोत्तरवेदिर्भवतीति सोमे विज्ञायते । मानयोगस्तस्या व्याख्यातः ॥ ७३ ॥ यूपावटीयाच्छङ्कोरिति । एकतोऽणिमद्दीर्घचतुरश्रात्मिकाया वेदेः प्राक्तिर्यङ्मान्या मध्ये शङ्कु' निहन्यात् स शङ्कुर्यूपावतीय इत्युच्यते । तस्य पश्चिमप्रदेशे अर्धप्रक्रममवशिष्य ततः पश्चिमप्रदेशे उत्तरवेदिं विमिमीते । तस्याः प्रमाणप्रतिपादकं ब्राह्मणमाह—दशपदोत्तरवेदि- रिति । सर्वतो दशपदेन दण्डेन मीयमाना शतपदक्षेत्रेत्यर्थः । यद्वा दशपदक्षेत्रेत्यर्थः । "पदं तिर्यक् त्रिपदा पार्श्वमानी तस्याक्ष्णयारज्जुर्दश करणी । दशपदोत्तरवेदिर्भवती”ति कात्यायनवचनात् । चतुर्दश- तिलोनाङ्गुलत्रयसहितपदत्रयमाणेण दण्डेन सर्वतो मीयमाना दशपद- क्षेत्रोत्तरवेदिर्वेदितव्या । केचित्तु “तां युगेन, यजमानस्य वा पदैर्विमाये”ति वचनाद्युगमपि स्वतन्त्रप्रमाणमाहुः । तस्मिन् पक्षे कल्पसूत्रोक्तं क्षुद्रपदैर्मानमपि लभ्यत इति एकतोऽणिमद्दीर्घचतुरश्ररूपाप्युत्तरवेदिरनुसन्धेया । मानयोग इति । स्फुटम् ॥ ७३ ॥ यूपावटीयादिति । तस्याः प्रमाणमाह--दशपदेति । सर्वतो दशपदा क्षेत्रतः शतपदा । क्षेत्रतो दशपदा वा । अत्र कात्यायनः । पदं तिर्यक् त्रिपदा पार्श्वमानी
तस्याक्ष्णया रज्जुर्दशकरणी ( का. शु. सू. ) दशपदोत्तरवेदिर्भवतीत्यत्रापि वितृतीया वेदिर्भवतीत्यत्रोक्तन्यायेन चतुर्दशतिलानि युतमङ्गुलित्रयं पदत्रयञ्च करणीति केचित् । तां युगेन यजमानस्य वा पदैर्विमायेति (?) वचनात् । युगमिति बाहुप्रमाणमाहुः । कल्पोक्तक्षुद्रपदमानमपि लभ्यते । तस्मिन् पक्ष एकतोऽणिमद्दी- र्घचतुरस्रमुत्तरवेदिः ॥ ७३ ॥ [ इति सौमिकोत्तरवेदिविहरणोपायः । ] चात्वालः शम्यामात्रोऽपरिमितो वा ॥ ७४ ॥ चात्वाल इति । उत्तरांसादुदञ्चं प्रक्रमं प्रक्रम्य ततः सर्वतः षट्त्रिंश- दङ्गुलयः, यथेच्छं वा चात्वालः कार्य इत्यर्थः । उत्तरांसप्रभृति भाग- तृतीयेऽतीते उदक् प्रक्रमेऽतीते उत्करः ॥ ७४ ॥ चात्वाल इति । उत्तरस्मादंसात् त्रीन् प्रतीचः प्रक्रमान् प्रक्रम्योदञ्चं चतुर्थं प्रक्रम्य तच्चात्वालस्य मध्यं कुर्यात् । उत्तरांसप्रभृति भागतृतीयेऽतीत उदक् प्रक्रमेऽतीत उत्करः ॥ ७४ ॥ अथोपरवाः प्रादेशमुखाः प्रादेशान्तरालाः । अरत्निमात्रं समचतुरश्रं विहृत्य स्रक्तिषु शङ्कन् निहन्यात् । अर्धप्रादेशेनार्ध- प्रादेशेनैकैकं मण्डलं परिलिखेत् ॥ ७५ ॥ अथोपरवा इति । उपरवा गर्तविशेषाश्चत्वारः । प्रादेशपरिमित- मुखप्रदेशाः प्रादेशपरिमितपरस्परमध्यदेशाश्च कार्याः । एवं करणोपायः अरत्निमात्रमित्यादिना प्रदर्श्यते । सर्वतोऽरत्निप्रमाणं चतुरश्रं कृत्वा तस्य चतसृषु स्रक्तिषु चतुःशङ्कूनिहत्य शङ्कुष्वर्धप्रादेशप्रमाणा रज्जुः प्रतिमुच्य तया मण्डलानि परिलिख्य गर्तेषु क्रियमाणेषु प्रादेशमुखत्वं प्रादेशान्तरालत्वं च गर्तानां संपद्यत इत्यर्थः ॥ ७५ ॥ अथेति । मध्यमादौत्तरवेदिकाच्छङ्कोरनुस्पन्द्यं षट्पदानि प्रक्रम्य दक्षिणा सप्तममित्यत्रोपरवदेशस्योत्तरकाल इत्यादि योजयितव्यम् । पृष्ट्याया दक्षिणतः प्रक्रमं विहाय दक्षिणहविर्धानस्याक्षस्य पुरस्तादन- सोऽधस्तादुपरवा भवन्ति । एषां समीपे ग्रावाणो रवं कुर्वन्तीत्युपरवाः । प्रादेशमुखाः प्रादेशान्तराला भवन्तीति श्रुत्यर्थः सिध्यति । उत्तरवेद्याः क्षुद्रपदादिप्रमाणविकल्पेष्वपि सर्वत्रोपरवदेशस्यैकरूप्यमापाद्यम् । पुरस्ताद् वितृ- तीयदेशात् स्तम्बयजुर्हरंतीति स्तम्बयजुर्हरणदेशनियमादुपरवाणां कालात् स्तम्ब-
यजुर्हरतीति वचनाच्च । त्र्यग्रावपि “चतुरः प्रतीचः प्रक्रमान् प्रक्रामति दक्षिणा पञ्चममि”ति । पञ्चमान्त उपरवाणामुत्तरोंऽसो ज्ञातव्यः । ज्योतिष्टोमे षट् प्रतीच इति वचनाद् अग्नौ चतुरः प्रक्रमान् प्रतीच इति वचनात् सूत्रकारेण परित्य- क्ताभ्यां सह उत्तरवेदिप्रमाणमग्नेः पूर्वापरा परित्यज्य पूर्वक्षेत्रं षट्त्रिंशधा विभज्य प्रक्रमवृद्धिः । प्राग्वंशमानेऽपि आहवनीयार्थप्रक्रमद्वयं प्राग्वंशपूर्वापरा परित्यज्य पूर्वं षोडशधा विभज्य प्रक्रमवृद्धिः । दक्षिणोत्तरायतेष्वग्निषु सर्वं चतुर्विंशतिधा विभज्य एकोभागः प्रक्रमः ॥ ७५ ॥ [ इति चात्वालोपरवयोर्विहरणोपायः । ] सदसः पूर्वार्धाद् द्विप्रक्रममवशिष्य धिष्ण्यानां द्विप्रादेशो विष्कम्भस्तथान्तरालाः ॥ ७६ ॥ सदस इति । सदः दक्षिणोत्तरं द्वेधा विभज्य द्वयोः पूर्वार्धात् पूर्वार्धे प्राग्देशे प्रक्रमद्वयमवशिष्य विहाय ततः पश्चाद् धिष्ण्यानां द्विप्रादेशो विष्कम्भः अरत्निपरिमितः । तथान्तराला इति । सदसः प्रा (ग् ?) देशे अरत्नि (प्रक्रम ?) द्वयं विहाय ततः पश्चिमदेशे षड् धिष्ण्यान् सर्वतोऽरत्नि- प्रमाणान् चतुरश्राम्मध्ये अरत्निमात्रान्तरालं मित्वा विहृत्य “चतुरश्रं मण्डलमि”(१।४७)“त्यादिना परिमण्डलं कुर्यादिति ॥ ७६ ॥ सदस इति । प्रक्रमद्वये गते विष्ण्यानां पूर्वावधिः । तेषां प्रादेशतो भ्रमः । पृष्ट्यायां होत्रीयं तं दक्षिणेन प्रशस्त्रीयमुत्तरेण होत्रीयमितरानुदीच आयातयति ब्राह्मणाच्छंसिनः पोतुर्नेष्टुरच्छावाकस्येति ॥ ७६ ॥ [ इति धिष्ण्यानां विहरणम् । ] आग्नीध्रागारस्य पार्श्वमानी पञ्चारत्निः ॥ ७७ ॥ आग्नीध्रागारस्येति । कल्पसूत्रोक्तप्रकारेण महावेद्या उत्तरादंसा- दारभ्य प्रतीच अष्टादशप्रक्रमान् मित्वा तत्रासीध्रस्यागारं गृहं पूर्वतः पञ्चारत्निप्रमाणकं यथा अन्तवेद्यर्धं बहिर्वेद्यर्धं भवतीति तथा कृत्वा तस्य दक्षिणं द्वारं कुर्वन्ति ॥ ७७ ॥ आग्नीध्रेति । महावेद्या उत्तरादंसादारम्य उत्तरपार्श्वस्यार्धे गत आग्नीध्रीयागारं पञ्चारत्निसमचतुरस्रम् । तस्य दक्षिणा (?) द्वारं कुर्वन्ति ॥ ७७ ॥ ६
४२ शुल्बसूत्रम् [ प्रथमो- एतेन मार्जालीयो व्याख्यातः। तस्योदीचों द्वारं कुर्वन्ति ॥ ७८ ॥ एतेनेति । एवमेव दक्षिणप्रदेशे मार्जालीयं कृत्वा तस्योदीचीं द्वारं कुर्यादित्यर्थः ॥ ७८ ॥ एतेनेति । दक्षिणादंसादारभ्य दक्षिणपार्श्वमध्ये मार्जालीयमध्यम्। मार्जा- लीयागारोऽपि पञ्चारत्निः समचतुरस्रः। तयोरागारमध्ययोर्मध्ये द्विप्रादेशावाग्नीध्रमार्जालीयौ ॥ ७८ ॥ [ इति आग्नीध्रमालीयागारविहरणम् । ] रथाक्षान्तराला यूपावटा भवन्तीत्येकादशिन्यां विज्ञायते । तस्या दशानाञ्च रथाक्षाणामेकादशानाञ्च पदानामष्टाङ्गु- लस्य च चतुर्विंशं भागमाददीत । स प्रक्रमः स्यात् । तेन वेदिं विमिमीते ॥ ७९ ॥ यूपैकादशिन्यां यूपावटान्तरालप्रमाणप्रतिपादकब्राह्मणमाह—रथा- क्षेति। यूपावटानामन्तराला मध्यदेशा रथाक्षपरिमाणाश्चतुरधिकशता- ङ्गुलप्रमाणा इत्यर्थः । एवञ्च अन्तरालार्थं रथाक्षप्रमाणं, यूपा- वटार्थं एकादशपदप्रमाणञ्च प्राग्देशे दक्षिणोत्तरं यथा भवति तथा वेदिः कार्या। एतदनुसारेण पश्चाद्देशे दक्षिणोत्तरं पार्श्वद्वयेऽपि प्राक् प्रत्यक् वेदिं कुर्यादित्यर्थः । नन्वेतंर्हि “त्रिंशत् पदानि प्रक्रमा वा पश्चादि”त्यादिश्रुतिविरोध इत्या- शङ्क्याह—तस्या इति। तस्या यूपैकादशिन्याः दशानां रथाक्षाणां चत्वा- रिंशदधिकसहस्राङ्गुलानामेकादशानाञ्च पदानां पञ्चषष्ट्युत्तरशताङ्गुलानां, अष्टाङ्गुलस्य च योगे त्रयोदशोत्तरशतद्वयाधिकसहस्राङ्गुलयः सम्पन्नाः । तासां चतुर्विंशभागं चतुर्विंशांशसहिताष्टादशतिलानि (तिलचतुर्विंशांश सहितं सार्धपादतिलार्धांगुलोत्तर ) १ पञ्चाशदङ्गुलञ्च प्रमाणमाददीत गृह्णीयात् । स एवंभूतो भागः प्रक्रम इत्युच्यते ।
ऽध्यायः ] बौधायनीयं ४३ अयमर्थः—एवंभूतप्रमाणेन प्रक्रमेण “त्रिंशत् पदानि प्रक्रमा वे”त्यादिप्रकारेण महावेदिं कुर्यात् ॥ ७९ ॥ रथेति । तत्र प्रकारमाह । तस्या इति । दशानाञ्च रथाक्षाणां चत्वारिंशदधिक- सहस्राङ्गुलानाम् । एकादशानाञ्च पदानां यूपावटविष्कम्भाणां पञ्चषष्ट्यधिकशताङ्गु- लानाम् । अष्टाङ्गुलस्य च । कल्पे एकादशिनीविधावग्निष्ठस्य दक्षिणोत्तरेण यूपौ चतुरङ्गुलेन विप्रकृष्टौ भवत इत्युक्तम् । तस्मादष्टाङ्गुलस्य च । एतेषां त्रयाणां चतु- र्विंशभागमष्टादशतिलसहितं पञ्चाशदङ्गुलमाददीत । स इति । एकादशिनीवत्या महावेदेः । तेनेति । त्रिंशत् पदानीत्यादि ॥ ७९ ॥ अथाश्वमेधे विंशत्याश्च रथाक्षाणामेकविंशत्याश्च पदानाम- ष्टाङ्गुलस्य चतुर्विंशं भागमाददीत । स प्रक्रमः स्यात् । तेन वेदिं विमिमीते ॥ ८० ॥ अथाश्वमेध इति । अथाश्वमेधे “यूपैकादशिनो” न्यायेन एकविंशति- यू
वचनात् । अप्राच्यैकादशिन्याम् अष्टाङ्गुलाधिकस्य संयोजनं विद्यते, तद्विनापि वेद्यंस-योगसंभवात् । दक्षिणोत्तरैकादशिन्यान्तु अधिकाष्टाङ्गुल- संयोजनं विना वेद्यंसयोरसंभवात् तदावश्यकम् । व्यतिषङ्गश्च न विद्यते । पशूनां व्यतिषङ्गः “सारस्वतीमुत्तरा”मित्यादिकः प्राच्यैका- दशिन्यां नास्ति । किन्तु आग्नेयप्रभृतीन् पशूनसृिष्टान् प्रभृति यूपेषु क्रमेण नियोजयेत् ॥ ८१ ॥ अथेति । महावेदेः पूर्वभागे यूपार्थं स्थापितं पञ्चशतद्वयाधिकसहस्राङ्गुलायत पदार्धव्याससमपच्छिद्य तत्पुरस्तात् प्राञ्चं दध्यात् । यावद् यूपं वेदिमुद्धन्तीति वचनात् । तत्रापि वेदिसंस्काराः क्रियन्ते । प्राची यूपपङ्क्तिः । नेति । अष्टाङ्गुलं न विद्यते । अथेमावुपस्तावानौ चतुरङ्गुलमात्रेण विप्रकृष्टौ स्यातामिति । नेति ॥ ८१ ॥ यूपावटाः पदविष्कम्भाः ॥ ८२ ॥ यूपावटा इति । अर्धपदेन परिखेननम् । यूपावटा अर्धपदेन परि- लेखनेन पदविष्कम्भा भवन्ति ॥ ८२ ॥ यूपेति । अर्धपदेन परिखेननम् ॥ ८२ ॥ त्रिपदपरिणाहानि यूपोपराणीति ॥ ८३ ॥ त्रिपदेति । यूपोपराणि यूपमूलानि त्रिपदपरिणाहानीति त्रिपद- विशालानि भवन्ति ॥ ८३ ॥ इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्त- वाजपेययाजिगोविन्ददीक्षितवरनन्दनस्य, सर्वतन्त्रस्वतन्त्रसाग्निचित्यसर्व- पृष्ठाप्तोर्यामयाजिश्रीयज्ञनारायणदीक्षितानुजस्य, तच्छिष्यतालब्धसमस्त- विद्यावैशद्यस्य, साग्निचित्याप्तवाजपेययाजिश्रीव्यङ्कटेश्वरदीक्षितस्य कृतिषु बोधायनशुल्बमीमांसायां प्रथमोऽध्यायः ॥ त्रिपदेति । उपराणि मूलानि ॥ ८३ ॥ [ इति प्रक्रमादिविशेषनिर्णयः । ] इति बौधायनीयशुल्बसूत्रव्याख्यायां शुल्बदीपिकायां प्रथमोऽध्यायः ॥
अथ द्वितीयोऽध्यायः अर्धाष्टमाः पुरुषाः प्रथमोऽग्निः । अर्धनवमा द्वितीयः । अर्ध- दशमास्तृतीयः । एवमुत्तरोत्तरः । विधाभ्यास ऐकशतविधात् । तदेतत् सप्तविधप्रभृत्येकशतविधान्तम् ॥ १ ॥ क्षेत्रादिमानोपायादीन् दर्शयित्वा सर्वाग्निसाधारण्येनाग्निधर्मानह— अर्धाष्टमा इति । अर्धपुरुषा अष्टमो येषां ते अर्धाष्टमाः । सार्धसप्तपुरुष- प्रमाणक्षेत्रः प्रथमोऽग्निश्चेतव्य इति इत्यर्थः । नन्वत्र सार्धसप्तपुरुषप्रमाणः प्रथमोऽग्निरित्युच्यते । कल्पसूत्रे तु “षड्- विधं वा सप्तविधं वा द्वादशविधं वा यावद्विधं वा चेष्यमाणो भवति” इत्युच्यते । तत्र षड्विधादिकथनं किं प्रथमाग्न्यभिप्रायम् ? उत द्वितीयाद्यभिप्रायम् ? नाद्य “अर्धाष्टमाः पुरुषाः प्रथमोऽग्नि” रित्येतत्सूत्र- विरोधात्
४४ शुल्बसूत्रम् [ प्रथमो-
वचनात् । अप्राच्येकादशिन्याम् अष्टाङ्गुलाधिकस्य संयोजनं विद्यते, तद्विनापि वेद्यंस-योगसंभवात् । दक्षिणोत्तरेकादशिन्यान्तु अधिकाष्टाङ्गुल- समायोजनं विना वेद्यंसयोरसंभवात् तदावश्यकम् । व्यतिषङ्गश्च न विद्यते । पशूनां व्यतिषङ्गः “सारस्वतीमुत्तरा”मित्यादिकः प्राच्येका- दशिन्यां नास्ति । किन्तु आग्नेयप्रभृतीन् पशूनसिष्टान् प्रभृति यूपेषु क्रमेण नियोजयेत् ॥ ८१ ॥ अथेति । महावेदेः पूर्वभागे यूपार्थं स्थापितं पञ्चशतद्वयाधिकसहस्राङ्गुलायत पदार्धोन्यासम्पच्छिद्य तत्पुरस्तात् प्राञ्चं दध्यात् । यावद् यूपं वेदिमुद्धन्तीति वचनात्। तत्रापि वेदिसंस्काराः क्रियन्ते । प्राची यूपपङ्क्तिः । नेति । अष्टाङ्गुलं न विद्यते । अथेमावुपस्तावानौ चतुरङ्गुलमात्रेण विप्रकृष्टौ स्यातामिति । नेति ॥ ८१ ॥ यूपावटाः पदविष्कम्भाः ॥ ८२ ॥ यूपावटा इति । अर्धपदेन परिलेखनम् । यूपावटा अर्धपदेन परि- लेखनेन पदविस्कम्भा भवन्ति ॥ ८२ ॥ यूपेति । अर्धपदेन परिलेखनम् ॥ ८२ ॥ त्रिपदपरिणाहानि यूपोपराणीति ॥ ८३ ॥ त्रिपदेति । यूपोपराणि यूपमूलानि त्रिपदपरिणाहानीति त्रिपद- विशालानि भवन्ति ॥ ८३ ॥ इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्त- वाजपेययाजिगोविन्ददीक्षितवरनन्दनस्य, सर्वतन्त्रस्वतन्त्रसाग्निचित्यसर्व- पृष्ठाप्तोर्यामयाजिश्रीयज्ञनारायणदीक्षितानुजस्य, तच्छिष्यतालब्धसमस्त- विद्यावैशद्यस्य, साग्निचित्याप्तवाजपेययाजिश्रीव्यङ्कटेश्वरदीक्षितस्य कृतिषु बोधायनशुल्बमीमांसायां प्रथमोऽध्यायः ॥ त्रिपदेति । उपराणि मूलानि ॥ ८३ ॥ [ इति प्रक्रमादिविशेषनिर्णयः । ] इति बौधायनीयशुल्बसूत्रव्याख्यायां शुल्बदीपिकायां प्रथमोऽध्यायः ॥
अथ द्वितीयोऽध्यायः अर्धाष्टमाः पुरुषाः प्रथमोऽग्निः । अर्धनवमा द्वितीयः । अर्ध- दशमास्तृतीयः । एवमुत्तरोत्तरः । विधाभ्यास एकशतविधात् । तदेतत् सप्तविधप्रभृत्येकशतविधान्तम् ॥ १ ॥ क्षेत्रादिमानोपायादीन् दर्शयित्वा सर्वाग्निसाधारण्येनाग्निधर्मानाह— अर्धाष्टमा इति । अर्धपुरुषा अष्टमो येषां ते अर्धाष्टमाः । सार्धसप्तपुरुष- प्रमाणक्षेत्रः प्रथमोऽग्निश्चेतव्य इति इत्यर्थः । नन्वत्र सार्धसप्तपुरुषप्रमाणः प्रथमोऽग्निरित्युच्यते । कल्पसूत्रे तु “षड्- विधं वा सप्तविधं वा द्वादशविधं वा यावद्विधं वा चेष्यमाणो भवति” इत्युच्यते । तत्र षड्विधादिकथनं किं प्रथमाग्न्यभिप्रायम् ? उत द्वितीयाद्यभिप्रायम् ? नाद्य “अर्धाष्टमाः पुरुषाः प्रथमोऽग्नि”रित्येतत्सूत्र- विरोधात् । न द्वितीयः सार्धसप्तपुरुषप्रमाणप्रथमाग्निचयनानन्तरं “न ज्या- यांसं चित्वा कनीयांसं चिन्वीते”ति श्रुतिविरोधेन षड्विधसप्तविधयो- रनुष्ठानायोगात् । द्वादशविधस्य वक्ष्यमाणपुरुषाभ्यासप्रकारेषु कदाऽप्य- प्रसक्तेः । “यावद्विधं वे”त्येतच्चात्यन्तमनुपपन्नं “एकशत विधान्त”मिति सूत्रोक्तनियमविरोधात् । “अर्धाष्टमाः पुरुषाः प्रथमोऽग्निरि”त्युपक्रम्य तस्मात् सप्तविध एव प्रथमोऽग्निरित्युपसंहारविरोधाच्च । न सार्धसप्त- पुरुषाग्निप्राथम्यकथनं सपक्षपुच्छाग्निविषयम् । षड्विधाद्यग्निस्तु अपक्ष- पुच्छ इति तस्य प्राथम्येऽपि न विरोधः । “न ज्यायांस”मिति श्रुतेः सपक्षपुच्छाग्निप्रकरणस्थत्वेन तद्विषयतया षड्विधादीनां द्वितीयादिभावे- ऽप्यविरोधः सावित्र-गार्हपत्याद्यग्नेरिव । एवं षड्विधं तदप्युपपन्नं सप्तविधानन्तरम् एकैकपुरुषाभ्यासे द्वादशविधः संभवत्येव । “एक- शतविधान्त”मिति नियमस्य “अर्धाष्टमाः पुरुषाः प्रथमोऽग्नि”रित्युप-