बृहत्संहिता (आचार्य वराहमिहिर - स्थापत्य, खगोल, मौसम व जल विज्ञान)
Brihat Samhita of Varahamihira with Hindi Commentary
आचार्य वराहमिहिर / डॉ. सुरेशचन्द्र शास्त्री द्वारा
82 बृहत्संहितायाम् [Adh. VII. Sl. 5-7 honey, jaggery and the like will rise in price ; but there will be plenty of food-crops. तथा च कश्यपः हस्तादीनि चरन् षड्वै नक्षत्राणीन्दुनन्दनः । गवामशुभदः प्रोक्तः सुभिक्षक्षेमकारकः ॥ आर्यम्णं हौतभुजं भद्रपदामुत्तरां यमेशं च । चन्द्रस्य सुतो निघ्नन् प्राणभृतां धातुसङ्क्षयकृत् ॥५॥ Sloka 5—If Mercury in his transit should cut through the stars Uttaraphalguni, Krittika, Uttarabhadrapada and Bharani, all creatures will be afflicted with diseases caused, by the seven constituent elements of the body, viz, muscle, bone, blood, skin, semen, fat and marrow. तथा च कश्यपः । भरणीकृत्तिकार्यम्णमहिर्बुध्नं च चन्द्रजः । चरन्धातुविनाशाय प्राणिनां परिकीर्तितः ॥ आश्विनवारुणमूलान्युपमृद्नन् रेवतीं च चन्द्रसुतः । पण्याभिषग्नौजीविकसलिलजतुरगोपघातकरः ॥६॥ Sloka 6.—When Mercury passes through the stars Aswini, Satabhishak, Moola and Revati, the trading class physicians, sailors, substances derived from water such as pearls and conchs, and horses will suffer destruction. तथा च कश्यपः । रेवतीं वारुणं मूलमाश्विनीं चोपमर्दयन् । बुधो वणिग्भिषग्वाहान् जलोत्थांश्च विनाशयेत् ॥ पूर्वावृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्नीयात् । क्षुच्छस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥७॥ Sloka 7.—When Mercury cuts through Purvaphal- guni, Purvashadha or Purvabhadra, people will suffer from hunger ; war will break out, and there will be danger from thieves and diseases.
Adh. VII. Sl. 8-11] : सप्तमोऽध्यायः 83 पूर्व्वाग्नये चरन् सौम्यो भेदं कृत्वा यदि व्रजेत् । क्षुच्छस्त्रतस्करभयैः करोति प्राणिनां वधम् ॥ प्राकृतविमिश्रसङ्क्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः । सप्त पराशरतन्रे नक्षत्रैः कीर्त्तिता गतयः ॥८॥ Sloka 8.—In Parasara's Tantra, the following seven courses (or gaits) have been declared for Mercury as distinguished by the several asterisms : (1) Prakrita (2) Vimisra (3) Sankshipta (4) Theekshna (5) Yogantha (6) Ghora and (7) Papakhya. प्राकृतसञ्ज्ञा वायव्ययाम्यपैनामहानि बहुलाश्च । मिश्रा गतिः प्रदिष्टा शशिशिवपितृभुजगदेवानि ॥९॥ सङ्क्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति । तीक्ष्णायां भद्रपदाद्वयं सशक्राश्वयुक् पौष्णम् ॥१०॥ योगान्तिकेति मूलं द्वे चाषाढे गतिः सुतस्येन्दोः । घोरा श्रवणस्त्वाष्ट्रं वसुदैवं वारुणं चैव ॥११॥ पापाख्या सावित्रं मैत्रं शक्राग्निदैवतं चेति । Slokas 9-11½—The course is known as Prakrita when Mercury passes through any of the asterisms Swati, Bharani, Rohini and Krittika. It is termed Misra when he transits any of the stars Mrigasira, Ardra, Magha and Aslesha. The gait is called Sankshipta when Mercury travels through Pushya, Punarvasu, Purvaphalguni and Uttara phalguni. The course is Theekshna when he moves through Purvabhadra, Uttarabhadra, Jyeshta Aswini and Revati. It is Yoganta when Mercury passes over Moola, Purvashadha or Uttarashadha. If the transit be through the stars Sravana, Chittra, Dhanishta and Satabhishak, it is called Ghora. Lastly, it is called Papakhya when his passage is over the stars Hasta, Anuradha and Visakha.
84 बृहत्संहितायाम् [Adh. VII. Sl. 12-13 उदयप्रवासादिवसैः स एव गतिलक्षणं प्राह ॥१२॥ चत्वारिंशत् त्रिंशत् द्विसमेता विंशतिर्दिनवकं च । नव मासार्द्धं दश चैकसंयुताः प्राकृताद्यानाम् ॥१३॥ Slokas 12-13.—The measures in days for the rising and setting of Mercury in his seven courses are 40, 30, 22, 18, 9, 15 and 11 days respectively. तथा च वृद्धगर्गः चत्वारिंशत्प्राकृतायां गतावालक्ष्यते बुधः । मासमेकं विमिश्रायां दर्शयित्वास्तमर्हति ॥ अह्नां द्वाविंशतिं सार्द्धं सङ्क्षिप्तामेत्य लक्ष्यते । अष्टादशाहं तीक्ष्णायां घोरायां दश पञ्च च ॥ पापायां पादहीनानि तथैकादश तिष्ठति । योगाम्तिक्यामिन्दुसूनुर्नवाहं लक्ष्यते तथा ॥ चारकालो य एवोक्तः सोमपुत्रस्य भागशः । अस्तकालः स एव स्यात्सूर्यमण्डलचारिणः ॥ तथा च कश्यपः चत्वारिंशत्तथा त्रिंशद्दिनानि द्वौ च विंशतिः । अष्टादशार्द्धमासं च दश चैकयुतानि च ॥ नव च प्राकृताद्यासु सोमजस्तूदितस्तथा । अस्तं गतः सर्वकालं तिष्ठतीति विनिश्चयः ॥ But the above is not approved by Varahamihira for he has said as follows in the समाससंहिता. प्राकृतविमिश्रसङ्क्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः । गतयो लक्षणमासां नोदयदिवसैः स्फुटं भवति ॥ स्पष्टा पराशरमते स्वाती च प्राकृता त्रिभं याम्यात् । मिश्रा गतिः शशिशेखरभुजगपितृदेवतासौम्यैः ॥ सङ्क्षिप्ता नाम गतिः पुनर्वसुः फल्गुनीद्वयं पुष्यः । तीक्ष्णा भद्रपदायं नक्षत्रचतुष्टयं ज्येष्ठा ॥ मूलत्रयुक्तं योगा घोरा श्रवणत्रिभं च सत्वाष्ट्रम् । पापाख्या तु विशाखा हस्तो मैत्रं च शशिसूनोः ॥
Adh. VII. Sl. 14-16] सप्तमोऽध्यायः 85 प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम् । संक्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम् ॥१४॥ Sloka 14.—In the Prakrita course of Mercury, the people will command good health ; there will be suffi- cient rain, good crops and general happiness. In the Sankshipta and Misra courses, the effect will be mixed ; and it will be reverse in the other courses. तथा च गर्गः । क्षेमारोग्यसुभिक्षेषु लक्षणा प्राकृता गतिः । संक्षिप्ता च विमिश्रा च शुभाशुभफलोदये ॥ तीक्ष्णा घोरा च पापा च तथा योगान्तिकापरा । एताश्चतस्रः सौम्यस्य दुर्भिक्षाक्षेमलक्षणाः ॥ ऋज्व्यतिवक्रा वक्रा विकला च मतेन देवलस्यैताः । पञ्चचतुर्द्व्येकाहा ऋज्व्यादीनां षडभ्यस्ताः ॥१५॥ Sloka 15.—According to Devala's view, the effects of ऋज्वी—direct, अतिवक्रा—exceedingly retro-grade, वक्रा— retrograde and विकला-decayed motions of Mercury will last for (5 × 6 =) 30, (4 × 6 =) 24, (2 × 6 =) 12, and (1 × 6 =) 6 days. ऋज्वी हिता प्रजानामतिवक्रार्घं गतिर्विनाशयति । शस्त्रभयदा च वक्रा विकला भयरोगसञ्जननी ॥१६॥ Sloka 16.—Mercury when his motion is ऋज्वी or direct does good to the people, while his over retrograde motion brings on famine by destroying the wealth (of the country). When he is retrograde in his motion he will bring on war in the land; and when his motion is decayed or weak; he engenders fear and disease. तथा च देवलः । दिनानि त्रिंशदुदितस्तिष्ठेद्यदि च सोमजः । ऋज्वी गतिः सा विज्ञेया प्रजानां हितकारिणी ॥
86 वृहतंसंहितायाम् [Adh. VII. Sl. 17-18
चतुर्विंशदिनान्येवं यदि तिष्ठेच्च सोमजः । अतिवक्रा गतिर्ज्ञेया दुर्भिक्षगतिक्षणा ॥ अहानि द्वादश यदा बुधास्तङ्गेत्तथोद्गतः । वक्रा गतिः सा विज्ञेया शरत्रसम्भ्रमकारिणी ॥ षड्दिनानि यदा तिष्ठेदुद्गतः सोमनन्दनः । विकला सा गतिर्ज्ञेया भयरोगविवर्धिनी ॥ एवमस्तमये सर्वं गतिजं सोमजस्य तु । भावाभावाय लोकानां फलं वाच्यं शुभाशुभम् ॥ पौषाषाढश्रावणवैशाखेष्विन्दुजः समाघेषु । दृष्टो भयाय जगतः शुभफलकृत्प्रोषितस्तेषु ॥१७॥ तथा च वृद्धगर्गः वैशाखपौषमाघेषु श्रावणाषाढयोरपि । न दृश्यते बुधः प्रायो मासेष्वन्येषु दृश्यते ॥ यदाऽदृश्येषु दृष्टः स्याद्दृश्येषु च न दृश्यते ॥ गवां रोगमनावृष्टिं दुर्भिक्षं चापि निर्दशेत् ॥ तथा च पराशरः । वैशाखाषाढयोर्माघे पौषश्रावणयोस्तथा । बुधो न दृश्यते जातु दृश्येत भयमादिशेत् ॥ पौषे करोति मरकं माघे वातं तथा च सोमसुतः । वैशाखे जनमरकमाषाढे श्रावणे च दुर्भिक्षम् ॥ कार्त्तिकेऽश्वयुजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः । शस्त्रचौरहुतभुग्गदतोयक्षुद्भयानि च तदा विदधाति ॥१८॥
Adh. VII. Sl. 19-20. VIII-1] अष्टमोऽध्यायः 87 रुद्धानि सौम्येऽस्तगते पुराणि यान्युद्गते तान्युपयान्ति मोक्षम् । अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवतीति तज्ज्ञाः ॥१९॥ Sloka 19.—When Mercury is eclipsed, towns will be besieged and when he emerges out from the Sun, the siege over these towns will be raised. According to another view, there will occur the retaking possession of these towns only when Mercury is seen in the west. तथा च नन्दी । पश्चार्द्धांङ्गुदिते सौम्ये लभते पुररोधकः । पुनः प्रागुदिते तस्मिन् पुरमोक्षं विनिर्दिशेत् ॥ हेमकान्तिरथवा शुकवर्णः सस्यकेन मणिना सदृशो वा । स्निग्धमूर्तिरलघुश्च हिताय व्यत्यये न शुभकृच्छशिपुत्रः ॥२०॥ Sloka 20.—When Mercury is of golden hue or of parrot colour or resembles the colour of the Sasyaka (saphire ?) gem, or if his disc be glossy and big in size, he will prove beneficial to the people; if he be otherwise, he will prove malefic. तथा च पराशरः । विमलजलरजतस्फटिकाभः प्रशस्त इति ॥ Thus ends the seventh Adhyaya on the ‘course of Mercury’. बृहस्पतिचारः ।८॥ Jupiter. नक्षत्रेण सहोदयमुपगच्छति येन देवपतिमन्त्री । तत्सञ्ज्ञं वक्तव्यं वर्षं मासक्रमेणैव ॥१॥ Sloka 1—Note the asterism occupied by Jupiter when he emerges out from his conjunction with the Sun. The name of that star has to be given ito the year, and
88 बृहत्संहितायाम् [Adh. VIII. Sl. 2 the succeeding years will bear the names of the months in their regular order. तथा च ऋषिपुत्र आह । यत्रोत्तिष्ठति नक्षत्रे सह येन प्रवर्धते । संवत्सरः स विज्ञेयस्तन्नक्षत्रविधायकः ॥ तथा च काश्यपः संवत्सरे युगे चैव षष्ठ्यब्दे ऽङ्गिरसः सुतः । यन्नक्षत्रोदयं कुर्यात्तत्सञ्ज्ञं वत्सरं विदुः ॥ प्रभवादीनामब्दानां प्रवृत्तिर्गुरोरुदयकालादित एव यतोगुरुरत्रावाधितत्वेन स्थितः। तथा च ऋषिपुत्र आह । तिष्यादि च युगं प्राहुर्वासिष्ठात्रिपराशराः । बृहस्पतेस्तु सौम्यन्तं सदा द्वादशवार्षिकम् ॥ उदेति यस्मिन्मासे तु प्रवासोपगतोऽङ्गिराः । तस्मात्संवत्सरो मासो बार्हस्पत्योऽथ गम्यते ॥ तथा च गर्गः प्रवासान्ते सहर्क्षेण तूदितो युगपच्चरेत् । तस्मात्कालादृक्षंपूर्वो गुरोरब्दः प्रवर्तते ॥ युगानि द्वादशाब्दानि तत्र तानि बृहस्पतेः । तत्र सावनसौराभ्यां सावनाब्दो निरुच्यते ॥ एवमाश्वयुजं चैव चैत्रं चैव बृहस्पतिः । संवत्सरं नाशयते सप्तत्यब्दशतेऽधिके॥ वर्षाणि कार्तिकादीन्याग्नेयाद्गद्वयानुयोगीनि । क्रमशःत्रिभं तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षम् ॥२॥ Sloka 2.—The years commence from Kartika and are composed of two asterisms each beginning with Krittika and follow in regular order. But the 5th, the 11th and the 12th year comprise each three asterisms. तथा च गर्गः फाल्गुनी चैव हस्तं च चरेद्यदि बृहस्पतिः । स फाल्गुनोऽब्दः क्रूरः स्याद्धान्यमुच्चाटतां व्रजेत् ॥
Adh. VIII. Sl. 3-4] अष्टमोऽध्यायः 89 श्रावणादीनि च त्रीणि चरेद्यदि बृहस्पतिः । श्रावणो नाम सोऽब्दः स्यात्क्षेमसौभिक्षमूर्तिमान् ॥ पूर्वोत्तरे प्रोष्ठपदे चरेदेवातिभेव च । प्रोष्ठपाद इति ज्ञेयो मध्यमो वत्सरो हि सः ॥ आश्विनं चैव याम्यं च चरेद्यदि बृहस्पतिः । संवत्सरः सोऽश्वयुक् स्यात्सर्वभूतहितावहः ॥ नववारा द्विनक्षत्रा गुरोर्द्वादशमासिकाः । शेषास्त्रयस्त्रिनक्षत्राः पञ्चमैकादशान्तिमाः ॥ तथा च काश्यपः । कार्तिकादिसमा ज्ञेया द्विनक्षत्रविचारिणा । त्रिभं भाद्रपदे ज्ञेयं फाल्गुने श्रावणे तथा ॥ शकटानलोपजीवकगोपीडा व्याधिशस्त्रकोपश्च । वृद्धिस्तु रक्तपीतककुसुमानां कार्तिके वर्षे ॥३॥ Sloka 3. — In the Kartika year, cartmen, those living by fire and cows suffer. Diseases will crop up and there will be war. Red and yellow flowers will grow in large quantities. तथा च गर्गः । कार्तिकः प्रचुरातङ्कः क्षुच्छस्त्राग्निभयप्रदः । गोशाकटिकपीडां च करोत्येवमवृष्टिदः ॥ सौम्येऽब्देऽनावृष्टिर्मृगाखुशलभाण्डजैश्च सस्यवधः । व्याधिभयं मित्रैरपि भूपानां जायते वैरम् ॥४॥ Sloka 4.—In the Margasira year of Jupiter, there will be drought. The crops will be affected by wild animals, rats, locusts and birds. There will be outbreak of diseases, and kings will have dissensions even with their friends. तथा च गर्गः वर्षहन्ता व्याधिकरो मिथो भेदभयावहः । शलभाद्याकुलः सौम्यो दुर्भिक्षभयकारकः ॥ बृ. सं. 12
90 बृहत्संहितायाम् [Adh. VIII. Sl. 5-7. शुभकृज्जगतः पौषो निवृत्तवैराः परस्परं क्षितिपाः । द्वित्रिगुणो धान्यार्घः पौष्टिककर्मप्रसिद्धिश्च ॥५॥ Sloka 5.—The Pausha year of Jupiter will prove auspicious to all. Kings will leave their enmity and will become mutually friendly. There will be a rise* in the price of corn by 200 or 300 per cent. Preservative work will increase. *According to the Commentator, a fall. तथा च गर्गः । प्रशान्तव्याधिदुर्भिक्षदुर्वर्षाशनितस्करः । सर्वलक्षणसम्पन्नः पौषः संवत्सरोत्तमः ॥ पितृपूजापरिवृद्धिर्माघे हार्दिश्च सर्वभूतानाम् । आरोग्यवृष्टिधान्यार्घसम्पदो मित्रलाभश्च ॥६॥ Sloka 6.—In the Magha year of Jupiter, people will be interested in the worship of their Manes; and there will be a general feeling of satisfaction among all the creatures. General health will be good and there will be timely rains. The crops will be plenty and there will be good sales. Friendship among men will be on the increase. तथा च गर्गः क्षेमारोग्यं सुभिक्षं च वर्षण शिवमेव च । पितृपूजाः प्रवर्त्तन्ते माघे राज्ञां च सन्धयः ॥ फाल्गुनवर्षे विन्द्यात्क्वचित्क्वचित्क्षेमवृष्टिसस्यानि । दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चोग्राः ॥७॥ Sloka 7.—In the Phalguna year of Jupiter, happiness will prevail only here and there ; so also will be the case with regard to rain and the crops. Young women will suffer ill luck ; thieves will enormously increase and kings will become cruel and severe.
Adh. VIII. Sl. 8-10. ] अष्टमोऽध्यायः 91 तथा च गर्गः । नारीदौर्भाग्यकृच्चौरः फाल्गुनः सस्यवर्षदः । क्वचित्क्षेमं सुभिक्षं च क्वचिदक्षेमकारकः ॥ चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः । वृद्धिश्च कोशधान्यस्य भवति पीडा च रूपवताम् ॥८॥ Sloka 8.—In the Chaitra year of Jupiter, the rains will be slight. Food will become costly; people will be happy and kings will be kind-hearted. Pulses will thrive. Handsome persons will suffer. तथा च गर्गः । मृदुप्रचारा राजानः प्रियमन्नं जनस्य च । क्षेमारोग्यं च सुद्रुता चैत्रवर्षस्तथा मृदुः ॥ वैशाखे धर्मरता विगतभयाः प्रमुदिताः प्रजाः सनृपाः । यज्ञक्रियाप्रवृत्तिर्निष्पत्तिः सर्वसस्यानाम् ॥९॥ Sloka 9.—In the Vaisakha year of Jupiter, people will be intent on doing virtuous deeds, will be devoid of fear and will be happy along with their kings. People will be engaged in performing sacrifices and other rites and there will be abundance of all kinds of crops. तथा च गर्गः । ईतयः प्रशमं यान्ति सन्धिं कुर्वन्ति पार्थिवाः । वैशाखे तु सस्यजन्या वृष्टयः सम्भवन्ति हि ॥ ज्येष्ठे जातिकुलधन श्रेणीश्रेष्ठा नृपाः सधर्मज्ञाः । पीड्यन्ते धान्यानि च हित्वा कङ्गुं शमीजातिम् ॥१०॥ Sloka 10.—In the Jyeshta year of Jupiter, people who are prominent by birth (or caste), family, opulence and trade, kings and men of righteous conduct will come to grief. So also will the crops except Kangu and those of the Samee class. सबीजानि is another reading for शमीजातिम्.
92 बृहत्संहितायाम् [Adh. VIII. Sl. 11-13 तथा च गर्गः । वृक्षगुल्मलतासस्यक्षेमवर्षविनाशनः । क्रूराङ्गादीसिजननो ज्यैष्ठो ज्येष्ठनृपान्तकृत् ॥ आषाढे जायन्ते सस्यानि क्वचिदवृष्टिरन्यत्र । योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः ॥११॥ Sloka 11.—In the Ashadha year of Jupiter, there will be crops here and there and no rain in other places. The luck and happiness (of people) will only be medium. Kings will begin to be extremely active. तथा च गर्गः । दुर्भिक्षाक्षेमजननश्चाषाढोऽन्योन्यभेदकृत् । भूपालयुद्धजननो मध्यमक्षेमकारकः । श्रावणवर्षे क्षेमं सम्यक् सस्यानि पाकमुपयान्ति । क्षुद्रा ये पाखण्डाः पीड्यन्ते ये च तद्भक्ताः ॥१२॥ Sloka 12.—In the Sravana year of Jupiter, there will be general happiness and the produce of lands will be plentiful. Heretics and base-minded men along with their followers will suffer. तथा च गर्गः । श्रावणः सस्यसम्पन्नः क्षेमारोग्यकरः शिवः । धान्यं समर्धतां याति सम्यग्वर्षति वासवः ॥ क्षुद्रान् पाखण्डिनः सर्वान् तद्भक्तांश्चोपतापयेत् । भाद्रपदे वल्लींजं निष्पत्तिं याति पूर्वसस्यं च । न भवत्यपरं सस्यं क्वचित्सुभिक्षं क्वचिच्च भयम् ॥१३॥ Sloka 13.—In the Bhadrapada year of Jupiter, the yield of creepers (such as green grams) and the first crop will reach their fruition. There will be no second crop in the year. Food grains will be plenty only in some places. There will be panic or fear in other parts.
Adh. VIII. Sl. 14-18] अष्टमोऽध्यायः 93 तथा च गर्गः । प्रौष्ठपादसस्यजननो नाशयत्यपरं च यत् । करोति च कचित्क्षेमं कचिदक्षेमकारकः ॥ आश्वयुजेऽब्देऽजस्रं पतति जलं प्रमुदिताः प्रजाः क्षेमम् । प्राणचयः प्राणभृतां सर्वेषामन्नबाहुल्यम् ॥१४॥ Sloka 14.—In the Aswayuja year of Jupiter, there will be frequent rain ; people will be happy and con- tented. All living beings will grow strong and food will be in plenty for all. तथा च वृद्धगर्गः । पर्याप्तसस्यान्नजलक्षेमश्चाश्वयुजः शिवः । सम्प्रवृत्तोत्सवः श्रीमान् सर्वकामसुखावहः ॥ उद्गारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम् । याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ॥१५॥ Sloka 15.—Jupiter while in his northern course confers health, happiness and plenty ; this will be reverse in his southerly course. When he is in the middle, he will produce mixed effects. विचरन् भद्वयमिष्टस्तत्सार्द्धं वत्सरेण मध्यफलः । सस्यानां विध्वंसी विचरेदधिकं यदि कदाचित् ॥१६॥ Sloka 16.—Jupiter is beneficent when he transits two asterisms in the course of the year. The effect will be medium when he passes through 2½ lunar mansions. If he should perchance go through more than this, he would destroy all the crops. अनलभयमनलवर्णे व्याधिः पीते रणागमः श्यामे । हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्रभयम् ॥१७॥ धूमाभेऽनावृष्टिस्त्रिदशगुरौ नृपवधो दिवा दृष्टे । विपुलेऽमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः ॥१८॥
94 बृहत्संहितायाम् [Adh. VIII. Sl. 19 Slokas 17-18.—If Jupiter has the colour of fire, there will be risk from fire; if the colour be yellow, diseases will break out; if it be dark, a battle will be impending; if it be green, there will be danger from thieves; if it be red, there will be trouble from weapons; if it be smoky, there will be drought. If Jupiter be visible in the day, there will be regicide. If his disc appear big and clear at night and he be posited in an auspicious lunar mansion, the whole world will be happy. In Sloka 18, नृपाः is another reading for प्रजाः तथा च पराशरः कदाचिद्यत्र दृश्येत दिवा देवपुरोहितः । राजा वा म्रियते तत्र स देशो वा विनश्यति ॥ रोहिण्योऽनलभं च वत्सरतनुर्नाभिस्त्वषाढाद्वयं सार्पं हृत्पितृदैवतं च कुसुमं शुद्धैः शुभं तैः फलम् । देहे क्रूरनिपीडितेऽग्न्यनिलजं नाभ्यां भयं क्षुत्कृतं पुष्पे मूलफलक्षयोऽथ हृदये सस्यस्य नाशो ध्रुवम् ॥१९॥ Sloka 19.—The asterisms Krittika and Rohini consti- tute the body of the संवत्सरपुरुष-Samvatsarapurusha; the two Ashadhas (Purva and Uttara) form the navel; Aslesha, the heart; and Magha, the flower. When these lunar mansions are devoid of malefics, the effect will be auspicious. If the body be afflicted by malefics through conjunction or aspect, there would be danger from fire and wind. If the navel be afflicted, there will be risk from famine. If the flower be afflicted roots and fruits would be destroyed. When the heart is afflicted, there will be the inevitable destruction of crops. तथा च काश्यपः कृत्तिका रोहिणी चोभे संवत्सरतनुः स्मृता । अषाढाद्वितयं नाभी सार्पं हृत्कुसुमं मघा ॥
Adh. VIII. Sl. 20.-22] अष्टमोऽध्यायः 95 क्रूरग्रहेहते देहे दुर्भिक्षानलमारुताः । क्षुद्भयं तु भवेन्नाभ्यां पुष्पे मूलफलक्षयः ॥ हृदये सस्यहानिः स्यात्सौम्यैः पुष्टिः प्रकीर्तिता । गतानि वर्षाणि शकेन्द्रकालाद्धतानि रुद्रैर्गुणयेच्चतुर्भिः । नवाष्टपञ्चाष्ट युतानि कृत्वा विभाजयेच्छून्यशरागररामैः ॥२०॥ लब्धेन युक्तं शकभूपकालं संशोध्य षष्ट्या विषयैर्विभज्य । युगानि नारायणपूर्वकाणि लब्धानि शेषाः क्रमशः समाः स्युः ॥२१॥ Slokas 20-21.—Find out the number of years that have elapsed since the commencement of the Salivahana era. Multiply this by 44. Add 8589 to the product and divide the result by 3750. To the quotient thus obtained, add the Saka years. Divide this by 60 and the remain- der thereof by 5. The quotient represents the five-year- periods ruled by Vishnu and others, and the remainder denotes the number of years that have elapsed in the particular lustrum. एकैकमब्देषु नवाहतेषु दत्त्वा पृथग्द्वादशकं क्रमेण । हृत्वा चतुर्भिर्वसुदेवताद्यान्युडूनि शेषांशकपूर्वमब्दम् ॥२२॥ Sloka 22.—Place the years of Jupiter obtained in the previous Sloka separately in two places. Multiply the first by 9 and divide the other by 12. Add the above product (in the first case) and the quotient (in the second case). Divide the result by 4. The quotient will reveal the particular asterism reckoned from Dhanishta. The remainder will denote the Padas (पाद) in the next star that have been traversed by Jupiter. In a Mahayuga (the period comprising the four Yugas), the number of solar years is 4320000 = 3750 × 1152 * 4370640 That of Jupiter for the same period is as per Surya 4370688* = 3794 × 1152 Siddhanta.
96 बृहत्संहितायाम् [Adh. VIII. Sl. 22 So that for every 3750 solar years we have 3794 years of Jupiter. Therefore 1 solar year = 1 + 44/3750 years of Jupiter. To find out the number of Jupiter years that had elapsed (in Kaliyuga) at the time of the commencement of the Salivahana era, we have to proceed thus : The number of solar years that have passed from the beginning of Kaliyuga till the commencement of the Saka era is 3179. This converted into Jupiter years will be 3794/3750 × 3179 or 3216 1126/3750 Now it is known that Kaliyuga commenced in the year Vijaya (the 27th year from Prabhava, which is the first year in a cycle of 60 years of Jupiter). Therefore, 3216 1126/3750 + 26 or 3242 1126/3750 being divided by 60, the remainder will give the particular year of Jupiter (in his cycle of 60 years) from Prabhava at the time of commencement of the Saka era, and this remainder is 2 1126/3750 which is the 3rd year or the year Sukla of the cycle. Coming down to the period subsequent to the commencement of the Saka era, say the present time (वर्तमान शक-Vartamana Saka 1868 April 1945), the number of Jupiter years that have elapsed will be 1867 + (44 × 1867)/3750 + 2 1126/3750 from the beginning of Prabhava or 1867 + 21 3398/3750 + 2 1126/3750 or 1891 774/3750 which indicates that it is the 32nd year of the cycle or Vilambi. But actually, it is Hemalamba. The reason is that the figures for Jupiter's years as given by Aryabhatta or as per Surya-siddhanta are a bit more than that of Varahamihira. His figure 8589 appearing in Sloka 20 is different from 8626 that we got above. Calculating backwards from 8589, we find the number of siderial revolutions of Jupiter according to Varahamihira to be 364190000. This is probably the. correct figure. Sloka 22 gives a clue to find out the particular lunar mansion in which Jupiter may happen to be at any given time.
Adh. VIII. Sl. 23-24] अष्टमोऽध्याय 97 Taking the current Saka year 1868, we have the Saka years that have elapsed as 1867. The number of Jupiter years that have elapsed as calculated in the penultimate paragraph of page 96 will be 1891 774/3750. This when divided by 60 gives a quotient 31. As per Sloka 22, we have to multiply the above quotient 31 by 9 ; then we get 279 ; and by dividing the same quotient by 12 we get 2 7/12. Adding these two figures we get 281 7/12. Dividing this result by 4 we get 70 and odd, thus indicating the asterism traversed by Jupiter, as the 17th. This when reckoned from Dhanishta is Uttaraphalguni. विष्णुः सुरेज्यो बलभिद्धुताशस्त्वष्ट्रोत्तरप्रोष्ठपदाधिपश्च । क्रमाद्युगेशाः पितृविश्वसोमशक्रानलाख्याश्विभगाः प्रदिष्टाः ॥२३॥ Sloka 23.—The lords of the 12 Yugas or five-year periods in the Jupiter's cycle are respectively (1) Vishnu (2) Brihaspati (3) Indra (4) Agni (5) Twashta (one of the creators) (6) Ahirbudhnya (7) the Manes (8) Viswedeva (9) the Moon (10) Indragni (11) the two Aswins and (12) Bhaga. तथा च समाससंहितायाम् । विष्णुगुरुशक्रहुतभुक्स्त्वष्टाहिर्बुध्न्यपितृरावेश्वानि । सौम्यमथेन्द्राग्न्याख्यं त्वाश्विनमपि भाग्यसञ्ज्ञं च ॥ संवत्सरोऽग्निः परिवत्सरोऽर्क इदादिकः शीतमयूखमाली । प्रजापतिश्चाप्यनुवत्सरः स्यादिद्वत्सरः शैलसुतापतिश्च ॥२४॥ Sloka 24.—The names of the five years with their lords of each lustrum are (1) Samvatsara and Ágni (2) Parivatsara and the Sun (3) Idavatsara and the Moon (4) Anuvatsara and Prajapati and (5) Idvatsara and Rudra. बृ सं 13
98 बृहत्संहितायाम् [Adh. VIII. Sl. 25-28 वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये । पश्चाज्जलं मुञ्चति यच्चतुर्थे खल्पोदकं पञ्चममब्दमुक्तम् ॥२५॥ Sloka 25.—In the first year, the rains will be even, while in the second, there will be good rain in the initial portion of the season. In the third year, it will be plenti- ful, while in the fourth, there will be rain only in the latter half. In the fifth year, the rain will be scanty. चत्वारि मुख्यानि युगान्यथैषां विष्ण्विन्द्रजीवानलदैवतानि । चत्वारि मध्यानि च मध्यमानि चत्वारि चान्त्यान्यधमानि विन्द्यात्॥ Sloka 26.—Of the 12 Yugas comprising the Jovial cycle, the four, viz., Vishnu, Indra, Brihaspati and Agni are the best. The middle four are only medium. The last four are to be understood as the worst. तथा च समाससंहितायाम् चत्वारि युगान्यादौ शुभानि मध्यानि मध्यमफलानि । चत्वार्यन्त्यानि न शोभनानि वर्षेर्विशेषोऽत्र ॥ आद्यं धनिष्ठांशमभिप्रपन्नो माघे यदा यात्युदयं सुरेज्यः । षष्ट्यब्दपूर्वः प्रभवः स नाम्ना प्रपद्यते भूतहितस्तदाब्दः ॥२७॥ Sloka 27.—When Jupiter enters the first quarter of Dhanishta synchronous with his emergence from the conjunction of the Sun in the month of Magha, Prabhava, the first year of his cycle begins and it will be beneficial to all beings. क्वचित्त्ववृष्टिः पवनाग्निकोपः सन्तीतयः श्लेष्मकृताश्च रोगाः । संवत्सरेऽस्मिन् प्रभवे प्रवृत्ते न दुःखमाप्नोति जनस्तथापि ॥२८॥ Sloka 28.—In this year, viz., Prabhava, there will be drought in some parts; there will be outbreak of storms and fires, the six-fold troubles (vide p. 61. supra),
Adh. VIII. Sl. 29-33] अष्टमोऽध्यायः 99 and phlegmatic diseases. In spite of these, the people will not feel miserable. तस्माद्द्वितीये विभवः प्रदिष्टः शुक्लस्तृतीयः परतः प्रमोदः । प्रजापतिश्चेति यथोत्तराणि शस्तानि वर्षाणि फलान्यथैषाम् ॥२९॥ निष्पन्नशालीक्षुयवादिसस्यां भयैर्विमुक्तामुपशान्तवैराम् । संहृष्टलोकां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम् ॥३०॥ Slokas 29-30.—Thereafter, Vibhava, the second year begins. Then follow Sukla, Pramoda and Prajapati. The benefic effects will go on increasing in these years. During this period, Kshatriya kings will rule over the earth abounding in paddy, sugar-cane, barley and other grains,) when the people will be free from fear and hatred, and where the people will be all-cheerful and free from the malefic effects of the Kali age. आद्योऽङ्गिराः श्रीमुखभावसाह्वौ युवा सुधातेति युगे द्वितीये । वर्षाणि पञ्चैव यथाक्रमेण त्रीण्यत्र शस्तानि समे परे द्वे ॥३१॥ त्रिष्वाद्यवर्षेषु निकामवर्षी देवो निरातङ्कभयश्च लोकः । अब्दद्वयेऽन्त्येऽपि समा सुवृष्टिः किन्त्वत्र रोगाः समरागमश्च ॥३२॥ Slokas 31-32.—In the second Yuga which is com- posed of Angiras, Srimukha, Bhava, Yuva and Dhatu, the first three prove auspicious, the remaining two being middling. The lord of rain will pour down abundant rain in the first three years and the people will be free from affliction and fear. In the last two years, the rains will be equally distributed, but there will be the outbreak of diseases and war. शाक्रे युगे पूर्वमथेश्वराख्यं वर्ष द्वितीयं बहुधान्यमाहुः । प्रमाथिनं विक्रममप्यथान्यद्वृषं च विन्द्याद्गुरुचारयोगात् ॥३३॥
100 बृहत्संहितायाम् [Adh. VIII. Sl. 34-37 आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम् । पापः प्रमाथी वृषविक्रमौ तु सुभिक्षदौ रोगभयप्रदौ च ॥३४॥ Slokas 33-34.—In the third lustrum presided over by Indra, the years are Easwara, Bahudhanya, Pramatthin, Vikrama and Vrisha caused the transit of Jupiter. The first two years will be auspicious and will bestow the fruits of the golden age on the people. The third will be wholly inauspicious and the last two will give plenty of food-grains and risk from diseases. श्रेष्ठं चतुर्थस्य युगस्य पूर्वं यच्चित्रभानुं कथयन्ति वर्षम् । मध्यं द्वितीयं तु सुभानुसंज्ञं रोगप्रदं मृत्युकरं न तच्च ॥३५॥ तारणं तदनु भूरिवारिदं सस्यवृद्धिमूदितं च पार्थिवम् । पञ्चमं व्ययमुशन्ति शोभनं मन्मथप्रबलमुत्सवाकुलम् ॥३६॥ Slokas 35-36.—In the fourth lustrum, the first year, viz., Chitrabhanu is declared to be the best, the second, named Subhanu is medium in result ; it brings on sickness without mortality. The next year known as Tharana gives copious rain. The year Parthiva is dec- lared to yield luxuriant crops.) The fifth year, namely Vyaya, will prove auspicious. Love reigns supreme and festivities will be the order of the day. The commentator Bhattotpala adopts the reading नतं च instead of न तच्च in Sloka 35, and interprets नत to be the name of the third year instead of Tharana. In the next sloka, he adopts Tharana as the fourth omitting Parthiva. Accordingly he adopts the reading मुंदितातिपार्थिवम्. This is not convincing as it is against our tradition. त्वाष्ट्रे युगे सर्वजिदाद्य उक्तः संवत्सरोऽन्यः खलु सर्वधारी । तस्माद्विरोधी विकृतः खरश्च शस्तो द्वितीयोऽत्र भयाय शेषाः ॥३७॥ Sloka 37.—In the fifth lustrum presided over by त्वष्टा- Thwashta, Sarvajit is the first year. The next is
अष्टमोऽध्यायः नन्दनोऽथ विजयो जयस्तथा मन्मथोऽस्य परतश्च दुर्मुखः । कान्तमत्र युग आदितस्त्रयं मन्मथः समफलोऽधमोऽपरः ॥३८॥ हेमलम्ब इति सप्तमे युगे स्याद्विलम्बि परतो विकारि च । शर्वरीति तदनु प्लवः स्मृतो वत्सरो गुरुवशेन पञ्चमः ॥३९॥ ईतिप्राया प्रचुरपवना वृष्टिरब्दे तु पूर्वे मन्दं सस्यं न बहुसलिलं वत्सरेऽतो द्वितीये । अत्युद्वेगः प्रचुरसलिलः स्यात्तृतीयश्चतुर्थो दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः ॥४०॥ वैश्वे युगे शोभकृदित्यथाद्यः संवत्सरोऽतः शुभकृद्द्वितीयः । क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चेति पराभवश्च ॥४१॥ पूर्वापरौ प्रीतिकरौ प्रजानामेषां तृतीयो बहुदोषदोऽब्दः । अन्त्यौ समौ किन्तु पराभवेऽग्निः शस्त्राभयार्तिर्द्विजगोभयं च ॥४२॥