गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
१० विषयानुक्रमणिका । विषयः पृष्ठसंख्या विषयः पृष्ठसंख्या शक्तेरूर्ध्वयानप्रकारः ३२८ चत्वारिंराः पटलः । सहस्रारे परहंसैक्यचिन्तनम् " शिवशक्त्योर्व्यक्तीभावप्रश्नः ३४० तत्र होमादिविधिः " तदुत्तरवचनम् " शक्तेः बहिर्यानप्रमाणं तद्भेदहेतुश्च " शिवशक्त्योरविनाभाव- " उत्क्रमणादूर्ध्ववाहे देहत्याग- ३२६ तयोर्जगता सह भेदाभावः " वायोध्र्वने देहचेष्टा " अविद्याया भेदस्तदभावात्- वायोर्निश्चलत्वे मनःस्थैर्यं तयोः जीवन्मुक्तिः ३४१ स्थैर्यफलं च " स्वरूपस्य विविधत्वकथनम् " स्वेच्छया देहत्यागेऽपुनरावृत्ति- " शब्दब्रह्मयो वर्णादिरूपेण व्यक्ति- " शक्तेरुपासनफलनिगमनम् " प्रकाशितमन्त्रविद्यायाः अन्तस्थ- अष्टत्रिंशः पटलः । तार्या पूजनम् ' भोगमार्गेणैव शक्तिपरितोषात् मन्त्रशरीरस्य गुर्वाद्यैक्येन पूजनम् " सुखलाभः ३३० रत्नादिनिर्मितस्य महोत्सवे पूजातो केवलयोगवर्त्मना शंकरपरितोषः " मनोरथलाभः " शक्तिहीनमीश्वरं दृष्ट्वा ब्रह्मणास्तेन महोत्सवाविमुखे देवाविविमुखता " सह क्षीरोदगमनम् " यन्त्रात्मनो देव्यभेदबुद्ध्या पूजादि " तत्र ध्यानपरस्य ब्रह्मणो देवीदर्शनम् " यन्त्रस्य पुष्पैश्शून्यत्वकरणम् ३४२ ब्रह्मकृता देवीस्तुतिः ३३१ आच्छन्ने प्रदेशे लिङ्गेन सह स्थापनम् " देव्याः प्रत्यक्षमाविर्भावः ३३२ मन्त्रजपपूजापरस्य फलम् " ब्रह्मवरप्रार्थना " तुरीयरूपस्य कुलयागविधिना पूजा " सतीरूपेण शंकरमोहनादि ३३३ कौलधर्मस्य दुर्गमत्वम् " ब्रह्मनिर्देशेन विष्णुना महादेवाय तुरीयरूपनिरूपणम् ३४३ वीरभावादेश " तत्पूजयितुर्दर्शनादेः फलम् " ईश्वरकृता देवीस्तुतिः " शिवशक्तिमयविश्वोपदेश- " देव्या शभवे विश्वरूपदर्शनम् ३३४ द्वैतज्ञाने भ्रमः कारणम् " देवी प्रति शंभुप्रार्थना " शिवशक्त्योर्भेदाभावः " ऊनचत्वारिंशः पटलः । भोगेनैव मोक्षप्राप्तौ हेतुः " यामलामृतैर्विना मांसाद्यैः देवीकृतो ज्ञानोपदेशः ३३५ प्रीत्यभावः ३४४
विषयानुक्रमणिका । ११ विषयः पृष्ठसंख्या विषयः पृष्ठसंख्या स्त्रीषु देवीभावभजनम् ३४४ परानुत्तरयोः परमार्थतो भेदाभाव ३५० देवीशरणानां मुक्तत्वम् ,, अनुत्तरभेदोल्लासे वर्णक्रमेण विष्णुब्रह्मणोः शिशुत्वं सूचयन्त्या देव्या मिथुनभावनाफलम् ,, महादेवं प्रति शक्तिभजनविधिः ,, वेद्यवस्तुन उत्तरोत्तरगमनम् ,, शक्तिरहितस्य कर्मानर्हत्वम् ,, संकोचविकासकारणनिरूपणम् ३५१ दुष्टशक्त्या विनाशः ,, अनुत्तरलक्षणम् ,, मोक्षसाधनपूर्वं कुलयागपूजाप्रकार मन्त्रस्य तन्मयभावनया विश्वा- तत्फलं च ३४५ नन्दप्राप्तौ स्वात्मप्रत्यभिज्ञानम् ,, श्रुत्यादिकर्मसु त्यागादिविकल्पेऽपि प्रकाश एव सर्वस्य तत्त्वमिति प्रोक्तकर्मत्यागाद् हीनजातित्वम् ,, परमार्थः ३५२ विद्याभ्यासप्रसादाद् भोगेन मोक्षः ,, तत्र प्रमाणानामनुपयोग ,, भोगवैराग्ये योगिन्या सह विजनस्थस्य शुद्धतत्त्वस्य वाचकाध्वक्रमेण विवेकद्वारा ब्रह्मचिन्तनम् ३४६ विभागकथनम् ,, षट्त्रिंशत्तत्त्वलक्षणानि ,, एकचत्वारिंशः पटलः । शक्तिद्वारा कारणान्तर्लीनानां शांभावानुत्तरजिज्ञासाप्रश्नः ३४७ तत्त्वानामूर्ध्वगमनम् ३५४ शांभवतत्त्वकथनम् ,, शक्तीनां संयोगवैचित्र्यात् स्वराणा- पराशक्तितत्त्वम् ३४८ मुत्पादवर्णनम् ,, वाच्यवाचकात्मनो विश्वस्यानु बीजयोन्यात्मना द्विधा मातृका ,, त्तरत्वम् ,, सव्याप्तिकस्य हृदयबीजस्य बहुविधैर्मन्त्रैः प्राप्यतत्त्ववचनम् ,, निरूपणम् ३५५ शिवस्वरूपनिर्णय ३४६ परसंविदो महामन्त्रस्वभावे विलयः ,, सम्यग्दर्शनलक्षणम् ,, परसंविदग्नौ जुह्वत फलम् ,, सामान्येन सर्वेषामनुत्तरस्थितिः ,, द्विचत्वारिंशः पटलः । परैव निर्वाणपदं तदेवानुत्तरं कथं इति प्रश्न ,, वाच उत्पादादिप्रश्नोत्तरम् ३५६ परानुत्तरयोरन्तरनिरूपणपूर्वमनुत्त- आहारोच्छूलादेः प्रश्नोत्तरम ,, रतत्त्वकथनम् ,, पापकर्तृत्वादिविषयप्रश्नप्रत्युक्तरी ,, तन्निर्णयप्रश्नः ३५० जीवविषयकविविधप्रश्नाः ३५७
१२ विषयानुक्रमणिका । विषयः पृष्ठसंख्या विषयः पृष्ठसंख्या जीवस्वरूपलक्षणम् ३५७ श्रद्धाभक्तिध्यानयोगाद्युपायपूर्व- गुणयोगेन जीवकार्याणि ,, त्यागमात्रेणैव मोक्षलाभः ३५६ जीवस्य त्रिधा स्थानकल्पना ,, प्रत्याहाराद्यङ्गैर्ध्यानक्रमवर्णनम् ३६० देहे जीवस्य स्थितिप्रकारः ३५८ सर्वात्म्येन परिशीलनाद् बन्धमोचनक्रमः ,, बन्धनिर्मुक्ति ,, जीवस्य विषयभोगादिव्यवस्था ,, मलदाहे उपायोपदेशः ३६१ आकाशाश्रयस्य जीवस्य निष्कल आत्मनो मायामोहिततया स्वात्मविषयत्वे ब्रह्मचिन्तनम् ,, पुरत्रयक्रीडनम् ,, नाभिस्थित्या जीवस्याखिलदेह- तुरीयात्मन्याधारे विश्वस्य व्यापकत्वम् ,, लयोदयौ ,, प्राणादिसंयोगेन जीवस्य परिभ्रमणम् ,, महावाक्योपदेशनम् ,, निष्कलब्रह्मजिज्ञासाप्रश्नः ३५६ बन्धमोचनज्ञानम् ,, सनत्कुमाराय प्रोक्ताया ब्रह्मवि- अपरोक्षानुभवप्रकारः ३६२ द्याया अन्वारम्भः ,, अपरोक्षानुभवफलकीर्तनम् ,, एतत्तन्त्राध्ययनफलम् ३६३ इति गन्धर्वतन्त्रानुक्रमणिका ॥
गन्धर्वतन्त्रशुद्धिपत्रम्। पृष्ठे पंक्तौ अशुद्धम् शुद्धम् २० ४ समुधृत्य समुद्धृत्य ३१ ६ सर्वोन्मदन सर्वोन्मादन ३७ १७ विग्नो विघ्नो ५१ १६ चाङ्कुश वाङ्कुश ५५ १६ पुष्पं शब्दं ७७ ५ वृद्धभैरवः वृद्धभैरव ८२ ६ समस्तजनीं समस्तजननी १०० १० दीची देचीं १०२ ११ सृणि सृणिं १०३ १ प्रसङ्गा प्रसङ्गां १११ १० शष्ठीश षष्ठीश १२२ ३ प्रकृतिर्हि प्रकृतेर्हि १३२ ५ ध्यत्वा ध्यात्वा १३७ २१ वौषद् वषट् १४७ १२ तिष्ठस्व तिष्ठ त्वं १४८ २१ प्रदायक प्रदायकः १५३ १७ कदम्भकौ कदम्बकौ १६२ २१ चूर्णैर्ग चूर्णैर्गे १६६ २१ तदण्डाडमिति तदङ्गाङ्गमिति १६८ १८ दणिमादिका दणिमादिकाः १७८ ११ शिवा सदा १७८ ११ सदाशिवः सदा शिवः १८६ १० तुम्बरुः तुम्बुरु १८७ २० शुद्धा शुद्धो १९१ ३ पुत्रान्तान्ते पुत्रान्ते २०० १८ मुद्घयी मुद्गरी २१८ ११ दभ्यन्तरे अददान्तरे २२८ ८ कृणायाथ कृष्णायाथ २३६ ६ जानान्ति जानन्ति
शुद्धिपत्रम् । पृष्ठ | पङ्क्तौ | अशुद्धम् | शुद्धम् २३६ | १३ | चिन्तारापयणः | चिन्तापरायणः २४८ | १४ | पश्चिमोत्तम | पश्चिमोत्तर २५० | १५ | प्राकछ्यात् | प्राकस्थ्यात् २५१ | १८ | द्वादशाभिः | द्वादशभिः २५४ | ६ | पद्भिः | षड्भिः २५८ | ६ | अभिजायत | अभिजायते २८३ | ५ | दव्यास्तु | देव्यास्तु २८६ | १५ | च विस्तरेत् | परिस्तीर्य २६३ | ३ | समोहिनी | संमोहिनी २९३ | ३ | स्रुवण | स्रुवेण ३०६ | १६ | लज्जा | लज्जां ३१० | ११ | मदिराया | मदिरायां ३१७ | १२ | दीपान्तर | द्वीपान्तर ३२६ | १० | पशुकादर | पशुरुदार ३५२ | ४ | जैदर्भ | जैर्दभैः ३४५ | १६ | हीनजातिषु | हीनजातिषु ३५७ | २ | शक्तमाकाश | शक्तमाकाशं इति गन्धर्वतन्त्रशुद्धिपत्रम् ॥
अथ गन्धर्वतन्त्रम् । —०:***.० — शिवप्रोक्तम् । —:०:— प्रथमः पटलः । ॐ नमः परदेवतायै । यं वदन्त्यमलात्मानः पुरुषं प्रकृतेः परम् । चिद्रूपं परमानन्दं वन्दे देवं विनायकम् ॥१ १ ॥ भर्तारं गुणवृद्धिशून्यमचलं गत्वाभिसारक्रमाद् दीव्यन्ती कुलवर्त्मनैव गुणवत्यानन्दमातन्वती । शेते सुप्तभुजङ्गपोतकुटिला या मेरुमूलं गता सूते (यन्त्र? पुत्र) शतानि तानि सुरजिन्मुख्यानि पायादसौ २ विश्वामित्र इति ख्यातो नृपः परमधार्मिकः । सिद्धिं दृष्ट्वा वसिष्ठस्य तपस्तेपे सुदुश्चरम् ॥ ३ ॥ अप्राप्य तपसः सिद्धिमुदीचीं दिशमाविशत् । गङ्गाद्वारसमासीनं मुनिं योगपरायणम् ॥ ४ ॥ दत्तात्रेयं महाभागमभिवाद्य कृताञ्जलिः । उवाचेदं वचस्तस्मै विनयानतकन्धरः ॥ ५ ॥ विश्वामित्र उवाच नाद्रा (द्यं? द्यं) सम्यगिष्ट्वापि क्रतुभिर्बहुदक्षिणैः । सत्पात्रे सर्वदानानि कृत्वापि मुनिसत्तम ॥ ६ ॥ ———————————————————————— १ ‘तं विघ्ना’ क पाठ ।
महाविद्यां प्रजप्याथ पुरस्क्रियापुरःसराम् । भवाब्धेस्तरणोपायं तपस्तप्त्वा सुदुश्चरम् ॥ ७ ॥ सर्वागमैकतत्त्वज्ञ ब्रह्मनिष्ठ तपोधन । किं करिष्याम्यहं देव कुत्र यास्यामि तद्वद ॥ ८ ॥ दत्तात्रेय उवाच मा विषीद् नृपश्रेष्ठ सर्वथा त्वं स्थिरो भव । यच्छ्रुत्वा(दि?धि)गतं पूर्वमस्माभिर्नन्दिकेश्वरात् ॥ ६ तदशेषं प्रवक्ष्यामि गुह्याद् गुह्यतरं परम् । सारमुद्धृत्य भगवान् यामलादपि सर्वतः ॥ १० ॥ तन्त्रं द्वादशसाहस्र्यं भोगमोक्षैकसाधनम् । पार्वत्यै कथयामास तन्त्रं गन्धर्वसंज्ञकम् ॥ ११ ॥ गीयते सर्वतन्त्राणामखिलायो यतस्त्विह । तेनायं नृपशार्दूल तन्त्रो गन्धर्व उच्यते ॥ १२ ॥ नन्दिकेश्वर उवाच कैलासशिखरारूढं देवदेवं जगद्गुरुम् । पञ्चवक्त्रं महाकायं जटाजूटविभूषितम् ॥ १३ ॥ चारुचन्द्रकलायुक्तं मूर्ध्नि व्यालौघभूषितम् । बाहुभिर्दशभिर्युक्तं व्याघ्रचर्मधरं शुभम् ॥ १४ ॥ कालकूटधरं कण्ठे नागहारोपशोभितम् । विभूतिभूषणं देवं प्रतिवक्त्रं त्रिभिस्त्रिभिः ॥ १५ ॥ नेत्रैस्तु पञ्चदशभिर्युक्तं स्फटिकसंनिभम् । शक्तिंत्रिशूलखट्वाङ्गवरदाभयकानपि ॥ १६ ॥
प्रथमः पटलः । ३ अक्षसूत्रं बीजपूरं भुजङ्गं डमरुं धनुः । दक्षिणैर्दधतं हस्तैर्वामैः कोटीरभूषणम् ॥ १७ ॥ वृषभोपरिसंस्थं तु गजकृत्तिपरिच्छदम् । सर्वात्मनाविष्टचित्तं गिरिजामुखपङ्कजे ॥ १८ ॥ प्रणम्य परया भक्त्या कृताञ्जलिपुटा सती । उवाच पार्वती देवी ईश्वरं परमेश्वरम् ॥ १९ ॥ पार्वत्युवाच देवदेव जगन्नाथ भक्तानामार्तिनाशन । प्रसन्नो यदि मां देव ब्रह्म किं वा तदुच्यते ॥ २० ॥ योगं किंवा शरीरं च ब्रूहि मे परमेश्वर । स्मितपूर्वं महादेवः पूर्णानन्दमयो विभुः ॥ २१ ॥ वामदेवाख्यवक्त्रेण प्रत्युवाच प्रियां विभुः । ईश्वर उवाच यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् ॥ २२ ॥ यज्ज्ञानान्नापरं ज्ञानं तद् ब्रह्मेत्यवधारय । यद् दृश्यान्नापरं दृश्यं यद् दृष्ट्वा न पुनर्भवः ॥ २३ ॥ तिर्यगूर्ध्वमधः पूर्णं सच्चिदानन्दमव्ययम् । अनन्तमेकं नित्यं यत् तद् ब्रह्मेत्यवधारय ॥ २४ ॥ पार्वत्युवाच कर्मपाशसमाबद्धो भोगी भोगपरायणः । कथं मुक्तो भवेद्देव भोगेनैव महेश्वर ॥ २५ ॥ तत् सर्वं कथयेशान यद्यहं तव वल्लभा । 'वामभिर्हस्तैर्दृत' क पाठ.। २ 'मन्त्रेण' ख पाठः। ३ 'प्रभु' क पाठ । 'न्त नित्यमेक' क पाठ ।
ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यद् गुह्यं परमाद्भुतम् ॥ २६ ॥ न वक्तव्यं त्वया किंचिज्जनेषु कथितं मया । अपृथक्त्वशरीरत्वाद् वक्ष्यामि तव सुव्रते ॥ २७ ॥ यदुक्तं ते मया तन्त्रं त्रिविधं त्रिगुणात्मकम् । तामसं कुत्र संप्रोक्तं राजसं चापि कुत्रचित् ॥ २८ ॥ सात्त्विकं तत्र कुत्रापि धीमांस्तस्मात् तदुद्धरेत् । तामसं नरकायैव स्वर्गाय राजसं प्रिये ॥ २६ ॥ सात्त्विकं मोक्षदं प्राहुस्तुरीयं निष्फलं शिवे । शास्त्राणि चैव गिरिजे तामसानि निबोध मे ॥ ३० ॥ तामसानि पुराणानि तन्त्राणि तानि च प्रिये । स्वर्गमोक्षविहीनानि तानि यत्नाद्विवर्जयेत् ॥ ३१ ॥ इ(य?म) मर्थं पुरा देवि पृष्टवान् देवकीसुतः । मां प्रसाद्य तपस्तप्त्वा भोगेन मुक्तिसाधनम् ॥ ३२ ॥ तस्मै वापि मया प्रोक्तं संदेहोच्छेदकारकम् । ततस्तेनापि संप्रोक्तं ब्रह्मणे हंसरूपिणे ॥ ३३ ॥ नन्दिकेश्वर एतद्वै मयोक्तं पुनरेव हि । सोऽपि चाभूत्स्वयं कर्ता मम तुल्यो महामतिः ॥ ३८ ॥ पुष्पदन्ते ततः प्रोक्तं तन्त्रमेतद्वरानने । गन्धर्वेभ्यो ददौ तेन रहस्यं परमाद्भुतम् ॥ ३५ ॥ ब्रह्मणा च तथा प्राप्तं तस्मात् ते मुनयः प्रिये । पुरन्दरेणाङ्गिरसाद् भार्गवाद्दैत्यराट् प्रभुः ॥ ३६ ॥
प्रथमः पटलः । ५ पुलस्तेरपि पौलस्त्याः क्रमादेवं महीतले । नमुच्याद्या महादैत्याः पुरा स्वायंभुवान्तरे ॥ ३७ ॥ महाबलपरीवारा महावीर्या महौजसः । सर्वधर्मरताः शुद्धाः सर्वपापविवर्जिताः ॥ ३८ ॥ त्रयीधर्मरताः सर्वे भग्ना इन्द्रपुरोगमाः । तदाकर्ण्य महेशानि ब्रह्मा लोकपितामहः ॥ ३६ ॥ मदन्तिकं समासाद्य स्तुतिभिर्मां प्रसाद्य च । उवाचेदं वचश्चापि श्लक्ष्णं मधुरया गिरा ॥ ४० ॥ ब्रह्मोवाच सर्वज्ञ सर्वलोकेश सर्वदुःखनिसूदन । भोगमोक्षप्रदे तन्त्रे त्वया प्रकाशिते प्रभो ॥ ४१ ॥ तदवाप्य महादेव नरराक्षसदानवाः । सिद्धिप्रदा भवेयुस्ते प्रभुनाम कथं चरेत् ॥ ४२ ॥ सर्वे ब्रह्मात्मना देव यदि यास्यन्ति विद्यया । कैव सृष्टिः किमत्रा१पि कार्यं स्याद् वद् शंकर ॥४३॥ इति विज्ञाप्य मां ब्रह्मा ययौ ब्रह्मसद२ः प्रति । ततोऽहं परमेशानि गत्वा मन्दरपर्वतम् ॥ ४४॥ तान् विप्रानथ संस्मृत्य मन्त्रयित्वा च तैः सह । नन्दिकेश्वरमाहूय द्वारि संस्थाप्य सत्वरम् ॥ ४५ ॥ रक्षितव्यस्त्वया भद्र वि(क्ष?घ्न) श्चेह समागतः । इत्यादिश्य प्रविष्टोऽहं निर्जनं परमं महत् ॥ ४६॥ मोहनार्थं परं तेषां दैत्यादीनां विशेषतः । १ 'त्रास्ति' क पाठ. । २ 'द' क पाठ ।
शास्त्राणि विविधान्यत्र संप्रोक्तानि द्विजैः सह ॥ ४७ ॥ येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि । यच्चिन्तनान्महादेवि गोतमो मुनिपुंगवः ॥ ४८ ॥ अक्षपाद इति ख्यातः प्रमत्तो मां विगर्हयन् । अनुभूय तदास्वादं मामेव शरणं ययौ ॥ ४६ ॥ तत् कृपालुरहं देवि स्वयमादिष्टवानिदम् । वैष्णवं तन्त्रमाचक्ष्व वि(ष्णुय?ष्ण्व्यं)स्तु सदा मुने ॥ ५० ॥ प्रसन्नको यदा विष्णुस्ततः सिद्धिमवाप्स्यसि । यदुक्तं ते मया तन्त्रं कृष्णस्य परमात्मनः ॥ ५१ ॥ अधीत्य नारदात् सर्वं सिद्धिमाप मुनिस्तदा । प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् ॥ ५२ ॥ मच्छक्त्यावेशितैर्विप्रैः संप्रोक्तानि ततः परम् । कणादेन च संप्रोक्तं शास्त्रं वैशेषिकं महत् ॥ ५३ ॥ गोतमेन तथा न्यायं सांख्यं तु कपिलेन तु । धिषणेन तथा प्रोक्तं चार्वाकमतिगर्हितम् ॥ ५८ ॥ दैत्यानां नाशनाथाय विष्णुना बुद्धरूपिणा । बौद्धशास्त्रमसत् प्रोक्तं नग्ननीलपटादिकम् ॥ ५५ ॥ आपा(त्यं?र्थ्य) श्रुतिवाक्यानां दर्शयंल्लोकगर्हितम् । कर्मस्वरूपत्याज्यत्वमत्र वै प्रतिपाद्यते ॥ ५६ ॥ सर्वकर्मपरिभ्रष्ठांन् (वैकर्म सं?विकर्मासत् ) तदुच्यते ।
१ 'मया प्रोक्त' ख पाठ । २ 'वै शतै' क पाठ । ३ 'धिष' क पाठ । 'स्त्र तथा' ख पाठ । ४ 'आपत्य' ख पाठ । ६ 'तादात्म्य' ख पाठ । 'ष्ट कस्तप' ख पाठ ।
गौतमप्रोक्तशास्त्रार्थनिरताः सर्व एव हि ॥ ५७ ॥ सार्गालीं योनिमापन्नाः सं (धि?दि) ग्धाः सर्वकर्मसु । सर्वस्य जगतोऽप्यत्र मोहनार्थं पुरा शिवे ॥ ५८॥ वेदार्थवन्महाशास्त्रं मायावादमवैदिकम् । मयैव कथितं देवि जगतां नाशकारणात् ॥ ५६ ॥ द्विजन्मना जैमिनिना पूर्वं वेदमपार्थतः । निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥ ६० ॥ तत्रैवाहं महामन्त्रान् संदूष्य दोषविस्तरैः । कृत(वान्त?वांस्त)न्त्रविस्तारं ससंदेहपदान्वितम् ॥ ६१ ॥ अथ देवाश्च देव्यश्च दूषिते मन्त्रविग्रहे । अभवन् दूषिताः सर्वे हीनवीर्य्यपराक्रमाः ॥ ६२ ॥ निर्बलास्त्वङ्गहीनाश्च अथ सर्वे दिवौकसः । विष्णुलोकं समासाद्य व्यसनं तन्न्यवेदयन् ॥ ६३ ॥ विदित्वा व्यसनं विष्णुस्तत्तत् तेषां दिवौकसाम् । वैनतेयं समारुह्य नन्दिकेश्वरसंनिधौ ॥ ६४ ॥ आगतो वारितस्तेन मद्दर्शनसमुत्सुकः । तत्र स्थित्वा महेशानि भगवाञ्जगदीश्वरः ॥ ६५ ॥ वर्धयितुं शरीरं च वैनतेयं समादिशत् । प्रवृद्धस्य खगेन्द्रस्य स्थित्वा तस्योत्तमाङ्गके ॥ ६६ ॥ स दृष्ट्वा समुपाविष्टमिदमाह स्मिताननः । श्रीभगवानुवाच अकालं प्रलयैः कस्मात् क्रियते भवताधुना ॥ ६७ ॥ १ 'सर्ववेद' ख पाठ । २ 'वर्द्ध' क पाठ । ३ य' क पाठ ।
न युज्यते महादेव कर्तुमेवं न सांप्रतम् । ईश्वर उवाच दूषिता ब्रह्मणो मन्त्राः सौराश्चाग्निसमुद्भवाः ॥ ६८ ॥ तथा वै दूषिता यौन्याः श्रियश्चापीह केचन । सरस्वत्या महामन्त्रा वैष्णवा अपि केचन ॥ ६६ ॥ वैनायका महामन्त्राः प्रायेण दूषिता मया । शक्तितन्त्रेषु ये केचित् ससंदेहपदान्विताः ॥ ७० ॥ श्रीभगवानुवाच जगद्वन्द्य कलाधीश सर्वभूतोपकारक । निवर्त्तस्व महादेव मद्वाक्यशासनादिभिः ॥ ७१ ॥ ईश्वर उवाच विरतोऽहं तदा तस्य विष्णोरमिततेजसः । वचनात् परमेशस्य शंखचक्रगदाभृतः ॥ ७२ ॥ तान्यधीत्यैव ते सर्वे मोहिता विष्णुमायया । भविष्यन्ति च संदिग्धा वालिशेत्वादनास्थया ॥ ७३ ॥ विवदिष्यन्ति संमूढा हेतुवादपरायणाः । हे(ति?तु)साध्येतिवाक्याच्च भविष्यन्ति पराङ्मुखाः ॥७४॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे तन्त्रप्रस्तावनानिरूपणं नाम प्रथमः पटलः ॥ १ ॥ १ 'व' ल० पाठ । २ 'वाली' ख० पाठ ।
द्वितीयः पटलः । पार्वत्युवाच शक्तितन्त्रं महादेव संदेहरहितं कुरु । तथा कथय देवेश भोगेन मुक्तिसाधनम् ॥ १ ॥ ईश्वर उवाच निःसंदेहं महातन्त्रं श्रूयतां खलु सांप्रतम् । गोपितव्यं पशोरग्रे पूर्णचन्द्रनिभानने ॥ २ ॥ परात्मजीवयोरैक्यं मयात्र प्रतिपाद्यते । ब्रह्मणोऽपि परं रूपं निर्गुणं वक्ष्यते मया ॥ ३ ॥ श्रूयतां विमले भद्रे आत्मानमात्मना पुनः । प्रणमामि महादेवीं तुरीयां ब्रह्मरूपिणीम् ॥ ४ ॥ यस्या स्मरणमात्रेण भवाब्धौ न निमज्जते । अस्याश्चाराधनं कृत्वा नान्यैस्याराधनं चरेत् ॥ ५ ॥ अन्यस्य स्मरणाद् दुःखं योगिनीशापमालभेत् । अपमृत्युर्भवेत् तस्य मृते च नरकं व्रजेत् ॥ ६ ॥ एनामुपास्य देवेशि किं न सिध्यति भूतले । सकृदेनामुपास्यैव न मातुः स्तनपो भवेत् ॥ ७ ॥ तस्माद् देवि शुभे भद्रे तुरीयां समुपाश्रयेत् । आदौ कामेश्वरी ज्ञेया द्वितीया भगमालिनी ॥ ८ ॥ १ 'तस्या' क. पाठ । २ 'नान्यदा' ख. पाठ. । ३ 'देवि ख पाठ ।
वज्रेश्वरी तृतीया च तुर्या त्रिपुरसुन्दरी । त्रयाणामपि देवानां प्रचोदिकों त्रिपादिका ॥ ९ ॥ त्रिपुरेति समाख्याता कामदा सौँ कामेश्वरी । त्रीन् यस्मात् पुरतो दद्याद् दुर्गा सा परमेश्वरी ॥ १० ॥ त्रिपुरेति समाख्याता सौन्दर्यातिशयात् तथा । मयापि चिन्यते सा तु तत्प्रसादादहं प्रभुः ॥ ११ ॥ जगतामीश्वरत्वं च लब्धं तदनुकम्पया । ब्रह्मत्वं ब्रह्मणा प्राप्तं विष्णुत्वं विष्णुना तथा ॥ १२ ॥ सुरासुरमुनीन्द्राणां महत्त्वं तत्प्रसादतः । तेनेयं महती विद्या दुर्लभा भुवनत्रये ॥ १३ ॥ देव्युवाच भगवन् सर्वमन्त्राश्च भवता मे प्रकाशिताः । महात्रिपुरसुन्दर्या मन्त्रा ये पूर्वसूचिताः ॥ १४ ॥ तांस्तानेवाधुना नाथ संदेहरहितान् कुरु । ईश्वर उवाच सर्वकार्येषु सर्वत्र तान्त्रिके वैदिके तथा ॥ १५ ॥ अविश्वासो महान् दोषो यत्नतस्तं विवर्जयेत् । संसिद्धेः कारणं देवि विश्वासः समुदाहृतः ॥ १६ ॥ विदित्वा रत्नणं यत्तु सगुणं वीर्यवर्धनम् । रत्नेषु कीलकं यद्वद् ग्रन्थिर्मलयसंभवे ॥ १७ ॥ आस्तिकोऽथ शुचिर्दान्तो द्वैतहीनो जितेन्द्रियः ।
१ 'एषणा' क पाठ. । २ 'दिता' ख. पाठ । ३ 'साहि' क पाठ. । ४ 'ता' क पाठ । ५ 'वर्द्ध' क पाठ । ६ 'दत्तो' ख पाठ. ।
द्वितीयः पटलः । ११ ब्रह्मिष्ठो ब्रह्मवादी च ब्रह्मी ब्रह्मपरायणः ॥ १८ ॥ सर्वहिंसाविनिर्मुक्तः सर्वप्राणिहिते रतः । सोऽस्मिन् शास्त्रेऽधिकारी स्यात् तदन्यो श्रमसाधकः॥१९॥ नास्तिकाय कुशीलाय दाम्भिकाय कदाचन । न वक्तव्यं पशोरग्रे कुटिले चुम्बके तथा ॥ २० ॥ शृणु देवि महत् गुह्यं मन्त्रोद्धारं वरानने । आदौ पञ्चदशी विद्या कथ्यते वीरवन्दिते ॥ २१ ॥ ❄ कामदेवस्ततो योनिस्तुर्य्यस्वरपुरन्दरौ । भुवनेशी ततः पश्चात् पञ्च (रङ्गैँ?वर्णै) विभूषितः ॥ २२ ॥ अयं स वाग्भवो देवि वागीशत्वप्रदायकः । एतज्जप्त्वा महाबीजं किं न सिध्यति भूतले ॥ २३ ॥ बालकस्य तु जिह्वायां त्रिदिनाभ्यन्तरे न्यसेत् । मधुना श्वेतदूर्वाभिः सुवर्णास्य शलाकया ॥ २४ ॥ इदं वाग्भवकूटं तु लिखेद्वै जननान्तरे । स एव पण्डितो भूयान्नै तु मूर्खो भवेद् ध्रुवम् ॥ २५ ॥ एतद्वाग्भवकूटं तु बालिशस्यापि मूर्धनि । हस्तं दत्त्वा पठेत् सिद्धमष्टोत्तरशतं प्रिये ॥ २६॥ सोऽपि श्लोकान्महेशानि करोत्येव न संशयः । सतर्कपदवाक्यार्थशब्दालंकारसारवित् ॥ २७ ॥ जिह्वायां न्यसनाद्देवि मूकोऽपि सुकविर्भवेत् । १ 'ता' क पाठ । २ 'तदन्यत्र न साधक ' ख पाठ । ३ 'स्तू' क पाठ । ४ 'वक्त्र' ख पाठ । ५ 'भूत्वा' ख पाठः । ६ 'इद' ख पाठ. । ❄ काम क योनि. ए तुर्य्येश्वर ई पुरन्दर ल भुवनेशी ह्रीं इति वाग्भवकूटम् ।
बहुनात्र किमुक्तेन जल्पितेनापि सुन्दरि ॥ २८ ॥ वागीशं स्पर्धते वाक्यैः सर्वज्ञो भुवि जायते । मूको भवति वागीशो वाचस्पतिरिवापरः ॥ २९ ॥ १ शिवचन्द्रौ समुद्धृत्य कामव्योमपुरन्दरान् । उद्धरेत् परमेशानि लज्जाबीजं ततः प्रिये ॥ ३० ॥ कामराजमिदं भद्रे षड्वर्गा सर्वशोभितम् । † चन्द्रः कामस्तथेन्द्रश्च महामाया ततः परम् ॥ ३१ ॥ शक्तिबीजं वरारोहे वेदाक्षरसमन्वितम् । त्रिकूटेयं महाविद्या महात्रिपुरसुन्दरी ॥ ३२ ॥ सर्वतीर्थम(ये?यी) देवी सर्वदेवस्वरूपिणी । सर्वशास्त्रमयी शुद्धा सर्वदोषविवर्जिता ॥ ३३ ॥ चतुर्वेदमयी साक्षात् सर्वसौभाग्यदायिनी । कामराजाख्यविद्येयं भोगमोक्षफलप्रदा ॥ ३४ ॥ अनया सदृशी विद्या त्रिषु लोकेषु दुर्लभा । एतस्या एव विद्यायाः शक्तिं तुर्यं च पार्वति ॥ ३५ ॥ हित्वा मुखे शिवेन्दुभ्यां लोपामुद्रा प्रकाशिता । § मारबीजं ततो योनिः कामः (शु?श)क्रं तथेश्वरी ॥ ३६ ॥ १ 'र्द्ध' क पाठ । २ 'यदॆव' क पाठ. । † शिव ह चन्द्र स काम. क व्योम ह पुरन्दर ल लज्जा ह्री इति कामराजकूटम् । ‡ चन्द्र स काम क इन्द्र ल महामाया ह्री इति शक्तिकूटम् ।
- उक्ताया एव विद्याया वाग्भवादौ शक्तितुर्ये एई विहाय शिव ह् इन्दुः स इत्येतत् द्वयमादौ नियोज्य लोपामुद्रोपासिता विद्या भवति । § मार. क योनि ए काम क शक्र ल ईश्वरो ही इति वाग्भवकूटस्थाने विन्यस्य पूर्ववत्कामराजशक्तियोगात् शाम्भवी विद्या ।
द्वितीयः पटलः । १३ पूर्ववत् कामराजं च शक्तिकूटं तथैव च । सवीर्या सिद्धिदा विद्या त्रैलोक्यवशकारिणी ॥ ३७ ॥ तव स्नेहान्महेशानि मयेयं तु प्रकाशिता । एतच्छांभवमुद्दिष्टं शृणु शाक्तमतः परम् १ ॥ ३८ ॥ † शक्तिर्महेशः कामश्च इन्द्रबीजमतः परम् । महामाया ततः पश्चात् पूर्ववदपरं ततः ॥ ३६ ॥ विद्यात्रयमिदं भद्रे दुर्लभं भुवनत्रये । देव्युवाच षोडशार्णां महाविद्यां त्रैलोक्यवशदायिनीम् ॥ ४० ॥ अधुना कथयेशान यद्यहं तव वल्लभा । ईश्वर उवाच शृणु देवि महाविद्यां षोडशाक्षररूपिणीम् ॥ ४१ ॥ एतस्या एव विद्याया यद्याद्ये भुवनेश्वरी । तदेयं परमेशानि षोडशाक्षररूपिणी ॥ ४२ ॥ मायास्थाने (वा?२) माबीजं दत्त्वान्या ‡ षोडशी भवेत् । वरदा सिद्धिदा विद्या३ कुबेरास्पददायिनी ॥ ४३ ॥ चिन्तामणिरियं विद्या त्रैलोक्ये चापि दुर्लभा । • वेदादिमण्डिता चान्या विद्या मोक्षप्रदायिनी ॥ ४४ ॥ तथैव हि महाँबीजं रमाबीजं तथैव च । १ 'र' क पाठ । २ 'द्यात्' क पाठ । ३ माया' ख पाठ । † शक्ति स महेश ह काम क इन्द्र ल महामाया ह्रीँ इति प्रागुक्तविद्याया वाग्- भवे नियोज्य शाक्ती विद्या सपद्यते । ‡ भुवनेश्वरी ही तदादियुता पूर्वोक्ता विद्या षोडशार्णा । अथवाद्यौ रमाबीजोपेता तथा भवति ।
पञ्चदशाक्षरीविद्यां तथैव च समुद्धरेत् ॥ ४५ ॥ सेयं <sup>†</sup>सप्तदशी विद्या साक्षात् जाग्रत्स्वरूपिणी । देव्युवाच ततः कथय देवेश राजराजेश्वरीं पराम् ॥ ४६ ॥ षोडशार्णां महाविद्यां त्रैलोक्यवशदायिनीम् । जननीं सर्वमन्त्राणां परब्रह्मस्वरूपिणीम् ॥ ४७ ॥ ईश्वर उवाच राजराजेश्वरीं विद्यां तथास्याः कवचं प्रिये । यो जानाति महीपृष्ठे स देवो नतु मानुषः ॥ ४८ ॥ राजराजेश्वरी विद्या कथ्यते शृणु पार्वति । रमाबीजं समुद्धृत्य मायाबीजं नियोजयेत् ॥ ४६ ॥ कामबीजं समालिख्य वाग्बीजं तदनन्तरम् । चतुर्दशस्वरोपेतं चन्द्रं बिन्दुयुगान्वितम् ॥ ५० ॥ प्रणवं भुवनेशानीं रमां चैव महेश्वरि । पञ्चदशाक्षरीं पश्चादुद्धरेत् परमेश्वरि ॥ ५१ ॥ व्युत्क्रमात् परमेशानि पूर्वोक्तबीजपञ्चकम् । आलिख्य संपुटीकुर्याद् विद्येयं ह्यष्टकूटका । ॥ ५२ ॥ तुरीयेयं महाविद्या केवलात्मस्वरूपिणी । षोडशार्णा महाविद्या श्रीविद्या कथिता परा ॥ ५३ ॥ <sup>†</sup> समनन्तरोक्ता पञ्चदशाक्षरी मायारमाभ्या ह्रीं श्रीं इत्याभ्यामाद्ययोजिता सप्तद- शाक्षरी विद्या भवति । <sup>‡</sup> रमा श्री माया ही कामबीज क्लीं वाग्बीज ऐं चतुर्दशस्वरोपेत सविसर्गश्चन्द्रः सौः प्रणव ओङ्कार भुवनेशानी ह्रीं रमा श्री तत पञ्चदशाक्षरी व्युत्क्रमैः बीजपञ्च- कैश्च सपुटिता षोडशकटा तुरीया विद्या भवति ।
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि । वर्णितुं नैव शक्येयं श्रीविद्या षोडशाक्षरी ॥ ५४ १॥ षोडशार्णा महाविद्या सर्वतन्त्रेषु गोपिता । तव स्नेहान्महेशानि गन्धर्वे वै प्रकाशिता ॥ ५५ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे विद्याभेदोद्धारनिरूपणं नाम द्वितीयः पटलः ॥ २ ॥ १ 'शक्येऽह श्रीविद्या षोडशाक्षरीम्' ख पाठः ।