भारतकोश
संग्रह पर लौटें

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

सानुवाद-मिताक्षरावृत्तिसहितानि १३३

अपि शूद्राः ॥ ३ ॥

शूद्रा अप्येवंविधाश्चेत्साक्षिणो भवेयुः किं पुनर्द्विजातय इति । एवं च गुणवद्द्विजात्यभावे शूद्रा अप्येवंविधा भवन्तीति द्रष्टव्यम् ॥ ३ ॥

इस प्रकार के शूद्र भी साक्षी हो सकते हैं ॥ ३ ॥

ब्राह्मणस्त्वब्राह्मणवचनादनवरोध्योऽनिबद्धश्चेत् ॥ ४ ॥

ब्राह्मणो नात्र श्रोत्रियः । अस्य वृत्तान्तस्यासौ ब्राह्मणः साक्षीत्यब्राह्मणेनोक्ते राज्ञा साक्षित्वेन नावरोध्यो न निर्बन्धेन ग्राह्यः । अनिबद्धश्चेत् । स चेल्लेखनिबद्धो न भवति । लेख्यारूढस्तु भवत्येव साक्षी । नात्र कश्चिद्धेतुरस्ति वचनमेव प्रमाणम् । अत्र नारदः—

असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद्दोषतो भेदात्स्वयमुक्तेर्मतान्तरात् ॥
श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् ।
भेदाद्विप्रतिपत्तिः स्याद्विवादे यत्र साक्षिणाम् ॥
स्वयमुक्तिरनिर्दिष्टः स्वयमेवैत्य यो वदेत् ।
मृतान्तरोऽर्थिनि प्रेते मुमूर्षुः श्रावितादृते ॥ इति ।

तदिह श्रोत्रियः क्वचिदपि साक्षी न भवतीति नारदस्य पक्षः । इहाब्राह्मणवचनादित्युक्तत्वाद ब्राह्मणेनोक्तः श्रोत्रियोऽपि भवत्येव साक्षी ॥ ४ ॥

यदि पहले साक्षी के रूप में नाम न लिखा गया हो तो कोई ब्राह्मण साक्ष्य के लिए किसी अब्राह्मण के कहने पर पकड़कर नहीं लाया जा सकता ॥ ४ ॥

नासमवेतापृष्टाः प्रब्रूयुः ॥ ५ ॥

असमवेता असमुदिता राज्ञा प्राड्विवाकेन वाऽपृष्टाः सन्तो न ब्रूयुः । किंतु समवेताः पृष्टाश्च प्रब्रूयुः ॥ ५ ॥

राजा द्वारा न बुलाये गये और न पूछे गए लोग न बोलें ( साक्ष्य न दें) ॥ ५ ॥

श्रवचनेऽन्यथावचने च दोषिरणः स्युः ॥ ६ ॥

ते चैवंभूता यदि जानन्त एव न [ ब्रूयुरन्यथा वा ] ब्रयुस्तदा दोषिणो दुष्टाः स्युः । इह राज्ञा दण्ड्याः परत्र च नारकिणः ॥ ६ ॥

( बुलाये जाने पर ) जानते हुए भी न बोलने वाले और अन्यथा बोलने वाले दोषी होते हैं ॥ ६ ॥

१३४ गौतमधर्मसूत्राणि

स्वर्गः सत्यवचने विपर्यये नरकः ॥ ७ ॥ ब्रुवन्तस्तु यदि सत्यं ब्रुवन्ति तदा स्वर्गो भवति। विपर्यये सत्यवचने नरको भवतीति ॥ ७ ॥

सत्य बोलने पर (साक्षी को) स्वर्ग मिलता है और विपरीत अर्थात् असत्य बोलने पर नरक की प्राप्ति होती है ॥ ७ ॥

अनिबद्धैरपि वक्तव्यम् ॥ ८ ॥ निबद्धा निर्दिष्टा यूयमत्र साक्षिण इति। तद्विपरीता अनिबद्धास्तैरपि साक्ष्यं वक्तव्यम्। ते च नारदेनान्ये पुनरनिर्दिष्टा इत्यारभ्य कथिता द्रष्टव्याः ॥ ८ ॥

जिनके नाम साक्ष्य के लिए न लिखे गये हों उन्हें भी साक्ष्य देने के लिए बोलना चाहिए ॥ ८ ॥

न पीडाकृते निबन्धः ॥ ९ ॥ पीडाकृतं पीडाकरणम्। निबन्धो निबन्धनमर्थसंबन्धादि। पीडाकरणे हिंसाविषये साक्षिणां निबन्धो न निरूप्यः। अर्थसंबन्धादि न किंचिदपि दूषणं भवति। आह व्याघ्रः--

स्तेये च साहसे चैव संसर्गे च स्त्रियास्तथा।
गरादीनां प्रयोगे च न दोषः साक्षिषु स्मृतः ॥ इति ॥ ९ ॥

हिंसा आदि के विवाद में साक्षियों के नियुक्त होने के नियम का विचार नहीं किया जाता ॥ ६ ॥

प्रमत्तोक्ते च ॥ १० ॥ प्रमादोऽनवधानम्। अन्त्ये परे वाक्ये साक्षिणा यहृच्छया यदुक्तं तत्रापि निबन्धो न भवति। अर्थसंबन्धादिदूषणं न भवति ॥ १० ॥

साक्षी के असावधानी से कुछ कह देने पर भी उस पर आक्षेप नहीं होता (अर्थसंबन्धी दोष नहीं होता) ॥ १० ॥

विपर्यये नरक उक्तः। न स केवलं साक्षिण एव किं तर्हि--

साक्षिसभ्यराजकर्तृषु दोषो धर्मतन्त्रपीडायाम् ॥ ११ ॥ तन्त्रं लोकव्यवहारः। धर्मतन्त्रयोः पीडायां सत्यां साक्षिषु सभ्येषु राजनि कर्तरि च सर्वेषु दोषो भवति। कर्तृग्रहणं दृष्टान्तार्थम्। यावान्कर्तुर्दोषस्तावत्साक्ष्यादीनामपीति। यद्यपि साक्षिणः पूर्वं दोष उक्तस्तथाऽपीह ग्रहणं सभ्यादीनां ससाक्षिकेऽपि दोषग्रहणार्थम्। अन्यथा साक्षिक-

सानुवाद-मिताक्षरावृत्तिसहितानि १३५

व्यवहारे सभ्यादीनां दोषः। ससाक्षिके तु साक्षिणामेवेत्युक्तं स्यात् ॥११॥
धर्म और लोक-व्यवहार की हानि होने पर, साक्षियों, सभासदों, राजा और अपराधी सभी पर दोष आता है ॥ ११ ॥

शपथेनैके सत्यकर्म ॥ १२ ॥

यत्र साक्षिषु तथा विश्वासो न भवति तत्र शपथेन सत्यकर्म शपथं कारयित्वा सत्यं वाचनीयमित्येके मन्यन्ते ॥ १२ ॥
कुछ आचार्यों का मत है कि साक्षियों को शपथ दिलाकर उनसे सत्यभाषण कराया जाय ॥ १२ ॥

तद्देवराजब्राह्मणसंसदि स्यादब्राह्मणानाम् ॥ १३ ॥

तच्छपथेन सत्यकर्म देवसंसदि, उग्राणां देवतानां संनिधौ ब्राह्मणानां संसदि परिषदि वा भवति। क्षत्रियादीनामर्थगुरुत्वलघुत्वापेक्षो विकल्पः। महत्यर्थे देवतासंनिधावल्पीयस्यन्यत्रेति। अब्राह्मणानामिति वचनाद् ब्राह्मणानां शपथकर्म न भवति। अत्र विष्णुः—पृच्छेद् ब्रूहीति ब्राह्मणम्। सत्यं ब्रूहीति राजन्यम्। गोबोजकाञ्चनैर्वैश्यम्। सर्वपातकैः शूद्रम्। एवं हि साक्षिणः पृच्छेद्वर्णानुक्रमतो नृप इति। मनुस्तु—

सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ इति ॥ १३ ॥

ब्राह्मणेतर वर्णों को (उग्र) देवताओं के निकट, राजा के समक्ष या ब्राह्मणों की सभा में शपथ दिलाई जाय ॥ १३ ॥

विपर्यये नरक इति सामान्येन साक्षिणो दोष उक्तः। इदानीं व्यवहारविशेषे दोषविशेषमाह—

क्षुद्रपश्वनृते साक्षी दश हन्ति ॥ १४ ॥

क्षुद्रपशवोऽजाविकादयः। तद्विषयेऽनृतवदने साक्षी दश हन्ति। तेषां दशानां वधे यावान्दोषस्तावत्तानस्य भवतीति। दण्डप्रायश्चित्ते अपि तदनुगुणे द्रष्टव्ये ॥ १४ ॥
(भेड़, बकरी आदि) छोटे पशुओं के विषय में असत्य भाषण करने पर साक्षी को दश पशुओं के वध का पाप लगता है ॥ १४ ॥

गोऽश्वपुरुषभूमिषु दशगुणोत्तरान् ॥ १५ ॥

उक्तानामुत्तरं दशगुणान्दशगुणोत्तरान्। गवादिविषयेऽनृते साक्षी पूर्वोक्ताद्दशगुणोत्तरं तत्तद्वधयुक्तदोषो भवति। एतदुक्तं भवति। गवानृते साक्षिणो गोशतहननदोषः। अश्वानृतेऽश्वसहस्रहननदोषः। पुरुषानृते-

१३६ गौतमधर्मसूत्राणि

ऽयुतपुरुषहननदोषः । भूम्यनृते यस्य सा भूमिस्तज्जातीयानां लक्षहन- नदोष इति ।

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥

इत्येतत्त्वत्यन्तक्षुद्रपश्वादिविषयम् ॥ १५ ॥

गाय, अश्व, मनुष्य और भूमि के विषय में असत्य भाषण करने पर साक्षी क्रमशः उत्तरोत्तर दशगुने तत्तत् प्राणियों के वध के पाप का भागी होता है (अर्थात् गाय के विषय में असत्य बोलने पर सौ गायों के वध का दोषी होता है, अश्व के विषय में एक हजार अश्व के वध का, मनुष्य के विषय में झूठा साक्ष्य देने पर दस सहस्र मनुष्यों के वध का तथा भूमि के विषय में असत्य बोलने पर उस भूमि का स्वामी जिस जाति का हो उस जाति के एक लाख पुरुषों के वध के पाप का भागी होता है) ॥ १५ ॥

सर्वं वा भूमौ ॥ १६ ॥

यदि वा भूमिविषयेऽनृते सर्वमेव मनुष्यजातं हन्ति । ग्रामदेशादि-महाभूमिविषयो विकल्पः ॥ ॥ १६ ॥

भूमि के विषय में असत्य बोलने पर साक्षी सम्पूर्ण मनुष्य जाति की हत्या का दोषी होता है ॥ १६ ॥

हरणे नरकः ॥ १७ ॥

प्रासङ्गिकमिदम् । भूमेरिति विपरिणामेन संबन्धः । भूमेर्हरणे नरको भवति । कालान्तरावधिः शास्त्रान्तरावसेयः ॥ १७ ॥

भूमि का अपहरण करने पर नरक मिलता है ॥ १७ ॥

प्रकृतमाह—

भूमिवदप्सु ॥ १८ ॥

अद्विषयेऽनृते भूमिवल्लक्षहननदोषो हरणे नरक इति च समानम् । अप्शब्देन कूपतडागादिरुपलक्षितः ॥ १८ ॥

जल के विषय में असत्य बोलने पर साक्षी को भूमिविषयक असत्य भाषण के समान ही दोष होता है ॥ १८ ॥

मैथुनसंयोगे च ॥ १९ ॥

मैथुनसंयुक्ते चानृते परदारानसौ गच्छतीत्यादौ भूमिवदिति चकाराद्गम्यते ॥ १९ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १३७

मैथुन (व्यभिचार) विषयक असत्यभाषण में भी वैसा ही (भूमिविषयक असत्यभाषण के समान ही) दोष साक्षी को लगता है ॥ १९ ॥

पशुवन्मधुसर्पिषोः ॥ २० ॥

मधुसर्पिर्विषयेऽनृते क्षुद्रपशुवद्दोषः ॥ २० ॥
मधु और घृत के विषय में असत्य बोलने पर क्षुद्र पशुविषयक असत्यभाषण के समान दोष लगता है ॥ २० ॥

गोवद्वस्त्रहिरण्यधान्यब्रह्मसु ॥ २१ ॥

ब्रह्म वेदः। वस्त्रादिविषयेऽनृते गोवद्दोषः। अधीत्य नास्मान्म- थाऽधोतमित्यादि ब्रह्मानृतम् ॥ २१ ॥
वस्त्र, स्वर्ण, धान्य और वेद विद्या के विषय में असत्य बोलने पर गो- विषयक असत्यभाषण के समान दोष साक्षी को लगता है ॥ २१ ॥

यानेष्वश्ववत् ॥ २२ ॥

हस्तिशकटशिबिकादीनि यानानि। तद्विषयेऽनृतेऽश्ववद्दोषः। अन्ये तु क्षुद्रपश्वनृत इत्यारभ्य साक्षिश्रावणे योजयन्ति। क्षुद्रपश्वनृते साक्षिणो दशपशुहननदोषः। तस्मात्त्वया सत्यमेव वक्तव्यमिति साक्षी श्रावयि- तव्य इति। एवं सर्वत्रोपरिष्टादपि ॥ २२ ॥
किसी यान (गाड़ी, रथ, पालकी आदि) के विषय में झूठा साक्ष्य देने पर अश्वविषयक असत्यभाषण के समान दोष होता है ॥ २२ ॥

एवमदृष्टविषये दोषमुक्त्वा दृष्टविषये साक्षिणो दण्डमाह—

मिथ्यावचने याप्यो दण्ड्यश्च साक्षी ॥ २३ ॥

मिथ्यावचने दृष्टे साक्षी याप्यो गर्ह्यः सर्वैरयमसंव्यवहार्य इति, दण्ड्यश्च राज्ञा।

अत्र मनुः—

लोभात्सहस्रं दण्ड्यस्तु मोहात्पूर्वं तु साहसम्।
भयाद् द्वौ मध्यमौ दण्ड्यौ मैत्र्यात्पूर्वं चतुर्गुणम् ॥
कामाद्दशगुणं पूर्वं क्रोधात्तद्विगुणं परम्।
अज्ञानाद् द्वे शते पूर्णे बालिश्याच्छतमेव तु ॥
कूटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः।
प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ इति

विष्णुः— कूटसाक्षिणां सर्वस्वापहार उक्तश्चोपजोविनां च ॥ इति॥ २३॥

१३८ | गौतमधर्मसूत्राणि

साक्षी का असत्यभाषण प्रकट होने पर उसे निर्वासित करना चाहिए और राजा द्वारा दण्ड दिया जाना चाहिए ॥ २३ ॥

नानृतवचने दोषो जीवनं चेत्तदधीनम् ॥ २४ ॥

यदा सत्यवचनात्परस्परवधोऽनृतवदने तु तदधीनमनृतवचननिबन्धनमन्यस्य जीवनं भवति न वधस्तत्रानृतवचने न पूर्वोक्तो दोष इति ।

अत्र याज्ञवल्क्यः—

वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् । तत्पावनाय निर्वप्यश्चरुः सारस्वतो द्विजैः ॥ इति ॥ २४ ॥

यदि असत्य भाषण से किसी के प्राणों की रक्षा होती हो तो उस असत्य भाषण से पूर्वोक्त दोष साक्षी को नहीं लगते हैं ॥ २४ ॥

न तु पापीयसो जीवनम् ॥ २५ ॥

यदि त्वनृतवचनेन पापीयसः पापवत्तरस्य परपीडारतस्य जीवनं भवति तदा न तु न दोषः । अपि तु दोष एवेति ॥ २५ ॥

किन्तु किसी पापी का जीवन असत्यभाषण पर आश्रित हो (अर्थात् असत्य भाषण से बचता हो) तो वह असत्य भाषण दोषहीन नहीं होता (उसका दोष साक्षी को लगता है) ॥ २५ ॥

अथ साक्षिणः केन प्रष्टव्यास्तमाह—

राजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित् ॥ २६ ॥

पृच्छतीति प्राट् । विविच्य वक्तीति विवाकः । न्यङ्क्वादिषु दर्शनाद् वृद्धिकृत्वे । राजा प्राड्विवाकः स्यात् । अन्यपरे तु तस्मिंस्तेन नियुक्तो ब्राह्मणो वा शास्त्रवित् ।

अत्र मनुः—

यदा स्वयं न कुर्यात्तु नृपतिः कार्यनिर्णयम् । तदा नियुञ्ज्याद्विद्वांसं ब्राह्मणं कार्यनिर्णये ॥ इति ॥ २६ ॥

राजा स्वयं ही न्यायकर्ता (पूछकर विचार करने वाला) बने अथवा कोई शास्त्रज्ञ ब्राह्मण (राजा द्वारा नियुक्त होकर) न्यायकर्ता बने ॥ २६ ॥

प्राड्विवाकमध्याभवेत् ॥ २७ ॥

अधिरुपरिभाव ऐश्वर्ये वा । आङागमनार्थे । एनमुक्तलक्षणं प्राड्विवाकमुपर्यासीनमधःस्थितश्चिरं वा गुणभूतः सन्नागच्छेदत्कार्यार्थी । न तु प्राड्विवाकः स्वयं कार्यमुत्पाद्याऽऽह्वयेदिति ।

तथा च मनुः—

नोत्पादयेत्स्वयं कार्यं राजा नाप्यस्य पूरुषः ॥ इति ॥ २७ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १३९

अभ्यर्थी स्वयं न्यायकर्ता के निकट जाय ॥ २७ ॥

संवत्सरं प्रतीक्षेताप्रतिभायाम् ॥ २८ ॥

यदाऽभियुक्तस्यार्थिनः साक्षिणो वाऽप्रतिभा भवति वक्तव्यं न प्रतिभाति स्वयं जाड्याद्युपेतत्वादर्थस्य वा चिरनिर्वृत्तत्वादिना दुर्निरूप्यत्वात्तदा संवत्सरं प्रतीक्षेत । एतावता कालेन निरूप्य ब्रूहीति कालं दद्यात् । अत्र कात्यायनः—

अस्वतन्त्रजडोन्मत्तबालदीक्षितरोगिणाम् ।
कालः संवत्सरादर्वाक्स्वयमेव यथेप्सितम् ॥
नारदः—गहनत्वाद्विवादानामसामर्थ्यात्स्मृतेरपि ।
ऋणादिषु हरेत्कालं कामं तत्त्वबुभुत्सया ॥ इति ॥
प्रजापतिः—दिनमेकमथ द्वे वा त्रीणि वा पञ्च सप्त वा ।
कालस्त्वृणादौ गहन आत्रिपक्षादपि स्मृतः ॥ २८ ॥

अभियुक्त या साक्षी के उत्तर न देने पर एक वर्ष तक उनके उत्तर की प्रतीक्षा करनी चाहिए ॥ २८ ॥

धेन्वनडुत्स्त्रीप्रजननसंयुक्ते च शीघ्रम् ॥ २९ ॥

संयुक्तशब्दः प्रत्येकं संबध्यते । धेन्वादिसंयुक्ते विवादे शीघ्रं विवादयेत् । प्रजननं विवाहस्तद्धेतुत्वात् । स्त्री दास्यादिः । तथाऽऽह कात्यायनः—

धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।
न्यासे चारित्रके दत्ते तथैव क्रयविक्रये ॥
कन्याया दूषणे स्तेये कलहे साहसे निधौ ।
उपधौ कूटसाक्ष्ये च सद्य एव विवादयेत् ॥ इति ॥ २६ ॥

गाय, बैल, स्त्री (दासी आदि) और विवाह से संबद्ध विवाद का शीघ्र निर्णय करे ॥ २९ ॥

आत्ययिके च ॥ ३० ॥

व्यपैति गौरवं यत्र विनाशास्त्याग एव च ।
कालं तत्र न कुर्वीत कार्यमात्ययिकं हि तत् ॥ इति कात्यायनः ।

एवमादावात्ययिके शीघ्रं विवादयेन्न कालं दद्यादिति ।
याज्ञवल्क्यः—

साहसस्तेयपारुष्यगोभिशापात्यये स्त्रियाम् ।
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ इति ॥ ३० ॥

१४० गौतमधर्मसूत्राणि

जिन विषयों से सम्बद्ध विवाद में विलम्ब होने पर हानि होने की सम्भावना हो उनका निर्णय शीघ्र करना चाहिए ॥ ३० ॥

सर्वधर्मेभ्यो गरीयः प्राड्विवाके सत्यवचनं सत्यवचनम् ॥ ३१ ॥

श्रुतिस्मृतिचोदितेभ्यः सर्वधर्मेभ्यो गुरुतरमिदं यत्प्राड्विवाके पृच्छति सति सत्यं ब्रूयात् । द्विरुक्तिरध्यायसमाप्त्यर्था ॥ ३१ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां द्वितीयप्रश्ने चतुर्थोऽध्यायः ॥ ४ ॥
इति वर्णधर्मः ।

न्यायकर्ता द्वारा पूछे जाने पर सत्य बोलना ही (श्रुति और स्मृति द्वारा विहित) सभी धर्मों में श्रेष्ठ धर्म है ॥ ३१ ॥

द्वितीयप्रश्ने चतुर्थोऽध्यायः समाप्तः ।


अथ पञ्चमोऽध्यायः

अथाशौचनिर्णयः ।

शावमाशौचं दशरात्रमन्नृत्विग्दीक्षितब्रह्मचारिणां सपिण्डानाम् ॥ १ ॥

शवनिमित्तं शावम् । अशुचिभाव आशौचम् । दशरात्रं दशाहोरात्रं भवति सपिण्डनामृत्विगादिवर्जितानाम् । ऋत्विग्याजकः कर्मणि वर्तमानः । दीक्षितः कृतदीक्षणीयः कर्मणि वर्तमानः । ब्रह्मचारी प्रसिद्धः । आऽवभृथं पूर्वयोः । आ ब्रह्मचर्यपर्यन्तं परस्य । किं पुनरिदमाशौचलक्षणम् । कर्मण्यनधिकारोऽभोज्यान्नताऽस्पृश्यता दानादिष्वनधिकारिता ।

अत्र मनुः—

उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥
न स्पृशेयुरनासन्नाः प्रेतस्याऽऽसन्नबान्धवान् । इति च ।

अङ्गिराः—

सूतके तु यदा विप्रो ब्रह्मचारी विशेषतः ।
पिबेत्पानीयमज्ञानात्समश्नीयात्स्पृशेत वा ॥
पानीयपाने कुर्वीत पञ्चगव्यस्य भक्षणम् ।
त्रिरात्रं भोजने प्रोक्तं स्पृष्ट्वा स्नानं विधीयते ॥ इति ॥

याज्ञवल्क्यः— उदक्याशौचिभिः स्नायात्संस्पृष्टस्तैरुपस्पृशेत् । इति ।
संवर्तः— अस्थिसंचयनादूर्ध्वमङ्गस्पर्शो विधीयते ॥ इति ।
व्याघ्रः—

मरणादेव कर्तव्यं संयोगो यस्य नाग्निभिः ।
दहनादेव कर्तव्यं यस्य वैतानिको विधिः ॥ इति ।

शङ्खः—

चतुर्थे दशरात्रं स्यात्षण्णिशः पुंसि पञ्चमे ।
षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयम् ॥ इति ।

एतत्सर्वं निर्गुणविषयम् । गुणवद्विषये पराशरः—

एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः ।
त्र्यहात्केवलवेदस्तु निर्गुणो दशभिर्दिनैः ॥ इति ।

बृहस्पतिः—

त्रिरात्रेण विशुध्येत विप्रो वेदाग्निसंयुतः ।
पञ्चाहेनाग्निहीनस्तु दशाहाद् ब्राह्मणब्रुवः ॥ इति ।

अत्र ब्रह्मचारिग्रहणं गृहस्थव्यतिरिक्तानामाश्रमाणांमुपलक्षणार्थम् ।
अत्र बृहस्पतिः—

१४२गौतमधर्मसूत्राणि

नैष्ठिकानां व्रतस्थानां यतीनां ब्रह्मचारिणाम्।
नाऽशौचं सूतके प्रोक्तं शावे वाऽपि तथैव च॥ इति।
दीक्षितग्रहणं चान्द्रायणादिव्रतप्रवृत्तानामुपलक्षणार्थम्। अत्र वसिष्ठः—
न राज्ञामथ दोषोऽस्ति व्रतिनां सत्रिणां तथा।
ऐन्द्रंस्थानमुपासीना न चापूता हि ते सदा॥ इति ॥ १॥

ऋत्विज्, यज्ञ में दीक्षित, तथा ब्रह्मचारी को छोड़कर सपिण्डों के लिए मृत्युविषयक आशौच दस दिन (और रात) का होता है॥ १॥

एकादशरात्रं क्षत्रियस्य ॥ २ ॥

दीक्षितब्रह्मचारिव्यतिरिक्तस्य ज्ञातिमरणे क्षत्रियस्यैकादशरात्रं भवति। द्वादशरात्रेणेति याज्ञवल्क्यः। पञ्चदशरात्रेणेति वसिष्ठः। दशरात्रेणेति पराशरः। षोडशाहमिति पैठीनसिः। एतेषां वृताग्निसवाध्यायसमाख्यासापेक्षो विकल्पः॥ २॥

(दीक्षित ब्रह्मचारी आदि के अतिरिक्त) क्षत्रिय को सपिण्ड की मृत्यु पर ग्यारह रात्रि का आशौच होता है॥ २॥

द्वादशरात्रं वैश्यस्यार्धमासमेके ॥ ३ ॥

एकादशरात्रं पराशरः। विंशतिरात्रं वसिष्ठपैठीनसौ। पूर्ववद्विकल्पः॥ ३॥

इसी प्रकार वैश्य को बारह रात्रियों का आशौच होता है; कुछ आचार्यों के अनुसार वैश्य को आधे मास का आशौच होता है॥ ३॥

मासं शूद्रस्य ॥ ४ ॥

सच्छूद्राणामर्धमासमित्युशना। ये त्रैवर्णिकान्परिचरन्तस्तेभ्यो वृत्तिं लिप्सन्ते ते सच्छूद्राः। सा हि तेषामुत्तमा वृत्तिरित्यवोचाम। दासविषये बृहस्पतिः—
दासान्तेवासिभृतकाः शिष्याश्चैकत्रवासिनः।
स्वामितुल्येन शौचेन शुध्यन्ति मृतसूतके॥ इति।
अत्र क्रमविवाहे बौधायनः—
क्षत्रविट्शूद्रजातीया ये स्युर्विप्रस्य बान्धवाः।
तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते॥
राजन्यवैश्यावप्येवं हीनजातिषु बन्धुषु।
स्वमेवाऽऽशौचं कुर्यातां विशुद्ध्यर्थमसंशयः॥ इति।

सानुवाद-मिताक्षरावृत्तिसहितानि १४३

बृहस्पतिस्तु—शुध्येद्विप्रो दशाहेन जन्महान्योः स्वयोनिषु। सप्तपञ्चत्रिरात्रैस्तु क्षत्रविट्शूद्रयोनिषु ॥ इति ।

अत्र विष्णुर्विशेषमाह—ब्राह्मणस्य क्षत्रियविट्शूद्रेषु षड्रात्रत्रिरात्रैकरात्रैः। क्षत्रियस्य विट्शूद्रयोः षड्रात्रत्रिरात्राभ्याम् । वैश्यस्य शूद्रे षड्रात्राच्छुद्धिरिति प्रकृतम् । एषां वृत्त्यपेक्षया व्यवस्था । अधिकवर्णविषये मनुः—

सर्वे तूत्तमवर्णानामाशौचं कुर्युरादृताः । तद्वर्णविधिदृष्टेन स्वं त्वाशौचं स्वयोनिषु ॥ इति ।

उत्तमवर्णानां मरणप्रयुक्तमाशौचमुक्तं तद्वर्णावधिदृष्टेन प्रकारेण कुर्युः स्वयोनिषु तु स्वाशौचं स्वजातिनिमित्तं कुर्युरीति । अत एव ज्ञायते मातृजातियुक्ता अनुलोमानां धर्मा इति ॥ ४ ॥

शूद्र को एकमास तक आशौच होता है ॥ ४ ॥

तच्चेदन्तः पुनरापतेच्छेषेण शुद्धयेरन् ॥ ५ ॥

अन्तरितस्य प्रतियोग्यपेक्षायां शावमाशौचं दशरात्रमिति प्रकृतं दशरात्राद्यभिसंबध्यते । शावस्य दशरात्रादेराशौचस्य मध्ये तस्मिन्वर्तमाने यद्यन्यच्छावाशौचं समानकालं न्यूनकालं वा पुनरापतेदागच्छेत्ततः शेषेण पूर्वं वर्तमानस्य दशरात्रादेर्यानि शिष्टान्यहानि तैरेव शुध्येरन् । न पुनरापतितस्य कालप्रतीक्षेति । अत्र जननेऽप्येवमित्यतिदेशात्पूर्णस्य जननाशौचस्य मध्ये समानकालं वा न्यूनकालं या जननाशौचमागच्छेत्तच्छेषेण शुध्येरन् । यत्र न्यूनकालस्याऽऽशौचस्य मध्ये पूर्णकालमापतेत्तेनैव गच्छति ।

अत्र मनुः—अन्तर्दशाहे स्यातां चेत्पुनर्मरणजन्मनी । तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥ इति ।

देवलः—आघानां यौगपद्ये तु ज्ञेया शुद्धिर्गरीयसो ॥ इति ।

अङ्गिराः—मातर्यग्रे प्रमीतायामशुद्धौ म्रियते पिता । पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम् ॥ इति ।

सूतकाद् द्विगुणं शावं शावाद् द्विगुणमार्तवम् । आर्तवाद् द्विगुणा सूतिस्ततोऽधिशवदाहके ॥ इति ।

वृद्धात्रिः—अनेन दाहकस्य सूतिकायाश्च पूर्वाशौचविशेषेणोत्तरस्य शुद्धिरिति । अत्र षट्त्रिंशन्मतम्—

शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् । शावेन शुध्यते सूतिर्न सूतिः शावशोधनी ॥ इति ॥ ५ ॥

१४४ | गौतमधर्मसूत्राणि

एक मृत्युविषयक आशौच के काल के भीतर ही अन्य मृत्युविषयक आशौच होने पर पूर्व आशौच के अवशिष्ट दिनों में ही शुद्धि हो जाती है ॥ ५ ॥

रात्रिशेषे द्वाभ्याम् ॥ ६ ॥

पूर्वस्मिन्नाशौचे रात्रिशेषे सति यद्यन्यदापतेत्ततो द्वाभ्यामहोभ्यां शुध्येरन् ॥ ६ ॥

यदि प्रथम आशौच की एक रात्रि शेष रहने पर दूसरा आशौच लग जाय तो दो दिनों में शुद्धि होती है ॥ ६ ॥

प्रभाते तिसृभिः ॥ ७ ॥

अथ दशाहादौ व्यतीतेऽपरेद्युः प्रभाते संगवे यद्यन्यदापतेत्ततस्तिसृभी रात्रिभिः शुध्येरन्। अत्र मनुः—

विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्देशम् ।
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ इति ॥ ७ ॥

यदि प्रथम आशौच की समाप्ति के प्रातः काल ही दूसरा आशौच हो तो तीन दिनों में (उसकी शुद्धि होती है) ॥ ७ ॥

गोब्राह्मणहतानामन्वक्षम् ॥ ८ ॥

गवार्थे ब्राह्मणार्थे वा हतानां ये सपिण्डास्तेषामाशौचमन्वक्षम् । अन्वक्ष्यते प्रत्यक्ष्यते शवस्तावत्संस्कारान्ते स्नात्वा शुध्येरन्निति । अत्र सद्यःशौचाधिकारे मनुः—

गवा ब्राह्मणेन वा ये हतास्तज्ज्ञातीनामाशीचमन्वक्षमिति चार्थः। तथाऽऽहोशना—गोभिर्हतानां ब्राह्मणेर्हतानां च सद्यः शौचम् ॥ इति ॥ ८ ॥

गो और ब्राह्मण के लिए मरे हुए व्यक्तियों के सपिण्डों का आशौच शव-संस्कार के उपरान्त स्नान से ही दूर हो जाता है ॥ ८ ॥

राजक्रोधाच्च ॥ ९ ॥

हतानामित्युपसमस्तमपेक्ष्यते । राजक्रोधाद्ये हतास्तज्ज्ञातीनामप्यन्वक्षमाशौचम् ॥ ९ ॥

राजा के क्रोध से मृत व्यक्तियों के सपिण्डों का भी (आशौच शवसंस्कारोत्तर स्नान द्वारा दूर हो जाता है) ॥ ९ ॥

युद्धे ॥ १० ॥

चकारोऽनुवर्तते । युद्धे च हतानामन्वक्षमाशौचम् ।

सानुवाद-मिताक्षरावृत्तिसहितानि १४५

अत्र मनुः--डिम्बाहवहतानां च विद्युता पार्थिवेन च ॥ इति । डिम्बो जनसंमर्दः। सद्यः शौचं प्रकृतम्। पाठान्तरं त्वस्मभ्यं न रोचते। यदि वा स एव पाठः। आयुद्धे इति पदच्छेदः। आयुद्धमायोधनम् संग्राम इति यावत्। सर्वथा नञ्समासो न रोचते ॥ १० ॥

युद्ध में भी (मृत व्यक्तियों के सपिण्डों की शुद्धि शवसंस्कारोत्तर स्नान द्वारा होती है) ॥ १० ॥

प्रायोनाशकशस्त्राग्निविषोदकोद्वन्धनप्रपतनैश्चेच्छताम् ॥ ११ ॥

प्रायो महाप्रस्थानम्। तदनिच्छतोऽपि राजभयादिना संभवतीतीच्छतामित्युक्तम्। एवमुत्तरेष्वपि यथासंभवमिच्छानिच्छे द्रष्टव्ये। अश भोजनेऽशनमाशः। स एकाऽऽशक्तस्तद्विपर्ययोऽनाशकः। सत्येव भोज्यद्रव्ये क्रोधादिना भोजननिवृत्तिः शस्त्राग्निविषोदकोद्वन्धनानि प्रसिद्धानि। प्रपतनं वृक्षात्पर्वताद्वा पातः। एतैः प्रायादिभिरात्मव्यापादने चकारादन्यैरप्येवंविधैरन्वक्षमशौचमिति। अत्र ब्रह्मपुराणे--

क्रोधात्प्रायं विषं वह्निः शस्त्रमुद्वन्धनं जलम् ।
गिरिवृक्षप्रपातं च ये कुर्वन्ति नराधमाः ॥
ब्रह्मदण्डहता ये च ये चैव ब्राह्मणैर्हताः ।
महापातकिनो ये च पतितास्ते प्रकीर्तिताः ॥
पतितानां न दाहः स्यान्न च स्यादस्थिसंचयः ।
न चाश्रुपातः पिण्डो वा कार्या श्राद्धक्रिया न च ॥ इति ।

अत्राङ्गिराः--यदि कश्चित्प्रमादेन म्रियेताग्न्युदकादिभिः ।
तस्याऽऽशौचं विधातव्यं कर्तव्या चोदकक्रिया ॥ इति ॥ ११ ॥

महाप्रस्थान (स्वेच्छा से मरने वालों), उपवास, शस्त्र, अग्नि, विष, जल, बन्धन (फाँसी), एवं गिरने से इच्छापूर्वक (अथवा अनिच्छापूर्वक) आत्म-घात करने वालों के सपिण्डों को शवसंस्कारोत्तर स्नान तक आशौच होता है ॥ ११ ॥

सपिण्डानामित्युक्तम्। के ते सपिण्डास्तानाह—

पिण्डनिवृत्तिः सप्तमे पञ्चमे वा ॥ १२ ॥

कूटस्थमारभ्य षष्ठपर्यन्तं सापिण्ड्यम्। सप्तमे तु निवृत्तिः। केवलं सप्तमे सोदकत्वम्। सप्तमे तु निवर्तत इत्युक्तत्वात्। ततः परं सगोत्रत्वमेव। पञ्चमे वेति यदुक्तं तदौरसव्यतिरिक्तविषयम्। तत्रापि यथासंभवं द्रष्टव्यम्। एवं चार्थः—पितृपितामहप्रपितामहेभ्यस्तत्परमपि द्वाभ्यामि-


१० गौ० घ०

१४६गौतमधर्मसूत्राणि

त्यात्मना सह षष्ठपर्यन्तं पिण्डं दद्यात् । सप्तमे तु निवृत्तिः। पञ्चमे वेति पुत्रिकापुत्रविषयमेतत् । अत्र बौधायनः—कथं खलु पुत्रिकापुत्रस्य पिण्डदानम् । एतत्तेऽमुष्यै पितः, मम पितामह ये च त्वामनु, एतत्तेऽमुष्यै पितामह मम प्रपितामह ये च त्वामनु, एतत्तेऽमुष्यै प्रपितामह मम प्रपितामह ये च त्वामन्विति । अस्यैवं पिण्डं ददतः पञ्चमे प्राप्ते पिण्डनिवृत्तिः । मात्स्यपुराणे—

लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । सप्तमः पिण्डदस्त्वेषां सापिण्ड्यं साप्तपौरुषम् ॥ इति ॥ १२ ॥

सातवीं यां पाँचवी पीढ़ी में पिण्ड की निवृत्ति हो जाती है (छठीं पीढ़ी तक सपिण्डता रहती है, सातवीं में उसकी निवृत्ति हो जाती है, उसके उपरान्त सगोत्रता होती है और पुत्री के पुत्र के विषय में पाँचवी पीढ़ी में ही पिण्डनिवृत्ति होती है) ॥ १२ ॥

जननेऽप्येवम् ॥ १३ ॥

शावमाशौचं दशरात्रमित्यादेः प्रभाते तिसृभिरित्यन्तस्यातिदेशः । यथा शावमाशौचं तथा जननेऽपोति द्रष्टव्यम् ॥ १३ ॥

जिस प्रकार मृत्यु का आशौच होता है उसी प्रकार जन्म का भी आशौच समझना चाहिए ॥ १३ ॥

मातापित्रोस्तन्मातुर्वा ॥ १४ ॥

तज्जननाशौचं मातापित्रोर्वा मातुरेव वा । मुख्यत्वाज्जनन्यः पितुः प्रागेव । ज्ञातीनां तत्र व्याघ्रः—

सूतकं तु सपिण्डानां पित्रोर्वा मातुरेव वा ॥ इति ।

मातापित्रोर्वा तन्निमित्तत्वादिति । मनुस्तु—

जननेऽप्येवमेव स्यान्निपुणां शुद्धिमच्छताम् । सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् ॥ इति ।

याज्ञवल्क्यः—

त्रिरात्रं दशरात्रं वा शावमाशौचमिष्यते । ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ इति ।

बौधायनः—जनने तावन्मातापित्रोर्दशाहमाशौचे । मातुरित्येके । तत्परिहरणात् । पितुरित्येके । शुक्रप्राधान्यात् । अयोनिजा ह्यपि पुत्राः श्रूयन्ते । मातापित्रोरेव तु संसर्गसामान्यात् ।

अङ्गिराः—

नाशौचं सूतके प्रोक्तं सपिण्डानां कथंचन । मातापित्रोरशौचं स्यात्सूतकं मातुरेव च ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १४७

सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् ।
मातुर्वा सूतकं तस्मादुपस्पृश्य पिता शुचिः ॥ इति ।
शङ्खलिखितौ—जननेऽप्येवम् । तत्र मातापितरावशुची इति । मातेत्येके ॥ इति ।
पैठीनसिः—जनने सपिण्डाः शुचयो मातापित्रोस्तु सूतकम् ।
सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ इति ।
अत्र वृत्ताद्यपेक्षो दशाहो नैषां विकल्पः । अन्ये भणन्ति अनधिकारलक्षणमाशौचं सर्वेषां भवति । 'उभयत्र दशाहानि कुलस्यान्नं न भुज्यते' इति मानवे दर्शनात् । अस्पर्शितालक्षणं तु मातापित्रोरेवेति । गृहान्तरे वसतस्तत्संसर्गमगच्छतः पितुश्च नेति । 'सूतके सूतकावर्जं संस्पर्शो न निषिध्यते' इति च पठन्ति ॥ १४ ॥

जन्म का सूतक माता और पिता को होता है, अथवा केवल माता को ही होता है ॥ १४ ॥

गर्भमाससमा रात्रीः स्रंसने गर्भस्य ॥ १५ ॥

आ चतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः ।
अत ऊर्ध्वं तु नारीणां स्रवः प्रसव उच्यते ॥ इति ।
तिस्रो गर्भविपदस्ताः सर्वाः स्रंसनशब्देनोच्यन्ते । यावतिथे मासे गर्भस्य स्रंसनं तन्माससमा रात्रोराशौचं भवति । अत्यन्तसंयोगे द्वितीया । द्वितीयमासादियथामाससंख्यान्यहानीति ॥ १५ ॥

गर्भपात होने पर जितने मास का गर्भ रहा हो उतने दिन आशौच होता है ॥ १५ ॥

त्र्यहं वा ॥ १६ ॥

द्वितीयेऽपि मासे त्र्यहं वाऽपि भवति । चतुर्थे तूत्कर्षः ॥ १६ ॥

अथवा कम से कम (दूसरे मास में गर्भपात होने पर) तीन दिन आशौच होता है ॥ १६ ॥

श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् ॥ १७ ॥

दशमीग्रहणं दशाहादेः परिपूर्णाशौचस्योपलक्षणम् । अहर्द्वयमध्यगता रात्रिः पक्षिणी रात्रिद्वयमध्यगतमहर्वा । पूर्ववद् द्वितीयाप्राप्तिर्विपत्तिप्रकरणात् । मरणनिमित्तमूर्ध्वं दशाहादाशौचकालेऽतिक्रान्ते यदि ज्ञातिमरणं शृणुयात्ततः पक्षिणीमाशौचं भवति । दिवा श्रवणे तदहरन्तरा रात्रिश्च(र) परेद्युश्चाहः । रात्रौ श्रवणे सा रात्रिर्परेद्युरहोरात्र इति ।

१४८ गौतमधर्मसूत्राणि

अत्र मनुः—अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ॥ इति ।
तथा जाबालिः—अतीते सूतके स्वे स्वे त्रिरात्रमशुचिर्भवेत् ॥ इति ।
अत्र सूतकशब्द आशौचपर्यायः । विष्णुस्तु-व्यतीते त्वासंवत्सर-
स्यान्त एकरात्रेणेति । एषा देशकालधर्मापेक्षया व्यवस्था ।
वृद्धवसिष्ठः—मासत्रये त्रिरात्रं तु षण्मासे पक्षिणी भवेत् ।
एतच्च सर्वं संवत्सरादर्वाक् । अत्र मनुः—
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥ इति ।
अत्र पैठीनसिः—पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः ।
श्रुत्वा तद्दिनमारभ्य दशाहं सूतको भवेत् ॥ इति ।
स्मृत्यन्तरे—पितृपत्न्यां व्यतीतायां मातृवर्जं द्विजोत्तमः ।
संवत्सरे व्यतिक्रान्ते त्रिरात्रमशुचिर्भवेत् ॥
निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
एतत्तु समानोदकविषयम् ॥ १७ ॥

मृत्युविषयक दस रात्रियों का आशौच समाप्त होते ही किसी सपिण्ड की मृत्यु का समाचार सुने तो पक्षिणी (दो दिन और उनके मध्य की रात्रि अथवा दो रात्रियों और उनके मध्य के दिन का) आशौच होता है (अर्थात् दिन में सुनने पर उस दिन, उसके बाद की रात्रि और दूसरे दिन तक आशौच रहता है; रात्रि में सुनने पर, वह रात्रि, उसके बाद का दिन और दूसरी रात तक आशौच रहता है) ॥ १७ ॥

असपिण्डे योनिसंबन्धे सहाध्यायिनि च ॥ १८ ॥

सपिण्डता यस्य निवृत्ता सोऽसपिण्डः समानोदकः । योनिसंबन्धो मातामहमातृष्वसृतत्पुत्रादयः स्त्रीणां प्रत्तानां पित्रादयः स्वस्रादयश्च । सहाध्यायी एकस्मादुपाध्यायादधीतकृत्स्नवेदः । चकारात्स्मृत्यन्तरपठिताः पितृष्वसृतदपत्यादयोऽन्ये च । एतेषु मृतेषु परस्परं पक्षिणीमाशौचं भवति । पक्षिणीकाले त्वतीते स्नानमेव । मनुस्तु समानोदके त्रिरात्र-
माह—
राजन्याऽहैव चैकेन त्रिरात्रैरेव च त्रिभिः ।
शवस्पृशो विशुध्यन्ति त्र्यहात्तूदकदायिनः ॥ इति ।
अनयोः पूर्ववद् व्यवस्था । एतद्द्वयमप्यनुपनीतमरणविषयम् ।
ततोऽर्वाक्स्नानमेव । जननेऽपि समानोदकानां मनुना त्र्यहो दर्शितः-
जन्मन्येकोदकानां तु त्र्यहाच्छुद्धिरिहेष्यते ॥ इति ॥ १८ ॥

असपिण्ड और योनि सम्बन्ध वाले (मातामह, मौसी, उनके पुत्र आदि

सानुवाद-मिताक्षरावृत्तिसहितानि १४९

विवाहिता के पिता आदि, बहन (आदि) एवं एक साथ एक गुरु के यहाँ अध्ययन करने वाले की मृत्यु पर पक्षिणी आशौच होता है ॥ १८ ॥

सब्रह्मचारिण्येकाहम् ॥ १९ ॥

समानो ब्रह्मचारी सब्रह्मचारी सुहृत् । तस्मिन्मृते एकमहोरात्रमाशौचं भवति ॥ १९ ॥

( एक साथ ब्रह्मचर्याश्रम में रहने वाले ) समान ब्रह्मचारी की मृत्यु पर दिन-रात का आशौच होता है ॥ १९ ॥

श्रोत्रिये चोपसंपन्ने ॥ २० ॥

श्रोत्रियोऽधीतवेदः । उपसंपन्न आश्रितो गृहवासादिना । तस्मिन्मृते एकाहमाशौचम् । चकारादेकाहमित्यनुवर्तते । अत्राङ्गिराः— गृहे यस्य मृतः कश्चित्तत्सपिण्डः कथंचन । तस्याप्याशौचं विज्ञेयं त्रिरात्रं नात्र संशयः ॥ इति । मनुः—श्रोत्रिये तूपसपन्ने त्रिरात्रमशुचिर्भवेत् ॥ इति । आङ्गिरसमपि वचनं श्रोत्रियविषयम् । अत्र विष्णुः-स्त्रीणां विवाहः संस्कारः संस्कृतासु स्त्रीषु नाऽऽशौचं पितृपक्षे । तत्प्रसवमरणे पितृगृहे चेद्भवतां तदैकरात्रं त्रिरात्रं चेति । प्रसव एकरात्रं मरणे त्रिरात्रमिति व्यवस्थितो विकल्पः ॥ २० ॥

घर में निवास आदि द्वारा आश्रित वेदज्ञ की मृत्यु पर भी ( एक दिन-रात का ) आशौच होता है ॥ २० ॥

प्रेतोपस्पर्शने दशरात्रमाशौचमभिसंधाय चेत् ॥ २१ ॥

नात्रोपस्पर्शनशब्देन स्पर्शमात्रं विवक्षितम् । पतितचण्डालेत्यादिना सचैलस्नानस्य तद्विषये वक्ष्यमाणत्वात् । किं तर्ह्युपस्पर्शनं प्रेतनिर्हरणम् । तस्मिन्दशरात्रमाशौचं भवति । तच्चेन्निर्हरणमभिसंधाय वेतनादिप्रयोजनाभिसंधानेन भवति न धर्मार्थम् । सत्यप्याशौचाधिकारे पुनराशौचग्रहणं पूर्वस्मादाशौचादस्य वैधर्म्यज्ञापनार्थम् । तेन वक्ष्यमाणमधःशय्यासनादिकमस्मिन्विषये न भवति । अस्पृश्यताधिकारलक्षणमेव ॥ २१ ॥

यदि वेतनादि प्रयोजन से शव का उपस्पर्शन किया गया हो तो उसके लिए दस दिन का आशौच होता है ( किन्तु इस आशौच में पूर्वोक्त आशौच के समान अधःशय्यासन आदि नहीं होता ) ॥ २१ ॥

उक्तं वैश्यशूद्रयोः ॥ २२ ॥

अस्मिन्नभिसंधाय प्रेतोपस्पर्शनादिविषये वैश्यशूद्रयोरुक्तमाशौचं द्वादशरात्रमर्धमासमिति पूर्वोक्तम् ॥ २२ ॥

१५० | गौतमधर्मसूत्राणि

वेतनादि प्रयोजन से शव को ले जाने में वैश्य और शूद्र के लिए पूर्वोक्त ( बारह रात्रि या अर्धमास का ) आशौच होता है ॥ २२ ॥

आर्तवीर्वा ॥ २३ ॥

ऋतुसमानसंख्या वा रात्रीराशौचम् । षड् ऋतवः । पञ्च वा हेमन्त-शिशिरयोः समासेन ॥ २३ ॥

अथवा ऋतुओं की संख्या के बराबर रात्रियों तक का आशौच हो ॥ २३ ॥

पूर्वयोश्च ॥ २४ ॥

पूर्वयोर्ब्राह्मणक्षत्रिययोरपि वर्णयोरुक्तमाशौचमार्तवीर्वा रात्रीरा-शौचम् । उक्तस्यापि ब्राह्मणस्य पूर्वयोरिति पुनरुपादानमार्तवीर्वेति विक-ल्पसिद्ध्यर्थम् । पूर्ववद्देशकालावस्थाद्यपेक्षो विकल्पः । अत्र भृतिरहिते निर्हारे मनुः—

असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥
यद्यन्नमत्ति तेषां यः स दशाहेन शुध्यति ।
अनदन्नन्नमह्नैव न चेत्तस्मिन्गृहे वसेत् ॥ इति ।

बन्धुवत्स्नेहादिना । ग्रामाद्वहिर्वासे वोढॄणां सज्योतिः । यथाऽह हारीतः—प्रेतस्पृशो ग्रामं न प्रविशेयुरा नक्षत्रदर्शनाद्रात्रौ चेदाऽऽदित्य-दर्शनात्ततः शुद्धिरिति । ग्रामप्रवेशे तु अनदन्नन्नमह्नैवेति मानवमेकाहः । अनाथविषये पराशरः—

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे क्रतुफलमानुपूर्व्याल्लभन्ति ते ॥
प्रेतस्पर्शनसंस्कारैर्ब्राह्मणो नैव दुष्यति ।
वोढा चैवाग्निदाता च सद्यः स्नात्वा विशुध्यति ॥ इति ॥ २४ ॥

अथवा पूर्ववर्ती ब्राह्मण और क्षत्रिय वर्णों के लिए भी यह आशौच ऋतु की संख्या के बराबर रात्रियों तक का हो ॥ २४ ॥

त्र्यहं वा ॥ २५ ॥

प्रेतोपस्पर्शन इत्यारभ्य सर्वेषां वर्णानां त्र्यहं वा । अत्युत्कृष्टविषय-मिदम् ॥ २५ ॥

अथवा ( प्रेतोपस्पर्शन में सभी वर्णों के लिए ) तीन दिन का आशौच होता है ॥ २५ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १५१

आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् ॥ २६ ॥

उपनीय तु यः शिष्यमित्युक्तलक्षण आचार्यः । तत्पुत्र आचार्यपुत्रः । आचार्यस्त्री । याज्यो यजनीय ऋत्विगपेक्षया यजमानः । शिष्यः प्रसिद्धः । एतेषु मृतेषु चैवं त्र्यहमिति ॥ २६ ॥

आचार्य, उनके पुत्र, आचार्य की पत्नी, यजमान और शिष्य की मृत्यु पर तीन दिन का आशौच होता है ॥ २६ ॥

विजातीयनिर्हारविषयमाह—

अवरश्चेद्वर्णः पूर्ववर्णमुपस्पृशेत्पूर्वो वाऽवरं तत्र शवोक्तमा- शौचम् ॥ २७ ॥

अवरो जघन्यः क्षत्रियादिर्ब्राह्मणापेक्षया । पूर्वो ब्राह्मणादिः क्षत्रियाद्यपेक्षया । तयोरन्योन्यनिर्हारे शवजात्युक्तमाशौचं भवति । ब्राह्मणशवनिर्हरणे क्षत्रियस्य दशरात्रम् । क्षत्रियस्य शवनिर्हरणे ब्राह्मणस्यैकादशरात्रमित्यादि । अत्रैव भृत्यर्थे व्याघ्रः— अवरश्चेद्वरं वर्णमवरं वा वरो यदि । चरेच्छ्रावं तदाऽऽशौचं दृष्टार्थे द्विगुणं भवेत् ॥ २७ ॥

यदि कोई निम्नवर्ण का व्यक्ति किसी उच्च वर्ण के व्यक्ति का शव ले जाय अथवा कोई उच्च वर्ण का व्यक्ति निम्न वर्ण के व्यक्ति का शव ले जाय तो उस मृत व्यक्ति के वर्ण के अनुसार आशौच काल होता है । यथा क्षत्रिय ब्राह्मण का शव ले जाय तो उसे दस दिन-रात्रि का आशौच होता है ॥ २७ ॥

बुद्धिपूर्वशवस्पर्शमात्रे प्रासङ्गिकेन सह शुद्धिमाह—

पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचै- लोदकोपस्पर्शनाच्छुध्येत् ॥ २८ ॥

पतितो ब्रह्महादिः । चण्डालसूतिकोदक्याशवाः प्रसिद्धाः । एतेषां स्पृष्टौ तत्स्पृष्टौ स्प्रष्टॄणां च स्पृष्टावुपस्पर्शने तदुपस्पर्शने, स्प्रष्टॄणां स्पर्शने च सचैलोदकोपस्पर्शनात्स्नानाच्छुध्येत् । स्नानेन सचैलत्वेन शुद्धौ । अतः क्रियाविशेषणपाठोऽयुक्तः । अबुद्धिपूर्वे मानवम्— दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ इति ॥ २८ ॥

ब्रह्महत्यादि पापों से युक्त पतित, चण्डाल, सूतिका स्त्री, रजस्वला स्त्री, और शव छूने पर अथवा इनका स्पर्श किये हुए व्यक्ति को छूने पर पहने हुए वस्त्रों के साथ स्नान करने पर शुद्धि होती है ॥ २८ ॥

१५२ गौतमधर्मसूत्राणि

शवानुगमने च ॥ २९ ॥

अनुगम्येच्छयाऽप्येतं ज्ञातिमज्ञातिमेव वा ।
स्नात्वा सचैलं स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति ॥ इति ।

घृतप्राशनादूर्ध्वमपि स्नानं केचिदिच्छन्ति । तत्र मूलं मृग्यम् । याज्ञवल्क्योऽपि स्पृष्ट्वाऽग्नि घृतमुक्शुचिरित्येतावदेवाऽऽह । इदं सजातीयविषयम् । ब्राह्मणस्य क्षत्रियानुगमने वसिष्ठोक्तम् । 'मानुष्यास्थि स्पृष्ट्वा त्रिरात्रमाशौचमस्थिस्ने त्वहोरात्रं शवानुगमने चैवमिति' । एवमिति त्रिरात्राहोरात्रयोरतिदेशः । अत्र क्षत्रियानुगमन एकरात्रं वैश्यानुगमने त्रिरात्रमिति व्यवस्था । शूद्रानुगमने त्वङ्गिराः—

प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः ।
अनुगच्छेन्नोयमानं त्रिरात्रं सोऽशुचिर्भवेत् ॥
त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ इति ।

क्षत्रियवैश्ययोर्वैश्यशूद्रानुगमने ब्राह्मणवत्कल्प्यम् । क्षत्रियस्य शूद्रानुगमन एकरात्रं प्राणायामशतं च । मनुः—

नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जलमाविशेत् ।
आचम्यैव तु निःस्नेहं गां स्पृष्ट्वा वोक्ष्य वा रविम् ॥ इति ।

इदमबुद्धिपूर्वविषयम् । वृद्धमनुः—

दहनं वहनं चापि प्रेतस्यान्यस्य गर्भवान् ।
न कुर्यादुभयं तत्र कुर्यादेव पितुः सदा ॥
ज्येष्ठस्य वाऽनपत्यस्य मातुलस्य सुतस्य वा ॥ इति ।

पितुरिति मातुरप्युपलक्षणम् । आतुररोदने पारस्करः—

अस्थिसंचयनादर्वाग्रुदित्वा स्नानमाचरेत् ।
अन्तर्दशाहे विप्रस्य ऊर्ध्वमाचमनं स्मृतम् ॥ इति ।

विप्रस्य मृतस्यान्तर्दशाहे रुदतां सर्वेषां वर्णानां समानमिदम् । अत्र विष्णुः—सर्वस्यैव प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा स्नानेन । अकृतास्थिसंचये सचैलस्नानेन शुद्धिरिति प्रकरणाद् गम्यते । इदं क्षत्रियादिमरणे समानापकृष्टांनां रोदने शूद्रवर्जम् । त्रिवर्णविषयातुररोदने ब्रह्मपुराणे पठन्ति—

अनस्थिसञ्चयो विप्रो रौति चेत्क्षत्रवैश्ययोः ।
तदा स्नातः सचैलस्तु द्वितीयेऽहनि शुध्यति ॥
कृते तु संचये विप्रः स्नानेनैव शुचिर्भवेत् ॥ इति ।