भारतकोश
संग्रह पर लौटें

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

१४० गौतमधर्मसूत्राणि

जिन विषयों से सम्बद्ध विवाद में विलम्ब होने पर हानि होने की सम्भावना हो उनका निर्णय शीघ्र करना चाहिए ॥ ३० ॥

सर्वधर्मेभ्यो गरीयः प्राड्विवाके सत्यवचनं सत्यवचनम् ॥ ३१ ॥

श्रुतिस्मृतिचोदितेभ्यः सर्वधर्मेभ्यो गुरुतरमिदं यत्प्राड्विवाके पृच्छति सति सत्यं ब्रूयात् । द्विरुक्तिरध्यायसमाप्त्यर्था ॥ ३१ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां द्वितीयप्रश्ने चतुर्थोऽध्यायः ॥ ४ ॥
इति वर्णधर्मः ।

न्यायकर्ता द्वारा पूछे जाने पर सत्य बोलना ही (श्रुति और स्मृति द्वारा विहित) सभी धर्मों में श्रेष्ठ धर्म है ॥ ३१ ॥

द्वितीयप्रश्ने चतुर्थोऽध्यायः समाप्तः ।


अथ पञ्चमोऽध्यायः

अथाशौचनिर्णयः ।

शावमाशौचं दशरात्रमन्नृत्विग्दीक्षितब्रह्मचारिणां सपिण्डानाम् ॥ १ ॥

शवनिमित्तं शावम् । अशुचिभाव आशौचम् । दशरात्रं दशाहोरात्रं भवति सपिण्डनामृत्विगादिवर्जितानाम् । ऋत्विग्याजकः कर्मणि वर्तमानः । दीक्षितः कृतदीक्षणीयः कर्मणि वर्तमानः । ब्रह्मचारी प्रसिद्धः । आऽवभृथं पूर्वयोः । आ ब्रह्मचर्यपर्यन्तं परस्य । किं पुनरिदमाशौचलक्षणम् । कर्मण्यनधिकारोऽभोज्यान्नताऽस्पृश्यता दानादिष्वनधिकारिता ।

अत्र मनुः—

उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥
न स्पृशेयुरनासन्नाः प्रेतस्याऽऽसन्नबान्धवान् । इति च ।

अङ्गिराः—

सूतके तु यदा विप्रो ब्रह्मचारी विशेषतः ।
पिबेत्पानीयमज्ञानात्समश्नीयात्स्पृशेत वा ॥
पानीयपाने कुर्वीत पञ्चगव्यस्य भक्षणम् ।
त्रिरात्रं भोजने प्रोक्तं स्पृष्ट्वा स्नानं विधीयते ॥ इति ॥

याज्ञवल्क्यः— उदक्याशौचिभिः स्नायात्संस्पृष्टस्तैरुपस्पृशेत् । इति ।
संवर्तः— अस्थिसंचयनादूर्ध्वमङ्गस्पर्शो विधीयते ॥ इति ।
व्याघ्रः—

मरणादेव कर्तव्यं संयोगो यस्य नाग्निभिः ।
दहनादेव कर्तव्यं यस्य वैतानिको विधिः ॥ इति ।

शङ्खः—

चतुर्थे दशरात्रं स्यात्षण्णिशः पुंसि पञ्चमे ।
षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयम् ॥ इति ।

एतत्सर्वं निर्गुणविषयम् । गुणवद्विषये पराशरः—

एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः ।
त्र्यहात्केवलवेदस्तु निर्गुणो दशभिर्दिनैः ॥ इति ।

बृहस्पतिः—

त्रिरात्रेण विशुध्येत विप्रो वेदाग्निसंयुतः ।
पञ्चाहेनाग्निहीनस्तु दशाहाद् ब्राह्मणब्रुवः ॥ इति ।

अत्र ब्रह्मचारिग्रहणं गृहस्थव्यतिरिक्तानामाश्रमाणांमुपलक्षणार्थम् ।
अत्र बृहस्पतिः—

१४२गौतमधर्मसूत्राणि

नैष्ठिकानां व्रतस्थानां यतीनां ब्रह्मचारिणाम्।
नाऽशौचं सूतके प्रोक्तं शावे वाऽपि तथैव च॥ इति।
दीक्षितग्रहणं चान्द्रायणादिव्रतप्रवृत्तानामुपलक्षणार्थम्। अत्र वसिष्ठः—
न राज्ञामथ दोषोऽस्ति व्रतिनां सत्रिणां तथा।
ऐन्द्रंस्थानमुपासीना न चापूता हि ते सदा॥ इति ॥ १॥

ऋत्विज्, यज्ञ में दीक्षित, तथा ब्रह्मचारी को छोड़कर सपिण्डों के लिए मृत्युविषयक आशौच दस दिन (और रात) का होता है॥ १॥

एकादशरात्रं क्षत्रियस्य ॥ २ ॥

दीक्षितब्रह्मचारिव्यतिरिक्तस्य ज्ञातिमरणे क्षत्रियस्यैकादशरात्रं भवति। द्वादशरात्रेणेति याज्ञवल्क्यः। पञ्चदशरात्रेणेति वसिष्ठः। दशरात्रेणेति पराशरः। षोडशाहमिति पैठीनसिः। एतेषां वृताग्निसवाध्यायसमाख्यासापेक्षो विकल्पः॥ २॥

(दीक्षित ब्रह्मचारी आदि के अतिरिक्त) क्षत्रिय को सपिण्ड की मृत्यु पर ग्यारह रात्रि का आशौच होता है॥ २॥

द्वादशरात्रं वैश्यस्यार्धमासमेके ॥ ३ ॥

एकादशरात्रं पराशरः। विंशतिरात्रं वसिष्ठपैठीनसौ। पूर्ववद्विकल्पः॥ ३॥

इसी प्रकार वैश्य को बारह रात्रियों का आशौच होता है; कुछ आचार्यों के अनुसार वैश्य को आधे मास का आशौच होता है॥ ३॥

मासं शूद्रस्य ॥ ४ ॥

सच्छूद्राणामर्धमासमित्युशना। ये त्रैवर्णिकान्परिचरन्तस्तेभ्यो वृत्तिं लिप्सन्ते ते सच्छूद्राः। सा हि तेषामुत्तमा वृत्तिरित्यवोचाम। दासविषये बृहस्पतिः—
दासान्तेवासिभृतकाः शिष्याश्चैकत्रवासिनः।
स्वामितुल्येन शौचेन शुध्यन्ति मृतसूतके॥ इति।
अत्र क्रमविवाहे बौधायनः—
क्षत्रविट्शूद्रजातीया ये स्युर्विप्रस्य बान्धवाः।
तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते॥
राजन्यवैश्यावप्येवं हीनजातिषु बन्धुषु।
स्वमेवाऽऽशौचं कुर्यातां विशुद्ध्यर्थमसंशयः॥ इति।

सानुवाद-मिताक्षरावृत्तिसहितानि १४३

बृहस्पतिस्तु—शुध्येद्विप्रो दशाहेन जन्महान्योः स्वयोनिषु। सप्तपञ्चत्रिरात्रैस्तु क्षत्रविट्शूद्रयोनिषु ॥ इति ।

अत्र विष्णुर्विशेषमाह—ब्राह्मणस्य क्षत्रियविट्शूद्रेषु षड्रात्रत्रिरात्रैकरात्रैः। क्षत्रियस्य विट्शूद्रयोः षड्रात्रत्रिरात्राभ्याम् । वैश्यस्य शूद्रे षड्रात्राच्छुद्धिरिति प्रकृतम् । एषां वृत्त्यपेक्षया व्यवस्था । अधिकवर्णविषये मनुः—

सर्वे तूत्तमवर्णानामाशौचं कुर्युरादृताः । तद्वर्णविधिदृष्टेन स्वं त्वाशौचं स्वयोनिषु ॥ इति ।

उत्तमवर्णानां मरणप्रयुक्तमाशौचमुक्तं तद्वर्णावधिदृष्टेन प्रकारेण कुर्युः स्वयोनिषु तु स्वाशौचं स्वजातिनिमित्तं कुर्युरीति । अत एव ज्ञायते मातृजातियुक्ता अनुलोमानां धर्मा इति ॥ ४ ॥

शूद्र को एकमास तक आशौच होता है ॥ ४ ॥

तच्चेदन्तः पुनरापतेच्छेषेण शुद्धयेरन् ॥ ५ ॥

अन्तरितस्य प्रतियोग्यपेक्षायां शावमाशौचं दशरात्रमिति प्रकृतं दशरात्राद्यभिसंबध्यते । शावस्य दशरात्रादेराशौचस्य मध्ये तस्मिन्वर्तमाने यद्यन्यच्छावाशौचं समानकालं न्यूनकालं वा पुनरापतेदागच्छेत्ततः शेषेण पूर्वं वर्तमानस्य दशरात्रादेर्यानि शिष्टान्यहानि तैरेव शुध्येरन् । न पुनरापतितस्य कालप्रतीक्षेति । अत्र जननेऽप्येवमित्यतिदेशात्पूर्णस्य जननाशौचस्य मध्ये समानकालं वा न्यूनकालं या जननाशौचमागच्छेत्तच्छेषेण शुध्येरन् । यत्र न्यूनकालस्याऽऽशौचस्य मध्ये पूर्णकालमापतेत्तेनैव गच्छति ।

अत्र मनुः—अन्तर्दशाहे स्यातां चेत्पुनर्मरणजन्मनी । तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशम् ॥ इति ।

देवलः—आघानां यौगपद्ये तु ज्ञेया शुद्धिर्गरीयसो ॥ इति ।

अङ्गिराः—मातर्यग्रे प्रमीतायामशुद्धौ म्रियते पिता । पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम् ॥ इति ।

सूतकाद् द्विगुणं शावं शावाद् द्विगुणमार्तवम् । आर्तवाद् द्विगुणा सूतिस्ततोऽधिशवदाहके ॥ इति ।

वृद्धात्रिः—अनेन दाहकस्य सूतिकायाश्च पूर्वाशौचविशेषेणोत्तरस्य शुद्धिरिति । अत्र षट्त्रिंशन्मतम्—

शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् । शावेन शुध्यते सूतिर्न सूतिः शावशोधनी ॥ इति ॥ ५ ॥

१४४ | गौतमधर्मसूत्राणि

एक मृत्युविषयक आशौच के काल के भीतर ही अन्य मृत्युविषयक आशौच होने पर पूर्व आशौच के अवशिष्ट दिनों में ही शुद्धि हो जाती है ॥ ५ ॥

रात्रिशेषे द्वाभ्याम् ॥ ६ ॥

पूर्वस्मिन्नाशौचे रात्रिशेषे सति यद्यन्यदापतेत्ततो द्वाभ्यामहोभ्यां शुध्येरन् ॥ ६ ॥

यदि प्रथम आशौच की एक रात्रि शेष रहने पर दूसरा आशौच लग जाय तो दो दिनों में शुद्धि होती है ॥ ६ ॥

प्रभाते तिसृभिः ॥ ७ ॥

अथ दशाहादौ व्यतीतेऽपरेद्युः प्रभाते संगवे यद्यन्यदापतेत्ततस्तिसृभी रात्रिभिः शुध्येरन्। अत्र मनुः—

विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्देशम् ।
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ इति ॥ ७ ॥

यदि प्रथम आशौच की समाप्ति के प्रातः काल ही दूसरा आशौच हो तो तीन दिनों में (उसकी शुद्धि होती है) ॥ ७ ॥

गोब्राह्मणहतानामन्वक्षम् ॥ ८ ॥

गवार्थे ब्राह्मणार्थे वा हतानां ये सपिण्डास्तेषामाशौचमन्वक्षम् । अन्वक्ष्यते प्रत्यक्ष्यते शवस्तावत्संस्कारान्ते स्नात्वा शुध्येरन्निति । अत्र सद्यःशौचाधिकारे मनुः—

गवा ब्राह्मणेन वा ये हतास्तज्ज्ञातीनामाशीचमन्वक्षमिति चार्थः। तथाऽऽहोशना—गोभिर्हतानां ब्राह्मणेर्हतानां च सद्यः शौचम् ॥ इति ॥ ८ ॥

गो और ब्राह्मण के लिए मरे हुए व्यक्तियों के सपिण्डों का आशौच शव-संस्कार के उपरान्त स्नान से ही दूर हो जाता है ॥ ८ ॥

राजक्रोधाच्च ॥ ९ ॥

हतानामित्युपसमस्तमपेक्ष्यते । राजक्रोधाद्ये हतास्तज्ज्ञातीनामप्यन्वक्षमाशौचम् ॥ ९ ॥

राजा के क्रोध से मृत व्यक्तियों के सपिण्डों का भी (आशौच शवसंस्कारोत्तर स्नान द्वारा दूर हो जाता है) ॥ ९ ॥

युद्धे ॥ १० ॥

चकारोऽनुवर्तते । युद्धे च हतानामन्वक्षमाशौचम् ।

सानुवाद-मिताक्षरावृत्तिसहितानि १४५

अत्र मनुः--डिम्बाहवहतानां च विद्युता पार्थिवेन च ॥ इति । डिम्बो जनसंमर्दः। सद्यः शौचं प्रकृतम्। पाठान्तरं त्वस्मभ्यं न रोचते। यदि वा स एव पाठः। आयुद्धे इति पदच्छेदः। आयुद्धमायोधनम् संग्राम इति यावत्। सर्वथा नञ्समासो न रोचते ॥ १० ॥

युद्ध में भी (मृत व्यक्तियों के सपिण्डों की शुद्धि शवसंस्कारोत्तर स्नान द्वारा होती है) ॥ १० ॥

प्रायोनाशकशस्त्राग्निविषोदकोद्वन्धनप्रपतनैश्चेच्छताम् ॥ ११ ॥

प्रायो महाप्रस्थानम्। तदनिच्छतोऽपि राजभयादिना संभवतीतीच्छतामित्युक्तम्। एवमुत्तरेष्वपि यथासंभवमिच्छानिच्छे द्रष्टव्ये। अश भोजनेऽशनमाशः। स एकाऽऽशक्तस्तद्विपर्ययोऽनाशकः। सत्येव भोज्यद्रव्ये क्रोधादिना भोजननिवृत्तिः शस्त्राग्निविषोदकोद्वन्धनानि प्रसिद्धानि। प्रपतनं वृक्षात्पर्वताद्वा पातः। एतैः प्रायादिभिरात्मव्यापादने चकारादन्यैरप्येवंविधैरन्वक्षमशौचमिति। अत्र ब्रह्मपुराणे--

क्रोधात्प्रायं विषं वह्निः शस्त्रमुद्वन्धनं जलम् ।
गिरिवृक्षप्रपातं च ये कुर्वन्ति नराधमाः ॥
ब्रह्मदण्डहता ये च ये चैव ब्राह्मणैर्हताः ।
महापातकिनो ये च पतितास्ते प्रकीर्तिताः ॥
पतितानां न दाहः स्यान्न च स्यादस्थिसंचयः ।
न चाश्रुपातः पिण्डो वा कार्या श्राद्धक्रिया न च ॥ इति ।

अत्राङ्गिराः--यदि कश्चित्प्रमादेन म्रियेताग्न्युदकादिभिः ।
तस्याऽऽशौचं विधातव्यं कर्तव्या चोदकक्रिया ॥ इति ॥ ११ ॥

महाप्रस्थान (स्वेच्छा से मरने वालों), उपवास, शस्त्र, अग्नि, विष, जल, बन्धन (फाँसी), एवं गिरने से इच्छापूर्वक (अथवा अनिच्छापूर्वक) आत्म-घात करने वालों के सपिण्डों को शवसंस्कारोत्तर स्नान तक आशौच होता है ॥ ११ ॥

सपिण्डानामित्युक्तम्। के ते सपिण्डास्तानाह—

पिण्डनिवृत्तिः सप्तमे पञ्चमे वा ॥ १२ ॥

कूटस्थमारभ्य षष्ठपर्यन्तं सापिण्ड्यम्। सप्तमे तु निवृत्तिः। केवलं सप्तमे सोदकत्वम्। सप्तमे तु निवर्तत इत्युक्तत्वात्। ततः परं सगोत्रत्वमेव। पञ्चमे वेति यदुक्तं तदौरसव्यतिरिक्तविषयम्। तत्रापि यथासंभवं द्रष्टव्यम्। एवं चार्थः—पितृपितामहप्रपितामहेभ्यस्तत्परमपि द्वाभ्यामि-


१० गौ० घ०

१४६गौतमधर्मसूत्राणि

त्यात्मना सह षष्ठपर्यन्तं पिण्डं दद्यात् । सप्तमे तु निवृत्तिः। पञ्चमे वेति पुत्रिकापुत्रविषयमेतत् । अत्र बौधायनः—कथं खलु पुत्रिकापुत्रस्य पिण्डदानम् । एतत्तेऽमुष्यै पितः, मम पितामह ये च त्वामनु, एतत्तेऽमुष्यै पितामह मम प्रपितामह ये च त्वामनु, एतत्तेऽमुष्यै प्रपितामह मम प्रपितामह ये च त्वामन्विति । अस्यैवं पिण्डं ददतः पञ्चमे प्राप्ते पिण्डनिवृत्तिः । मात्स्यपुराणे—

लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । सप्तमः पिण्डदस्त्वेषां सापिण्ड्यं साप्तपौरुषम् ॥ इति ॥ १२ ॥

सातवीं यां पाँचवी पीढ़ी में पिण्ड की निवृत्ति हो जाती है (छठीं पीढ़ी तक सपिण्डता रहती है, सातवीं में उसकी निवृत्ति हो जाती है, उसके उपरान्त सगोत्रता होती है और पुत्री के पुत्र के विषय में पाँचवी पीढ़ी में ही पिण्डनिवृत्ति होती है) ॥ १२ ॥

जननेऽप्येवम् ॥ १३ ॥

शावमाशौचं दशरात्रमित्यादेः प्रभाते तिसृभिरित्यन्तस्यातिदेशः । यथा शावमाशौचं तथा जननेऽपोति द्रष्टव्यम् ॥ १३ ॥

जिस प्रकार मृत्यु का आशौच होता है उसी प्रकार जन्म का भी आशौच समझना चाहिए ॥ १३ ॥

मातापित्रोस्तन्मातुर्वा ॥ १४ ॥

तज्जननाशौचं मातापित्रोर्वा मातुरेव वा । मुख्यत्वाज्जनन्यः पितुः प्रागेव । ज्ञातीनां तत्र व्याघ्रः—

सूतकं तु सपिण्डानां पित्रोर्वा मातुरेव वा ॥ इति ।

मातापित्रोर्वा तन्निमित्तत्वादिति । मनुस्तु—

जननेऽप्येवमेव स्यान्निपुणां शुद्धिमच्छताम् । सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् ॥ इति ।

याज्ञवल्क्यः—

त्रिरात्रं दशरात्रं वा शावमाशौचमिष्यते । ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ इति ।

बौधायनः—जनने तावन्मातापित्रोर्दशाहमाशौचे । मातुरित्येके । तत्परिहरणात् । पितुरित्येके । शुक्रप्राधान्यात् । अयोनिजा ह्यपि पुत्राः श्रूयन्ते । मातापित्रोरेव तु संसर्गसामान्यात् ।

अङ्गिराः—

नाशौचं सूतके प्रोक्तं सपिण्डानां कथंचन । मातापित्रोरशौचं स्यात्सूतकं मातुरेव च ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १४७

सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् ।
मातुर्वा सूतकं तस्मादुपस्पृश्य पिता शुचिः ॥ इति ।
शङ्खलिखितौ—जननेऽप्येवम् । तत्र मातापितरावशुची इति । मातेत्येके ॥ इति ।
पैठीनसिः—जनने सपिण्डाः शुचयो मातापित्रोस्तु सूतकम् ।
सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ इति ।
अत्र वृत्ताद्यपेक्षो दशाहो नैषां विकल्पः । अन्ये भणन्ति अनधिकारलक्षणमाशौचं सर्वेषां भवति । 'उभयत्र दशाहानि कुलस्यान्नं न भुज्यते' इति मानवे दर्शनात् । अस्पर्शितालक्षणं तु मातापित्रोरेवेति । गृहान्तरे वसतस्तत्संसर्गमगच्छतः पितुश्च नेति । 'सूतके सूतकावर्जं संस्पर्शो न निषिध्यते' इति च पठन्ति ॥ १४ ॥

जन्म का सूतक माता और पिता को होता है, अथवा केवल माता को ही होता है ॥ १४ ॥

गर्भमाससमा रात्रीः स्रंसने गर्भस्य ॥ १५ ॥

आ चतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः ।
अत ऊर्ध्वं तु नारीणां स्रवः प्रसव उच्यते ॥ इति ।
तिस्रो गर्भविपदस्ताः सर्वाः स्रंसनशब्देनोच्यन्ते । यावतिथे मासे गर्भस्य स्रंसनं तन्माससमा रात्रोराशौचं भवति । अत्यन्तसंयोगे द्वितीया । द्वितीयमासादियथामाससंख्यान्यहानीति ॥ १५ ॥

गर्भपात होने पर जितने मास का गर्भ रहा हो उतने दिन आशौच होता है ॥ १५ ॥

त्र्यहं वा ॥ १६ ॥

द्वितीयेऽपि मासे त्र्यहं वाऽपि भवति । चतुर्थे तूत्कर्षः ॥ १६ ॥

अथवा कम से कम (दूसरे मास में गर्भपात होने पर) तीन दिन आशौच होता है ॥ १६ ॥

श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् ॥ १७ ॥

दशमीग्रहणं दशाहादेः परिपूर्णाशौचस्योपलक्षणम् । अहर्द्वयमध्यगता रात्रिः पक्षिणी रात्रिद्वयमध्यगतमहर्वा । पूर्ववद् द्वितीयाप्राप्तिर्विपत्तिप्रकरणात् । मरणनिमित्तमूर्ध्वं दशाहादाशौचकालेऽतिक्रान्ते यदि ज्ञातिमरणं शृणुयात्ततः पक्षिणीमाशौचं भवति । दिवा श्रवणे तदहरन्तरा रात्रिश्च(र) परेद्युश्चाहः । रात्रौ श्रवणे सा रात्रिर्परेद्युरहोरात्र इति ।

१४८ गौतमधर्मसूत्राणि

अत्र मनुः—अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ॥ इति ।
तथा जाबालिः—अतीते सूतके स्वे स्वे त्रिरात्रमशुचिर्भवेत् ॥ इति ।
अत्र सूतकशब्द आशौचपर्यायः । विष्णुस्तु-व्यतीते त्वासंवत्सर-
स्यान्त एकरात्रेणेति । एषा देशकालधर्मापेक्षया व्यवस्था ।
वृद्धवसिष्ठः—मासत्रये त्रिरात्रं तु षण्मासे पक्षिणी भवेत् ।
एतच्च सर्वं संवत्सरादर्वाक् । अत्र मनुः—
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥ इति ।
अत्र पैठीनसिः—पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः ।
श्रुत्वा तद्दिनमारभ्य दशाहं सूतको भवेत् ॥ इति ।
स्मृत्यन्तरे—पितृपत्न्यां व्यतीतायां मातृवर्जं द्विजोत्तमः ।
संवत्सरे व्यतिक्रान्ते त्रिरात्रमशुचिर्भवेत् ॥
निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
एतत्तु समानोदकविषयम् ॥ १७ ॥

मृत्युविषयक दस रात्रियों का आशौच समाप्त होते ही किसी सपिण्ड की मृत्यु का समाचार सुने तो पक्षिणी (दो दिन और उनके मध्य की रात्रि अथवा दो रात्रियों और उनके मध्य के दिन का) आशौच होता है (अर्थात् दिन में सुनने पर उस दिन, उसके बाद की रात्रि और दूसरे दिन तक आशौच रहता है; रात्रि में सुनने पर, वह रात्रि, उसके बाद का दिन और दूसरी रात तक आशौच रहता है) ॥ १७ ॥

असपिण्डे योनिसंबन्धे सहाध्यायिनि च ॥ १८ ॥

सपिण्डता यस्य निवृत्ता सोऽसपिण्डः समानोदकः । योनिसंबन्धो मातामहमातृष्वसृतत्पुत्रादयः स्त्रीणां प्रत्तानां पित्रादयः स्वस्रादयश्च । सहाध्यायी एकस्मादुपाध्यायादधीतकृत्स्नवेदः । चकारात्स्मृत्यन्तरपठिताः पितृष्वसृतदपत्यादयोऽन्ये च । एतेषु मृतेषु परस्परं पक्षिणीमाशौचं भवति । पक्षिणीकाले त्वतीते स्नानमेव । मनुस्तु समानोदके त्रिरात्र-
माह—
राजन्याऽहैव चैकेन त्रिरात्रैरेव च त्रिभिः ।
शवस्पृशो विशुध्यन्ति त्र्यहात्तूदकदायिनः ॥ इति ।
अनयोः पूर्ववद् व्यवस्था । एतद्द्वयमप्यनुपनीतमरणविषयम् ।
ततोऽर्वाक्स्नानमेव । जननेऽपि समानोदकानां मनुना त्र्यहो दर्शितः-
जन्मन्येकोदकानां तु त्र्यहाच्छुद्धिरिहेष्यते ॥ इति ॥ १८ ॥

असपिण्ड और योनि सम्बन्ध वाले (मातामह, मौसी, उनके पुत्र आदि

सानुवाद-मिताक्षरावृत्तिसहितानि १४९

विवाहिता के पिता आदि, बहन (आदि) एवं एक साथ एक गुरु के यहाँ अध्ययन करने वाले की मृत्यु पर पक्षिणी आशौच होता है ॥ १८ ॥

सब्रह्मचारिण्येकाहम् ॥ १९ ॥

समानो ब्रह्मचारी सब्रह्मचारी सुहृत् । तस्मिन्मृते एकमहोरात्रमाशौचं भवति ॥ १९ ॥

( एक साथ ब्रह्मचर्याश्रम में रहने वाले ) समान ब्रह्मचारी की मृत्यु पर दिन-रात का आशौच होता है ॥ १९ ॥

श्रोत्रिये चोपसंपन्ने ॥ २० ॥

श्रोत्रियोऽधीतवेदः । उपसंपन्न आश्रितो गृहवासादिना । तस्मिन्मृते एकाहमाशौचम् । चकारादेकाहमित्यनुवर्तते । अत्राङ्गिराः— गृहे यस्य मृतः कश्चित्तत्सपिण्डः कथंचन । तस्याप्याशौचं विज्ञेयं त्रिरात्रं नात्र संशयः ॥ इति । मनुः—श्रोत्रिये तूपसपन्ने त्रिरात्रमशुचिर्भवेत् ॥ इति । आङ्गिरसमपि वचनं श्रोत्रियविषयम् । अत्र विष्णुः-स्त्रीणां विवाहः संस्कारः संस्कृतासु स्त्रीषु नाऽऽशौचं पितृपक्षे । तत्प्रसवमरणे पितृगृहे चेद्भवतां तदैकरात्रं त्रिरात्रं चेति । प्रसव एकरात्रं मरणे त्रिरात्रमिति व्यवस्थितो विकल्पः ॥ २० ॥

घर में निवास आदि द्वारा आश्रित वेदज्ञ की मृत्यु पर भी ( एक दिन-रात का ) आशौच होता है ॥ २० ॥

प्रेतोपस्पर्शने दशरात्रमाशौचमभिसंधाय चेत् ॥ २१ ॥

नात्रोपस्पर्शनशब्देन स्पर्शमात्रं विवक्षितम् । पतितचण्डालेत्यादिना सचैलस्नानस्य तद्विषये वक्ष्यमाणत्वात् । किं तर्ह्युपस्पर्शनं प्रेतनिर्हरणम् । तस्मिन्दशरात्रमाशौचं भवति । तच्चेन्निर्हरणमभिसंधाय वेतनादिप्रयोजनाभिसंधानेन भवति न धर्मार्थम् । सत्यप्याशौचाधिकारे पुनराशौचग्रहणं पूर्वस्मादाशौचादस्य वैधर्म्यज्ञापनार्थम् । तेन वक्ष्यमाणमधःशय्यासनादिकमस्मिन्विषये न भवति । अस्पृश्यताधिकारलक्षणमेव ॥ २१ ॥

यदि वेतनादि प्रयोजन से शव का उपस्पर्शन किया गया हो तो उसके लिए दस दिन का आशौच होता है ( किन्तु इस आशौच में पूर्वोक्त आशौच के समान अधःशय्यासन आदि नहीं होता ) ॥ २१ ॥

उक्तं वैश्यशूद्रयोः ॥ २२ ॥

अस्मिन्नभिसंधाय प्रेतोपस्पर्शनादिविषये वैश्यशूद्रयोरुक्तमाशौचं द्वादशरात्रमर्धमासमिति पूर्वोक्तम् ॥ २२ ॥

१५० | गौतमधर्मसूत्राणि

वेतनादि प्रयोजन से शव को ले जाने में वैश्य और शूद्र के लिए पूर्वोक्त ( बारह रात्रि या अर्धमास का ) आशौच होता है ॥ २२ ॥

आर्तवीर्वा ॥ २३ ॥

ऋतुसमानसंख्या वा रात्रीराशौचम् । षड् ऋतवः । पञ्च वा हेमन्त-शिशिरयोः समासेन ॥ २३ ॥

अथवा ऋतुओं की संख्या के बराबर रात्रियों तक का आशौच हो ॥ २३ ॥

पूर्वयोश्च ॥ २४ ॥

पूर्वयोर्ब्राह्मणक्षत्रिययोरपि वर्णयोरुक्तमाशौचमार्तवीर्वा रात्रीरा-शौचम् । उक्तस्यापि ब्राह्मणस्य पूर्वयोरिति पुनरुपादानमार्तवीर्वेति विक-ल्पसिद्ध्यर्थम् । पूर्ववद्देशकालावस्थाद्यपेक्षो विकल्पः । अत्र भृतिरहिते निर्हारे मनुः—

असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥
यद्यन्नमत्ति तेषां यः स दशाहेन शुध्यति ।
अनदन्नन्नमह्नैव न चेत्तस्मिन्गृहे वसेत् ॥ इति ।

बन्धुवत्स्नेहादिना । ग्रामाद्वहिर्वासे वोढॄणां सज्योतिः । यथाऽह हारीतः—प्रेतस्पृशो ग्रामं न प्रविशेयुरा नक्षत्रदर्शनाद्रात्रौ चेदाऽऽदित्य-दर्शनात्ततः शुद्धिरिति । ग्रामप्रवेशे तु अनदन्नन्नमह्नैवेति मानवमेकाहः । अनाथविषये पराशरः—

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे क्रतुफलमानुपूर्व्याल्लभन्ति ते ॥
प्रेतस्पर्शनसंस्कारैर्ब्राह्मणो नैव दुष्यति ।
वोढा चैवाग्निदाता च सद्यः स्नात्वा विशुध्यति ॥ इति ॥ २४ ॥

अथवा पूर्ववर्ती ब्राह्मण और क्षत्रिय वर्णों के लिए भी यह आशौच ऋतु की संख्या के बराबर रात्रियों तक का हो ॥ २४ ॥

त्र्यहं वा ॥ २५ ॥

प्रेतोपस्पर्शन इत्यारभ्य सर्वेषां वर्णानां त्र्यहं वा । अत्युत्कृष्टविषय-मिदम् ॥ २५ ॥

अथवा ( प्रेतोपस्पर्शन में सभी वर्णों के लिए ) तीन दिन का आशौच होता है ॥ २५ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १५१

आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् ॥ २६ ॥

उपनीय तु यः शिष्यमित्युक्तलक्षण आचार्यः । तत्पुत्र आचार्यपुत्रः । आचार्यस्त्री । याज्यो यजनीय ऋत्विगपेक्षया यजमानः । शिष्यः प्रसिद्धः । एतेषु मृतेषु चैवं त्र्यहमिति ॥ २६ ॥

आचार्य, उनके पुत्र, आचार्य की पत्नी, यजमान और शिष्य की मृत्यु पर तीन दिन का आशौच होता है ॥ २६ ॥

विजातीयनिर्हारविषयमाह—

अवरश्चेद्वर्णः पूर्ववर्णमुपस्पृशेत्पूर्वो वाऽवरं तत्र शवोक्तमा- शौचम् ॥ २७ ॥

अवरो जघन्यः क्षत्रियादिर्ब्राह्मणापेक्षया । पूर्वो ब्राह्मणादिः क्षत्रियाद्यपेक्षया । तयोरन्योन्यनिर्हारे शवजात्युक्तमाशौचं भवति । ब्राह्मणशवनिर्हरणे क्षत्रियस्य दशरात्रम् । क्षत्रियस्य शवनिर्हरणे ब्राह्मणस्यैकादशरात्रमित्यादि । अत्रैव भृत्यर्थे व्याघ्रः— अवरश्चेद्वरं वर्णमवरं वा वरो यदि । चरेच्छ्रावं तदाऽऽशौचं दृष्टार्थे द्विगुणं भवेत् ॥ २७ ॥

यदि कोई निम्नवर्ण का व्यक्ति किसी उच्च वर्ण के व्यक्ति का शव ले जाय अथवा कोई उच्च वर्ण का व्यक्ति निम्न वर्ण के व्यक्ति का शव ले जाय तो उस मृत व्यक्ति के वर्ण के अनुसार आशौच काल होता है । यथा क्षत्रिय ब्राह्मण का शव ले जाय तो उसे दस दिन-रात्रि का आशौच होता है ॥ २७ ॥

बुद्धिपूर्वशवस्पर्शमात्रे प्रासङ्गिकेन सह शुद्धिमाह—

पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचै- लोदकोपस्पर्शनाच्छुध्येत् ॥ २८ ॥

पतितो ब्रह्महादिः । चण्डालसूतिकोदक्याशवाः प्रसिद्धाः । एतेषां स्पृष्टौ तत्स्पृष्टौ स्प्रष्टॄणां च स्पृष्टावुपस्पर्शने तदुपस्पर्शने, स्प्रष्टॄणां स्पर्शने च सचैलोदकोपस्पर्शनात्स्नानाच्छुध्येत् । स्नानेन सचैलत्वेन शुद्धौ । अतः क्रियाविशेषणपाठोऽयुक्तः । अबुद्धिपूर्वे मानवम्— दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा । शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ इति ॥ २८ ॥

ब्रह्महत्यादि पापों से युक्त पतित, चण्डाल, सूतिका स्त्री, रजस्वला स्त्री, और शव छूने पर अथवा इनका स्पर्श किये हुए व्यक्ति को छूने पर पहने हुए वस्त्रों के साथ स्नान करने पर शुद्धि होती है ॥ २८ ॥

१५२ गौतमधर्मसूत्राणि

शवानुगमने च ॥ २९ ॥

अनुगम्येच्छयाऽप्येतं ज्ञातिमज्ञातिमेव वा ।
स्नात्वा सचैलं स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति ॥ इति ।

घृतप्राशनादूर्ध्वमपि स्नानं केचिदिच्छन्ति । तत्र मूलं मृग्यम् । याज्ञवल्क्योऽपि स्पृष्ट्वाऽग्नि घृतमुक्शुचिरित्येतावदेवाऽऽह । इदं सजातीयविषयम् । ब्राह्मणस्य क्षत्रियानुगमने वसिष्ठोक्तम् । 'मानुष्यास्थि स्पृष्ट्वा त्रिरात्रमाशौचमस्थिस्ने त्वहोरात्रं शवानुगमने चैवमिति' । एवमिति त्रिरात्राहोरात्रयोरतिदेशः । अत्र क्षत्रियानुगमन एकरात्रं वैश्यानुगमने त्रिरात्रमिति व्यवस्था । शूद्रानुगमने त्वङ्गिराः—

प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः ।
अनुगच्छेन्नोयमानं त्रिरात्रं सोऽशुचिर्भवेत् ॥
त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ इति ।

क्षत्रियवैश्ययोर्वैश्यशूद्रानुगमने ब्राह्मणवत्कल्प्यम् । क्षत्रियस्य शूद्रानुगमन एकरात्रं प्राणायामशतं च । मनुः—

नारं स्पृष्ट्वाऽस्थि सस्नेहं सवासा जलमाविशेत् ।
आचम्यैव तु निःस्नेहं गां स्पृष्ट्वा वोक्ष्य वा रविम् ॥ इति ।

इदमबुद्धिपूर्वविषयम् । वृद्धमनुः—

दहनं वहनं चापि प्रेतस्यान्यस्य गर्भवान् ।
न कुर्यादुभयं तत्र कुर्यादेव पितुः सदा ॥
ज्येष्ठस्य वाऽनपत्यस्य मातुलस्य सुतस्य वा ॥ इति ।

पितुरिति मातुरप्युपलक्षणम् । आतुररोदने पारस्करः—

अस्थिसंचयनादर्वाग्रुदित्वा स्नानमाचरेत् ।
अन्तर्दशाहे विप्रस्य ऊर्ध्वमाचमनं स्मृतम् ॥ इति ।

विप्रस्य मृतस्यान्तर्दशाहे रुदतां सर्वेषां वर्णानां समानमिदम् । अत्र विष्णुः—सर्वस्यैव प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा स्नानेन । अकृतास्थिसंचये सचैलस्नानेन शुद्धिरिति प्रकरणाद् गम्यते । इदं क्षत्रियादिमरणे समानापकृष्टांनां रोदने शूद्रवर्जम् । त्रिवर्णविषयातुररोदने ब्रह्मपुराणे पठन्ति—

अनस्थिसञ्चयो विप्रो रौति चेत्क्षत्रवैश्ययोः ।
तदा स्नातः सचैलस्तु द्वितीयेऽहनि शुध्यति ॥
कृते तु संचये विप्रः स्नानेनैव शुचिर्भवेत् ॥ इति ।

सानुवाद-मिताक्षरावृत्तिसहितानि १५३

क्षत्रियस्य वैश्यातुरव्यञ्जनेऽप्येवमेवोहितव्यम् । शूद्रातुरव्यञ्जने पारस्करः—

अस्थिसंचयनादूर्वाग्यदि विप्रोऽश्रु पातयेत् ।
मृते शूद्रे गृहं गत्वा त्रिरात्रेण विशुध्यति ॥
अस्थिसंचयनादूर्ध्वं मासो यावद् द्विजातयः ।
अहोरात्रेण शुध्यन्ति वाससां क्षालनेन च ॥
इत्यलं प्रसक्तानुप्रसङ्गेन ॥ २९ ॥

अथवा ( दाहकर्म के लिये ले जाये जाते हुए ) शव के पीछे जाने पर भी वस्त्रों सहित स्नान करने पर शुद्धि होती है ॥ २६ ॥

शुनश्च ॥ ३० ॥

उपसमस्तमप्यपेक्षते । शुनश्चोपस्पर्शने सचैलोदकोपस्पर्शनाच्छुद्ध्येत् । पृथक्करणं तत्सृष्टिन्यायनिवृत्त्यर्थम् ॥ ३० ॥

कुत्ते को छूने पर भी (वस्त्रसहित स्नान करने पर ही शुद्धि होती है) ॥३०॥

यदुपहन्यादित्येके ॥ ३१ ॥

एके तु यदङ्गं श्वोपहन्यात्तस्यैव प्रक्षालनमिच्छन्ति । अत्राऽऽपस्तम्बीयो विशेषः—शुनोपहतः सचैलोऽवगाहेत । प्रक्षाल्य वा तं देशमग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ चाऽऽचम्य प्रयतो भवतीति । ऊर्ध्वाङ्गस्पर्शे स्नानमधः प्रक्षालनमिति व्यवस्थां जातूकर्ण्य आह—

ऊर्ध्वं नाभेः करौ मुक्त्वा स्पृश्येदङ्गं खरो यदि ।
स्नानं तत्र विधातव्यं शेषे प्रक्षाल्य शुध्यति ॥ इति ॥ ३१ ॥

कुछ आचार्यों का मत है कि जिस अंग को कुत्ते ने छू लिया है उसे धोने से ही शुद्धि हो जाती है ॥ ३१ ॥

उदकदानं सपिण्डैः कृतचूडस्य ॥ ३२ ॥

कृतचूडान्तस्य प्रेतस्य सपिण्डैरुदकदानं कर्तव्यं यावदाशौचम् । न ततोऽर्वागिति । अग्निसंस्कारोऽप्यस्यैव । यथाऽऽह लौगाक्षिः—

तूष्णीमेवोदकं दद्यात्तूष्णीमेवाग्निमेव च ।
सर्वेषां कृतचूडानामन्यत्रापीच्छया द्वयम् ॥ इति ।

एवं च कृतचूडस्य नियतोऽग्निसंस्कार उदकदानं च । अकृतचूडस्य त्वनियतं तदकरणे न प्रत्यवायः । चूडाकरणेन कालो लक्ष्यते तृतीयं वर्षम् । बहुषु स्मृतिषु तथा दर्शनात् । मनुरपि—

द्वादशाद्वत्सरादर्वाक्पौगण्डमरणे सति ।

१५४ गौतमधर्मसूत्राणि

नात्रिवर्षस्य कर्तव्या ब्राह्मणैरुदकक्रिया ।
जातदन्तस्य वा कुर्यान्नाम्नि चापि कृते सति ॥ इति ।
अग्न्युदकग्रहणमौर्ध्वदेहिकस्योपलक्षणम् । तत्र देवलो विशेषमाह—
द्वादशाद्वत्सरादर्वाक्पौगण्डमरणे सति ।
सपिण्डीकरणं न स्यादेकोद्दिष्टानि कारयेत् ॥ इति ॥ ३२ ॥

जिस मृत व्यक्ति का चूडान्त संस्कार किया गया हो उसे ही सपिण्डों द्वारा उदकदान दिया जाना चाहिए ॥ ३२ ॥

तत्स्त्रीणां च ॥ ३३ ॥

तदुदकदानं स्त्रीणां च कृतचूड़ानां कार्यम् ॥ ३३ ॥
जिन का चूडाकरण हुआ हो उन्हीं की स्त्रियों एवं पुत्रियों को मरने पर जल दिया जाय ॥ ३३ ॥

एके प्रत्तानाम् ॥ ३४ ॥

एके मन्यन्ते प्रत्तानामेव स्त्रीणामुदकदानमप्रत्तानां तु नैवेति । प्रत्तानां च भर्तृपक्षैर्देयम् ॥ ३४ ॥
कुछ आचार्यों का मत है कि विवाहिता स्त्रियों को ही मरने पर जल दिया जाय ॥ ३४ ॥

अथाऽऽशौचकाले ज्ञातयः कथं वर्तेरन्—

अधःशय्यासनिनो ब्रह्मचारिणः सर्वे ॥ ३५ ॥

भूमावेव शयीरन्नासीरंश्च न कटासनादिषु । मैथुनं च बर्जयेयुः । सर्वग्रहणं समानोदकार्थम् ॥ ३५ ॥
(आशौच काल में) सभी सपिण्ड भूमि पर ही सोवें और बैठें (चटाई और आसन आदि पर नहीं) तथा ब्रह्मचारी रहें (मैथुन से विरत रहें) ॥ ३५ ॥

न मार्जयीरन् ॥ ३६ ॥

मार्जनं गात्रमलापकर्षणम् । तच्च न कुर्युः ॥ ३६ ॥
शरीर की मैल न साफ करें ॥ ३६ ॥

न मांसं भक्षयेयुरा प्रदानात् ॥ ३७ ॥

प्रदानं श्राद्धम् । आ तदन्तं मांसं न भक्षयेयुः ॥ ३७ ॥
श्राद्ध समाप्त होने तक मांस का भक्षण न करे ॥ ३७ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १५५

प्रथमतृतीयसप्तमनवमेषूदकक्रिया ॥ ३८ ॥
प्रथमादिष्वहःसु सपिण्डैः प्रेताय तिलमिश्रमुदकं देयमेवंगोत्रायै- वं शर्मणे प्रेतायैतत्तिलोदकं ददामीति । प्रथमे त्रीन् । तृतीये नव । सप्तमे त्रिंशत् । नवमे त्रयस्त्रिंशत् । इति पञ्चसप्ततिर्जलाञ्जलयो देयाः । आचारस्तु प्रथमेऽह्नि त्रयः । द्वितीयादिष्वेकोत्तरं दीयते ॥ ३८ ॥
पहले, तीसरे, सातवें और नवें दिन ( तिल युक्त ) जल की अंजलि प्रेत के लिए प्रदान करें ॥ ३८ ॥

वाससां च त्यागः ॥ ३६ ॥
उदकदानकाले परिहितानि वासांसि प्रथमतृतीयसप्तमनवमेषु त्या- ज्यानि । अन्यानि क्रमेण परिधेयानि ॥ ३९ ॥
उदकदान के समय धारण किये गये वस्त्रों का त्याग ( करके दूसरे वस्त्र धारण ) करें ॥ ३९ ॥

अन्ते ( न्त्ये ) त्वन्त्यानाम् ॥ ४० ॥
वर्णेष्वन्त्याः शूद्रास्तेषामन्त्ये नवमेऽहनि वाससां त्यागः ॥ ४० ॥
शूद्र अन्तिम उदकदान के समय अर्थात् नवे दिन वस्त्र त्याग करे ॥ ४० ॥

दन्तजन्मादि मातापितृभ्याम् ॥ ४१ ॥
दन्तजन्मप्रभृति पुत्रस्य मातापितरौ जलं दद्याताम् । तूष्णीं माता ॥ ४१ ॥
दाँत निकलने के बाद (मृत) पुत्र को माता और पिता उदकाञ्जलि दें ॥ ४१ ॥

बालदेशान्तरितप्रव्रजितासपिण्डानां सद्यःशौचम् ॥ ४२ ॥
बालोऽकृतचूडः । देशान्तरितो देशेन व्यवहितो देशान्तरस्थः । प्रव्रजिता नैष्ठिकवानप्रस्थपरिव्राजकाः असपिण्डाः समानोदकाः । तेषां मरणे ज्ञातीनां सद्यःशौचं स्नानेन शुद्धिः । बालविषये याज्ञवल्क्यः-

ऊनद्विवार्षिकं प्रेतं निखनेन्नोदकं ततः ।
आ दन्तजन्मनः सद्य आ चूडान्नैशिकी स्मृता ॥
त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् । इति ।

अङ्गिराः-

यद्यप्यकृतचूड़ो वै जातदन्तस्तु संस्थितः ॥
दाहयित्वा तथाऽप्येनमाशौचं त्र्यहमाचरेत् ॥ इति ।

मनुस्तु-

ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः ।
अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ॥
नास्य कार्योऽग्निसंस्कारो नास्य कार्योदकक्रिया ।
अरण्ये काष्ठवत्त्यक्त्वा क्षपेत् त्र्यहमेव तु ॥ इति ।

१५६ गौतमधर्मसूत्राणि

आश्वलायन—अदन्तजाते परिजात एकाहम्। इति। आपस्तम्बस्तु—मातुश्च योनिसंबन्धेभ्यः पितुश्चा सप्तमात्पुरुषाद्यावत्ता वा संबन्धो ज्ञायते तेषां प्रेतेषूदकोपस्पर्शनं गर्भान्परिहाप्यापरिसंवत्सरान्मातापितरावेव तेषु हर्त्तारश्चेति। एतेषां देशकुलधर्मापेक्षया व्यवस्था। अत्र कन्याविषय आपस्तम्बः—

अप्रौढायां तु कन्यायां सद्यःशौचं विधीयते। इति।

अप्रौढाऽकृतचूडा।
[याज्ञवल्क्यः—] अहस्त्वदत्तकन्यासु बालेषु च विशोधनम्॥ इति। इदं चौलादूर्ध्वम्। व्याघ्र आह—

बाले मृते सपिण्डानां सद्यःशौचं विधीयते।
दशाहेनैव दंपत्योः सोदराणां तथैव च॥ इति।

इदं तु सूतकं दशाहान्तर्मरणविषयम् तथा च—

अन्तर्दशाहे जातस्य शिशोर्निष्क्रमणं यदि।
सूतकेनैव शुद्धिः स्यात्पित्रोः शातातपोऽब्रवीत्॥ ४२॥

जिसका चूडान्त संस्कार न हुआ हो ऐसे बालक, परदेश गये हुए की, नैष्ठिक या वानप्रस्थ परिव्राजक तथा असपिण्ड की मृत्यु पर उनकी जातिवाले तत्काल स्नान द्वारा शुद्ध हो जाते हैं॥ ४२॥

राज्ञां च कार्यविरोधात् ॥ ४३ ॥

राज्ञश्च सद्यःशौचं कार्यविरोधात्। कार्यं प्रजारक्षणादि। बहुवचननिर्देशाच्चे चान्येऽमात्यादयस्तत्कार्यवन्तस्तेषामपि। यस्य चेच्छति पार्थिव इति मनुः॥ ४३॥

राजकार्य में विघ्न न हो अतः राजा सदैव पवित्र होते हैं (अमात्य आदि भी)॥ ४३॥

ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थं स्वाध्यायनिवृत्त्यर्थम् ॥४४॥

ब्राह्मणस्य च सद्यःशौचं स्वाध्यायनिवृत्तिर्मा भूदिति। बहुशिष्यस्याध्यापयत इदमुक्तम्। [अभ्यासोऽध्यायसमाप्त्यर्थः] इत्याशौचम्॥४४॥

इति श्रीगौतमयवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने पञ्चमोऽध्यायः॥ ५॥

ब्राह्मण भी सदैव पवित्र रहता है जिससे उसके दैनिक अध्यवसाय में विघ्न न हो पड़े॥ ४४॥

द्वितीयप्रश्ने पञ्चमोऽध्यायः समाप्तः।

अथ षष्ठोऽध्यायः

अथ श्राद्धम् ॥ १ ॥

अथशब्दोऽधिकारार्थः । श्राद्धं नाम कर्माधिक्रियते । श्रद्धा यत्र विद्यते तच्छ्राद्धम् । तच्च पञ्चविधम्

नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धमथापरम् ।
पार्वणं चेति विज्ञेयं श्राद्धं पञ्चविधं बुधैः ॥

तत्र नित्यं मनुराह—

दद्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन् ॥
एकमप्याशयेद्विप्रं पित्रर्थे पाञ्चयाज्ञिके ।
न चैवात्राऽशयेत्किंचिद्वैश्वदेवं प्रतिद्विजम् ॥ इति ।

ग्रहणादिषु यत्क्रियते तन्नैमित्तिकम् । तस्य प्रयोगः पार्वणवत् । एकोद्दिष्टं सपिण्डीकरणमष्टकेत्येतान्यपि नैमित्तिकान्येव । तत्रैकोद्दिष्टं षोडशविधम् ।

मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ॥ इति याज्ञवल्क्यः ।

एकोद्दिष्टं तु कर्तव्यमित्याद्यपादे लौगाक्षिः ।
व्याघ्रः—

एकादशेऽह्नि कर्तव्यं त्रिपक्षे च तथैव च ।
षण्मासे च ततः कुर्यादेकोद्दिष्टं प्रयत्नतः ॥ इति ।
तत्त संवत्सरे पूर्णे त्रिपक्षे वा तथैव च ।
सपिण्डोकरणं कुर्यादर्वाग्वा वृद्धिसंभवे ॥ इति ।

जातूकण्यैः—

चतुर्थे पञ्चमे चैव नवमैकादशे तथा ।
यदन्नं दीयते जन्तोस्तन्नवश्राद्धमुच्यते ॥

इति च पठन्ति । वर्णानुपूर्व्येव्यवस्थितानि चत्वार्येतानि । तदेव श्राद्धमेकमेकादशेऽहनीति प्रधानम् । एकादशग्रहणमाशौचान्तोपलक्षणम् । तत्र च मासे तदैव मासिकम् । सपिण्डोकरणे प्रेतस्यैकोद्दिष्टं पित्रादिभ्यः पार्वणम् । तत्रापि मासे तदेव मासिकम् । मध्ये दश मासिकानि त्रिपक्षषाण्मासिकयोः प्रतिसंवत्सरं चापरं मृताहे सांवत्सरिकमिति षोडशैकोद्दिष्टानि ।

१५८ गौतमधर्मसूत्राणि

पठन्ति च—

नवत्रिपक्षषण्मास्यसांवत्सरिकमासिकम् ।
श्राद्धैः षोडशभिः प्रेतः पिशाचत्वं विमुञ्चति ॥
यस्यैतानि न कुर्वन्ति एकोद्दिष्टानि षोडश ।
पिशाचत्वं स्थिरं तस्य कृतैः श्राद्धशतैरपि ॥ इति ।

हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका एकस्यां वा । प्रथमेऽहनि क्रियमाणे रूपवत्यं जायत इत्यादि कामसंयोगेन क्रियमाणं काम्यम् । तदपि पार्वणवदेव । विवाहादिवृद्धिकर्मसु पूर्वेद्युः कर्तव्यं वृद्धिश्राद्धम् । तस्मात्पितृभ्यः पूर्वेद्युः क्रियत इति ब्राह्मणमूलम् । तत्र युग्मा ब्राह्मणा यवास्तिलार्थाः । अन्यत्पार्वणवत् । पार्वणं तु वक्ष्यते ॥ १ ॥

अब श्राद्ध का विवेचन किया जाता है ॥ १ ॥

अमावास्यायां पितृभ्यो दद्यात् ॥ २ ॥

सूर्याचन्द्रमसौ यस्यां सह वसतः साऽमावास्या । पितृभ्य इति बहुवचनात्पितृपितामहप्रपितामहेभ्यो दद्यात् । दानप्रकारो गृह्येोक्तः 'होमो ब्राह्मणभोजनं पिण्डनिर्वपणम्' इति । इह तु ब्राह्मणभोजने विशेषः ॥ २ ॥

अमावस्या को पितरों के लिए (होम, ब्राह्मण, भोजन और पिण्ड का दान) देना चाहिए ॥ २ ॥

पञ्चमीप्रभृतिषु वाऽपरपक्षस्य ॥ ३ ॥

अपरपक्षः कृष्णपक्षः । तस्य पञ्चमप्रभृति वा दद्यात् ॥ ३ ॥

अथवा कृष्णपक्ष की पञ्चमी आदि तिथियों पर देना चाहिए ॥ ३ ॥

यथाश्रद्धं सर्वस्मिन्वा ॥ ४ ॥

सर्वस्मिन्वाऽपरपक्षे दद्याद्यथाश्रद्धं यथा श्रद्धा भवतीति ॥ ४ ॥

अथवा कृष्णपक्ष की सभी तिथियों में अपनी श्रद्धा के अनुसार देना चाहिए ॥ ४ ॥

द्रव्यदेशब्राह्मणसंनिधाने वा कालनियमः ॥ ५ ॥

तिलमाषेत्यारभ्य वक्ष्यमाणं तत्तत्प्रशस्तं द्रव्यम् । देशो गयापुष्करादिः ।

पुष्करेष्वक्षयं श्राद्धं कुरुक्षेत्रे तथैव च ।
दद्यान्महोदधौ चैव हृद्गोष्ठे गिरौ तथा ॥ इति व्यासः ।
यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते । इति याज्ञवल्क्यः ।

सानुवाद-मिताक्षरावृत्तिसहितानि १५९

ब्राह्मणाः पङ्क्तिपावना वक्ष्यमाणाः षडङ्गविदादयः । एतेषां द्रव्यादीनां संनिधाने समवाये कालनियमः संनिधिरेव काल इति । वाशब्दो विकल्पार्थः ॥ ५ ॥

अथवा (तिल, माष इत्यादि) द्रव्य, (गया, पुष्कर आदि) देश, और (पवित्र, षडङ्गविद्) ब्राह्मण के संयोग होने पर श्राद्ध का समय समझना चाहिए ॥ ५ ॥

शक्तितः प्रकर्षेद् गुणसंस्कारविधिरन्नस्य ॥ ६ ॥

अन्नस्य भक्ष्यभोज्यादेर्गुणविधयः पायसत्वविशदसिद्धत्वादयः । संस्कारविधयो भर्जनमरिचजीरकलवणादिभिः सुरभीकरणादयः । एतान्यथाशक्ति प्रकर्षेत्प्रकृष्टान्कुर्यात् ॥ ६ ॥

अपनी शक्ति के अनुसार उत्तम प्रकार के भक्ष्य एवं (मरिच, जीर, लवण आदि द्वारा छौंक बघार कर) संस्कार विधि द्वारा अन्न विशेष रूप से बनवाने चाहिए ॥ ६ ॥

नवावरान्भोजयेद्युजः ॥ ७ ॥

नवसंख्याऽवरा येषां ते नवावरास्तावतो ब्राह्मणान्भोजयेत् । अयुजोऽयुग्मसंख्यान् । नवपक्षे पितुस्त्रीन्पितामहस्य त्रीन्प्रपितामहस्य त्रीन् । अवरग्रहणादधिका अपि भवन्ति पञ्चदशैर्काविंशतिरित्यादयः । अयुज इति वचनाद् द्वादशादिव्यावृत्तिः ॥ ७ ॥

कम से कम नौ अथवा नौ से अधिक विषम संख्या में ब्राह्मणों को भोजन करावे ॥ ७ ॥

यथोत्साहं वा ॥ ८ ॥

यथासामर्थ्यं नवभ्योऽर्वागपि भोजयेत् । अयुज इत्यनुवृत्तेस्त्रीनेव । तथा चाऽऽपस्तम्बः—अयुग्मांस्त्रयवरानिति । शाखान्तरेषु विश्वेभ्यो देवेभ्यो ब्राह्मणभोजनमाम्नातं मातामहानां च । यथाऽऽह याज्ञवल्क्यः—

द्वौ दैवे प्राक्त्रयः पित्र्य उदगेकैकमेव वा ।
मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् ॥ इति ॥

दैवे द्वौ ब्राह्मणौ प्राङ्मुखावुपवेश्यौ । पित्रर्थे तत्रोदङ्मुखाः । एकैकस्यैकमेव वेति । देवानामेकः पित्रादीनां त्रयाणामेक इति । मातामहानामप्येवं पितृश्राद्धवत् । द्वौ दैवे मातामहार्थे त्रयः । वैश्वदैविकं तन्त्रं वा भवति पितुः श्राद्धस्य मातामहश्राद्धस्य च ॥ ८ ॥