गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
२३६ गौतमधर्मसूत्राणि
वसिष्ठोऽपि—पतत्यर्धं शरीरस्य भार्या यस्य सुरां पिबेत्। पतिरार्धं शरीरस्य निष्कृतिर्न विधीयते॥ इति। अत्र स्त्रीणामपि प्रतिषिद्धा सुरा। प्रायश्चित्तं च भवति। तत्र स्त्रीणा- मर्धप्रायश्चित्तमित्युक्तं पुरस्तात्। तत्र मरणान्तिकेऽर्धक्लप्तेरशक्यत्वादू बुद्धिपूर्वसकृत्पाने द्वादशवार्षिकस्यार्धम्। अभ्यासे तस्यैवाभ्यासः॥ १॥
सुरापान करने वाले ब्राह्मण के मुख में तपती हुई सुरा डाले; इस प्रकार उसकी मृत्यु होने पर सुरापान का प्रायश्चित्त होता है॥ १॥
अमत्या पाने पयो घृतमुदकं वायुं प्रतित्र्यहं तप्तानि स कृच्छ्रस्ततोऽस्य संस्कारः॥ २॥
यस्त्वमत्याऽबुद्धिपूर्वं यवाग्वादिबुद्ध्या सुरां पिबति स पय आदीनि चत्वारि द्रव्याणि तप्तान्युष्णानि। द्वितीयाया निर्देशात्पिबेदिति गम्यते। प्रतित्र्यहं प्रथमे त्र्यहे पयो द्वितीये घृतं तृतीय उदकं चतुर्थे वायुम्। बायो- रुष्णत्वं सातपे प्रदेशे। स कृच्छ्रः स एवंभूतस्तप्तकृच्छ्रोऽस्य प्रायश्चित्तम्। ततः कृच्छ्रानन्तरं पुनः संस्कारः पुनरुपनयनमस्य कर्त्तव्यम्। तत्र मानवो विशेषः—
वपनं मेखला दण्डो भैक्षचर्या व्रतानि च।
एतानि तु निवर्त्तन्ते पुनः संस्कारकर्मणि॥ इति।
इदमीषदभ्यासविषयम्।
अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुध्यति॥
इति मानवं सकृत्पानविषयम्। यत्तु—
पिण्याकं वा कणान्वाऽपि भक्षयेत्तु समां निशि॥
इति याज्ञवल्क्यवचनम्। यच्चाऽऽपस्तम्बीयम्—'स्तेयं कृत्वा सुरां पीत्वा, इत्यादि तदुभयमपि बहुकृत्वोऽभ्यास एव।
कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि।
सुरापानापनुत्त्यर्थं बालवासा जटी ध्वजी॥
इत्यादीनि मानवादीन्यबुद्धिपूर्वविषय एवाभ्यासतारतम्यापेक्षया व्यवस्थाप्यानि॥ २॥
यदि अज्ञानवश सुरापान किये हो तो तीन दिनों तक क्रमशः उष्ण दूध, घृत और जल पीकर रहने एवं उष्ण वायु सेवन से शुद्धि होती है। इस प्रायश्चित्त को तप्तकृच्छ्र कहते हैं। उसके उपरान्त उसका पुनः (उपनयन) संस्कार होता है॥ २॥
सानुवाद-मिताक्षरावृत्तिसहितानि २३७
मूत्रपुरीषरेतसां च प्राशने ॥ ३ ॥
मूत्रादीनां च प्राशने तप्तकृच्छ्रसहितः पुनःसंस्कारः प्रायश्चित्तम्। इदं बुद्धिपूर्वविषयम्।
भुक्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम्।
मत्या भुक्त्वा चरेत्कृच्छ्रं रेतो विण्मूत्रमेव च॥ इति।
अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च।
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः॥ इति च।
कण्वश्च स्पष्टमाह—
रेतोमूत्रपुरीषाणां प्राशने मतिपूर्वके।
नाश्नीयाच्च त्र्यहं मत्या तप्तकृच्छ्रं चरेद् द्विजः ॥इति॥३॥
मूत्र, मल और वीर्य निगल जाने पर भी उपर्युक्त प्रायश्चित्त विहित है ॥ ३ ॥
श्वापदोष्ट्रखराणां चाङ्गस्य ॥ ४ ॥
व्याघ्रादयो वनचराः श्वापदाः। उष्ट्रखरौ प्रसिद्धौ। तेषामङ्गं मांसचर्मादि। तस्य प्राशने तप्तकृच्छ्रः पुनःसंस्कारश्च। बुद्धिपूर्वाभ्यास उभयं मिलितम्। सकृद्बुद्धिपूर्वे चाबुद्धिपूर्वाभ्यासे च तप्तकृच्छ्रः। सकृदमतिपूर्वे संस्कार एव भवति ॥ ४ ॥
व्याघ्र आदि मांसभक्षी पशु, ऊँट और गदहे का मांस खा लेने पर भी उपर्युक्त प्रायश्चित्त होता है ॥ ४ ॥
ग्राम्यकुक्कुटसूकरयोश्च ॥ ५ ॥
ग्राम्यकुक्कुटसूकरयोश्चाङ्गस्य प्राशन एतदेव प्रायश्चित्तम्। विषयव्यवस्था च पूर्ववत् ॥ ५ ॥
पालतू मुर्गे और सूअर के मांसभक्षण का भी यही प्रायश्चित्त है ॥ ५ ॥
गन्धाघ्राणे सुरापस्य प्राणायामा घृतप्राशनं च ॥ ६ ॥
यस्तु सुरापस्तस्य तं सुरागन्धमाजिघ्रति न पुनः शरीरगन्धं नापि भाण्डस्थायाः सुराया गन्धं तस्य प्राणायामास्त्रयो घृतप्राशनं च प्रायश्चित्तम्। ब्राह्मणस्य मिलितम्, क्षत्रियस्य प्राणायामाः। वैश्यस्य घृतप्राशनमिति। सोमपस्य विशेषो मनुना दर्शितः—
ब्राह्मणस्य सुरापस्य गन्धमाघ्राय सोमपः।
प्राणानप्सु त्रिराचम्य घृतं प्राश्य विशुध्यति ॥ इति।
२३८ गौतमधर्मसूत्राणि
ब्राह्मणस्य रुजाकृत्यं घ्रातिरघ्रेयमद्ययोः ।
जैह्म्यं पुंसि च मैथुन्यं जातिसंकरकं स्मृतम् ॥ इति ।
जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया ।
चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥
इति [ च ] मानवं भाण्डस्थायाः सुराया गन्धाघ्राणे ॥ ६ ॥
सुरापान करने वाले की गन्ध सूँघने पर तीन बार प्राणायाम करने एवं घृत पीने पर शुद्धि होती है ॥ ६ ॥
पूर्वैश्च दष्टस्य ॥ ७ ॥
पूर्वैः श्वापदादिभिर्दष्टस्य च प्राणायामा घृतप्राशनं च प्रायश्चित्तम् ।
मनुस्तु—श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।
नराश्वोष्ट्रैर्वराहेश्च प्राणायामेन शुध्यति ॥ इति ।
ब्राह्मणविषये वसिष्ठो विशेषः—
ब्राह्मणस्तु शुना दष्टो नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ इति ।
जातूकण्र्यः—ब्राह्मणी क्षत्रिया वैश्या शुना च श्वापदैरपि ।
दष्टा सचैलमाप्लुत्य शुध्यतीति न संशयः ॥ इति ॥ ७ ॥
ऊपर वर्णित मांसभक्षी पशु आदि द्वारा काट लिये जाने पर भी तीन प्राणायाम और घृत-प्राशन से शुद्धि होती है ॥ ७ ॥
तप्ते लोहशयने गुरुतल्पगः शयीत ॥ ८ ॥
गुरुरत्र पिता ।
निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥ इति मनुः ॥
विप्रग्रहणं वर्णोपलक्षणम् । तल्पशब्देन शयनवाचिना भार्या लक्ष्यते । तत्रापि जननो तत्सपत्नी च । तद्गामी गुरुतल्पगः । लोहशयने कृष्णायसनिर्मिते तप्ते यथा मरणमेव भवति तथा तप्ते शयीत ॥ ८ ॥
गुरु-पत्नी गमन करने वाला जलती हुई लोहे की चारपाई पर शयन करे ॥ ८ ॥
सूर्मीं वा श्लिष्येज्ज्वलन्तीम् ॥ ९ ॥
लोहमयी स्त्रीप्रकृतिः सूर्मी । तां ज्वलन्तीमग्निवर्णां तप्तां श्लिष्येदाप्राणवियोगात् ॥ ९ ॥
अथवा तपा कर लाल की गई लोहे की स्त्री-प्रतिमा का आलिङ्गन करे ॥ ९ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २३९
लिङ्गं वा सवृषणमुत्कृत्याञ्जलावाधाय दक्षिणाप्रतीचीं
व्रजेदजिह्ममाशरीरनिपातात् ॥ १० ॥
सबोजं लिङ्गमुत्पाट्य क्षुरादिना निकृत्य स्वस्याञ्जलौ स्थापयित्वा नैर्ऋतीं दिशमाशरीरनिपाताद् व्रजेदजिह्मम् । कूपाद्यपरिहरन्यत्रैव प्रतिहतस्तत्रैव तिष्ठेदाप्रलयादिति वसिष्ठः ॥ १० ॥
अथवा वह अपनी अण्डकोष-सहित जननेन्द्रिय काटकर अञ्जलि में रख कर दक्षिण-पश्चिम दिशा को सीधा उस समय तक चलता रहे जब तक गिरकर मर न जाय ॥ १० ॥
मृतः शुध्येत् ॥ ११ ॥
सर्वशेषोऽयम् । पूर्वोक्तेषु प्रकारेष्वन्यतमेन मृत एव गुरुतल्पगः शुध्येन्नान्येथेति । त्रितयमप्येतज्जननीगमने स्वभार्यादिबुद्ध्याऽबुद्धिपूर्वं तत्सपत्न्यां च । सवर्णायां बुद्धिपूर्वगमने—
पितृभार्यां तु विज्ञाय सवर्णां योऽभिगच्छति ।
जननीं वाऽप्यविज्ञाय नामृतः स विशुध्यति ॥
इति षट्त्रिंशन्मते दर्शनात् । जनन्यां कामकृते वासिष्ठम्—
निष्काल (मु) को घृताभ्यक्तो गोमयाग्निना पादप्रभृत्यात्मानमवदाहयेत् । इति । अकामतोऽभ्यासेऽप्येवमेव । अकामतस्तु मातुः सपत्न्याः सवर्णाया उत्कृष्टायाश्च गमनाभ्यासे शङ्खोक्तम्—
अधःशायी जटाधारो पर्णमूलफलाशनः ।
एककालं समश्नन्वै वर्षे तु द्वादशे गते ॥
रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः ।
व्रतेनैतेन शुध्यन्ति महापातकिनस्त्विमे ॥ इति ।
सकृद्गमन उभयोरिच्छात्तः प्रवृत्तौ मानवम्—
खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ।
प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः ॥ इति ।
तया प्रोत्साहितस्य स्वेन वा प्रोत्साहितायामौशनसं प्रायश्चित्तद्वयं क्रमेण द्रष्टव्यम्—गुरुतल्पगामी संवत्सरं ब्रह्मचारिव्रतं षण्मासांस्तप्तकृच्छ्रं चेति । एवमुत्तरेष्वपि प्रायश्चित्तेषु यद्गुरु तदात्मना प्रोत्साहितायां यल्लघु तत्तया प्रोत्साहितस्य मध्यमं तूभयोरिच्छात्तः प्रवृत्ताविति द्रष्टव्यम् । तत्र व्याघ्रः—
| २४० | गौतमधर्मसूत्राणि |
|---|
कृच्छ्रं चैवातिकृच्छ्रं च तथा कृच्छ्रातिकृच्छ्रकम् ।
चरेन्मासत्रयं विप्रः क्षत्रियागमने गुरोः ॥ इति ।
इदं सकृद्गमने बुद्धिपूर्वे । बुद्धिपूर्वाभ्यास एकवर्षम्—
मत्या गत्वा पुनर्भार्यां गुरोः क्षत्रसुतां द्विजः ।
वृषणवर्जितं लिङ्गमुत्कृत्य स मृतः शुचिः ॥ इति ।
कण्वः—चान्द्रायणं तप्तकृच्छ्रं मतिकृच्छ्रं तथैव च ।
सकृद् गत्वा गुरोर्भार्यामज्ञानात्क्षत्रियां द्विजः ॥ इति ।
जातूकर्ण्यः–गुरोः क्षत्रसुतां भार्यां पुनर्गत्वा त्वकामतः ।
वृषणमात्रमुत्कृत्य शुद्धो जीवन्मृतोऽपि वा ॥ इति ।
कण्वः–तप्तकृच्छ्रं पराकं च तथा सांतपनं गुरोः ।
भार्यां वैश्यां सकृद्गत्वा बुद्ध्या मासं चरेद् द्विजः ॥ इति ।
लौगाक्षिः–गुरोर्वैश्यां पुनर्गत्वा(सकृद्गत्वा) गत्वा वाऽपि पुनः पुनः ।
लिङ्गाग्रं छेदयित्वा तु ततः शुध्येत्स किल्बिषात् ॥ इति ।
प्रजापतिः—पञ्चरात्रं तु नाश्नीयात्सप्ताष्टौ वा तथैव च ।
वैश्यां भार्यां गुरोर्गत्वा सकृदज्ञानतो द्विजः ॥ इति ।
हारीतः—अभ्यस्य विप्रो वैश्यायां गुरोरज्ञानमोहितः ।
सषडङ्गं ब्रह्मचर्यं स चरेद्यावदायुषम् ॥ इति ।
जाबालिः—अतिकृच्छ्रं तप्तकृच्छ्रं पराकं च तथैव च ।
गुरोः शूद्रां सकृद् गत्वा बुद्ध्या विप्रश्चरेत्ततः ॥ इति ।
उपमन्युः—पुनः शूद्रां गुरोर्गत्वा बुद्ध्या विप्रः समाहितः ।
ब्रह्मचर्यमदुष्टात्मा द्वादशाब्दं समाचरेत् ॥ इति ।
दीर्घतपाः–प्राजापत्यं सांतपनं सप्तरात्रोपवासनम् ।
गुरोः शूद्रां सकृद् गत्वा चरेदज्ञानतो जनः ॥ इति ।
तत्रैवाभ्यासे मानवं द्रष्टव्यम्—
चान्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः ।
हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ इति ।
अत्र व्याघ्रः—जात्युक्तं पारदार्यं च गुरुतल्पत्वमेव च ।
साधारणस्त्रिया नास्ति कन्यादूषणमेव च ॥ इति ॥११॥
मृत्यु के बाद वह पाप से मुक्त हो जाता है ॥ ११ ॥
सखीसयोनिसगोत्राशिष्यभार्यासु स्नुषायां गवि च गुरुतल्पसमः ॥ १२ ॥
सखी मित्रभूता । सयोनिर्भगिनी । सगोत्रैकगोत्रा । स्नुषा पुत्रभार्या ।
सानुवाद-मिताक्षरावृत्तिसहितानि २४१
एतासु शिष्यभार्यायां गवि च मिथुनीभावे यावान्गुरुतल्पदोषस्ताव- नस्येति ।
याज्ञवल्क्यः-सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ पितुः स्वसारं मातुश्च मातुलानीं स्नुषामपि । मातुः सपत्नीं भगिनीमाचार्यतनयां तथा ॥ आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः । लिङ्गं छित्त्वा वधस्तस्य सकामायाः स्त्रिया अपि ॥ इति ।
नारदः-माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ दुहिताऽऽचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ आसामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्योत्कर्त्तनात्तत्र नान्यो दण्डो विधीयते ॥ इति ।
कात्यायनः-जनन्याश्च भगिन्याश्च स्वसुतायास्तथैव च । स्नुषाया गमनं चैव विज्ञेयमतिपातकम् ॥ अतिपातकिनस्त्वेते प्रविशेयुर्हुताशनम् ।
बृहद्यमः-रेतः सिक्त्वा कुमारीषु स्वयोनिष्वन्त्यजासु च । सपिण्डास्वन्यदारेषु प्राणत्यागो विधीयते ॥ इति ।
स एव-चाण्डालीं पुल्कसीं म्लेच्छीं स्नुषां च भगिनीं सखीम् । मातापित्रोः स्वसारं च निक्षिप्तां शरणागताम् ॥ मातुलानीं प्रव्रजितां सगोत्रां नृपयोषितम् । शिष्यभार्यां गुरोर्भार्यां गत्वा चान्द्रायणं चरेत् ॥ इति च ॥ १२ ॥
मित्र की पत्नी ( अथवा मित्रभूता स्त्री ), बहन, अपने कुल की किसी स्त्री, शिष्य की पत्नी, पतोहू अथवा गाय के साथ मैथुन कर्म का पाप गुरुपत्नीगमन के पाप के समान ही होता है ॥ १२ ॥
अवकर इत्येके ॥ १३ ॥
एके मन्यन्ते सख्यादिगमनेऽवकरो दोषः । अत्र प्रायश्चित्तमप्यवकीर्णिब्रतं न गुरुतल्पव्रतमिति । यान्येतानि सख्यादिगमनेऽनुक्रान्तानि प्रायश्चित्तानि तेषु मरणान्तिकानि सप्रत्ययानुबन्धात्यन्ताभ्यासविषयाणि ।
१६ गौ०
२४२ गौतमधर्मसूत्राणि
यानि पुनरत्यन्तलघूनि तानि स्वभार्याबुद्ध्या प्रवृत्तस्य मध्ये ज्ञात्वा रेत:- सेकादर्वाङ्निवृत्तविषयाणि । मध्ये मध्यानि कल्प्यानि । 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम्' इति मानवं तु मरणान्तिकयोग्यमहापातका- दिव्यतिरिक्तविषयम् ॥ १३ ॥
कुछ आचार्यों का मत है कि इस प्रकार के दुष्कर्म का पाप ब्रह्मचर्य व्रत खण्डन के पाप के तुल्य होता है ॥ १३ ॥
अत्र प्रायश्चित्तमकुर्वतीनां स्त्रीणां दण्डमाह—
श्वभिरादयेद्राजा निहीनवर्णगमने स्त्रियं प्रकाशम् ॥ १४ ॥
निहीनवर्णेन सह या मैथुनमाचरति तां प्रकाशं सर्वेषामेव पश्यतां धर्षत्स्थानगतो राजा श्वभिरादयेत्खादयेत् । अत्र मनुः—
भर्तारं लङ्घयेद्या तु जातिस्त्री गुणगर्विता । तां श्वभिः खादयेद्राजा संस्थाने बहुभिः स्थितः ॥ इति ।
वसिष्ठस्तु जातिविशेषेण विशेषमाह—शूद्रश्चेद् ब्राह्मणीमभिगच्छेत्तृणै- र्वेष्टयित्वा शूद्रमग्नौ प्रास्य ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाऽ- भ्यज्य नग्नां खरमारोप्य महापथमनुसंन्राजयेत्पूता भवतीति विज्ञायते । वैश्यश्चेद् ब्राह्मणीमभिगच्छेल्लोहितदर्भैर्वेष्टयित्वा वैश्यमग्नौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्नां खरमारोप्य महापथमनुसंन्राजयेत्पूता भवतीति विज्ञायते । राजन्यश्चेद् ब्राह्मणीम- भिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येत् । ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्नां खरमारोप्य महापथमनुसंन्राजये त्पूता भवतीति विज्ञायते । एवं वैश्यो राजन्यायां शूद्रश्च राजन्यावैश्य- योरिति । अनुलोमेषु प्रतिलोमं गच्छत्सु व्याघ्र आह—
वर्णानामनुलोमानां परस्परसमागमे । व्युत्क्रमेण ततो राजा खादयेद्वानरैः स्त्रियम् ॥ शृगालैर्बुद्धिपूर्वं चेत्पुरुषो वधमर्हति । अयमेवानुलोमानां स्वजातिव्युत्क्रमेष्विति ॥ इति ॥ १४ ॥
अपने से निम्नवर्ण के पुरुष से संभोग कराने वाली स्त्री को राजा सार्व- जनिक स्थान पर कुत्तों से खिलवाये ॥ १४ ॥
पुमांसं घातयेत् ॥ १५ ॥
अनन्तरोक्ते विषये गन्ता पुमान्राज्ञा घातयितव्यः । वधप्रकारश्चा- नन्तरमेव वसिष्ठवचनेन दर्शितः ॥ १५ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २४१
उसके साथ मैथुन करने वाले का भी वध करावे ॥ १५ ॥
यथोक्तं वा ॥ १६ ॥
लिङ्गोद्धार इत्यादि यथोक्तं वा दण्डप्रणयनं कर्तव्यम्। सप्रत्ययाप्रत्ययाभ्यासानभ्यासापेक्षोऽयं विकल्पः ॥ १६ ॥
अथवा उसे यथोचित विधि से दण्डित करे ॥ १६ ॥
गर्दभेनावकीर्णी निर्ऋतिं चतुष्पथे यजेत् ॥ १७ ॥
अवकीर्णी भवेद्गत्वा ब्रह्मचारी तु योषितम्। इति याज्ञवल्क्यः। स चतुष्पथे गर्दभेन पशुना निर्ऋतिं यजेत्। अत्र मानवो विशेषः—
अवकीर्णी तु काणेन गर्दभेन चतुष्पथे।
पाकयज्ञविधानेन यजेत निर्ऋतिं निशि ॥ इति।
वसिष्ठस्तु—ब्रह्मचारी चेत्स्त्रियमुपेयादरण्ये चतुष्पथे लौकिकेऽग्नौ रक्षोदैवतं गर्दभं पशुमालभेत, नैर्ऋतं वा चरुं निर्वपेत्तस्य जुहुयात्कामाय स्वाहा, कामकामाय स्वाहा, निर्ऋत्यै स्वाहा, रक्षोदेवताभ्यः स्वाहा। इति ॥ १७ ॥
अवकीर्णी (ब्रह्मचर्य व्रत खण्डित करने वाला) चौराहे पर निर्ऋति के लिए गदहे की बलि प्रदान करे ॥ १७ ॥
तस्याजिनमूर्ध्ववालं परिधाय लोहितपात्रः सप्तगृहान्भैक्षं चरेत्कर्माऽऽचक्षाणः ॥ १८ ॥
एवं गर्दभेनेष्ट्वा तस्यैव गर्दभस्याजिनमूर्ध्ववालं परिधाय लोहितपात्रः पाकेन लोहितं मृन्मयं पात्रं हस्ते गृहीत्वा कर्माऽऽचक्षाणोऽवकीर्णिने भिक्षां देहीति ब्रुवाणः सप्त गृहान्भैक्षं चरेत्। सप्तसु गृहेषु यावल्लब्धं तावदेवाशनम्। अलाभ उपवासः ॥ १८ ॥
उस गदहे के चमड़े को इस प्रकार धारण करे कि उसके बाल ऊपर रहे और लाल रंग की मिट्टी का पात्र हाथ में लेकर अपने कर्म को बताता हुआ सात घरों से भिक्षा माँगे ॥ १८ ॥
संवत्सरेण शुद्ध्येत् ॥ १९ ॥
संवत्सरमेतद् व्रतं चरेच्छुद्धो भवति। अत्र मनुः—
तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम्।
उपस्पृशंस्त्रिषवणमब्देनैकेन शुध्यति ॥ इति।
इदं च वार्षिकं श्रोत्रियस्य विप्रस्य वैश्यपत्न्यां द्रष्टव्यम्। आहतुः
२४४ गौतमधर्मसूत्राणि
शङ्खलिखितौ—गुप्तायां वैश्यायामवकीर्णः संवत्सरं त्रिषवणमनुतिष्ठेत्क्षत्रियायां द्वे वर्षे ब्राह्मण्यां त्रीणि वर्षाणोति । गुप्तायां चेच्छ्रोत्रियपत्नीत्वादिगुणशालिन्याम् । अङ्गिराः—
अवकीर्णीनिमित्तं तु ब्रह्महत्याव्रतं चरेत् ।
चीरवासास्तु षण्मासांस्तथा मुच्येत किल्बिषात् ॥ इति ।
तदकामतौ गौतमीयैक ( यं काम ) विषयम् । पुनः शङ्खलिखितौ—
स्वैरिण्यां वृषल्यामवकीर्णः सचैलं स्नात उदकुम्भं दद्याद् ब्राह्मणाय । वैश्यायां चतुर्थकालाहारो ब्राह्मणान्भोजयेद्यवसभांर च गोभ्यो दद्यात् । क्षत्रियायां त्रिरात्रमुपोषितो घृतपात्रं दद्यात् । ब्राह्मण्यां षड्रात्रमुपोषितो गां दद्यात् । गोष्ववकीर्णः प्राजापत्यं चरेत् । षण्ढायामवकीर्णः पलालभारं सीसमाषकं च दद्यादिति । इदं चावकीर्णप्रायश्चित्तं सर्वेषामेव त्रैवर्णिकब्रह्मचारिणां समानम् । तथा च शाण्डिल्यः—
अवकीर्णी द्विजो राजा वैश्यश्चापि खरेण तु ।
इष्ट्वा भैक्षाशनो नित्यं शुध्यत्यब्दात्समाहितः ॥ इति ॥ १६ ॥
इस प्रकार वह एक वर्ष में शुद्ध होता है ॥ १९ ॥
रेतःस्कन्दने भये रोगे स्वप्नेऽग्नीन्धनभैक्षचरणानि सप्तरात्रमकृ(त्रं कृ)त्वाऽऽज्यहोमः समिधो वा रेतस्याभ्याम् ॥ २०॥
भये रोगे स्वप्ने वा यदि ब्रह्मचारिणो रेतः स्कन्देत्ततो रेतस्याभ्यां मन्त्राभ्यामाज्यहोमः कर्तव्यः । समिधो वा । होम इत्युपसमस्तमपेक्ष्यते । एतच्च भये रोग इत्यादि ब्रह्मचारिव्यतिरिक्तस्यापि । तथाऽग्नीन्धनं समिदाधानं भैक्षचरणं च सप्तरात्रमकृ(त्रं कृ)त्वा पूर्ववद्धोमः । रेतस्ये ऋचौ "पुनर्मामैत्विन्द्रियम्" इति । "पुनर्मनः पुनरात्मा म आगात्" इत्येके । आश्वलायनेन तु "पुनर्मामैत्विन्द्रियम्" इति । "इमे येऽधिष्यासोऽग्नये" इति ।
भये रोगे तथा स्वप्ने सिक्त्वा शुक्रमकामतः ।
आदित्यमर्चयित्वा तु पुनर्मामित्यूचं जपेत् ॥ इति ।
प्राजापत्यं सकृत्सेकविषयम् । गौतमीयमभ्यासांविषयंम् । हारीतः—
यः कुर्यादुपकुर्वाणः कामतोऽकामतौऽपि वा ।
तदेव द्विगुणं कुर्याद् ब्रह्मचारी तु नैष्ठिकः ॥ इति ।
अत्र वसिष्ठः—एतदेव रेतः प्रयत्नतोत्सर्गे दिवा स्वप्ने च व्रतान्तरेषु चैवमिति । गर्दभं पशुमालभेत नैर्ऋतं वा चरुं निर्वपेदिति प्रकृतम् ।
वानप्रस्थो यतिश्चैव खण्डने सति कामतः ।
सानुवाद-मिताक्षरावृत्तिसहितानि २४५
पराक्रत्रयसंयुक्तमवकीर्णिब्रतं चरेत् ॥ इति शाण्डिल्यः ।
पुंसि मैथुनमासेव्य यत्नोत्सर्गे च रेतसः ।
ब्रह्मचारी यथाभ्यासं स्नात्वाऽथ हविषा यजेत् ॥
पुंसि मैथुनमासाद्य वानप्रस्थो यतिस्तथा ।
कृच्छ्रं चान्द्रायणं चैव कृत्वा शुध्यति किल्बिषात् ॥ इति
कण्वः ।
सूर्यस्य त्रीनमस्कारान्स्वप्ने सिक्त्वा गृही चरेत् ।
यतिश्चैव वनस्थश्च त्रिः कुर्यादघमर्षणम् ॥ इति काश्यपः ।
मैथुनं तु समासाद्य पुंसि योषिति वा पुनः ।
गोयानेऽप्सु दिवा चैव स्वापे च स्नानमाचरेत् ॥ इति मानवम् ।
गृहस्थस्य—
ऋतौ तु गर्भशङ्कित्वान्स्नानं मैथुनिनः स्मृतम् ।
अनृतौ तु यदा गच्छेच्छौचं मूत्रपुरीषवत् ॥ इत्यङ्गिराः ।
वृद्धवसिष्ठः—यस्तु पाणिगृहीतायामास्ये कुर्वीत मैथुनम् ।
तस्य रेतसि तं मासं पितरस्तस्य शेरते ॥ इति ॥ २० ॥
भय या रोग के कारण (बिना ज्ञान के) अथवा स्वप्न में वीर्य-स्खलन होने पर, तथा सात दिनतक अग्निकर्म एवं भिक्षाचरण न करने पर ब्रह्मचारी घृत का होम करे अथवा 'रेतस्य' आदि मन्त्र का उच्चारण करते हुए अग्नि में दो समिधाएँ रखे ॥ २० ॥
सूर्याभ्युदितो ब्रह्मचारी तिष्ठेदहरभुञ्जानोऽभ्यस्तमितश्च रात्रिं जपन्सावित्रीम् ॥ २१ ॥
यस्तु सूर्ये उदयति स्वपिति स सूर्याभ्युदितो ब्रह्मचारी सर्वमहर-भुञ्जानस्तिष्ठेत् । अभ्यस्तमितश्च रात्रिं सर्वामासीत । तिष्ठेदहनि रात्रा-वासीतेति कृच्छ्रे दर्शनात् । जपन्सावित्रीमित्युभयत्र समानम् । ब्रह्म-चारिग्रहणाद् गृहस्थादीनामन्यत्प्रायश्चित्तम् । 'आतमितः प्राणमायच्छे-दित्येके' इत्यापस्तम्बीयं गृहस्थस्य । आह वसिष्ठः—
वनस्थश्च यतिश्चैव सूर्येणाभ्युदितो यदि ।
ब्रह्मकूर्चाशिनौ भूत्वा जपेतां द्रुपदां त्वहः ॥ इति ।
अभ्यस्तमितयोरपीदमेव । आह प्रजापतिः—
पालाशं पद्मपत्रं वा ताम्रं वाऽथ हिरण्मयम् ।
गृहीत्वा सादयित्वा च ततः कूर्चं समारभेत् ॥
गायत्र्याऽऽदाय गोमूत्रं गन्धद्वारेति गोमयम् ।
| २४६ | गौतमधर्मसूत्राणि |
|---|
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
शुक्रमसि ज्योतिरसीत्याज्यं देवस्य त्वा कुशोदकम् ।
चतुर्दशीमुपोष्यथ पौर्णमास्यां समाचरेत् ॥
गोमयाद् द्विगुणं मूत्रं सर्पिर्दद्याच्चतुर्गुणम् ।
क्षीरमष्टगुणं देयं दधि पञ्चगुणं तथा ॥
स्थापयित्वाऽथ दर्भेषु पालाशैः पत्रकैरथ ।
तत्समुद्धृत्य होतव्यं देवताभ्यो यथाक्रमम् ॥
अग्नये चैव सोमाय सावित्र्या चैव मन्त्रतः ।
प्रणवेन तथा हुत्वा स्विष्टकृत्प्रणवेन तु ॥
एतद् ब्रह्मकृतं कूर्चं पवित्रं च तथैव च ।
एवं हुत्वा ततः शेषं पापं ध्यात्वा समाहितः ॥
आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु ।
उद्धृत्य प्रणवेनैव पिबेच्च प्रणवेन तु ॥
एतद् ब्रह्मकृतं कूर्चं मासि मासि चरेद् द्विजः ।
सर्वपापैर्विशुद्धात्मा स्वर्गलोकं स गच्छति ॥
यत्त्वगस्थिगतं पापं देहे तिष्ठति देहिनाम् ।
ब्रह्मकूर्चो दहेत्सर्वं प्रदीप्ताग्निरिवेन्धनम् ॥ इति ।
बुद्धिपूर्वेऽबुद्धिपूर्वे साधारणमिदम् । तथा च मनुः—
तं चेदभ्युदियात्सूर्यः शयानं कामकारतः ।
निम्लोचेद्वाऽप्यविज्ञानाज्जपन्नुपवसेद्दिनम् ॥ इति ।
दिनमित्युपलक्षणं निम्लोचने रात्रिमुपवसेदिति । अभयरोगस्थ इति जाबालिवचनाद्द्वये रोगे च प्रायश्चित्तं न भवति ॥ २१ ॥
सूर्योदय के समय सोते रहने पर ब्रह्मचारी दिन भर मौन रहकर उपवास करते हुए खड़ा रहे और सूर्यास्त के समय सोने पर रात्रि भर गायत्री मन्त्र का जप करता हुआ एक ही स्थान पर खड़ा रहे ॥ २१ ॥
अशुचिं दृष्ट्वाऽऽदित्यमीक्षेत प्राणायामं कृत्वा ॥ २२ ॥
अशुचिश्चण्डालादिः । तं दृष्ट्वा प्राणायाममेकं कृत्वा सूर्यमीक्षेत । जपादिनियमकाल इदं ब्रह्मचारिणः ।
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।
सौर्यान्मन्त्रान्यथोत्साहं पावमानीश्च शक्तिः ॥
इति मानवं नैष्ठिकादीनाम् । अशुचिदर्शने द्विजः प्रणवं जपेदिति जाबालिगृह्यवचनं गृहस्थविषयम् । अशुचिदर्शन आदित्यदर्शनं ब्राह्मण-
सानुवाद-मिताक्षरावृत्तिसहितानि २४७
दर्शनं गवामग्नेर्वेत्यौशनसं नियमकालादन्यत्र । जाबालिगृहे द्विजग्रहणा- च्छूद्रस्य न विधिर्न प्रतिषेधः ॥ २२ ॥
चण्डाल आदि अपवित्र व्यक्ति को देखने पर प्राणायाम करके सूर्य का दर्शन करे ॥ २२ ॥
अभोज्यभोजनेऽमेध्यप्राशने वा निष्पुरीषीभावः ॥ २३ ॥
नित्यमभोज्यं केशकीटावपन्नमित्यारभ्याभोज्यान्युक्तानि । तानि च बहुप्रकाराणि । जातिदुष्टानि लशुनादीनि । कालदुष्टानि पर्युषितादीनि । परिग्रहदुष्टान्युत्सृष्टादीनामन्नानि । संसर्गदुष्टानि केशकीटायुपहतानि । क्रियादुष्टान्याचमनोत्थानव्यपेतादीनि । तेषामभोज्यानां भोजने च । मेध्यं पवित्रम् । अमेध्यमपरिशुद्धं स्थानपात्रपाकस्पर्शप्रदात्रादिना । तेषाममेध्यानां प्राशने च निष्पुरीषीभावः कार्यः । यथा निष्पुरीषमुदरं भवति तथा कार्यम् ॥ २३ ॥
अभोज्य पदार्थ का भोजन करने पर तथा अपवित्र पदार्थ निगलने पर उस समय तक उपवास करे जबतक पेट पूर्णतः खाली न हो जाय ॥ २३ ॥
तत्कथम्—
त्रिरात्रावर[ म् ]भोजनम् ॥ २४ ॥
तिस्रो रात्रीर्न किञ्चिद् भुञ्जीत । न किञ्चित्खादयेत् । न किंचित्पिबेत् । एवं निष्पुरीषीभावोऽवाप्यते । अवरग्रहणाच्चतूरात्रादेरपि भावः( लाभः ) । परमेण सप्तरात्रम् । तथा चाऽऽपस्तम्बः-अभोज्यं भुक्त्वा नैष्पुरीष्यं तत्सप्तरात्रेणावाप्यत इति ॥ २४ ॥
इसके लिये वह कम से कम तीन दिन और रात तक उपवास करे ॥ २४ ॥
सप्तरात्रं वा स्वयंशीर्णान्युपभुञ्जानः फलान्यनति-
क्रामन् ॥ २५ ॥
शुध्यतीति शेषः । अथवा नोपवसेत् किंतु स्वयंशीर्णानि स्वयंपतितानि फलानि भुञ्जानोऽनतिक्रामन्नस्वादुफलोपलम्भे तदतिक्रमेण स्वादुफलान्तरग्रहणार्थमगच्छन्सप्तरात्रमेवं कुर्वन् शुध्यति ॥ २५ ॥
अथवा सात दिन-रात तक स्वयं गिरे हुए फलों को खाकर रहने से पवित्र होता है ॥ २५ ॥
प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च ॥ २६ ॥
तत्रैवाभोज्यप्रकरणे पञ्चनखाश्च शल्यकेत्यादिभिरष्टभिः सूत्रैर्यान्त्य-
२४८ गौतमधर्मसूत्राणि
भोज्यान्युक्तानि तेभ्यः प्राग्यान्यभोज्यानि नित्यमभोज्यमित्यादिभिरेकोन- विंशतिसूत्रैरुक्तानि तेषु भुक्तेषु च्छर्दयित्वा घृतं प्राश्य विशुध्यति । एवं च पूर्व्वकं प्रायश्चित्तद्वयं स्वभावदुष्टेषु पञ्चनखादिष्वेवावतिष्ठते । अत्र विष्णुः—मलानां मज्जानामन्यतरस्य प्राशने चान्द्रायणं कुर्य्याल्लशुनपला- ण्डुगृञ्जनतजविड्वराहग्रामकुक्कुटनरमांसभक्षणे च सर्वेष्वेतेषु द्विजा- तीनां प्रायश्चित्तं पुनः संस्कारः । बृहस्पतिः—अलेह्यानामपेयानामभक्ष्याणां च भक्षणे । रेतोमूत्रपुरीषाणां शुद्धिश्चान्द्रायणं स्मृतम् ॥ अङ्गिराः—अलेह्यानामपेयानामभक्ष्याणां च भक्षणे । रेतोमूत्रपुरीषाणामृषिकृच्छ्रो विशोधनम् ॥ पद्मोदुम्बरबिल्वानां कुशपर्णपलाशयोः । एतेषामुदकं पीत्वा तमेनैव विशुध्यति ॥ काश्यपः—लशुनपलाण्डुगृञ्जनकुकुटभक्षणे मेदःशुक्रपानेऽयाज्य- याजनेऽभोज्यभोजनेऽभक्ष्यभक्षणेऽगम्यागमने चैवं प्रायश्चित्तं ब्राह्मणेभ्यो निवेद्य षड्रात्रोपोषितश्चीर्णान्ते प्राच्यामुदीच्यां दिशि गत्वा यत्र ग्राम्य- पशूनां शब्दो न श्रूयते तस्मिन्देशेऽग्निं प्रज्वाल्य ब्रह्मासनमास्तीर्य तत्प्र- णीतेन विधिना पुनःसंस्कारमर्हति । सुमन्तुः—लशुनपलाण्डुगृञ्जनभक्षणे वीरश्राद्धे सूतिकाभोज्यान्नमधुमांसमूत्ररेतोमेध्याभक्ष्यभक्षणे सावित्र्यष्ट- सहस्रेण मूर्ध्नि संपातानवनयेत् । एतान्येवाऽऽतुरस्य भिषक्क्रियायामप्रति- षिद्धानि भवन्ति । यानि चान्यान्येवंप्रकाराणि तेष्वप्यदोषः। पलाण्डुं लशुनं चैव गृञ्जनं कवकं तथा । चत्वार्य्यज्ञानतो जग्ध्वा तप्तकृच्छ्रं चरेद् द्विजः ॥ मनुस्तु—छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या भुक्त्वा पतेद् द्विजः ॥ अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सांतपनं चरेत् । यतिचान्द्रायणं वाऽपि शेषेषूपवसेदहः ॥ संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः । अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ शातातपः—लशुनपलाण्डुगृञ्जनकुकुम्भरशरकवकामेध्यभक्षणे तप्तकृच्छ्रः । विष्णुः—वृन्ताककवकाशने सांतपनम् । पैठीनसिः—लशुनपलाण्डु गृञ्जन- भक्षणे प्राजापत्यम् । देवलः-अभक्ष्यभक्षणे कृच्छ्रम् । पैठोनसिः— अभक्ष्यभक्षणे तप्तकृच्छ्रम् । संवर्तः— अभोज्यभोजनं कृत्वा ब्रह्मक्षत्रविशां गणः ।
सानुवाद-मिताक्षरावृत्तिसहितानि २४९
गोमूत्रयावकाहारः सप्तरात्रेण शुध्यति ॥
**बृहस्पतिः—**पीत्वा शुक्लकषायाणि भुक्त्वा चान्नं विगर्हितम् ।
भवेदप्रयतो विप्रः कर्मणः स्यादधोगतिः ॥
**विष्णुः—**दधिवर्जितानि सर्वशुक्लानि चात्र प्राश्योपवसेदिति प्रकृतम् ।
**शङ्खः—**लोहितान्वृक्षनिर्यासान्ब्रश्चनप्रभवांस्तथा ॥
भुक्त्वा ऋबीसपक्वं ( ? ) च त्रिरात्रं तु व्रती भवेत् ।
**शङ्खलिखितौ—**सर्वासां द्विस्तनीनां क्षीरप्राशनेऽजावर्जमेतदेव । अत्र षड्रात्रमभोजनं चान्द्रायणं चेति प्रकृतम् । अनिर्दशाविगोक्षीरप्राशने तदहरभोजनं सचैलस्नानं च । शातातपः—
उष्ट्रीक्षीरमविक्षीरमन्नं च मृतसूतके ।
चोरस्यान्नं नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत् ॥
**पैठीनसिः—**अविखरोष्ट्रमानुषदुग्धप्राशने पुनरुपनयनं प्राजापत्यं च । **बौधायनः—**अवेः पयःपाने कृच्छ्रोऽन्यत्र गव्यात् । गवि त्रिरात्रोपवासः । शङ्खः—
अनिर्देशाया गोः क्षीरमाजं माहिषमेव च ।
गोश्च क्षीरं विवत्सायाः स्यन्दिन्याश्च तथा पयः ॥
संधिन्यमेध्यभक्षायाः पीत्वा पक्षव्रतं चरेत् ।
क्षीराणि यान्यपेयानि तद्विकाराशने बुधः ॥
सप्तरात्रव्रतं कुर्याद्यदेतत्परिकीर्तितम् ।
**सुमन्तुः—**एकशफोष्ट्रस्यन्दिन्यविक्षीरप्राशने गोमहिष्यजानां चानिर्दशाहानां क्षीरप्राशने त्रिरात्रं यावकस्त्रिषवणं च । **विष्णुः—**गोजाविमहिषीवर्जं सर्वपयांसि च तान्यप्यनिर्देशाहानि स्यन्दिनोसंधिनीविवत्साक्षीरं चामेध्यभुजश्च क्षीरं प्राश्योपवसेदिति प्रकृतम् । **हारीतः—**अनुक्तानां सत्त्वानां भक्षणेऽतिकृच्छ्रो ग्राम्याणां चान्द्रायणम् । यमः—
वराहैकशफानां च काककुक्कुटयोस्तथा ।
क्रव्यादानां च सर्वेषामभक्ष्या ये च कीर्तिताः ॥
मांसमूत्रपुरीषाणि प्राश्य गोमांसमेव च ।
श्वगोमायुकपीनां च तप्तकृच्छ्रं विशोधनम् ॥
उपोष्य द्वादशाहं वा कूष्माण्डैर्जुहुयाद् घृतम् ।
**वसिष्ठः—**श्वकुक्कुटग्राम्यसूकरकाकगृध्रभासवायसपारावतमानुष्काकोलूकानां मांसादने सप्तरात्रमुपवासो निष्पुरीषीभावो घृतप्राशनं पुनः संस्कारश्च कार्यः ।
२५० गौतमधर्मसूत्राणि
बिडालकाकाखूच्छिष्टं जग्ध्वा च नकुलस्य च । केशकोटावपन्नं च पिबेद् ब्रह्मसुवर्चलाम् ॥ केशकीटावपन्नं च स्त्रीभिः खादंस्तथैव च । श्वोदक्याभ्यां च संस्पृष्टं पञ्चगव्येन शुध्यति ॥ **यमः—**माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् । एतानि हस्तदत्तानि भुक्त्वा सांतपनं चरेत् ॥ **शङ्खः—**एकपङ्क्त्युपविष्टानां विषमं यः प्रयच्छति । यश्चैवाश्नात्ययं सर्वः कुर्याद् ब्रह्महणि व्रतम् ॥ **यमः—**ब्राह्मणक्षत्रियविशां शूद्राणां सहभोजनम् । प्राजापत्यं तप्तकृच्छ्रमतिकृच्छ्रं तथैव च ॥ चान्द्रायणमिति प्रोक्तं प्रायश्चित्तं क्रमेण तु । **शातातपः—**योऽगृहीत्वा विवाहाग्निं गृहस्थ इति मन्यते ॥ अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः । वृथापाकस्य भुक्त्वाऽन्नं प्रायश्चित्तं चरेद् द्विजः ॥ प्राणायामं त्रिरभ्यस्य घृतं प्राश्य विशुध्यति ।
**अङ्गिराः—**ब्रह्मक्षत्रविशां भुक्त्वा न दोषोऽस्त्यग्निहोत्रिणाम् ॥
सूतके शाव आशौचे अस्थिसंचयनात्परम् । चाण्डालः श्वपचः क्षत्ता सूतो वैदेहकस्तथा ॥ मागधायोगवौ चैव सप्तैतेऽन्त्यावसायिनः । अन्त्यावसायिनामन्नमश्नीयाद्यस्तु कामतः ॥ स तु चान्द्रायणं कुर्यात्तप्तकृच्छ्रमथापि वा । **यमः—**ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत् ॥ उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥ २६ ॥
यदि उपर्युक्त अभोज्य पदार्थों में पाँच नख वाले पशुओं से पहले गिनाये गये किसी पदार्थ का भोजन किया हो तो उसे उगल कर फिर घृत पीने पर शुद्धि होती है ॥ २६ ॥
आक्रोशानृतहिंसासु त्रिरात्रं परमं तपः ॥ २७ ॥
महापातकोपपातकयुक्तादन्यत्राऽऽक्रोशे सताऽसता वा दोषेणातिवादे साक्ष्यादिविषयादन्यत्रानृते तत्रोक्तत्वात् । प्राणिभ्योऽन्यत्र हिंसायाम् । प्राणिसूक्तत्वात् । एतेषु निमित्तेषु परमं तपः परमेण त्रिरात्रमनशनं ब्रह्मचर्यं कर्तव्यम् । परमग्रहणादेकरात्रादेरपि लाभः । तत्र ब्राह्मण आक्रोशे त्रिरात्रं, क्षत्रिये द्विरात्रं, वैश्य एकरात्रं, शूद्रेऽहरिति व्यवस्था । अनृतेऽ-
सानुवाद-मिताक्षरावृत्तिसहितानि २५१
प्येवम्। फलाफलाद्यपेक्षया ब्राह्मणादिस्वामिकेषु वृक्षादिषु हिंसायाम- प्येवम्। अत्र प्रजापतिः—
अनृते सोमपः कुर्यात्त्रिरात्रं परमं तपः। पूर्णाहुतिं वा जुहुयात्सप्त ते अग्न इत्यृचा॥ इति। अनृतोक्तौ ष्ठीवने च दन्तस्पर्शन एव च। पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत्॥ इति।
इदं परिहासादिनिमित्तानृतविषयम्। हारीतः—
प्रत्याश्रुत्यानृतं ब्रूयान्मिथ्या सत्यमथापि वा। स तप्तकृच्छ्रसहितं चरेच्चान्द्रायणव्रतम्॥
प्रजापतिः—मांसं भुक्त्वा ब्रह्मचारी पुनः संस्कारमर्हति।
अभ्यास ऐन्दवं चैव नैष्ठिको द्विगुणं चरेत्॥ वनस्थस्त्रिगुणं कुर्याद्यतिः कुर्याच्चतुर्गुणम्। मांसाशनेऽनृतोक्तौ च शवनिर्हरणे तथा॥ इति॥ २७॥
दोष देकर भर्त्सना करने, झूठ बोलने और दूसरे की हिंसा करने पर तीन दिन-रात का व्रत करे॥ २७॥
आक्रोशे विशेषः—
सत्यवाक्ये वारुणीमानवीभिर्होमः॥ २८॥
आक्रोशे सत्यवाक्ये सति वारुणीभिर्मानवीमिश्राऽऽज्यहोमः कर्तव्यः। त्रिरात्रं परममित्येव। “यत्किंचेदम्” “इमं मे वरुण” “तन्त्वा यामि” “अवते हेड” इति वारुण्यः। अग्निरुक्थे पुरोहित इत्यारभ्याध्यायपरिसमाप्तेर्मानव्य ऋच एकोनषष्टिर्मनुना दृष्टाः। तास्वन्त्याश्चतस्रो मक्षू देववत इत्याद्यास्तैत्तिरीयके सौमारौद्रयामिक्षौ धाय्यत्वेन विनियुक्ताः। असावादित्य इत्यस्मिन्ननुवाके मानवीऋचो धाय्ये कुर्यादिति। सूत्रकारोऽप्याह-मानवीऋचौ धाय्ये मक्षू देववत इत्येतासां द्वे इति। तत्रान्त्यभिरभिश्चतसृभिर्होम इत्येके। अन्ये तु ऋग्वेदपठिताभिः सर्वाभिमृग्भिरिति॥ २८॥
यदि आक्रोश सत्य हो तो मनु के वरुण-सूक्तों का उच्चारण करते हुए होम करे॥ २८॥
विवाहमैथुननमार्त्तसंयोगेष्वदोषमेकेऽनृतम्॥ २९॥
विवाहकाले कन्यावरयोरसत्स्वपि गुणेषु कथितेष्विदं ते दास्यामीति प्रतिश्रुत्याप्रदाने च न दोषः। तथा मैथुनसंयोग इदं ते दास्यामीत्युक्त्वा
२५२ गौतमधर्मसूत्राणि
मैथुने कृते तस्यादानेऽपि न दोषः । नर्म परिहासस्तत्संयोगेऽनृतवचने न दोषः । तद्यथा भोक्तुकामं गृहमागतं श्यालादिकं प्रत्युच्यते—एहि मन्य ओदनं भोक्ष्यसे भुक्तः सोऽतिथिभिरित्येवंप्रायम् । आर्तसंयोग आर्तस्य दुःखोपशमायामृतवचने न दोषः । तेनैतेषु निमित्तेष्वनृतवचनेषु न प्रायश्चित्तमिति ॥ २९ ॥
कुछ आचार्यों के मतानुसार विवाह, मैथुन, उपहास में तथा रोगी व्यक्ति को सान्त्वना देने के लिए असत्यभाषण का दोष नहीं होता ॥ २९ ॥
न तु खलु गुर्वर्थेषु ॥ ३० ॥
गुरुप्रयोजनेषु विवाहादिष्वप्यनृतं न वक्तव्यम् ॥ ३० ॥
गुरु के सम्बन्ध में विवाहादि किसी स्थिति में असत्य भाषण न करे ॥ ३० ॥
कस्माद्यतः—
सप्त पुरुषानितश्च परतश्च हन्ति मनसाऽपि गुरोरनृतं
वदन्नल्पेष्वप्यर्थेषु ॥ ३१ ॥
इत इत्यात्मानं निर्दिशति । आत्मानमारभ्य सप्त पुरुषान्पुत्रपौत्रादीन्परतश्च सप्त पुरुषान्पितृपितामहादीन्हन्ति पीडयति पापेन योजयतीति । मनसाऽपि गुरोरनृतं चिन्तयन्नल्पेष्वपि प्रयोजनेषु किमङ्ग महत्सु वाचा वदन्निति ॥ ३१ ॥
क्योंकि यदि वह छोटी बात के लिए मन से भी गुरु के प्रति असत्य भाषण करने पर सात पहले की पीढ़ियों तथा सात बाद की पीढ़ियों का नाश करता है ॥ ३१ ॥
अन्त्यावसायिनीगमने कृच्छ्राब्दः ॥ ३२ ॥
अन्त्यावसायिनीनां गमने मैथुनाचरणे कृच्छ्राब्दः प्रायश्चित्तं संवत्सरं प्राजापत्यविधिनाऽवस्थानम् । बुद्धिपूर्व इदम् ॥ ३२ ॥
निम्नवर्ण की स्त्री से संभोग करने पर एक वर्ष तक कृच्छ्र व्रत करे ॥ ३२ ॥
अमत्या द्वादशरात्रः ॥ ३३ ॥
कृच्छ्रे प्रकृते द्वादशरात्रग्रहणं पराकोपसंग्रहणार्थम् । तथा च—
अन्त्यजानां तु गमने भोजने च प्रमापणे ।
पराकेन विशुद्धः स्याद्भगवानङ्गिरा ब्रवीत् ॥ इति ।
इदमपि रेतःसेकात्प्रागेवोपरतस्य । ऊर्ध्वं तु वासिष्ठम्—द्वादशरात्र-
सानुवाद-मिताक्षरावृत्तिसहितानि २५३
मब्भक्षो द्वादशरात्रमुपवसेदश्वमेधावभृथं वा गच्छेत् । एतेन चाण्डाली- व्यवायो व्याख्यात इति ॥ ३३ ॥
अनिच्छा पूर्वक उपर्युक्त पाप करने पर बारह दिन-रात तक वही तप करे ॥ ३३ ॥
उदक्यागमने त्रिरात्र [ त्रिरात्रः ] ॥ ३४ ॥
उदक्यागमने सति ब्रह्मचर्यानशनादिना प्रायश्चित्तेन त्रिरात्रो गमयितव्यः । बुद्धिपूर्वे सकृद्गमन इदम् । अभ्यासे मानवम्—
अमानुषीषु गोवर्जमुदक्यायामयोनिषु ।
रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ॥ इति ।
अबुद्धिपूर्वे सकृद्गमने शातातपोक्तम् । अनुदकमूत्रपुरीषकरणे च काकस्पर्शने सचैलस्नानं महाव्याहृतिभिर्होमश्च । रजस्वलागमने चैवमिति । अभ्यासे वासिष्ठम्—रजस्वलागमने शुक्लम्ऋषभं दद्यात्कृष्णपिङ्गमिवि [ द्विरुक्तिरुक्तार्था ] ॥ ३४ ॥
मासिक धर्म के समय स्त्री से संभोग करने पर तीन दिन-रात वही व्रत करे ॥ ३४ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां तृतीयप्रश्ने पञ्चमोऽध्यायः ॥ ५ ॥
अथ तृतीयप्रश्ने षष्ठोऽध्यायः
रहस्यं प्रायश्चित्तं वक्ष्यते—
रहस्यं प्रायश्चित्तमविख्यातदोषस्य ॥ १ ॥
यस्य पापस्य दोषः परैर्न विख्यातस्तस्य प्रायश्चित्तं रहस्यं भवति। यथा परैर्न ज्ञायते तथा कर्तव्यमिति यावत्। यैर्विना यत्पातकं कर्तुं न शक्यते तद्व्यतिरिक्तैर्ज्ञातत्वं निषिध्यते। तेन पारदार्ये पतितसंवासे च तैर्ज्ञातत्वेऽपि वक्ष्यमाणं भवत्येव ॥ १ ॥
जिस व्यक्ति का पाप दूसरों को न ज्ञात हो वह गुप्त रूप से प्रायश्चित्त करे ॥ १ ॥
चतुऋचं तरत्समन्दीत्यप्सु जपेदप्रतिग्राह्यं प्रतिजिघृ-
क्षन्नप्रतिगृह्य वा ॥ २ ॥
जातिदुष्टस्य वा कर्मदुष्टस्य वा पुरुषस्य स्वभूतं स्वयंदुष्टं च कृष्णाजिनाद्यप्रतिग्राह्यम्। गत्यभावादप्रतिजिघृक्षन्नप्रतिग्रहीतुमिच्छंस्तरत्समन्दी धावतीति चतुर्ऋचं सूक्तमप्सु जपेत्। नाभिदघ्ने जले स्थित इत्येके। निमग्न इत्यन्ये। प्रतिगृह्य वा प्रतिग्रहात्पश्चाद्वा जपेत्। एवं तुल्यवद्विकल्पः। अन्ये प्रतिग्रहात्पूर्वमेवाप्रतिग्राह्यमिति ज्ञाते प्राग्जपः। पश्चाज्ज्ञाते पश्चाज्जप इति। अत्र मनुः—
प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम्।
जपंस्तरत्समन्दीयं मुच्यते मानवस्त्र्यहात् ॥ इति।
प्रजापतिः—
जपादिपूरणं कुर्यात्ख्यातदोषो द्विजोत्तमः।
रहःकृतस्य दोषस्य तत्तदेवाभ्यसेत्तथा ॥ इति।
इदमभ्यासविषयम् ॥ २ ॥
जिसने ऐसा निषिद्ध दान ग्रहण करने की इच्छा की हो अथवा ग्रहण किया हो वह जल में खडा होकर तरत् समन्दी आदि चार ऋचाओं का जप करे ॥ २ ॥
अभोज्यं बुभुक्षमाणः पृथिवीमावपेत् ॥ ३ ॥
नित्यमभोज्यं केशकीटावपन्नमित्युक्तम्। यदि गत्यभावे तदेव भोक्तुमिच्छति तदा पृथिवीमावपेन्मृदं प्रक्षिपेत्ततो भुञ्जीत ॥ ३ ॥
निषिद्ध भोजन करने की इच्छा होने पर उस पर धूल डाले ॥ ३ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि २५५
ऋत्वन्तरारमण उदकोपस्पर्शनाच्छुद्धिमेके ॥ ४ ॥
ऋतुमध्य आरमणं उदक्यागमनं उदकोपस्पर्शनात्सचैलस्नानाच्छुद्धिमाहुरेके । उदक्यागमने त्रिरात्र इति प्रकाशविषयम् । एकेग्रहणं परत्रापि संबध्यते ॥ ४ ॥
कुछ आचार्यों का मत है कि मासिक धर्म के समय स्त्री के साथ संभोग करने पर जलस्पर्श एवं वस्त्रसहित स्नान से शुद्धि होती है ॥ ४ ॥
स्त्रीषु ॥ ५ ॥
एके स्वस्त्रीषूदकोपस्पर्शनमन्यत्र त्रिरात्रं मन्यते । अपर आह--स्त्रीषु वडवाद्यास्वपि गोवर्जं मैथुन आचरित उदकोपस्पर्शनाच्छुद्धिमेके मन्यन्ते ॥ ५ ॥
कुछ आचार्यों का मत है कि यह नियम अपनी ही पत्नी के विषय में होता है ॥ ५ ॥
अथ ब्राह्मणवधे रहस्यम्—
पयोव्रतो वा दशरात्रं घृतेन द्वितीयमद्भिस्तृतीयं दिवादिष्वेकभक्तिको जलक्लिन्नवासा लोमानि नखानि त्वचं मांसं शोणितं स्नाव्यस्थि मज्जानमिति होमा आत्मनो मुखे मृत्योरास्ये जुहोमीत्यन्ततः सर्वेषां प्रायश्चित्तं भ्रूणहत्यायाः ॥ ६ ॥
भ्रूणहत्या ब्रह्महत्या । तस्याः प्रायश्चित्तमिदमुच्यते । आदित एकं दशरात्रं पयोव्रतः क्षीराहारः स्यात् । द्वितीयं दशरात्रं घृतेन वर्तयेत् । तृतीयमद्भिः । वाशब्दाद्धविष्यभोजनो वा । शक्तितो विकल्पः । एतेषु दिवसेष्वेकभक्तिकः पयःप्रभृति किमपि पूर्वोक्तं सकृदेवोपभुञ्जीत । कदा दिवादिषु प्रातःकालेषु न सायं न मध्याह्ने । जलक्लिन्नवासा एषु दिवसेष्वाद्र्रवासाश्च स्यात् । तथा होमाश्चाष्टौ प्रत्यहमाज्येन कर्तव्याः । तत्र मन्त्राः—लोमानि नखानि त्वचं मांसं शोणितं स्नाव्यस्थि मज्जानमिति । तेषां सर्वेषामात्मनो मुखे मृत्योरास्ये जुहोमि स्वाहेत्यन्ते प्रयोक्तव्यम् । जुहोतिचोदना स्वाहाकारप्रदानेति वचनात् । तद्यथा । लोमान्यात्मनो मुखे मृत्योरास्ये जुहोमि स्वाहा; नखान्यात्मनो मुखे मृत्योरास्ये जुहोमि स्वाहेत्येवंप्रकारा होमाः ॥ ६ ॥
श्रोत्रिय ( वेदज्ञ ब्राह्मण ) की हत्या के लिये रहस्य प्रायश्चित्त इस प्रकार है : दस दिन केवल दुग्धपान उसके बाद के दस दिन केवल घृतपान और